वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 151–160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 151–160

पृष्ठ 151

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२ शुक्लयजुर्वेदसंहिता [ अ. ५ । अर्थसिद्धमनूद्य जुष्टां त्वामाहरामि । किमर्थम्? देववीतये देवा व्यन्ति हविर्भक्षयन्त्यत्रेति चतुरस्रात् देववीतिर्यज्ञस्तदर्थम् साकल्येन हरणे सर्वाभ्यो दिग्भ्य प्रशंसति — चतुःस्रक्तेरिति । चतस्रः स्रक्तयो यस्य चात्वालस्य तस्मात् । एवैनां हरतीति । एवं शतपथेनापि पूर्वोक्त एवार्थः समर्थितो भवति पुरुषाणां तापोपशान्त्यर्थं अध्यात्मपक्षे तु — हे राजराजेश्वरि त्रिपुरसुन्दरि, त्वं तप्तायनी स्मृतिमात्रेण । यद्वा तप्तो तप्तानां नरो यामयते तापोपशान्त्यर्थं प्राप्नोषि । तथैव त्वं वित्तायनी वित्तार्थं निर्धनं पुरुषमयसीति वित्तायनी भवसि मामवतात् त्वामुपेत्येतरत्र दरिद्रो नरो यामयते वित्तार्थं सा तथोक्ता । हे देवि, नाथिताद् याचिताद् भयहेतोर्याचनकर्मणो । हे अग्ने, अङ्गानां रसभूतविमर्शभावापन्नप्र-याच्ञाऽनौचित्यात् । तथैव व्यथिताद् भयात् स्थानभ्रंशाच्च मामवतात् विन्देज्जानीयात्, तत्संवेदनेनैव सर्वज्ञता-काशाग्ने, यद्वा नभोनामाग्नि, न भातीति नभोऽदृश्यो दृग्रूपोऽग्निस्त्वां विदेद् नाम्ना एहि आगच्छ । यस्त्वमस्यां द्यैश्वर्याभिव्यक्तिसिद्धेः । एत्यागच्छति तत्तत्कार्यात्मनेत्यायुस्तेनायुना प्रसिद्धेन हृदये धारयामि । भगवत्या राजराजेश्वर्याः पृथिव्यामसि, यत्ते ऽनाधृष्टं नाम यज्ञियं रूपं तेन त्वा त्वामादधे उपास्यत्वेन कूटस्थप्रकाशात्मना भाति विम-प्रकाशाख्यं विमर्शाख्यं च रूपद्वयं विमर्शात्मना प्रपञ्चात्मना परिणमते । प्रकाशात्मना दिव्यं प्रभावात्मकं तेजस्तेन र्शात्मकं तत्तदात्मनोपेत्यायुनाम्ना प्रसिध्यति । तदेव अनाधृष्टं यज्ञियं यजनादिसम्बन्धि विन्देद् अनुजानातु वा । तथैव द्वितीयस्यां रूपेणाहं त्वामादधे । नभःसंज्ञकोऽदृश्योऽग्निः प्रकाशात्मकस्त्वा त्वां विदेद् तेनायुना प्रसिद्धेन, कार्यात्मना कारणस्य पृथिव्यामन्तरिक्षे तृतीयस्यां पृथिव्यां दिवि योऽसि तत्तद्रूपेण परिणतोऽसि प्रकाशाख्यः शिवस्त्वां विन्देदनुजानातु परिणतिस्थैर्यमेव कार्यस्यायुर्भवति, तेनायुना नाम्ना त्वामहमादधे । तेनैव रूपेण च तृप्तये । दिव्यभोगादिप्राप्त्या तात्कालिकी वा । किमर्थम्? देवानां द्योतनवतां जीवानां वीतये तात्कालिक्यै आत्यन्तिक्यै तृप्ति, ब्रह्मात्मज्ञानलक्षणसामरस्यप्राप्त्या चात्यन्तिकी तृप्तिर्भवति । विद्युदस्ति त्वा तां वेद्मि । तथा दयानन्दस्तु – ' हे विद्यां जिघृक्षो! यथाहं तेन यत् तृप्तायन्यस्यस्ति त्रिविधोऽग्निः वित्तायनी सर्वेषु लोकेषु बाह्याभ्यन्तरतो त्वमेनेनैतद्विद्यां मे मम सकाशादेहि प्राप्नुहीति रीत्या यः प्रसिद्धसूर्यविद्युद्रूपेण, तदेतत्सर्वं बालजनप्रतारणमेव, असङ्गतेः, वर्तते, तं विदित्वा विज्ञाप्य च सर्वैर्मनुष्यैः सर्वकार्यसिद्धिः सम्पादनीया ' इति ' तप्तानि स्थापनीयानि वस्तून्ययनं श्रुतिविरोधाच्च । शतपथश्रुतिसम्मतस्तु यज्ञपरोऽर्थ उक्त एव । पदार्थासङ्गतिश्चैवमूह्या— । किञ्च तथात्वेऽपि न निस्तार, चराचरेषु यस्याः सा विद्युत् ' इति, तदसङ्गतमेव, तत्पदेन स्थापनीयवस्तुग्रहणे मानाभावात् ? तस्याः सर्वसाधारण्यात् । न च तद्विद्या सर्वेष्वेव वस्तुषु विद्युतः सत्त्वात् । तत्र मेऽसीत्यर्थस्य कथं सार्थक्यम् जनों के शान्त्यर्थ आती हैं, धनप्रदान अध्यात्मपक्ष में यह अर्थ है - हे राजराजेश्वरि त्रिपुरसुन्दरि! आप तथा स्मृतिमात्र स्थानभ्रंश से दुःखतप्त से मेरी रक्षा करें । हे अग्निरूपा, दृष्टिरूपी के लिये निर्धन के पास आती हैं, भयात्मक यातना से मेरी रक्षा करें आइये । आप पृथिव्यादि प्रपंच में जिस रूप से अग्नि आपको जान ले | कार्यसिद्धि हेतु आने वाले अपने नामस्वरूप द्वारा आप से मैं आपको हृदय में धारण करता हूँ । नभो नामक हैं, उसी कूटस्थ प्रकाशात्मा यजनादि सम्बन्धी दिव्य प्रभावात्मक तेज के रूप तथा तृतीय द्युलोक में भी जीवों की तात्कालिक तथा अदृश्य प्रकाशात्मक अग्नि आपको प्राप्त करे । इसी प्रकार द्वितीय अन्तरिक्ष आत्यन्तिक तृप्ति के लिये प्रकाशात्मक शिव आपको प्राप्त करें । वस्तु ' इस अर्थ का ग्रहण करने में कोई प्रमाण स्वामी दयानन्द द्वारा प्रतिपादित अर्थ असंगत है । ' तप्त ' पद से ' स्थापनीय से दिव्य भोग की प्राप्ति कैसे होगी? चार्वाक की नहीं है । ' तप्तायनी ' पद का ' विद्युद्विद्या ' अर्थ भी प्रमाणरहित है । उसके दिव्य ज्ञान भोग किस प्रकार हो सकता है? ॥९ ॥

