वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 181–190
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
१७२ शुक्लयजुर्वेदसंहिता [ अ. ५ ' इदमहं तं वलगमुत्किरामि यं मे समानो यमसमानो निचखानेति समानो वा असमानो वा कृत्यां । वलगान्निखनति यं मे सबन्धु-तानेवैतदुत्किरति ' ( श. ३.५. ४.११ ) । इदं मृदुत्किरणं प्रकारान्तरेणाह - ' इदमहं तं वलगमुत्किरामि ), ' इदमहं तं र्यमसबन्धुर्निचखानेति सबन्धुर्वा असबन्धुर्वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति ' ( श. ३.५.४.१२ तानेवैतदुत्किरत्युत्कृत्यां वलगमुत्किरामि । यं मे सजातो यमसजातो निचखानेति सजातो वा असजातो वा वलगान्निखनति कृत्याविशेषं मृद्व्याजे-किरामीत्यन्तत उद्बपति तत्कृत्यामुत्किरति ' ( श. ३.५.४.१३ ), निष्ट्येन वाऽमात्येन खातं वलगं ) इत्यादि-नोत्किरामि ऊर्ध्वं क्षिपामि । निष्ट्योऽस्मत्तो नीच इति सायणः । ' सनाभिर्यश्च निष्ट्यः ' ( ऋ सं. १०.१३३.५ एक-मन्त्रवर्णान्नीचार्थता निष्ट्यशब्दस्य । अमात्यः सह वर्तमानः अमाशब्दः सहवचनो गृहवचनो वा, तत्र भवोऽमात्य । समानः गृहवासी, तयोरेव कलहस्य सम्भावितत्वात् । सहोत्पन्नो वा निखातवान् । निष्ट्यामात्ययोर्वलगोत्किरणम् इति तत्र सायणः । सदृशो बन्धुः समानबन्धनः एकस्मिन्नेव विषये व्यापारवानित्यर्थः । सहोत्पन्नः सजात अध्यात्मपक्षे तु — हे विष्णो, रक्षोहणं वलगहनं वलगानभिचारान् हन्तीति वलगहा, तां तादृशीं गृहवासी वैष्णवीं सहवासी वाचं वद, त्वद्वचनेन रक्षसां कृत्यानां चोपरामेण भक्तानां कल्याणसम्भवात् । मे मम निष्ट्यः पुत्रादिरमात्यो वा यं वलगमभिचारं निचखान केशादिनिखननेन कृतवान् इदं प्रत्यक्षं यथा स्यात्तथाहं तं वलगमुत्किरामि, ऊर्ध्वमुत्क्षिप्य वा वलगं नाशयामीत्यर्थः । यं मे मम निष्ट्यः पुत्रोऽमात्यो वा यं वलगं निचखान, तमुत्किरामि । यं समानोऽसमानो निचखान, सबन्धुरसबन्धुर्वा यं निचखान, तमुत्किरामि । स्वामिदयानन्दस्तु — वाचकलुप्तोपमालङ्कारमङ्गीकृत्य मनुष्यैरस्यामीश्वरसृष्टौ धार्मिकविद्वदनुकरणं हन्यन्ते कार्यं नेतरे- तथा ' षामिति भावार्थमाह, तदतिमन्दम्, मन्त्रस्य तथार्थानवगमात् । यदपि च - ' - ' येन धार्मिकेण पुरुषेण रक्षांसि न, कर्मणो इति, तदपि यत्किञ्चित्, मन्त्रकर्मणोरपि रक्षोघ्नत्वाविशेषात् । यच्च — ' वलानि गाहते यस्तम् ' इति, तदपि यं यज्ञस्य वाऽचेतनत्वेन वलगाहकत्वायोगात् । अत एव ' हे विद्वन्मनुष्य, यथाहं वलगहनं रक्षोहणं वाचमनुष्ठाय विद्वन्, वलगमुत्किरामि, तथा त्वमपि तमेतमुत्किर ' इति, तदप्यसङ्गतम्, वाचोऽनुष्ठानायोगात् । यच्च हिन्द्याम् —‘हे यं यथाहं वलगहनं वलविलोडकं रक्षोहणं ( रक्षोघ्नं ) कर्म वैष्णवीं वाचं व्यापकपरमेश्वरस्य वाचं वेदवाणीमनुष्ठाय, वलगं बलप्रापकं यज्ञमुत्किराम्युत्कृष्टतया प्रेरयामि संसारे प्रकाशयामि, तथैव तं यज्ञं त्वमपि प्रकाशय ' इति, तदप्यसङ्गतम् उपमानस्य परमेश्वरत्वे तस्य नित्यसिद्धत्वेन वाचोऽनुष्ठातृत्वायोगात् वेदवाण्या अपि नित्यसिद्धत्वेनानुष्ठेयत्वासम्भ- , णिजर्थकत्वे वाच्च । उत्पूर्वस्य किरतेः प्रकाशार्थकत्वमप्यसङ्गतम्, निर्मूलत्वात् । वलगपदं बलप्रापकपरमित्यपि चिन्त्यम् स्थानं बीजाभावात् । यदपि च— ' यथा मे मम निष्ट्यो यज्ञकुशलोऽमात्यो मेधावी यं यज्ञं ( इदं ) भूगर्भविद्यापरीक्षार्थं वैष्णवी वाणी अध्यात्मपक्ष में यह अर्थ है - हे विष्णुदेव, आप राक्षसों की नाशयित्री तथा अभिचारों को विनष्ट कल्याण करनेवाली हो सकता है । मेरे का उच्चारण करें, क्योंकि आपकी वाणी से राक्षसों एवं कृत्याओं की शान्ति के द्वारा ही भक्तों का हूँ । इसी प्रकार मेरे पारिवारिक जन, गृहवासी अथवा सहवासी ने जो अभिचार स्थापित किया है, उसे मैं उखाड़ कर विनष्ट करता करता हूँ । समान, असमान, सबन्धु, असबन्धु, सजातीय, असजातीय आदि के द्वारा स्थापित अभिचार को विनष्ट स्वामी दयानन्द का अर्थ असंगत है, क्योंकि वाणी का अनुष्ठान संगत नहीं होता । वेदवाणी भी नित्यसिद्ध है, असंगत अतः उसकी है । अनुष्ठेयता सम्भव नहीं है । ' उत् ' उपसर्गपूर्वक ' किर ' धातु का प्रकाश अर्थ करना भी प्रमाण के अभाव अर्थ के है, कारण यह भी निर्मूल है । ' वलग ' पद बलप्रापक का बोधक है, यह भी चिन्तनीय है । इसी प्रकार ' वलग ' पद का कृषिरूपी यज्ञ परमेश्वर के सबन्धु, सजात आदि के सम्भव न होने के कारण भी व्याख्या अशुद्ध है ॥२३ ॥
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
म. २३-२४ ] वेदार्थपारिजातभाष्यसहिता १७३ निखनति, तथैव तं भृत्यः खनेत् । यथाह भूगर्भविद्यावान् यं वलगं बलप्रापकं कृषिरूपं यज्ञमिदं खननरूपं कर्म उत्किरामि सम्यक् सम्पादयामि, तथैव तं त्वमपि कुरु ' इति, तदपि न सङ्गतम्, निष्ट्यो यज्ञकुशलः, अमात्यो मेधावीति व्याख्यानयोर्निर्मूलत्वात् । तथैव वलगपदस्य कृषिरूपो यज्ञोऽर्थ इत्यपि निर्मूलम्, तथा भोजनस्यापि बलप्रापकत्वेन तस्यैव वलगत्वापातात् । स्थानं निचखानेत्यत्र स्थानमिति कुत आनीतम्? मूलमन्त्रे तदभावात् । तथैव ' भृत्यः खनेत् ’ इति कथम्, यतो भृत्यपदमपि मूले नास्ति । मे मम समानोऽसमानः, मे मम सबन्धुरसबन्धु; म सातोऽसजातः ' इत्याद्यप्यशुद्धं व्याख्यानम्, परमेश्वरस्य सबन्धुसजाताद्यभावात् । यदपि — ' अहमध्ययनाध्यापनादि यं वलगं भक्ति-बलप्रापकं यज्ञं पठनपाठनरूपं कर्म करोमि, तथा त्वमपि कुरु ' इति, तदपि यत्किञ्चित्, तथार्थकल्पनाया