वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 191–200
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 191–200
पृष्ठ 191
पाठ पढ़ें पाठ छिपाएँ
१८२ शुक्लयजुर्वेदसंहिता [ अ. ५ मन्त्रेण औदुम्बरीं गर्ते प्रक्षिपेत् । ' पर्यहणाद्योपसेचनात् कृत्वा ध्रुवासीति वाचयत्यौदुम्बरीमालभ्य प्रजया भूयादिति पशुभिरिति वा ' ( का.श्रौ. ८. ५.३१ ) । अवटे प्रक्षेपानन्तरं पांसुभिरवटपूरणाद्यारभ्य अद्भिरुपसिच्य — इत्येतत्पर्यन्तं यूपवदेव कृत्वा ' ब्रह्म दृंहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्युषति ' ( का.श्रौ. ६.३.१० ) । पांसुभिः पूरितं गर्तं सर्वतस्त्रिः कुट्टयैति । मैत्रावरुणदण्डेन पांसूनवटेऽधः प्रवेशयेत् । एवं श्रुतिसूत्रसम्मतविनियोगानुसारेणैव मन्त्रार्थाः प्रत्येतव्याः । औदुम्बरि, त्वं दिवं द्युलोकमुत्तभान स्तम्भय । ऊर्ध्वं स्थित्वा यथा न पतेत् तथा द्युलोकं धारय । अन्तरिक्षं पृण सर्वतः पूरय, ' पृ पालनपूरणयोः ' । पृथिव्यां दृंहस्व दृढा भव । सप्तमी द्वितीयार्थे वा, पृथिवीं दृढां कुरु, पृथि-व्यामवस्थिता सती पृथिवीं दृढां कुरु वा । यद्वा -- हे उदुम्बरशाखे, तवाग्रभागेन दिवमुत्तभान दिव उत्तम्भनं कुरु । स्वशरीरस्थौल्येनान्तरिक्षं पूरय । पृथिव्यां स्थिता पृथिवीमपि दृढां कुरु, पृथिव्याः शैथिल्येन शाखाया अपि दाढर्यायोगात् । औदुम्बरि, त्वा त्वां द्युतानो दीप्यमानो दिवि विततो वा, मारुतो मरुतां सम्बन्धी तन्नामको देव, ध्रुवेण स्थैर्येण धर्मणा धारणेन मिनोतु अवटे प्रक्षिपतु, ' डुमिञ् प्रक्षेपणे ', तथा मित्रावरुणौ तन्नामकौ देवौ मिनुतां त्वा प्रक्षिपताम् । हे औदुम्बरि, त्वां पर्यूहामि परितो मृत्तिकां क्षिपामि । कीदृशीं त्वाम्? ब्रह्मवनि, ब्रह्म ब्राह्मणजातिं वनस्यति संभजत इति ब्रह्मवनिः । क्षत्रवनि क्षत्रं क्षत्रियजातिं वनस्यति सम्भजत इति क्षत्रवनिः । रायो धनस्य पोषं पुष्टिं वनस्यति सम्भजत इति रायस्पोषवनिः । सर्वत्र ' सुपां सुलुक् ' ( पा. सू. ७.१.३ ९ ) इति विभक्तेर्लुक् । क्रियाविशेषणतया वा पर्यहणविशेषणतया वा नपुंसकत्वमित्युव्वटः । वितर्कार्थ ऊहतिः परिपूर्वकोऽत्र पूरणार्थः । हे औदुम्बरि, मैत्रावरुणयोर्दण्डेन दृढीभूता सती ब्राह्मणजातिं क्षत्रियजातिमायुष्यं पुत्रादिरूपां प्रजां च दृढीकुरु । शतपथे तदभिप्रायो ऽप्यर्थवादरूपेणोक्त: - ' उद्दिवं स्तभानान्तरिक्षं पृण दृंहस्व पृथिव्यामितीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति ' ( श. ३.६.१.१५ ) । ऊग्रूपोदुम्बरस्योच्छ्रयणेन द्युलोकादीन् ऊर्जा रसेन युक्तान् करोति, तत्र रसं दधाति, तेन मन्त्रपूर्वकेणौदुम्बर्या उच्छ्रयणेन सर्वलोका अन्नरसपूर्णा भवन्ति । ' तानस्त्वा मारुतो मिनोत्विति यो वा अयं पवत एष द्युतानो मारुतस्तदेतेन मिनोति मित्रावरुणौ ध्रुवेण धर्मति प्राणोदानौ वै मित्रावरुणौ । एतदधिदैवतम्, अहोरात्राभिमानौ देवौ ' ( ऐ. बा. ४.२.४ ) । ' ब्रह्मवनि. बह्वी वै यजुःष्वाशीस्तद् ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये रायस्पोषवनीति भूमा वै रायस्पोषस्तस्माद्भूमानमाशास्ते ' ( श. ३.६.१.१७ ) । ब्रह्मक्षत्ररूपे उभे वीर्ये रायस्पोषं चाशास्ते - ' ब्रह्म दृक्षंह क्षत्रं दृह प्रजां दृंहेत्याशीरेवैवैतस्य कर्मण आशिषमेवैतदाशास्ते समं भूमिपर्यहणं करोति गर्तस्य वा उपरि भूम्यथैवं देवत्रा तथा हागर्तमिद्भवति ' ( श. ३.६.१.१८ ) । पर्यूषणं परितः संघट्टनम् ' ऋषि गतौ ' इति धातोर्निष्पन्नं रूपम् । ब्रह्म हेति मन्त्रो यजमानापेक्षितस्य फलस्य प्रतिपादक इत्याह- आशीरेवैतस्य कर्मण इति । एतस्य शाखादृंहणकर्मणः फलरूपाशीः प्रतिपाद्यते । परिघट्टनं पर्यूषणं भूमिप्रमाणमद्भिर्भूम्या समं समम्भूमि भूमिसमं करोति । व्यतिरेकमाह - गर्तस्य वा उपरिभूमि । अथैवं देवत्रेति देवेष्वन्वितो भवति । तथाहाऽगर्तमिद् भवति । तथा सति भूमिसाम्ये सत्यगर्तमिद् अगर्तमिता भवति शाखा । मिनोतेः कर्मणि क्विप् । अध्यात्मपक्षे तु -- त्रीन् लोकान् विक्रममाणं भगवन्तं वामनं भक्ताः स्तुवन्ति । हे वामन विष्णो, त्वं दिवं द्युलोकं स्वतेजसा उत्तभान धारय, अन्तरिक्षं च स्वसत्तया आपूरय पृथिवीं च दृढां कुरु । द्युताना दिवि विस्तारवान् मातरिश्वा अध्यात्मपक्ष में अर्थ इस प्रकार है- भक्तगण तीनों लोकों को अधिकृत करने वाले भगवान् वामन की स्तुति करते हैं कि विष्णुदेव, आप द्युलोक को अपने तेज से धारण करें, अन्तरिक्ष को अपनी सत्ता से व्याप्त करें तथा पृथिवी को सुदृढ़ करें । द्युलोक
पृष्ठ 192
पाठ पढ़ें पाठ छिपाएँ
म. २७-२८ ] वेदार्थपारिजातभाष्यसहिता १८३ त्वां ध्रुवेण धर्मणा स्थिरेण धारकेण प्रयलेन त्वामभिलक्ष्य मिनोतु प्रक्षिपतु, अस्मत्समर्पितं पुष्पाञ्जलिमिति शेषः । मित्रावरुणौ वसुविशेषौ प्राणोदानौ च मनुतः सपर्यां समर्पयतः । ब्रह्मवनि क्षत्रवनि त्वा ब्राह्मक्षात्रतेजःप्रदं त्वां रायस्पोषवनि धनानामाध्यात्मिकानां ज्ञानवैराग्यादीनां भौतिकानां गोभूहिरण्यादीनां संविभक्तारं त्वामहं त्वदुपासकः पर्यूहामि स्तुति-भिर्वर्धयामि । त्वं च ब्रह्म ब्राह्मं क्षात्रं च तेजो बृंह, आयुः सफलय, सदाचारमयीं प्रजां च त्वदाराधनोपयोगिनीं वर्धय । दयानन्दस्तु – ' हे परमविद्वन्, यथा त्वां मारुतो वायुः, ध्रुवेण निश्चलेन धर्मणा धर्मेण मिनोतु प्रक्षिपति ( हिन्दीभाष्ये प्रयुङ्क्ते ), मित्रावरुणौ प्राणापानौ मिनुतस्तथा त्वं कृपयास्मदर्थं दिवं गुणानां