भाँति स्वर्गादि लोक का प्रामाण्य स्वीकार न करने वाले उस मत में यह

पृष्ठ 152

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.९ -१० ] वेदार्थपारिजात भाष्यसहिता १४३ मेऽस्तीत्यभिप्रायार्थकं तदिति वाच्यम्, तप्तायनीपदस्य विद्युद्विद्यापरत्वे मानाभावात् । त्वद्व्युत्पत्त्यापि तप्तायनीशब्दो विद्युत्परो न तु तद्विद्यापरः । ' वित्तानां भोगानां प्रतीतानां पदार्थानामयन्ती प्रापिका सा वित्तायनी ' इत्यपि न सम्यक्, विद्युतः सर्वपदार्थानां सर्वभोगानां वा प्रापकत्वायोगात्, प्रतीतायाः पृथिव्याः पार्थिवभोगानां च प्रापकत्वादर्शनात् । तथैव नाथितादैश्वर्यात् कथं रक्षणस्य प्रसङ्गः? ' सुसेवितोऽग्निः सूर्यः, नभो जलम्, ' नभ इति जलनामसु पठितम् ', प्रकाशं प्रयच्छन् मां व्यथितादवतात्, नाथितादैश्वर्याच्चावतात् ' इत्यप्यसङ्गतम्, ऐश्वर्यस्याकामयितव्यत्वापत्तेः । यदि तु नाथिता-दैश्वर्यदानाद्रक्षणमभीष्टम्, तर्हि व्यथितादित्यत्रापि तथा प्रसङ्गः स्यात् । ' हे अग्ने जाठरस्थ! अङ्गानां रस आयुना नाम्ना प्रसिद्धोऽस्ति, तं देववीतये दिव्यानां भोगानां प्राप्तये जानामि ' इति, तदप्यसङ्गतम्, आयुना नाम्ना जाठरस्थरसस्याप्र-सिद्धत्वात् । कथं च तज्ज्ञानेन दिव्यभोगप्राप्तिः? चार्वाकप्रायस्य स्वर्गादिलोकमनभ्युपगच्छतस्तव कोऽयं दिव्यो भोगः? ' सर्वत्रापि तथात्वं मम सकाशात् संजानीहि ' इत्यादिकमपि निर्मूलमेव । पृथिव्यामिति शब्दत्रयस्यार्थस्तु नोक्त एव, पृथिव्याः कक्षात्रयस्य प्रमाणसापेक्षत्वात् । यदपि — ' यथाहं तेन नाम्ना यदनाधृष्टं यज्ञियं नाम तेज आदधे, तथा तेन त्वा तं त्वमेतेनैनमस्मानन्विहि सर्वो जनश्चानुविन्देत् ' इत्यादिकमपि निर्मूलमेव, यज्ञस्य क्रियारूपस्य तेजोऽसिद्धेः । शिल्पविद्यायज्ञस्तु त्वत्कपोलकल्पितः क्वचिदपि शास्त्रेषु तदनुक्तेः । मन्त्रे त्वमादिशब्दाभावाद् यथाकथञ्चित् तदनुगु-णार्थवर्णनमसङ्गतमेव । वाचकलुप्तोपमालङ्कारकल्पनमप्यसङ्गतम्, ' न विधौ परः शब्दार्थः ' इति शाबरभाष्यविरोधात् । सर्वमेतन्निरर्थकं घटाटोपमात्रम्, दिव्य भोगादिप्राप्तिविज्ञानस्य दयानन्दीयेष्वविद्यमानत्वात् ॥९ ॥

स॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्य॑ः कल्पस्व स॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्य॑ शुन्धस्व सि॒ं-हा॒सि सपत्नसा॒ही दे॒वेभ्यः॑ शु॒म्भस्व ॥१० ॥

‘ सिंह्यसीति व्यूहत्युत्तरवेदिं शम्यामात्रीम् ' ( का.श्रौ. ५.३.२ ९ - ३० ) । व्याख्यातोऽयमपि सूत्रांशोऽतीतमन्त्र-व्याख्यानप्रसङ्गे । त्रयाणां मन्त्राणां वेदिर्देवता । ' द्वय्यो ह वा इदमग्रे प्रजा आसुः ' इत्युत्तरवेदिव्यवघारणविध्यर्थाख्यायि-कायामुक्तम् — आदित्याश्चाङ्गिरसश्च द्विविधा एव प्रजा आसुः । तेऽङ्गिरसः पूर्वे आदित्येभ्यः पूर्वभाविनो यज्ञं सम्भृतवन्तः । तेऽग्निमूचुः - हे अग्ने, त्वं न इमां श्वः सुत्यां परेद्युः क्रियमाणमभिषवमादित्येभ्यः प्रब्रूहि । अनेन सोमयज्ञेन नोऽस्मान् याजयेति । एवमुक्तोऽग्निरादित्येभ्यः पूर्वभाविनो वृत्तान्तं प्रोवाच । ते आदित्या आहूता एवं व्यचारयन् कथमङ्गिरस एवास्मान् याजयेरन् । ते विचार्येत्थमूचुः - वयं तु तुभ्यमङ्गिरोभ्योऽद्य क्रियमाणां सुत्यां प्रब्रूमः । तेषां तथा कुर्वतामस्माकं त्वं होता भव । अङ्गिरसस्तद्वृत्तान्तावगमायाग्निप्रतिनिधिमन्यं प्रेषितवन्तः । तेऽग्नयेऽन्वागताय चक्रुधुः । सोऽग्निरनिन्द्या वै मावृषत सोऽनिन्द्यैर्वृतो नाशकत् तमपक्रमितुम् । तस्मादु हानिन्द्यस्य वृतो नापक्रमेत् । एतेन सद्यः क्रियाङ्गिरस आदि-मन्त्रार्थ - हे वेदि! तुम सिंहनी के समान शत्रुओं का तिरस्कार करने वाली हो, देवताओं के उपकारार्थ उत्तर वेदि के रूप में समर्थ हो जाओ, देवताओं की प्रीति के निमित्त शुद्ध हो जाओ । हे उत्तरवेदि! तुम सिंहनी के समान शत्रुओं का तिरस्कार करने वाली हो । देवताओं की प्रीति के लिये सिकता ( बालू ) पड़ने से तुम शोभित हो जाओ || वेदि को शम्या से ठीक कर चारों ओर मध्य भाग में समान करे, मन्त्र पढ़ कर उसका प्रोक्षण करे और वेदि के कंकड़ आदि दूर करे || १० ॥ भाष्यसार -- ' सिंह्यसि ' इत्यादि कण्डिकान्तर्गत मन्त्रों का उत्तरवेदि के निर्माण, प्रोक्षण तथा मृत्तिका को फैलाने आदि कार्यों में विनियोग किया गया है । कात्यायन श्रौतसूत्र ( ५.३.२ ९ - ३२ ) में यह याज्ञिक विनियोग शतपथ ब्राह्मण के अर्थानुसार उल्लिखित है ।