निर्मूलत्वाद-तिप्रसङ्गाच्च । ‘ सबन्धुर्बन्धुर्मित्रं वा, असबन्धुस्तुल्यबन्धुरहितोऽमित्रो यं पालनरूपं यज्ञं कर्म निचखान निश्चितं करोमि, तथा त्वमपि कुरु । यथाहं सर्वस्य मित्रं यं राज्यबलप्रापकं यज्ञं कर्म वा सम्पादयामि, तथा त्वमपि कुरु, यथा मे सजातः सहोत्पन्नस्तद्विपरीतो यमुत्कृत्यामुत्तमक्रियां करोति, तथैव यज्ञक्रियां वा कुरु ' इत्यादिकमपि न सङ्गतम्, पठन-पाठनपालनादीनां गौणवृत्त्यैव यज्ञत्वं न मुख्यवृत्त्या, मुख्यवृत्त्यार्थसम्भवे भाक्तस्य पक्षस्याग्राह्यत्वात् । वलगपदेन यज्ञ-स्यापि बोधनं व्यभिचरितमेव यौगिकवृत्त्याऽपरिगणितवस्तूनां वलगत्वसम्भवात् । किञ्च यं वलगं निचखानेत्यस्यानेकधावृत्तेः किं फलम्? एकेन वाक्येनैव तदर्थस्य ग्रहीतुं शक्यत्वात् । सिद्धान्ते तूपरवाणां चतुष्ट्वेन चतुर्धावृत्तिर्युक्तैव ॥२३ ॥
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ॥ २४ ॥
' स्वराडसीत्यवमर्शयति यथाखातं प्रतिमन्त्रम् ( का. श्रौ. ८. ५.१३ ) । स्वराडिति मन्त्रैः खननक्रमेण उपरवा-नवमृशस्वेत्यध्येषणया यजमानमवमर्शयत्यध्वर्युः । तत्रायं प्रथमः स्वराडसि सपत्नहेति । हे प्रथमगर्त! त्वं स्वराडसि स्वयमेव राजसे स्वकीयमेव राज्यमस्येति वा स्वयं राजमानोऽसीति स्वराड् भवसि अतः सपलहा शत्रुघाती, भवेति शेषः । अथ द्वितीय: – सत्रराडसि । सत्रेषु बहुयजमानकर्तृकेषु द्वादशाहादिषु राजत इति वा सत्रराडसि । अभिमातिहा, अभिमातिरननुकूलः शत्रुस्तं हन्तीति तथोक्तः, अभितो हिंसकोऽभिमातिस्तस्य हन्ता शत्रुघाती भव । अथ तृतीय: -जनरा s सि जनेषु यजमानेषु राजत इति जनराडसि, रक्षांसि हन्तीति रक्षोहा भव । सोऽस्मानपि तथाभूतान् कुरु । सर्वत्र राजत इति सर्वराडसि, अमित्रान् हन्तीत्यमित्रहा, मितः सकाशात् त्राता मित्रमतथाभूतोऽमित्रस्तं हन्तीति तथोक्तः । शतपथे तु —‘तान् बाहुमात्रान् खनेत् । अन्तो वा एषोऽन्तेनैवैतत्कृत्यां मोहयति तानक्षणया सन्तृन्दन्ति यद्यक्षणया न शक्नुयादपि समीचस्तुस्मादिमे प्राणाः परः सन्तृष्णाः ' ( श. ३.५.४.१४ ) । खननस्य प्रमाणमाह — बाहुमात्रान् खनेंदिति । मन्त्रार्थ - हे प्रथम गर्त! तुम स्वयं दीप्तिमान् हो, अतः शत्रुघाती हो । तुम्हारे अनुग्रह से हमारे शत्रु नष्ट हों । हे द्वितीय अवट! तुम द्वादशाह आदि सत्रों में दीप्तिमान् हो, हमसे घमण्ड करने वालों का नाश करो । हे तीसरे गर्त! तुम सबके सामने दीप्तिमान् हो, तुम राक्षसों का नाश करो । हे चतुर्थ गर्त! तुम सबके अधिपति और शत्रुघाती हो, तुम्हारे अनुग्रह से हमारे शत्रु नष्ट हों । इस मन्त्र का उच्चारण करते हुए अध्वर्यु क्रम से आग्नेय आदि कोणों में जलयुक्त हाथ से उपरवों ( गर्तो ) को चिकना करे || २४ || भाष्यसार — कात्यायन श्रौतसूत्र ( ८.५.१२ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' स्वराडसि ' इस कण्डिका के चार मन्त्रों द्वारा ' उपरव ' नामक खोदे गये चार गर्तों का स्पर्श अध्वर्यु के निर्देशानुसार यजमान करता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है ।
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
१७४ शुक्लयजुर्वेदसंहिता [ अ. ५ दीर्घदण्डाकारो भुजपर्यन्तो बाहुः । अङ्गुलिप्रादेशाद्यपेक्षया बाहुप्रमाणस्यान्तत्वात् ततोऽधिकात् प्रदेशाद् मृदुद्धरणस्या-शक्यत्वाद् बाहुमात्रस्यान्तत्वम् । छिद्राणामन्तरप्रदेशसन्तर्दनं तत्प्रकारं च विधत्ते - तानक्षणयेति । तिरश्चीनपूर्वयो-र्दक्षिणस्यापरयोरुत्तरस्यान्तरालदेशं सतृन्दन्ति परस्याछेदनेन संयोजयन्ति । तेनावशिष्टयोरप्युक्तं भवति । तिरश्चीनवक्र-स्याशक्यत्वे समीचेव ऋजुमार्गेण प्रादक्षिण्येनैव सन्तृद्यात् सम्भेदयेत् । तस्मादित्युभयसाधारणोऽर्थवादः । इमे प्राणा मुखच्छिद्राण्यन्तः सन्तॄण्णानि । ' अक्षणया सम्भिन्द्यादशक्तौ सम्यक् ' ( का.श्रौ. ८.५.१२ ) । उपरवान् तिर्यग्रूपेणाधस्तात् परस्परच्छिद्रेण संयोजयेन्नोपरिष्टात् । ' सन्तृष्णा अधस्ताद्विधृता उपरिष्टात् ' इत्यापस्तम्बः ( ७.६ ), सत्याषाढश्च ( ११.११.५ ) । आग्नेयं वायव्यं नैर्ऋत्यमैशानं च परस्परं सम्भेदयेत् । यद्यक्षणया तिरश्चीनं सम्भेत्तुं न शक्नुयात्तदा ऋजुभावेनैव सम्भिन्द्यात् । आग्नेयनैर्ऋत्यौ, नैर्ऋत्यवायव्यौ, वायव्यैशान्यौ, ऐशानाग्नेयावित्येवं परस्परम् । अत्र पक्षे पूर्वयोः परस्प-रमसम्भेदनमिति कर्काचार्यः । ' तान् यथाखातमेवावमर्शयति । स्वराडसि सपत्नहा - सर्वराडस्यमित्रहेत्याशीरेवैषैतस्य कर्मण आशिष -मेवैतदाशास्ते ' ( श. ३.५.४.१५ ) । अवमर्शयत्यन्तः प्रदेशस्य निम्नोन्नतत्वपरिहाराय सम्मृशेत् । ' पूर्वयोर्दक्षिणेऽध्वर्युर्भ-वत्यपरयोरुत्तरे यजमानः सोऽध्वर्युः पृच्छति यजमान किमत्रेति भद्रमित्याह तन्नौ सहेत्युपांशुरध्वर्युः ' ( श. ३.५.४.१६ ) । अध्वर्युश्च यजमानश्च परस्परं हस्तस्पर्शं कुर्यातामित्यर्थः । तयोर्दिशं व्यवस्थापयति-— ' पूर्वयोरुत्तरे यजमानः स यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्रमित्याह तन्म इति यजमानस्तद्यदेवं सम्मृशेते प्राणानेवैतत् सयुजः कुरुतस्तस्मादिमे प्राणाः परः संविद्रेऽथ यत्पृष्टो भद्रमिति प्रत्याह कल्याणमेवैतन्मानुष्यै वाचो वदति तस्मात् पृष्टो भद्रमिति प्रत्याहाथ प्रोक्षत्येको प्रोक्षणस्य बन्धुर्मेध्यानेवैतत्करोति ' ( श. ३.५.४.