प्रकाशमुत्तभान अज्ञानादुद्घाटय ( हिन्दी ) तथान्तरिक्षं पृण परिपूरय । पृथिव्यां द्युतानः सुखानि दृहस्व । सद्विद्यागुणान् प्रकाशयन् सुखानि वर्धय । ब्रह्म वेदविद्यां विद्वासं वा क्षत्रं राज्यं वीरं वा वर्धय, आयुर्जीवनं प्रजामुत्पादनीयां धनसमूहं पुष्टिं वर्धय । ब्रह्मविद्यासेवितारं सेवयितारं क्षत्रस्य संसेवयितारं रायस्पोषस्य सेवयितारं त्वां पर्यूहामि सर्वप्रकारेण तर्कैर्निश्चिनोमि । तथैव त्वं मां सर्वसुखदायको भव, सर्वे मनुष्यास्तर्कैस्त्वां जानन्तु ' इति, तदपि यत्किञ्चित्, मन्त्राक्षराननुगुणत्वात् । परमविद्वानत्र केन प्रमाणेन सम्बो-द्ध्यते? औदुम्बरीशाखावच्छिन्नचैतन्यरूपा तदधिष्ठात्री देवताऽत्र सम्बोधनीयेत्यत्र तु श्रुतिसूत्राणि प्रमाणानीति दर्शि-तमेव । वायुर्विद्वांसं प्रक्षिपति वा प्रयुङ्क्ते वेत्यपि प्रमाणशून्यमेव । कथं च मिनोतिः प्रक्षेपणार्थः? कथं वा दिवमित्यस्य विद्याप्रकाशोऽर्थः? कथं वा उत्तभानेत्यस्योद्घाटनमर्थः? परमविद्वान् कथमायुर्वर्धयिष्यति? कथं च प्रजां वर्धयिष्यति? अत्र किं नियोगादिना प्रयोजनम्? सर्वत्र मनुष्याः कथमेकं विद्वांसं तर्कैर्ज्ञास्यन्ति? प्रश्नोत्तराभ्यामेव तज्ज्ञानं सम्भवति, ऊहायास्तत्र किं प्रयोजनम्? किं च तज्ज्ञानफलम्? इत्याद्यसमाहितमेव । शतपथविरोधस्तु स्पष्ट एव ॥ २७ ॥
ध्रुवासि॑ ध्रुवो॒ऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात् । घृ॒तेन॑ द्यावापृथिवी पूर्ये-था॒मिन्द्र॑स्य च्छ॒दिर॑सि विश्वज॒नस्य॑ छ॒या ॥ २८ ॥
' अथाप उपनिनयति । यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति तस्मादप उपनिनयति ' ( श. ३.६.१.१ ९ ) । मृत्परमाणूनां संश्लेषायापः सिञ्चति । अस्या भूम्या भागं खनन्त-में विस्तृत वायु हमारे द्वारा प्रदत्त पुष्पाञ्जलि आदि को स्थिर एवं धारण करने वाले प्रयत्न से आपके प्रति प्रेषित करे । प्राण एवं उदान वायु विशेष सपर्या का समर्पण करते हैं । ब्राह्म एवं क्षात्र तेज को प्रदान करने वाले, आध्यात्मिक ज्ञान - वैराग्य आदि धनों का तथा भौतिक धनों का वितरण करने वाले आपका मैं उपासक स्तुतियों से अभिवर्धन करता हूँ । आप ब्राह्म एवं क्षात्र तेज सुदृढ़ करें तथा आयुष्य को सफल करें । सदाचारमयी आपकी आराधना के लिये उपयोगी प्रजाओं को बढ़ावें । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ मन्त्राक्षरों के अनुकूल न होने के कारण असम्बद्ध है । परम विद्वान् इस मन्त्र में किस प्रमाण से सम्बोधित है? ' दिवम् ' इसका अर्थ विद्याप्रकाश कैसे है? ' उत्तभान ' का अर्थ ' उद्घाटन करो ' यह कैसे हो सकता है? इत्यादि प्रश्न अनुत्तरित ही रहते हैं ॥ २७ ॥
मन्त्रार्थ - हे शाखा! तुम स्थिर हो । यह यजमान भी सन्तान और पशुओं के साथ अपने स्थान में स्थिरता से रहे । घृत की आहति से पृथ्वी और स्वर्गलोक पूरित हों । हे तृण की चटाई! तुम ऐश्वर्यवान् यजमान के इस मण्डप को छाने वाली, सब लोगों की छायारूप हो । इस मन्त्र से गूलर की शाखा का स्पर्श करे, शाखा की जड़ में घृत की आहति दे और मण्डप बना कर तृण की चटाई से उसे छा दे ॥ २८ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ८५.३१-३३, ८६.७ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' ध्रुवासि ' इस कण्डिका के मन्त्रों से औदुम्बरी शाखा का स्पर्श करते हुए मन्त्रवाचन, द्विशाख प्रदेश में होम, छदि ( छादन या छप्पर ) का आच्छादन आदि कार्य किये जाते हैं । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट: है ।
पृष्ठ 193
पाठ पढ़ें पाठ छिपाएँ
१८४ शुक्लयजुर्वेदसंहिता [ अ. ५ स्तामेव भूमिमक्रूरां सतीं क्रूरीकुर्वन्ति । तत्रापः शमनहेतुत्वात् शान्तिः, अतोऽद्भिः शान्त्या क्रौर्यशमनमदृष्टं प्रयोजनम्, सन्धानं तु संहतिहेतुत्वेन दृष्टं प्रयोजनम् । ' अथैवमभिपद्य वाचयति ध्रुवासीति... स्रुवेणोपहत्याज्यं विष्टपमभिजुहोति घृतेन द्यावापृथिवीति ' ( श. ३. ६.१.२०-२१ ) । विष्टपं विशाखमभितो विष्टपस्याग्रभागस्याभितो यथा शाखाया अग्रभागो मूलभागो मध्यभागश्चाक्ता भवेयुस्तथाज्यं जुहोति घृतेनेति मन्त्रेण । ' अथ छदिरधिनिदधाति इन्द्रस्य छदिरिति ' ( श. ३.६.१.२२ ) । तथैव कात्यायनोऽपि —– ' पर्यूहणाद्योपसेचनात् कृत्वा ध्रुवासीति वाचयत्यौदुम्बरीमालम्भ्य प्रजया भूयादिति पशुभिरिति वा ' ( का.श्रौ. ८. ५. ३१ ) । अवटे प्रक्षेपानन्तरं पांसुभिरवटपूरणाद्यारभ्य अद्भिरुपसिच्येत्येतत्पर्यन्तं यूप इव औदुम्बर्यामपि कृत्वा औदुम्बरीमालभस्वेत्यध्येषणया यजमानेन औदुम्बर्या आलम्भनं कारयित्वा ध्रुवासीति मन्त्रं वाच-येत् । आलम्भनं स्पर्शनम् । तत्र मन्त्रे प्रजया भूयात् पशुभिर्भूयादिति वोच्चारयेत्, नोभयं प्रजया पशुभिरिति । ‘ स्रुवेण विशाखे जुहोति घृतेन द्यावापृथिवी इति ' ( का. श्रौ. ८.५. ३२ ) । यत्र द्विविधशाखोत्पत्तिस्तत्र कर्णे वलिकानिधानप्रदेशे हिरण्यं निधाय स्रुवेण जुहुयात् । ' भूमिप्राप्ते स्वाहाकरोति ' ( का. श्री. ८.५.३२ ) । औदुम्बर्या द्विशाखे प्रक्षिप्तमाज्यं यदा भूमिं प्राप्नोति, तदा मन्त्रान्ते स्वाहाकारं कुर्यात् । ' इन्द्रस्य छदिरिति मध्यमं छदिरारोप्यापरपूर्वे च ' ( का. श्रौ. ८.६.