वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 211–220
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
२०२ शुक्लयजुर्वेदसंहिता [ अ. ५ अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं वाजा॑ञ्जयतु॒ वाज॑सा-ताव॒यं शत्रूंञ्जयतु॒ जर्हषाण॒ स्वाहा॑ ॥ ३७ ॥
प्रतितिष्ठत्येतेनैतं-' स निहिते जुहोति । अयं नोऽग्नि स्वाहेति तदेतेनैवैतस्मिन्नन्तरिक्षे । तत्र प्रतिष्ठायां होममन्त्रमाह- अयमित्यादि । ल्लोकं स्पृणुते ' ( श. ३.६.३.१२ ) । सोऽध्वर्युर्निहितेऽग्नौ स्थापिते जुहोति स्पृणुते पालयति प्रतिष्ठायां प्रति-तदेतेन शालामुखीयाग्नीधीयोत्तरवेदीनां क्रमेण भूम्यादिलोकत्रयात्मकत्वादन्तरिक्षे निदधाति, ग्रावद्रोण-तिष्ठति । एतेनैतं लोकं स्पृणुते । कात्यायनोऽपि तथैवाह - ' उत्तरेण सदो हृत्वाऽऽग्नीध्रेऽग्नि तत्सर्वं हृत्वा आग्नीध्रगृहमध्ये कलशसोमपात्राणि चायं न इति जुहोत्यस्मिन् ' ( का. श्री. ८.७.६-८ ) । सद उत्तरेण । आग्नीधीयेऽग्नौ प्रचरण्या आग्नीध्रीयधिष्ण्येऽग्नि स्थापयेत्, ग्राव- द्रोणकलश - सोमपात्राणि च तत्रैव स्थापयेत् वरिवोऽभीष्टं धनं कृणोतु सकृद्गृहीतमाज्यं जुहुयात् । आग्नेयी त्रिष्टुब् यजुरन्ता । मन्त्रार्थस्तु – एतु अयमग्निर्नोऽस्माकं गच्छतु, पुरोऽग्रतो गच्छतु यथायं वाजसातौ सम्पादयतु । मृधः संग्रामान् प्रभिन्दन् वैरिणो विदारयन् शत्रुसम्बन्धीन्यन्नान्यस्मभ्यं दातुं वाजानामन्नानां सातिः सम्भजनं सेवनं वा वाजसातिस्तस्मिन् निमित्ते सतीत्यर्थः । संग्रामेऽस्मदर्थं वाजान् जयतु । अयं जर्हषाणः पुनः पुनर्हष्यन् शत्रून् जयतु तस्मा इदमाज्यं सुहुतमस्तु पातकाना-अध्यात्मपक्षे — उपासकानां रीत्याऽयं भगवान् रामः कृष्णो विष्णुः साम्बः ब्रह्मैव शिवो सर्वभासकमपि वा, नोऽस्माकं स्वातिरिक्तं मग्निरिव दग्धा, अज्ञानविभ्रमादीनां चाग्निरिव दग्धा, ब्रह्माकारवृत्तावभिव्यक्तं सूर्यकान्तमणावग्निरूपेणाभिव्यक्त-सर्वमज्ञानतत्कार्यात्मकं जगद् दहति । यथा सौरालोकस्तूलराशिप्रकाशकोऽपि वा धनं कृणोतु स्तूलराशि दहतीति, तद्वत् । अयं नोऽस्माकं वरिवस्तत्त्वज्ञानलक्षणं शमदमादिषट्कसम्पत्तिलक्षणं विदारयन्नेतु । अयमेव वाजसातौ संग्रामे सम्पादयतु । अयं भगवान् मृधः संग्रामान् पुरोऽग्रतः प्रभिन्दन् वैरिणो विवेकविज्ञानं सम्पादयितु जयतु । ए एव वाजान् धनान्यस्मभ्यं दातुं जयतु । कामक्रोधादीन् वा शत्रून् विजित्य भगवान् जर्हषाणोऽत्यर्थं हृष्यन् शत्रून् जयतु । शत्रुसेनाओं से मन्त्रार्थ - यह अग्नि हमें धन प्राप्त करावे, संग्राम में शत्रुसेनाओं को छिन्न - भिन्न । करता हमारे हुआ द्वारा दी यह गई अग्नि आहति को सुन्दर धन - धान्य जीतकर हमें दिलावे । अत्यन्त प्रसन्न होता हुआ यह अग्नि के शत्रुओं उत्तर को भाग जीते में ले जा कर आग्नीध्रीय धिष्ण्य में अग्नि रूप से ग्रहण करे | इस मन्त्र को पढ़ता हआ अध्वर्यु सबको मण्डप की स्थापना करे ॥ ३७ ॥
नः ' इस मन्त्र से आग्नीध्रीय भाष्यसार — कात्यायन श्रौतसूत्र ( ८.७.७ - ९ ) में उल्लिखित याज्ञिक विनियोग के अनुसार । याज्ञिक ' अयं प्रक्रिया के अनुकूल व्याख्या धिष्ण्य में अग्निस्थापन के अनन्तर प्रचरणी स्रुक् के द्वारा घृत का हवन किया जाता है शतपथ ब्राह्मण में उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है — उपासकों के सिद्धान्त के अनुसार ये भगवान् अज्ञानकार्यात्मक राम, कृष्ण, विष्णु जगत् अथवा - प्रपंच साम्बशिव का नाश हमारे पापों को अग्नि की भाँति जलाकर, अज्ञान - भ्रम आदि को अग्नि की तरह भस्म करके मणि में अग्नि के रूप में अभिव्यक्त करते हैं । जिस प्रकार सूर्य का प्रकाश रुई के ढेर को प्रकाशित करता हुआ भी सूर्यकान्त तत्त्वज्ञानात्मक शमदमादि षट्क - सम्पत्ति होकर उसी रुई के ढेर को भस्म कर देता है, उसी प्रकार यह भी है । ये भगवान् हमारे करें तथा ये ही संग्रामों में जित धन रूपी धन का सम्पादन करें । ये भगवान् संग्रामों के आगे ही वैरियों का नाश करते हुए गमन
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
