वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 171–180
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
१६२ शुक्लयजुर्वेदसंहिता [ अ. ५ इति शेषः भगवद्भजनस्य शेषः । अथवा तादृशाय विष्णवे व्यापनशीलाय परमात्मने त्वदर्थमेव त्वां वयं भजाम तत्कुरुष्व मदर्पणम् ॥ ' ( भ. गी. भगवदर्थत्वोपपत्तेः ‘ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ९.२७ ) इति गीतोक्तेः । पार्थिवानि पृथिव्या विकारान् दयानन्दस्तु —‘विष्णोः परमेश्वरस्य नु शीघ्रं कं सुखरूपं वीर्याणि प्रकथयेयम् यः प्रतिबध्नाति, उत्तरमन्तावयवं अन्तरिक्षे विहितानि विममे विविधतया मिमीते, रजांसि लोकाः यः सर्वाधारोऽस्कभायत प्रक्षिपन् त्रेधा त्रिप्रकाराणि, सधस्थं यत् सह तिष्ठति तत् कारणं संगृह्य विचक्रमाणो यथायोग्यं जगद्रावनाय कारणपादान् तं परमेश्वरं जानीथ ' इति । उरुगायो यो बहूनर्थान् वेदद्वारा गायत्युपदिशति सः विष्णवे व्यापनशीलाय प्रवोचं यज्ञाय नु त्वा शीघ्रमाश्रये, तं जानीथ ' इति, अन्वये तु — ' यस्य वीर्याणि विद्वांसो वदन्ति यं सर्वे संश्रयन्ते, तं देवमहं । यच्च ' सह तिष्ठति तदुभयमपि यत्किञ्चित्, अध्याहारबाहुल्यात्, सरलव्याख्यानमपहाय द्रविडप्राणायामाश्रयणाच्च , तदसङ्गतम्, सत्कार्यवादे कारणात्मकस्य यत्तत्कारणं संगृह्य विचक्रमाणो जगद्रचनाय कारणपादान् प्रक्षिपन् ' इत्युक्तम् पटादिकार्यानिरू--कार्यस्य कारणाभिन्नत्वात् तत्सहभावानुपपत्तेः । असत्कार्यवादस्त्वनुपपन्न एव, तन्त्वादिकारणभेदेन कारणस्यांशान् योजयति ' इत्युक्तम्, पणात्, प्रक्षेपस्य नियोगार्थत्वानुपपत्तेश्च, कारणेषु पदत्वानुपपत्तेश्च । यत्तु हिन्द्याम् — ' परित्यज्यानु-तदपि कुशकाशावलम्बनम्, प्रत्यक्षश्रुतस्य विष्णोरित्यस्य सम्बन्धमपहाय कारणपदस्यान्वेषणस्योपस्थितं , गुणानां द्रव्यानुत्पादकत्वात् । पस्थितकल्पनायाः सदोषत्वेनानौचित्यात् । ' पृथिव्या गुणैरुत्पन्ना विकाराः ' इत्यप्ययुक्तम् ॥१८ ॥
‘ पाश्चात्त्यैरवयवैः सहभावीनि कारणानि रुरोध ' इत्यप्यनर्थ; पाश्चात्त्यपौरस्त्ययोः कालभेदेन सहभावाभावात् दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्वष्ण॑वे॒ त्वा ॥ १ ९ ॥। मन्त्रेणोपष्टभ्य ‘ दिवो वेत्युत्तरं प्रतिप्रस्थातोत्तरतः स्थूणां पूर्ववदिति ' ( का. श्रौ. ८.४.८ - ९ ) । यथाध्वर्युर्दक्षिणशकटं पृथिव्या भूर्लोकाद्वा विष्णवे त्वेति स्थूणां निखातवान् एवं प्रतिप्रस्थातोत्तरशकटे कुर्यात् । हे विष्णो, दिवो द्युलोकाद्वा हस्तौ पृणस्व पूरयस्व । उरोर्विस्तीर्णादन्तरिक्षलोकाद्वा समानीतेन वसुना द्रव्येण उभा हि हस्ता उभावपि स्वकीयौ यज्ञ के रक्षणार्थ विश्व को व्याप्त देवों के निवास द्युलोक को स्थिर रखा है, वही ऋषियों द्वारा बहुधा प्रशंसित त्रिविक्रम हैं । भगवान् करते हुए भूलोक, द्युलोक तथा अन्तरिक्ष में अपने तीन पादों को स्थापित करते अधिकता के कारण उचित नहीं हैं । सरल स्वामी दयानन्द द्वारा प्रतिपादित अर्थ तथा अन्वय दोनों ही अध्याहारों की रचना के लिये कारणभूत पादों को स्थापित व्याख्या को छोड़ कर द्रविड़ प्राणायाम का आश्रय युक्तियुक्त नहीं होता । ' जगत् की नहीं होता । अतः दोनों का एक साथ करते हुए ' यह कहना असंगत है, क्योंकि सत्कार्यवाद में कारणात्मक कार्य कारण से के भिन्न गुणों से उत्पन्न विकार ' यह कहना अनुचित रहना असिद्ध नहीं है । असत्कार्यवाद तो असिद्ध है ही । हिन्दी अर्थ में भी ' पृथिवी है, क्योंकि गुण द्रव्यों के उत्पादक नहीं होते ॥ १८ ॥
भी धन लाकर मन्त्रार्थ - हे सर्वव्यापी परमात्मा! आप स्वर्गलोक से पृथ्वीलोक से और विस्तीर्ण अन्तरिक्षलोक दो । हे काष्ठस्तम्भ से! विष्णुदेव हमारे दोनों हाथ भर दो धन से भरे दाहिने या बाएँ हाथ से अनेक प्रकार के धनरल लाकर हमें करता हुआ भूमि का खनन कर की प्रीति के लिये मैं तुमको गाड़ता हैं । इस मन्त्र से प्रतिप्रस्थाता उत्तर में शकट को खड़ा पूर्ववत् स्तम्भ को गाड़े ॥१ ९ ॥
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
म. १ ९ ] वेदार्थपारिजात भाष्यसहिता १६३ ततो धनपूर्णाद्दक्षिणाद् आ उत सव्याच्च हस्तात् प्रयच्छ बहुकृत्व आवृत्त्या प्रकृष्टं मणिमुक्तादिधनमस्मभ्यं देहि । तृतीयया व्यत्ययेन वा दक्षिणेन, अपि च सव्येन हस्तेन उभाभ्यां हस्ताभ्यामौदार्येण प्रयच्छ । हे स्थूणे, विष्णवे विष्णुप्रीत्यर्थं त्वानिहन्मि । शतपथे च - ' अथ प्रतिप्रस्थाता । उत्तरं हविर्धानमुपस्तभ्नाति दिवो वा विष्ण उत वा पृथिव्या महो वा विष्ण उरोरन्तरिक्षात् । उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणादोत सव्याद्विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानषे तद्यद्वैष्णवैर्यजुर्भिरुपचरन्ति वैष्णवं हि हविर्धानम् ' ( श. ३.५.३.