वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 161–170
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 161–170
पृष्ठ 161
पाठ पढ़ें पाठ छिपाएँ
१५२ शुक्लयजुर्वेदसंहिता [ अ. ५ निर्मातव्या । तस्याः स्थाने प्राचीनशालायाः पुरतो दक्षिणोत्तरभागयोर्हविर्धाननामके द्वे शकटे स्थापिते भवतः । तच्छकटद्वयं पुरतः प्रवर्त्य तदावरकत्वेन हविर्धानाख्यमण्डपो निर्मातव्यः । तच्च शकटद्वयं सावित्रमन्त्रहोमादूर्ध्वं प्रवर्तनीयम् । तदाह तित्तिरि: -- ' सावित्र्यर्चा हुवा हविर्धाने प्रवर्तयति ', शतपथे च ' पुरुषो वै यज्ञः ' इत्युपक्रम्य यज्ञाधारभूतसदोहविर्धान- ( शिखात्वम् ) आग्नीधी-मण्डपस्य पुरुषसन्निवेशतामुक्त्वा हविर्धानस्य शिरस्त्वमाहवनीयस्य मुखत्वं यूपस्य स्तूपत्वं पादत्वम् । यमार्जालीययोर्बाहुत्वं सदस उदरत्वं सौमिकवेदेः पश्चाद्भागे स्थितयोराहवनीयगार्हपत्ययोर्जघनदेशवृत्तित्वात् हविर्धानप्रवर्तनाभ्य-उभयतोद्वारं हविर्धानमुभयतोद्वारं च सदः । तस्मादेव पुरुषोऽप्यन्तपर्यन्तं सुषिरवान् भवति । तत्र ) । तत्र मन्त्रो नुज्ञापनाय सावित्रं होमं विधत्ते - ' चतुर्गृहीतमाज्यं गृहीत्वा सावित्रं प्रसवाय जुहोतीति ' ( श. ३.५.३.१० युञ्जते मन इति । प्राचीनशालाया द्वारसमीपे पूर्वसिद्ध आहवनीयो वर्तते, तस्मिन् जुहोति । स च देवता पूर्वमाहवनीयोऽपि जगतीच्छन्दः सन्नुत्तरवेद्याख्येऽन्यस्मिन्नाहवनीये निष्पन्त्रे तदपेक्षया गार्हपत्यो भवति ' इति । मन्त्रस्यास्य सविता श्यावाश्व ऋषिः । मन्त्रार्थस्तु – विप्रा मेधाविनोऽध्वर्युप्रमुखा ऋत्विजः विप्रस्य विशेषेणाभिमतफलपूरकस्य प्रापकस्य, बृहतो महतो विपश्चितो मेधाविनः । यज्ञापेक्षयाऽन्ये विपश्चितस्त्वल्पविपश्चितः यज्ञस्तु बृहद्विपश्चित् तस्य विष्णुत्वेन परमेश्वरत्वात् । पदद्वयसामर्थ्याद्यज्ञ एवाभिमतः । तं यज्ञं द्वितीयार्थे षष्ठी । सावित्रं प्रसूतं मनो थियो बुद्धीश्च व्यावर्त्य युञ्जते तत्रैव । मनसा मनो वाचा वाचं च च यज्ञं यज्ञसम्बन्धि कर्म तन्वते, यज्ञस्य कर्मणि वा मनो वाचं च प्रेरयन्ति । यद्वान्यतो यज्ञे नियमयन्ति । धियो मनसः पृथङ्निर्देशाद् धीशब्देन धीपूर्विका वागुच्यते । तथा होत्रा वषट्कर्तारः सप्त होत्रकाश्च ) इति यज्ञविषये सवित्रानुज्ञाता एव मनो धियश्च विदधे विदधते कुर्वते । ' लोपस्त आत्मनेपदेषु ' ( पा. सू. ७.१.४१ तलोपः । कथमीदृङ्माहात्म्यः सवितेति तत्राह -- यस्मात् सविता एक इत् एक एव वयुनावित् प्रज्ञावान् निरुक्तवचनात् । ' वयुनमिति । प्रज्ञानामसु ' ( निघ. ३.९.१० ) । यद्वा वीयते गम्यत इति वयुनं यज्ञमार्गः, ' वयुनं वेतेः ' ( निरु. ५.१४ ) इति । तस्य यज्ञमार्गस्य वेदिता एक एव । तस्य सवितुर्देवस्य परिष्टुतिः, मही महती स्वाहा स्तुतिरूपमिदं द्रव्यं तत्र नियच्छन्ति सुहुतमस्तु । अध्वर्युप्रमुखा ऋत्विजो बृहतो विपश्चितो यज्ञस्य विषये मनोऽन्तःकरणं वाचं च नियुञ्जतेऽन्यतो व्यावर्त्य तस्य सवितुर्मही होत्रा वषट्कर्तारश्च सवितुर्देवस्यानुज्ञयाऽनुज्ञातास्तत्र मनो धियश्च विदधते । सविता चैक एव । स्वाहेति महती परिष्टुतिः । काण्वशाखीयसायणभाष्यरीत्या तु - विप्रस्य ब्राह्मणस्य यजमानस्य सम्बन्धिनो विप्रा ब्राह्मणा ऋत्विजः, मनो । युञ्जते संसारचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां प्रथमं नियमयन्ति । ततो धिय इन्द्रियाण्यपि विपश्चित्त्वम् यज्ञार्थेषु नियमयन्ति । कीदृशा कीदृशस्य विप्रस्य? यजमानस्य बृहतो विपश्चितः, अधीतवेदत्वाद् बृहत्त्वम्, अर्थाभिज्ञत्वाच्च विप्राः? होत्रा होमकर्तारः । तदिदं विप्राणां मनोनियमादिसामर्थ्यमेक इद्विदधे एक एव ससर्ज । कीदृश एकः? वयुनावित् कार्यः, सर्वज्ञः, वयुनं सर्वविषयिणी प्रज्ञां विन्दते लभत इति तथोक्तः । संहितायां दीर्घः । न चैकस्य सर्वसृष्टौ विस्मयः ज्ञानमयं यतः सवितुः प्रेग्कस्यान्तर्यामिणो देवस्य परिष्टुतिः सर्ववेदोक्तस्तुतिः मही महती । ' यः सर्वज्ञः सर्वविद् यस्य । तपः ’ ( मुण्डको. १.१.९ ), ‘ पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ' ( श्वे. उ. ६.८ ) इत्यादिश्रुतिभ्यः उव्वटरीत्या तु — सवित्रा प्रसूता ऋत्विज, मनो मनांसि, उत युञ्जते प्रेरयन्ति, धियो वाचश्च कर्मणीति । कथंभूता शेषः ऋत्विजः । विशेषेण? विप्रा ब्राह्मणाः शुश्रुवांसोऽनूचानाः । क्व प्रेरयन्ति मनांसि वाचश्चेति तत्राह - विप्रस्य यज्ञस्य प्राति प्रपूरयति जनानां मनोरथानिति विप्रो यज्ञः फलदानं प्रति प्राप्तक्रियाशक्तेर्विप्रस्य यजमानस्य वा । ननु क्षत्रियवैश्यावपि
पृष्ठ 162
पाठ पढ़ें पाठ छिपाएँ
म.१४ ] वेदार्थपारिजात भाष्यसहिता १५३ यजमानौ भवत इति कुतो विप्रपदस्य यजमानार्थत्वमिति चेन्न, अग्निष्टोमे ' दीक्षितोऽयं ब्राह्मणः ' इति क्षत्रियवैश्ययोरपि तत्काले ब्राह्मणत्वोक्तौ दोषाभावात् । होत्राः सप्त वषट्कर्तारः । अथ होत्राः सप्त वषट्कर्तारो होत्रा इत्युच्यन्ते, ' अथ होत्राः संयाजयन्ति ' इति श्रुतेः । सौत्येऽहनि सप्त होतारो वषट्कुर्वन्ति । वयुनाविद् एक इत् । वयुनं वेत्ते, कान्तिर्वा प्रज्ञा वा । तेषामृत्विजां मध्ये सवित्रा प्रसूतो ब्रह्माख्य एक एव ऋत्विग् वयुनावित् त्रिवेदज्ञानान्वितो भैषज्यं करोति । दानादिगुणयुक्तस्य देवस्य सवितुः सर्वस्य प्रसवितुः परिष्टुतिर्मही महती । यतः स एव यज्ञं प्रेर्य ऋत्विजः प्रस्तूय समापयति यज्ञम् । यज्ञो हि वृष्टिद्वारा समस्तं जगद्विभर्तीति सवितुर्महती स्तुतिरित्युक्तम् । शतपथे च —— स जुहोति । युञ्जते मन उत युञ्जते धिय इति मनसा वै च वाचा, च यज्ञं तन्वते स यदाह युञ्जते मन इति तन्मनो युनक्त्युत युञ्जते धिय इति तद्वाचं युनक्ति धिया धिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव ताभ्यां युक्ताभ्यां यज्ञं तन्वते ' ( श. ३.