म.३७-३८ ] वेदार्थपारिजातभाष्यसहिता २०३ दयानन्दस्तु — ' अयं परमेश्वरोपासकः, नोऽस्माकं जीवानामग्निः स्वयंप्रकाशोऽग्निरिव पापानां दग्धा रक्षणं करोतु । अयं युद्धकुशलो मृधः कुत्सितान् यथा कश्चिद् धीरो वाजसातौ मृधः शत्रून् पुर एति तथायं पुर एतु । यथा कश्चिद्वीरो मृधः शत्रून् प्रभिन्दन् वाजान् जयति तथायं जयतु । तथायं जर्हषाणः स्वाहा शोभनां वाचं वदन् जयतु ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहारबाहुल्यात् । प्रजास्थानां जीवानामित्यपि निरर्थकम्, समेषां जीवानां प्रजास्थत्वाविशेषात्, प्रजायन्त इति प्रजा इति व्युत्पत्त्या जायमानानां चेतनाचेतनलक्षणानां सर्वकार्याणामेव प्रजाशब्दवाच्यत्वात् । अग्नि-रिवेत्यादिकमपि गौणार्थकमेव, सत्यां शक्त्यां भक्तेरनुपपत्तेः ॥३७ ॥
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य॒ न॒स्कृधि । घृ॒तं घृ॒तयोने पिब॒ प्र प्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥३८ ॥
' तदेव निदधाति ग्राव्णः । द्रोणकलशं वायव्यान् यथेतरमादायायन्ति तदुत्तरेणाहवनीयमुपसादयन्ति ' ( श. ३.६.३.१३ ) । यथा इध्मबर्हिरादिकं तथैव द्रोणकलशं वायव्यान् ग्रहांश्चादाय उत्तरवेदिस्थस्याहवनीयस्योत्तरेणासादयन्ति । ' प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्ताद् ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिमाश्ववालः प्रस्तर उपसन्नद्धो भवति तं गृह्णाति गृहीत्वा प्रस्तरमेकवृद्वर्हिः स्तृणाति स्तीर्त्वा बर्हिः काष्मर्यमयान् परिधीन् परिदधाति परिधाय परिधीन् समिधावभ्यादधात्यभ्याधाय समिधौ ' ( श. ३.६.३.१४ ) । प्रोक्ष-णीरादायाध्वर्युरिध्ममेव पूर्वं प्रोक्षेतेत्यादिना प्राकृतः प्रयोगः पुनरभिधीयते । तत्र तत्र विशेषविधानार्थं प्रस्तरं पृथग्गृहीत्वा बर्हिरेकावृत्त्यैव स्तृणीयात् । ' अथ जुहोति । उरु विष्णो- - स्वाहेति तदेतेनैवैतस्यां दिवि प्रतिष्ठायां प्रतितिष्ठत्येतेनैतं लोकं स्पृणुते यदेतया जुहोति ' ( श. ३.६.३.१५ ) । अथाधानसमिदाधानपर्यन्तं पश्वर्थमङ्गजातं कृत्वा पश्चाद्वैसर्जनीयं होमं तुरीयं जुहोति । तत्र मन्त्र: - ' उरु विष्णो ' इति । कात्यायनोऽपि ' इध्मप्रोक्षणादि करोति ' ( का. श्रौ. ८. ७.११ ), ' खरोत्तरार्ध एकवृत्स्तरणं पश्चाद्वोत्तरवेदेः ' ( का. श्री. ८.७.१२ ) । बर्हिस्तरणकाले खरस्योत्तरभागे आतिथ्याबर्हिष एकावृत्ति सकृत् स्तरणं कुर्यात् । ' आहवनीयेक्षणान्तं कृत्वोरु विष्णविति जुहोति ' ( का. श्रौ. ८.७.१३ ) । सूरयस्त्वेत्याहवनीयेक्षणान्तं कर्म कृत्वा सकृद्गृहीतमाज्यं प्रचरण्या आहवनीये जुहुयात् । ' पुरस्ताद्वा समिधावाधायेति श्रुतेः ' ( का. श्रौ. ८. ७.१४ ) । वाशब्दोऽवधारणे । नाहवनीयेक्षणान्ते होम;, किं तर्हि आहवनीयेक्षणात् प्रागेव होम:, ' अभ्याधाय समिधावथ जुहोति ' इति श्रुतेः । वैष्णवी अनुष्टुप् । हमें प्रदान करें, अथवा काम - क्रोध आदि शत्रुओं को पराजित कर विवेक ज्ञान प्रदान करें । वही भगवान् अत्यन्त प्रसन्न होकर शत्रुओं को जीतें । स्वामी दयानन्द की व्याख्या मूलरहित अध्याहारों की अधिकता के कारण असंगत है । ' अग्नि के समान ' इत्यादि अर्थ करना भी गौण अर्थ ही है । मुख्यार्थ के उपपन्न होने पर गौणार्थ की कल्पना असमीचीन है ॥३७ ॥
मन्त्रार्थ - हे व्यापक आहवनीय अग्निरूप परमात्मन्! आपके पराक्रम की हमें अपेक्षा है । ब्रह्मसद् में निवास के निमित्त हमें आप समृद्ध बनाइये । हे घृत से बढ़ने वाले अग्निदेव! आप घृत को पीजिये, यजमान को समृद्ध कीजिये । हम आपके निमित्त यह आहुति देते हैं ॥ इस मन्त्र को पढ़ते हुए उत्तरवेदि के आहवनीय अग्नि के कुण्ड में आहुति दी जाती है ॥ ३८ ॥।
भाष्यसार — कात्यायन श्रौतसूत्र ( ८.७.१२-१५ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' उरु विष्णो ' मन्त्र का विनियोग वैसर्जनीय होम में आहुति प्रदान करने में उल्लिखित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
२०४ शुक्लयजुर्वेदसंहिता [ अ. ५ मन्त्रार्थस्तु – हे विष्णो यज्ञात्मक, त्वम् उरु प्रभूतं द्युलोकपर्यन्तं विक्रमस्व विक्रमणं कुरु । देवयानाभिप्रायं त्रिलोकाभिप्रायं वा । किमर्थं क्षयाय ब्रह्मगृहनिवासाय, नोऽस्मान् उरु विस्तीर्णं यथा स्यात्तथा कृधि कुरु, विस्तीर्णशरीरान् । स्वाहा इदं वा कृधि । घृतयोने हे अग्ने, घृतं हृतं पिब यज्ञपतिं यजमानं प्रतिर वर्धयस्व । प्रपूर्वकस्तिरतिर्वर्धनार्थः कुरु । नोऽस्माकं घृतं तुभ्यं सुहुतमस्तु | यद्वा हे विष्णो व्यापिन्नाहवनीयाग्ने, उरु विक्रमस्व शत्रुषु बहुलं पराक्रमं , ‘ अग्निर्यस्यै योनेरसृज्यत क्षयाय निवासार्थं उरु कृधि बहुधनादिकं सम्पादय । हे घृतयोने घृतेन ज्वालोद्भवाद् घृतयोने । प्रशब्दस्य द्वित्वं तस्यै घृतमुल्बमासीत् ' इति श्रुतेः । हूयमानमिदं घृतं पिब । यज्ञपतिं यजमानं प्रतिर अतिशयेन वा वर्धय एनमेद्वधात्कृत्वात्यनैषु पादपूरणार्थम्, ' प्रसमुपोदः पादपूरणे ' ( पा. सू. ८.