पृष्ठ 153

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४४ शुक्लयजुर्वेदसंहिता 19.4 त्यानयाजयन् स सद्यःक्रीः । एकाहः सोमयागः सद्यःक्रीः । दीक्षासोमक्रयादीनां सद्यः क्रियमाणत्वात् ' सद्यःक्रीः ' इति नाम । तेभ्यः साद्यस्कयाजकेभ्यो वाचं दक्षिणात्वेन ते आदित्याः प्रादुः । तेऽङ्गिरसस्तान् प्रत्यगृह्णन् । निराकरणस्यायमभिप्रायो यदि स्वीकरिष्यामस्तर्हि त्यक्ष्यामः दक्षिणोत्तरकालमपि वाचोऽपेक्षितत्वात् । तथा सति यज्ञोऽदक्षिणः स्यात् । अथैभ्यः सूर्यं दक्षिणामानयन् । तं प्रत्यगृह्णन् तेभ्यो ह वाक् चुक्रोध केन मत्तः सकाशात् केन बन्धुना केन विशेषगुणेन एष सूर्यः श्रेयान् यदेनं प्रत्यग्रहीष्ट । उभयान् संयत्तान् देवासुरान् कलहायोद्यतानन्तरेण सोऽङ्गिरोभ्योऽपक्रान्ता वाक् सिंही भूत्वा आददाना समीपस्थं सर्वं जिघत्सन्ती चचार । उभयैरप्याहृता सती वाक् पूर्वं देवान् प्रत्येव उपावर्तमाना आगमनोत्कोचरूपं किञ्चिदर्थयामास । देवा अग्नेः पूर्वभाविनीमाहुतिमागमनोपाधिना प्राहुः 1 । सा देवानाह यां मया काञ्चनाशिषमाशासिष्यध्वे सावः सर्वा समर्धिष्यते । अग्नावुत्तरवेदेरुपरि धार्यमाणे सत्युत्तरवेदिं व्याघारयति । एतद्व्याघारणेन या आहुतिरपवृत्तायै वेदिरूपायै वाचे देवैः कल्पिता, सा कृता भवेदिति ( श. ३.५.२.१३-२३ ) । मन्त्रार्थस्तु - हे उत्तरवेदे, त्वं सिंह्यसि त्वं सिंहसमाना भूत्वा सपलसाही सपत्नान् सहत इति सपत्नसाही शत्रूणामभिभवित्री भवसि अतो देवेभ्यो देवोपकारार्थं कल्पस्व समर्था भव । ' प्रोक्षत्युत्तरवेदिं सिकताश्च प्रकिरति सिंह्यसीति प्रतिमन्त्रम् ' ( का.श्रौ. ५.३.३३ ) । हे उत्तरवेदे, त्वं शुन्धस्व शुद्धा भव । सिकताप्रक्षेपेण शुम्भस्व शोभिता भव । शुम्भतिरलङ्कारार्थः । शतपथे च-- ' अथानुव्यूहति । सिंह्यसि सपत्नसाही देवेभ्यः कल्पस्वेति सा यदेवादः सिंही भूत्वा शान्तेवाचरत्तदेवैनामेतदाह सिंह्यसीति सपलसाहीति त्वया वयं सपत्नान् पापीयसः क्रियास्मेत्येवैतदाह देवेभ्यः कल्पस्वेति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यः कल्पयति ' ( श. ३.५.१.३३ ) । अनुक्रमेण कुर्यात् सिंह्यसीति मन्त्रेण । मन्त्रस्य तात्पर्यमाह - हे व्यूह्यमाने वेदे, त्वं सिंही असि । त्वया व्यूहनं वयं मृत्प्रसारणमनुव्यूहनं सपत्नान् क्रियास्मेति । पापीयसः अध्यात्मपक्षे तु - हे त्रिपुरसुन्दरि, त्वं सिंही असि सिंहवद् दैत्यदानवमृगान् हंसि । सपलसाही दुर्दान्तान् मधुकैटभ - महिषासुर - शुम्भनिशुम्भ - भण्डासुरादीन् सोढुं शीलमस्याः सा सपत्नाभिभवित्री असि । सा सपत्नान् त्वम-स्माभिरभ्यर्थ्यमाना देवेभ्यो देवानां दिव्यगुणसम्पन्नानां त्वदुपासकानां चार्थाय कल्पस्व स्वर्गापवर्गादिसम्पादनसमर्था भव । शुन्धस्व देवान् भक्तान् शोधयस्व तत्त्वज्ञानेन सर्वोपाधितादात्म्यबाधनादिना । णिजर्थोऽयं लक्षणया नेयः । अन्त-र्भावितण्यर्थो वा मन्तव्यः, नित्यशुद्धेऽन्यथानुपपत्तेः । सपलान् कामादिशत्रून् सोढुं शीलवती सपलसाही देवेभ्यो हिताय शुम्भस्व शोभिताऽलङ्कृता भव, अनन्तकल्याणगुणगणालङ्कृता सती तेषां हृदयकमले स्वात्मानं प्रकटय | दयानन्दस्तु - ' हे विद्वंस्त्वं सपलसाही सिंही वागस्यस्ति, तां देवेभ्यः कल्पस्व, तां देवेभ्यः शुन्धस्व तां देवेभ्यः शुम्भस्व । शिक्षाविद्यासंस्कृता सत्यभाषणा मधुरा त्रिविधा वाग् मनुष्यैः सर्वदा कार्या ' इति, तदपि यत्किञ्चित्, मन्त्रार्था-अध्यात्मपक्ष में यह अर्थ है - हे त्रिपुरसुन्दरि देवि, आप सिंह के समान दैत्यदानवरूपी पशुओं का हनन करती दुर्दान्त शत्रुओं को, मधु - कैटभ, महिषासुर, शुम्भ निशुम्भ आदि को पराभूत करने वाली हैं । हमारे द्वारा हैं तथा देवों तथा आपके भक्तों के लिये स्वर्गापवर्ग आदि पदार्थों के सम्पादन में समर्थ हों । तत्त्वज्ञान प्रार्थित आप दिव्यगुणसम्पन्न कामादि शत्रुओं को विनष्ट करने वाली आप देवों के हितार्थ सुशोभित, अलंकृत हों । अनन्त के कल्याणगुणों द्वारा भक्तों को विशुद्ध करें तथा होकर उनके हृदयकमल में स्वयं को प्रकट करें । के समूह से अलंकृत स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में विद्या, बुद्धि आदि के द्वारा भी दोषों को विनष्ट आदि के द्वारा भी सिंचन किये जाने के कारण, इनमें भी ' सिंही ' शब्द का प्रयोग प्राप्त हो जायगा करने के कारण, तथा क्यारी । इस मन्त्र में ' हे विद्वन् '

पृष्ठ 154

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.१०-११ ] वेदार्थपारिजात भाष्यसहिता १४५ ननुगमात् । यत्तु — ‘ हिनस्ति दोषान् यया सा सिंही, सिञ्चत्युच्चारयति यया वा सा सिंही ' इति, तदपि तुच्छम्, विद्या-बुद्ध्यादिभिरपि दोषाणां हिंसनात् कुल्यादिभिश्च सिञ्चनात् तत्र तथा प्रयोगापत्तेः । ' हिंसेः सिंहः ' इति महाभाष्योक्तिस्तु शब्दसाधुत्वाय, न वागर्थत्वप्रतिपादनाय । यदपि — ' देवेभ्यो विद्यां चिकीर्षुभ्यः कल्पस्व अध्यापनोपदेशाभ्यां समर्थय ’ इति, तदपि न सङ्गतम्, विद्वांस एव देवा इति त्वदभ्युपगमविरोधात् । यदि देवशब्दस्य दिव्यगुणा अर्थस्तदा विद्यां चिकीर्षुभ्य इति कस्य शब्दस्यार्थ इति वक्तव्यम् । किञ्च, कल्पस्वेति न णिजन्तप्रयोगः तथा च तस्य विवरणं समर्थ-येत्यसङ्गतमेव । किञ्च, नात्र विद्वन्निति सम्बोधनपदं दृश्यते । वाक् च त्वद्रीत्या जडेति न सम्बोध्या । न वाध्यापनोपदेशाभ्यां कञ्चित्समर्थयितुं शक्नोतीति वृथैव प्रलपनम् ॥१० ॥

इ॒न्द्र॒हो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात्पा॑तु॒ मनो॑ज॒वास्त्वा पि॒तृभि॑-द॑क्षिण॒तः पा॑तु॒ वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्त॒र॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्बहिर्धा य॒ज्ञान्निःसृ॑जामि ॥ ११ ॥

‘ वेद्यन्तरे स्थित्वोदङ्ङुत्तरवेदिं प्रोक्षतीन्द्रघोषस्त्वेति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गम् ' ( का. श्रौ. ५.४.१० ) । वेदि-द्वयमध्ये स्थित्वा उदङ्मुखोऽध्वर्युश्चतुर्भिर्मन्त्रैर्यथालिङ्गमुत्तरवेदिं प्रोक्षेत् ॥ ' घोष इति वाङ्नामसु पठितम् ' । इन्द्रशब्दवाच्यो देवः । यद्वा इन्द्र इति शब्देन घुष्यते विस्पष्टं कथ्यते यो देवः सोऽयमिन्द्रो देवः, वसुभिरष्टसंख्याकैर्गणदेवैर्युक्तः, स देवः पुरस्तात् पूर्वस्यां दिशि त्वां पातु रक्षतु । अथ द्वितीयो मन्त्र:: -- -: प्रचेताः प्रकृष्टज्ञानो वरुणस्त्वां रुद्रैरेकादशसं-ख्याकैर्गणदेवैः सहितः पश्चात् प्रतीच्यां दिशि पातु । मनोजवा मनोवदत्यन्तवेगयुक्तो यमो देवः पितृभिरग्निष्वात्तादिपितृगणैः स्वर्लोकवासिभिर्देवताविशेषैर्युक्तो दक्षिणस्यां दिशि त्वां पातु । विश्वकर्मा विश्वानि जगदुत्पत्त्यादिविषयाणि कर्माणि यस्यासौं विश्वकर्मा, विश्वं वा कर्म रचना यस्य सोऽसौ देव आदित्यैर्द्वादशादित्यैः सह युक्त उत्तरस्यां दिशि त्वां पातु । अत्र सायणाचार्य: -उत्तरवेदिशब्दोदिता देवता यदा देवान् प्राप्नोति, तदानीमसुरा देवान् हन्तुमुद्यताः समागताः । तस्मि-नवसरे देवसेनाधिपतय इन्द्रघोषादयश्चतसृषु दिक्षु तानसुरानपाकुर्वन् । तस्मादेतैर्मन्त्रैर्दिक्चतुष्टये रक्षा प्रार्थनीया । तदे-तदाह तित्तिरिः – ' देवांश्चेदुत्तरवेदिरूपाववर्ती हैव विजयामहा इत्यसुरा वज्रमुद्यम्य देवानभ्यायन्त । तामिन्द्रघोषो वसुभिः पुरस्तादपानुदत ' इति, ‘ दक्षिणांससहितं बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारिति ' ( का. श्रौ ५.४.११ ) । प्रोक्षणशेषमुदकं दक्षिणांससंलग्नमेव वेदिबहिः प्रदेशे ( अग्निकोणे ) निनयेत् । तत्रेदमहं तप्तं वारुदकं बहिर्धा यज्ञान्निःसृजामीति पठेद-इस प्रकार सम्बोधन पद नहीं है । उनके मत में वाक् के जड़ होने के कारण वह सम्बोधित नहीं की जा सकती । अतः यह निरर्थक है ॥१० ॥