५.३.११ ) । अत्र स्पष्टमेव धीपदेन वागेव विवक्षितेत्युक्तम् । ' युञ्जते ’ इत्यस्या मनसा वाचा यज्ञं तन्वत इत्युक्तम् । यदा यदा बुद्धिर्जायते तदा तदा खल्वेतया वाचा जुज्यूषन्ति जीवितुमिच्छन्ति । अतः केवलबुद्धेर्जीवनसाधनत्वाभावेन वाचोऽपेक्षितत्वाद्धीशब्देन तत्पूर्विका वागुच्यते । जीवनसाधनत्वं विशदयति— अनूक्लेनेति । अनूक्तमनुवचनमध्ययनादिकम्, प्रकामः स्वैच्छिकभाषायां गाथा गद्यपद्यात्मिका वाणी, ताभिरेव जुज्यूषन्ति वै तस्मात्ताभ्यां युक्ताभ्यामेव मनोवाग्भ्यां युक्ताभ्यामेव यज्ञं तन्वते । विप्रा विप्रस्य बृहतो विपश्चित इति । ब्राह्मणाः शुश्रुव सोनूचानास्ते विप्रास्तानेवैतदभ्याह बृहतो विपश्चित इति यज्ञो वै बृहद्विपश्चिद्यज्ञमेवैतदभ्याह वि होत्रा दधे वयुनाविदेक इदिति वि होत्रा दधते यज्ञं तन्वाना मही देवस्य सवितुः परिष्टुतिः स्वाहेति तत्सावित्रं प्रसवाय जुहोति । द्वादशतममन्त्रगतप्रथमविपश्चिच्छब्दस्य ब्राह्मणाः शुश्रुवांसोऽनूचाना ऋत्विज इत्यर्थो विवक्षित इत्यर्थः । विप्रा इति पदं तानेवाभ्याह ब्रूते । बृहद्विपश्चिच्छब्दाभ्यां यज्ञो विवक्षित इत्याह - यज्ञो वै बृहद्विपश्चिदिति । होत्राशब्देन यज्ञकर्तारोऽभि-प्रेताः । ‘ दधे ’ इत्येतत् ‘ दधते ’ इत्यस्य बहुवचनस्य स्थाने रूपम् । तद् व्याचष्टे - वि होत्रा दधते यज्ञं तन्वाना इति । यस्मान्मन्त्रे सवितुर्देवस्येति सविता देवः श्रूयते, तत् तस्मान्मन्त्रसाध्यं सावित्रं होमं प्रसवाय जुहुयात् । अध्यात्मपक्षे तु - विप्रा मेधाविनो विप्रस्य प्रजापतेः परमेश्वरस्य बृहतो विपश्चितोऽनन्तज्ञानस्य सम्बन्धिनि स्वरूपे मनो युञ्जते योजयन्ति तस्मिन्नेव मनः स्थापयन्ति । ततः पूर्वं तु धियो वाग्व्यापारानपि तत्रैव योजयन्ति, ‘ यच्छे-द्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति तद्यच्छेच्छान्त आत्मनि ॥ ' ( कठो. ३.१३ ) इति श्रुतेः । यद्वा धियः सर्वेन्द्रियाणि तत्रैव योजयन्ति । ' वाचं यच्छ मनो यच्छ यच्छ सर्वेन्द्रियाणि च ' ( भा. पु. ११.१६.४२ ) इति श्रीमद्भागवतस्मरणात् । होत्राः सप्त वषट्कर्तारस्तत्रैव मनो वाचं च दधे दधते । कीदृशस्य विप्रस्य? सवितुः सर्वप्रेरयितुः सर्वान्तर्यामिणो देवस्य जगदुत्पत्त्याद्याक्रीडस्य स्वप्रकाशस्य वा । कीदृशा विप्राः? होत्राः सर्वस्वार्पयितारः । नन्वन्यत्र कुतो मनो वाचो न नियमयितव्या इति तत्राह - एक इदिति । एक एव स वयुनावित् सर्वबुद्धिप्रत्ययसाक्षी, तस्य सर्वात्मत्वात् तदानुकूल्येन सर्वानुकूल्योपपत्तेः । स्वाहा सर्वार्पणमेव तस्य मही महती परिष्टुतिर्महत् स्तवनम् । अध्यात्मपक्ष में यह अर्थ है - विद्वान् लोग प्रजापति परमेश्वर के अनन्त ज्ञानसम्बन्धी स्वरूप के विषय में मन का योग करते हैं, अर्थात् उसी में मन स्थापित करते हैं । उससे पूर्व अपने वाग्व्यापार को भी उसी में संयोजित करते हैं । अथवा अपनी समस्त इन्द्रियों को उसमें नियुक्त करते हैं । सर्वस्व अर्पण करने वाले होतृगण सबके प्रेरक सर्वान्तर्यामी स्वप्रकाशात्मक उसी देव के विषय में मन तथा वाणी स्थापित करते हैं, क्योंकि वही एकमात्र सर्वबुद्धि - प्रत्ययगम्य है । उसके सर्वात्मक होने के कारण उसकी अनुकूलता से सभी की अनुकूलता हो जाती है । सर्वस्व का अर्पण करना ही उसकी सर्वश्रेष्ठ स्तुति है ।
पृष्ठ 163
पाठ पढ़ें पाठ छिपाएँ
१५४ शुक्लयजुर्वेदसंहिता [ अ. ५ यस्य महेश्वरस्य मही दयानन्दस्तु —— यथा ये होत्रा विप्राः सन्ति, या बृहतो विप्रस्य विपश्चितः सवितुर्देवस्य वयुनाविदेकोऽहं परिष्टुतिरूपा स्वाहास्ति, तां विज्ञायैतस्मिन्नेव देवे मनो उतापि धियो युञ्जते, तथैवैतां विदित्वाऽस्मिन् मानाभावात् । त्वद्रीत्या मनो विदधे युञ्जे धियं च ' इति, तदपि यत्किञ्चित्, लुप्तोपमालङ्कारबलेन यथा - तथेति कल्पने । यदपि— कस्यचित् साधकस्येदं वचनं न परमेश्वरस्य, तस्य साधकत्वायोगात् । तथात्वे च मन्त्रस्य मनुष्यकर्तृकत्वापत्तिः ' तन्वते ' इत्यर्थापनात्, ' मनो युञ्जते समादधते धियो बुद्धीः कर्माणि वा युञ्जते स्थिराः कुर्वते ' इति, तदपि न, श्रुत्या प्रमाणानुल्ले-कर्मणां चलस्वभावत्वेन स्थैर्यासम्भवाच्च । ' विप्रस्यानन्तप्रज्ञाकर्मणो बृहतो व्यापकस्य ' इत्यप्यनर्थ सम्भवति एव, प्रमाणम् । खात् । यत्तु — ' प्रजापतिर्वै विप्रः ' ( श. ६.३.१.१६ ) इति प्रमाणमुपन्यस्तम्, तत्तु प्रजापतिबोधकत्वे । शतपथ-अनन्तज्ञानकर्मत्वं तु परमेश्वरत्वान्न विप्रपदार्थत्वात् । ' स्वाहा सत्यां वाचम् ' इति च निर्मूलम्, मूलाभावात् श्रुतिविरोधस्तु स्पष्ट एव ॥१४ ॥
तु
इ॒दं विष्णुर्व च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । सर्मूढमस्य पां सुरे स्वाहा॑ ॥१५ ॥