७ ) । सदस उपरि नव छदीषि भवन्ति । तानि सर्वाण्युदगग्राण्येव । तत्र दक्षिणतस्त्रीणि मध्ये त्रीणि उत्तरतस्त्रीणि — इति नवानां छदिषां स्थापनम् । तत्रापि दक्षिणतो यानि छदीषि सन्ति, तेषु मध्यमच्छदिर्मन्त्रेणारोप्य ततस्तमेव मन्त्रमनुकृष्य तेनैव मन्त्रेण पूर्वनिहिताच्छदिषोऽपरस्मिन् भागे एकं छदिरारोपयेदुदगग्रम्, एवं पूर्वभागेऽप्येकमुदगग्रं तेनैव मन्त्रेणा-रोपयेत् । ' नवच्छदिः सदो नवाग्निष्टोमे पञ्चदशोक्थ्ये षोडश षोडशिनि सप्तदश वाजपेये एकविंशतिः सत्राहीनाना त्रीणि मध्यमानि त्रीणि दक्षिणानि त्रीण्युत्तराणि ' ( १०.११.१२ ) इत्यापस्तम्बः । मन्त्रार्थस्तु – हे औदुम्बरि, त्वं ध्रुवा स्थिरासि । त्वमिव यजमानोऽस्मिल्लोके स्वकीय आयतने ध्रुवो भूयात् स्थिरो भवतु । हे द्यावापृथिव्यौ शाखाग्रमूलवर्तिन्यौ, हूयमानेन घृतेन युवां पूरिते भवेताम् । सदोनामकस्य मण्डपस्य प्रावरणार्थं मध्यमं कटमारोपयत्राह - हे तृणनिर्मितकट, त्वमिन्द्रस्य सदोमण्डपस्य छदिरसि प्रच्छादकमसि । अतस्त्वां प्रावरणायारोपयामि । त्वं सदोमण्डपवर्तिनो विश्वजनस्य यजमानत्वग्रूपस्य सर्वप्राणिनश्छाया भवेति शेषः । विश्वगोत्रा ह्यस्मिन् ब्राह्मणा आसन् । सदस इन्द्रदेवताकत्वेनेन्द्रत्वम् । शतपथे द्यावापृथिवीपूर्त्यभिधानस्य प्रयोजनमुक्तम्— ‘ तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमा प्रजा उपजीवन्ति ' ( श. ३.६.१.२१ ) । ऊग्रूपौदुम्बरयुक्तेन आज्येन यद् द्यावापृथिवीपूरणम्, तदूर्यसेनैव द्यावापृथिवीपूरणं कृतं स्यात् । तेनानयो रसं दधाति ते रसवत्यौ उपजीवनीये इमाः प्रजा उपजीवन्ति । ' इन्द्रस्य छदिरसीत्यैन्द्रं हि सदो विश्वजनस्य छायेति विश्वगोत्रा ह्यस्मिन् ब्राह्मणा आसते तदुभयतश्छदिषी उपदधात्युत्तरतस्त्रीणि परतस्त्रीणि तानि नव भवन्ति त्रिवृद्वै यज्ञो नव वै त्रिवृत् तस्मान्नव भवन्ति ' ( श. ३.६.१.२२ ) । इन्द्रदेवताकत्वात् सदोऽत्रेन्द्रः । तस्याच्छादकमसि । तथा विश्वजनस्य विश्वेषां सदसि स्थितानां जनानां छायाहेतुत्वाच्छायासि । उभयतश्छदिषी उपदधातीति । मध्यमस्य छदिष उभयतो दक्षिणोत्तरयोस्तानि मध्यमच्छर्दीषि त्रीण्यप्युपधाय तेषामुत्तरतस्त्रीणि छदींष्युपदध्यात् । परः परस्तादपि दक्षिणतोऽपि त्रीण्युपदधाति । छदिषो नवत्वं प्रशंसति – तानि नव भवन्ति त्रिवृद्वै यज्ञ इति । त्रिवृत्स्तोमसाध्यत्वाद् यज्ञस्य त्रिवृत्त्वम् । स च त्रिवृत्स्तोमो नव वै नवस्तोत्रियात्मकः खलु, तिसृभ्यो हिङ्करोति स एकया ' ( ३.१ ) इत्यादिसामताण्ड्यब्राह्मणानुसारेण त्रिवृत्स्तोमे तिसृणामृचां नवत्वसम्पादनात् । तस्माच्छदिषां नवत्वं युक्तम् ।
पृष्ठ 194
पाठ पढ़ें पाठ छिपाएँ
म. २८ ] वेदार्थपारिजात भाष्यसहिता १८५ ' तदुदीचीनवंशं सदो भवति प्राचीनवंशं हविर्धानमेतद्वै देवानां निष्केवल्यं यद्धविर्धानं तस्मात्तत्र नाश्नन्ति न भक्षयन्ति निष्केवल्यं ह्येतद्देवानां स यो हात्राश्नीयाद्वा भक्षयेद्वा मूर्धा हास्य विपतेदथैते मित्रे यदाग्नीधं च सदश्च तस्मात्तयोरश्नन्ति तस्माद् भक्षयन्ति मिश्रे ह्येते उदीची वै मनुष्याणां दिक् तस्मादुदीचीनवंशं सदो भवति ' ( श. ३.६.१.२३ ) । सदस उदगायतत्वं विधायोदीचीनवंशत्वं प्रशंसति तदुदीचीनवंशं सदो भवतीति । निःशेषेण देवानामेव भवति हविर्धानं तस्मात्तस्य निष्केवल्यरूपत्वम् । तस्मादेव तत्र पुरोडाशादिकं नाश्नन्ति सोमादिकं न भक्षयन्ति । अशनादौ भक्षणे च मूर्धपातलक्षणं दोषमुक्त्वा आग्नीधसदसोर्मिश्रत्वं स्तोत्रशस्त्राद्याश्रयत्वाद्दैवम्, भक्षणादिसम्भवान्मानुषं च, तस्मान्मिश्रत्वं तयोः । प्रायेणोदीच्यां मनुष्यवृद्धिदर्शनान्मनुष्यसम्बन्धोक्तिः । सदोनिर्माणप्रकारश्च ' नाभिदघ्नं सदो मत्या वा ( यथाबुद्धि वा ) उदग्वंशमष्टादशारनि एकविंशतिश्चतुर्विंशतिर्वा नव तिर्यग् अर्धायामो वा औदुम्बरी मध्ये पृष्ठ्यामेके इन्द्रस्य छदिरिति मध्यमं छदिरारोप्यापरपूर्वे च त्रिवर्गौ चोत्तरतः ' ( का.श्रौ. ८.६. १-८ ) । नाभिप्रमाणं सदोमण्डपं प्रान्तेषून्नतं भवति । इच्छया प्रान्तेषूत्रता कार्या । मध्यमो वंश उदगायतो भवति । त्रिष्वपि पक्षेषु नवारत्नयो विस्तारप्रमाणं भवति । अथवा आयामस्य दैर्घ्यस्यार्धप्रमाणो विस्तारः कार्यः । सदसस्तिर्यक्प्रमाणस्य मध्ये, अर्थान्नवारलयस्तिर्यक्-प्रमाणं तस्यार्धं सार्धचतुररत्नयः । तत्रैौदुम्बरी यथा स्यात्तथा सदोमण्डपं कुर्यात् । एके पृष्ठ्यां मध्यस्थां कुर्वते । ' वेदेर्मध्यरेखा पृष्ठ्या ' ( का.श्रौ. ८.३.१२ ) । इन्द्रस्य छदिरिति व्याख्यातमेव । अध्यात्मपक्षे तु — हे राजराजेश्वरि, त्वं कूटस्थचिद्रूपत्वाद् ध्रुवासि । त्वत्प्रसादादयं यजमानः स्वकर्मणा त्वदा-राधनमीहमान उपासकोऽपि पशुभिः प्रजाभिश्च ध्रुवः प्रतिष्ठितः स्यात् । बहिरङ्गान्तरङ्गसाधनैश्च त्वयि चित्तस्थैर्यवान् भूयात् । युवामुपास्योपासकौ घृतेन स्वास्थ्यकरेण ब्रह्मानन्दात्मकेन रसेन द्यावापृथिवी द्यावापृथिव्यौ तत्स्थान् प्राणिनश्च पूर्येथां पूरयेथाम्, अन्तर्भाविणिजर्थः । यद्वा सीतारामौ रुक्मिणीकृष्णाविह चर्चितौ । हे सीते, रुक्मिणि वा, त्वं कूटस्थ-चिद्रूपत्वाद् विश्वभर्तुः परमेश्वरस्य यजमानस्य लोकसंग्रहाय यज्ञे दीक्षितस्य पत्नीत्वाद् ध्रुवासि पत्नीशालायां स्थिरासि । यजमानोऽयं श्रीरामः श्रीकृष्णो वा प्रजया पशुभिरस्मिन् विस्तृते विश्वस्मिन्नायतने धुवो भूयात्, भगवत्याः प्रभावादेव परस्मिन् पारमैश्वर्यदर्शनात्, ' पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ' इत्याद्युक्तेः । युवां घृतेन सर्वसुखतत्सा-धनादिभिः, द्यावापृथिव्यौ पूर्येथां पूरयेथामिति भक्तानामाशीः । सर्वस्यैव वेदस्य धर्मब्रह्मपरत्वेन सीतारामयो रुक्मिणी-कृष्णयोश्च