वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 201–210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 201–210

पृष्ठ 201

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ २ शुक्लयजुर्वेदसंहिता [ अ. ५ उ॒शिग॑सि क॒विरङ्घरिरसि॒ बम्धा॑रिरव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒न्ध्यूर॑सि माजो॒लीय॑ स॒म्राड॑सि कृ॒शानु॑ परि॒षद्येोऽसि॒ पव॑मानो॒ नमो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टोऽसि हव्य॒सूद॑न ऋ॒तधा॑मासि॒ स्व॒र्ज्योतिः ॥३२ ॥

हे पोतृधिष्ण्य, त्वमुशिक् कमनीयोऽसि । कविः क्रान्तदर्शनोऽसि, ' वश कान्तौ ' । बम्भारिः हे नेष्टृधिष्ण्य सर्वधारकोऽसि , त्वमवस्यां- । हसोऽरिः शत्रुरसि । अंहः शब्दः पापवचनः । हकारस्य घकारश्छान्दसः । बम्भारि बिभर्तीति । तयोर्नाम-दिवि सोमरक्षकौ अङ्घारिबम्भारी, ' स्वान भ्राजाङ्गारे बम्भारे ' ( वा. सं. ४.२७ ) इति सोमरक्षकमन्त्रवर्णात् द्वयमस्मिन् नेष्ट्रीयधिष्ण्ये उपचर्यते । हे अच्छावाकधिष्ण्य, त्वमवस्यूरसि दुवस्वांश्चासि । अवोऽन्नमिच्छतीत्यवस्यूरि-त्युव्वटाचार्यः, ‘ सुप आत्मनः क्यच् ' ( पा. सू. ३.१.८ ) इति क्यचि, ' क्याच्छन्दसि ' ( पा. सू. ३.२.१७ ) इति क्यजन्तादुप्रत्यये, दीर्घश्छान्दस इति महीधराचार्य, औणादिक ऊप्रत्ययो वा । दुवोऽस्यास्तीति दुवस्वान् हविष्मान् । दुव इति हविर्नाम दुवस्वते अच्छावाकस्य पुरोडाशहविर्भाक्त्वात् । सायणाचार्यरीत्या एतौ शब्दौ वायुविशेषवाचकौ, ' अवस्यवे । तान् त्वा होत्रादिधिष्ण्यान् वाताय त्वा वाताय स्वाहा ' इति मन्त्रान्तरे समाम्नानात् । तदेतन्नामद्वयमच्छावाकस्य धिष्ण्ये उपचर्यते हि सदसि निर्माय वेदेर्दक्षिणभागे मार्जालीयधिष्ण्यो निर्मातव्यः । शुन्धयतीति शुन्ध्यूः । माष्टर्टीति मार्जालीयः । तत्र पात्राणि प्रक्षाल्यन्ते । पात्रप्रक्षालनेन लेपमार्जनभूतो मार्जालीयः । तदेतन्मार्जालीयधिष्ण्यस्य नामद्वयम् । ' सदोद्वारं प्रतिमन्त्रम् पूर्वेण ' तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरिब्रह्मासनशालाद्वार्यप्राजहितान् सम्राडसीति प्रतिमन्त्रमा-( का. श्रौ. ८.६.२१ ) । अष्टधिष्ण्यनिवापानन्तरं सदसः पूर्वद्वारस्य पुरस्तात् तिष्ठन्नध्वर्युः सम्राडसीत्यादिमन्त्रैः निर्देशः । आहवनीय औत्त-हवनीयादीन् विलोकयन्ननुदिशेत् । अनुदेशो नाम विद्यमानमेव पदार्थमनु त्वमेव भवसीति स्तोत्रं स्तु-रवेदिकः । चात्वालस्य समीपदेशे दक्षिणतोऽन्तर्वेदिर्बहिष्पवमानदेशः यत्र ऋत्विजो बहिष्पवमानाख्यं वन्ति । प्राजहितः पुरातनो गार्हपत्यः, आहवनीयादीन् गार्हपत्यान्तान् विलोकयेदिति सूत्रार्थः । हे उत्तरवेदिगताहवनीय, त्वं सम्राडसि, कृशानुश्चासि । बहुविधाहुत्याधारत्वेन सम्यग्राजमानः सङ्गतदीप्तिः सम्राडसि । कृशो यजमानः पयोव्रतैरुपक्षीणः, एनमनुगच्छतीति कृशानुः कृशं यजमानमनुगच्छतीति वा कृशानुः, तद्योग्यः । बहि-ष्पवमानदेशमनुदिशेत् । हे बहिष्पवमानदेश, त्वं परिषद्यः पवमानश्चासि | स्तोतुं समवेता ऋत्विजः परिषद् मन्त्रार्थ - हे पोतृधिष्ण्याग्ने! तुम कमनीय और क्रान्तदर्शी होने से कवि नाम वाले हो । हे नेष्ट्रधिष्ण्य चाहने के वाले अग्नि हविष्यान् ! तुम पापनाशक होने से अंधारि और पोषक होने से बंभारि हो । हे अच्छावाकधिष्ण्य के अग्नि! तुम अन्न के आहवनीय अग्नि! तुम हो । हे मार्जालीय धिष्ण्य के अग्नि! तुम पवित्र करने वाले, मार्जन करने वाले हो । हे उत्तरवेदि के अनुगामी हो । बहुत प्रकार की आहुतियों को धारण करने से भली प्रकार शोभायमान और पयोव्रत आदि से कृश हो यजमान । हे चत्वाल! तुम छिद्र-हे बहिष्पवमान देश! तुम स्तुतिकारक ऋत्विजों की सभा के योग्य हो, उसको पवित्र करने वाले! तुम पवित्र और हवि युक्त होने से आकाशस्वरूप और ऋत्विजों के प्रदक्षिण चलने से प्रतक्वा नाम वाले हो । हे शामित्र हो । के पाक के कारण हो । हे औदुम्बरि! तुम उद्गाता की प्रधान कार्यस्थान और स्वर्ग की प्रकाशक इस मन्त्र से विभिन्न धिष्ण्यों को बना कर उन पर अधिष्ठित अग्नियों का नामकरण किया जाता है ॥ ३ ९ ॥ कण्डिका भाष्यसारं - कात्यायन श्रौतसूत्र ( ८.६.२१ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' उशिगसि आदि अग्न्यायतनों ' इस का के मन्त्रों से आठ धिष्ण्य नामक स्थण्डिल स्थापित करने के बाद ' सम्राडसि ' इत्यादि मन्त्रों से आहवनीय अवलोकन किया जाता है । उव्वट आदि आचार्यों ने यज्ञप्रक्रिया के अनुकूल मन्त्रार्थ किया है ।