‘ अपरं दक्षिणे वर्त्मनि दक्षिणस्यानसो हिरण्यं निधायाभिजुहोतीदं विष्णुरिति ' ( का. श्रौ. ८.३.२७ ) । पुनरपरमाज्यं विष्णुरिति शालाद्वार्येव संस्कृत्य चतुर्गृहीतं गृहीत्वा दक्षिणस्यानसो दक्षिणचक्रमार्गे हिरण्यं निधाय समिद्वर्जं परमेश्वरस्त्रिविक्रमावतारं सशेषमिदं जुहुयात् । विष्णुदेवत्या गायत्री मेधातिथिदृष्टा । विष्णुः वेवेष्टि व्याप्नोतीति विष्णुर्व्यापनशीलः त्रेधापदं निदधे । पांसुरे पांसवो धृत्वा इदं विश्वं विचक्रमे विभज्य क्रमते भूमावेकपदं द्वितीयमन्तरिक्षे तृतीयं दिवीत्येवं भूम्यादिलोकरूपाः सन्ति यस्य तत् पांसुरम्, तस्मिन् पांसुरे पदे विश्वं समूढं सम्यगन्तर्भूतम् । आध्यात्मिकोऽर्थः— सर्वप्राणिनो भूतेन्द्रियमनोजीवभावेनाविशतीति विष्णुः परमेश्वरः, त्रेधा अस्यैव पदं निदधे विष्णोरन्यत् । पद्यते ज्ञायतेऽनेनेति पदम्, भूम्यन्तरिक्षद्युलोकेष्वग्निवाय्वादित्यरूपेण त्रेधा निहितवान् । समूढमस्य पांसुरे? । पांसुरे इव । लुप्तो-पदान्तरं विज्ञानघनानन्दमजमद्वैतमक्षरं समूढमन्तर्हितमविज्ञातं शास्त्राचार्योपदेशविधुरैः । कस्मिन्निव नहीं । क्योंकि परमेश्वर का स्वामी दयानन्द के अर्थ के अनुसार यह किसी साधक का वचन हो सकता है, परमेश्वर ' का अर्थ का ' स्थिर करते हैं ' इस प्रकार साधक होना अयुक्त है तथा ऐसा होने पर मन्त्र की मनुष्यकर्तृकता प्राप्त हो जायगी । ' युञ्जते वाले होने के कारण उनमें स्थिरत्व करना उचित नहीं है, क्योंकि श्रुति ने इसका अर्थ ' तन्वते ' किया है तथा कर्मों के चलस्वभाव सम्भव नहीं है । इस अर्थ में शतपथ श्रुति का विरोध तो स्पष्ट ही है ॥१४ ॥
मन्त्रार्थ - सर्वव्यापी त्रिविक्रम का अवतार लेने वाले विष्णु ने इस विश्व को विभागपूर्वक लाँघ ( डगों ) लिया में । यह पहले सारा डग विश्व से भूमि, दूसरे से अन्तरिक्ष और तीसरे से द्युलोक ( आकाश ) को नापा । विष्णु के इन तीन ( शकट पदों ) के दक्षिण चक्र मार्ग में अन्तर्भूत है । उस परमात्मा को हम हवि देते हैं ॥ घृत का संस्कार कर दक्षिण हविर्धान कथा भी सूचित है ॥१५ ॥
सुवर्ण को रख कर शालाद्वार की अग्नि में इस मन्त्र से होम करे । इस मन्त्र में वामनावतार की दक्षिण चक्र भाष्यसार — याज्ञिक प्रक्रिया के अनुसार ' इदं विष्णुः ' इस ऋचा से चतुर्गृहीत आज्य का हवन दक्षिण परमेश्वर शकट के त्रिविक्रमावतार के मार्ग में किया जाता है । यह विनियोग कात्यायन श्रौतसूत्र ( ८.३.२७ ) में प्रतिपादित है । व्यापनशील द्युलोक में तृतीय पद - इस धारण करके इस विश्व का विभागशः क्रमण करते हैं । भूमि पर प्रथम पद, अन्तरिक्ष में द्वितीय तथा प्रकार तीन पदों का निधान उन्होंने किया है । उनके पद में सम्पूर्ण विश्व अन्तर्भूत है । किया आध्यात्मिक अर्थ की योजना इस प्रकार है— समस्त प्राणियों में निविष्ट विष्णु परमेश्वर ने त्रिविध । पदों इन्हीं का विष्णु स्थापन का दूसरा है । भूमि, अन्तरिक्ष तथा द्युलोक में अग्नि, वायु तथा आदित्य रूप से तीन ज्ञानसाधनों को निहित किया है
पृष्ठ 164
पाठ पढ़ें पाठ छिपाएँ
म. १५-१६ ] वेदार्थपारिजात भाष्यसहिता १५५ पममेतत् । पांसुले रजस्वले प्रदेशे यथा निहितं वस्तु नोपलभ्यते तद्वत् ' तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ' ॥ ( वा. सं. ६.५ ) इति मन्त्रवर्णात् । यद्वा विष्णुस्त्रिविक्रमावतारधारी इदं विश्वं विक्रान्तवान् त्रिप्रकारेण क्षित्यादिषु पदं निदधे स्थापितवान् । अस्य पांसुरे रजोयुक्ते पदे लोकत्रयं समूढं सम्मितमासीत् । स्वाहा तस्मै सुहुतमस्तु । दयानन्दस्तु — ' इदं प्रत्यक्षाप्रत्यक्षं जगत् विष्णुर्यो वेवेष्टि चराचरं जगत् स ईश्वरो विविधं क्रान्तवान् क्राम्यति क्रमिष्यति वा । त्रेधा त्रिप्रकारं नितरां दधे निहितवान् दधाति धास्यति वा । पदं पद्यते गम्यते यत्तत् पदम् । समूढं सम्यगुह्यतेऽनुमीयते शब्द्यते यत् तत् । अस्य त्रिविधस्य जगतः पांसुरे पांसवो रेणवो रजांसि रमन्ते यस्मिन्नन्तरिक्षे तस्मिन् स्वाहा सुहुतम् ' इति, तदपि न सम्यक् क्रमते रचनार्थत्वाप्रसिद्धेः । क्रमु पादविक्षेपे ' इति धातोर्विपूर्वकस्य सुतरां पादविक्षेपार्थत्वप्रसिद्धेः । पद्यते गम्यत इति व्युत्पत्त्यापि किं तत्पदनीयम्? यदि स्वरूपमेव, तदा स्वरूपस्य कथं त्रेधा निधानम्? यदपि ' परमेश्वरेण प्रथमं प्रकाशवत् सूर्यादि, द्वितीयं प्रकाशवत् पृथिव्यादि प्रसिद्धम्, यच्च तृतीयं परमाण्वाद्यदृश्यं सर्वमेतत् कारणावयवै रचयित्वाऽन्तरिक्षे स्थापितम् । तत्रौषध्यादि पृथिव्यामग्न्यादिकं सूर्ये परमा-ण्वादिकमाकाशे निहितम् । सर्वमेतत् प्राणानां शिरसि स्थापितवान् ' इति, तदपि यत्किञ्चित् पृथिव्यादीनामपि पदनी -यत्वाभावेन पदत्वायोगात् । यदुक्तम्— ' महीधरः प्रबुक्कति त्रिविक्रमावतारं कृत्वेत्यादिकम् ' इति, तदपि घटादिकार्यपूर्ववर्तिपञ्चमान्यथासिद्धरेकणमेव, प्रतिज्ञामात्रेण वस्त्वसिद्धेः परप्रत्यायनार्थं पञ्चावयवप्रयोगस्यापरिहार्यत्वात्, अत्र तथाप्रयोगाभावात्, सायणाचार्येणापि त्रिविक्रमावतारस्योक्तत्वात् तस्य मन्त्रसिद्धत्वाच्च ॥१५ ॥
इरा॑व॒ती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनो॒ मन॑वे॒ दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्ण-वे॒ते धर्थ ' पृथि॒वीम॒भितो॑ म॒यूखैः स्वाहा॑ ॥ १६ ॥