२२ ) इति पूर्वोक्त एवार्थः समर्थ्यते । अध्यात्मपक्षे तु हे विष्णो व्यापनशील परमेश्वर, दिवो वा पृथिव्या वा महत उरोरन्तरिक्षात् समानीतेन वसुना धनेन उभौ हस्तौ करौ आपृणस्व पूरयस्व । दक्षिणात् सव्याच्च हस्ताद् धनमभीष्टं प्रयच्छ । विष्णवे विष्णुप्रीत्यर्थमेव त्वा त्वां वयं भजामः । यद्वा हे विष्णो व्यापनशील व्यापकविष्णोरंशभूत जीवात्मन्, तपस्यया उपासनया दिवो द्युलोकात् पृथिव्या उरोर्विस्तीर्णादन्तरिक्षादानीतेन वसुना उभौ हस्तौ आपृणस्व पूरयस्व, दक्षिणात् सव्याच्च हस्तात् प्रयच्छ । विष्णवे विष्णुप्रीत्यर्थम् । अत्र विष्णुपदं परमेश्वरपरम् । दयानन्दस्तु —– ' हे विष्णो, त्वं कृपयाऽस्मान् दिवः प्रसिद्धादग्नेर्विद्युतो वा उभौ हस्तौ बलवीर्यौ वसुनाऽऽपृ-स्व सुखानि प्रयच्छ, प्रीणीहि प्रीणय । दक्षिणाद् दक्षिणपार्श्वाद् आ अभितः उत च सव्याद् वामपार्श्वात् पृथिव्याः सकाशादुत्पन्नेभ्यः पदार्थेभ्यः, महो महत्तत्त्वाच्चाव्यक्तादुतोरोरन्तरिक्षाद् वा वसुना द्यां पृणस्व तं त्वां विष्णवे यज्ञाय वयमर्चयेम ' इति । हिन्दीभाष्ये तु — ' हे विष्णो, दिवः प्रसिद्धादग्नेर्विद्युत उभौ हस्तौ वसुना द्रव्येण सार्धमापृणस्व सुखैः पूरयस्व । पृथिव्या उत्पन्नैः पदार्थैरपि महत्तत्त्वादव्यक्ताद्वा उरोरन्तरिक्षाद् द्रव्येण सार्धं दक्षिणवामपार्श्वाभ्यां सुखानि प्रयच्छ । त्वां यज्ञाय योगविज्ञानाय वयमर्चयेम ' इति, तदुभयमपि न, बहुभिर्निरर्थकैः शब्दैः प्रयुक्तैरप्यभि-प्रायस्यास्पष्टत्वात् । ‘ दिवः ' इति पदस्य अग्निना विद्युता च कः सम्बन्धः? हस्ता इति हस्तशब्दस्य वाच्यार्थमपहाय ' बलवीर्यौ ' इत्यर्थकरणमपि निर्मूलमेव । परमेश्वरस्य साकारत्वापत्तिभयाद्यदि मुख्यार्थत्यागेन लाक्षणिकार्थाश्रयणम्, तदा तत्साकारत्वाङ्गीकरणमेव कुतो न क्रियते? हस्तप्रसङ्गाद् दक्षिणाद्धस्तात् सव्याद्धस्तादित्येवार्थो युक्तः सव्य-दक्षिणपार्श्वयोरपि निराकारेऽनुपपत्तेः । वस्तुतस्त्वत्र यत्किञ्चित्प्रलापेन धूलिप्रक्षेप एव कृतो दयानन्देन । उत्पत्तिबोधकं भाष्यसार —— कात्यायन श्रौतसूत्र ( ८.४.८ - ९ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' दिवो वा ' इस कण्डिका द्वारा प्रतिप्रस्थाता ऋत्विक् उत्तर शंकट का स्थापन तथा स्थूणास्तम्भ का निखनन करता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है - हे व्यापनशील परमेश्वर विष्णु! द्युलोक अथवा पृथिवी अथवा विस्तीर्ण अन्तरिक्ष से आनीत धन के द्वारा दोनों हाथों को परिपूर्ण करें । दाहिने तथा बाएं दोनों हाथों से हमें वांछित धन प्रदान करें । विष्णुदेव की प्रसन्नता के लिये हम आपकी आराधना करते हैं । अथवा हे व्यापक विष्णु के अंशभूत जीवात्मा, तपस्या के द्वारा द्युलोक, पृथ्वी अथवा विस्तृत अन्तरिक्ष से लाये गये धन से दोनों हाथों को पूर्ण करो तथा दाहिने एवं बाएं दोनों हाथों से परमेश्वर के प्रीत्यर्थ वितरित करो । स्वामी दयानन्द द्वारा प्रतिपादित संस्कृत एवं हिन्दी व्याख्याओं में मन्त्र में अनुक्त बहुत से शब्दों के अध्याहार के बाद भी अस्पष्टता है । ' दिवः ' पद का अग्नि तथा विद्युत् से क्या सम्बन्ध है? हस्त शब्द के वाचक अर्थ को छोड़कर बल तथा वीर्य अर्थ
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
१६४ शुक्लयजुर्वेदसंहिता [ अ. ५ पदमत्र मन्त्रे नास्त्येव । तस्मात् पृथिव्याः सकाशान्महत्तत्त्वादव्यक्ततत्त्वादुत्पन्नैर्द्रव्यैः सार्धं सुखस्य याच्ञाप्यसङ्गतैव, । महःपदस्य महत्तत्त्वार्थत्वे मानाभावश्च । अव्यक्ततत्त्वपदं तु मन्त्रे नतरां विद्यते । सुखबोधकमपि पदं मन्त्रे नास्त्येव तस्मादयमर्थः यत्किञ्चित्प्रलपनान्नातिरिच्यते ॥ १ ९ ॥ प्र तद्विष्णु॑ः स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो ग॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्र-म॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ २० ॥
' प्र तद्विष्णुरिति वाचयति मध्यमं छदिरालभ्येति ' ( का. श्री. ८.४.१३ ) । हविर्धानं काष्ठैर्निष्पाद्य उपरि छादनादिकं कुर्यादित्याह । पूर्वं या हविर्धानमण्डपनिर्माणसामग्री शकटस्योपरि निहिता, तया सामग्या हविर्धानमण्डपं चतुःस्तम्भं आलम्भं निष्पाद्य तत्र तत्र यत् छदिस्त्रयनिधानं कृतम्, तत्र यन्मध्यमं छदिरालभस्वेत्यध्येषणया यजमानेन मध्यमच्छदिष कारयित्वा प्रतद्विष्णुरिति यजमानं वाचयेत् । हविर्धानशकटाच्छादनं तु वस्त्रादिना कर्तव्यम् । यस्य विष्णोः, उरुषु लोकत्रयव्यापकत्वेनातिविस्तृतेषु त्रिषु विक्रमणेषु विश्वा विश्वानि सर्वाणि भुवनान्यधिक्षियन्त्यधिवसन्त्यन्तर्भवन्ति, ततः स लोकवेदप्रसिद्धो विष्णु, वीर्येण वीरस्य कर्म वीर्यं तेन वीर्येण साधारणभूतेन वीरकर्मादिना प्रस्तवते प्रस्तूयते प्रकर्षेण स्तूयते, व्यत्ययेन यकः स्थाने शप् । यथा गिरिष्ठाः पर्वतस्थितः कुचरः कुत्सितं हिंसनं चरतीति कुचर; भीमो बिभेत्यस्मादिति भीमः सर्वप्राणिभीतिजनकः, गिरिस्थायी गिरिष्ठाः मृगो न सिंह इव वीर्येण निमित्तेन वीरकर्मणा स्तूयते तद्वत् । हीनोपमानत्वात् पूर्वोक्तादन्यद् व्याख्यात्युव्वटाचार्यः । तथाहि — मृगो मृग्यते भक्तैर्यः स मृगः, ' मृजूष् शुद्धौ ' इति धातोः । मार्ष्टि शोधयतीति वा मृग इन्द्रः । भीमो भीषणः । कुचरः क्वायं चरतीति भक्तैरन्वेष्यत इति कुचरः । क्वशब्दस्य सम्प्रसारणं छान्दसम् । गिरिष्ठा गिरिर्मेघः तत्र वृष्ट्यर्थं तिष्ठतीति गिरिष्ठास्तथाविध इन्द्र इव प्रस्तूयते । यद्वा नशब्दोऽनर्थकः पादपूरणः । तथा च मृगः शोधकत्वेन पावकः । भीमो बिभेत्यस्मादिति भीमः, ' भीषास्माद्वातः पवते भीषोदेति सूर्यः ' ( तै. उ. २.