पृष्ठ 202

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३२ ] वेदार्थपारिजात भाष्यसहिता १ ९ ३ परिषद्यः, उद्गातृप्रभृतिभिः परिषदनीयो वा । शुद्धत्वाच्छोधकत्वाच्च पवमानोऽसि T । तथैव चात्वालम् । हे चात्वाल, त्वं नभोऽसि, खननेन छिद्ररूपत्वादाकाशरूपोऽसि, प्रतक्वा प्रदक्षिणं तक्वन्ति गच्छन्ति ऋत्विजो यत्र स प्रतक्वा, तक्व-तिर्गत्यर्थः, ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३.२.७५ ) इति वनिप् । हे शामित्र, ( शामित्रं पशुविशसनदेशः ) त्वं मृष्टोऽसि, पशुविशसनस्य विहितत्वेनाशुद्धिहेतुत्वाभावात् सत्यपि विशसने शुद्धोऽसि, ' अविशुद्धमिति चेन्न शब्दात् ' ( ब्र. सू. ३.१.२५ ) इत्यत्र श्रीमच्छङ्करभगवत्पादैर्भगवद्रामानुजादिभिश्चाग्नीषोमीयालम्भनादीनामविशुद्धिराहित्येन शुद्धत्वप्रतिपा-दनात् । यद्वा शृतत्वान्मृष्टम्, पक्वं हरिर्मृष्टं भवति, मृष्टो मृष्टकारी, तथा हव्यसूदनः, हव्यस्य हृदयजिह्वादिरूपस्य सूदनः पाकहेतुश्चासि । सूदः सूपकार उच्यते हविषः पक्ता । हे औदुम्बरि, त्वमृतधामास ऋतं सामगानं धाम उपवेशनस्थानं यस्याः सा, ‘ औदुम्बरीं स्पृष्ट्वोद्गायेत् ' इति श्रुतेः । सामगानामृतमवश्यंभावि धामोपवेशनस्थानं यस्यास्तादृशी त्वम-सीति । ऋतो यज्ञस्तस्य धाम स्थानं जन्म वा, तत्र हि उद्गातारो यज्ञस्य कारणभूतास्तिष्ठन्ति, जनयन्ति वा यज्ञम् । स्वज्र्ज्योतिः, आदित्यज्योतिः, उन्नतत्वेन स्वर्गे प्रकाशकः । अध्यात्मपक्षे - हे परमेश्वर, त्वमुशिक् कमनीयोऽसि । श्रीराम श्रीकृष्णकामेश्वर्यादिरूपेणैव कमनीयतमत्व-प्रसिद्धेः । कविः क्रान्तदर्शी सर्वज्ञत्वादतीतानागतादिसर्वदर्शीीं । अङ्घारिः, अंहोरूपस्याघासुरस्य हन्तासि, स्मृतिमात्रेण ' पानको वा, ' अघि गत्याक्षेपे, अङ्घन्ति पलायन्ते ऽरयः शत्रवो यस्य सः । बिभर्ति विश्वं पालयतीति बम्भारि; परमेश्वरस्य सर्वधारणपोषणकर्तृत्वप्रसिद्धेः । अवस्युः, अवसमन्नं भक्तानां विविधमभीष्टं भोग्यमिच्छतीत्यवस्युः । यद्वा पूर्णत्वादा-प्तकामत्वान्निरिच्छोऽपि करुणत्वाद् भक्तप्रदत्तं पत्रं पुष्पं फलं जलं च भगवानिच्छत्येव, ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ' ( भ.गी. ९.२६ ), ' नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः || ' ( भा. पु. ७.९.११ ) इत्यादिषचनेभ्यः । दुवस्वान् प्रशस्तहविष्मान् । दुवः परिचरणं तत्प्रशस्तं विद्यतेऽस्येति दुवस्वान् । शुन्ध्यूः शुद्धोऽसि निःसङ्गत्वात् । मार्जालीयो मार्ष्टि पवित्रयतीति मार्जालीयो जगच्छोधकोऽसि, मृजेरालीयप्रत्यये रूपसिद्धिः, ‘ स्थाचतिमृजेरालज्वालजालीयचः ' ( उ. १. ११६ ) । सम्राडसि सम्यक् सर्वनैरपेक्ष्येण राजत इति सम्राट् स्वप्रकाशः । कृशानुः कृशं तपोभिस्तापैश्च विप्रलम्भैश्च क्षीणा अनुगच्छन्त्येनमिति कृशानुः यद्वा कृशाननुगच्छति करुणयेति कृशानुः । परिषद्यो ब्रह्मविदां परिषदि प्रतिपाद्यत्वेन ध्येयत्वेन भवः परिषद्यः । पवमानः स्मरणमात्रेण जनान् पावयतीति पवमानः । नभोऽसि नभोवदपरिच्छिन्नोऽसि, न भाति बहिर्मुखान् प्रतीति वा नभः, न भाति फलव्याप्त्येति वा, विदुषामन्तर्मुखानामेव वृत्तिव्याप्त्यैव भातीत्यर्थः । प्रतक्वा प्रदक्षिणं तक्वन्ति उपासका यस्य स प्रतक्वा, प्रकर्षेण तकति हर्षति तकयति हर्षयति वा यः स प्रतक्वा, ' पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परितः करोमि ॥ ' इत्याद्यशङ्कराचार्यवचनात् । मृष्टोऽसि शुद्धोऽसि मधुरोऽसि, परमानन्दरूपत्वात्, ' मधुराधिपतेरखिलं अध्यात्मपक्ष में यह अर्थ है - हे परमेश्वर, आप कमनीय हैं, क्रान्तदर्शी हैं, अर्थात् सर्वज्ञ होने के कारण भूत, भविष्य आदि के सर्वदर्शी हैं । अघासुर के हन्ता अथवा स्मृतिमात्र से पाप के नाशक हैं । विश्व का भरण, पालन करने वाले हैं । भक्तों के विविध अभीष्ट भोग्य की इच्छा करते हैं । अथवा पूर्णकाम होने के कारण इच्छारहित होने पर भी भक्त के द्वारा प्रदत्त पत्र, पुष्प, फल और जल की इच्छा भगवान् रखते हैं । आप प्रशस्त हवियों से युक्त हैं । निस्संग होने के कारण शुद्ध हैं, जगत् के शोधक हैं । स्वप्रकाश तथा सन्तप्त जनों के गमनाश्रय हैं । अथवा कृश, दुर्बल भक्तों के प्रति करुणापूर्वक स्वयं जाने वाले हैं । ब्रह्मवेत्ताओं की परिषद् में ध्येय हैं । स्मरण मात्र से जनों को पवित्र करने वाले, आकाश की भाँति अपरिच्छिन्न हैं । अथवा बहिर्मुख जनों के लिये अगम्य हैं । प्रदक्षिणा के आश्रय हैं या परम आनन्दस्वरूप अथवा परमानन्दप्रद हैं । शुद्ध एवं मधुर हैं । अथवा क्षमा करने वाले हैं । परा

पृष्ठ 203

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ४ शुक्लयजुर्वेदसंहिता [ अ. ५ मधुरम् ' इत्यभियुक्तोक्तेः । मर्षति मर्षयति वा स मृष्टः । देवद्विजादीनां कृते हव्यस्य सूदनः सूपकारः पाचकोऽसि ऋतं सत्यमेव । पराभट्टारिकायुक्तत्वाद् महागृहमेधीयः सन् देवानां द्विजानां कृते महाहविषां पाचकोऽसि । ऋतधामासि धाम निवासस्थानं यस्य सः । स्वर्ज्योतिः स्वरूपलक्षितानां सर्वेषां लोकानां ज्योतिः प्रकाशरूपम्, ' तस्य भासा सर्वमिदं विभाति ' ( मुण्डको. २.२.१० ) इति श्रुतेः । दयानन्दस्तु — परमेश्वरपरत्वेन मन्त्रं व्याख्यातवान् । तत्र श्रुतिसूत्रादिविरोधस्तु स्पष्ट एव ॥ ३२ ॥

स॒मु॒द्रे॒ऽसि वि॒श्वव्य॑चा अ॒ज्जोऽस्येक॑पा॒दह॑रसि बुध्यो॒ वाज॑स्यै॒न्द्रम॑सि॒ सद॒ोऽस्यृत॑स्य द्वारौ मा मा॒ सन्ता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ ऽस्मिन् प॒थि दे॑व॒याने॑ भूयात् ॥ ३३ ॥