दिव्यदम्पत्योर्ब्रह्मरूपत्वेन तत्परं व्याख्यानं नासमञ्जसम् । दयानन्दस्तु – ' हे यज्ञानुष्ठात्रि यजमानपनि, यथा त्वमस्मिन्नायतने जगति स्वस्थाने यज्ञे वा प्रजया पशुभिः सह ध्रुवासि, तथा यजमानोऽपि ध्रुवोऽस्ति । युवां घृतेन द्यावापृथिवी पूर्येथां पूरणे कुर्यातम् । इन्द्रस्य छदिरसि । विश्व-अध्यात्मपक्ष में अर्थ इस प्रकार है -- ' हे राजराजेश्वरि, आप कूटस्थ चिद्रूपिणी होने के कारण ध्रुव हैं । आपके अनुग्रह से यह यजमान उपासक भी आपकी आराधना की इच्छा रखता हुआ पशुओं तथा प्रजाओं से सुप्रतिष्ठित हो जाय, बहिरंग तथा अन्तरंग साधनों से आपके प्रति स्थिरचित्तयुक्त हो जाय । आप दोनों उपास्य तथा उपासक, स्वस्थता प्रदान करने वाले ब्रह्मानन्दरूपी रस से द्युलोक एवं पृथिवी में स्थित प्राणियों को परिपूर्ण बनावें । अथवा श्रीसीताराम और श्रीरुक्मिणीकृष्ण यहाँ वर्णित हैं । हे सीता अथवा रुक्मिणी, आप चिद्रूप विश्वपालक परमेश्वर लोकपालक के यज्ञ में दीक्षित भगवान् की पत्नी होने के कारण स्थिर हैं । यजमानरूपी श्रीराम अथवा श्रीकृष्ण भगवान् प्रजाओं एवं पशुओं से विस्तृत इस विश्वायतन में स्थिर रहें । आप दोनों समस्त सुखसाधनों से द्युलोक एवं पृथिवी को परिपूर्ण करें । स्वामी दयानन्द की व्याख्या मूलरहित होने के कारण असंगत है । यजमानपत्नी में स्थिरता अथवा यजमान में स्थिरता का विधान नहीं किया गया है, क्योंकि व्यवहारदशा में कर्म की ही प्रधानता है, स्थिरता तो दोष है ॥२८ ॥
पृष्ठ 195
पाठ पढ़ें पाठ छिपाएँ
१८६ शुक्लयजुर्वेदसंहिता 147.7 जनस्य छायासि, यत्सङ्गेन प्राणिसमूहः सुखीभूयात् । अस्मात् तां तं वयं प्रशंसामः ' इति, तदप्यसङ्गतम्, निर्मूलत्वात् । ध्रुवेति स्त्रीलिङ्गदर्शनमेव मूलमिति चेत्, वेदेरपि स्त्रीलिङ्गत्त्वेन व्यभिचारात् शतपथादिप्रमाणेन तु तत्रोदुम्बरशाखाया एव प्रकृतत्वेन सम्बोधनीयत्वात् । न च यजमानपल्यां धौव्यं सम्भवति, न वा यजमानस्य धौव्यं विधीयते, व्यवहारे कर्मण एव प्राधान्येन स्थैर्यस्य दूषणत्वात् । पशुभिः प्रजाभिश्च प्रतिष्ठालक्षणं धौव्यं तु फलमुक्तम् । यदपि हिन्दी-भाष्यानुसारेण ' दृढसङ्कल्पत्वमेव धौव्यम् ' इति, तदपि तुच्छम्, तथात्वे यजमानस्येव यजमानपल्या अपि तस्य साध्यत्वेन दृष्टान्तानुपपत्तेः सिद्धस्योदाहरणत्वसम्भवात् ॥ २८ ॥
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः । वृद्धायु॒मनु॒ वृद्ध्यो॒ जुष्ट॑ भवन्तु॒ जुष्ट॑यः ॥२ ९ ॥ ' तत्परिश्रयन्ति परि त्वेति ' ( श. ३.६.१.२४ ) इति सदसः समन्त्रकं परिश्रयणं विहितम् । कात्यायनेनापि --- ' परि त्वेति परिवार्य परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैः ' ( का. श्रौ. ८.६.९ ) । पूर्वादिक्रमेण कटैः परि त्वेति मन्त्रेण सदोमण्डपं सर्वत आच्छाद्य ( प्रतिक मन्त्रावृत्तिः ) हविर्धानमण्डपे यानि परिषीवणग्रन्थ्यभिमर्शनानि पूर्वपश्चिमद्वारद्वये कृतानि सर्वाणि प्रकृतसदोमण्डपेऽप्यैन्द्रमन्त्रेण कर्तव्यानि । ऐन्द्र्यनुष्टुब् निरुक्ता मधुच्छन्दोदृष्टा । मन्त्रार्थस्तु – इन्द्रः सदोऽभिमानी तानि गिर्वणः । हे गिर्वण! सदोमण्डपगीर्भिर्वननीय सम्भजनीय हे इन्द्र, अस्माभिः प्रयुज्यमाना इमाः स्तोत्रशस्त्ररूपा त्वां विश्वतः सर्वतः कटरूपेण परिभवन्तु वेष्टयन्तु परिगृह्णन्तु वा । कीदृश्यो गिरः? वृद्धायुं दीर्घायुषं त्वामनु गिरः, । किञ्च जुष्टय अस्मत्सेवास्तव प्रिया जुष्टाः जुष्टाः प्रीता भवन्तु त्वां परिगृह्णानास्त्वया भवन्तु । जुष्टयः प्रीणयन्त्यो वाचः परिषेविताः प्रीतिकरा भवन्तु । तव गिरां च वृद्धिजोषावुपर्युपरि वर्धेतामित्यर्थः । यद्यपि ' परौ भुवोऽवज्ञाने ' ( ३.३.५५ ) इति परिपूर्वो भवतिरवज्ञानार्थक एव, तथापि प्रकृते परिभवन्त्वित्यस्य वेष्टयन्तु गृह्णन्तु वेत्येवार्थः । कीदृश्यो पा. सू. गिरः? अनुवृद्धाः । अनु सवनक्रमेण वृद्धा वृद्धिमापादिताः । यथा प्रातः सवनं शनैः, माध्यन्दिनं सवनमुच्चैः, तारस्वरेण तृतीयं ( सायंसवनम् ) । यद्वा वृद्धा आयवो मनुष्या ऋत्विग्यजमानलक्षणा मरुतो वा यस्य स तं त्वामनु वृद्धयः समृद्धिमत्यो भवन्तु स्वयमपि वृद्धिमत्यः । यद्वा वृद्धश्चायुश्च महामनुष्य इत्यर्थः । शतपथे तु ' इन्द्रो वै गिर्वा विशो गिरो विशैवैतत् क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिवृढम् ( श. ३.६.१.२४ ) । मन्त्रस्य प्रथमं पादं व्याचष्टे - इन्द्रो वेति । इन्द्रस्य देवानां मध्ये क्षत्रियजातित्वात् गिरां च स्त्रीत्वाद् ' बहुत्वाच्च विशां रूपत्वम् । अतो गीर्भिरिन्द्रपरिग्रहाभिधानात् क्षत्रियस्योभयतः क्षेमार्थं प्रजाः कल्पितवान् भवति । अध्यात्मपक्षे तु हे गिर्वण! गीर्भिर्वननीय सम्भजनीय परमेश्वर त्वा त्वामिमा वैदिक्यस्तान्त्रिक्योऽन्याश्च गिरः स्तुतयस्त्वामभिलक्ष्य विश्वतः सर्वतः परिभवन्तु सर्वतस्त्वामेव परमतात्पर्यविषयत्वेन परिगृह्णन्तु । वृद्धायुमन-मन्त्रार्थ - हे स्तुतियोग्य सभा के अधिष्ठाता! इस सवन क्रम से स्तोत्र - शस्त्र रूपी वाणी को तुम करो । हे धनधान्य से सम्पन्न! तुम हमारी सहायता करो ॥ इस मन्त्र से छत को चारों ओर से आच्छादित सब करे ओर || २ ९ से ॥ ग्रहण भाष्यसार -- कात्यायन श्रौतसूत्र ( ८६ ९ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' से सदोमण्डप का आच्छादन करके हविर्धान मण्डप की विधि के अनुसार ग्रन्थिस्पर्श आदि कार्य परि त्वा ' इस ऋचा में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । किये जाते हैं । शतपथ ब्राह्मण अध्यात्मपक्ष में अर्थ योजना इस प्रकार है-- हे वाणियों के द्वारा उपास्य परमेश्वर, ये वैदिक स्तुतिवाणियां सर्वतोभावेन आपके प्रति हों, अर्थात् आपको ही परम तात्पर्य के विषय के रूप में ग्रहण, तान्त्रिक तथा अन्य करें । अनन्त आयुष्य