८ ) इति श्रुतेः । कुचरः कौ पृथिव्यां रामकृष्णादिरूपेण चरतीति कुचरो विष्णुरेव । गिरिष्ठा गिरि वाण्या गिरौ देहे वान्तर्यामिरूपेण तिष्ठतीति गिरिष्ठाः । अयमेवाध्यात्मिकोऽप्यर्थः । ब्राह्मणानुसारेण तु विष्णुर्हविर्धानाख्यः शकटः तस्य यदुपरि वर्तमानं मध्यमं छदिरस्ति तत्स्तूयते । उत्तरवेदेः प्रत्यक् त्रिषु विक्रमणेष्वतीतेषु निधीयमानस्य यस्योपरि शीर्षकपालस्थानीयं मध्यमं छदिरस्ति, तस्य अधि उपरि सर्वतो करना भी मूलरहित है । परमेश्वर के साकार सिद्ध होने के भय से यदि वाच्यार्थ को छोड़कर लाक्षणिक अर्थ का आश्रय लिया गया नहीं है, तो परमेश्वर की साकारता ही क्यों नहीं स्वीकार की जाती? निराकार होने पर तो बाएं तथा दाहिने पार्श्व की भी संगति होती है । अतः यह अर्थ समीचीन नहीं है ॥१ ९ ॥ मन्त्रार्थ - वह परमात्मा, जिससे चराचर जगत् भयभीत रहता है, जो सिंह के समान पराक्रमी है, जो पृथ्वी पर मत्स्य आदि के रूप में अवतार लेता है, जो देह में अन्तर्यामी के रूप में स्थित है, वह सर्वव्यापी परमात्मा असुरों का वध कर तथा भक्तों की और धर्म की रक्षा कर अपने इन पराक्रमों के कारण स्तुतियोग्य है, जिस परमात्मा के तीन महान् डगों के रखने के स्थान तीन लोकों में सब लोक निवास करते हैं । मध्यम छदि का स्पर्श कर इस मन्त्र को पढ़े ॥ २० ॥
भाष्यसार —— कात्यायन श्रौतसूत्र ( ८.४.१३ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' प्र तद् विष्णुः ' इस ऋचा का पाठ हविर्धान मण्डप की मध्यम छदि ( मण्डपाच्छादन ) का स्पर्श करते हुए यजमान से कराया जाता है । शतपथ ब्राह्मण में हविर्धान शकट को विष्णुरूप कहा गया है ।
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
म. २०-२१ ] वेदार्थपारिजात भाष्यसहिता १६५ विश्वा भुवनानि शीर्षकलापस्थानान्यन्यानि छदींषि निवसन्तीति सायणाचार्यः । ' अथ मध्यमं छदिरुपस्पृश्य वाचयति स्तवते..... विश्वेतीदं हैवास्यैतच्छीर्षकपालं यदिदमुपरिष्टादधीव ह्येतत्क्षियन्त्यन्यानि शीर्षकपालानि तस्मादाहाधिक्षियन्तीति ' ( श. ३.५.३.२३ ) । एतदनुगुणोऽर्थस्तूक्त । दयानन्दस्तु – ‘ यस्योरुषु त्रिषु विक्रमणेषु विश्वानि भुवनानि अधिक्षियन्ति, यश्चासौ विष्णुर्वीर्येण भीमः कुचरो गिरिष्ठा मृगो न सिंह इव विचरन् प्रस्तवते उपदिशति, तत् तस्मात् स नैव कदापि विस्मरणीयः ' इत्याह । यद्यप्ययमर्थो नातीव विरुद्धस्तथापि ‘ उरुषु विक्रमणेषु ' इत्यस्य स्वारस्यं त्रिविक्रमावतारधारिण उरुषु विस्तीर्णेषु विक्रमेषु पादविक्षेपेषु सर्वाणि भूतान्यन्तर्भूतानीत्यत्रैवेति ॥२० ॥
विष्णो॑ र॒राद॑मसि॒ विष्णो॒ः श्नप्त्रे॒ स्यो॒ विष्णो॒ोः स्यूर॑सि॒ विष्णोर्धुवोऽसि । वै॒ष्ण॒वम॑सि॒ विष्ण॑वे॒ त्वा ॥ २१ ॥
' विष्णो रराटमिति रराट्यामिति ' ( का. श्रौ. ८.४.१५ ) । रराट्यामालभस्वेत्यध्येषणया यजमानेन रराट्यां स्पर्श-यित्वा वाचयेत् । हविर्धानाख्ये पूर्वोक्ते द्वे शकटे दक्षिणोत्तरभागयोः स्थापयित्वा तदावरकत्वेन परितो हविर्धानाख्यं मण्डपं कुर्यात् । स च मण्डपो विष्णुदेवताकत्वाद् विष्णुरित्युपचर्यते । विष्णोश्च मूर्तिधरस्य सर्वावयवसद्भावाल्ला-टस्थोऽवयवोऽप्यस्ति । तद्वद् हविर्धानमण्डपस्यापि पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद् दर्भमयी माला ग्रथ्यते । सा तदाधारभूतस्तिर्यग् बन्धो वात्र सम्बोध्योच्यते - हे माले, अथवा हे तदाधारभूत तिर्यग्वंश, त्वं विष्णोर्मूर्तित्वेनोपचरितस्य हविर्धानमण्डपस्य रराटमसि ललाटस्थानीयोऽसीति काण्वसंहितास्थसायणभाष्याशयः । मन्त्रार्थ इस प्रकार है -- जिन विष्णुदेव के त्रिलोकव्यापी, अतिविस्तृत तीन पादों में समस्त लोक अधिष्ठित हैं, अर्थात् अन्तर्भूत हैं, वही लोक तथा वेदों में प्रसिद्ध विष्णु वीर कर्मों के संकीर्तनादि से संस्तुत किये जाते हैं । वे विष्णु ( भक्तों को ) पवित्र करने वाले, ( दुष्टों के लिये ) भीषण अथवा अनुशासनकर्ता, राम कृष्ण आदि रूपों से पृथिवी पर अवतरित होने वाले तथा वाणी में अथवा शरीर में अन्तर्यामी रूप से अवस्थित हैं । यद्यपि इस मन्त्र में स्वामी दयानन्द द्वारा प्रतिपादित अर्थ हमारे सिद्धान्तानुसारी अर्थ से अधिक विरुद्ध नहीं है, तथापि ' विस्तीर्ण पादों में ' इसका तात्पर्य त्रिविक्रमावतार धारण करने वाले ( वामनावतार विष्णु ) के विस्तीर्ण पादप्रक्षेपों में समस्त प्राणी अन्तर्भूत हैं, यही है ॥२० ॥
मन्त्रार्थ - हे दर्भमालाकार वंश! तुम यज्ञरूप विष्णु के ललाटस्थानीय हो । हे ललाट के प्रान्त! तुम दोनों यज्ञरूप विष्णु के ओष्ठसन्धि रूप हो । हे बृहत् सूची! तुम यज्ञीय मण्डप की सूची हो । हे ग्रन्थि! तुम यज्ञीय विष्णुरूप मण्डप की मजबूत गाँठ हो । हे हविर्धान! तुम विष्णुसम्बन्धी हो, इस कारण विष्णु की प्रीति के लिये तुम्हारा स्पर्श करता हूँ ॥ दोनों हविर्धानों ( शकटों ) को दक्षिणोत्तर स्थापित करके उनके ढकनों का मण्डप बनावे । हविर्धान मण्डप के पूर्वद्वारवर्ती स्तम्भ के मध्य में कुशों की माला गूँथे ॥ २१ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ८.४.१५ - १ ९ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' विष्णो रराटम् ' इस कण्डिका के मन्त्रों से हविर्धान- मण्डप के पूर्व द्वार के स्तम्भों के बीच में गूंथी गई दर्भ की माला का स्पर्श, बगल के दो तृणनिर्मित छादनों का स्पर्श, काठ की बनी हुई बड़ी सूई से रज्जु के द्वारा द्वार - शाखाओं का बन्धन, ग्रन्थि का बन्धन तथा सुनिर्मित हविर्धान - मण्डप का स्पर्श इत्यादि कार्य अनुष्ठित किये जाते हैं । तैत्तिरीय तथा शतपथ श्रुतियों में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है ।