१.६ ) । ' यद्वेव वैष्णव्यर्चा जुहोति कनीयांसं ' ( श. स्तोकमेव स्तोको ह्यप्तुस्तमेतदभयं प्राप्य य एवैष तं करोति यज्ञमेव यज्ञो हि विष्णुस्तस्माद्वैष्णव्यर्चा - यद्वेवेति जुहोति । एतद् ३.६.३.१६ ) । मन्त्रे यद्वैष्णवत्वमुक्तं तस्याल्पत्वपरिहारेण स्वाभाविकरूपप्राप्तिरूपत्वकरणेन प्रशंसति । एतेन वैष्णवत्वकरणेनाभयं नाशकारिरक्षोभयरहितं कृत्वा एष सोमः पूर्वं य एव यादृग् यज्ञरूप आसीत्तं करोति । अन्यत् स्पष्टम् । अनया कण्डिकयापि रक्षोभयात् स्तोकरूपकरणादेव सोमस्याप्तुत्वं समर्थ्यते अध्यात्मपक्षे - हे विष्णो व्यापनशील विष्णो, भक्तानामनुग्रहाय क्षयाय ब्रह्मात्मपुरनिवासाय विक्रमस्व विक्रमं पराक्रमं त्रैलोक्यक्रभणादिकं कुरु, तल्लीलावर्णनश्रवणादिभिरेव भक्तानां तत्पदप्राप्तिसम्भवात् । नोऽस्मान् उरु विस्तीर्णान् घृतयोनि; ब्रह्मरूपान् उपाध्यध्यारोपापोहनेन कृधि कुरु । हे घृतयोने, घृतं स्नेहो योनिः कारणं यस्य प्राकट्ये पुष्पं फलं स तोयं यो तत्सम्बुद्धौ । घृतं स्नेहं पिब प्रेमरसमास्वादय । प्रेमपरिप्लुतं पत्रपुष्पादिकमपि भगवानश्नाति, ' पत्रं । यज्ञपति ज्ञानोपास-मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ' ( भ. गी. ९.२६ ) इति गीतोक्तेः नादिनिर्वर्तयितारं प्र प्र तिर प्रकर्षेण वर्धय ज्ञानध्यानसामर्थ्यप्रदानादिना । तस्मै तुभ्यं स्वाहा मदीयं सर्वस्वमर्पितमस्तु । दयानन्दस्तु —— यथा विष्णुर्विक्रमते, तथा हे विष्णो विद्यादिगुणैर्व्यापनशील वीरपुरुष, त्वमुरु घृतयोनिरग्निर्यथा विक्रमस्व विद्या-फलमुरु क्रमस्व प्राप्नुहि । निवासार्थाय गृहाय विज्ञानादिप्राप्तये वा नोऽस्मान् कृधि घृतमाज्यं यथा सन् विजयेन पिबति तथा त्वं घृतं प्रपिब । यथा ऋत्विगादयो यज्ञपति संरक्ष्य दुःखं तरन्ति तथा त्वं स्वाहावाचं वदन् यज्ञेन यज्ञं प्र प्र तिर ' इति, तदपि न किञ्चित्, निर्मूलाध्याहार- विपरिणाम- मुख्यार्थत्याग - गौणार्थस्वीकारबाहुल्यात् पीत्वा बलादिभिः प्रकाशितो । ' हे घृतयोने विद्यादिसुशिक्षायुक्त, यथाग्निर्घृतं पीत्वा प्रदीप्यते, तथा त्वं स्वीयैर्गुणैर्धृतं वारं वारं यजमानं रक्षित्वा भव ' इत्यपि न सङ्गतम्, अक्षरबाह्यत्वात् । कथं गुणैर्वारं वारं घृतपानं भवति? ' यथा ऋत्विगादयो यज्ञक्रियया यज्ञस्य यज्ञात् पारं कुर्वन्ति, तथा त्वं यज्ञस्य क्रियया यज्ञं प्लवस्व ' इत्यप्यस्पष्टमेव । यज्ञस्य क्रियात्मकत्वेन पारगमनमर्थशून्यं वचः । भावार्थस्तु सर्वथा अक्षरासम्बद्ध एवेत्युपेक्षणीयः ॥ ३८ ॥
का क्रमण अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे व्यापनशील विष्णुदेव! भक्तों के अनुग्रह के लिये निवासार्थ त्रैलोक्य करें । ज्ञान, करें, हम लोगों को विस्तीर्ण ब्रह्मरूप बनावें । हे स्नेह के कारण प्रादुर्भूत होने वाले! आप स्नेह, प्रेमरस का आस्वादन हो । उपासना आदि का अत्यन्त अभिवर्धन करें । इस प्रकार के आपके लिये मेरा सर्वस्व समर्पित तथा गौण अर्थ के ग्रहण स्वामी दयानन्द का व्याख्यान मूलरहित अध्याहार, विपरिणाम ( परिवर्तन ), मुख्यार्थ के परित्याग यज्ञ क्रियात्मक ही की अधिकता के कारण अनुचित है । ' यज्ञक्रिया के द्वारा यज्ञ का पारगमन ' यह अर्थहीन उक्ति है, क्योंकि होता है ॥ ३८ ॥
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
म.३ ९ ] वेदार्थपारिजातभाष्यसहिता २०५ देव॑ सवितरे॒ष ते॒ सोम॒स्तं र॑क्षस्व॒ मा त्वा॑ दधन् । ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ २ ॥ उपा॑गा इ॒दम॒हं म॑नु॒ष्यान् स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ॥३९ ॥