' स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति पूर्ववत् ' ( का. श्रौ. ८. ३.३० ) । अध्वर्युणा समर्पिते स्स्रुक्स्थाल्यौ प्रतिगृह्य उत्तरस्यानसो दक्षिणे चक्रमार्गे हिरण्यं निधाय इरावतीति चतुर्गृहीतं जुहुयात् । वैष्णवी त्रिष्टुप् वशिष्ठ ऋषिः । हे रोदसी, द्यावापृथिव्यौ युवां मनवे मन्वानाय मनुष्याय यजमानाय इरावत्यौ अन्नवत्यौ । ' इरेत्यन्ननामसु पठितम् ' ( निघ. २.७.१२ ) । धेनुमती बहुप्रशस्तधेनुयुक्ते च भूतं भवतम् । तथा सूयवसिनी शोभनैर्यवसैरभ्यवहार्यै-पद विज्ञानघनानन्द, अज, अद्वैत, अक्षरात्मक शास्त्राचार्यों के उपदेश से संस्कृत जनों के हृदय में उसी प्रकार निगूढ है, जैसे कि बालुकामय स्थान में रखी गई वस्तु अन्तर्हित हो जाती है । उस भगवान् विष्णु को हम अपने को समर्पित करते हैं । मन्त्रार्थ - हे द्यावापृथिवी, तुम इस यजमान के कल्याणार्थ अन्न - जल वाली बहत सी धेनुओं से युक्त, बहुत से उत्तम खाने के पदार्थ वाली, ज्ञानी यजमान के लिये यज्ञसाधनों को देनेवाली हो । हे सर्वव्यापी परमात्मन्! आप स्वर्ग और पृथ्वी को स्तंभित किये हुए हैं, पृथ्वी को अपने तेजःस्वरूप सूर्य - चन्द्र आदि के द्वारा सब ओर से धारण किये हुए हैं । उस विष्णु को हम यह आहत देते हैं । || आहवनीय अग्नि के ईशान कोण में रक्षित उत्तर हविर्धान ( शकट ) के दक्षिण चक्र - मार्ग में सुवर्ण रख कर यजमान सुवे और स्थाली को लेकर बार - बार आहति दे ॥१६ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ८.३.३० ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' इरावती धेनुमती ' इस ऋचा से उत्तर शकट के दक्षिण चक्र के मार्ग में आज्य का हवन किया जाता है । शतपथ ब्राह्मण में भी याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 165
पाठ पढ़ें पाठ छिपाएँ
१५६ शुक्लयजुर्वेदसंहिता [ अ. ५ घृतक्षीरादिभिरमृताद्यैश्च युक्ते दशस्या दशस्यौ अभिमतफलानां यज्ञसाधनानां वा दात्र्यौ भवतम् । ' दाशृ दाने ' दशतोऽसु- । तथा न्प्रत्यये औविभक्तेर्यादेशश्च । एवं महानुभावे एते रोदस्यौ हे विष्णो त्वं व्यस्कभ्ना विविधं स्कम्भितवानसि . ७.४.६५ ) विशेषेण पृथिवीमभितः सर्वतः मयूखैर्मयूखवत् सन्ततैर्जीवैस्तेजोभिर्वा दाधर्थ धारयसि । ' दाधर्ति ' ( पा. सू इति निपातः । तादृशाय तुभ्यमिदमुत्तरहविर्धानदक्षिणचक्रमार्गे हूयमानमन्त्रं स्वाहा सुहुतमस्तु । शतपथेच - - ' ' चतुर्गृहीतमाज्यं गृहीत्वा । प्रतिप्रस्थातोत्तरस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीरावती धेनुमती... स्वाहेति संस्रवं पल्यै पाणावानयति साक्षस्य सन्तापमुपानक्ति देवश्रुतौ देवेष्वा जुहोति घोषतमिति , तत् तदा तद्यदेवं जुहोति ' ( श. ३.५.३.१४ ) । संस्रवमित्यादि पूर्ववत् । तद्यदेवं जुहोति यद् यदा एवं वर्त्मद्वये हविर्धानयोः संस्रवं पल्याः पाणौ । ‘ देवा ह वै यज्ञं तन्वानाः ' इत्यादिनाऽऽज्याञ्जनप्रशंसा । नंनु वैष्णवीभ्यामृग्भ्यां कथं सम्बन्ध इति चेत्तत्राह — ' वैष्णवं हि हविर्धानम् ' ( श. ३.५.३.१५ ) । मन्त्रयोर्विष्णुदेवताकत्वेन हविर्धानयोर्विष्णुदेवताकत्वं युक्तमेव । ' शिर एवास्य हविर्धानम् ' ( श. ३.५.३.२ ) इत्यत्र यज्ञरूपस्य विष्णोः शिरो हविर्धानमुक्तम् श्रमरूपेण । ' अथ यत्पल्यक्षस्य रेतस उत्पा-सन्तापमुपानक्ति ' ( श. ३.५.३.१६ ) इति सन्ताप्यमानस्याक्षस्योपाञ्जनं प्रजननोत्पादनम् । सन्तापेन पराग्घ्येव रेतः दद्वारा प्रजननसम्भवात् सन्तापोपाञ्जनकरणम् । उपाञ्जनस्य पराग्रूपतामपि प्रशंसति — — परागुपानक्ति सिच्यते ' ( श. ३.५.३.१६ ) इति । अध्यात्मपक्षे — हे विष्णो, इरावत्यौ विविधप्रशस्त भोग्यान्नवत्यौ बहुप्रशस्तधेनुमत्यौ सूयवसिन्यौ बहुविधाभ्य-वहार्यैर्युक्ते रोदसी रोदस्यौ द्यावापृथिव्यौ अभिमतफलदात्र्यौ व्यस्कभ्ना विविधं धारितवानसि । यथा पृथिवी व्रीहि-यवादिपूर्णा गवादिपशुपूर्णा सस्योपेता, तथैव द्यौरपि दिव्यामृतस्रक्चन्दनवनितादिभोगयुक्ता कामधेनुचिन्तामणिसमलङ्कृता कल्पवृक्षादियुक्तेति रोदस्योस्तत्तद्योग्यान्नादिमत्त्वेनेरावत्यादिविशेषणानां सूपपत्तिः । विशेषेण पृथिवीमभितः सर्वतो मयू-खैर्मयूखवत्सन्ततैर्जीवैस्तेजोभिः प्रभावैः शक्तिभिर्वा दाधर्थ धारयसि । जीवा अपि कर्मानुष्ठानद्वारा सेदस्योर्धारण उप-युज्यन्ते, उभयोर्जीवानां कर्मफलत्वात्, परमेश्वरस्य सामर्थ्यरूपैः प्रभावैः शक्तिभिश्च सर्वस्य विधृतत्वाच्च । मयूखैः पर्वतैर्वा अभितः पृथिवीं धारयसि, तेषां धराधरत्वात्, भगवच्छक्त्युपबृंहितत्वात्, तत्रापि तन्मयूखोपपत्तेः । रोदस्योरन्नवृष्ट्यादिद्वारा देवत्वाद्दिव्यसामर्थ्येनाप्यभीष्टदातृत्वात् ते दशस्यौ । दयानन्दस्तु —'यथा सूर्यः स्वकिरणैः स्वकान्तिभिः सर्वं भूम्यादिकं जगत् संस्तभ्याकृष्य धरति, तथैव परमेश्वरः प्राणो वा स्वसामर्थ्येन सर्वं प्राणादिकं जगद्रचयित्वा सन्धार्य व्यवस्थापयति ' इति, तदप्यसङ्गतम्, किरणैः कान्तिभिश्च अध्यात्मपक्ष में अर्थ इस प्रकार है— हे विष्णुदेव, विविध तथा प्रशस्त भोग्य अन्नों से युक्त, विशिष्ट धेनुओं से युक्त, पृथिवी अनेकविध को सस्यों से पूर्ण, अभिमत फलों को प्रदान करने वाले द्युलोक तथा पृथिवीलोक को आपने सन्धारित किया है । विशेषतः किरणों की भाँति फैले जीवों से अथवा अपने प्रभाव से आप सर्वतः धारण करते हैं । जीवगण भी कर्मानुष्ठानों के तथा माध्यम दिव्य से सामर्थ्य द्युलोक एवं पृथिवी के धारण करने हेतु उपयुक्त किये जाते हैं । द्युलोक तथा पृथिवी का अन्न वृष्टि के प्रदान से देवमय है से भी अभीष्ट फल प्रदान करने के कारण वह ' दशस्य ' शब्द से अभिहित है । स्वामी दयानन्द द्वारा निरूपित अर्थ असंगत है, क्योंकि ' इरावती, धेनुमती ' इत्यादि रोदसी के विशेषणों वाणी का भूमि की किरणों तथा वाणी की का बोधकत्व युक्त नहीं है । ' रोदसी ' के धारण से ही समस्त विश्व का धारण उपपन्न हो जाने पर पृथिवी तथा तथा कल्पना और उनके द्वारा सम्पूर्ण जगत् के धारण की कल्पना करना निरर्थक परिश्रम है । ' दशा ' शब्द का दशन अथवा दन्त जिह्वा अर्थ कैसे हो सकता है? यह सब स्वेच्छाचारिता मात्र है ॥ १६ ॥