१७ ) । पूर्वस्मिन् संमर्शनवाक्येऽध्वर्युः पृच्छेत्, अत्र तु यजमान इति विशेषः । यजमानस्य स्वामित्वेन स्वातन्त्र्यादध्वर्युदृष्टस्यापि भद्रस्य स्वद्रव्यत्वात् ' तन्मे ' इति ब्रूयात् । सम्मर्शनं प्राण-संयोगहेतुत्वेन प्रशंसति — तद्यदेवमिति । सह युञ्जत इति सयुजः, अन्तरेकीभूतान् कृतवन्तौ भवतः । अत इदानीन्तना मनुष्यशिरःस्थाः प्राणाः संविद्रे संविद्रते सङ्गता भवन्ति । ' लोपस्त आत्मनेपदेषु ' ( पा. सू. ७.१.४१ ) इति तलोपः । ' वेत्तेर्विभाषा ' ( पा. सू. ७.१.७ ) इति रुट् । भद्रमिति यत्प्रतिवदनं तत् । एतन्मनुष्यैर्वाचः कल्याणं वदति, हस्तसंस्पर्शन-कालकृतभद्रवचनप्रतिवदनमित्यर्थः । तस्माल्लौकिकवचनेषु भद्रत्वायावश्यं भद्रवचनं कर्तव्यम् । अथ प्रोक्षतीति प्रतिगर्तं प्रोक्षणस्य मेध्यत्वलक्षणोऽर्थवादः सर्वत्रैकविध एवेत्याह - एको प्रोक्षणस्य बन्धुरिति । अध्यात्मपक्षे तु परमेश्वर एव सम्बोध्य स्तूयते - हे परमेश्वर, त्वं स्वेनैव राजसे दीप्यस इति स्वराडसि । सूर्यादीनामपि सापेक्षमेव स्वराट्त्वादिकम् । तस्य स्वसजातीयप्रकाशान्तरानपेक्षत्वेऽपि चक्षुर्मनोबुद्ध्यात्मप्रकाशसापे-क्षत्वात् । परमेश्वस्य प्रत्यक्चैतन्याभिन्नतयाऽवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वेन निरपेक्षमेव स्वप्रकाशत्वादिकम् । अतः सपत्नान् हंसीति सपनहाऽसि परमैश्वर्यवत्त्वेन कामितार्थदातृत्वात् । हे प्रभो, त्वं सत्रराडसि सत्रेषु राजमानत्वात् सत्रराडसि, सर्वयज्ञैरिज्यत्वात् सर्वयज्ञभोक्तृत्वाच्च । अत एव अभिमातिहाऽसि प्रतिकूलशत्रुविघातको भवेति शेषः । हे शिव, त्वं अध्यात्मपच में मन्त्रार्थ इस प्रकार है— परमेश्वर को सम्बोधित करते हुए स्तुति की गई है कि हे परमेश्वर, आप स्वयंप्रकाश हैं, अतः स्वराट् हैं । सूर्यादि का भी स्वराट् होना सापेक्ष है, क्योंकि उनको स्वसजातीय दूसरे प्रकाश की अपेक्षा न होते हुए भी चक्षु, मन, बुद्धि तथा आत्मप्रकाश की अपेक्षा है । परमेश्वर का तो निरपेक्ष स्वप्रकाशत्व है । परमैश्वर्ययुक्त होने के कारण वे अभिलषित पदार्थों के प्रदाता होकर शत्रुओं को विनष्ट करते हैं । हे प्रभो, आप समस्त यज्ञों के द्वारा यजनीय तथा सभी यज्ञों के भोक्ता होने के कारण यज्ञों में प्रकाशित होते हैं, हमारे प्रतिकूल शत्रुओं को विनष्ट करते हैं । हे शिवस्वरूप, आप समस्त प्राणियों में साक्षी के
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
म. २४-२५ ] वेदार्थपारिजात भाष्यसहिता १७५ जनरा s सि जनेष्वपि सर्वसाक्षित्वेन त्वमेव राजसे तेन जनराडसि, तस्माद् रक्षोहा भव । सर्वराडसि सर्वेषु तेन तेन रूपेण त्वमेव राजसे, तस्मात् सर्वराडसि, तस्मादमित्रहासि, परमेश्वरस्य सर्ववाञ्छाकल्पतरुत्वात् । दयानन्दस्तु — ' हे विद्वन् मनुष्य, यतस्त्वं स्वराडसि तस्मात् सपलहा भवसि । यतस्त्वं सत्रराडसि तस्मादभि-मातिहाऽसि । योजनेषु धार्मिकेषु विद्वत्सु राजते स असि अस्ति वा । रक्षोहो रक्षांसि दुष्टान् हन्ति सः । यः सर्वस्मिन् राजते स अस्त्यमित्रहा यो येन वा शत्रून् हन्ति सः ' । द्वितीयान्वये – ' यतोऽयं सूर्यलोकः स्वराडस्ति, तस्मात् सपलहा भवति । यतोऽयं सत्रराडस्ति तस्मादभिमातिहा वर्तते ' इत्यादिकम्, तत्सर्वमसङ्गतम्, मनुष्यमात्रस्य स्वराट्त्वसत्रराट्त्व-जनत्वाद्ययोगात् । सूर्यलोकोऽपि त्वद्रीत्याऽचेतन एवास्ते तस्मात्तत्रापि स्वराट्त्वसपत्नहन्तृत्वादिकं नोपपद्यते । सिद्धान्ते तूपरवाधिष्ठातारो देवाश्चेतना ऐश्वर्यवन्तश्चेति तत्र स्वराट्त्व - सपत्नहन्तृत्वादिकमुपपद्यत एव ॥ २४ ॥।
र॒क्षोहण ' वो वलगृ॒हन॒ः प्रोक्ष॑मि वैष्ण॒वान् र॑क्षि॒ोहण ' वो वलगृ॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षि॒ोहण ' वो वलगृ॒हनोऽव॑स्तृणामि वैष्ण॒वान् र॑क्षो॒हण व वलगृ॒हना॒ उप॑दधामि वैष्ण॒वी रक्षोहण ' वां वलगृ॒हनौ पर्यूहामि वैष्ण॒वी वैष्ण॒वम॑सि वैष्ण॒वाः स्य॑ ॥ २५ ॥
' प्रोक्षत्येनान् रक्षोहण इति भेदे मन्त्रावृत्तिः सान्निपातित्वात् ' ( का. श्रौ. ८.५.१ ९ -२० ) । लौकिकोदकेन आग्नेयकोणोपरवानारभ्य प्रदक्षिणं हस्तेनाध्वर्युरुपरवान् प्रोक्षेत् । भिन्नदेशानामुपरवाणामेकेन पाणिना युगपत्प्रोक्षणा-सम्भवेन भेदेन प्रोक्षणम् । भेदे च मन्त्रस्यावृत्तिः सन्निपत्य हि करणमन्त्र उपकरोति । एवं च प्रथम उपरवे प्रयुक्तो मन्त्रो नेतरानभिदध्यात् । वैष्णवान् विष्णुदेवताकानुपरवान् प्रोक्षामि । कीदृशान्? रक्षोहणः राक्षसादिहन्तॄन् । वलगहनोऽभिचारतॄन् । ‘ अवनयनावस्तरणे चावटवद्रक्षोहणो रक्षोहण इति ' ( का. श्रौ. ८.५.२१ ) । प्रोक्षणशेषो-दकस्य खातगर्त आसेचनमवनयनम् । गर्तानामुपरि लौकिकानां कुशानां खातक्रमेणावास्तरणमास्तरणम् । ते च यूपाववत् कुर्यात् । मन्त्राभ्यां क्रमेण रक्षोहणो वलगहनोऽवनयामि, वैष्णवानवनयामि, अवाचीनमपः प्रापयामि, रूप से विद्यमान होने के कारण ' जनराट्र ' हैं, अतः राक्षसों के विनाशक है । समस्त पदार्थों में उस उस रूप से प्रतिष्ठित होने के कारण आप ' सर्वराट् ' हैं । अतः हे परमेश्वर, सम्पूर्ण कामनाओं के पूरक होने के कारण आप अमित्रों के विनाशक हैं । स्वामी दयानन्द के अर्थ में मनुष्यमात्र के स्वराट् सत्रराट्, जनराट् आदि न हो सकने के कारण असंगति है । उनके मत में सूर्यलोक भी अचेतन है, अतः उसमें भी स्वराट्त्व, शत्रुनाशकत्व आदि की संगति नहीं हो सकती ॥२४ ॥