' अथासाद्य स्रुचः । अप उपस्पृश्य राजानं प्रपादयति ' ( श. ३.६.३.१७ ) । उत्तरवेदेः पश्चाद्देशे बर्हिषि स्रुच आसाद्य राजानं सोमं प्रपादयति हविर्धानं प्रवेशयति । स दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति । तदेनमासादयति देव सवितरेष.... दभन्निति तदेनं देवायैव सवित्रे परिददाति गुप्त्यै ' ( श. ३.६.३.१८ ) । दक्षिणस्य हविर्धानस्य नीडे परिवृते मध्यप्रदेशे कृष्णाजिनोपरि सोमं निदध्यात् । कात्यायनोऽपि तथैवाह — ‘ आसा-द्याज्यानि दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन् सोमं निदधाति देव सवितरिति ' ( का. श्रौ. ८.७.१५ ) । उत्तरत्र विसर्गोपदेशाद् यजमानान्वारब्धोऽध्वर्युः सोमं निदध्यादित्यर्थः । ' अथानुसृज्योपतिष्ठते । एतत् त्वं देव सोम देवो देवाँ २॥ उपागा. रायस्पोषेणेत्यग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष देवानां भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्प्रत्यक्षं सोमान्निर्मुच्यते यदाहैतत् त्वं देव सोम देवो देवाँ २ ॥ उपागा... रायस्पोषेणेति भूमा वै रायस्पोषः सह भूम्नेत्येवैतदाह ' ( श. ३.६.३.१ ९ ) । ' एतत् त्वमिति विसृज्योपतिष्ठते ' ( का. श्री. ८.७.१६ ) । कृष्णाजिनस्योपरि सोमनिधानकाले सोमस्यान्वारम्भं कुर्वन् यजमानः सोमं विसृज्य हस्तेन मुक्त्वा एतत् त्वमित्युपतिष्ठेत । काण्व-शाखीयसायणभाष्यरीत्या तु कृष्णाजिने स्थापितं बद्धं सोमं विस्रंस्योपस्थानं कुर्यात् । महीधराचार्योऽपि तथैव । अग्नीषोमौ वा एतमन्तर्जम्भे दंष्ट्राकराले मुखे आदधाते यो दीक्षते । आग्नावैष्णवं ह्यदो दीक्षणीयं हविः । यो वै विष्णुः सोमः स हविर्वा एष देवानां भवति यो दीक्षते । सोमोऽयं यजमानस्यात्मनिष्क्रयरूपः । यस्मादस्य यजमानस्यादो विप्रकृष्टकाले दीक्षणीयेष्टौ हविरभूद् यो विष्णुः स सोम, सोमस्य यज्ञनिर्वर्तकत्वाद् यज्ञत्वम् । यज्ञद्वारा विष्णोः सोमत्वम् । दीक्षा संस्कारः । दीक्षणीयेष्ट्या संस्कृतत्वादेव दीक्षणीयेष्टिदेवतयोर्हविश्च एनं जम्भे स्थितम् | अतो जम्भाद्विमोक्षायाग्नीषोमीयं सोमं दत्वा आत्मनिष्क्रयणं कृतवान् भवतीत्यर्थः । तत्प्रत्यक्षं सोमान्निर्मु-च्यते। यदाह एतत् त्वं देव सोम देवान् उपागा इति । ' अथोपनिष्क्रामति । स्वाहा निर्वरुणस्य पाशान्मुच्य इति वरुणपाशे वा एषोऽन्तर्भवति योऽन्यस्यासंस्तत्प्रत्यक्षं वरुणपाशान्निर्मुच्यते यदाह स्वाहा निर्वरुणस्य पाशान् मुच्य इति ' ( श. ३.६.३.२० ) । ' स्वाहा निरिति निष्क्रम्य ' ( का. श्री. ८.७.१७ ) । हविर्धानान्निष्क्रम्य पूर्वं सङ्कोचिता अङ्गुलीर्विसृजेद्यजमानः । मन्त्रार्थ - हे सबके प्रेरक सविता देवता! आपको हम यह सोमरस अर्पित करते हैं, इसकी आप रक्षा कीजिये, आपके रक्षा कार्य में कोई विघ्न ( उपद्रव ) न हो । हे सोमदेव! तुम देवता हो, अतः देवताओं के पास चले जाओ । मैं यजमान धन और पुष्टि के साथ अपने परिजनों के साथ सुख से रहें । सोमरूप अन्न देवताओं को पहँचे । उस सोमदान के प्रभाव से मैं वरुण के पाश से मुक्त हो जाऊँ । जुह आदि आज्यस्थाली पर्यन्त पात्रों को स्थापित करके यजमान से सोम लेकर अध्वर्यु हविर्धान में प्रवेश करे । वह दक्षिण हविर्धान में मृगचर्म बिछाकर उस पर सोम रखे, सोम का उपस्थान करे और हविर्धान मण्डप से बाहर निकले ॥ ३ ९ ॥ भाष्यसार — कात्यायन श्रौतसूत्र ( ८.७.१६-१८ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' देव सवितः ' इस कण्डिका के मन्त्रों से कृष्णाजिन पर सोम का स्थापन, उपस्थान तथा निष्क्रमण आदि कार्य किये जाते हैं । शतपथ ब्राह्मण में तथा तदनुसार महीधर आदि आचार्यों के द्वारा याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट किया गया है ।
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
२०६ शुक्लयजुर्वेदसंहिता [ अ. ५ मन्त्रार्थस्तु हे देव द्योतमान सवितः सर्वस्य प्रेरक, एष सोमस्ते तवार्पितः । तं सोमं रक्षस्व । तादृशं सोमस्य पातारं त्वामसुरा मा दभन् मा हिंसिषुः । सौम्यं यजुः । हे सोम देव, त्वमिदानीं भवदीयान् देवान् उपागाः प्राप्तोऽसि । अहमपि मनुष्यः सन् एतदिदानीं मनुष्यानस्मदीयानुपागां प्राप्तोऽस्मि । न केवलमहमेव, किन्तु रायस्पोषेण सह धन-पोषणसहित एव, यजमानस्याग्नीषोमयोर्जम्भानुप्रवेशेन तदीयधनस्याप्यनुप्रवेशात् । स्वाहा सोमरूपमन्नं देवेभ्यो दत्त-मस्तु । अनेन देवानां सोमप्रदानेनाहं वरुणस्य पाशान्निर्मुच्ये निर्मुक्तोऽस्मि । यद्वा हानं हा, न हा अहा, स्वस्य अहा स्वाहा स्वात्यागः सोमेनात्मानं निष्क्रीयात्मीयोऽहमस्मीत्यर्थः I । तस्माद्धेतोर्निर्मुक्तोऽहं वरुणस्य सम्बन्धिनः पाशात् । ननु कुतो वरुणपाशप्रसङ्गः? इति तत्राह – वरुणपाशे वा एषोऽन्तर्भवति योऽन्यस्यासन् भवतीति तस्मात् स्वाहेति । स्वस्य देवानामात्मीयत्वसम्पादनेनान्यदयत्वव्यावृत्त्या वरुणपाशान्निर्मुक्तिः तथैव स्वीयस्य द्रव्यस्य देवार्थं दत्तत्वेनापि । यद्वा स्वाहा स्वः अहमिति विगृह्य वचनम्, तदनेन स्वः स्वरूपस्य सोमस्य देवानां प्रदानेन स्वस्य देवानामात्मीयत्वं सम्पद्यते । तस्मादप्यन्यत्वव्यावृत्त्या वरुणपाशान्निर्मुक्तिः । अध्यात्मपक्षे तु — हे देव जगदुत्पत्त्यादिक्रीडनपरायण सवित, जगत्प्रेरकान्तर्यामिन्, एष प्रत्यगात्मा ते तव सोमः सोमोपलक्षितः समर्पणीयः पदार्थ, ' अहमन्नम् ' ( तै. उ. ३.