पृष्ठ 166
पाठ पढ़ें पाठ छिपाएँ
म. १६-१७ ] वेदार्थपारिजातभाष्यसहिता १५७ पृथिव्यादिधारकत्वे मानाभावात् । प्रकाशकत्वं तु सम्भवति तैः । मन्त्रे यथातथापदाभावाच्च दृष्टान्तासङ्गतिः । यदपि — ' हे विष्णो, यस्त्वमिरावती धेनुमती सूयवसिनी भूमिर्वाग् वास्ति, तां भूमि स्वाहा हि किल वाणी भूतमुत्पन्नं सकलं जगच्च मयूखैरभितो दाधर्थ धरसि रोदसी व्यस्कभ्नाः प्रतिबध्नासि, तस्मे दशस्याय मनवे वयमेते च सर्वं जगन्निवेदयामो निवेदयन्तीत्येकः ' इत्यप्यसङ्गतम्, इरावतीधेनुमतीत्यादीनां रोदसीविशेषणत्वेन भूमिवाचोर्बोधकत्वायोगात् । रोदस्यो-र्धारणेनैव सर्वधारणोपपत्तौ पृथिव्या वाण्याश्च मयूखकल्पनं तद्द्वारोत्पन्नसर्वजगद्धारणकल्पनमव्यापारेषु व्यापारायितमेव । ‘ वयमेते सर्वं जगन्निवेदयामो निवेदयन्ति ' इत्यपि निर्मूलमेव । यत्तु ' दशास्य ' इत्यत्र ' दशा इवाचरति तस्मै ' इति, तदपि यत्किञ्चित्, तथात्वेऽपि स्पष्टार्थानुक्तेः । प्रथमहिन्दीभाष्ये तु — ' दन्तमध्यस्थजिह्वावदाचरणशीलाय तुभ्यम् ' इत्युक्तम्, द्वितीये तु दशनवद् दन्तवच्चाचरणशीलायेत्युक्तम्, तद् द्वयमपि परस्परविरुद्धं निरर्थकम् । दशाशब्दस्य दशनं दन्ता जिह्वा चेति कथमर्थ इति सर्वमेतत् सर्वतन्त्रोच्छृङ्खलस्यैव शोभते ॥ १६ ॥
दे॒व॒श्रुतौ ' दे॒वेष्वा घोषत॒ प्राच॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यते॒ मा जि॑िह्वरतम् । स्वं गो॒ष्ठमा व॑दतं देवी दुर्गे आयुर्मा निर्वादिष्टं प्र॒जां मा निर्वादिष्ट॒मत्र॑ रमेथा॒ वर्ष्मन् पृथि॒व्याः ॥ १७ ‘ दक्षिणया द्वाराऽऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याक्षधुरावनक्ति पराग्देवश्रुताविति ' ( का. श्रौ. ८. ३. २८ ) । प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्येनाक्षस्यो भावग्रभागावञ्ज्याद् देवश्रुताविति मन्त्रेण I । हे हविर्द्धानि, देवश्रुतौ देवसभायां प्रसिद्धौ अक्षाग्रभागौ युवां यजमानोऽयं यक्ष्यतीति देवेष्वाघोषतमुच्चध्वनिना कथयतम् । ‘ प्राची प्रेतमिति वाचयति ' ( का. श्रौ. ८.४.३ ) । हविर्धानयोः शकटयोः प्रवर्त्यमानयोः प्राची प्रेतमिति मन्त्रं यजमानं वाचयेत् । उभे शकटे, युषां प्राची प्राङ्मुखे प्रेतं प्रकर्षेण गच्छतम् । कीदृशे युवाम्? अध्वरं कल्पयन्ती इदं कर्म फलजननसमर्थं कुर्वाणे । किञ्चोर्ध्वमुपरिवर्तिदेवान् प्रति यज्ञं नयतं प्रापयतम् मा जिह्वरतं मा कुटिले भवतम् । ' हृ कौटिल्ये ' इति धातोः, यद्वा ‘ ह्वल चलने ' इति धातो रूपम्, चलनं भ्रंशं मा कुरुतम् । ' स्वं गोष्ठमिति च खर्जतीति ' ( का.श्रौ. ८.४.४ ) । हविर्धानयोरनसोः प्रवर्त्यमानयोः प्रमादात् खर्जति चक्रसंघर्षजं ध्वनिं कुर्वति सति स्वं गोष्ठमिति मन्त्रं वाचयेदिति तत्प्रायश्चित्तम् । अक्षशब्दाभावे तु नेदं वाचनम् । ' गृहा वै दुर्याः ' ( श. ३.५.३.१८ ) इति श्रुतेर्दुर्येशब्देन गृहसदृशे शकटे लक्ष्येते । हे देवी हविर्धाने दुर्ये गृहसदृशशकटद्वयरूपे देवते, स्वं गोष्ठं यजमानस्य स्वकीयं वा स्थानमावदतं सर्वतः कथयतम् । हे दुर्येषु गृहेषु साधुरूपे हविर्धाने वा, योऽयमक्षशब्दस्तेन यजमानस्य गृहं यथा बहूनां गवां स्थानं भवति, तथा कथयतम्, युवाभ्यामुच्चारितं तथैव स्यादिति । यजमानस्य पशवः समृद्धाः स्युरिति ब्रूतमित्यर्थः । किञ्च, आयुर्मा मन्त्रार्थ - हे अक्षधुरो! तुम देवसभा में प्रसिद्ध हो, देवताओं से उच्च स्वर में कहो कि यजमान यज्ञ करता है । है शकट! यज्ञ का समर्थन करते हुए पूर्वमुख जाओ, यज्ञ को ऊर्ध्वलोकवासी देवताओं के समीप ले जाओ, कुटिल मत बनो I । हे गृहसमान शकटरूप देवताओं! अपने गोष्ठ को सब ओर से कहो कि वे यजमान की आयु को पशु - पुत्र आदि से सम्पन्न बनावें, उसके प्रति दुर्भावना न रखें । आप सब लोग पृथ्वी के इस देवयजनरूप स्थान में क्रीड़ा करें ॥ १७ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ८.४.३-५ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' देवश्रुतौ देवेषु ' इस कण्डिका के मन्त्रों से शकटों के चलने के समय यजमान द्वारा वाचन तथा अभिमन्त्रण किया जाता है । शतपथ ब्राह्मण तथा तैत्तिरीय श्रुति में याज्ञिक प्रक्रिया के अनुरूप अर्थ उपदिष्ट है ।
पृष्ठ 167
पाठ पढ़ें पाठ छिपाएँ
१५८ शुक्लयजुर्वेदसंहिता [ अ. ५ निर्वादिष्टं यजमानस्य यावदायुरस्ति तावत्सर्वं मा निराकार्ष्टम् । वदतेर्लुङि मध्यमपुरुषद्विवचने रूपम् । यद्वा निः कुत्सा-याम् । निकृष्टं पशुधनादिरहितमायुर्मा उच्चारयतम् । प्रजां च निकृष्टां निरंशां मा निर्वादिष्टं मा उच्चारयतम्, अर्थाद् युवाभ्यामुच्चारितं तथैव स्यादित्यभिप्रायः । यजमानाय प्रजां पुत्रादिरूपां मा निराकार्ष्ट वा । अनेनाक्षशब्देनायुःप्रजयो-र्निराकरणं मा भूत् । उभयबद्धो योऽक्ष, स दुष्टवाग् वरुणदेवरूपः । ' वरुणो वा एष दुर्वागुभयतोबद्धो यदक्षः ' ( श. ३.५.३.१ ९ ) । तस्मात् शापरूपदुर्वाक्यपरिहारायाशीर्वादरूपं सुवाक्यमनेन मन्त्रेण प्रार्थ्यते, ' सुवाग्देव दुर्य आवद ' इति तैत्तिरीयश्रुतेः । पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा नभ्यस्थेऽभिमन्त्रयतेऽत्र रमेथामिति ' ( का. श्री. ८.४.५ ) । अनभ्य-स्थप्रवर्तनं परित्यज्य स्थापिते शकटे उभे अभिमन्त्रयेत । कुत्र स्थापिते? इति चेदुच्यते — पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेष्वित्येकः पक्षः, मत्या चेत्यपरः पक्षः । यत्र स्थापनीये इति स्वस्य मतिस्तत्रेत्यर्थः । शेषं सूत्रं तूपरिष्टाद् व्याख्यास्यते । हे शकटे, पृथिव्या वर्ष्मन् वर्ष्मणि भूमेः शरीरभूतेऽत्रास्मिन् देवयजने युवां रमेथां क्रीडां कुरुतम् । ' वर्ष्मन् ' इत्यत्र ' सुपां सुलुक् ' ( पा. सू. ७.