मन्त्रार्थ - हे उत्तरवेदि! इन्द्र नाम से प्रसिद्ध देवता आठ वसुओं के साथ पूर्व दिशा में तुम्हारी रक्षा करें । वरुण देवता ग्यारह रुद्रों के साथ पश्चिम दिशा में तुम्हारी रक्षा करें । मन के समान वेगवाले यम देवता दिव्य पितरों के साथ दक्षिण दिशा में तुम्हारी रक्षा करें । विश्वकर्मा बारह आदित्यों के साथ उत्तर दिशा में तुम्हारी रक्षा करें । मैने असुरों के निवारण के लिये जिस जल से वेदि का प्रोक्षण किया है, उस अग्राह्य जल को अब यज्ञ की वेदि के बाहर डालता हैं ॥ इस मन्त्र से वेदि की चारों दिशाओं में जल द्वारा मार्जन किया जाता है और मार्जन से बचे जल को बाहर फेंक दिया जाता है ॥ ११ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ५.४.१०-११ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' इन्द्रघोषस्त्वा ' इस कण्डिका के मन्त्रों से प्रत्येक दिशा में उत्तरवेदि का प्रोक्षण किया जाता है तथा शेष बचे हुए जल को वेदि के बाहर गिराया जाता है । शतपथ ब्राह्मण में इस याज्ञिक प्रक्रिया के अनुसार अर्थ उपदिष्ट है ।

पृष्ठ 155

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६ शुक्लयजुर्वेदसंहिता [ अ.५ भिचरंश्चेदध्वर्युः । असुरनिवारणाय येनोदकेन प्रोक्षणं क्रियते, तदुग्ररूपत्वात् तप्तमित्युच्यते व्युत्सादनतस्तस्मिन् सन्तापप्राप्तेः सम्भवादवशिष्टमम्भस्तप्तं भवति । तादृशमिदं वाः वारि एतदुदकं । वेद्याः सिंहीरूपायाः क्रौर्य-मनुष्ठाता यज्ञाद् बहिर्धा यज्ञप्रदेशाद् बाह्यस्थले निःसृजामि निःसारयामि । प्रोक्षणशेष भूतमह-तदेतत्सर्वं शतपथे स्पष्टमुक्तम् । तथाहि - ' प्रोक्षणीरध्वर्युरादत्ते । स पुरस्तादेवाग्रे प्रोक्षत्युदङ्ङुत्तिष्ठन्निन्द्रघो-षस्त्वा वसुभिः परस्तात्पात्वितीन्द्रघोषस्त्वा वसुभिः पुरस्ताद् गोपायत्वित्येवैतदाह ' ( श. ३.५.२.४ पश्चात् पात्विति प्रचेतास्त्वा रुद्रैः पश्चाद्गोपायत्वित्येवैतदाह ' ( श. ३.५.३.५ ), ' अथ दक्षिणतः ' ( श ), ' प्रचेतास्त्वा रुद्रैः प्रोक्षति ' ( श. ३.५.२.७ ) । निनेव्याया दक्षिणपूर्वस्रक्तेः स्पष्टप्रदर्शनाय पूर्वदिग्गतस्रक्तिद्वयोपन्यासः . ३.५.२.६ ), ' अथोत्तरतः परिशिष्यन्ते । त एते पूर्वे स्रुक्ती तयोर्या दक्षिणा ता न्यन्तेन बहिर्वेदि निनयतीदमहं तप्तं वार्बहिर्धा । ' अथ याः प्रोक्षण्यः सा यदेवादः सिंही भूत्वाऽशान्तेवाचरत्तमेवास्या एतच्छुचं बहिर्धा यज्ञात्रिःसृजति यदि नाभिचरे यज्ञान्निःसृजामीति तप्तं वारमुमभिनिःसृजामीति तमेतया शुचा विध्यति स शोचत्रेवानुं लोकमेति ' ( श. दादिशेदिदमहं प्रोक्षणी, न्यन्तेन अत्यन्तान्तदेशेन । तत्रापि स्रक्त्यन्ते प्रोक्षणीये शेषनिनयनप्रसक्तावाह - ३.५.२.८ ) । ता न्यन्तेनेति ताः मिच्छेत् ततो यज्ञाद्बहिःस्थानेऽमुमभिनिःसृजामीति । अमुमित्यत्र द्वेष्यस्य नाम गृह्णीयात् बहिर्वेदीति । सोऽभितप्तः । यद्यभिचारं कर्तु-लोकमेति, दुःखेन प्राणान् जहातीत्यर्थः । शोचत्रेवामुं अध्यात्मपक्षे तु — युद्धोद्यताया भगवत्या भक्ता भक्त्या सर्वतो रक्षां कुर्वन्ति । इन्द्रघोषस्त्वा पातु । यद्वा देवब्राह्मणादिरक्षणार्थं वनाय गन्तुमुद्यतं भगवन्तं रामं कौसल्या वात्सल्येन रक्षां विदधाति वसुभिः पुरस्तात् वसुभिः पुरस्तात् पातु । प्रचेता रुद्रैः सह पश्चात् पातु । मनोजवा मनोगतिर्यमः पितृभिः सह त्वां - इन्द्रघोषस्त्वा विश्वकर्मा ब्रह्मा आदित्यैः सह त्वामुत्तरतः पातु । इदमहं मन्त्रैरभिमन्त्रितं यज्ञाद् देवार्चनदानादिलक्षणाद्यागात् दक्षिणतः पातु । ब्राह्मणानां तपोभिर्जुष्टमुग्रं वाः वारि बहिर्धा त्वद्रक्षणार्थं निःसृजामि निक्षिपामि । यद्वा तप्तं बहिर्धा चतुर्दिक्षु प्रक्षिपामि । यज्ञाद् यज्ञमयात् त्वच्छरीराद् दयानन्दस्तु– ' हे मनुष्याः, यथा प्रचेता इन्द्रघोषो विश्वकर्माहं यज्ञादिदमन्तःस्थमुदकं तप्तं बहिर्धा वर्तमानं शीतलं वा उदकं च निःसृजामि तथा यूयमपि कुरुत । या वसुभिः सह वर्तमानेन्द्रघोषो वागस्ति तथा भवानपि पातु । या रुद्रैः सह वर्तमाना प्रचेता वागस्ति तां पश्चात् पालयामि त्वा तां पुरस्ताद्रक्षामि सह वर्तमाना मनोजवा वागस्ति तां दक्षिणतोऽवामि, तथा भवानपि पातु । या आदित्यैः तथा भवानपि पातु । या पितृभिः सह वर्तमाना वागस्ति, अध्यात्मपक्ष में यह अर्थ है- भक्तगण भक्ति के कारण युद्ध के लिये उद्यत भगवती करते हैं । अथवा देवब्राह्मणादि की सुरक्षा के लिये वन जाने के लिये उद्यत भगवान् के प्रति सर्वतः रक्षा का प्रतिपादन कौसल्या इस प्रकार कहती हैं - इन्द्र नामक देव वसुओं के साथ पूर्व में तुम्हारी रक्षा राम की रक्षार्थ वात्सल्य के कारण माता पश्चिम में तुम्हारी रक्षा करें । मन के समान वेगवान् यम पितृगणों के साथ दक्षिण में तुम्हारी करें । प्रकृष्ट ज्ञानवान् वरुण रुद्रों के साथ आदित्यों के साथ उत्तर में तुम्हारी रक्षा करें । मैं यह मन्त्रों से अभिमन्त्रित, यज्ञ से अथवा रक्षा करें । जगत् के रचयिता विश्वकर्मा तप से प्रदीप्त, उम्र बलवान् जल रक्षा के लिये प्रक्षिप्त करती हूँ, अथवा यज्ञमय तुम्हारे शरीर से बाहर चारों दिशाओं में गिराती हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ मन्त्रगत अक्षरों से असम्बद्ध होने के कारण उचित पर ' इन्द्रघोष ' पद का स्त्रीलिङ्गत्व आपतित होगा । इन्द्र शब्द के वेदपरक होने में भी प्रमाण नहीं है । वाणी का बोधक होने कैसे हो सकता है? उन उन वाणियों के लिये पूर्व आदि दिशाओं से क्या भय है, जिससे नहीं रक्षा है । ' पितरः ' शब्द का अर्थ ज्ञानीगण अपेक्षित है ॥ ११ ॥