हे ब्रह्मासनप्रदेश, त्वं समुद्रोऽसि सर्वे देवाः सम्यगुत्कर्षेण द्रवन्त्यस्मिन्निति समुद्रः, समुद्र इवागाधो ज्ञानेन ब्रह्मा यत्र तिष्ठति । स त्वं विश्वव्यचाश्चासि, विश्वं सर्वं यज्ञं व्यचति गच्छति कृताकृतप्रत्यवेक्षणायेति विश्वव्यचाः । शालाद्वार्यमनुदिशति - अजोऽस्येकपात् । हे शालाद्वार्य, प्राचीनवंशद्वारवर्तिनग्ने, त्वमजोऽसि, अजत्याहवनीयरूपेण यज्ञप्रदेशेषु गच्छतीत्यजः, यद्वा न जायत इत्यजः, परब्रह्मरूपोऽसि । एकः पातीत्येकपात्, यद्वा एकः पादः सर्वभूतानि यस्य स एकपात्, ‘ पादोऽस्य विश्वा भूतानि ' ( वा. सं. ३१.३ ) इति श्रुतेः । प्राजहितं पत्नीशालापश्चिमभागवर्तिनं पुरातनं गार्हपत्याग्निमनुदिशति । हे प्राजहित गार्हपत्याग्ने, त्वमहिरसि । न हीयत इत्यहि; शालाद्वारीये नूतने गार्हपत्ये जातेऽप्ययं पुरातनो गार्हपत्यः स्वरूपेण न हीयते । बुध्नो मूलं तत्र भवो बुध्न्य, आधानकाले प्रथममाहितत्वात् तस्य मूलभावित्वात् । स हि प्रथमं मथ्यते, ततोऽपि मूलभावित्वं तस्य । नाम्नैवात्र धिष्ण्यानां स्तुतिः । तदेवोक्तं कात्यायनेन -- ' स्तुतिः स्वनाम्ना कर्मणा वाथ रूपैः ' ( का. श्रौ. ९.८.१० )?, ' वागसीति सदोऽभिमर्शनम् ' ( का. श्रौ. ९.८.१३ ) । हे सदः त्वं वासि वाचाऽस्मिन् कर्म कुर्वन्तीति वाक्शब्देनाभेदोपचारात् सदो वागुच्यते । ऐन्द्रमिन्द्रदेवताकं चासि | सीदन्त्यस्मिन्निति सदः । ‘ ऋतस्य द्वाराविति द्वायें ' ( का. श्रौ. ९.८.१३ ) । सदसो द्वारभवे स्थूणे अभिमृशेत् । हे ऋद्रस्य यज्ञस्य द्वारौ द्वारदेशस्थायिन्यौ शाखे, युवां मा मां मा सन्तप्तं मा सन्तापयतं प्रवेशनिष्क्रमणे स्खलनादिना सन्तपतेर्लुङि मध्य-माता से युक्त जगद्रूपी महागृह के गृहस्थ होकर देव, द्विज आदि प्राणियों के लिये हविष्यान्नों के निर्माता हैं । सत्यरूपी निवासस्थान वाले तथा समस्त लोकों के प्रकाशक हैं । स्वामी दयानन्द ने परमेश्वरपरक ही मन्त्र की व्याख्या की है, परन्तु उसमें शतपथ श्रुति तथा सूत्र आदि से विरोध स्पष्ट है ॥३२ ॥

मन्त्रार्थ - हे ब्रह्मासन! तुम सब देवताओं के संमुख आने के स्थान अथवा समुद्रतुल्य ज्ञान से गम्भीर ब्रह्मा के आसन हो, यज्ञ में कृत और अकृत को देखने के स्थान हो । हे शालाद्वार के अग्निदेव! तुम आहवनीय रूप से यज्ञ में जाने जाते हो, अजन्मा अद्वितीय रक्षक और सब प्राणियों के शरण्य हो । हे प्राजहित नामक गार्हपत्य अग्ने! तुम शालाद्वार के नये गार्हपत्य अग्नि से उत्पन्न होने पर भी अक्षय रूप हो, आधानकाल में प्रथम स्थापित होने के कारण मूलरूप हो । हे सभामण्डप! तुम अपने मध्य कर्म होने के कारण वाणी रूप हो, इन्द्र को देवता के रूप में रखने वाले हो, बैठने के स्थान हो । हे यज्ञद्वार की शाखाओं! तुम मुझे सन्तप्त मत करो । हे मार्ग के रक्षक सूर्य! मार्ग में वर्तमान मुझे आगे बढ़ाओ, इस देवयान मार्ग में मेरा कल्याण हो । इस मन्त्र से सदोमण्डप के पूर्व द्वार के पूर्व भाग में स्थित हो ब्रह्मासन, शालाद्वार और प्राजहित अग्नि को देखे, शालाद्वार का मार्जन करे और सूर्य का अभिमन्त्रण करे ॥ ३३ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ९. ८. १८-२१ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' समुद्रोऽसि ' इस कण्डिका के मन्त्रों से विभिन्न अग्न्यायतनों को सम्बोधित करने के बाद सदोमण्डप के द्वारस्तम्भों का स्पर्श तथा अभिमन्त्रण किया जाता है ।

पृष्ठ 204

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.३३ ] वेदार्थपारिजात भाष्यसहिता १ ९ ५ मैकवचने सिलोपे रूपम् । ' अभिमन्त्रणमुत्तरैरध्वनामध्वपत इति सूर्यम् ' ( का. श्रौ. ९.८.१४-१५ ) । उत्तरैस्त्रिभिर्मन्त्रै-स्त्रयाणामभिमन्त्रणं दर्शनम् । हे अध्वपते मार्गपालक सूर्य, अध्वनां मार्गाणां मध्ये वर्तमानं मा मां त्वं प्रतिर प्रव-र्धय । तिरतिर्वृद्ध्यर्थः । अस्मिन् देवयाने देवभावप्रापके पथि मार्गे मे मम स्वस्त्यविनाशः कल्याणं भूयात् । अध्यात्मपक्षे — हें परमेश्वर, त्वं समुद्रोऽसि समुद्रवद् दुरवगाह्योऽसि, ' समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ' ( वा. रा. १.१.१७ ) इति श्रीमद्वाल्मीकीयरामायणवचनात् । विश्वं विशेषेणाञ्चति सत्तास्फूर्तिप्रदत्वेनेति विश्वव्यचा; ब्रह्मणः सत्तास्फूर्तिभ्यामेव विश्वस्य सत्तास्फूर्तिमत्त्वात् । अजोऽसि षड्विधभावविकारवर्जितोऽसि I । जातिनिषेध इतरेषामुपल-क्षणम् । विश्वमेकस्मिन् पादे यस्य सः, सर्वप्रपञ्चस्य तस्यैकांशस्थितत्वात्, ' विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' ( भ. गी. १०.४२ ) इति गीतोक्तेः । त्वमेवाहिः, विश्वस्मिन् व्याप्नोषि ' अह व्याप्तौ ' । बुध्न्यः बुध्ने मूले प्रकृतिरूपे भवत्वात्, कारणस्यैव कार्येषु व्याप्तिसम्भवात् । वागसि परावाग्रूपोऽसि, अनादिनिधनब्रह्मण एव परावाक्त्वोपपत्तेः । सार्वात्म्याद्वा वाचोऽपि परमेश्वरत्वं सम्भवति । ऐन्द्रमसि हे ब्रह्मचैतन्य, त्वमैन्द्रमसि इन्द्रस्य मायिनो मायाविशिष्टस्येदं सर्वं जगत् त्वमेवासि, सर्वस्याधिष्ठानपर्यवसायित्वात् । सदः सर्वस्य सदो निवासस्थानमसि | सीदन्ति सर्वाणि वस्तूनि यस्मिन् तत् । ऋतस्यावश्यंभाविकर्मफलस्य द्वारौ प्रापको प्रकृतिपुरुषौ सीतारामौ राधाकृष्णौ वा मां भक्तं त्वदाज्ञापालकं मा सन्ताप्तम् । हे अध्वपते! अध्वनां कर्मोपासनाज्ञानयोगादिमार्गाणां पते परमेश्वर, अध्वनां मध्ये वर्तमानं मां प्रतिर प्रवर्धयाध्वपस्य विष्णोः पदस्य प्रापणेन देवस्य शुद्धब्रह्मणः - ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ' ( श्वेता. ६.११ ), याने प्रापके ब्रह्मात्मैक्यज्ञानाभ्यासे स्वस्त्यविघ्नं मे भूयाद् भवतु, भगवदनुग्रहादित्यर्थः । दयानन्दस्तु — ' यथेश्वरः समुद्रः समुद्रवन्ति भूतानि यस्मात् सः । विश्वस्मिन् व्यचो व्याप्तिर्यस्य सः । अजः कदाचिन्न जायते । एकस्मिन् पादे विश्वं यस्यास्ति । अहिः समस्तविद्यासु व्यापनशीलः । बुध्नेऽन्तरिक्षे भवः । ' बुध्न -मन्तरिक्षम् ' ( निरु. • १०.४४ ) । वाग् यया वक्ति सा असि । ऐन्द्रं परमेश्वरस्येदं सदः सीदन्त्यस्मिन् । ऋतस्य सत्यस्य कारणस्य व्यवहारस्य वा द्वारौ । बाह्यान्तरस्थे मुखे मा मां तप्तम् । लिङथें लुङ् । अध्वनां विद्याधर्मशिल्पमार्गाणाम्, अध्वपाः प्र मां तिर तारय । स्वस्ति सुखं मेऽस्मिन् प्रत्यक्षे पथि मार्गे देवयाने विदुषां गमनागमनाधिकरणे तथा भूयात् । यथेश्वरः समुद्रः सर्वोत्पादको व्यापकः, तथा हे अध्वपते! धर्मव्यवहारमार्गपालक विद्वन् त्वं परमैश्वर्यस्य निमित्तमसि सदः स्थानरूपोऽसि । यथेश्वर ऋतसत्यद्वारमुखेन सन्तापयति, तथा त्वमपि मां मा तपेः । हे ईश्वर, मां धर्मशिल्पमार्गेभ्यः पारं तारय । मे देवयाने विदुषां गमनागमनयोग्ये मार्गे यथा सुखं भूयात्तथाऽनुगृहाण ' इति, तदपि अध्यात्मपक्ष में अर्थ इस प्रकार है - हे परमेश्वर! आप समुद्र की भाँति अगाध हैं । विश्व को सत्ता - स्फूर्ति प्रदान करते हैं । जन्मादि छः प्रकार के भावविकारों से रहित हैं । सम्पूर्ण विश्व आपके एक पाद में अन्तर्भुक्त है । आप विश्वव्याप्त हैं, सृष्टि के मूल में प्रकृति के रूप में स्थित हैं । परा वाणी स्वरूप आप ही हैं । हे ब्रह्मचैतन्य, मायाविशिष्ट ईश्वर के सम्पूर्ण जगद्रूपी आप ही हैं । सबके आश्रयभूत हैं । अवश्यम्भावी कर्मफल को प्राप्त कराने वाले सीताराम अथवा राधाकृष्ण स्वरूप आप दोनों आपके आज्ञापालक मुझ भक्त को सतृष्ण न करें । कर्म, उपासना, ज्ञान, योग आदि विविध मार्गों के पालक हे परमेश्वर! मार्ग के बीच में अवस्थित मुझे आगे बढ़ावें । मार्ग के रक्षक विष्णुदेव के पद की प्राप्ति के द्वारा शुद्ध ब्रह्म को प्राप्त कराने वाले ब्रह्मात्मैक्य ज्ञानाभ्यास में भगवदनुग्रह से मेरी निर्विघ्नता हो । स्वामी दयानन्द के अर्थ में वाचक लुप्तोपमा अलङ्कार को स्वीकार करने में कोई प्रमाण न होने के कारण मन्त्राक्षरों से विसंगति है । उस मत में परमेश्वर वाक् नहीं हैं, क्योंकि परमेश्वर की सर्वात्मता नहीं मानी जाती । ऋत तथा सत्य को बाह्य तथा आभ्यन्तर द्वार मानने में भी प्रमाण की अपेक्षा है ॥३३ ॥