१० ) इति श्रुतेः । तं रक्षस्व मायामयेभ्यः कामक्रोधादिभ्य. शान्तिदान्तिब्रह्मात्मज्ञानादिसम्पादनेन पालय । नन्वेते बलवन्तो मामेव बाधिष्यन्त इति तत्राह मा त्वा भन्निति । एते मायासहिता अपि कामादयः शरणागतपालकं त्वां मा दभन्, किं हिंसितुं समर्था भविष्यन्ति? कथमपि न, तव नित्यनिरस्तसमस्तानर्थसत्ताकत्वात् । यथा सूर्यस्य संमुखे तमिस्रा ( रात्रिः ) स्थातुं न शक्नोति, तथा मायापि त्वत्संमुखे स्थातुं न शक्नोति, किमुत कामादयः? ' विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ' ( २.५.१३ ) इति श्रीमद्भागवत-वचनात् । हे सोमभूत द्योतमान प्रत्यगात्मन् देवः सन् त्वं देवान् देवदेवं परमात्मानमुपागाः प्राप्तवानसि । पूजायां बहुवचनम् । साधकश्च तथैवानुभूय वक्ति — इंदं प्रत्यक्षमहं रायस्पोषेण रायो लक्ष्म्या दैवीसम्पदः पोषेण भगवदनुग्रहेण पुष्ट्या मनुष्यान् मननशीलान् तत्त्वविद उपागां प्राप्तोऽस्मि । तत्प्रसादात्तस्मै ब्रह्मणे परमात्मने स्वाहा स्वात्मानमर्पयामि । तत एव वरुणस्य सर्वावरकस्याज्ञानस्य पाशात् संसारबन्धनान्निर्मुच्ये निर्मुक्तो भवामि । दयानन्दस्तु - ' हे देव सवितः सभाध्यक्ष, यथाहं भवत्सहायेन स्वकीयमैश्वर्यं रक्षामि, तथा त्वं य एष ते सोमो ऽस्ति, तं रक्षस्व । यथा मां शत्रवो न हिंसन्ति तथा त्वामस्मत्सहायेन मा दभन् । हे देव सोम, देवस्त्वं यथैतदस्माद् देवानुपागाः, तथाहमप्युपागाम् । यथाहमिदमनुष्ठाय रायस्पोषेण सह वर्तमानो मनुष्यान् देवांश्चेत्य स्वाहा वरुणस्य पाशात्रिर्मुच्ये, तथा त्वमपि निर्मुच्यस्व ' इति, तथा हिन्दी भाष्ये तु - ' हे देव सर्वविद्याप्रकाशक सवित ऐश्वर्यवन् सभाध्यक्ष, अध्यात्मपक्ष में अर्थ इस प्रकार है -- हे देव! जगदुत्पत्ति आदि क्रीडा करनेवाले, जगत् के प्रेरक, अन्तर्यामी, यह प्रत्यगात्मा आपका सोम के समान समर्पणीय पदार्थ है । इसे मायामय काम, क्रोध आदि पदार्थों से शान्ति, ज्ञान आदि के सम्पादन द्वारा सुरक्षित कीजिये । ये मायासहित काम आदि शरणागतपालक आपको क्या दबा सकेंगे? जिस प्रकार सूर्य के संमुख रात्रि नहीं टिक सकती, उसी प्रकार माया भी आपके संमुख नहीं स्थित हो सकती । हे सोमरूप प्रत्यगात्मा, तुमने देव होकर देवाधिदेव परमात्मा को प्राप्त किया है । साधक कहता है कि मैं दैवी सम्पत् तथा भगवदनुग्रह से तत्त्ववेत्ताओं को प्राप्त हूँ । उसकी कृपा से परमात्मा के लिये स्वयं को समर्पित करता हूँ । उससे आवरणकर्ता अज्ञान के पाश, संसारबन्धन से मुक्त होता हूँ । स्वामी दयानन्द के संस्कृत तथा हिन्दी अर्थ की उक्तियों के प्रामाण्य में कोई मूल न होने के कारण अनौचित्य है । सोम शब्द का अर्थ ' ऐश्वर्यसमूह ' करना भी अप्रामाणिक है ॥३ ९ ॥
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
म.३ ९ -४० ] वेदार्थपारिजात भाष्यसहिता २०७ यथाहं भवत्साहाय्येन स्वीयमैश्वर्यं रक्षामि, तथैव त्वं स्वीयं सोममैश्वर्यसमूहं रक्षस्व । यथा मां शत्रवो न हिंसन्ति, तथैव मत्साहाय्येन त्वामपि मा दभन् । हे देव सुखदातः सोम, सज्जनमार्गेषु जलानां सञ्चालक, त्वमेतस्मात् कारणाद् हे सभाध्यक्ष, पूर्णविद्याप्रकाशे तिष्ठन् देवानुपागाः श्रेष्ठविदुषां समीपं गच्छ, अहमपि गच्छामि । यथाहमेतदाचर्य अत्यन्त-धनस्य पुष्ट्या सह मनुष्यान् देवान् विदुषः प्राप्य स्वाहा समीचीनां वाणीं वदामि दुःखैराच्छादकानां दुष्टानां जनानां तिरस्कारकारकान् पाशान् बन्धनान्निरन्तरं मुच्ये मुक्तः स्याम् तथा त्वमपि मुच्यस्व ' इति, तदुभयमपि यत्किञ्चित्, सर्वस्यैतस्य संवादस्य प्रामाणिकत्वे मानाभावात् । न च तत्रास्य मन्त्रस्यैव प्रामाण्यम्, मन्त्रे तादृशपदानामभावात्, लुप्तोपमालङ्कारादिकल्पनया त्वद्वाक्यानामप्यन्यथानयनसम्भवात् । सोमपदस्य ऐश्वर्यसमूहोऽर्थ इत्यपि निर्मूलम् । ‘ यथा मां शत्रवो न हिंसन्ति ' इत्यपि मन्त्रबाह्यमेव । यः सर्वविद्याप्रकाशको यश्चैश्वर्यसमूहवान् यश्च जनानां सन्मार्गेषु प्रवर्तकः, स विद्वांसं किमर्थमुपगच्छेत्? उपदेष्टव्यश्च ततोऽन्यं विद्वांसं किमर्थमुपयास्यति? दुःखैराच्छादकानां तिरस्कारकारकस्य कुतः पाशत्वमित्यपि चिन्त्यमेव ॥ ३ ९ ॥ अग्ने॑ व्रतपा॒स्त्वे व्र॒तपा॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वय॒ या मम॑ त॒नूस्त्वय्यभू॑दि॒यं सा मयि॑ । य॒था॒ाय॒थं नौ व्रतपते व्र॒तान्यनुं मे दीक्षां दीक्षाप॑ति॒रम॒ स्तानु॒ तप॒स्तप॑स्पतिः ॥४० ॥