पृष्ठ 156

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ११-१२ ] वेदार्थपारिजातभाष्यसहिता १४७ तामुत्तरतो रक्षामि, तथा भवानपि पातु । भावार्थस्तु — मनुष्यैर्वसुरुद्रादित्यपितृभिः सेवितां यज्ञाधिकृतां वाचमुदकं च विद्यया सत्क्रियया सह सेवित्वा शुद्धं निर्मलं च सततं भावनीयम् ' इति, तदेतत्सर्वं यत्कञ्चित्, मन्त्राक्षरासम्बद्धत्वात् । यदुक्तम् — ‘ इन्द्रस्य परमेश्वरस्य वेदाख्याया विद्युतो वा घोषो विविधशब्दार्थसम्बन्धो यस्य यस्या वा सा वाग् ' इति, तत्तुच्छम्, वाचो बोधकत्व इन्द्रघोषेति स्त्रीलिङ्गत्वापत्तेः । इन्द्रशब्दस्य परमेश्वरार्थकत्वे सम्भवत्यपि वेदपरत्वे माना-भावात् । यद्यपि वाङ्नामसु घोषशब्दस्य पाठाद् वागर्थत्वं सम्भवति, तथापि शब्दार्थसम्बन्धपरत्वं निर्मूलमेव । एवमेव वसुभिरग्न्यादिभिः कृतचतुर्विंशतिवर्षब्रह्मचर्यैव सह वर्तमानेत्यप्यसङ्गतम्, वाचोऽग्निपृथिवीवाय्वन्तरिक्षादित्यद्युचन्द्र-नक्षत्राख्यैर्वसुभिः सहभावानिरूपणात्, वसुपदस्य कृतचतुर्विंशतिवर्षब्रह्मचर्यार्थत्वे मानाभावात् । तथैव प्रकृष्टविज्ञानाया वाचः प्राणैः कीदृशः सम्बन्धः? इन्द्रघोषायास्तैः कथं सम्बन्धाभावो निश्चीयते? इन्द्रघोषया प्रकृष्टतया न चेतन्ति तर्हि कथमन्यया प्रकृष्टतया चेतन्ति जना येन सा वाक् प्रचेताः स्यात् कथं च रुद्रपदस्य कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्यार्थता? मनोजवा वाक् कथं भवति? कथं च तस्या ज्ञानिभिः सम्बन्धः? कथं च कृताष्टाचत्वारिंशद्वर्षब्रह्मचर्यैः सम्बन्धः? पितर इत्यस्य पदनामसु पाठेऽपि ज्ञानिन इति कथं तदर्थः? ताभिस्ताभिर्दिग्भिरपि तस्यास्तेषां च कः सम्बन्धः, येने-न्द्रघोषादयस्तत्सहभाविनश्च पूर्वादिभ्यो रक्षन्ति? एवमेव ' विश्वानि सर्वाणि कर्माणि यस्या यस्य वा ' इत्यपि यत्किञ्चित्, चक्षुःश्रोत्रादिकर्मणां वाक्कर्मत्वायोगात् । आदित्यैर्मासैः कृताष्टाचत्वारिंशद्वर्षब्रह्मचर्यैः सहेत्यपि निर्मूलम् । किञ्च, सा वाक् कं पातु? पदार्थे तु ' त्वा तां पातु ' इत्युक्तम् । अत्र तामिति पदेन वागेव ग्राह्या, त्वद्रीत्या तस्या एव प्रकृतत्वात् । तर्हि कथं वागेव वाचं पातु? यदपि — ' इदमन्तःस्थमुदकमहं धर्मेणाध्ययनाध्यापनश्रमेण संतप्तं वाः बाह्यमुदकं बहिर्धा या बाह्ये देशे धारयति शब्दान् सा यज्ञाद् अध्ययनाध्यापनाद् होमलक्षणाद्वा निः नितरां सृजामि सम्पद्ये प्रक्षिपामि वा ' इति, तदपि तात्पर्यशून्यमेव, असङ्गतिश्च । ' इदमित्युदकनामसु ' ( निघ. १. १२ ) इदं वारित्युभयोः शब्दयोरुदकवाचकत्वेऽपि कथमेकस्यान्तःस्थमपरस्य बाह्यं जलमित्यर्थः? अन्वयरीत्या कथमन्तःस्थं तप्तं बहिर्धा शीतलमित्यर्थभेदः? यद्यन्तःस्थम-ध्ययनादिश्रमेण सन्तप्तं भवति, तदा बाह्यमपि सूर्यादिना तप्तं भवत्येव । यथाहं तथा यूयमपीति को वक्ति? परमेश्वरश्चेत् स कथमध्ययनाध्यापनश्रमवान् भवति, तस्य नित्यसर्वज्ञत्वात् । जीवश्चेत् कथं स परमेश्वरवदाभ्यन्तरं तप्तं बाह्यं शीतलं जलं स्रष्टुं शक्नोति । निःक्षेपेण च को लाभः? हिन्द्यां तु — ' यथा विश्वकर्माहं यज्ञात् पठनपाठनाभ्यां होमाद्वा इदमाभ्यन्तरं तप्तं जलं बहिर्धा बाह्यं शीतलं जलं सम्पादयामि निःक्षिपामि च तथैव भवानपि करोतु । अग्न्यादिपदार्थैः कृतचतु-र्विंशतिवर्षब्रह्मचर्यैर्मनुष्यैर्वर्तमानां परमेश्वरस्य जीवस्य विद्युतो वानेकसम्बन्धवाणीं यथा पूर्वदेशाद्रक्षामि, तथैव भवानपि पातु ' इति, को वास्य वाग्जालस्यार्थः? तासां तासां वाणीनां कृते पूर्वादिदेशेभ्यः किं भयम्, यतो रक्षणमपेक्षितम्? मूले तु — इन्द्रघोषस्त्वा वसुभिः पुरस्तात् पातु, प्रचेता रुद्रैः सह त्वा पश्चात् पात्विति सरलोऽन्वयो भाति ॥ ११ ॥

सि॒ह्य॑सि॒ स्वाहा॑ स॒ह्म॒स्यादित्य॒वनि॒ स्वाहा॑ सि॒ह्य॑सि ब्रह्म॒वनि॑ः क्षत्र॒वनि॒ स्वाहा॑ सिंह्यसि सुप्रजा॒वनी ' रायस्पोष॒वनि॒ स्वाहा॑ सि॒ह्म॒स्याव॑ दे॒वान्यज॑मानाय॒ स्वाहा॑ भूतेभ्यस्त्वा ॥ १२ ॥

मन्त्रार्थ - हे उत्तरवेदि! तुम असुरों का भक्षण करने वाली हो, हम लोग तुम्हें यह शोभन आहति देते हैं । हे उत्तरवेदि! तुम आदित्यों को प्रसन्न करने वाली सिंहिनी हो, तुम्हारे लिये हम यह शोभन आहति देते हैं । हे उत्तरवेदि! तुम ब्राह्मण - क्षत्रियों को प्रीति देने वाली हो, सिंहिनी के समान पराक्रमी हो, हम यह सुन्दर आहति तुम्हें देते हैं । हे उत्तरवेदि! तुम अच्छी प्रजा