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
१६६ शुक्लयजुर्वेदसंहिता [ अ. ५ ' विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्यौ ' ( का. श्रौ. ८.४.१६ ) । उच्छ्राय्यावाल भस्वेत्यध्येषणया द्वयोरुच्छ्राय्ययोर्यज- भेदेन प्रत्येकं मानेनालम्भं कारयित्वा विष्णोः श्नप्त्रे स्थ इति मन्त्रं वाचयेत । आलम्भनस्य युगपत्कर्तुमशक्यत्वाद् । उच्छ्रीयेते रराट्योरुच्छ्राय्ययोश्च वाचनप्रेषालम्भनानि भवन्ति । उच्छ्राय्यौ रराटौ प्रान्तावुपस्पृश्य वाचयतीत्यर्थः हविर्धानमण्डपस्य इत्युच्छ्राय्यौ दशारलिप्रमाणौ पार्श्वस्थौ कटौ । तथा च हे रराट्यौ, युवां विष्णोर्विष्णुनामकस्य रज्ज्वा विष्णोः श्नप्त्रे स्थः श्नप्त्रे सृक्किणी ओष्ठसन्धिरूपे भवथः । ' द्वार्याः परिषीव्यति लस्पूजनिप्रतिहतया इत्यादिना हविर्धानमण्डपकरणं स्यूरसीति ' ( का.श्रौ. ८. ४. १८ ), ' प्राग्वं शं हविर्धानम् ' ( का श्रौ. ८.४.२१ ) च द्वारे कुरुतः ' ( ७.५ ) इति वक्ष्यति सूत्रकारः । तत्र पूर्वमपरं च द्वारद्वयं द्वयरलिविस्तारं कर्तव्यम्, । ' द्वारद्वयस्य पूर्वमपरं चतस्रो द्वार्याः । ताश्छदींषि । सत्याषाढसूत्राच्च । एवमेकैकस्यापि द्वारस्य द्वारि स्थितं स्थूणाद्वयं भवति एकीकृत्य दृढाः कुर्यात् । हे लस्पूजन्यां बृहत्यां काष्ठमय्यां सूच्यां प्रोतया रज्ज्वा द्वारशाखाः सीव्यति, बध्नीयाद् स्यूः सूचिरसि । ' षिवु लस्पूजनि, त्वं विष्णोर्विष्णुनामकस्य हविर्धानमण्डपस्य सम्बन्धिनी स्यूरसि | सीव्यत्यनेनेति । ' विष्णोर्भुवोऽसीति ग्रन्थि करोति ' तन्तुसन्ताने ' । ' च्छ्वोः शूडनुनासिके च ' ( पा. सू. ६.४.१६ ) इति वस्योडादेशः, त्वं हविर्धानस्य सम्बन्धी भूत्वा ( का. श्रौ. ८.४.१ ९ ) । परिषीवणारम्भे रज्जुमूले ग्रन्थि कुर्यात् । हे रज्जुग्रन्थे ( का. श्रौ. ८.४.२१-२२ ) इति ध्रुवोऽसि स्थिरो भवसि । ' प्राग्वंशं हविर्धानं निष्ठाप्य वैष्णवमसीत्यालभते ' भवसि । प्रागग्रैर्वशैर्मण्डपं निर्मायानेन मन्त्रेण स्पृशेत् । हे हविर्धान, त्वं वैष्णवमसि विष्णुदेवताकत्वेन तित्तिरिर्दर्शयति तत्सम्बन्धि — ' वैष्णवं तस्माद्विष्णवे विष्णुप्रीत्यर्थं त्वा त्वां स्पृशामीति शेषः । हविर्धानस्य विष्णुदेवताकत्वं हि देवतं हविर्धानमिति ' इति । उपस्पृश्य शतपथे — ' अथ रराट्यामुपस्पृश्य वाचयति । विष्णो रराटमसीति ललाटं हैवास्यैतदथोच्छ्राया हैवास्यैतच्छीर्षकपालं यदिदं वाचयति विष्णोः श्नप्त्रे स्थ इति स्रक्के हैवास्यैते अथ यदिदं पश्चाच्छदिर्भवतीदं ललाटं खल्वसि । तस्माद् पश्चात् ' ( श. ३.५.३.२४ ) । रराट्यां रराटीम् । अस्य हविर्धानस्य एतद् रराट्याख्यमङ्गं विष्णोरिति । विष्णोर्हवि-उच्छ्रायौ द्वारशाखे द्वारस्योभयपार्श्ववर्तिनी तृणादिनिर्मिते प्रावरणे तावुपस्पृश्य वाचयति इदं – पश्चाच्छदिर्हविर्धानाख्यस्य र्धानस्य श्नप्त्रे सृक्किणी ओष्ठसम्बन्धिनी स्थः । पश्चाच्छदिषः स्थानं प्रशंसति – कात्यायनेनोक्तम् — ' तयो-यज्ञशिरसः पश्चात् कपालस्थानीयं छदिस्तृणमयः कटः । हविर्धानमण्डपनिर्माणप्रसङ्गे छदिस्तृणमयं श्छदिरध्यस्यति ' ( का. श्री. ८.३.२० ) । तयोर्हविर्धानयोरुपरि हविर्धानाख्यमण्डपाच्छादनायोदगग्रमेकं विपुलानि । कटं मध्ये निदध्यादिति । उपरि छादनार्थाः कटाश्च छदींषि । तानि च दशारनिदीर्घाणि त्र्यंशेन हविर्धानशकटाच्छादनं वस्त्रादिना, ' भित्तिं वाऽभावे ' ( का. श्रौ. ८.३.२१ ) । छदिषोऽभावे छदिषा तुल्यां वेणुशकलैः कृतां भित्तिं वा तयोरुपरि निदध्यात् । शतपथेऽपि ( ३.५.३.९ ) तदेवोक्तम् । व्यपद्याता ' अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति । विष्णोः स्यूरसीत्यथ ग्रन्थि करोति विष्णोर्भुवोऽसीति वैष्णवमसीति नेद् वैष्णवं इति तं प्रकृते कर्मन् विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशति रज्ज्वा द्वारशाखां दर्भैरावेष्ट्य हविर्धानम् ' ( श.३.५.३.२५ ) । ' लस्पूजनी नाम सीवनसाधनसूच्यादि; तत्र सम्बद्धया स्यूतप्रदेशो ऽसि । हे रज्ज्वा विष्णोः स्यूरिति मन्त्रेण सीव्येत् । हे द्वार्ये, हे रज्जो वा, त्वं विष्णोर्हविर्धानमण्डपस्य स्यूः उपरि गतानि त्रीण्यपि ग्रथ्यमानप्रदेश, त्वं विष्णोर्हविर्धानस्य ध्रुवोऽच्युतावयवोऽसि ' इति सायणाचार्यः । मध्यच्छदिष उदगग्राणि छदींष्युदगग्राणि कर्तव्यानि । त्रयाणामपि प्रागग्रीकरणे पश्चाच्छदिरिति श्रूयमाणा पश्चादित्युक्तिर्न युज्येत । '
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