मन्त्रार्थ - राक्षसों के नाशक, मारण प्रयोग के नाशक, विष्णु सम्बन्धी उपरवों ( गर्तो ) का मैं प्रोक्षण करता हैं । राक्षस-घाती अभिचारनाशक विष्णुसम्बन्धी तुमको सींच कर शेष जल अलग करता हैं । तुमको मैं कुशाओं से ढकता हूँ । तुमको दो गर्तों पर रखता हूँ, तुम दोनों का पर्यूहण करता हूँ, फलक के मुख पर मिट्टी लगाकर दोनों फलकों को दृढ़ करता हैं । हे अधिषवण! तुम विष्णुसम्बन्धी यज्ञ के रक्षक हो । हे पाषाणों! तुम यज्ञरक्षक विष्णु से सम्बद्ध हो । इस मन्त्र को पढ़ कर जल द्वारा उपरवों का प्रोक्षण कर गर्तों पर कुश बिछाकर अधिषवण चर्म को और सोमशिला को रखा जाता है ॥२५ ॥
भाष्यसार —– कात्यायन श्रौतसूत्र ( ८५.१ ९ -२४ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' रक्षोहणो वः ' इस कण्डिका के मन्त्रों से खोदे गये ' उपरव ' नामक गर्तों का प्रोक्षण, शेष जल का प्रक्षेप, कुशाओं का आस्तरण ( बिछाना ), गर्तों के ऊपर सोम कूटने के साधन ' अधिषवण फलक ' नामक पात्रों का स्थापन, मृत्तिका से अधिषवण फलक का दृढीकरण, चर्मास्तरण तथा उस पर पाँच पाषाणों का सोम कूटने के लिये स्थापन किया जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
१७६ शुक्लयजुर्वेदसंहिता [ अ. ५ सिञ्चामीत्यर्थः । तथैव रक्षोहणो वलगहनो वैष्णवानुपरवानवस्तृणामि, अवाचीनान् दर्भांस्तृणामि, दर्भेराच्छादयामि । अन्यत् पूर्ववत् । ' तनूनुपरि कुशान् कृत्वाऽधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरनिमात्रे सन्तृष्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति ' ( का. श्रौ. ८.५.२२ ) । उपरवाणामुपरि सूक्ष्मान् कुशान् प्रागग्रानुद-गग्रान् वाऽन्वास्तीर्य रक्षोहणौ वां वलगहना उपदधामि वैष्णवान् इति मन्त्रेण वैकङ्कृतेऽधिषवणफलके द्वे स्थापयेत । भेदे मन्त्रावृत्तिः । अधि उपरि षूयते कुट्यते सोमो ययोस्ते अधिषवणे, अधिषवणे च ते फलके ( प्रस्तरे ) चेत्यधिषवणफलके वारणे प्रादेशमात्रस्थूले । कीदृशे? परस्परं द्व्यङ्गुलान्तराले अद्भिः शोधिते प्रागग्रेऽरनिमात्रदीर्घे सन्तृण्णे कीलकैः संयोजिते वा । द्व्यङ्गुलान्तराल इत्यनेनायं इत्यनेनायं विकल्पः । स च व्यवस्थितो विकल्पः । तत्राग्निष्टोमे-ऽसन्तृण्णे एव उक्थादावनेकसुत्ये च सन्तृष्णे एव । ततस्ते अधिषवणफलके पांसुभिस्तदन्तरालं द्व्यङ्गुलं परितश्च दार्ढ्याय चात्वालं मृदा पूरयति रक्षोहणाविति मन्त्रेण पर्यूहति च । सन्तर्दनं कपालवत् कीलेनोपश्लेषणमिति हरदत्तः । मन्त्रार्थस्तु यावधिषवणफलकविशेषौ तौ रक्षसां वलगहनौ रक्षसां वलगापरपर्यायस्याभिचारस्य विनाशकौ वैष्णवी वैष्णवौ, लिङ्गव्यत्ययः, विष्णुदेवताकौ वां युवामुपदधामि द्वयोर्गर्तयोरुपर्येकैकं फलकं स्थाप-यामि । अथ पर्यूहणमन्त्र: - रक्षोहण वलगहनौ पर्यूहामि वैष्णवी पर्यूहामि मृदा परितश्छादयामि । ' तयोश्चर्माधिष-वणं परिवृत्तं सर्वरोहितं निदधाति वैष्णवमसीति ' ( का. श्रौ. ८.५.२३ ) । अधिषवणफलकयोरुपरि सर्वतो रक्तं कर्तनेन समीकृतं प्राग्ग्रीवमुत्तरलोम आनडुहमधिषवणं चर्म निदध्यात् । अधि उपरि सोमः सूयते यत्र चर्मणि तच्चर्माधिषवणम् । हे चर्म, त्वं वैष्णवमसि यज्ञरक्षकविष्णुसम्बन्धि भवसि । ' तस्मिन् ग्राव्णः पञ्च वैष्णवाः स्थेति ’ ( का. श्रौ. ८.५.२४ ) । तस्मिन्नधिषवणफलकेऽभिषवार्थान् पञ्च पाषाणान् निदध्याद् वैष्णवाः स्थेति मन्त्रेण । भेदे मन्त्रावृत्तिः । हे ग्रावाणः, यूयं वैष्णवाः स्थ यज्ञरक्षकविष्णुसम्बन्धिनो भवथ । शतपथे— ' स प्रोक्षति । रक्षोहणो वो वलगहन इति रक्षोहणो ह्येते वलगहनो ह्येते प्रोक्षामि वैष्णवानिति वैष्णवा ह्येते ' ( श. ३.५.४.१८ ) । समन्त्रकं प्रोक्षणं विधत्ते — ' अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेष्ववनयति तद्या इमाः प्राणेष्वापस्ता एवैतद्दधाति तस्मादेषु प्राणेष्विमा आपः ( श. ३.५.४.१ ९ ) । अवटेषु प्रोक्षणीशेषावनयनं प्रशंसति — तद्या इति । प्राणेषु कर्णनासादिविवरेषु या आपः सन्ति, ता एवैतदेतेनावनयनेन यज्ञशिरः स्थोपरवाख्यप्राणेषु स्थापितवान् भवति । तस्मादेषु मनुष्यप्राणेष्विमा आपः सन्ति । ' सोऽवनयति । रक्षोहणो वो वलगहनोऽवनयामि वैष्णवानित्यथ बर्हींषि प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति तद्यानीमानि प्राणे लोमानि तान्येवैतद्दधाति तस्मादेषु प्राणेष्विमानि लोमानि ' ( श. ३.४.५.२० ) । उपरवेषु प्रागग्राण्युदगग्राणि च बहींष्यवस्तृणाति । मनुष्यप्राणेषु मुखादिलोमान्येवैतद्दधाति । तस्मादेषु प्राणेष्विमानि लोमानि भवन्ति । ' सोऽवस्तृणाति । रक्षोहणो वो वलगहनोऽवस्तृणामि वैष्णवानित्यथ बर्हीषि तनूनीवोपरिष्टात् प्रच्छादयति केशा हैवास्यैते ' ( श. ३.४.५.२१ ) । अवटानामुपर्यपि सूक्ष्माणां बर्हिषामाच्छादनं विधत्ते-अथ बहषीति । केशा हैवास्यैत इति निर्दिश्यमानानि यद्यपि बर्हीषि, तथापि प्रतिनिर्दिश्यमानकेशापेक्षया ' एते ' इति पुल्लिङ्गता । ' अथाधिषवणे फलके उपादधाति । रक्षोहणौ वां वलगहना उपदधामि वैष्णवी इति हनू हैवास्यैते अथ पर्यूहति रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी इति दृं हत्येवैते एतदशिथिले करोति ' ( श. ३.४.५.२२ ) । ते चाधि-षवणफलके अस्य हविर्धानस्य शिरसो हनुस्थानीये । फलके परिदृइति परितो मृदा दृढीकुर्यात् । ' अथाधिषवणं परिकृत्तं भवति । सर्वरोहितं जिह्वा हैवास्यैषा तद्यत्सर्वं रोहितं भवति लोहिनीव हीयं जिह्वा तन्निदधाति वैष्णवमसीति
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