पृष्ठ 157

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४८ शुक्लयजुर्वेदसंहिता [ अ. ५ से मध्ये च हिरण्यं पश्यन् ' नाभ्याः श्रोण्यं सेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेंऽ से श्रोण्यां उपविश्य श्रोण्यामं नाभ्याः श्रोणिद्वये, अंसद्वये, मध्ये च सिंह्यसीति प्रतिमन्त्रम् ' ( का. श्रौ. ५.४.१२ ) । अध्वर्युरुत्तरवेदेरुत्तरत जुहुयात् । आदौ नाभेर्दक्षिणेंऽ से तत उत्तरश्रोण्यां निहितं सुवर्णं विलोकयन् अक्ष्णया कौटल्येन जुह्वां पञ्चवारं गृहीतमाज्यं तदेतत्कौटल्य ( वक्रता ) प्रकारं विस्पष्टमाह— ततो दक्षिणश्रोण्यां तत उत्तरेंऽसे ततो मध्य इति सूत्रार्थः । आपस्तम्बोऽपि वाग्रूपा वेदिदेवता केनापि निमित्तेन देवेभ्योऽपा-' दक्षिणमंसमुत्तरां श्रोणि दक्षिणामुत्तरांसमध्यम् ' इति । पुरा पूर्वोक्तप्रकारेण तस्थौ । तेभ्य उत्तरवेदिः सिंहीरूपं कृत्वो भयानन्तरा क्रम्य तदानीमसुरान् प्राप्य देवासुरसेनयोर्मध्ये सिंहरूपं धृत्वा सिंही असि सिंहरूपा भवसि । तादृश्यै तुभ्यं प्रक्रम्यातिष्ठदिति शतपथोक्तवृत्तान्तस्तु पूर्वमेवोक्तः । हे उत्तरवेदे, त्वं वनुते सम्भजते प्रीणयति वेत्यादित्यवनिः । नमः । स्वाहा हविः सुहुतमस्तु । सिंही असि । आदित्यवनिर् । आदित्यान् सिंही असि सुप्रजावनिः पुत्रपौत्रादिरूपायाः शोभनायाः सिंही असि ब्रह्मवनिः क्षत्रवनिर्ब्राह्मणक्षत्रियजात्योः प्रीणयित्री तादृश्यै तुभ्यं स्वाहा । सिंही असि प्रजायाः सम्पादयित्री | रायस्पोषवनिः स्वाहा सुवर्णरजतादिधनपुष्टेः सम्पादयित्री । ' भूतेभ्यस्त्वेति स्रुचमुद्यच्छतीति ' ( का. आवह देवान् यजमानाय स्वाहा । यजमानोपकारार्थं देवानस्मिन् कर्मण्यानयेति त्वां भूतेभ्यो जरायुजाण्डजा-श्रौ. ५.४.१३ ) । होमार्थं नीचैः कृतां स्रुचमूर्ध्वं करोतीति । होमशैषाज्ययुक्ते हे तित्तिरिर्विस्पष्टं जुहूस्त्वा दर्शयति – ' भूतेभ्यस्त्वेति दिचतुर्विधभूतग्रामप्रीत्यर्थमुद्यच्छामीति शेषः । तमेतं मन्त्रार्थं विनियोगपुरःसरं तेन प्रीणामि ' इति । स्रुचमुद्गृह्णाति या एव देवतास्तास्तेषां तद्भागधेयं तानेव स्वशक्त्या अध्यात्मपक्षे तु — सैव राजराजेश्वरी मन्त्रेऽत्र स्तूयते - सिंही असि सिंहसदृशी शौर्याद्युपेता २.२.१० आदित्यान् ) इत्यादिश्रुतिभ्यः । तेजोदानेन प्रीणयसि । ‘ येन सूर्यस्तपति तेजसेद्धः ', ' तस्य भासा सर्वमिदं विभाति ' ( मुण्डको । ब्रह्मक्षत्रजात्योः प्रीणयित्री, तादृश्यै तुभ्यं स्वाहा स्वसर्वस्वं स्वं च समर्पयामि । सिंही असि, अज्ञानानैश्वर्यव्यापादिका असि । तस्यै तुभ्यं स्वाहा ब्राह्मक्षात्रतेजःप्रदानेन । सिंही असि, प्रजाप्राप्तिप्रतिबन्धहन्त्री पुत्रपौत्रादिशोभनप्रजासम्पादयित्री । यजमानोपकारार्थं देवानावहसि । त्वच्छक्त्यैव मन्त्रै-तत्तदुपचारानर्पयामि । सिंही असि सुवर्णादिधनपुष्टेः सम्पादयित्री भावः । देवानामावाहनं सिध्यति, मन्त्राणां देवानां च त्वच्छक्त्यैवोपोद्बलितत्वादिति दी हुई इस शोभन आहति को तुम स्वीकार करो । और धन- पुष्टि को देने वाली, पराक्रम में सिंहिनी के समान हो । हमारी को यहाँ पहुँचाओ । तुम्हारे लिये हम यह सुन्दर आहति हे उत्तरवेदि! तुम सिंहिनी के समान हो, यजमान के उपकारार्थ देवताओं के ऊपर ग्रहण करता हूँ, तुम जरायुज आदि के भाग देते हैं । हे घृतयुक्त जुह! सब प्राणियों की प्रीति के लिये तुमको वेदि में कुछ सुवर्ण रख कर अध्वर्यु जुहू में आज्य हो । इस मन्त्र को पढ़ते हए वेदि की दोनों श्रोणियों, दोनों अंशों तथा नाभि लेकर पाँच आहुतियाँ देता है ॥१२ ॥

कात्यायन श्रौतसूत्र ( ५.४.१२-१३ ) में भाष्यसार - ' सिंह्यसि स्वाहा ' इत्यादि कण्डिकान्तर्गत मन्त्रों का याज्ञिक प्रक्रिया विनियोग के अनुकूल अर्थ ही शतपथ ब्राह्मण में पाँच बार घृताहुति के प्रदान तथा स्रुव के उन्नयन में किया गया है । याज्ञिक उपदिष्ट है 1 है । आप सिंह के समान शौर्यादि से युक्त अध्यात्मपक्ष में यह अर्थ है —— इस मन्त्र में उन्हीं राजराजेश्वरी भगवती की महिमा की स्तुति से मंडित आपके लिये मैं अपने सर्वस्व को हैं तथा आदित्यों को भी अपने तेजःप्रदान से पुष्ट करती हैं । इस प्रकार ब्राह्म एवं क्षात्र तेज प्रदान करके मनुष्यों का पोषण करती तथा स्वयं को समर्पित करता हूँ । आप अज्ञान, अनैश्वर्य की नाशयित्री सन्ततियों हैं, की सम्पादिका हैं । मैं आपके लिये उन उन उपचारों हैं । आप प्रजा प्राप्ति के प्रतिबन्धों की नाशिका, पुत्र - पौत्रादि सुन्दर, भक्त के उपकारार्थ देवताओं को बुलाती है, आपकी शक्ति का समर्पण करता हूँ । आप सुवर्ण आदि धन की वृद्धि करने वाली हैं से ही मन्त्रों के द्वारा देवताओं का आह्वान सिद्ध होता है ।

पृष्ठ 158

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १२-१३ ] वेदार्थपारिजातभाष्यसहिता १४ ९ दयानन्दस्तु — ' अहं यादित्यवनिः सिंही स्वाहास्यस्ति, या ब्रह्मवनिः सिंही स्वाहास्यस्ति, या क्षत्रवनिः सिंही स्वाहास्यस्ति, या रायस्पोषवनिः सिंही या सुप्रजावनिर्या यजमानाय देवानावह प्रापयति, त्वा तां भूतेभ्यो यज्ञान्निः-सृजामि । मनुष्यैरध्ययनादिनेदृग्लक्षणां वेदादिवाणीं प्राप्यैतां सर्वेभ्यो मनुष्येभ्योऽध्याप्यानन्दयितव्यम् ' इति, तदपि यत्किञ्चित्, अक्षरार्थाननुगमात् । यदपि – ' अहं या मासानां सेविनी क्रूरत्वादिदोषनिवारिणी ज्योतिः संस्कारोपेता वागस्ति, या च परमात्मानं वेदं वेदज्ञान् मनुष्यान् सेवते, सिंहबलेन जाड्यापहाऽध्ययनाध्यापनव्यवहारोपेताऽस्ति, या च धनुर्विद्या तद्वतो मनुष्यान् सेवते, चौरादीनन्यायांश्च नाशयति, राज्यव्यवहारे कुशला वागस्ति, या च विद्याधनादिपोषिका अवि-द्याद्यपहन्त्री वागस्ति, या चोत्तमप्रजासेविनी दुःखनाशिनी व्यवहारेण धनप्रापयित्री वागस्ति, या च विद्वत्पूजकयजमानाय दिव्यविद्यासम्पन्ना दिव्यान् गुणान् भोगान् वा प्रापयन्ती वागस्ति, तां सर्वप्राणिभ्यो यज्ञात् सम्पादयामि ' इति, तदपि मन्दम्, व्यत्ययादिदोषबाहुल्यात्, मन्त्रे यज्ञान्निःसृजामीति पदाभावादनुवृत्तौ मानाभावाच्च । सिंही स्वयं क्रूरा सती कथं क्रूरत्वं नाशयिष्यति? सा च मासान् ब्रह्मक्षत्रादीन् कथं सेवते? सिद्धान्ते तूत्तरवेद्यधिष्ठात्री देवता तादृशी, माहाभा-ग्याद्देवतानाम् । ‘ यया ब्रह्मविदो मनुष्या ब्रह्म परमात्मानं वेदं वा वनन्ति सा यया क्षत्रं राज्यं धनुर्विद्यां शूरवीरान् पुरुषान् वा वनन्ति ' इत्याद्यपि तादृशमेव वाङ्मात्रेण तदसिद्धेः । ' पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥ ' इति नीतिविरोधाच्च, शतपथोक्तिविरोधाच्च ॥ १२ ॥

ध्रुवोऽसि पृथि॒वीं वृ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृंहाच्युत॒क्षिद॑सि॒ दिव॑ दृंहि॒ग्नेः पुरी -षमसि ॥ १३ ॥