म. २१ } वेदार्थपारिजात भाष्यसहिता १६७ छदींषि पश्चाच्छ्रुतेः ' ( का. श्री. ८. ४. १७ ) । त्रीण्यपि छदींष्युदगग्राणि कार्याणि, कुतः? यदिदं पश्चाच्छदींषीत्याद्येकस्य छदिषश्छदिरन्तरस्य पश्चाद्विधानात् । अयमभिप्रायः - ' छदिस्त्रयेण हविर्धानमण्डपस्याच्छादनं कार्यम् । तत्र यदि छदिः पूर्वापरायतं भवेत् तदा छदिरन्तरस्य पूर्वं निहिताच्छदिषो दक्षिणत उत्तरतो वाऽवस्थितिर्भवेत्, न तु पश्चाद्भागे । यदि तूदगग्राणि छदींषि क्रियन्ते, तदा पूर्वस्माच्छदिषः पश्चाद्भागे छदिरन्तरं भवितुमर्हति ' इति वृत्तिकारो म. म. विद्याधरशर्मा । अध्यात्मपक्षे तु — प्रत्यक्चैतन्यमेव योग्यत्वात् सम्बोध्यते । हे प्रत्यक्चैतन्य, त्वं विष्णोर्व्यापनशीलस्य ब्रह्मणो रराटं ललाटमसि प्रधानत्वात् प्रत्यगात्मनैव ब्रह्मणोऽपरोक्षत्वसम्भवात् । हे भोक्तृभोग्ये, युवां विष्णोः श्नप्त्रे सृक्किणी स्थो भवथः । कूटस्थचैतन्यं सम्बोध्याह – हे कूटस्थचैतन्य, त्वं ध्रुवोऽसि, ब्रह्मात्मस्वरूपत्वात् । किं बहुना, सर्वमपि जगच्चेतनाचेतनात्मकं सम्बोध्यते - हे सर्वजगत् त्वं वैष्णवमसि विष्णुकार्यत्वाद्विष्णोरिदं वैष्णवमसि भवसि । विष्णवे त्वत्प्रीत्यर्थं त्वामेवाश्रयामः । दयानन्दस्तु — ' विष्णोर्व्यापकस्य सकाशाद् रराटं परिभाषितं जगत्, असि अस्ति । विष्णोः सर्वत्राभिनिविष्टस्य न शुद्धे इव स्थः तिष्ठतः । विष्णोः सर्वसुखाभिव्याप्तात् स्यूर्यः सीव्यति स असि अस्ति । विष्णोः सर्वजगत्पालकाद् ध्रुवो निश्चलः असि अस्ति । वैष्णवं विष्णोर्यज्ञस्येदं साधनं साधकं वा असि अस्ति । विष्णवे यज्ञाय त्वा यदिदं विविधं जगदस्ति, तद्विष्णो रराटमस्ति विष्णोः सकाशादुत्पद्य वर्तते । विष्णोः स्यूरस्ति विष्णोर्भुवोऽस्ति सर्वं जगद्वै-ष्णवमस्ति । यस्य विष्णोर्जगति द्वे श्नप्त्रे इव जडचेतनसमूहौ स्तः तं जगदीश्वरं त्वा यज्ञानुष्ठानाय वयमाश्रयामः ' इति, तदपि यत्किञ्चित्, परस्परविरुद्धत्वात् । पदार्थव्याख्याने रराटं परिभाषितमस्तीत्युक्तम्, अन्वये तूत्पद्य वर्तत इत्युक्तम् । सोऽयं परस्परविरोधः । ‘ रट परिभाषणे ' इति धातुरीत्या यद्यपि पदसिद्धिर्भवति, तथापि तन्निरर्थकमेव, विशेष्यबोधकपदस्य मूलेऽभावात् । विविधं जगदिति तु दयानन्दस्य स्वकपोलकल्पितमेव । अध्याहारेऽपि न निस्तारः, सर्वस्यैव परिभाषितत्वेन व्यावर्त्याभावेन विशेषणत्वानुपपत्तेः । तथैव ' श्नप्त्रे शुद्धे ' इत्यपि निरर्थकम्, विशेष्यानिर्देशादेव । जडचेतनसमूहावि-त्यध्याहारोऽपि निर्मूलः ' स्यूः यः सीव्यति ', ' धुवो निश्चलोऽसि ' इत्यपि च निरर्थकम्, विशेष्यानिश्चयादेव । हिन्दीभाष्ये तु - ' विस्तृतः ' इत्युक्तम्, तदपि निर्मूलम् । ' ईश्वरोत्पन्नत्वात् स्वसत्तया ध्रुवः ' इति च हिन्दीभाष्योक्तं निर्मूलम्, उत्पन्नत्वेन कार्यत्वादनित्यत्वेन भङ्गुरत्वान्निश्चलत्वानुपपत्तेः । विशेष्यानिर्देशस्त्वत्रापि समान एव । सिद्धान्तव्याख्याने तु श्रुतिसूत्रोक्ताः सम्बोधनीया एव विशेष्या इत्युक्तमेव ॥ २१ ॥
अध्यात्मपक्ष के अर्थ के अनुसार तो प्रत्यक् चैतन्य को ही सर्वप्रथम सम्बोधित किया गया है । हे प्रत्यक्चैतन्य, तुम व्यापनशील ब्रह्म के ललाटरूप हो, प्रधान होने के कारण प्रत्यगात्मा के साथ ही ब्रह्म का साक्षात्कार संभव है । हे भोक्ता तथा भोग्य, तुम दोनों विष्णुदेव के ओष्ठसन्धिरूपी हो । कूटस्थ चैतन्य को सम्बोधित करते हैं कि हे कूटस्थ चैतन्य! तुम ब्रह्मात्मस्वरूप होने के कारण स्थिर हो । तदनन्तर चेतन एवं अचेतनात्मक सम्पूर्ण जगत् को सम्बोधित किया गया है— हे समस्त जगत्, तुम विष्णु द्वारा निर्मित होने के कारण विष्णु के हो, विष्णुदेव की प्रसन्नता के लिये हम तुम्हारा ही आश्रय लेते हैं । स्वामी दयानन्द द्वारा निरूपित अर्थ परस्परविरुद्ध होने के कारण असंगत है । ' श्नप्त्रे ' का अर्थ ' शुद्धे ' करना भी निरर्थक है, क्योंकि विशेष्य का निर्देश नहीं किया गया है । हिन्दी भाष्य में ' स्यू ' का अर्थ विस्तृत किया गया है, इसमें कोई प्रमाण नहीं है । ' ईश्वर से उत्पन्न होने के कारण अपनी सत्ता से स्थिर हैं ' यह हिन्दी भाष्य में कहा गया है । परन्तु यह अप्रामाणिक है, क्योंकि उत्पन्न होने के कारण कार्यत्व हो जाता है तथा अनित्य होने के कारण विनाशशीलता के द्वारा स्थिरता या निश्चलता सिद्ध नहीं हो सकती ॥ २१ ॥
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
१६८ शुक्लयजुर्वेदसंहिता [ अ. ५ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒ह॒भ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नर्य॑सी॒दम॒ह रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि । बृहन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाच॑ वद ॥ २२ ॥
इत उत्तरमुपरवमन्त्रा देवस्य त्वेत्यस्मात् ( ५.२६ ) प्राक् । ' दक्षिणस्यानसोऽधः प्रउगं खनत्युपरवानभ्यादि करो-त्यवटवदिति ' ( का. श्रौ. ८. ४. २६ ) । दक्षिणस्य हविर्धानशकटस्याधस्तात् प्रउगं पूर्वभागेऽनसोऽधोभागस्थितां भूमि द्विधा कृत्वा तत्र पूर्वस्मिन् प्रदेशे उपरवान् चतुरो गर्तविशेषान् खनेत् । उप उपरि ग्राव्णां रवः शब्दो यत्र ते उपरवाः । एतेषामेवोपर्युपांशुसवनसंज्ञकं ग्रावाणं निधाय तत्र सोमाभिषवस्य क्रियमाणत्वात् ते उपरवसंज्ञकाः । यथा यूपस्यावटः क्रियते, तथात्राप्युपरवसंज्ञकांश्चतुरो गर्तान् अभ्रिस्वीकारमारभ्य परिलेखनपूर्वकं कुर्यात् । ' अभ्यादि करोत्यवटवदाप-रिलेखनात् ' ( का. श्रौ. ८.५.