१.३ ९ ) इति सुपो लुकि, ' न ङिसम्बुद्धयोः ' ( पा. सू. ८.२.८ ) इति नलोपाभावः । देवयजनस्य भूमेः शरीरत्वं तु — ' वर्ष्म ह्येतत् पृथिव्या यद्देवयजनम् ' इति । शतपथे च — ' अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । उपनिष्क्रामति दक्षिणया द्वारा पत्नीं निष्क्रामयन्ति स दक्षिणस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीदं विष्णुर्विचक्रमे - स्वाहेति संस्रवं पल्यै पाणावानयति साक्षस्य सन्तापमुपानक्ति देवश्रुतौ देवेष्वाघोषतमिति प्रयच्छति प्रतिप्रस्थात्रे स्रुचं चाज्यविलापनीं च पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी ' ( श. ३.५.३.१३ ) । दक्षिणहविर्धानशकटवर्त्मनि होत्रार्थमन्यच्चतुर्गृहीतमाज्यं गृहीत्वा प्राचीन वंशादुपनि -ष्क्रामेत् पत्नीं चाक्षधुराभ्यञ्जनाय दक्षिणया द्वारा निष्क्रामयेत् । सोऽध्वर्युर्दक्षिणस्य हविर्धानस्य शकटस्य दक्षिणचक्र-रेखायां हिरण्यं निधाय जुहुयात् संस्रवं जुहूलिप्तम् । सा पत्नी संस्रवेण आज्येन अक्षस्य सन्तापं सन्तप्यते चक्रसङ्घर्षेणेति सन्तापश्चक्रवलयसंस्पर्शप्रदेशः तं चक्रद्वय उपानक्ति । अनुलोमाञ्जनं कुर्यान्न प्रतिलोमम् । पुनः पाणिमावर्तयेत् । ‘ पत्नी पाणिभ्यां शेषं प्रतिगृह्याक्षधुरावनक्ति पराग् देवश्रुताविति ' ( का. श्री. ८.३.२८ ) । शालाया दक्षिणेन द्वारेणाध्वर्युणानीता पत्नी प्राग्गतं हस्तं प्रत्यगनया कर्षन्ती उभाभ्यां हस्ताभ्यां चतुर्गृहीतस्य हुतशेषं प्रतिगृह्य अक्षस्य धुरौ पराग् अनभ्यावृत्तम् उत्तानेन दक्षिणेन हस्तेन देवश्रुताविति मन्त्रेणाञ्ज्यादुदक्संस्थम् । ' न च हस्तमावर्तयति ' ( ११.६ ) इत्यापस्तम्बः । युग-पदुभयोर्धुरोरञ्जनं न पृथक्, देवश्रुताविति मन्त्रस्य द्विवचनान्तत्वात् । ' अथ वाचयति । प्राची प्रेतमध्वरं कल्पयन्ती इत्यध्वरो वै यज्ञः प्राची प्रेतं यज्ञं कल्पयन्ती इत्येवैतदाहोर्ध्वं यज्ञं नयतं मा जिह्वरतमित्यूर्ध्वमिमं यज्ञं देवलोकं नयतमित्येवैतदाह मा जिह्वरतमिति तदेतदस्मा अह्वलामाशास्ते समुद्गृह्येव प्रवर्तयेयुर्यथा नोत्सर्जेतामसुर्या वा एषा वाग् याऽक्षे नेदिहासुर्या वाग्वदादिति यद्युत्सर्जेताम् ' ( श. ३.५.३.१७ ) । प्रैषानन्तरं हविर्धानयोः प्रवर्तनकाले वाचयति प्राची प्रेतमिति मन्त्रेण । मन्त्रार्थस्तूक्त एव । ' अध्वरो वै यज्ञः, ध्वरतिहिंसाकर्मा ' ( निरु. १.८ ) । हिंसा नास्तीत्यध्वरः स यज्ञः । ' या वेदविहिता हिंसा नियतास्मिश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ’ ॥ ( म. ५.४४ ) । मा जिह्वरतमित्यस्याभिप्रायमाह - अह्वलामाशास्त इति । समुद्गृह्येव प्रवर्तयेयुः शकटम्, तस्य व्याख्यानम् - यथा नोत्सर्जेतामिति । यथाऽत्यन्तनिघर्षेण दुष्टध्वनिविसर्गो न स्यात्तथा प्रवर्तयेयुरित्यर्थः । अक्षध्वनेः श्रवणकटुत्वादसुर्यत्वम् । तदाह - असुर्या वा एषा वाग् याऽक्ष इति । एतद्वाचयेत् । स्वं गोष्ठमावदतं देवी दुर्गे आयुर्मा निर्वादिष्टं प्रजां वा निर्वादिष्टमिति तस्यो हैषा प्रायश्चित्तिः ' ( श. ३.५.३.१८ ) । प्रमादाद् ध्वन्युत्पत्तौ स्वं गोष्ठमिति मन्त्रं वाचयेत् । यजमानस्य गोष्ठं गवां स्थानमावदतं सर्वतः शब्दयतम्, समृद्धं स्यादिति ब्रूतम् । आयुरस्मदायुः प्रजां
पृष्ठ 168
पाठ पढ़ें पाठ छिपाएँ
म. १७ ] वेदार्थपारिजात भाष्यसहिता १५ ९ च पुत्रादिरूपां मा निर्बाधिष्टमिति सायणाचार्यः । मूले तु निर्वादिष्टमित्येव पाठः, तस्यैवायमर्थः । तस्यासुर्यस्य ध्वनेरियं प्रायश्चित्तिः । केषाञ्चिद्रीत्या उत्तरवेदेः पश्चात् सञ्चाराद् विक्रमत्रयं परित्यज्य यत्र देशे तयोः स्थापनं भवति, सा हविर्धानयोर्मात्रा स्थापनदेशप्रमाणम् । स्वपक्षे तु नात्र मात्रास्ति । यत्रैव स्वयं मनसा मन्येत तत्राप्यतिदूरं च विसृज्य मध्ये स्थापयेदिति तत्रैव शतपथे ( ३.५.३.१ ९ ) कण्डिकायामुक्तम् । ' ते अभिमन्त्रयते । अत्र रमेथां वर्ष्मन् पृथिव्या इति वर्ष्म ह्येतत् पृथिव्यै भवति दिवि ह्यस्याहवनीयो भवति नभ्यस्थे करोति तद्धि क्षेमस्य रूपम् ' ( श. ३. ५.३.२० ) । स्थापनान्तरं हविर्धानेऽभि-मन्त्रयेत — अत्र रमेथामिति मन्त्रेण । पृथिव्या वर्ष्मणि शरीरेऽत्र देशे हे हविर्धाने, रमेथां रतिं कुरुतम् । दिवि ह्यस्येति तत्र हेतुः । यस्मादुत्तरवेदिरूप आहवनीयो द्युलोकस्थानीयोऽतस्तदधोवर्तिदेशस्य पृथिवीशरीरत्वं युज्यते । नभ्यस्थे यथा नाभ्याधारफलके भूमिष्ठे भवतस्तथा कुर्यात् । ' नाभि नभं च ' ( पा. सू. ५.१.२ ) इति नाभिशब्दस्य यत्प्रत्ययप्रयोगे नभादेशः । उत्तरत्र प्रदेशस्य भूस्पर्शे भ्रंशः कदाचिद्भवेत्, अत एव क्षेमस्य रूपं भवति । तदुक्तं कात्यायनेनापि-' पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा नभ्यस्थेऽभिमन्त्रयतेऽत्र रमेथामिति ' ( का. श्रौ. ८.४.