‘ अथेत्याहवनीये समिधमभ्यादधाति । अग्ने व्रतपा... अथात्राङ्गुलीर्विसृजते ' ( श. ३.६.३.२१ ) । अग्ने व्रतपा इत्याहवनीये समिधमाधाय मदन्तीरुपस्पृश्याङ्गुलीर्विसृजते । पत्नी गार्हपत्ये तूष्णीं समिधमाधाय स्वमदन्तीरुपस्पृश्या-लीर्विसृजते । तप्ता आपो मदन्त्यः । आग्नेयं यजुः । हे अग्ने, व्रतपाः स्वभावतस्त्वं सर्वेषां व्रतानां पालकोऽसि । तस्मादिदानीमपि त्वमेव व्रतपाः । त्वं मदीयस्य व्रतस्य पालको भवेति शेषः । अग्ने व्रतपते त्वं व्रतानां पतिः । पूर्वत्र यजमानोऽग्निशरीरस्वशरीरयोर्व्यत्ययं कृत्वा स्वकीयव्रतपालनं प्रार्थितवान् । इदानीं व्रतस्य पालितत्वाद् व्यत्ययं परिहृत्य स्वशरीरस्वीकाराभिप्रायेण व्रतपास्तव तनूरित्याह- हे अग्ने, व्रतपालनप्रार्थनाकाले तव सम्बन्धिनी या तनूर्मय्यवस्थि-तासीत्, सैषा तनूरद्य त्वय्यवतिष्ठताम् । यो या उ या च मम तनूस्त्वय्यासीत् सा इयं मयि भवतु । हे व्रतपते व्रतपरिपालकाग्ने, नौ व्रतानि आवयोः कर्माणि यथायथं स्वस्वसम्बन्धमनतिक्रम्यातिष्ठन्ताम् । अनुष्ठानरूपं व्रतं ममास्तु तत्पालनरूपं व्रतं तवास्तु । किञ्च, दीक्षापतिर्दीक्षायाः पालकोऽग्निर्मे दीक्षां मदीयदीक्षार्थं व्रतं नियममन्वमंस्त अनुमतवान् । अङ्गीकृतवान् । तपस्पतिः तपसः पालकोऽग्नि, तपोऽनु मदीयं तपोऽनुमतवान्, उपसद्रूपतपोऽङ्गीकृतवानित्यर्थः । तपः-प्रधानत्वात् तपःशब्देनोपसद उच्यन्ते । यद्वा-- ' व्रतपा ' इत्यामन्त्रितस्याभ्यासभूयस्त्वबोधनाय । ' अभ्यासे भूयांसमर्थं मन्यन्ते ' इति यास्कोक्तेः । ' त्वे ' इत्यत्र द्वितीयार्थे शेप्रत्ययः । अतिशयेन त्वं व्रतपस्य गोपा | मन्त्रार्थ - हे अग्निदेव! आप स्वभाव से सब व्रतों के रक्षक हैं, अतः मेरे व्रत की भी आप रक्षा कीजिये । आपका जो शरीर मुझमें स्थित हआ था, वह पुन: आपका ही हो जाय और जो यह मेरा शरीर आपमें स्थित था, अब वह मेरा हो जाय । हे व्रत के पालक! हमारा और तुम्हारा कर्म का सम्बन्ध कभी न टूटे । हे दीक्षा के स्वामिन्! आपने मेरी दीक्षा को अंगीकार किया है । हे उपसद के पालक अग्नि! आपने मेरे उपसदरूप व्रतपालन ( तप ) को स्वीकार किया है । इस मन्त्र से आहवनीय अग्नि में समिधा रख कर मदन्ती का स्पर्श कर उसे गाड़ कर मुष्टि की मेखला बनावे || ४० ॥ भाष्यसार — कात्यायन श्रौतसूत्र ( ८.७.१ ९ - २१ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोगानुसार ' अग्ने व्रतपाः ' इस मन्त्र से आहवनीय अग्नि में समिदाधान करने के अनन्तर यजमान अङ्गुलि- विसर्ग करता है । याज्ञिक विनियोग के अनुकूल अर्थ शतपथ ब्राह्मण में उपटि है ।
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
२०८ शुक्लयजुर्वेदसंहिता [ अ. ५ ' अग्ने - तपस्पतिरिति तत्प्रत्यक्षमग्नेर्निर्मुच्यते स स्वेन सतात्मना यजते तस्मादस्यात्राश्नन्ति मानुषो नाश्नी- भवति तस्मादस्यात्र गृह्णन्ति मानुषो हि भवत्यथ यत्पुरा नाश्नन्ति यथा हविषोऽहुतस्य नाश्नीयादेवं स्वशरीरस्वीकारेण तत्तस्माद्दीक्षितस्य तत्प्रतीत्यर्थमग्ने-यादथात्राङ्गुलीर्विसृजते ' ( श. ३.६.३.२१ ) । स्वशरीराग्निशरीरयोर्व्यत्ययपरिहारेण । दीक्षितान्न-निर्मुच्यते । पूर्वमग्न्यात्मना सता इदानीं स स्वेन सतात्मना यजते, स्वशरीरस्य पुनः प्राप्तत्वात् हीति । नाम-निषेधभावाभावयोरयमेवाभिप्राय इत्याह — तस्मादस्यात्राश्नन्तीति । तस्मादिति हेतुमेव विवृणोति – मानुषो यथा देवातिथिषु ग्रहणस्यापि मानुषभावः । अतो वैसर्जनहोमपर्यन्तं दीक्षितस्य नाम न गृह्णीयादिति विधिः परिकल्प्यते नामग्रहण । भोजने अस्यातः मनुष्यो नाश्नीयात् एवं तदपि भवति, धनस्यापि यजमानेन सह प्रवेशादित्यभिप्रायः । पूर्वं न कुर्युः, ' न कुर्वन्ति ' ( का. श्री. ८.७.