१ ) । आहरन्ति मृदमनयेत्यभ्रिर्दारुजं खनित्रम्, यथा पशौ यूपावटकरणेऽभ्यादानादिपरिले-खनपर्यन्तं क्रियते, तथैवेहापि कर्तव्यम् । हे अभ्रे, सवितुर्देवस्य प्रसवे प्रेरणे वर्तमानोऽहमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे । नार्यसि नराणामनुष्ठातॄणां सम्बन्धिनी नारी, उपरवाख्यगर्तखननसाधनत्वात् । अथवा नरस्यापत्यं स्त्री नारी । महीधरदृष्ट्या — ‘ देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखतीदमिति ' ( का. श्री. ६.२.८ ) । इदमिति विभक्तिव्यत्ययः । योऽहं चतुरोऽवटान् परिलिखामि, सोऽहमनेन परिलेखनेन रक्षसां यज्ञघ्नानां ग्रीवा अपि कृन्तामि कण्ठदेशान् छिनद्मि । ' बृहन्नसीति यथापरिलिखितं खनति ' ( का. श्रौ. ८.५.८ ) । लेखनक्रमेणोपरवान् खनेत् । आग्नेयीं विदिशमारभ्य चतसृषु विदिक्षु चतुर उपरवान् खातुं येन क्रमेण भूमिः परिलिखिता, तेनैव क्रमेणावटान् खनेत् । हे उपरवाख्यगर्त, त्वं बृहन्नसि महानसि । वर्तुलस्य गर्तस्य प्रादेशपरिमाणेन विस्तृतत्वाद् बाहुपरिमाणेन खातत्वाच्च महत्त्वम् । तथा त्वं बृहन्महान् रवो ध्वनिर्यस्य स बृहद्रवाः, सकारान्तो रवस्शब्दः । भूमौ अभ्यां प्रहृतायां महान् शब्दो भवति । तस्मात्त्वमिन्द्रायेन्द्रप्रीत्यर्थं बृहतीं वाचं वद प्रौढध्वनियुक्तं वाक्यं वद । शतपथे तु — ' द्वयं वा अभ्युपरवाः खायन्ते । शिरो वै यज्ञस्य हविर्धानं तद्य इमे शीर्षंश्चत्वारः कूपा इमावह द्वाविमौ द्वौ तानेवैतत्करोति तस्मादुपरवान् खनति ' ( श. ३.५.४.१ ) । सोमाभिषवाय उपरवाणां खननविधित्सया खननस्योभयार्थतोच्यते । यस्मात् शिरसि चत्वारः कूपाः द्वे कर्णछिद्रे द्वे नासिकाछिद्रे इति चत्वारः कूपाः, कूपवन्निम्नप्रदेशा; तदेवाभिनयेनोच्यते – द्वाविमौ द्वौ तानेवैतत्करोति । हविर्धानस्यापि यज्ञशिरोरूपत्वात् तत्र चतुर उपरवान् खनेत् । ‘ देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचख्नु-रुतैवञ्चिद् देवानभिभवेमेति ' ( श. ३.५.४.२ ) । द्वेष्यवधार्थं भूमौ स्थापिताः कृत्याविशेषा वलगा, तान्निखातवन्तः । मन्त्रार्थ - हे अनि ( काठ की कुदाल )! सविता देवता की प्रेरणा से, अश्विनीकुमार के बाहभाव को प्राप्त अपनी भुजाओं से, पूषा देवता के हस्तभाव को प्राप्त अपने हाथों से खनन कार्य के लिये तुम्हारा ग्रहण करता हूँ । हे अभि! तुम हमारा उपकार करने वाली हो, मैं अध्वर्यु यज्ञविनाशक राक्षसों की गर्दनों को काटता हूँ । हे घोरतर शब्द करने वाले उपरव! तुम महान् शब्द करते हो । इन्द्र देवता की प्रीति के लिये तुम ऐसी उच्च ध्वनि वाली वाणी बोलो । काठ की कुदाल ले कर इस मन्त्र को बोलते हए यूपावट की तरह चार गड्डों का चिह्न करे और कुदाल को मजबूती से पकड़ कर प्रादेश भर गोल आकार चार गड्ढे बनावे ॥ २२ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ८.४.२६, ८.५.१ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' देवस्य त्वा ' इस कण्डिका के मन्त्रों द्वारा दक्षिण हविर्धान शकट के नीचे की भूमि को नियमानुसार विभक्त करके ' उपरव ' संज्ञक चार गर्तों का खनन किया जाता है । शतपथ ब्राह्मण में भी याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
म. २२ ] वेदार्थपारिजातभाष्यसहिता १६ ९ उत एवञ्चिद् एवमपि युद्धेनाशक्नुवन्तः अनेनाप्युपायेन देवानभिभवेमेत्यभिप्रायेण । ' तद्वै देवा अस्पृण्वत् । त एतैः कृत्यां वलगानुदखनन् यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघा भवति तथो एवैष एतद्यद्यस्मा अत्र कश्चिद् द्विषन् भ्रातृव्यः कृत्यां वलगां निखनति तानेवैतदुत्किरति तस्मादुपरवान् खनति स दक्षिणस्य हविर्धानस्याधोऽधः प्रउगं खनति ' ( श. ३.५.४.३ ) । तदसुरैः कृतं खननाख्यं कृत्याविशेषं देवास्तदुत्खननेन हिंसितवन्तः । हिंसाप्रकारमाह— एतैरुपरवैः कृत्यां वलगानुदखनन्निति । अथ कृत्योत्खननानन्तरमेव सा कृत्या अलसा हननं कर्तुमसहमाना अत एव मोघा व्यर्था भवति । यथा देवेष्वयं कृत्यापरिहारोपायस्तथैव मनुष्येष्वपि भवति । तस्माद् दक्षिणस्य हविर्धानस्या-धोऽधः प्रगं खनति । ईषाद्वयसंयोजनप्रदेशः प्रउगम्, तस्याधोऽधः सन्निहिताधः प्रदेशे उपरवान् खनति । अधोऽधः-शब्दयोगात् प्रउगमिति द्वितीया ( पा. सू. २.३; वार्त्तिकम् १.४.४८ ) । खननाय समन्त्रकमभ्यादानं विधत्ते - ' सोऽभ्रिमादत्ते । देवस्य त्वा सवितुः नार्यसीति ' इत्यपि स्तुतिः । यत् प्राग् देवस्य त्वेति ब्राह्मणमुक्तम् ( श. १.१.२.२७ ), तदत्रातिदिशति – समान एतस्य बन्धुरिति । समान एतस्य यजुषो बन्धुर्योषा वा एषा यदभ्रिस्तस्मादाह नार्यसीति ( श. ३.५.४.४ ) । एतस्य यजुर्मन्त्रस्य आदीयमानाया अभ्याः स्त्रीत्वान्मन्त्रे नारीशब्देनाभिरभिहिता । एतस्य यजुषो देवस्य त्वेति । ' तान् प्रादेशमात्रं विना परिलिखति । इदमहं रक्षसा ग्रीवा अपि कृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपि कृन्तति ' ( श. ३.५.४.५ ) । विना मध्ये प्रादेशमात्रान्तरालं विहाय समचतुरस्त्रे खननप्रदेशे चतुरोऽवटान् प्रादेशमात्रान् परिलिखेत् । ' तद्यावेतौ पूर्वौ तयो-र्दक्षिणमेवाग्रे परिलिखेदथापरयोरुत्तरमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरम् ' ( श. ३.५.४.६ ) । अवटखनने द्वौ प्रकारौ, अक्षणया तिरश्चीनं सम्यक् च ऋजुमार्गेण च । अक्षणयापि द्विप्रकारौ तद्यावेतौ पूर्वौ तयोर्दक्षिणमेवाग्र इत्यादिना । आग्नेयवायव्यनैर्ऋतैशानक्रमेणेत्येकः प्रकारः । द्वितीयं प्रकारमाह— ' अथो इतरथाहुः । अपरयोरेवाग्र उत्तरं परिलिखेदथ पूर्वयोर्दक्षिणमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरमित्यथो अपि समीच एव परिलिखेदेतं त्वेवोत्तमं परिलिखेद्य एष पूर्वयोरुत्तरो भवति ' ( श. ३.