पृष्ठ 196
पाठ पढ़ें पाठ छिपाएँ
म. २ ९ -३० ] वेदार्थपारिजात भाष्यसहिता १८७ तायुषं नित्यमनुवृद्धयस्तदनुगुणा नित्याः समृद्धिमत्यश्च सन्ति । जुष्टास्त्वया सेविता अङ्गीकृता जुष्टयः, त्वां त्वद्भ-क्तांश्च सुखयन्तु । दयानन्दस्तु — ' हे गिर्वण! ईश्वर सभाध्यक्ष वा, इमा मत्कृता विश्वतो गिरस्त्वां परितो भवन्तु । न तत्क्षण एव, किन्तु वृद्धायुं त्वां वृद्धयो जुष्टया जुष्टाश्च भवन्तु ' इति, तदपि न, अर्थासङ्गतेः । तथाहि -- गिर्वणः स्तोतुमर्ह इत्यर्थोऽसङ्गत एव, गीर्भिः स्तुतिभिः स्तोत्रशस्त्रैर्ऋग्यजुःसामाथर्वलक्षणाभिर्वा वननीयः सम्भजनीय इत्यस्यैवार्थस्य सुश्लिष्टत्वात् । यदपि — ' वृद्ध इवारचन्तं वृद्धायुमनु वृद्धय ' इति, तदप्यसङ्गतम्, वृद्धस्येवाचरणानुगुण्यस्य वृद्धिष्व-निरूपणात् । ' जुष्टयः प्रीतियोग्याः ' इत्यप्यसङ्गतम्, अहर्थिप्रत्ययायोगात् ॥ २ ९ ॥
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य॒ ध्रु॒व॒ोऽसि । ऐन्द्रम॑सि वैश्वदे॒वम॑सि ॥ ३० ॥
' अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति इन्द्रस्य स्यूरसीति ' ( श. ३.६.१.२५ ), ' अथ हविर्धानयोर्जघनार्धं समन्वीक्ष्योत्तरेणाग्नीध्रं मिनोति ' ( श. ३.६.१.२६ ) इति सदसो द्वारशाखाप्रभृतीनां हविर्धानं च दर्भैराच्छाद्य सीवना-दिकं विधत्ते -- लस्पूजन्येति । सीवनसाधनसूच्यादि लस्पूजनी, तत्सम्बद्धया रज्ज्वा लस्पूजन्या स्पन्द्यया रज्ज्वा द्वारशाखां दर्भैरावेष्ट्य सीव्येत । हविर्धानमण्डप इवात्रापि सीवनग्रन्थीकरणाभिमर्शनानि कार्याणीति । हविर्धान-शकटयोः पश्चाद्भागस्य साम्येन य उत्तरो देशस्तत्राग्नीधीयं मण्डपं कुर्यात् । तत्रापि त्रयः पक्षाः । आग्नीध्रीयं यावत्परिमाणं तस्यार्धं सौमिकवेद्या उत्तरभागे स्वीकुर्यादित्येक अर्धादधिकमंशं वेद्याः स्वीकुर्यादित्यपरः, सर्वमपि सौमिकवेद्यामिति तृतीयः । तदपि तत्रैव स्पष्टम् —– ' तस्यार्धमन्तर्वेदि स्यादर्धं बहिर्वेद्यथो अपि भूयोऽर्धादन्तर्वेदि स्यात् कनीयो बहिर्वेद्यथो अपि सर्वमेवान्तर्वेदि स्यात् तन्निष्ठितमभिमृशति वैश्वदेवमसीति द्वयेनैतद्वैश्वदेवं यदस्मिन् पूर्वेद्युर्विश्वे देवा वसतीवरीषूपवसन्तीति तेन वैश्वदेव्यम् ' ( श. ३.६.१.२६ ) । निष्ठितं निष्पन्नमाग्नीधीयं वैश्वदेवमिति मन्त्रेण अभिमृशैत् । तस्य वैश्वदेवत्वं कारणद्वयेनोच्यते – यदस्मिन् पूर्वेद्युर्वसतीवर्यः सोमाभिषवार्था आपस्तत्र विश्वेदेवाः सुत्यादिनान्ते पूर्वेद्युरधिवसन्ति, तेन वैश्वदेवत्वम्, ' ता आग्नीधे सादयति विश्वेषां देवानां भागधेयी स्थेति ' ( श. ३.९.२१६ ) इति श्रुतेः । एवं विश्वेषां देवानामाश्रयत्वादाग्नीधीयमण्डपस्य वैश्वदेवत्वमुक्तम् । तदपि तत्रैव प्रपञ्चितम् — ‘ देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङ्गाद्विभयाञ्चक्रुः । तान् दक्षिणतो असुररक्षसान्यासेजुस्तान् वाले आपके अनुगत नित्य समृद्धियां हों । आपके द्वारा सेवित तथा अंगीकार की गई ( प्रीतियां ) आपको तथा भक्तों को सुख प्रदान करें । स्वामी दयानन्द के अर्थ की संगति नहीं है । ' गिर्वणः ' का ' स्तुति के योग्य ' अर्थ करना असंगत है । ' स्तुतियों से भजनीय ' अर्थ ही ठीक बैठता है ॥२९ ॥
मन्त्रार्थ - हे रज्जु! तुम सभा के अधिष्ठाता इन्द्र देवता की सीवन हो । हे गांठ! तुम इन्द्र देवता को स्थिर करने वाली हो । हे सभा! तुम इन्द्र देवता की प्रसन्नता के लिये निर्मित हो । हे आग्नीध्र! तुम सब देवताओं के आवाहन स्थान हो ॥ इस मन्त्र को पढ़ते हुए मण्डप के चारों ओर रस्सी बाँधे, सभा को सम्बोधित करे और हविर्धान मण्डप के वायव्य कोण के उत्तर भाग में आग्नीध्र नामक अग्नि - स्थान बना कर उसका स्पर्श करे ॥ ३० ॥
भाष्यसार — शतपथ ब्राह्मण तथा कात्यायन श्रौतसूत्र ( ८.६.११ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' इन्द्रस्य स्यूरसि ’ आदि मन्त्रों से मण्डपाच्छादनों को सीना तथा स्पर्श करना आदि कार्य अनुष्ठित किये जाते हैं । याज्ञिक विनियोग के अनुकूल अर्थ ब्राह्मणादि में उपदिष्ट है ।
पृष्ठ 197
पाठ पढ़ें पाठ छिपाएँ
१८८ शुक्लयजुर्वेदसंहिता | अ. ५ सदसो जिग्युस्तेषामेतान् धिष्ण्यानुद्वापयाञ्चक्रुर्य एते अन्तःसदसम् ' ( श. ३.६.१.२७ दिभ्य आसङ्गाद् भीतास्तान् सदोनिविष्टान् देवान् दक्षिणेऽसुररक्षसान्यासेजुरासङ्गं ) । यज्ञं तन्वाना देवा असुरा-जिग्युर्जितवन्तः । ततो देवान् निष्कासितवन्तोऽसुरराक्षसाः । न केवलमेतावदेव, किन्त्वन्तः कृतवन्तः सदसः सकाशाद् धिष्ण्यानग्नीनप्युद्वापयाञ्चक्रुरनाशयन् । सदसि सदोमध्ये स्थितान् ' सर्वे ह स्म वा एते पुरा ज्वलन्ति । यथायमाहवनीयो यथा गार्हपत्यो पयंस्तत एवैतन्न ज्वलन्ति तानाग्नीधमभि सं रुरुधुस्तानप्यर्धमाग्नीधस्य जिग्युस्ततो यथा आग्नीधीयस्तद्यत एनानुदवा-स्तस्माद्वैश्वदेवम् ' ( श. ३.६.१.