म. २५ ] वेदार्थपारिजात भाष्यसहिता १७७ वैष्णवं ह्येतत् ' ( श.३.४.५.२३ ) । रक्तवर्णं परिकृत्तमेतद् रक्तवर्णाया जिह्वायाः स्थाने भवति । तच्च वैष्णवमसीति मन्त्रेण निदध्यात् । ' अथ ग्राव्ण उपावरति । दन्ता हैवास्य ग्रावाणस्तद्यद् ग्रावभिरभिषुण्वन्ति यथा दद्भिः प्सायादेवं तत्तान्निदधाति वैष्णवाः स्थेति वैष्णवा ह्येत एतदु यज्ञस्य शिरः संस्कृतम् ' ( श. ३.४.५.२४ ) । अधिषवणचर्मण्यभि-षवसाधनान् पाषाणान् पञ्च आहरन्ति । ते चास्य हविर्धानस्य दन्तस्थानीयाः । तदेवोपपादयति तद् यद् ग्रावभिरिति । यथा दन्तैर्भक्षयति, एवं तत् ' प्सा भक्षणे ' । पुरुषो वै यज्ञ इति प्रतिज्ञाय शिर एवास्य हविर्धानमिति यद्धविर्धानस्य शिरस्त्वं निर्दिष्टम् ( श. ३.५.३.१ - २ ), तदिदं यज्ञस्य शिरः संस्कृतम् । मध्यमच्छदिरादिसोमाभिषवप्रयोगजातमानुपूर्व्यं-णाभिधाय तत्तदवयवकल्पनयाऽभिहितम् । तेन तत्तदङ्गजातं तत्तदवयवध्यानेनानुष्ठीयमानं सन्महते फलाय भवतीति ( तै. सं. ६.२.११ ) तैत्तिरीयश्रुतौ स्पष्टम् । ब्राह्मणानुसारेणैव कात्यायनादिभिः प्रयोगजातं सूत्रितम्, सायणोव्वटमहीध-रादिभिश्च तथैव व्याख्याता मन्त्राः । अध्यात्मपक्षे तु — रक्षोहणो राक्षसादिहन्तॄन् तथा वलगहनो भगवदंशभूतानुपासकान् प्रोक्षामि प्रोक्षणेन शोध-यामि I । कीदृशान्? वैष्णवान् विष्णुसम्बन्धिनः । तादृशानेव वो युष्मानहमवनयामि प्रापयामि, शक्तिमिति शेषः । तादृशानेव वैष्णवानवस्तृणामि बलवीर्यादिभिश्च छादयामि । किञ्च, युवामृत्विग्यजमानौ शिष्याचार्यौ वां युवां रक्षोहणौ वलगहनौ वैष्णवौ युवामुपदधामि स्थापयामि तन्निष्ठतोत्पादनेन । तथाविधौ तौ युवां पर्यूहामि दृढीकरोमि । हे साधकाः, यूयं वैष्णवा विष्णोः परमेश्वरस्य पुत्रा वा स्थ । हे समर्चासाधनजात, त्वं वैष्णवमसि विष्णुसम्बन्धित्वाद् वैष्णवमसीति परमेश्वरो जनान् सत्कर्मण्युपासने साधकान् प्रोत्साहयति । दयानन्दस्तु – ' हे सभाध्यक्षादयो मनुष्याः यूयं यथा रक्षोहणः स्थ, तथा वलगहनोऽहं वैष्णवान् वो युष्मान् सत्कृत्यैतान् दुष्टान् युद्धे शस्त्रैः प्रोक्षामि । यथा रक्षोहणो यूयं नो दुःखानि हथ, तथा वलगहनोऽहं वो युष्मान् सुखैः सम्मान्यैतानवनयामि । यथा रक्षोहणो वो युष्मानेतांश्चावस्तृणीथ, तथा वलगहनोऽहमेवैतानवस्तृणामि । यथा रक्षोहणौ वलगहनौ यज्ञस्वामिसम्पादकौ वामुपधत्तस्तथैवाहमेतानुपदधामि । यथा रक्षोहणौ वलगहनौ वां या वैष्णवी क्रियास्ति, तथा पर्यूहतस्तथैवाहमपि तां पर्यूहामि । यद्वैष्णवं ज्ञानं वैष्णवी अस्यस्ति यूयं सर्वत ऊहथ, तथाहमपि पर्यूहामि । यथा यूयं वैष्णवाः स्थ, तथा वयमपि भवेम ' इति, तदपि यत्किञ्चित्, पूर्वोक्तशतपथादिव्याख्यानविरोधात्, अध्याहार-बाहुल्याच्च । समाध्यक्षादयः सम्बोध्या इत्यत्र प्रमाणाभावोऽपि । सम्बोधकः परमेश्वरश्चेत्, तदा तस्य यथा यूयं वैष्णवाः स्थ, तथा वयमपि भवेम इत्याशास्त्यसम्भवात् । यथा यूयं रक्षोहणो दुःखानि हथेत्यादि तु निर्मूलमेव, मूले तथावि-धपदाभावात् ॥ २५ ॥
अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है-— राक्षस आदि के नाशक तथा भगवान् के अंशभूत वैष्णव उपासकों को मैं शुद्ध करता हूँ । इसी प्रकार आपको मैं शक्ति प्राप्त कराता हूँ । उन वैष्णवों का मैं बल - वीर्य आदि से आच्छादन करता हूँ और ऋत्विक् तथा यजमान अथवा शिष्य एवं गुरु दोनों में मैं भगवनिष्ठता उत्पन्न करता हुआ प्रतिष्ठित होता हूँ, दोनों को मैं सुदृढ़ करता हूँ । हे साधकगण, आप लोग परमेश्वर विष्णु के पुत्र हैं । हे भगवदुपासना के साधन, तुम विष्णु से ही सम्बद्ध, अर्थात् वैष्णव हो । इस प्रकार परमेश्वर भगवान् प्राणियों को, साधकों को सत्कर्म एवं उपासना के लिये प्रोत्साहित करते हैं । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ शतपथ ब्राह्मण आदि से विरुद्ध होने के कारण तथा अध्याहार की अधिकता के कारण उचित नहीं है । इन मन्त्रों से सभाध्यक्ष आदि सम्बोधित किये जाते हैं, इस कथन में भी कोई प्रमाण नहीं है । सम्बोधनकर्ता यदि परमेश्वर है, तो ' हम भी वैष्णव हों ' इस प्रकार की कामना असम्भव है 1124 11
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
१७८ शुक्लयजुर्वेदसंहिता [ अ. ५ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒ह॒भ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नर्य॑सी॒दम॒ह रक्ष॑सा॒ द्वी॒वा अपि॑ कृन्तामि । यवोऽसि य॒वया॒स्मद्वेषा॑ य॒वयारा॑ती दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्य॑न्ता॑ लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥ २६ ॥
अथौदुम्बरीमन्त्राः - ' औदुम्बरीं मिनोति यजमानमात्रीं यूपवच्छेतेऽभ्यादि करोत्यावस्तरणादिति ' ( का. श्रौ. ८.६.२६-२७ ) । उदुम्बरवृक्षसम्बन्धिनीं काञ्चिच्छाखां सदोमण्डपमध्ये निखनेत् । सा च यजमानदेहपरिमिता पूर्व भूमौ शयित्वा वर्तते । अन्ये तु — ' अन्तः पात्यात् षट् प्रक्रमान् यात्वा दक्षिणा सप्तमं महान्तं तत्रैौदुम्बरी मिनोति ' इत्याहुः । अन्तःपात्यात् शङ्कोः षट् प्रक्रमान् प्राच्यां दिशि यात्वा शङ्कं निखन्य तस्मात् सप्तमं महान्तं प्रक्रमं दक्षिणस्यां दिशि गच्छेत् । स च महान् प्रक्रमः पञ्चारल्यात्मकस्त्रिपदप्रक्रमात्मको वा सार्धचतुष्टयारत्न्यात्मको वाऽष्टोत्तरशताङ्गुलात्मको वा । तत्र सप्तमप्रपदान्ते यजमानप्रमाणामौदुम्बरीं शाखां गर्तं कृत्वा निखन्यात् । यजमानप्रमाणा च गर्तादुपरि कार्या । निखननार्हप्रदेशस्तु पञ्चमांशरूपस्ततोऽधिकः । यथा यूपस्यावरं खनितुमभ्रिस्वीकारमारभ्य दव्यपस्तरणपर्यन्तास्तत्त-न्मन्त्रैरनुष्ठितास्तथैवात्राप्यनुतिष्ठेद् अभ्रिमादत्त इत्यादिरीत्या । हे अभ्रे, सवितुर्देवस्य प्रसवे प्रेरणेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वा त्वामाददे । त्वं तू नार्यसि । खननसाधनत्वेन कर्मोपयोगित्वान्नराणां सम्बन्धिन्यसि । अनेन परिलेखनेन रक्षसां यज्ञघ्नानां ग्रीवाः कण्ठप्रदेशान् छिनद्भि । ' यवोऽसीत्यप्सु यवानोप्य ' ( का. श्रौ. ६.