५ ) । अयमभिप्रायः - नाभौ भवं नभ्यं चक्रं तत्र फलकत्रयं भवति । तत्र यन्मध्यमं फलकं तन्नभ्यस्थमित्युच्यते । उत्तरवेदिर्वक्ष्यते । यत्र प्रणीत आहवनीयोऽग्निः स्थाप्यते, तस्याः पश्चाद् द्विपदात्मकं प्रक्रमत्रयं परित्यज्य तत्र स्वमतिपरिकल्पिते देशे वा नातिदूरे नातिसमीपे द्वे अपि अनसी युगपत्स्थापिते भवतः । तत्र तत्रभ्यस्थमेकैकस्यापि शकटस्य यथा भवेत्, तथा शकटद्वयं स्थापयित्वाऽभिमन्त्रयेत । इदानीं तथाविधं चक्रमनो वा न प्रचलति यादृशं सूत्रकृता व्याख्यातृभिर्वाभिप्रेतमिति वृत्तिकृत् । एवं श्रुतिसूत्रसम्मतमेव पूर्वोक्तव्याख्यानम् । अध्यात्मपक्षे I राधाकृष्णौ वा, युवां तु - हे देवश्रुतौ प्रकृतिपुरुषौ उमामहेश्वरौ लक्ष्मीनारायणौ सीतारामौ देवेष्वग्नीन्द्रादिषु - देवश्रुतौ देवत्वेन जगन्नाटकसूत्रधारत्वेन जगदुत्पत्तिस्थितिलयलीलाकर्तृत्वेन वा श्रुतौ विश्रुतौ प्रसिद्धौ युवां शरणागतरक्षकौ इत्यभयवाच आघोषयतम् उच्चध्वनिना कथयतम् । युवां प्राचीन भक्तानामाभिमुख्येन प्रागञ्चतः प्राङ्मुखौ प्रेतं प्रकर्षेण गच्छतम् । स्त्रीत्वं छान्दसम् । कीदृशौ युवाम्? अध्वरं वैदिकहिंसारहितं यज्ञं कल्पयन्ती कल्पयन्तौ फलजननसमर्थं कुर्वाणौ यज्ञं चोर्ध्वमुपरिवर्तिदेवान् प्रापयतम्, अग्निमन्त्रशक्त्यादिरूपेण तयोरेव हविर्भुग्भ्यो हविःप्रापकत्वात् । हे शरणागतवत्सलौ, कथञ्चित् प्रमादेन बहिर्मुखान् दुश्चरितानप्यस्मान् भक्तान् प्रति मा जिह्वरतं कुटिल प्रतिकूल मा भवतम् । हे देवी, हे देवौ विविधक्रीडापरायणौ, युवां दुर्ये गृहरूपौ भक्तानामाश्रयभूतौ । भक्तानां स्वं स्वीयं गोष्ठं गवां त्वदाराधनार्थं दधिदुग्धघृतादिसाधनानां धेनूनां स्थानं व्रजम्, अथवा गवां वाचामिन्द्रियाणां च स्थानं शरीरं सर्वतः कथयतम्, समृद्धमिति शेषः । युवयोः सत्यसङ्कल्पत्वेनामोघवाक्त्वेन च युवाभ्यामुच्चारितस्य क्रिया-अध्यात्मपक्ष में यह अर्थ है – हे प्रकृति -पुरुष, उमामहेश्वर, लक्ष्मीनारायण, सीताराम अथवा राधाकृष्ण! आप दोनों अग्नि, इन्द्र आदि देवताओं में जगन्नाटक के सूत्रधार के रूप में अथवा जगत् की उत्पत्ति, स्थिति तथा विलय की लीला करने वाले के रूप में प्रसिद्ध हैं । आप शरणागत के रक्षक हैं, अतः अभय वाणी का उद्घोष करें । आप प्राचीन भक्तों के अभिमुख आगमन करें । वैदिक हिंसारहित यज्ञ को फलप्रद बनाते हुए उसको उपरि लोकों में स्थित देवताओं तक प्राप्त करावें । हे शरणागतवत्सल, प्रमाद से बहिर्मुख वृत्तिवाले हमारे दुश्चरित होने पर भी हम लोगों के प्रतिकूल न हों । हे विविध क्रीडा करने वाले, आप दोनों भक्तों के आश्रयस्थल हैं, भक्तों को अपनी आराधना के साधनों के स्थल अथवा वाणी तथा इन्द्रियों के स्थान शरीर की समृद्धि निर्दिष्ट करें । हमारी देव, ऋषि आदि से सम्मत आयु को विच्छिन्न न करें । पुत्रादि प्रजाओं को बाधित न होने दें तथा हे देवों, भूमि के शरीररूपी देवयजनस्थान हमारे हृदय में आप क्रीडा करें ।
पृष्ठ 169
पाठ पढ़ें पाठ छिपाएँ
१६० शुक्लयजुर्वेदसंहिता । अ. ५ फलाश्रयत्वोपपत्तेः । किञ्जुनोऽस्माकमायुर्देवर्ण्यादिसम्मतमायुः, निर्वादिष्टं मा बाधिष्टं मा निराकार्ष्टम् देवयजनेऽस्मद्धृदये । त्वदुपासनासहकारि रमेथां पुत्रादिरूपां प्रजां च मा निराकार्ष्टम् । हे देवेषु देवश्रुतौ पृथिव्या भूमेर्वर्ष्मणि शरीरभूते क्रीडां कुरुतमिति । कल्पयत्यध्वरं स्वामिदयानन्दस्तु — हे मनुष्याः, यथा यो देवेषु देवश्रुतौ घोषतं व्यक्तं शब्दं कुरुते । यः ये प्राचीं देवी दुर्ये स्वं गोष्ठं यज्ञं प्रेतं प्रेत आनयतं नयतस्ते च रोदसी यथा मा जिह्वरतं कुटिले न भवेतां तथा कुरुतम् । पृथिव्यामन्तरिक्षस्य मध्यवर्ष्मणि समन्तात् प्राप्नुतस्ताभ्यां कस्याप्यायुर्मा निर्वादिष्टं प्रजां मा निर्वादिष्टं विनष्टां मा कुरुतम्, तावता सर्वेण बहूनि सुखानि जगति रमेथां तथानुतिष्ठतम् ' इति । भावार्थस्तु –‘मनुष्यैर्यावज्जगदन्तरिक्षस्य ' मध्ये देवश्रुतौ वर्तते यथा दिव्यविद्याश्रुतौ विद्वांसौ ' सम्पादनीयानि ' इति, तत्सर्वमपि स्वाभ्यूहितमात्रम्, पदार्थासङ्गतेः । यदुक्तम्— । देवपदेन दिव्यविद्याग्रहणमपि निर्मूलम्, इति, तदप्यसङ्गतम्, मूले यथापदाभावात्, लुप्तोपमालङ्काराश्रयणे मानाभावात् देवपदेन तदतिरिक्तग्रहणे मानाभावात् । ' देवेषु विद्वत्सु दिव्यगुणेषु वा ' इत्यप्यसङ्गतम्, मनुष्यादिवद् देवजातेः साधितत्वेन वा सर्वोऽपि तथैव प्रकृष्टमञ्चेत्, कथञ्चित्तदङ्गीकारेऽपि त्वद्रीत्या जडाभ्यां ताभ्यां कः कथं प्रकृष्टमञ्चति? तथात्वे? कथं वा तयोरुत्कृष्ट-देशाकाशयोः साधारणकारणत्वेन विशिष्टहेतुत्वानुपपत्तेश्च । कथं च तयोरहिंसनीयकल्पकत्वम् प्रमाणापेक्षम् । तयोः कौटल्यमपि कथं विज्ञानशिल्पसङ्गमनीयप्रापकत्वम्? यज्ञपदस्य विज्ञानशिल्पगमनीयमर्थ इत्यपि । ' देवी दिव्यगुणसम्पन्ने ' सम्भाव्यते? यदि प्रकृतिजं कौटल्यं तदा कथं त्वदुक्त्या तन्निरोधः? अप्राप्तौ गोष्ठं च गवां निषेधायोगः स्थानं किं कथं च ते तत्प्राप्स्यतः? इत्यप्यसङ्गतम्, प्रमाणानुपलम्भात् । ' दुर्ये गृहस्वरूपे ' इत्यपि निर्मूलम् । स्वं? वर्ष्मन्नित्यस्य सुखवृष्ट्युपेतार्थत्वे वर्ष्मन् सुखवृष्टियुक्ते पृथिव्या अन्तरिक्षस्य मध्ये रमेथामिति कयोर्नियोगः सम्भवति ' इत्युक्तम्, तदपि मानाभावश्च । हिन्द्यां तु ‘ स्वं गोष्ठं किरणानामवयवानां च स्थानस्य आवदतमुपदेशनिमित्तकत्वमस्तु
निरर्थकं निष्प्रमाणं च । हिन्दीव्याख्यानमपि न संस्कृतव्याख्यानमनुसरति ॥ १७ ॥
विष्णोर्नुक॑ वी॒र्या॑णि॒ प्रवो॑च॒ यः पार्थि॑वानि विम॒मे रजा॑ सि । यो अस्क॑भाय॒दुत्त॑र स॒धस्थं ' विचक्रमा॒णस्त्रेधोरु॑गा॒यो विष्ण॑वे॒ त्वा ॥ १८ ॥
' उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नुकमिति ' ( का. श्रौ. ८.४.६ ) । अध्वर्युर्द्वयोरप्यनसोरुत्तरेण । तिस्रो वैष्णव्यस्त्रिष्टुभः परिक्रम्य । दक्षिणमनो निरुणद्धि । शकटाग्रं ( यत्र युगं बध्यते ) वोढुमुपस्तम्भनकाष्ठस्योपरि स्थापयेदित्यर्थः त्रिविक्रमावतारस्य द्वयोरन्ते विष्णवे त्वेति यजुः । ' नु ' ' कम् ' इत्यवधारणार्थको निपातसमुदायः । विष्णोर्व्यापनशीलस्य के कारण स्वेच्छाकृत है । देवपद स्वामी दयानन्द द्वारा उल्लिखित मन्त्रार्थ तथा भावार्थ पदों के अर्थ की संगति न होने है । हिन्दी व्याख्या भी संस्कृत से दिव्य विद्या अर्थ ग्रहण करना मूलरहित है । ' दुर्ये ' का अर्थ ' गृहरूपवाली ' करना भी निर्मूल व्याख्या से सम्बद्ध नहीं है ॥ १७ ॥
मन्त्रार्थ - मैं सर्वव्यापी भगवान् विष्णु के किन - किन कर्मों का गुणगान करूँ, अर्थात् रचा परमात्मा है । जो की परमात्मा क्या स्तुति तीन करूँ लोक, उनकी तो महिमा अपार है । उस परमात्मा ने भूमि, अन्तरिक्ष और स्वर्गसम्बन्धी से ज्योतियों गाया गया को है, उसने ऊपर के देवताओं के में अग्नि, वायु और सूर्य के रूप से तीन पद धारण करता हुआ महात्माओं के लिये मैं तुमको गाड़ता हूँ | अध्वर्यु स्थानरूप द्युलोक को स्तम्भित किया है । हे स्थूण काष्ठ! विष्णु देव की प्रसन्नता को इस मन्त्र से स्तम्भ पर खड़ा करे और दोनों हविर्धानों ( शकटों ) को उत्तर की ओर से परिक्रमण कर दक्षिण हविर्धान अग्निकोण में स्थूण गाड़े ॥१८ ॥
पृष्ठ 170
पाठ पढ़ें पाठ छिपाएँ
म. १८ ] वेदार्थपारिजात भाष्यसहिता १६१ वा कर्माणि प्रपञ्चोत्पत्त्यादिलक्षणानि प्रवोचं प्रब्रवीमि । कथंभूतस्य विष्णोरिति तत्राह — यो विष्णुः पार्थिवानि रजांसि परमाणून् पृथिव्यन्तरिक्षादिलोकान् वा, ‘ लोका रजांस्युच्यन्ते ' ( निरु. ४.१ ९ ), विममे निर्मितवान् परिगणितवांश्च । पुनरपि कथंभूतस्य? यो विष्णुरुत्तरमुपरितनं सधस्थं देवानां सहवासस्थानं सह देवास्तिष्ठन्ति यस्मिंस्तत् सधस्थम्, ‘ सधमा-दस्थयोश्छन्दसि ' ( पा. सू. ३.६.९ ६ ) इति सहस्य सधादेशः । द्युलोकरूपमस्कभायद् यथा द्यौर्न पतति तथा स्तम्भितवान् । ' स्कम्भ रोधने ' ' क्र्यादिभ्यः श्नः ' ( पा. सू.३.१.८३ ) इत्यत्र हेरनुवृत्तौ ' छन्दसि शायजपि ' ( पा. सू. ३.१.८४ ) इत्यनेन शायजादेशः । यद्यपि हौपरे श्नाप्रत्ययस्य शायजादेशो विहितो नास्ति, तथापि व्यत्ययेन लट्यपि श्नः शायजादेशः । पुनरपि कथंभूतस्य? यस्त्रिधा विचक्रमाणस्त्रिषु लोकेषु पदत्रयं निदधौ । उरुगाय उरुभिर्महात्मभिर्गीयत इत्युरुगाय, उरुधा बहुविधं वा गीयत इत्युरुगाय उरुगमनो वा । ' दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वेति ' ( का. श्री. ८.४.७ ) । स्थूणे काष्ठ, विष्णवे हविर्धानशकटाभिमानिविष्णुप्रीत्यर्थं त्वां निहन्मि निखनामीति शेषः । शतपथे च – ' अथोत्तरेण पर्येत्याध्वर्युर्दक्षिणं हविर्धानमुपस्तभ्नाति विष्णोर्मुकं - विष्णवे त्वेति मेथीमु पनिहन्तीतरतस्ततो यदु च मानुषे ' ( श. ३.५.३.२१ ) । अथोत्तरेणेति । दक्षिणहविर्धानस्योत्तरतः परीत्य पुरोदेशं गत्वा दक्षिणं हविर्द्धानमुपस्तभ्नाति । यथाऽधो न पतेत् तथोपरतम्भनकाष्ठे स्थापयेत् । मन्त्रार्थस्तूक्तः । विष्णवे त्वेति । हे मेथीस्तम्भ, विष्णवे हविर्धानशकटाय त्वा उपहन्मीत्यर्थः । कुत्र निहन्यादिति तत्राह — इत-रतस्ततो यदु च मानुष इति । मानुषे शकटधारणे यत्स्थानमीषाग्रेतर भागस्तदुत्तरत्र मेथीं निहन्यादित्यर्थः । ' उत्तरतः स्थूणां पूर्ववत् उभे वा दक्षिणतः इतरतस्ततः, यदु च मानुष इति श्रुतेरिति ' ( का. श्री. ८.४.९ - १२ ) । मण्डपस्योत्तरतो हविर्धानयोः पश्चिमेन गत्वा हविर्धानशकटस्योत्तरपूर्वकोणेऽध्वर्युरेव विष्णवे त्वेति स्थूणामुपनिहन्यात्, अथवा ' उभे स्थूणाहविर्धानस्य दक्षिणपार्श्वे एवाध्वर्युर्निहन्यात् । ततोऽनन्तरं ययोः कोणयोः पूर्वनिखाते ततोऽन्ययोः कोणयोरेकैका-मुपनिहन्यात् । यर्दिं प्रथममंशयोर्निखाते तदा श्रोण्योः, यदि प्रथमं दक्षिणतस्तत उत्तरत इति चतस्रोऽपि स्थूणा दाक्षि-ण्येनोपहताः स्युरिति । यच्च मानुषे लोकविषये ऽनसः प्रसिद्धमुपरि वलकानिधानबन्धनाधिकस्थूणानिखननादि यच्च दशारनिपरिमितहविर्धाननिष्पादने वलकानिधानादि प्राप्नोति, तदपि दृढीकरणार्थं कुर्यात् । अध्यात्मपक्षे तु — यः कश्चन लोकोत्तरः पार्थिवानि रजांसि पार्थिवपरमाणून् विविधतया विममे परिगणयति, सोऽपि विष्णोः श्रीमन्नारायणस्य वीर्याणि रामकृष्णादिरूपेणाचरितानि पराक्रमबहुलानि सुखरूपाणि कर्माणि नु वितर्के, किं परिगणयितुं शक्नोति? न शक्नोतीत्यर्थः । ' विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि ’ ( भा. पु. २. ७. ४० ), ' काले यैर्वा विमिताः सुकल्पैर्भूपांसवः खे मिहिका द्युभासः ' इत्यार्ष भाष्यरूपपुराणवचनात् । य उत्तरमुपरितनं सधस्थं देवानां सहस्थानं द्युलोकाख्यमस्कभायत स्कम्भितवान्, स एव उरुगाय उरुभिरपरिगणितैः कविभिरुरुधा बहुधा गीयते । त्रिविक्रमो भगवान् विश्वं विचक्रमाणस्त्रेधा भुवि दिव्यन्तरिक्षेषु पदत्रयं निदधाति । किमर्थम्? विष्णवे यज्ञाय यज्ञस्य रक्षणाय । अन्यथाऽसुरायते संसारे यज्ञा लुप्येरन् । तादृशं त्वां परमात्मानमहं संश्रय इति भाष्यसार —- कात्यायन श्रौतसूत्र ( ८.४.६-७, ९ -१२ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' विष्णोर्नुकम् ' इस कण्डिका के मन्त्रों से दक्षिण शकट का प्रतिष्ठापन तथा स्थूणास्तम्भ का निखनन ( गाड़ना ) किया जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में यह अर्थ है - जो कोई लोकोत्तर पार्थिव परमाणुओं को परिगणित करता है, वह भी श्रीमन्नारायण विष्णु राम - कृष्णादि रूपों से पराक्रम वाले सुखरूप कर्मों को क्या गिन सकता है? अर्थात् नहीं गिन सकता । जिसने ऊपर के