२१ ) । अत ऊर्ध्वमस्य दीक्षितस्य नामोच्चारणं भोजनं च कुर्युः अर्थादतः प्रायश्चित्तम् । दीक्षितस्यान्नमश्नीयात् ', ' न दीक्षितस्य नाम गृह्णीयात् ' इति वचनाभ्याम् । व्यतिक्रमे भोक्त्रादीनां अध्यात्मपक्षे — हे अग्ने हे परमेश्वर! त्वमतिशयेन व्रतपालकोऽसि । या तव तनूः शरीरं मयि ध्येयरूपेणासीत्, नौ आवयोर्व्रतानि कर्माणि सा त्वयि भवतु । या च मम तनूस्त्वय्यनुग्राह्यरूपेणासीत्, इयं सा मयि तिष्ठतु । यथायथं यथायथं यथास्वं सम्बन्धमनतिक्रम्य सन्तु । मय्यनुग्राह्यानुगुणानि त्वयि चानुग्राहकानुगुणानि व्रतानि भवन्तु । किञ्च, त्वत्प्रसादनाय तदनुगुणकर्मोपासनादिदीक्षाया अपि त्वमेव पालकः त्वदनुग्रहमन्तरेण तदसिद्धेः ' सोऽहं तवाङ्घ्यु- मतिः पगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद्यर्हि संसरणापवर्गस्त्वय्यब्जनाभ सदुपासनया त्वदङ्गीकारेणैव स्यात् ॥ ' ( भा. पु. १०.४०.२८ ) इति श्रीमद्भागवतवचनात् । मे दीक्षां दीक्षार्थं नियमममंस्त अङ्गीकृतवान् तत्पूर्तेरपि सम्पन्नत्वात् । 1 दयानन्दस्तु - ' यथा व्रतपाः सत्यपालको विद्वान् स्यात्तथैव हे अग्ने विशेषज्ञानवन्, यथा सत्यविद्यागुणोपेत सा आचार्य आसीत्तथैवाहं तव स्याम् । या तव तनूर्विद्यादिगुणेषु व्यापको देहोऽस्ति सा मयि । यैषा त्वयि सखायौ मतिरस्ति भूत्वा मयि स्यात् । यो या मम तनूः सा त्वयि भवतु । यथाऽयं जनो व्रतपतिर्भवति तथा त्वं चाहं च नौ । यथायथं व्रतानि सत्याचरणान्यनुचरेव । हे मित्र, यथा तव दीक्षापतिस्तुभ्यं दीक्षामन्वमंस्त, तथा मम दीक्षामन्वमंस्त मित्रं यथा ते तव तपस्पतिस्त्वदर्थं तपोऽन्वमंस्त, तथा मे ममापि तपस्पतिर्मदर्थं तपोऽन्वमंस्त ' इति, हिन्द्यां तु —'तव मय्यपि भवतु मम मित्रं त्वयि बुद्धिर्भवतु । या मे तनूर्विद्याविततिः सा त्वयि । मम पाठकास्त्वयि सन्तु, तथा । अयं आवां तव शिष्यो मयि बुद्धिर्भवतु | हे सत्याचरणपालक, यथा सत्यगुणानां सत्योपदेशानां च पालको विद्वान् भवति, तथा ममापि मित्रे भूत्वा सत्याचरणान्यनुचरेव । हे मित्र, यथा ते दीक्षापतिर्यथोपदेशपालयितारं त्वां सत्योपकरणममंस्त, मामनुजानातु । यथा ते तपस्पतिराचार्योऽखण्डब्रह्मचर्यपालकस्तुभ्यं प्रथमं क्लेशकरं पश्चात् सुखकरं ब्रह्मचर्यमनुजानाति अध्यात्मपक्ष में अर्थ इस प्रकार है— हे अग्नि परमेश्वर! आप श्रेष्ठ व्रतरक्षक हैं । आपकी जो मूर्ति ध्येय रूप से मुझमें विद्यमान थी, वह आपमें स्थित हो तथा जो मेरा शरीर अनुग्राह्य के रूप में आपकी दृष्टि में था, वह मुझमें बना रहे । यथावत् हम दोनों अपने अपने कार्यों को सम्पादित करें । मुझमें अनुग्राह्य गुण तथा आपमें अनुग्राहक गुण व्रत के रूप में नहीं रहें । होंगे आपकी । मैंने प्रसन्नता दीक्षा के लिये किये जाने वाले उपासना, कर्म आदि के भी आप ही रक्षक हैं । आपकी कृपा के बिना वह सिद्ध के लिये नियम को स्वीकृत किया है, क्योंकि आपकी स्वीकृति से ही व्रतपूर्ति सम्भव हो सकती है । स्वामी दयानन्द के व्याख्यान के अनुरूप अर्थ वाले शब्द मूल मन्त्र में नहीं है । अतः वह व्याख्या बालभाषित की भाँति है । ' तनु ' शब्द से ' मति ' अर्थ का ग्रहण करने में कोई प्रमाण नहीं है ॥ ४० ॥
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
म.४०-४१ ] वेदार्थपारिजात भाष्यसहिता २० ९ तथा ममापि तथाभूत आचार्यो मामनुजानातु ' इति, तदेतत्सर्वं केवलं बालविलसितम्, तथार्थकानां पदानां मूलेऽभावात्, तनुपदेन मतेर्ग्रहणे मानाभावात् । मतेः परिवर्तनमपि निर्मूलं निष्प्रयोजनं च । कथञ्चिदाचार्यमतिः शिष्यायापेक्षितापि स्यात् तथापि शिष्यमतिराचार्याय नापेक्षिता भवति । ' यथा ते दीक्षापतिस्तथा ममापि स्यात् ' इत्याद्यपि निरर्थकं प्रला-पमात्रम् । एकस्य सौष्ठवे निश्चित एव तादृशस्य कामना सम्भवति । तव शिष्यो मयि बुद्धिरित्यादिकं तु विचित्रमेव पाण्डित्यम् । वस्तुतस्तु तद्व्याख्यानस्य स्वरूपनिरूपणमेव तन्निराकरणम् ॥४० ॥
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य॒ न॒स्कृधि । घृ॒तं घृ॒तयोने पिव॒ प्र प्र॑ य॒ज्ञप॑ति॑ तिर॒ स्वाहा॑ ॥४१ ॥