२.१५ ) । क्वचित् पात्रस्थास्वप्सु प्रोक्षति - हे यव, धान्यविशेष! त्वं यवोऽसि, यौति पृथक्करोतीति यवः, मिश्रणभूतस्य यवनस्य यवान् प्रक्षिप्य कर्तासि । अस्मद् द्वेषो द्वेष्टृन् शत्रून् दौर्भाग्यं वा अस्मद् अस्मत्तो यवय पृथक्कुरु । तथा रातीरस्मद् धनमपहृत्य पुनरस्मभ्यमदातॄनपि यवय पृथक्कुरु । अनेन सौभाग्यं प्रार्थ्यते । ' प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रम्, प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादिति, अवटे शेषमासिञ्चतीति ' ( का. श्री. ६.२.१५-१७ ) । क्वचित् पात्रस्थास्वप्सु यवान् प्रक्षिप्य ताभिरौदुम्बरीशाखाया अग्रं मध्यं मूलं च प्रोक्षेत । दिवे त्वेत्यादिषु त्रिषु मन्त्रेषु निराकाङ्क्षीकरणाय प्रोक्षामीति क्रियापदं प्रयोज्यम्, यतः साकाङ्क्षा ह्येते मन्त्राः क्रियापदाभावात् । प्रोक्षणशेषं जलं गर्ते शुन्धन्तामिति मन्त्रेण क्षिपेत् । हे औदुम्बर्यग्रभाग, त्वां दिवे द्युलोकप्रीत्यर्थं प्रोक्षामीति शेषः । हे औदुम्बरीमध्यभाग, त्वामन्तरिक्षाय अन्तरिक्षलोकप्रीत्यर्थं प्रोक्षामि । हे औदुम्बर्याः शाखाया मूलभाग, त्वां पृथिवीलोकप्रीत्यर्थं प्रोक्षामि । ' अवटे शेषमासिञ्चति शुन्धन्तामिति ' मन्त्रार्थ - हे अनि! सविता देवता की प्रेरणा होने पर अश्विनीकुमार के बाहभाव को प्राप्त अपनी भुजाओं से, पूषा देवता के हस्तभाव को प्राप्त अपने हाथों से तुम्हारा उपरव कार्य के लिये ग्रहण करता हैं । मैं अध्वर्यु यज्ञविनाशक राक्षसों की गर्दनों को काटता हैं । हे शस्य! तुम यव हो, हमारे शत्रु या दुर्भाग्य को हमसे दूर करो । हे गूलर की शाखा के अग्र भाग! लोक की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । हे मध्य भाग! अन्तरिक्ष की प्रीति के लिये तुम्हारा प्रोक्षण करता हैं । हे मूल भाग! पृथ्वी की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । पितरों के निवासस्थान रूपी लोक शुद्ध हो । हे कुशाओं! तुम पितरों के बैठने के आसन हो । इस मन्त्र से गर्त के चारों ओर जल छिड़क कर जौ बोये जाते हैं, गूलर की शाखा को सींचा जाता है और गर्त के चारों ओर उत्तराग्र कुश बिछाये जाते हैं ॥ २६ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( ८६.२६-२७, ६.२.१५-१८ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' देवस्य त्वा ं इस कण्डिका के मन्त्रों के द्वारा उदुम्बर ( गूलर ) वृक्ष की शाखा गाड़ने के लिये खोदने के साधन ' अभि ' नामक यज्ञायुध का ग्रहण, जलपात्र में यवप्रक्षेप, जल से प्रोक्षण, शेष जल का गर्त में प्रक्षेप, तथा कुशाओं का आस्तरण – ये सब कार्य सम्पादित किये जाते हैं । शतपथ ब्राह्मण, तैत्तिरीय ब्राह्मण आदि में उपदिष्ट अर्थ याज्ञिक प्रक्रिया के अनुकूल है ।
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
म. २६ ] वेदार्थपारिजातभाष्यसहिता १७ ९ ( का. श्रौ. ६.२.१७ ) । पितरः सीदन्ति येषु लोकेषु ते पितृषदना लोकाः शुन्धन्तामुदकसेचनेन शुद्धा भवन्तु । खननोत्पन्नस्य क्रौर्यस्य शान्त्यर्थमिदमुदकसेचनम्, ' क्रूरमिव वा एतत्करोति यत्खनति यत्पयोऽवनयति शान्त्या तदिति ' इति तित्तिरि-वचनात् । ‘ बर्हीींषि प्राञ्च्युदचि च प्रास्यति पितृषदनमसीति ' ( का. श्रौ. ३.२.१८ ) । प्रागग्रानुदगग्रांश्च कुशान् तस्मिन्नवटे आस्तृणीत । पितरः सीदन्त्युपविशन्ति यस्मिंस्तत् पितृषदनम् । हे बर्हिस्त्वं पितृषदनमसि पितॄणामुपवेशनस्थानमसि । सर्वमेतत् शतपथे स्पष्टम् । ' उदरमेवास्य सदस्तस्मात् सदसि भक्षयन्ति यद्धीदं किञ्चाश्नन्त्युदर एवेदं सर्वं प्रतितिष्ठत्यथ यदस्मिन् विश्वे देवा असीदंस्तस्मात् सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्त्यैन्द्रं देवतया ' ( श. ३.६.१.१ ) । हविर्द्धानस्य यज्ञशिरस्त्वमुक्त्वोपपाद्येदानीं सदसो यज्ञोदरत्वमुच्यते — उदरमेवास्य सदस्तस्मात् सदसि भक्षयन्ति । ऐन्द्रं देवतयेति । यथा हविर्धानं विष्णुदेवत्यम्, एवं सद इन्द्रदेवत्यमित्यर्थः । तृतीयाविधाने ' प्रकृत्यादिभ्य उपसंख्यानम् ' ( पा. सू. २. ३. १ ) इति स्थलीयेन वार्त्तिकेन तृतीया । ' तन्मध्य औदुम्बरी मिनोति ' ( श. ३.६.१.२ ) इति सदोमध्ये औदुम्बरीं शाखां पुरुषमितां स्थूणारूपां मिनुयात् । औदुम्बर्या मध्यस्थानस्थापनयोग्यता दर्शिता — ‘ अन्नं वा ऊर्क्, ऊर्वा उदुम्बरः ' इति, ' देवा वै ऊर्जं व्यभजन्त तत उदुम्बर उदतिष्ठद् ऊर्वा उदुम्बरः ' ( तै. बा. १.१.२.१० ) इति श्रुतेः । मध्ये हुतशेषस्य भक्षणात् सदस उदरत्वं युक्तमेव । अतः सदोमध्ये औदुम्बरीमानेनोदरमध्येऽन्नं स्थापितं भवति । ' अथ य एष मध्यमः शङ्कुर्भवति । वेदेर्जघनार्थे तस्मात् प्राङ् प्रक्रामति षड् विक्रमान् दक्षिणा सप्तममपक्रामति सम्पदः कामाय तदवटं परिलिखति ' ( श. ३.६.१.