२८ ) । धिष्ण्यानामुद्वापमुपपादयति --- पुरा ज्वलन्तीति विश्वे देवा अमृतत्वमयाजयं-यथाग्नीध्रीयः प्रज्वलति, तथैवैते धिष्ण्याग्नयोऽपि ज्वलन्ति स्म । यत एनानसुरा । यथाहवनीयो गार्हपत्यो प्रज्वलन्ति । सदसो निष्कासिता देवा आग्नीधं प्रविष्टास्तत्राप्यसुरैः संरुद्धाः । ते देवा उदवापयन् आग्नीध्रधिष्ण्यगतस्याग्नेरर्थं तत एवैते तथा न समीपं प्राप्य तानसुरान् जिग्युः । तत आग्नीध्रस्याग्नेः सामर्थ्याद् विश्वे देवा तस्माद्विश्वेषां देवानामाश्रयत्वादाग्नीवस्य वैश्वदेवत्वं युक्तमेव । ' तान् देवाः प्रतिसमैन्धत अमृतत्वमसुरकृतहिंसारहितत्वं .... प्राप्ताः । तानुद्घाटितान् धिष्ण्यान् देवाः पुनरदीपयन् । कात्यायनेनापि परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैरिन्द्रदेवताकैस्त्रिभिर्मन्त्रै- ' ( श. ३.६.१.२ ९ ) । रुक्तानि । ' निष्टाप्य वैश्वदेवमसीत्यालभते ' ( का. श्रौ. ८.६. ११ ) इति स्पर्शनं विहितम्। अथ श्रुतिसूत्रानुसारेणायं मन्त्रार्थ: - हे लस्पूजनि स्पन्द्ये सूच्यनुस्यूतरज्जो, त्वं सदोऽभिदेवस्येन्द्रस्य न्धिनी सती इन्द्ररूपस्य सदोमण्डपस्य वा स्यूरसि सीवनमसि ग्रन्थिसिद्ध्यर्थं स्थूता भवसि सम्ब-त्वमिन्द्रस्य तद्देवताकस्य मण्डपस्य सम्बन्धी भूत्वा स्थिरो भवसि । ऐन्द्रमसि हे साधनभूतासि । हे ग्रन्थे, मसि । आग्नीधनामकमग्निस्थानं निर्माय तस्य स्पर्शनं करोति -- हे आग्नीध्र, त्वं सदः वैश्वदेवमसि त्वमैन्द्रमसि इन्द्रदेवताक-वैश्वदेवमसि सर्वदेवसम्बन्धी भवसि । सर्वदेवाश्रयत्वाद् अध्यात्मपक्षे - हे कूटस्थ निर्विकार निर्गुण परमात्मन् त्वमिन्द्रस्य मायाविशिष्टस्य परमैश्वर्यशालिनः श्वरस्य स्यूरसि, सीव्यते सर्वमस्मिन्निति स्यूः । त्वं तु ध्रुवो निश्चलः कूटस्थ परमे-इति रीत्या अन्तिमकारणस्याकारणकत्वेनात्यन्तनिर्विकारत्वात् । इन्द्रस्य परमेश्वरस्य एवासि जीवस्य , ' मूले वा मूलाभावादमूलं मूलम् ' मसि । न केवलमिन्द्रस्य, किन्तु विश्वेषां देवानां त्वमेवाधिष्ठानमसि, अतो वैश्वदेवमसि । सूत्रे सम्बन्धि अधिष्ठान-देवा सर्वाणि वस्तूनि सर्वे जीवाः सर्वेश्वरश्च त्वय्येव परिकल्पिताः, अतस्त्वमेव सर्वमसीत्यभिप्रायः मणिगणा । इव सर्वे दयानन्दस्तु हे जगदीश्वर सभाध्यक्ष वा यथा वैश्वदेवमन्तरिक्षमस्ति, तथा त्वमैन्द्रं पारमैश्वर्यस्याधिकरण-मसि । अत इन्द्रस्य स्यूरसि । इन्द्रस्य सूर्यादिलोकस्य राज्यस्य वा ध्रुवोऽसि ' इति, तदपि यत्किञ्चित्, सभाध्यक्षे अध्यात्मपक्ष में यह अर्थ है - हे कूटस्थ, निर्विकार, निर्गुण, परमात्मा! आप मायाविशिष्ट धाधिष्ठान हैं । आप तो ध्रुव, निश्चल तथा कूटस्थ ही हैं, क्योंकि अन्तिम कारण अकारणक परमैश्वर्यशाली परमेश्वर के सम्ब-है । आप परमेश्वर अथवा जीव से सम्बद्ध अधिष्ठान हैं, मात्र इन्द्र के ही नहीं, अपितु होने के कारण अत्यन्त निर्विकार रहता वैश्वदेव हैं । सभी देवगण, समस्त वस्तुएं, सभी जीव, सभी कुछ आपमें ही विद्यमान समस्त हैं, देवताओं के अधिष्ठान हैं, अतः आप अतः आप ही सर्वस्वरूप हैं । स्वामी दयानन्द की व्याख्या में सभाध्यक्ष का पारमैश्वर्य - युक्त न होने के कारण औचित्य पारमैश्वर्य होता है तथा वह पारमैश्वर्य परमेश्वर में ही सम्भव है, अन्यत्र नहीं नहीं है । निरतिशय ऐश्वर्य ही । सर्वाधार होना भी सभाध्यक्ष में सम्भव शतपथ श्रुति का विरोध इस अर्थ में स्पष्ट ही है ॥ ३० ॥ नहीं है ।
पृष्ठ 198
पाठ पढ़ें पाठ छिपाएँ
म.३०-३१ ] वेदार्थपारिजात भाष्यसहिता १८ ९ पारमैश्वर्यायोगात् । निरतिशयं यैश्वर्यं पारमैश्वर्यं भवति । तच्च परमेश्वर एव सम्भवति नान्यत्र । सर्वाधारत्वमपि तत्र न सम्भवत्येव । शतपथश्रुतिविरोधश्च स्पष्ट एव ॥ ३० ॥
वि॒भूर॑सि प्र॒वाह॑णो॒ वह॑रसि हव्य॒वाह॑नः । श्वा॒नो॒ऽसि॒ प्रचे॑तास्तुर्थोऽसि वि॒श्ववे॑दाः ॥३१ ॥
' विजामानो हैवास्य धिष्ण्याः ' ( श. ३.६.२.१ ) इत्यादिषु ये यज्ञस्य धिष्ण्यास्ते विजामानो भ्रातरो बान्धवा आसन् । यत इमे समङ्काः समानचिह्नाः । ये वै समङ्कास्ते विजामानः । एते खलु यज्ञस्यात्मानः, अतोऽपि विजामानस्तस्मात् सोमयागे धिष्ण्याः कर्तव्याः । तत्स्पष्टीकरणाय ' दिवि वै सोम आसीत् ' इतीयमाख्यायिकोक्ता । सोमप्रेप्सया देवाः सुपर्णी कद्रू च मायामसृजन्त । ते कलहायमाने ऊचतुः । नौ यतरा अत्यन्तं दूरं पश्येत् सा दूरदर्शिनी । सुपर्णी उवाच — सलिलस्य पारे अश्वः श्वेतः स्थाणौ सेवते, तमहं पश्यामि । तमेव त्वं पश्य । सा कद्रूर्दूरं विलोक्योवाच - तमश्वं पश्यामि तस्य पुच्छं स्थाणौ निषक्तं तं वातो धुनोतीत्यपि पश्यामि । श्रुतिरेव तदुक्त्योस्तात्पर्यमुक्तवती — सलिलं सागरादिसंबद्धं यथाऽनतिलङ्घ्यं भवति, एवं वेदिः सलिलत्वेन निरूप्यते । अग्नेः शुक्लभास्वरत्वात् सर्वाशनत्वाच्च श्वेतरूपत्वमश्वत्वं च । यूपस्य स्थाणुत्वं साक्षादेव । कद्रूक्तेस्तु तात्पर्यमिदम् — वालवदतिदैर्ध्याद्युपवेष्टिता रशना वालं पुच्छमुच्यते । आवयोः कस्या जय इति कद्र्वाः प्रश्ने सुपण्यक्तं त्वमजैषीः । पराजितया सुपर्ण्य गायत्र्यादिच्छन्दांसि सृष्ट्वा दिवं स्थितं सोममाहृत्य देवेभ्यः सकाशादात्मनिष्क्रयणं कृतम् । सा गायत्री दिवः सोममहरत् । हिरण्मय्यो-रायुधयोराच्छन्नः सोमोऽ ऽभूत् । ते कुश्यौ क्षुरधारे इव तीक्ष्णाग्रे निमेषं निमेषं सर्वदा अपि सन्धत्तः यथान्यो नाहरेत्तथा रक्षतः । दीक्षातपसावेव तावायुधौ स्तः । तं सोममेते गन्धर्वाः सोमरक्षायै जुगुपुः । ते के? य इमे सदसि वर्तमाना धिष्ण्या इमेऽहोत्रका होतृवर्जं मैत्रावरुणादयः । गायत्री तयोरन्यतरां कुशीं छित्वा देवेभ्यः सोमं प्रददौ । सा च दीक्षा । तया देवा अदीक्षन्त । अथ द्वितीयां छित्त्वा देवेभ्यो ददौ । सा तपोनामोपसदः । तया देवास्तप उपायन् । सोमाहरणसमये खदिरस्यातिसारत्वात् तं साधनं कृत्वा सोमं भक्षितवती गायत्री । अतः खादनसाधनत्वात् खदिरेति नाम सम्पन्नम् । सोमाहरणोपयोगादेव सोमयागे यूपः स्फ्यश्च खादिरौ कर्तव्यौ । होत्रकाणामेव सोमरक्षकगन्धर्वरूपत्वादच्छावाकाख्यो होत्रको यदा सोमरक्षकेषु मध्ये रक्षितवान् तदा गायत्री सोमं जहार । सोऽच्छावाकोऽहीयत हीनो निकृष्टोऽभूत् । अत एवेतरहोत्रकवत् प्रथमत एव सदः प्रवेशमपि न समालभत । तं हीनमच्छावाकमिन्द्राग्नी ऐन्द्राग्नशस्त्रपाठेन सन्तुष्टौ सन्तानमनुप्रवेशमकुरुताम्, अतोऽ ऽच्छावाक इन्द्राग्निदेवताकः । तथा चोत्तरत्राच्छावाकश्चमसहोमकाले आम्नास्यते— ' अहीयत वा अच्छावाकस्तमिन्द्राग्नी ' ( श. ४.