५.४.७ ) । स्वकीयं सम्यक्परिलेखनप्रकारमाह- अथो इतरथेति । आग्नेयादिप्रादक्षिण्यक्रमेणेत्यर्थः । अथो अपि समीच एव परिलिखेदिति सम्यक्पक्षमेव समर्थयते । ' तान् यथापरिलिखितमेव यथापूर्वं खनति । बृहन्नसि बृहद्रवा इत्युपस्तौत्येवैनानेतन्महयत्येव यदाह बृहन्नसि बृहद्रवा इति बृहतीमिन्द्राय वाचं वदेतीन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्धानं तत्सेन्द्रं करोति तस्मादाह बृहतीमिन्द्राय वाचं वदेति ' ( श. ३. ५. ४.८ ) । य एष पूर्वयोरुत्तरस्तमुत्तरं कुर्यादित्यभिधानात् खननमपि परिलेखनक्रमेण कर्तव्यमित्याह - तान् यथापरिलिखितमेवेति । तत्र मन्त्रो बृहन्नसीति । हे अवट, हे उपरव, त्वं बृहन् स्वरूपतो महानसि । तथा बृहद्रवाः प्रभूतध्वनिरसि, अतो बृहतीं महतीं वाचमिन्द्राय इन्द्रार्थं सोमस्येन्द्रार्थत्वात् तदर्थत्वादुपरवखननस्य स्तुतिकरीं बृहतीं वाचं वद शब्दय । अध्यात्मपक्षे — साधको भगवदाराधनोपयोगिधूपदीपनैवेद्यादिपदार्थान् परिकल्पयन्नाह — हे धूपादिपदार्थसमूह, त्वामहमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे देवदेवस्यार्चनार्थं गृह्णामि | अश्विबाहुपूषहस्ता भेदभावापन्नाभ्यां दिव्याभ्यां बाहुभ्यां हस्ताभ्यां च त्वा आददे । हे संगृहीतसामग्रि, त्वं परमेश्वरोपभोग्यत्वान्नार्यसि भार्यावत् सुखदायिकासि । अहमिदमनेन त्वदाराधनेन रक्षसां राक्षसजातीयानां विघ्नानां वा ग्रीवाः कण्ठान् अपि कृन्तामि, अपिशब्देन कृत्स्नमपि विघ्नशरीरं नाशयामीत्यर्थो द्योत्यते । अध्यात्मपक्ष में अर्थ इस प्रकार है— साधक भगवदाराधन के लिये उपयोगी धूप, दीप, नैवेद्य आदि पदार्थों को संगृहीत करता हुआ कहता है कि हे धूपादि पदार्थसमूह! मैं तुमको अश्विनी देवों के बाहुओं तथा पूषा के हाथों से भगवान् की अर्चना के
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
१७० शुक्लयजुर्वेदसंहिता [ अ. ५ दयानन्दस्तु – ' देवस्य सर्वप्रकाशकस्यानन्दप्रदस्येश्वरस्य ' इत्याह, तन्मन्दम्, ' दिवु क्रीडाविजिगीषाद्यर्थेषु ' क्रीडा-विजिगीषाद्यर्थकस्य दीव्यतेः प्रकाशाद्यर्थकत्वेऽप्यानन्दप्रदत्वार्थस्य चिन्त्यत्वात् । यदपि — ' अश्विनोः प्राणापानयोर्बाहुभ्यां बलवीर्याभ्याम् ' इति, तदपि मन्दम्, प्राणापानयोर्बाहुत्वासम्भवात्, बाहुशब्दस्य बलवीर्यार्थत्वस्य च चिन्त्यत्वात् । तथैव पूष्णः पुष्टिकारिकायाः पृथिव्या हस्ताभ्यामाकर्षणविकर्षणाभ्यामित्यपि निर्मूलम्, हस्तशब्दस्य तथार्थत्वे मानाभा- । वात् । यदपि —‘नारि नरामियं क्रिया, इदं यज्ञानुष्ठानं कर्म चाददे ' इति, तदपि यत्किञ्चित्, तथात्वे नारीमिति द्वितीयापत्तेः ‘ यज्ञमाददे ’ इत्यपि निर्मूलम्, मूले यज्ञपदाभावात् । ‘ यथाहं तथा त्वमप्यादत्स्व ' इति च निर्मूलम्, मूले यथातथापदाभावात् । ‘ यथाहं रक्षसां दुष्टस्वभावानां ग्रीवाः कण्ठान् अपि कृन्तामि छिनधि तथा त्वमपि कृन्त ' इत्यपि मन्दम्, विकल्पानुपपत्तेः । को वक्तीदम्? यद्यनीश्वरस्तर्हि पौरुषेयत्वापत्तिः, यदीश्वरस्तर्हि तस्य सावयवत्वापत्तिः, निरवयवस्य कण्ठच्छेतृत्वानुपपत्तेः । ईश्वरस्य कर्मफलदातृत्वेन कर्मानुसारेण कथञ्चित् तत्सम्भवेऽपि न जीवेषु तत्सम्भवति, तथात्वेऽराजकतापत्तेः । यथा-हमेतदनुष्ठानेन बृहद्रवा बृहद्भवामि, तथा त्वमपि भवेत्यप्यसङ्गतम्, परमेश्वरीयबृहत्त्वस्य नित्यत्वेन कर्मानुष्ठानजन्य-त्वायोगात् ॥ २२ ॥
र॒क्षो॒हणं ' वलगृ॒हनं ' वैष्ण॒वीमि॒दम॒हं तं व॑ल॒गमुत्क॑रामि॒ यं मे॒ निष्ट्य॒ यम॒मात्यो ' निच॒-खाने॒दम॒हं तं व॑ल॒गमुत्क॑रामि॒ यं मे॑ समा॒नो य॒मस॑मानो निच॒खाने॒दम॒हं तं व॑ल॒गमुत्क॑रामि॒ य॑ मे॒ सव॑न्धुर्यमस॑बन्धुर्नच॒खाने॒दम॒हं तं व॑ल॒गमुत्क॑रामि॒ यं में सजा॒तो यमस॑जातो निच॒-खानोत्कृ॒त्यां क॑रामि ॥२३ ॥
पूर्वमन्त्रोक्तां वाचमेव विशिनष्टि - रक्षोहणं वलगहनमिति । रक्षांसि हन्तीति रक्षोहा, तां रक्षोवधविषयाम् निखाता , तथा वलगहनं वलगान् हन्तीति वलगहा तम् । पराजयं प्राप्तैः पलायमानै राक्षसैरिन्द्रवधार्थमभिचाररूपेण भूमौ लिये ग्रहण करता हूँ, अर्थात् दिव्य बाहुओं एवं हाथों से तुम्हें लेता हूँ । हे संगृहीत सामग्री, तुम परमेश्वर के उपभोगयोग्य होने के कारण भार्या के समान सुखदायिनी हो । मैं इस तुम्हारी आराधना राक्षस जाति की अथवा विघ्नों की प्रीवा भी काटता हूँ, अर्थात् सम्पूर्ण विघ्नशरीर को नष्ट करता हूँ । स्वामी दयानन्द की व्याख्या में ' दिवु ' धातु से आनन्दप्रद अर्थ करना चिन्तनीय है । अश्विनों की, अर्थात् प्राण द्वारा तथा उपदिष्ट अपान की भुजाएं भी असम्भव हैं । ' हस्त ' शब्द का आकर्षण - विकर्षण अर्थ करने में भी कोई प्रमाण नहीं है । यह किसके है? यदि ईश्वरोपदिष्ट नहीं है, तो पौरुषेयत्व प्राप्त होगा । यदि ईश्वर वक्ता है, तो उसकी साकारता प्राप्त होगी, क्योंकि अंग के बिना कण्ठछेदन करना सिद्ध नहीं होगा ॥ २२ ॥