३ ) । मध्यदेशं विशिनष्टि — अथ य एष मध्यमः शङ्कुरित्यादि । सौमिकवेद्या जघनार्धस्य मध्यदेशे यः शङ्कर्निखातः ततः प्राक् षट् प्रक्रमान् विक्रम्य सप्तमं दक्षिणाभिमुखं विक्रम्य तत्र अवटं परिलिखेत् । ' सोऽभ्रिमादत्ते । देवस्य त्वा - नार्यसीति समान एतस्य यजुषो बन्धुर्योषा वा एषा यदभ्रिस्तस्मादाह नार्यसीति ' ( श. ३.६.१.४ ) । ' अथावरं परिलिखति । इदमहं रक्षसां ग्रीवा - वज्रो वा अभि-र्वज्रेणैवैतनाष्ट्राणां रक्षसां ग्रीवा अपि कृन्तामि ' ( श. ३.६.१.५ ) । ' अथ खनति । प्राञ्चमुत्करमुत्किरति यजमानेन सम्मायोदुम्बरीं परिवासयति तामग्रेण प्राचीं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधि निदधाति ' ( श. ३.६.१.६ ) । उत्करं खातं मृन्निचयं प्राञ्चमवटस्य समीपे प्राग्देशे उत्किरति । यजमानेन सम्माय यजमानप्रमाणं कृत्वा परिवासयति, अवशिष्टमंशं छिनत्ति । तामौदुम्बरी शाखामग्रेण अवटस्य प्राग्देशे प्राचीं प्रागग्रां स्थापयेत् । एतावन्मात्राण्यौदुम्बरी-प्रमाणानि बर्हीषि, उपरिष्टाद् औदुम्बर्या उपरि निदधाति, आच्छादयेदित्यर्थः । ' अथ यवमत्यः प्रोक्षण्यो भवन्ति 1 । आपो ह वा ओषधीनां रसस्तस्मादोषधयः केवल्यः खादिता न धिन्वन्त्योषधय उ हापां रसस्तस्मादापः पीताः केवल्यो न धिन्वन्ति यदैवोभय्यः संसृष्टा भवन्त्यथैव धिन्वन्ति तर्हि हि सरसा भवन्ति सरसाभिः प्रोक्षाणीति ' ( श. ३. ६.१.७ ) । औदुम्बरीप्रोक्षणसाधनानामपां यवसाहित्यं विधाय प्रशंसति — अथेति । उक्तमपां रसत्वं युक्त्या समर्थयते ---- तस्मादोषधयः केवल्यः खादिता न धिन्वन्तीति । गतरसत्वान्न प्रीणयन्ति, केवल-तण्डुलभक्षणे तृप्तेरदर्शनात् । ' धिन्विकृण्व्योर च ' ( पा. सू. ३.१.८० ) इत्युप्रत्ययः, तत्सन्नियोगेन वकारस्याकारादेशः । ओषधीनां प्रतिज्ञातमब्रसत्वमुपपादयति — तस्मादापः पीताः केवल्यो न धिन्वन्तीति । यदा उभय्य ओषधय आपश्च संसृष्टाः स्युः, अथ तथा सति धिन्वन्ति । तर्हि तथा सति सरसा भवन्ति भवेयुः । केनाभिप्रायेणेत्याह – सरसाभिः प्रोक्षाणीति । तत्रैव शब्दव्युत्पत्तिप्रदर्शनमुखेन यवान् प्रशंसति — ' तद्वै देवा अस्पृण्वत । त एतैः सर्वाः सपत्नानामोष-
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
१८० शुक्लयजुर्वेदसंहिता [ अ. ५ धीरयुक्त यदयुक्त तस्माद्यवा नाम ' ( श. ३.६.१.९ ) । अस्पृण्वत सर्वा औषधीर्वाञ्छितवन्तः । त एतैर्यवैः सपत्नानामोषधी-युवत अमिश्रयन्त, तस्माद् यवनसाधनत्वाद् यवा इति तन्नामनिर्वचनम् । ' ते होचुः । हन्त यः सर्वासामोषधीनां रसस्तं यवेषु दधामेति स यः सर्वासामोषधीनां रस आसीत्तं यवेष्वदधुस्तस्माद्यत्रान्या ओषधयो म्लायन्ति तदेते मोदमाना वर्धन्त एवं ह्येषु रसमदधुस्तथो एवैष एतैः सर्वाः सपत्नानामोषधीर्युते तस्माद्यवमत्यः प्रोक्षण्यो भवन्ति ' ( श. ३.६.१.१० ) । सर्वौषधिरसानां यवेषु स्थापनं प्रत्यक्षप्रमा-न द्रढयति — तस्मादिति । स यवानावपति । यवोऽसि यवयास्मद्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यामेवैतत्करोति ' ( श. ३.६.१.११ ) । हे यवपदार्थ, त्वं यवोऽसि पृथक्कर्तासि, अतो यवय अस्मत्तोऽरातीनदानशीलानस्मत्तः पृथक्कुरु । अथ प्रोक्षतीति । एको वै प्रोक्षणस्य बन्धुः, यत्र यत्र प्रोक्षणमस्ति, तस्य सर्वस्यापि मेध्यमेवैतत् करोतीत्येवंरूपं ब्राह्मणमेकमेवेत्यर्थः । ' स प्रोक्षति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेतीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति ' ( श. ३.६.१.१२ ) । हे उदुम्बरशाखाग्र, दिवे द्युलोकप्राप्यर्थं त्वां प्रोक्षामि । हे तन्मध्यभाग, अन्तरिक्षलोकप्राप्यर्थं त्वां प्रोक्षामि । हे तन्मूलभाग, पृथिवीलोकप्रा-प्यर्थं त्वा प्रोक्षामि । ' अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेऽवनयति शुन्धन्तां लोका: पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति ' ( श. ३. ६.१.१३ ) । शुन्धन्तामिति मन्त्रेण प्रोक्षणीशेषमवटेऽवनयेत् । पितरः सीदन्त्येष्विति ते पितृषदना भूम्यधोवर्तिनो लोकाः । प्रायेण गर्तस्य पित्र्यकार्येषु दर्शनादवटस्य पितृषदन-त्वम् । तदेवाह — पितृदेवत्यो वै कूपः खातः । ' अथ बर्हींषि । प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्यं वा अस्या एतद्भवति यन्निखातं सा यथा निखातौषधिषु मिता स्यादेवमेतास्वोषधिषु मिता भवति ' ( श. ३.६.१.१४ ) । स्पष्टम् । सा यथा निखातौषधिष्विति । यथा वनेऽनिखाता स्वभावेनोत्पन्ना दृढमूला काचिदोषधिरोषधिषु सदोत्पन्नेषु तृणगुल्मादिषु मध्ये मिता भवति, तथैव सबर्हिष्के गर्ते मिता शाखाप्येवं भवति, मिता भवति । अध्यात्मपक्षे तु — हे भगवदाराधनसामग्रि, सवितुर्देवस्य प्रसवे प्रेरणे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे । त्वं परमेश्वरस्य नारि भार्यावत् सुखकरी असि । अहं भगवतोऽनुग्रहाद् रक्षसां विघ्नकारिणां ग्रीवाः कण्ठावयवानपि कृन्तामि । हे परमेश त्वं यवोऽसि यवाद्यन्नवद् भक्तस्य भोग्योऽसि, ' अहमन्नम्, अहमन्नम्, अहमन्नम् ' ( तै. उ. ३. १०. ६ ) इत्यादिश्रुतेः । अस्मद् अस्मत्तो द्वेषो द्वेष्टृनरातीन् बाह्यानाभ्यन्तरांश्च शत्रून् यवयापगमय पृथक्कुरु । हे परमेश्वर, त्वा त्वामहं द्युलोकसुखाय अन्तरिक्षलोकसुखाय पृथिव्याः सुखाय तत्स्वामित्वाय तत्तद्धिताय वा समाश्रये भजामि । लोकाः सर्वे त्वदनुग्रहात् शुन्धन्तां पूता भवन्तु । त्वं पितॄणां