पृष्ठ 205

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ६ शुक्लयजुर्वेदसंहिता 197.4 सर्वमुदक्षरमेव, वाचकलुप्तोपमालङ्काराश्रयणे प्रमाणाभावश्च । व्यचधातोर्व्याप्त्यर्थकत्वे प्रमाणाभावोऽपि तेनैव, ' व्यच गतार्थत्वात् व्याजी- । करणे ' इत्यस्य तदर्थाननुगुणत्वात् । किञ्च, विश्वव्यापकत्वे तस्यान्तरिक्षव्याप्तिकथनं निरर्थकमेव, । न वा त्वद्रीत्या न च परमेश्वरो वागस्ति, सार्वात्म्यानङ्गीकारात् । ऋतसत्ययोर्बाह्याभ्यन्तरद्वारत्वमपि प्रमाणसापेक्षमेव यथेश्वरो व्यापकः सर्वोत्पादकस्तथा विद्वान् भवति, तस्य परिच्छिन्नत्वात् । तथा च कथं लुप्तोपमालङ्कारोऽपि । न चैकपादत्वमपि तस्य सम्भवति । न च देवयानपदेन विदुषां गमनागमनमार्गोऽभिधीयते, देवपदेन मनुष्येतरजातिविशेषस्य साधितत्वात् । यथेश्वरो ऋतस्य द्वारौ न सन्तापयति, तथा त्वमपि मां मा तपेरिति विचित्रमेव, विदुषां तापकत्वासिद्धेः द्वाराविवेत्यस्य स्वारस्यानुक्तेः ॥३३ ॥

मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः सगरा॒ सग॑राः स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ग्नयः पि॑पृ॒त मा॑ग्नयो गोपायतं मा नमो वोऽस्तु मा मा॑ हि॑ंसिष्ट ॥३४ ॥

' मित्रस्येत्यृत्विजः ' ( का.श्रौ. ९.८.१६ ), अभिमन्त्रयत इति शेषः । हे ऋत्विजः मित्रस्यादित्यस्य चक्षुषा नेत्रेण मामीक्षध्वं पश्यत । शान्तं खल्वादित्यचक्षुः । मित्रस्य सख्युर्वा नेत्रेण पश्यत । यथा सखा सखायं हितयुक्तेन चक्षुषा पश्यति, तथा मां यजमानं पश्यध्वम् । ' अग्नयः सगरा इति धिष्ण्यान् ' ( का. श्रौ. ९.८.१७ ) । आग्नीधीयादीनष्टौ धिष्ण्यान् अभिमन्त्रयेत यजमान एवेति कर्क: अध्वर्यव इत्यपरे I । हे अग्नयः, सगरा गरेण स्तुत्या सहिताः सगराः ' गृ स्तुतौ ', यूयं सगरेण नाम्ना स्तुतिसहितेन नाम्ना धिष्ण्या इति नाम्ना वा व्यवह्रियमाणाः सगराः स्थ समानस्तुतिभाजो भवथ । समानो गरो येषां ते सगराः । हे अग्नय, ते यूयं रौद्रेणानीकेन शत्रुविनाशकत्वादुग्रेण भवदीयेन सैन्येन मा मां पात रक्षत । यद्वा रुद्रदेवत्येन मुखेन मां पात । अनीकं मुखं सैन्यं च । हे अग्नय मा मां पिपृत धनादिभिः पूरयत । अथवा मा मां गोपायत निरन्तरं रक्षतेत्यर्थः ' अभ्यासे भूयांसमर्थं मन्यन्ते ' ( निरु. १०.४२ ) इति वचनात् । तेन न पौनरुक्त्यदोषोऽपि । वो युष्मभ्यं नमोऽस्तु । मा मां हिंसिष्ट वधिष्ट | ये धिष्ण्यरूपा अग्नयस्ते सर्वे कर्मणि न्यूना-तिरिक्तांशप्रतिष्ठापूर्तिहेतवो भवन्ति । विहितैकदेशपरित्यागे कर्म न्यूनं भवति । अधिकस्य कस्यचिदनुष्ठानेऽतिरिक्तं भवति । तदुभयदोषपरिहारेण सम्पूर्तिमेते कुर्वन्ति, द्विनामत्वात् समानस्तुतयो भवन्ति । अध्यात्मपक्षे — हे अग्नय; राम - कृष्ण - विष्णु - शिव - सूर्य - गणपति- शक्त्यादिरूपेण ' परमेश्वरस्यानेकरूपत्वं श्रुति-स्मृति - पुराणादिष्वपि स्पष्टमेव । तदपेक्ष्यैव परमेश्वरवाचकेऽप्यग्निशब्दे बहुवचनम् । मा मां मित्रस्य सख्युश्चक्षुषा नेत्रेण मन्त्रार्थ - हे ऋत्विजों! मित्र की दृष्टि से मुझे देखो । हे स्तुतियोग्य धिष्ण्यों की अग्नियों! मैने आप सबकी नामोच्चारण पूर्वक स्तुति की है, अतः हे अग्नियों! उग्र सेना से मेरी रक्षा करो । हे अग्नियों! मुझे धन आदि से पूर्ण करो, मैं तुम्हें करे प्रणाम और करता हूँ । मेरे इस यज्ञ में आपकी कृपा से कोई विघ्न न हो । इस मन्त्र से यजमान सब ऋत्विजों का अभिमन्त्रण अध्वर्यु आठों धिष्ण्यों को देखता हुआ प्रार्थना करे ॥ ३४ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ९.८.२२, ९.४.२३ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' मित्रस्य मा ' इस कण्डिका के मन्त्रों से ऋत्विजों का तथा धिष्ण्यों का अभिमन्त्रण किया जाता है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है— हे अग्नि आदि परमेश्वर के अनेक स्वरूपों! मुझे आप लोग सख्यपूर्ण नेत्रों से देखें अथवा आदित्य के शान्त नेत्रों से अवलोकन करें । आप लोग समान स्तुति वाले हैं, अतः स्तुतियुक्त नाम के द्वारा समान रूप १. परमेश्वरस्यैव लीलयाऽनेकरूपधारित्वमुक्तं मीमांसाशास्त्रे दाशकितवाद्यधिकरणे ।