मन्त्रार्थ - हे उपरव! यह गड्ढा राक्षसों का वध करने वाला, कृत्या का नाश करने वाला और यज्ञरक्षक विष्णु ने मेरे से सम्बन्ध अनिष्ट रखने वाला है, यह बात तुम इन्द्र से कहो । अत्यन्त संघातरूप से वर्तमान चाण्डाल आदि ने या मेरे सम्बन्धियों के लिये जो कृत्या का प्रयोग किया है, उस अभिचार को मैं दूर करता हैं । जिस कृत्या को धन, सुवर्ण आदि के समान मेरे शत्रुओं ने मेरे वध के निमित्त यहाँ गाड़ दिया है, मैं उस कृत्या को जड़सहित निकाल फेंकता हैं । मातुल आदि के कुल वालों ने अथवा अन्य जनों ने मेरे निमित्त जिस कृत्या का प्रयोग किया है, मैं उसको दूर फेंक देता हैं । मेरे समान आयु वालों ने अथवा छोटी - बड़ी उम्र वालों ने जिस कृत्या का मेरे लिये प्रयोग किया है, उसे मैं उखाड़ फेंकता हैं । शत्रुओं निकाल द्वारा प्रयुक्त कृत्या को मैं निकाल फेंकता हूँ ॥ इस मन्त्र का उच्चारण करते हुए चारों कोनों से और बीच से सारी मिट्टी कर बाहर फेंक दे ॥ २३ ॥
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
म. २३ ] वेदार्थपारिजातभाष्यसहिता १७१ अस्थिकेशनखादिपदार्था वलगा उच्यन्ते । यथाह तित्तिरि: - ' असुरा वै निर्यन्तो देवानां प्राणेषु वलगान्यखनत ' इति । ‘ वलगो वृणातेः ’ ( निरु. ६.२ ) इति वचनाद् यस्य वधार्थं क्रियते, तं वृण्वन्नाच्छादयन् गच्छतीति वलगः । ‘ तान् बाहुमात्रे त्वविन्दन् तस्माद्वाहुमात्राः खायन्त इति तान् वलगान् हन्तीति वलगहा वाक् । सा च यज्ञरक्षकस्य विष्णोः सम्बन्धिनी । तादृशीं वाचं ब्रूहि । हे उपरवरूपावट । ' इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रम् ' ( का. श्री. ८. ५.९ ) । खननानन्तरं खननक्रमानुसारेण सर्वेभ्य उपरवेभ्य उत्खातान् पांसून् चतुभिर्मन्त्रैर्बहिःक्षिपेत् । तत्रायं प्रथमो मन्त्रः - - ' ' इदमहं तं वल-गमुत्किरामि ' इति । निष्ट्यो नितरां स्त्यायति संघातरूपेण सह वर्तत इति निष्ट्यः पुत्रः । ' ष्ट्यै स्त्यै शब्दसङ्घातयोः ' । यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति पुत्रादिः शरीरान्निर्गत्य विस्तीर्णो भवति । अथवा निर्गतो वर्णाश्रमेभ्य इति निष्ट्यश्चाण्डालादिः । ' निसो गते ' ( पा. सू. ४.२.१०४ ) इति स्थलीयेन वार्त्तिकेन भावार्थे त्यप् । इदमहं यत्करोमि तद्वलगं कृत्याविशेषमुत्किरामि । अमात्य, अमा सह गृहे भवोऽमात्यः, ' अव्ययात्त्यप् ' ( पा. सू. ४.२.१०४ ) इति त्यप् । धनिकस्य स्वामिधनगृहादिनिर्वाहकः । स च केनापि निमित्तेन कुपितः पुत्रोऽमात्यो वा नोऽस्मानुद्दिश्य वधार्थं यं वलगं निचखान नितरां खातवान् तं वलगमुद्वपामीत्यर्थः । उद्धृत्यान्यत्र परित्यजामि । इदंशब्दः क्रियाविशेषणम् । इदं प्रत्यक्षं यथा स्यात्तथोद्वपामीत्यर्थः । द्वितीयमुत्किरति - समानः कुलादिभिः सदृशः, असमानो न्यूनोऽधिको वा यं निचखान तमहभुत्किरामि । समानासमानशब्दौ द्वावेव शत्रुवाचकावभिहितौ 1 । एतदेवाभिप्रेत्य तित्तिरिराह - ' द्वौ वाव पुरुषौ यश्चैष समानो यश्चासमानोऽयमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति ' इति । अथ तृतीयः - इदमहं तं वलगमुद्वपामि यं नः सबन्धुर्यमसबन्धुर्निचखान । कुलशीलादिभिः समानो मातुलपैतृष्वसेयादिः सबन्धुः तद्विपरीतोऽसबन्धुः । यं वलगं निचखान तमहमिदं प्रत्यक्षं यथा स्यात्तथा तं वलगमुत्किरामि । चतुर्थमुत्किरति — सजातः समानजन्मा भ्राता तद्विप-रीतोऽसजातः, यमेव वलगं निचखान इदमहं तमुत्किरामि । ' उत्कृत्यां किरामीति पश्चात् सर्वेभ्यः ' ( का. श्रौ. ८.५.१० ) । आदौ पूर्वोक्तक्रमेणासाधारणैर्मन्त्रैरुद्वापं कृत्वा पश्चादुत्कृत्यां किरामीति साधारणेन मन्त्रेणावृत्तेन सर्वेभ्यो गर्तेभ्यः प्राद-क्षिण्येनोत्तरस्यां पूर्वस्यां वा दिशि पांसूनुत्किरेत् । येयं कृत्या शत्रुभिरभिचरद्भिः सम्पादिता वलगरूपा, तामुत्किमि उद्धृत्य दूरे क्षिपामीति सायणादिसम्मतमन्त्रव्याख्यानम् । उव्वटाचार्यरीत्या तु रक्षांसि या वागपहन्ति सा रक्षोहा ताम्, वलगान् कृत्याविशेषान् भूमौ खनितान् शत्रुभि-विनाशार्थं हन्तीति वलगहा, तां वैष्णवीं विष्णुदेवत्यां वाचं ' वदेति पूर्वमन्त्रेण सम्बन्धः । शतपथे च तथैव व्याख्या-तम् — ' रक्षोहणं वलगहनमिति । रक्षसां ह्येते वलगानां वधाय खायन्ते वैष्णवीमिति वैष्णवी हि हविर्धाने वाक् ' ( श. ३.५.४.९ ) । रक्षोभिः कृतानां वलगानां वधाय खायन्ते उपरवाः खन्यते 1 । वैष्णवं हविर्धानं तदन्तर्गतोपरवखननसम्बन्धिनी वाग् वैष्णवी वाग् भवति, हे उपरव, तां वद शब्दय । ' तान् यथाखातमेवोत्किरति । इदमहं तं वलगमुत्किरामि यं मे निष्ट्यो यममात्यो निचखानेति निष्ट्यो वा अमात्यो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति ' ( श. ३.५.४.१० ) । खाताया मृद उद्वपनेऽपि खननक्रम एवेत्याह-- तान् यथाखातमेवोत्किरतीति । तत्र चत्वारो मन्त्राः । यं मे निष्ट्यो यममात्यो निचखानेति मन्त्रेण प्रथमगर्तात् पांसूत्किरणम्, यं मे समानो यमसमान इति द्वितीयात्, यं मे सबन्धुर्यमसबन्धुरिति तृतीयात् यं मे सजातो यमसजात इति चतुर्थात् । इदमहं तं वलगमुत्किरामीति निचखानेति च सर्वशेषाः । भाष्यसार - ' रक्षोहणं वलगहनम् ' इत्यादि कण्डिकागत मन्त्रों से उपरव नामक गर्तों से मिट्टी निकाल कर उसे बाहर फेंका जाता है, यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ८५८ ) में प्रतिपादित है । याज्ञिक प्रक्रिया के विनियोगानुकूल अर्थ तैत्तिरीय श्रुति तथा शतपथ ब्राह्मण में उपदिष्ट है ।