३.१.१-२ ) । तस्माद्दीक्षिता राजानं गोपायन्ति । यस्य गोपनायामपहरन्ति हीयते ह सः । तस्माद् ब्रह्मचारिण आचार्यं गोपायन्ति । मन्त्रार्थ - हे आग्नीधीय धिष्ण्य के अग्नि! तुम नाना रूप धारक हो, हवि को पहँचाने वाले हो । हे होतृधिष्ण्य की अग्नि! तुम यज्ञकर्म के निर्वाहक हो, देवताओं को हवि प्राप्त कराने वाले हो । हे मैत्रावरुण धिष्ण्य की अग्नि! तुम शीघ्रगामी मित्ररूप हो, श्रेष्ठ ज्ञान वाले वरुण रूप हो । हे ब्राह्मणाच्छंसी धिष्ण्य के अग्नि! तुम ब्रह्मरूप हो, देवताओं में दक्षिणा का विभाग करने वाले हो, सर्वज्ञ हो । इस मन्त्र से अध्वर्यु उत्तरमुख बैठ कर अग्नियों की आश्रय छोटी वेदि रूप धिष्ण्यों को मिट्टी से बनावे | इसी तरह से पश्चिममुख, उत्तरमुख और दक्षिणमुख हो विभिन्न देवताओं के धिष्ण्यों को बनावे || ३१ ॥ भाष्यसार - ' विभूरसि ' इस कण्डिका के मन्त्रों के द्वारा अध्वर्यु धिष्ण्य नामक स्थण्डिल ( अग्निके स्थापनहेतु वेदिविशेष ) का निर्माण करता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ८.६.१२-१३, १६-२० ) तथा मानव, आपस्तम्ब आदि श्रौतसूत्रों में भी प्रतिपादित है । तैत्तिरीय श्रुति तथा शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है 1
पृष्ठ 199
पाठ पढ़ें पाठ छिपाएँ
१ ९ ० शुक्लयजुर्वेदसंहिता [ अ. ५ । ते गायत्र्या हृतेन तेन सोमेन देवा अयजन्त । तमेते गन्धर्वाः सोमरक्षा अन्वाजग्मुः । नो यज्ञ देवा आभजत अब्रुवन् इत्यब्रुवन् । सोमक्रयणा होचुः किं नस्ततः स्यादिति यथैवास्यामुत्र गोप्तारोऽभूमैवमेवास्येह गोप्तारो भविष्यामः । तथेति । न सोम्या यूयम् । वो भागाः । सोमः क्रीयते यैस्ते सोमक्रयणाः । तृतीयसवने धृत्या ( घृतसाध्या ) तिर्युष्मान् प्राप्स्यति । अथ यत्प्रदीप्तेऽग्नौ होष्यन्ति अपहृतो हि सोमः । ययाहुत्या तृणसमूहैर्विहृतान् धिष्ण्यान् घृतेन व्याघारयति सैषा घृत्या समयाधिष्ण्यान्ना-तदाज्यं वस्तर्पयिष्यति । अथ यद्वः सोमं बिभ्रत उपर्युपरि चरिष्यन्ति तद्बोऽविष्यति निवसन्ति । तस्मादध्वर्युः । सोऽपि धिष्ण्यानतिक्रा-तीयात् । देवानामर्थे सोमं धारयन्नध्वर्युः । यतस्तमध्वर्युमेते विवृतेनास्येन प्रतीक्ष्य हिंसितुमिच्छेत । मन्त्रेतेषां विवृतं मुखं प्रविशति । तमग्निर्वाभिदहेत योऽयं देवः पशूनामीष्टे स वा एनमभिमन्येत सञ्चरेत् । ‘ ते वा अभिमानोऽत्र हिंसेच्छैव । तस्माद्यदाध्वर्योः शालायां प्राग्वंशे यद्यर्थः प्रयोजनं स्यात्तदाग्नीधीयमुत्तरेण ये सदसि ते पश्चात् ' एते सोमस्यैव गुप्त्यै न्युप्यन्ते । आहवनीयः पुरस्ताद् मार्जालीयो दक्षिणत आग्नीधीय उत्तरतोऽथ नास्ति? इत्यत आह— ( श. ३.६.२.२१ ) । सर्वेषां सोमरक्षकत्वे समाने सदोगतानां धिष्ण्यानामिव कथमितरेषामनुदेशनं । अत एव आहवनीयादौ तेषां वार्धानुपकिरन्ति, अर्धाननुदिशन्ति । अनुदेशो नाम विद्यमानं पदार्थमन्वेवं भवतीति निर्देशः उ हैवैतद्दधिरे... तत्तद्गन्धर्वात्मना ‘ सम्राडसि कृशानुः ' ( वा. सं. ५.३२ ) इत्याद्यनुदेशः क्रियते । ' अर्धाननुदिशन्त्येत भवन्ति ' । यथा स्थानद्वैविध्यं यानुपकिरन्ति तेनास्मिल्लोके प्रत्यक्षं भवन्ति । याननुदिशन्ति तेनामुष्मिल्लोके प्रत्यक्षं मतिं चक्रुः । नाम्ना-तथैव नामद्वैविध्यमपि— ' ते वै द्विनामानो भवन्ति । एत उ हैवैतद् दधिरे ' नामान्तरधारणविषये करवामहा इति ते मपरितोषे कारणमाह— ' न वा एभिर्नामभिररात्स्म येषां नः सोममपाहार्षुर्हन्त द्वितीयानि नामानि ब्राह्मणोऽनृ-द्वितीयानि नामान्यकुर्वंस्तैरराध्नुवन् यानपहृतसोमपीथान् सतोऽथ यज्ञ आभजंस्तस्माद् द्विनामानस्तस्माद् समृद्धा द्ध्यमाने द्वितीयं नाम कुर्वीत राध्नोति हैव य एवं विद्वान् द्वितीयं नाम कुरुते ' ( श. ३.६.२.२४ ) । न अरात्स्म न भवामः । यज्ञभागप्राप्तिरुक्तैव । . श्रौ. ‘ धिष्ण्यान्निवपत्युद्धतावोक्षिते पुरीषं निवपति स्पयेनान्वारब्ध उदङ्ङुपविश्य विभूरसीति कुर्यात् प्रतिमन्त्रम् । तदर्थं ' च ( का स्पयेन ८.६.१२ ) । सर्वत्र प्राङ्मुखोऽध्वर्युः पञ्चभूसंस्कारान् कृत्वा पुनरप्युद्धतावोक्षिते देशे धिष्ण्यान् धिष्ण्ये हस्तेनैव अन्वारब्धे यजमाने होतृधिष्ण्यवर्जमुदङ्मुखोऽध्वर्युरुपविश्य एकैकेन मंत्रेण यथाक्रममेकैकस्मिन् ) । धिष्ण्यः स्थण्डिलविशेषः । चात्वालानीतं पुरीषं निवपेत् । इमानि पुरीषाणि चात्वालादानेयानि । ( का. श्रौ. १.८.३८ ) । तेषां धिष्ण्यानां यत्राग्नि संस्थाप्य होत्रादयः स्वानि शस्त्राणि शंसन्ति । ' आग्नीधीयं पूर्वमिति ' ( का. श्रौ. ८.६.१३ अग्नयो देवताः । मध्ये आग्नीध्रीयस्य गृहस्य मध्ये प्रथमं विभुरसीत्याग्नीधीयं धिष्ण्यं निर्वपेत् । अष्टयजुषां वै धिष्ण्या द्विनामानो भवन्ति ' ( श. तत्रायं प्रथमो मन्त्र: - विभुरसीति । विभुशब्दः प्रवाहणशब्दो वाग्नीध्रधिष्ण्यस्य नामनी, ' ते भवतीति विभुः । एतस्मादेव ३.