पृष्ठ 206

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.३४-३५ ] वेदार्थपारिजात भाष्यसहिता १ ९ ७ पश्यध्वम् । आदित्यस्य वा शन्तमेन चक्षुषा मामीक्षध्वम् । सगराः समानस्तुतयो यूयम् । अत एव सगरेण स्तुतियुक्तेन नाम्ना सगराः समानस्तुतयो भवथ, अत्यन्ताभिन्नत्वात् । हे अग्नयः, रौद्रेण रागद्वेषाद्यान्तरबाह्यसर्वविधशत्रुविनाशक-त्वादुग्रेण भवदीयेनानीकेन सैन्येन मा मां पात रक्षत । हे अग्नयः, मां बाौगभूहिरण्यरत्नादिभिरान्तरैर्ज्ञानवैराग्यशम-दमादिभिश्च पूरयत । मां गोपायत ब्रह्मात्मस्वरूपज्ञानसम्पादनेन पालयत । वो युष्मभ्यं नमोऽस्तु । मां मा हिंसिष्ट बहिर्मुखतोत्पादनेन मा वधिष्ट, निर्विघ्नब्रह्मज्ञानोपासनादिकं निर्वर्तयतेत्यर्थः । स्वामी दयानन्दस्तु — ' हे विद्वांसः सगरा अग्नयः यूयं मा मां चक्षुषेक्षध्वं यूयं सगराः स्थ । हे अग्नयः, सरेण रौद्रेण नाम्नानीकेन मां पात, मां पिपृत, मा गोपायत, मा हिंसिष्ट । एतदर्थं वो युष्मभ्यं नमोऽस्तु । अग्नयो नेतारो नयन्ति श्रेष्ठानिति । सगरोऽन्तरिक्षमवकाशो येषां ते सगराः, अन्तरिक्षेण रौद्रेण शत्रुरौदयितॄणामिदं तेन सैन्येन रक्षत सभाध्यक्षादयो गोपायत पालयत नमः ' इति, तन्त्र, सगरपदेनान्तरिक्षग्रहणे प्रमाणानुपलम्भात् । विवरणकृतापि — ' सह गरेण समानो गरो वा यस्य ' इत्येवोक्तम्, न त्वन्तरिक्षरूपोऽर्थः समर्थितः । ' अग्नये ' इत्येतेनापि यद्यप्यग्निदेवता परमेश्वरो वा ग्रहीतुं शक्यते, तथापि ' श्रेष्ठानां पदार्थानां नेतारः ' इत्यर्थे न किमपि प्रमाणं पश्यामः । सगर इत्यस्यान्तरिक्षमर्थ, तेन चावकाशो लक्ष्यते, तेन च विद्योपदेशावकाशग्रहणमिति वैदिकशब्देषु बलात्कार एव । हिन्दीव्याख्याने ' अग्नये ’ इत्यनेन संसाधितविद्युदाद्यग्निवेत्तारो विद्वांस इत्यर्थापनमपि निर्मूलमेवा विदुषां शत्रुरोदयितारः के? तेषां सैन्येन विदुषां कः सम्बन्धः? सैन्येन रक्षणाय राजानः शासका वा अभ्यर्थनीया, विद्वांसस्तु विद्यादानार्थं प्रार्थनीयाः । सर्वथापि केवलमूर्खजनप्रतारणाय एतादृशं व्याख्यानमित्युपेक्षणीयमेव ॥३४ ॥

ज्योति॑रसि वि॒श्वरू॑षं॒ विश्वे॑षां दे॒वाना॑ स॒मित् । त्वं समं तनू॒कृद्भ्यो॒ द्वेषा॑भ्यो॒ न्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒ स्वाहा॑ जुषा॒णो अ॒प्त॒राज्य॑स्य वेतु॒ स्वाहा॑ ॥ ३५ ॥

' धुवायाः पुरस्तात् पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन ' ( का. श्रौ. ५.४.२४ ) । जुहूपभृतोराज्यग्रहणमनुयाजार्थं सर्वत्र पश्वादौ भवति, अतः पृषदाज्येनानुयाजा अनुष्ठेयाः । हे पृषदाज्य, त्वं ज्योतिद्यतमानं द्योतकं वा असि भवसि । कीदृशम्? विश्वरूपं विश्वं सर्वं रूपं यस्य तत्, बहुष्वाहुतिषूपयुक्तत्वाद् संस्तुत । हे अग्न्यादि रूपों! रागद्वेषादि आन्तरिक तथा बाह्य सभी शत्रुओं के विनाशक होने के कारण अत्यन्त उग्र अपनी सेना से मेरी रक्षा करें । हे अग्न्यादि मूर्तियों! मुझे बाह्य हिरण्य, रत्न आदि तथा आन्तरिक ज्ञान, वैराग्य आदि से परिपूर्ण करें, मेरा पालन करें । आप लोगों के लिये नमस्कार है । बहिर्मुखता के उत्पादन के द्वारा मुझे हीन न करें । स्वामी दयानन्द द्वारा प्रतिपादित व्याख्या उचित नहीं है, क्योंकि सगर शब्द से अन्तरिक्ष अर्थ का ग्रहण करने में कोई प्रमाण नहीं है । उससे विद्योपदेशावकाश का ग्रहण करना तो वैदिक शब्दों पर बलात्कार ही है । हिन्दी व्याख्या में अग्नि शब्द का ' अग्निवेत्ता विद्वान् ' अर्थ करना भी निर्मूल है ॥३४ ॥

मन्त्रार्थ - हे आज्य! तुम विश्व को रूप देने से विश्वरूप और दीप्ति देने से ज्योतीरूप हो, सब देवताओं के प्रकाशक हो । हे सोम! तुम हमारे विरोधियों द्वारा प्रेरित शत्रुओं और शरीर छेदक राक्षसों के लिये दण्डदाता हो, बड़े बलवान् हो । तुम्हारे लिये मैं यह आहति देता हैं । हे प्रसन्न सोम! मेरे दिये हए घृत का पान करो, इस आहति को सम्यक् रूप से ग्रहण करो । इस मन्त्र से प्रज्वलित समिधा के ऊपर घृत की आहुति दी जाती है और सोम से प्रार्थना की जाती है ॥३५ ॥

भाष्यसार —— कात्यायन श्रौतसूत्र ( ५.४.२४, ८.७.१-२ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' ज्योतिरसि ' इस कण्डिका के मन्त्रों से दधिमिश्रित घृत का हवन तथा ' प्रचरणी ' नामक पलाश की स्रुची से घृत का हवन किया जाता है । शतपथ ब्राह्मण तथा तैत्तिरीय संहिता में याज्ञिक प्रक्रिया के अनकल व्याख्यान उपलब्ध है I