‘ नाभिं पैतुदारवैः परिदधाति पूर्ववद् ध्रुवोऽसीति प्रतिमन्त्रम् ' ( का. श्रौ. ५.४.१४ ) । पीतुदारुशब्देन देवदारु-वृक्षविशेष उच्यते । यद्वा पीतुदारु उदुम्बरविशेषः । ' स यां वनस्पतिष्ववसत् तां पितुद्रौ ' ( तै. सं. ६.२.८.४ ) इति श्रवणात् पीतुदारुणोऽग्नेः शरीरत्वम् । तदीयैः परिधिभिर्मध्यदेशरूपां नाभि परिदध्यात् । पूर्ववद्दर्शपूर्णमासेष्टौ यथा पश्चिमदक्षिणोत्तरेषु, तथात्रापीति सूत्रार्थः । मन्त्रार्थस्तु — हे मध्यपरिधे, त्वं ध्रुवः स्थरोऽसि, अतः पृथिवीं दृह दृढीकुरु । ध्रुवक्षिदस्यन्तरिक्षं गृह, हे दक्षिणपरिधे, त्वं ध्रुवद् िध्रुवे स्थिरे क्षियसि निवससीति ध्रुवक्षित् तादृशोऽसि, तस्मादन्तरिक्षं दृढीकुरु । हे उत्तरपरिधे, त्वम् अच्युतक्षिदसि, अच्युते च्युतिरहितेऽविनाशिते यज्ञे क्षियसीत्यच्युतक्षिदसि यद्वा अच्युतं परैरच्यावितं यथा न चलति न क्षियत्यच्युतक्षित्, तस्माद् दिवं दृह द्युलोकं स्थिरीकुरु । ' अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेः स्तुकाश्चोपरि शीर्षण्या अभावेऽन्याः ' ( का. श्रौ. ५.४.१५ ) । नाभेरुपरि गुग्गुल्वादीन्निदध्यात् । गुग्गुलुशब्देन धूपार्थं मन्त्रार्थ - हे मध्यम परिधि! तुम स्थिर हो, यहाँ की पृथ्वी को दृढ़ करो । हे दक्षिण परिधि! तुम स्थिर यज्ञ में निवास करती हो, अन्तरिक्ष को दृढ़ करो । हे उत्तर परिधि! तुम अविनाशी यज्ञ में निवास करती हो, द्युलोक को दृढ़ करो । हे सम्भार! तुम अग्नि के पूर्णकर्ता हो । इस मन्त्र को पढ़ते हए देवदारु की तीन - तीन परिधियों के द्वारा उत्तर वेदि की नाभि से दर्शपौर्णमास इष्टि के समान पश्चिम, दक्षिण, उत्तर इन तीन दिशाओं में परिधियों और संभारों को स्थापित करे || १३ ॥ भाष्यसार — कात्यायन श्रौतसूत्र ( ५.४.१४-१५ ) में निर्दिष्ट याज्ञिक प्रक्रिया के विनियोग के अनुसार ' ध्रुवोऽसि ' इस कण्डिका के मन्त्रों से परिधियों का परिधान तथा गुग्गुलु आदि द्रव्यों का नाभिदेश पर निधान किया जाता है । याज्ञिक प्रक्रिया के अनुरूप ही मन्त्रों का अर्थ शतपथ ब्राह्मण में उपदिष्ट है । सायण, उव्वट तथा महीधर ने भी शतपथ- सम्मत व्याख्या की है 1

पृष्ठ 159

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० शुक्लयजुर्वेदसंहिता [ अ. ५ द्रव्यमुच्यते । सुगन्धितेजनं रोहितः । वृष्णेर्मेषस्य स्तुका रोमाणि । ताश्च शीर्ष्णि भवास्तदभावेऽशीर्षण्या अन्यस्मिन् मेषस्य शरीरप्रदेशे जाता; एतानि प्रक्षिपेदिति । हे गुग्गुलुप्रभृतिसम्भारसमूह, त्वमग्नेः पुरीषं पूरकमसि । पूरयतीति पुरीषम्, ' अग्नेर्ह्येतत्पुरीषं यत् संभारः ' इति तित्तिरिश्रुतेः । सम्भारनिवापोऽग्नेः सर्वत्वाय । गुग्गुल्वादीनामग्न्यवयवत्वं शतपथश्रुत्या स्पष्टमुक्तम् । तथाहि - ' तस्यामाघारयति । सिंह्यसि स्वाहेत्यथापरयोरुत्तरस्यां सिंह्यस्यादित्यवनिः स्वाहेत्यथापरयोर्दक्षिणस्यां सिंह्यसि ब्रह्मवनिः क्षत्रवनिः स्वाहेति बह्वी वै यजुःष्वाशीस्तद् ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये ' ( श. ३.५.२.११ ), ' अथ पूर्वयोरुत्तरस्यां सिंह्यसि सुप्रजावनी रायस्य निः स्वाहेति तत्प्रजामाशास्ते यदाह सुप्रजावनिरिति रायस्पोषवनिरिति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते ( श. ३.५.२.१-२ ), तद्वा एतदेकं कुर्वन् द्वयं करोति यदुत्तरवेदिं व्याघारयत्यथ यैषां मध्ये नाभिकेव भवति तस्यै ये पूर्वे स्रुक्ती तयोर्या दक्षिणा ' ( श. ३.५.२.१० ) । एकमुत्तरवेदिव्याघारणं कुर्वन् द्वयं व्याघारणं यजमानाशीराशासनं चेति द्वयं करोति । उत्तरवेदिमध्यङ्गतायाश्चतुःस्रक् रुत्तरनाभेर्दक्षिणया व्याघारप्रकार उच्यते - अथ यैषां मध्ये नाभिकेव भवति तस्या इति । तस्यै तस्या ये पूर्वे त्रक्ती ईशानाग्नेयदिग्गते, तयोर्मध्ये दक्षिणा सक्तिराग्नेयदिग्गता, तस्यां सिंह्यसि स्वाहेति व्याघारयति । अथापरयोर्नाभः पश्चाद्दिग्गतयोर्मध्ये उत्तरस्यां वायव्यदिगवस्थितायां स्रक्त्यामादित्यान् यजमानार्थं वनति भजत इत्यादित्यवनिस्तादृशी सिंह्यसि तुभ्यं सुहुतमस्तु | अथापरयोर्दक्षिणस्यां नैऋत्यकोणकोष्ठे । अत्र ब्रह्मक्षत्रोभयाशासनस्याभिप्रायमाह — यजुःषु आशीःपरेषु प्रायेण बह्वी आशीर्बहुविधान्याशासनान्युपलभ्यन्ते । अथ पूर्वयोरुत्तरस्यामीशानस्रक्त्यां सुप्रजावनिः शोभ-नपुत्रादिलक्षणप्रजासम्भक्तिः, रायस्पोषवनिर्धनपुष्टिः । ' अथ मध्ये आघारयति । सिंह्यस्यावह देवान् यजमानाय स्वाहेति तद्देवान् यजमानायावाहयत्यथ स्रुचमुद्यच्छति भूतेभ्यस्त्वेति प्रजा वै भूतानि प्रजाभ्यस्त्वेत्येवैतदाह ' ( श. ३.५.२.१३ ) । अथ नाभिव्याघारणमन्त्र: — ' अथ परिधीन् परिदधाति । ध्रुवोऽसि पृथिवीं दृंहेति मध्यमं ध्रुवक्षिदस्यन्तरिक्षं दृं हेति दक्षिणमच्युतक्षिदसि दिवं दृंहेत्युत्तरमग्नेः पुरीषमसीति सम्भारानुपनिवपति तद्यत्सम्भारा भवन्त्यग्नेरेव सर्वत्वाय ' ( श. ३.५.२.१४ ) । ‘ शरीरं हैवास्यै पीतुदारु । तद्यत् पैतुदारवाः परिधयो भवन्ति शरीरेणैवैनमेतत्समर्द्धयति कृत्स्नं करोति ' ( श. ३.५.२.१५ ) । मन्त्रस्तु व्याख्यात एव । शरीरं ह एव अस्य अग्नेः पीतुदारु उदुम्बरविशेष, ' स यां वनस्पतिष्ववसत् तां पितुद्रौ ' ( तै. सं. ६.२.८.४ ) इति श्रवणात् पीतुदारुणोऽग्नेः शरीरत्वम् । तद्यत् पैतुदारवाः परिधयो भवन्ति शरीरेणैवैनमग्नि समर्धयन्ति कृत्स्नत्वं सम्पादयन्ति । ‘ मांसं ह वास्य गुलगुलु । मांसेनैव तत्समर्धयति कृत्स्नं करोति ' ( श. ३.५.२.१६ ) । यथा पीतुदारु तस्याग्नेः शरीरं भवति, तथैव गुल्गुलु तस्य मांसं भवति, ' यन्मां समुपस्रुतं तद् गुल्गुलु ' ( तै. सं. ६.२.८.४ ) इति श्रुतेः । ' गन्धो हैवास्य सुगन्धितेजनं तद्यत्सुगन्धितेजनं भवति गन्धेनैवैनमेतत्समर्द्धयति कृत्स्नं करोति ' ( श. ३.५.२.१७ ) । सुगन्धितेजनाख्य ओषधिविशेषोऽस्याग्नेर्गन्धो भवति । तेन तस्य समर्द्धनं कात्र्म्यं च सम्पद्यते । ' यामोषधीषु तां सुगन्धितेजने ' ( तै. सं. ६.२.८.४ ) इति श्रुतिरीत्या सुगन्धतेजनाख्यौषधिविशेषेऽग्नेरेकरात्रनिवासादग्नेर्गन्धः सुगन्धितेजने संक्रान्तः । तदुपनिवापेनाग्नेर्गन्धाख्यांशस्य पुनर्योजनात् कात्र्यं सम्पद्यते । ' अथ यद्वृष्णेः स्तुका भवति ।... तस्माद्या शीर्णो नेदिष्ठं स्यात्तामाच्छिद्याहरेद्यद्यु तां न विन्देदपि यामेव काञ्चाहरेत् तद्यत्परिधयो भवन्ति गुप्त्या एव दूर इव ह्येनमुत्तरे परिधय आगच्छन्ति ' ( श. ३.५.१.८ ) । वृष्णिर्मेषस्तस्य स्तुका रोम; ' वृष्णेर्ह वै विषाणे अन्तरेणाग्निरेकां रात्रिमुवास यां पशुषु तां पेत्वस्यान्तरा शृङ्गे ' ( तै. सं. ६.२.८.४ ) इति श्रुतेः । तद्यदेवाग्नेर्न्यक्तं तदिहाप्यसदिति तस्मा शीष्ण नेदिष्ठं स्यात्तामेव स्तुकामाहरेत् तदलाभे तां यामेव काञ्चनाहरेत् तदवान्तरजातिसम्बन्धामपि निवपेत् । परिधीनां परिधानं तद्दारुविशेषत्वं चोक्तम्, इदानीं तदावश्यकत्वमाह — तद्यत् परिधयो भवन्ति, यस्मादुत्तरे उपरि क्रियमाणाः