६.२.२४ ) इति श्रुतेः । तथा च हे आग्नीध्र धिष्ण्य, त्वं विभुः प्रवाहणश्चासि । विविधं प्रवा-धिष्ण्यादितरधिष्ण्येष्वग्निविहरणादेतस्य विविधभवनाद्विभुत्वम् । प्रवाहयतीति प्रवाहणः । हविषः प्रवाहणपरत्वात् हणं चास्यैव । एतस्य मन्त्रस्याग्नीध्रीयधिष्ण्यविषयत्वं बौधायनोऽप्याह – ' आग्नीधं कृत्वा स्पयेनोद्धृत्यावेक्ष्य चात्वाल-पुरीषं सिकता इति निर्वपति ' । अथ द्वितीय: - हे होतृधिष्ण्य, त्वं वह्निरसि हव्यवाहनः यज्ञकर्मणो निर्वाहकत्वाद् वह्निरसि, देवान् प्रति हविः प्रापणाद् हव्यवाहनोऽसि । एवं होतृधिष्ण्यस्यापि द्विनामत्वं द्रष्टव्यम् । धिष्ण्यगतानग्नीन् प्रत्यन्ये देवाः प्रत्येकं नामद्वयं सम्पादयतेत्यूचुः ' तान् देवा अब्रुवन् द्वे द्वे नामनी कुरुतम् ' इति ' ( का तैत्तिरीयश्रुतेः . श्रौ. ८.६.१७ । ‘ षट् ) । सदसि ' ( का. श्रौ. ८.६.१६ ) । सदसि षड् धिष्ण्यान् निर्वपेत् । ' प्रत्यङ्मुखो द्वारमपरेण होतुः प्रत्य-सदसः पूर्वद्वारमपरेण एकं प्रक्रमं परित्यज्य पृष्ठ्यामध्य एव यथा पृष्ठ्या मध्ये भवेत्तथा होत्रीयं निर्वपेत्
पृष्ठ 200
पाठ पढ़ें पाठ छिपाएँ
म.३१ ] वेदार्थपारिजातभाष्यसहिता १ ९ १ ङ्मुखोऽध्वर्युः, ‘ वह्निरसीति पृष्ठ्यायां होत्रीयम् ' ( आप. श्रौ. १२. ४. ४ ) इत्यापस्तम्बवचनात् । ' दक्षिणपूर्वेणौदुम्बरी मैत्रा-वरुणस्य ' ( का. श्रौ. ८.६.१८ ) । औदुम्बर्या आग्नेय्यां दिशि मैत्रावरुणस्य धिष्ण्यमुदङ्मुखो निर्वपेत् श्वात्रोऽसीति मन्त्रेण । होतृधिष्ण्याद् दक्षिणस्यां दिश्यरनिचतुष्टये सार्धे पदाधिके प्रशास्तृधिष्ण्यं निर्वपेदिति मानवे । ' होतृधिष्ण्य-मुत्तरेण चतुरः समान्तरान् ब्राह्मणाच्छंसि - पोतृ - नेष्ट्रच्छावाकानाम् ' ( का.श्रौ. ८.६.१ ९ ) । उत्तरोत्तरक्रमेण तुल्यान्तरानष्टा-दशाङ्गुलपरिमितान् धिष्ण्यान् तावदन्तरालांश्च तुथोऽसि, उशिगसि, अङ्घारिरसि, अवस्यूरसि - इति मन्त्रैः क्रमेण कुर्यात् । ‘ आग्नीधाद् दक्षिणं सम्प्रति वेद्यन्ते दक्षिणामूलो मार्जालीयम् ' ( का. श्री. ८.६.२० ) । आग्नीधाद् दक्षिणस्यां दिशि दक्षिणामुखोऽध्वर्युर्वेद्यन्ते सम्प्रति मार्जालीयं धिष्ण्यं शुन्ध्युरिति निर्वपेत् । अथ तृतीय: - श्वात्रोऽसि हे मैत्रावरुण धिष्ण्य, त्वं श्वात्रः प्रचेताश्चासि शु क्षिप्रमततीति श्वात्रः मित्रोऽसि । प्रकृष्टं चेतो ज्ञानं यस्य स त्वं प्रचेता असि वरुण-स्तद्रूपोऽसि । अथ तुरीयः - हे ब्राह्मणाच्छंसिधिष्ण्य, त्वं तुथोऽसि विश्ववेदाः, ' ब्रह्म वै तुथः ' ( श. ४.३.४.१५ ) इति श्रुतेर्ब्रह्मरूपोऽसि । विश्वं वेत्तीति विश्ववेदाः सर्वज्ञ इत्युव्वटः । सायणरीत्या तु तुथशब्देन देवान् प्रति दक्षिणानां विभागकर्ता पुरुष उच्यते, ' तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजति ' इति तैत्तिरीयश्रुतेः । अध्यात्मपक्षे - ' सर्वे वेदा यत्पदमामनन्ति ' ( कंठो. १२.१५ ) इति श्रुतिरीत्या परमात्मपरत्वं तु न विरुद्ध्यते । हे सर्वेश्वर, त्वं विभुरसि व्यापको विविधरूपेण वा भवसि ' एकोऽहं बहु स्याम् ' ( छा. उ. ३.६.२३ ) इति श्रुतेः । यतः प्रवाहणः संसारं प्रवाहयसीति प्रवाहणः, जननमरणाविच्छेदलक्षणायाः संसृतेर्बीजत्वात् । त्वं वह्निरसि यतो हव्यवाहनो हविषां प्रापकोऽसि । त्वमेव श्वात्रोऽसि शु क्षिप्तं सततगमनवानात्मासि, ' यदाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयते ॥ ' इत्युक्तेः । यतः प्रचेताः प्रकृष्टं चेतो यस्यासौ प्रचेताः त्वमेव तुथो ब्रह्मरूपोऽसि, यतो विश्ववेदाः सर्वज्ञोऽसि । एवं हेतुहेतुमद्भावेन नामद्वयं परमात्मपक्षे युज्यते । दयानन्दस्तु — ' हे जगदीश्वर विद्वन् वा, यस्मात्त्वं यथाकाशो वैभवयुक्तो राजा वा तथा विभुरसि । यथा वायुर्महान् देवस्तथा प्रवाहणोऽसि । यथा वह्निस्तथा हव्यवाहनोऽसि । यथा प्राणस्तथा प्रचेताः श्वात्रोऽसि । यथा सूत्रात्मा तथा पवनस्तथा विश्ववेदास्तुथश्चासि । तस्मात् सत्कर्तव्योऽसीति वयं विजानीम इति श्लेषवाचकलुप्तोपमालङ्कारौ स्तः ' इति, तदपि यत्किञ्चित्, लुप्तोपमालङ्कारस्य यथेष्टाङ्गीकारे सर्वत्र शाक्तवाक्यार्थबाधापत्तेः । किञ्च, लुप्तोपमालङ्काराश्रयणेऽपि प्रवाहणोऽसि हव्यवाहनोऽसीति द्वितीयनाम्नोऽसीति क्रियायोगाभावे किं मूलमित्यपि विचारणीयम् । श्रुतिविरोधस्तु स्फुट एव, धिष्ण्यानां द्विनामत्वेन मन्त्रस्य तत्परत्वावगमात् ॥३१ ॥
अध्यात्मपक्ष में ‘ समस्त वेद जिस तत्त्व का निरूपण करते हैं ' इस कठोपनिषद् के वचन के अनुसार परमात्म-परक व्याख्या करना विरुद्ध नहीं है । तदनुसार अर्थयोजना इस प्रकार है - - हे सर्वेश्वर, आप व्यापक हैं अथवा विविध रूपों में हैं, क्योंकि आप जननमरण के सातत्यवाली सृष्टि के मूल होने के कारण संसार के प्रवाहकर्ता हैं । आप हविष्य को पहुँचाने के कारण वह्निरूप हैं । आप ही शीघ्र एवं सतत गमनशील आत्मा । आप प्रकृष्ट चित्त वाले तथा ब्रह्मरूप हैं, क्योंकि आप सर्वज्ञ हैं I स्वामी दयानन्द द्वारा प्रतिपादित अर्थ समीचीन नहीं है, क्योंकि स्वेच्छा से ही लुप्तोपमा अलंकार का आश्रय लेने पर सर्वत्र मुख्य वाक्यार्थ का बाध प्राप्त हो जायगा । लुप्तोपमा अलंकार का आश्रय लेने पर भी ' प्रवाहण, हव्यवाहन ' इन नामों के साथ ' असि ' ( हो ) इस क्रिया के न होने में क्या कारण है, यह भी विचारणीय होगा । इस अर्थ में शतपथ श्रुति आदि का विरोध तो स्पष्ट ही है ॥३१ ॥