पृष्ठ 207

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ८ शुक्लयजुर्वेदसंहिता ' [ अ. ५ विश्वरूपत्वमाज्यस्य युक्तमेव । वैचित्र्याद्वा विश्वरूपत्वम्, आज्यस्य साधारण्येनेतरद्रव्यवत् प्रतिनियतदैवतत्वाभा-वात् । पृषदाज्यमिति विश्वेषां देवानां समिदित्युच्यते, अनेकद्रव्यात्मकत्वाद्वा वैश्वदेवत्वम्, दीप्यमानत्वाच्च ज्योति-ष्ट्वमपि तस्य सङ्गच्छते । त्वं विश्वेषां देवानां समित्, समिन्धत इति समित् दीपकमसि । देवा ह्याज्याहृतिं गृहीत्वा दीप्यन्ते । ‘ प्रदीप्तमिध्मं त्वं सोमेति प्रचरण्याऽभिजुहोति ' ( का. श्रौ. ८.७.१ ) । आग्नीधे नयनार्थं शालाद्वार्ये विहितस्य प्रदीप्तस्येध्मस्योपरि त्वं सोमेति मन्त्रेण प्रचरण्या स्रुचा सकृद्गृहीतमाज्यं समिद्वर्जं जुहुयात् । अन्यासु व्यापृतासु तया प्रचर्यत इति प्रचरणी नाम पालाशी जुहूरेव, अग्निहोत्रहवणीति कर्काचार्यः । अवसानरहिता सोमदेवत्या गायत्री भृगुपुत्रक्रतुदृष्टा । तनूः शरीरं तत्कृन्तन्ति छिन्दन्तीति तनूकृतो वृकादयो राक्षसा असुरा वा, तेभ्यो द्विषन्तीति द्वेषांसि दौर्भाग्यानि दुर्जनाद्यन्यकृतानि जन्मान्तरीयकर्मकृतानि वा तेभ्यश्च गोपाय । यद्वा तनूकृद्भ्य इति द्वेषेभ्य इत्यस्य विशेषणम् । तस्मिन् पक्षे तनूः शरीरं कृन्तन्तीति तनूकृन्ति, द्विषन्तीति द्वेषांसि, तादृशानि रक्षांसि तनूकृद्भयो द्वेषेभ्यो यतस्त्वमुरु यन्तासि बहुप्रकारं नियन्तासि यथा तीदृशा अपि मां न बाधेरन्, तथा सुरक्षितप्रदेशे रक्षित्वा मां पालयसि, तस्मात्त्वमेवास्माकमुरु प्रभूतं वरूथं बलमसि । तुभ्यमिदं हुतमस्तु । वरूथं गृहं च यज्ञरूपं मे गोपाय । यद्वा तन्वा शरीरेण क्रियन्ते यानि द्वेषांसि अन्यकृतानि पुत्रदारप्रभृतिभिः कृतानि वा तेभ्यो गोपायेति तुल्यम् । शालामुखीयो योऽग्निः यश्च तस्याग्नेः समीपे स्थापितः सोमस्तदुभयमाग्नीधादिप्रदेशेषु नीत्वा पश्चादग्नीषोमीयः पशुरालब्धव्यः, ततः सोमं नेतुं तमुद्दिश्याज्याहुतिर्हुता । ' जुषाणो अप्तुरिति द्वितीयाम् ' ( का. श्रौ. ८.७.२ ) । प्रदीप्तस्येध्मस्योपरि प्रचरण्या सकृद्गृहीतमाज्यं गृहीत्वाऽऽहुति जुहुयात् । अप्तुदेवत्या एकपदा विराड् यजुरन्ता विराजो दशेत्युक्तेर्दशाक्षरत्वाद्विराट् । जुषाणोऽस्मासु प्रीयमाणः सेवमानो वा अप्तुः सोम, आप्नोति व्याप्नोति तूर्णं पीतः सन् शरीरमित्यप्तु, आज्यस्य वेतु आज्यं पिबतु, कर्मणि षष्ठी, स्वाहा तस्मै अप्तवे सोमायेदं हुतमस्तु । यद्वा हे सोम, अस्मासु जुषाणः प्रीतिमान् रक्षसामदर्शनायाप्तुल्यदेहः सन् आज्यस्य वेतु आज्यं पिब । शतपथे- ' अथोत्पूयाज्यं चतुर्गृहीते जुह्वां चोपभृति च गृह्णाति पञ्चगृहीतं पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां समिदिति वैश्वदेवं हि पृषदाज्यं धारयन्ति स्रुचो यदा प्रदीप्त इध्मो भवति ' ( श. ३.६.३.६ ) । अग्नीषोमीयार्थमाज्यपृषदाज्ययोर्ग्रहणं विधत्ते - अथोत्पूयेति । पृषदाज्यग्रहणमन्त्रमाह – ज्योतिरसीति । मन्त्रार्थस्तूक्त एव । ' अथ जुहोति । त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथं स्वाहेति तदेतेनैवास्यां पृथिव्यां प्रतिष्ठायां प्रतितिष्ठत्येतेनेमं लोकं स्पृणुते ' ( श. ३.६.३.७ ) । इदानीं समन्त्रकमाहवनीये वैसर्जनहोमं विधत्ते - अथ जुहोतीति । जुह्वा व्यापृतत्वात् प्रचरण्या पालाश्या जुह्वा अग्निहोत्रहवण्या जुहोति — हे सोम, त्वं तनूकृद्भयो द्वेषोभ्यः, तनूं शरीरं कृन्तन्ति तृन्दन्तीति तनूकृन्ति रक्षांसि द्विषन्तीति द्वेषांसि अन्यैरस्मद्विरोधिभिरभिच-रद्भिः कृतानि प्रेरितानि तादृशेभ्यो नियन्तासि यथा तादृशानि तनूकृन्ति द्वेषांसि रक्षांसि विरोधिभिरभिचरद्भिः प्रेरितानि न बाधन्ते तथा पालयसि । तस्मात्त्वमेवास्माकं उरु प्रभूतं वरूथं बलमसि । तस्मै तुभ्यमिदं सुहुतमस्तु । तदेतेनेममिति वैसर्जनानां लोकत्रयजयरूपत्वस्योक्तत्वाद् गार्हपत्यहोमः पृथिव्यां प्रतिष्ठारूपः अस्या जायापत्ययोश्च प्रतिष्ठोपपद्यत इति तदर्थमाह — ' एतेनेमं लोकम् ' ( तै. सं. ६.३.२.२ ) । ' अथाप्तवे द्वितीयामाहुति जुहोति । जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्येष उ हैवैतदुवाच रक्षोभ्यो वै बिभेमि यथा माऽन्तरा नाष्ट्रा रक्षांसि न हिनसन्नेवं मा कनीयांसमेव वधात् कृत्वाऽतिनयतं स्तोकमेव स्तोको ह्यच्तुरिति