पृष्ठ 160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १३-१४ ] वेदार्थपारिजात भाष्यसहिता १५१ परिधयो दूरे विप्रकृष्टकाले होमकाले आगच्छन्ति, अतोऽग्नेर्गुप्तिस्तावत्पर्यन्तमपेक्षिता । तस्मादिदानीमवश्यं कर्तव्य-मित्यर्थः । एवं शतपथादिसम्मतमेव पूर्वोक्तं सायणोव्वटमहीधरव्याख्यानम् । अध्यात्मपक्षे तु- -हे कूटस्थचिद्रूप त्रिपुरसुन्दर कामेश्वर! त्वं धुवोऽसि, षड्विधभावविकारवर्जितत्वात् । पृथिवीं दृंहस्थिरां कुरु । ध्रुवक्षिद् धुवाणि मोक्षरूपाणि सुखानि क्षियति निवासयतीति ध्रुवक्षित्, तद्रूपोऽसि, तस्मादन्तरिक्षं दृंह | अच्युतक्षित् न केनापि च्युतं यथा न चलति तथा क्षियति निवसतीत्यच्युतक्षित् तद्रूपोऽसि । अग्नेः पुरीषमसि अग्नेस्तदुपलक्षितानां समेषां ज्योतिषां पूरकमसि, ' ज्योतिषामपि तज्ज्योतिः ' ( भ. गी. १३.१८ ) इति गीतोक्तेः । दयानन्दस्तु – ' हे विद्वन्, यो यज्ञो ध्रुवोऽस्ति पृथिवीं वर्धयति तं त्वं दृह । यो ध्रुवक्षिदस्यस्ति, अन्तरिक्षमा-काशस्थान् पदार्थान् पोषयति तं त्वं दृह । योऽच्युतक्षिदस्यस्ति दिवं प्रकाशयति तं त्वं गृ॑ह । योऽग्नेः पुरीषमस्यस्ति तं त्वमनुतिष्ठ | मनुष्यैर्विद्याक्रियासिद्धं त्रैलोक्यस्थपदार्थपोषकं विद्याक्रियामयं यज्ञमनुष्ठाय सुखयितव्यम् ' इति, तदपि न किञ्चित्, यज्ञस्य क्रियात्मकस्य धौव्यायोगात्, धौव्ये वा तस्य वर्धापनासम्भवः । न च कूटस्थः पृथिव्यादीन् वर्धयितुं शक्नोति । दिवं प्रकाशयेत्यर्थबोधकपदाभावोऽपि । व्यत्ययाद्याश्रयणात् शतपथविरोधाच्च तदयुक्तमेव । सिद्धान्ते तु तत्तदवच्छिन्नचैतन्यकूटस्थत्वाभिप्रायेण ध्रौव्यं सम्भवत्येव ॥१३ ॥

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑ः । वि होना॑ दधे वयु॒ना॒ाविदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्ठ॒ति॒ स्वाहा॑ ॥१४ ॥

अत्र सायणाचार्याः काण्वसंहिताभाष्ये प्राहुः – ' अस्ति तावत्प्राचीनवंशाख्या काचिच्छाला । तस्यामाहवनीया-द्यग्नित्रयमैष्टिकवेदिश्च वर्तते । तस्याः शालायाः पुरतः षट्त्रिंशत्पददीर्घा सौमिकवेदिर्निर्मातव्या । तस्या वेद्या अग्रभागे पूर्वोक्तोत्तरवेदिः । ततः पश्चान्मध्यभागे हविर्धानाख्यो मण्डपो निर्मातव्यः । ततोऽपि पश्चात् सदोऽभिधाना काचिच्छाला अध्यात्मपक्ष में यह अर्थ है --- हे कूटस्थ चिद्रूप त्रिपुरसुन्दर! आप छः प्रकार के भावविकारों से रहित होने के कारण ध्रुव हैं, अतः पृथिवी को स्थिर करें । मोक्षरूप स्थिर सुखों के आप निवासभूत हैं, अतः अन्तरिक्ष को सुदृढ़ करें । आप अविचल निवासरूप हैं तथा अग्नि आदि समस्त ज्योतिष्पिण्डों के भी पूरक हैं । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में क्रियात्मक यज्ञ के ध्रुव न होने के कारण अनौचित्य है । ध्रुव होने पर उसकी वृद्धि करना भी संभव नहीं है । कूटस्थ तत्त्व पृथिवी आदि का वर्धन करने में भी सक्षम नहीं है । व्यत्यय आदि का आश्रय ग्रहण करने के कारण तथा शतपथ - श्रुति से विरुद्ध होने के कारण भी वह अर्थ युक्त नहीं है । हमारे सिद्धान्तपक्ष में तो अवच्छिन्न चैतन्य के कूटस्थत्व के अभिप्राय से ध्रुवत्व संगत है ॥१३ ॥

मन्त्रार्थ - वेदपाठ से महत्त्व को प्राप्त, सर्वज्ञ यजमान के वेदवेत्ता होम करने वाले ऋत्विक् यज्ञानुष्ठान में मन और इन्द्रियों को लगाते हैं, क्योंकि सब प्राणियों के मन की वृत्ति को जानने वाले सृष्टिकर्ता ने ही इन ब्राह्मणों को मनोवशीकार की सामर्थ्य के साथ रचा है । प्रेरक अन्तर्यामी परमात्मा की सच्ची स्तुति मनोवशीकार ही है । उस परमात्मा के निमित्त हम यह श्रेष्ठ आहति देते हैं ॥ हविर्धान मण्डप बनाकर अध्वर्यु शाला में प्रवेश कर आज्य का संस्कार करके चार बार ग्रहण किये हुए आज्य की परिस्तरण समिदाधानपूर्वक अग्नि में इस मन्त्र से आहुति दे ॥१४ ॥

भाष्यसार - सोमयाग में प्राचीन वंशशाला के द्वार के समीप पूर्व स्थापित आहवनीय अग्नि में ' युञ्जते मनः ' इस ऋचा के द्वारा चतुर्गृहीत आज्य का हवन किया जाता है । इस याज्ञिक विनियोग के अनुकूल अर्थ शतपथ ब्राह्मण तथा तैत्तिरीय श्रुति में उपदिष्ट है I ।