तदुपलक्षितानां सर्वप्राणिनां सदनमाश्रयोऽसि । अतस्त्वदाश्रयणमेव सर्वयोगक्षेमकरम् । अध्यात्मपक्ष में अर्थ इस प्रकार है - हे भगवदाराधन की सामग्री, सविता देवता की प्रेरणा से, अश्विनी देवों की भुजाओं से तथा पूषा देव के हाथों से मैं तुमको ग्रहण करता हूँ । तुम परमेश्वर के लिये भार्या की भाँति सुखकर हो । मैं भगवान् के अनुग्रह से विघ्नकारी राक्षसों की ग्रीवाओं को विच्छिन्न करता हूँ । हे परमेश्वर, आप यवादि अन्नों की भाँति भक्त के लिये भजनीय हैं । I हमारे द्वेषी बाह्य और आभ्यन्तर शत्रुओं को हमसे पृथक् कीजिये । हे परमेश्वर, मैं द्युलोकगत, अन्तरिक्षगत तथा पृथिवीगत सुख, स्वामित्व अथवा हित के लिये आपका आश्रय ग्रहण करता हूँ । समस्त लोकों के प्राणी आपके अनुग्रह से पवित्र हो जाँय । आप पितृगण आदि सम्पूर्ण प्राणियों के आश्रयभूत हैं । अतः आपका आश्रयण ही समस्त योगक्षेम का सम्पादक है ।
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
म. २६-२७ ] वेदार्थपारिजातभाष्यसहिता १८१ दयानन्दस्तु – ' हे मनुष्य, यथाहं सवितुः प्रसवे त्वाश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामनेकानुपकारानाददे, इदं विश्वं संरक्ष्य रक्षसां ग्रीवा अपि कृन्तामि यथा पदार्थान् यावयामि तथा त्वमप्यादत्स्व । यतस्त्वं यवोऽसि । यवय च यथार्हं द्वेषोऽरातीः शत्रूनस्मद्दूरीकारयामि तथा त्वमपि यवय । हे विद्वन्, यथाहं दिवे त्वा त्वामन्तरिक्षाय त्वा त्वां पृथिव्यै त्वामाश्रयामि, तथा सर्वे जना आश्रयन्ताम् । यथा पितृषदनमस्यस्ति, येन पितृषदना लोकाः शुन्धन्ति यदहं शुन्धे तथेदं सर्वे शुन्धन्ताम् । हे नारि, या त्वमेवंभूतासि त्वमप्येतत्सर्वमेव समाचर ' इति, तदपि बालभाषितम्, मूले यथा - तथापदाभावात्, लुप्तोपमालङ्कारे च मानाभावात् । उपदेष्टुः साधारणत्वे तदनुकरणमनर्थकम्, परमेश्वरत्वे तथोप-देशासम्भवात् । नहि परमेश्वरस्य द्वेषोऽरातयो वा सम्भवन्ति, न च द्युलोकाद्यर्थं स कञ्चिच्छ्रयते, तस्य स्वातन्त्र्येणाप्त-कामत्वात् । मूले ' त्वा आददे ' इत्युक्तम् त्वया तु ' अनेकानुपकारानाददे ' इत्युच्यते तच्च सर्वथा निर्मूलम् । इदं विश्वं संरक्ष्य ईश्वरो रक्षसां ग्रीवा अपि कर्तितुं शक्नोति, पदार्थांश्च यावयितुं शक्नोति, न तथाऽन्ये कर्तुं पारयन्तीति तथोपदेशो व्यर्थ एव । ईश्वरोऽपञ्चीकृतानि भूतानि यावनेन पञ्चीकरोति, न तथा जीवाः पञ्चीकरणं कर्तुं प्रभवन्ति । न चेश्वरो दिवे सत्यधर्मप्रकाशाय अन्तरिक्षगमनाय पार्थिवपदार्थानां पुष्टये विद्वांसमाश्रयते । पितृपदेन ज्ञानिपुरुषाणां ग्रहणमपि निर्मूलम् । ' यथा ज्ञानिषु स्थित्वा लोकाः शुन्धन्ति, तथाहं शुन्धे, सर्वे शुन्धन्ताम् ' इत्यादिकमपि प्रलापमात्रम्, ज्ञानिनां स्थित्यनाधारत्वात्, परमेश्वरस्य नित्यं शुद्धिमत्त्वाच्च । अत्र प्रसङ्गे ' हे नारि, त्वमपि तथैव समाचर ' इत्येतत्प्रलपनं मूर्खजनप्रतारणायैव, मूले समाचरणबोधकस्य पदस्याभावात् मनुष्येष्वेव नारीणामप्यन्तर्भावेन पार्थक्येन तद्बोधनस्य व्यर्थत्वात् ॥२६ ॥
उद्दव॑नं॒ स्तभा॒नान्तरि॑क्षं पृ॒ण॒ दृशं ह॑स्व पृथि॒व्या॑ यु॑ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णौ ध्रुवेण॒ धर्म॑णा । ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यूहामि । ब्रह्म॑ दृह क्ष॒त्रं दृं हायु॑र्द ह प्र॒जां वृ॑ह ॥ २७ ॥
' तामुच्छ्रयति, अथ मिनोति, अथ पर्यूहति, अथ पर्यूषति, अथाप उपनिनयति, अथैवमभिपद्य वाचयति ' ( श. ३.६.१.१५-२० ) इत्यादिशतपथश्रुत्यनुसारेणैव कात्यायनेनापि सूत्रितम् । तथाहि - ' उद्दिवमित्युच्छ्रयति ' ( का. श्रौ. ८.५.२ ९ ) । औदुम्बरीमूर्ध्वाग्रत्वेन स्थापयेदुद्दिवमिति मन्त्रेण । द्युतान इति मिनोति ' ( का. श्री. ८.५.३० ) । द्युतान इति स्वामी दयानन्द के अर्थ में लुप्तोपमा अलंकार मानने में कोई प्रमाण नहीं है । इस उपदेश के कर्ता के साधारण जन होने पर उसका अनुकरण निरर्थक होगा । परमेश्वर के उपदेष्टा होने पर इस प्रकार का उपदेश संगत नहीं होगा । परमेश्वर के द्वेषी अथवा शत्रु सम्भव नहीं हैं और परमेश्वर द्युलोक के लिये किसी का आश्रय ग्रहण नहीं करता, क्योंकि वह स्वतन्त्र तथा पूर्णकाम है । पितृशब्द से ज्ञानी पुरुषों का अर्थबोधन भी मूलप्रमाण से रहित है ॥२६ ॥
मन्त्रार्थ - हे औदुम्बरी देवता! द्युलोक को स्तम्भित करो, अन्तरिक्ष को पूरित करो, पृथ्वी को दृढ़ करो । हे गूलर की शाखा! मित्रावरुण नामक दोनों देवता, दीप्तिमान् वायु देवता स्थिर रूप से तुमको गड्ढे में डालें । हे गूलर की शाखा! ब्राह्मणों और क्षत्रियों से सेवनीय, धनपुष्टि के लिये सेवनीय तुमको इस गड्ढे में मिट्टी डालकर दृढ़ करता हूँ । हे शाखे! तुम ब्राह्मण और क्षत्रिय जाति को दृढ़ करो, जीवन को दृढ़ करो, पुत्र आदि प्रजा को दृढ़ करो ॥ इस मन्त्र से गूलर की डाल को गड्ढे में डालकर उसे जल से और मिट्टी से भरकर एवं मैत्रावरुण दण्ड से कूट कर दृढ़ किया जाता है | २७ ॥ भाष्यसार -- कात्यायन श्रौतसूत्र ( ८५ २ ९ -३१, ६.३ ९- ११ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' उद्दिवम् ' इस कण्डिका के मन्त्रों द्वारा औदुम्बरी शाखा को उठाकर विधिपूर्वक गाड़ना तथा मैत्रावरुण नामक दण्ड से उसके चारों तरफ मिट्टी को सुदृढ़ करने का विधान किया गया है । शतपथ ब्राह्मण तथा ऐतरेय ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है ।