पृष्ठ 208

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३५ ] वेदार्थपारिजात भाष्यसहिता १ ९९ तमेतत्कनीयांसमेव वधात् कृत्वाऽत्यनयन्त्स्तोकमेव स्तोको ह्यप्तू रक्षोभ्यो भीषा तस्मादप्तवे द्वितीयामाहुतिं जुहोति ' ( श. ३.६.३.८ ) । आहुत्यन्तरं समन्त्रकं विधत्ते - अथाप्तव इति । अप्तुः सूक्ष्मरूपः सोमो जुषाणः प्रीयमाण आज्यस्य वेतु आज्यं पिबतु । मन्त्रतात्पर्यमाह — एष उ हैवेति । एष मन्त्र एवैतद् वक्ष्यमाणमुवाच ' रक्षोभ्यः ' इत्यादि । यथा मान्तरेति प्रणयनकाले मध्यमार्गे शालामुखीयहविर्धानयोरन्तराले नाष्ट्रा रक्षांसि न हिंसेयुरिति रक्षःकृतानवधानहेतोः कनीयांसं स्तोकं कृत्वाऽनयन् तस्मादप्तवे स्तोकभूताय सोमाय द्वितीयामाहुतिं जुहुयात् । अध्यात्मपक्षे – हे सोम, उमया सहितः सोमो देवः साम्बसदाशिवः, तत्सम्बुद्धौ । त्वं ज्योतिरसि चैतन्यात्मकं निर्विकारं ब्रह्मज्योतिरसि । कीदृशं तत्? विश्वरूपम्, विश्वं निखिलं चेतनाचेतनात्मकं रूपं यस्य तत् । ' ब्रह्मैव विश्वमखिलम् ', ' सर्वं खल्विदं ब्रह्म ' ( छा. उ. ३.१४.१ ) इति श्रुतेः । विश्वेषां समेषां देवानां चक्षुः श्रोत्रादीन्द्रियाणां समित् समिद्ध्यन्ते सर्वाणीन्द्रियाणि येन तत् समिद् दीपकम्, ' ज्योतिषामपि तज्ज्योतिः ' ( भ. गी. १३.१८ ), ' श्रोत्रस्य श्रोत्रं मनसो मनः ' ( केनो. १.२ ) इत्यादिश्रुतिस्मृतिभ्यः । तनूकृद्ध्यः शरीरघातकेभ्यो द्वेषोभ्यो द्विषद्भ्यो रक्षोभ्यः, अन्यप्रेरितेभ्यश्च तेभ्य, उरु यन्तासि सर्वान् नियन्तुं शक्नोषि । यद्वा तन्वा शरीरेण क्रियन्ते यानि द्वेषांसि पातकानि दौर्भाग्यानि, तेभ्योऽन्यैः पुत्रदारादिभिश्च कृतेभ्यो द्वेषोभ्योऽस्मान् वरूथं गृहं च, गोपायेति शेषः । यतस्त्वमुरु यन्ता बहुधा सर्वनियामकोऽसि । हे सोम, अप्तुर्व्यापको जुषाणोऽस्मासु प्रीयमाण आज्यस्य आज्यं वेतु भवान् पिबतु, तस्मै भवते सुहुतमस्तु । यद्वास्माकमाज्यं स्नेहं वैतु जानातु । त्वमेवास्माकमुरु प्रभूतं वरूथं बलमसि । भक्तानां भगवानेव बलमिति प्रसिद्धमेव । तुभ्यं स्वाहा मदीयं सर्वस्वमर्पितमस्तु । स्वामिदयानन्दस्तु — ' हे सोम, यथा त्वं विश्वेषां देवानां विदुषां विश्वरूपं विश्वं रूपं यस्मिन् तज्ज्योतिः समिदसि । तनूकुद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यश्च यन्तासि । तथा य उरु वरूथं स्वाहा सन् मनुष्यः स्वाहा वेतु । हे जगदीश्वर, त्वं विश्वेषां देवानां विदुषां सर्वरूपयुक्तसर्वप्रकाशकसमित्प्रकाशितोऽसि । शरीरकृद्भ्यो द्विषद्भयो जीवेभ्यस्तथान्यमनुष्यकृतेभ्यो दुष्टकर्मभ्यो नियन्तासि तेभ्य उरु प्रभूतं वरूथमुत्तमं गृहं स्वाहा वाणीमप्तुर्व्यापकं विज्ञानं जुषाणो मनुष्यः स्वाहा वेदवाणीं वेतु जानातु ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहारबाहुल्यात् । सर्वप्रका-शकं च ब्रह्म वस्तुतो भारूपमेव न दृश्यम् दृश्यत्वे तस्य मिथ्यात्वापत्तेः । शरीरकृद्भयो द्वेषोभ्य इत्यत्र चिद्विशेष्यविशेषणानुपपत्तिः । द्विषन्तो जीवाः शरीरकृतः ' इत्यस्य किं तात्पर्यम्? न च जीवाः शरीरकृतो भवन्ति । तेषामेव शरीरकृत्वेऽशुभशरीरानारम्भापातात् । ' आज्य ' - ' स्वाहा'पदाभ्यां विज्ञानवाण्योर्ग्रहणमपि निर्मूलमेव । मनुष्य-पदमपि मन्त्रे नास्त्येव । तस्मात् शतपथकात्यायनादिसूत्रसंमतं पूर्वमेव व्याख्यानं ज्यायः ॥३५ ॥

अध्यात्मपक्ष में यह अर्थ है – हे साम्ब सदाशिव! आप चैतन्यात्मक निर्विकार ब्रह्मज्योतिष् हैं । निखिल चेतनाचेतनात्मक रूप वाले हैं । समस्त इन्द्रियों को प्रदीप्त करने वाले हैं । शरीरघातक राक्षसों को तथा उनसे प्रेरित अन्य शत्रुओं को भी नियन्त्रित करने में समर्थ हैं । आप शरीर के द्वारा क्रियमाण तथा पुत्र- कलत्रादि अन्यों के द्वारा किये गये पापों से हमारे गृह की रक्षा करें, क्योंकि आप सर्वनियन्ता हैं । हे व्यापक साम्बशिव! आप प्रसन्न होते हुए हविर्द्रव्य ग्रहण करें, यह आपके लिये समर्पित है। अथवा हमारा स्नेह जान लें, क्योंकि आप ही हमारे बल हैं । भक्तों के बल भगवान् हैं, यह प्रसिद्ध ही है 1 स्वामी दयानन्द द्वारा प्रतिपादित अर्थ निर्मूल एवं अध्याहारों की बहुलता के कारण असमीचीन है । ' आज्य ' तथा ' स्वाहा ’ शब्दों से विज्ञान तथा वाणी अर्थ लेना भी अप्रामाणिक है ॥ ३५ ॥

पृष्ठ 209

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०० शुक्लयजुर्वेदसंहिता [ अ. ५ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । युयोध्यस्मज्जु॑ह॒राणमेो भूयि॑ष्ठां ते॒ नम॑उक्तं विधेम ॥ ३६ ॥

' अग्ने नयेति वाचयति ' ( का.श्रौ. ८.७.५ ) । आग्नीध्रं प्रति गमनार्थं प्रवृत्तं यजमानं ' अग्ने नय ' इति मन्त्रं वाचयत्यध्वर्युः । शतपथे चापि – ' उद्यच्छन्तीध्म म उपयच्छन्त्युपयमनीरथाहाग्नये प्रह्रियमाणायानुब्रूहि सोमाय प्रणीयमानायेति वाग्नये प्रह्रियमाणायानुब्रूहीति त्वेव ब्रूयात् ' ( श. ३.६.३.९ ), ' इध्ममभ्यादधति । उपयमनीरुपकल्प-यन्त्याज्यमधिश्रयति स्रुवं च स्रुचं च सम्माष्टर्यथोत्पूयाज्यं पञ्चगृहीतं गृह्णीते यदा प्रदीप्त इध्मो भवति ' ( श. ३.५.२.१ ) इत्यनुसारेणेध्माधानोपयमन्युपकल्पादीनामनन्तरं प्रदीप्ते ध्मगतमग्निमुद्यच्छन्ति, ऊर्ध्वं धारयन्ति, तदाधारेषु नीयमानाः सिकता अप्युपयच्छन्त्यधो धारयन्ति । अग्नीषोमप्रणयन प्रेषविषये विकल्पपक्षं निरस्याग्नये प्रह्रियमाणा-यानुब्रूहीति पक्षं सिद्धान्तयति — अग्नये प्रह्रियमाणायानुब्रूहीति त्वेव ब्रूयादिति । ' आददते ग्राव्णः । द्रोणकलशं वायव्यानीध्मं काष्मर्यमयान् परिधीनाश्ववालं प्रस्तरमैक्षव्यौ विधृती तद्बर्हि-रुपसन्नद्धं भवति वपाश्रपण्यौ रशने अरणी अधिमन्थनः शकलो वृषणौ तत्समादाय प्राञ्च आयन्ति स एष ऊर्ध्वो यज्ञ एति ' ( श. ३.६.३.१० ) । ग्राव्णोऽभिषवार्थान् पाषाणान् द्रोणकलशं सोमाधारभूतं प्रभूतं पात्रविशेषं वायव्यान् वायुदेवताकान् । ‘ सोमपात्राणि ग्राव्णो वायव्यानि ' ( तै. सं. ६.३.२.३ ) इति श्रुत्या पात्राणामेव वायव्यत्वम् । इध्मं काष्मर्यपरिध्यादिकं तद्बर्हिरुपसन्नद्धं भवत्यातिथ्यायामास्तीर्णं भवति, ' यदातिथ्यायां बर्हिस्तदुपसदसस्तदग्नीषोमी-यस्य ' ( ऐ. ब्रा. १.४.८.२५ ) । वपाश्रपण्यौ वपायाः श्रपणसाधने कामर्यशाखे । रशने यूपपश्वर्थे द्वे । अरणी द्वे । अधिमन्थनः शकल उत्तरारणेरधस्तात् स्थाप्यः । वृषणौ वृषणस्थानीयौ दर्भी । एतान् सोमार्थानग्नीषोमीयार्थांश्च समादाय प्राञ्च आयन्ति आगच्छेयुः । स एष ऊर्ध्वो यज्ञ एति, ऊर्ध्वं गतो भवति, अध्वर्युप्रमुखैर्यज्ञाङ्गानामुद्यमनात् । ' तदायत्सु वाचयति । अग्ने नय.... विधेमेत्यग्निमेवैतत् पुरस्तात् करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्य-थाभयेनानानाष्ट्रेण हरन्ति त आयन्त्यागच्छन्त्याग्नीध्रं तमाग्नीधे निदधाति ' ( श. ३.६.३.११ ) । तेष्वागच्छत्सु ' अग्ने नय ' इति मन्त्रं वाचयत्यध्वर्युः । मन्त्रार्थस्तु – हे अग्ने देव, नय प्रापय अस्मान् राये धनाय यज्ञफलाय, इहाभीष्टगो भूहिरण्यादिलाभाय परत्र च स्वर्गादिसुखभोगाय, सुपथा शोभनेन मार्गेण त्वं विश्वानि सर्वाणि वयुनानि मार्गान् विद्वान् जानन् । यद्वा— अस्माकं वयुनानि ज्ञानानि, उपासनानि प्रशस्तानि कर्माणि च ' वयुनमिति प्रशस्तनामसु ' ( निघ. ३.८.१० ), ' प्रज्ञानामसु च ( निघ. ३.९.१० ), जानन् । किञ्च, जुहुराणम्, हूर्च्छितुं कुटिलीकर्तुमिच्छतीति जुहुराणम्, अभिलषित-मन्त्रार्थ - हे अग्निदेव! सब ज्ञानों को जानने वाले आप हमको धन और यज्ञफल की प्राप्ति के लिये श्रेष्ठ मार्ग दिखावें । हमारी इच्छाओं के प्रतिबन्धक दुरित ( पाप ) को दूर करो । आपके लिये हम बार - बार नमस्कार वचन कहते हैं । इस मन्त्र को पढ़ता हुआ अध्वर्यु आग्नीध्र के समीप आता हुआ यजमान के लिये प्रार्थना करे || ३६ || भाष्यसार - कात्यायन श्रौतसूत्र ( ८.७.६ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार अध्वर्यु गमन के लिये प्रवृत्त यजमान से ' अग्ने नय ' मन्त्र का वाचन कराता है । इस याज्ञिक प्रक्रिया के अनुकूल व्याख्यान शतपथ ब्राह्मण तथा ऐतरेय ब्राह्मण आदि में उपदिष्ट है ।

पृष्ठ 210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.३६ ] वेदार्थपारिजात भाष्यसहिता २०१ क्रियातत्फलप्रतिबन्धि पापम्, ' हूर्छा कौटल्ये ' कुटिलं फलप्रतिबन्धकं च यदेनः पापं तत्सर्वमस्मदस्मत्तो युयोधि पृथक्कुरु, ‘ यु मिश्रणामिश्रणयोः । ते तुभ्यं भूयिष्ठां बहुलतमां नमउक्तिं विधेम नमस्कारविषयां वाचं करवाम सम्पादयाम, नमसा हविर्लक्षणेन वा, पुरोऽनुवाक्यायाज्यावचनलक्षणया वा नमउक्त्या त्वां परिचरेम | ‘ नम इत्यन्ननामसु ' ( निघ. २.७.२२ ) । ते आयन्ति प्राचो गता आगच्छेयुराग्नीध्रस्थानं सौमिकवेदेरुत्तरेण मार्गेण । तं प्रणीतमग्नि तत्र निदधाति । अध्यात्मपक्षे — हे अग्ने, प्राणिनामुन्नतिमार्गेष्वग्रेनयनशील परमेश्वर, नोऽस्मान् त्वदुपासकान् त्वदाराधन-बुद्ध्या अग्निहोत्रादिकर्मानुष्ठातृन् राये ऐहिकामुष्मिकाभ्युदयपरमनिःश्रेयसरूपभगवत्पदप्राप्तये नय । त्वमस्माकं वयुनानि प्रज्ञानान्युपासनानि कर्माणि वा जानन् जानास्यतः कर्मफलदातृत्वात् प्रज्ञानकर्मानुरोधेन तत्तत्फलानि निष्कामानां सत्त्वशुद्धितत्त्वज्ञानादिप्रदानद्वारा स्वरूपावस्थानलक्षणं मोक्षं च प्रापयसि । अस्मद् अस्मत्तः, जुहुराणं वञ्चकं कुटिलमेनः पापं युयोधि वियोजय दुरीकुरु । तदर्थं नमउक्तिं हविर्लक्षणस्य नमस उक्त्या सम्पादनेन पुरोवाक्यायाज्यालक्षणस्य नमस उक्त्या विधेम परिचरेम । यद्वा अन्यत्कर्तुमक्षमा भूयिष्ठां नमउक्ति करवाम तावतैव भगवन्तं प्रसादयाम । दयानन्दस्तु — ' हे अग्ने देव, विद्वांस्त्वं यथा सुकृतो राये सुपथा विश्वानि वयुनानि प्राप्नुवन्ति तथास्मान्नय । जुहुराणमेनोऽस्मद्युयोधि । वयं ते भूयिष्ठां नमउक्तिं विधेम । यथा सुकृतः शोभनेन धर्म्यमार्गेण गच्छन्ति, तथा राये परमश्रीमोक्षसुखप्राप्तयेऽस्मानभ्युदयनिःश्रेयससुखस्पृहावतो विश्वानि प्रशस्तानि कर्माणि प्रज्ञाश्च जानन् अस्मत्सका-शाद् जुहुराणं कुटिलमेनो दुःखफलं पापं युयोधि दूरीकुरु । ते नमउक्ति यथा नमोभिरुक्तिं विदधति, तथा विधेम वदेम ' इति, तदपि यत्किञ्चित्, मूले ( मन्त्रे ) यथा सुकृतो गच्छन्तीत्यादिपदानामभावेन दृष्टान्तोपादानानुपपत्तेः । किञ्च, दृष्टान्तो वादि - प्रतिवाद्युभयसम्मतो भवति । न चात्र सुकृतां शोभनेन मार्गेण परलोकगमनं प्रसिद्धम् । न चागमो दृष्टान्तमपेक्षते, तस्यानुमानान्तर्भूतत्वात् । किञ्च, प्राणिकृतं कुटिलमेनः कथं फलदानमन्तरा दूरीकर्तुं शक्यते? यदि परमेश्वरप्रार्थनया तत्सम्भाव्यते, तर्हि भगवन्नामादिस्तुत्यादिभिर्न किमपि पुण्यं भवतीत्यादिका त्वदुक्तिर्निरर्थिकैव स्यात् । अत एव नमउक्तिवदनमपि निरर्थकमेव । न च मोक्षफलं गतिसाध्यम्, ' न तस्य प्राणा उत्क्रामन्ति ' ( बृ. उ. ४.४.६ ) इत्यादिश्रुतिविरोधात् त्वद्रीत्या लोकान्तरानभ्युपगमात् ॥३६ ॥

अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- प्राणियों को उन्नति - मार्गों में आगे ले जाने वाले हे परमेश्वर! आपके उपासकों, आपके आराधन की भावना से अग्निहोत्र आदि कर्मों का अनुष्ठान करने वाले हम लोगों को ऐहिक तथा पारलौकिक अभ्युदय तथा परम निःश्रेयसरूपी भगवत्पद की प्राप्ति के लिये ले चलें । आप हमारे ज्ञान, उपासना अथवा कर्मों को जानते हैं । अतः कर्मफल- प्रदाता होने के कारण उन उन फलों को तथा निष्काम भक्तों को सत्त्वशुद्धि, तत्त्वज्ञान आदि के द्वारा मोक्ष प्रदान करते हैं । वंचक, कुटिल पाप को हमसे दूर करें । एतदर्थ हविर्द्रव्य आदि से नमनपूर्वक उक्तियों के द्वारा हम उपासना करते हैं । अथवा अन्य कुछ भी करने में अशक्त हम लोग बार बार नमनात्मक स्तुति करते हैं । स्वामी दयानन्द की व्याख्या में मूल मन्त्र में ' पुण्य करने वाले जाते हैं ' इत्यादि शब्द न रहने के कारण दृष्टान्त- प्रदर्शन संगत नहीं है । आगम में दृष्टान्त की अपेक्षा भी नहीं है, क्योंकि वह अनुमान के अन्तर्गत है । मोक्ष फल भी गतिसाध्य नहीं है । उनके मत में दूसरे लोक को न मानने के कारण भी यह संगत नहीं हो सकता ॥३६ ॥