यूपसम्पादनमन्त्राः - ' गृहेषु, यूपाहुति जुहोति चतुर्गृहीतं स्रुवेण वोरु विष्णविति ' ( का. श्रौ. ६.१.३-४ ) । यूपच्छेदनार्थमरण्यं गच्छन् स्रुवेण स्रुचा वा चतुर्गृहीतमाज्यं गृहीत्वा यूपाहुतिमाहवनीयेजुहुयात् । शतपथे च - - ' ' यूपं व्रक्ष्यम् वैष्णव्यर्चा जुहोति ' ( श. ३.६.४.१ ) । व्रक्ष्यन् छेत्स्यन्, वैष्णव्या ' उरु विष्णो विक्रमस्व ' इत्यनयर्चा आहवनीये यूपाहुति जुहुयात् । ' द्यां मा लेखीरन्तरिक्षं मा हिंसी पृथिव्या सम्भव ' ( वा. सं. ५.४३ ) इति मन्त्रेण वा । मन्त्रादौ लोकत्रयाक्रमणस्योक्तत्वेन विष्णुसाम्याद्वैष्णवत्वम् । तदर्थवाच्यृचो वैष्णवत्वं युक्तम् । ' यद्वेव वैष्णव्या जुहोति । यज्ञो वै विष्णुर्यज्ञेवैतद्यूपमच्छेति तस्माद्वैष्णव्यर्चा जुहोति ' ( श. ३.६.४.२ ) । ऋचो वैष्णवत्वं प्रशंसति – यद्वेवेति । यज्ञेनैव यूपमभिलक्ष्य गतवान् भवति । ' स यदि स्रुचा जुहोति । चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यद्यु स्रुवेण स्रुवेणैवोपहत्य जुहोत्यु विष्णो. स्वाहेति ' ( श. ३.६.४.३ ) । मन्त्रव्याख्यानं तु पूर्ववदेव । अध्यात्मपक्षे - हे विष्णो व्यापनशील जीवात्मन्, क्षयाय दोषाणामपगमाय ब्रह्मनिवासाय उरु विक्रमस्व बहुधा साधनानुष्ठानलक्षण्यं पराक्रमं कुरु । नोऽस्मान् त्वत्सम्बन्धिन उरु कृधि गौरवान्वितान् कुरु । हे घृतयोने, घृतं रसः, रसो ब्रह्म, ‘ रसो वै सः ' ( तै. उ. २. ७ ) इति श्रुतेः । तद्योनिः कारणं यस्यासौ घृतयोनिः तत्सम्बुद्धौ हे ब्रह्मपुत्र, ' अमृतस्य पुत्राः ' ( वा. सं. ) इति मन्त्रवर्णात् । घृतं रसं ( भक्तिरसं ) पिब सेवस्व । परमात्मरूपो रस एव भक्तिरसतामुपगच्छति । ‘ भगवान् परमानन्दस्वरूपः स्वयमेव हि । मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥ ' इत्यभियुक्तोक्तेः । तेनैव भक्तिरसेनैव यज्ञपतिं यज्ञभोक्तारं परमात्मानं प्र प्र तिर प्रवर्धय प्रहर्षय, स्वाहा तस्मै स्वाहा त्वदीयं सर्वं सुहुतमस्तु ॥४१ ॥
मन्त्रार्थ - हे व्यापक आहवनीय अग्निरूप परमात्मन्! आपके पराक्रम की हमें अपेक्षा है । ब्रह्मसद् में निवास के निमित्त हमें आप समृद्ध बनाइये । हे घृत से बढ़ने वाले अग्निदेव! आप घृत पीजिये, यजमान को समृद्ध कीजिये । हम आपके निमित्त यह आहुति देते हैं । यूप काटने के लिये वन को जाता हुआ यजमान अपनी सफलता के लिये स्रुवे में घी लेकर इस मन्त्र से आहवनीय अग्नि में हवन करे ॥ ४१ ॥
भाष्यसार - यूपनिर्माण के लिये काष्ठच्छेदन हेतु वन में जाते हुए ' उरु विष्णो ' इस मन्त्र से आहवनीय अग्नि में घृत की आहूति प्रदान करे, यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६.१.४ ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में यह अर्थ है- हे व्यापक जीवात्मा! दोषों के निराकरण तथा ब्रह्म में निवास के लिये अनेकविध साध-नानुष्ठान आदि पराक्रम का सम्पादन करो । तुमसे सम्बद्ध हम लोगों को गौरवान्वित करो । हे ब्रह्मरूप रस के तनय, तुम भक्तिरस का सेवन करो । परमात्मरूप रस ही भक्तिरस के रूप में प्राप्त होता है । उस भक्तिरस से ही यज्ञभोक्ता परमात्मा को निरन्तर प्रसन्न करो । उस परमात्मतत्त्व के लिये तुम्हारा सर्वस्व समर्पित हो । स्वामी दयानन्द के अर्थ की समीक्षा के लिये पूर्वभाष्य ( ५.३८ ) द्रष्टव्य है ॥ ४१ ॥
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
२१० शुक्लयजुर्वेदसंहिता [ अ. ५ अत्य॒न्याँ २॥ अगा॒ नान्याँ २ ॥ उपा॑गाम॒र्वाक् त्वा॒ परेभ्योऽवि॑िदं प॒रोऽव॑रेभ्यः । तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्याये॑ दे॒वास्त्वा॑ दे॒वय॒ज्याये॑ जुषन्ता॒ विष्ण॑वे॒ त्वा । ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिंसीः ॥४२ ॥
' यदाज्यं परिशिष्टं भवति । तदादत्ते यत्तक्ष्णः शस्त्रं भवति तत्तक्षादत्ते त आयन्ति स यं यूपं जोषयन्ते तत्तक्षा ' ( श. ३.६.४.४ ), ‘ तमेवमभिमृश्य जपति ' ( श. ३.६.४.५ ) । अवशिष्टमाज्यमध्वर्युरादत्ते । यत्तक्षकस्य शस्त्रं वास्यादिकं अभिमर्शनं आदत्ते । तत् शिलादौ जोषयन्ते वासीनिशानाय तं यूपमेवमभिमृश्य जपति ‘ अत्यन्यान् ' इत्यादिमन्त्रम् । अथवा न कर्तव्यम् । पश्चात् प्राङ् तिष्ठन्नेवाभिमन्त्रयते । कात्यायनोऽपि ' आज्यशेषमादाय सतक्षा गच्छति यूपमभिमृशत्यन्यानिति प्राङ् तिष्ठन्नभिमन्त्रयते वेति ' । ( का.श्रौ. ६.१.५-७ ) । तक्ष्णा वर्धकिना सहितो यूपाहुतिशेषमाज्यमादाय यूपच्छेदनायारण्यं अमुं मन्त्रं पठेत् । गच्छेत् । तत्र यूपीयं वृक्षमभिमृशेत् । अथवा यूपस्य वृक्षस्य पश्चात् प्राङ् तिष्ठन् यूपवृक्षं विलोकयन् वृक्षा द्विविधा यूपा अयूपाश्च । पलाशखदिरादयो यूपाः, निम्बजम्बीरादयस्त्वयूपाः । तदाह कात्यायनः रौहितकान् - ' पालाशं ' ( का बहुल- . श्रौ. पर्णमशुष्काग्रमूर्ध्वशकलशाखं मध्याग्रोपनतमव्रणम् ' ( का. श्रौ. ६.१.८ ), ' अभावे खदिर- विल्व- च वक्रत्वचम्, ६.१.९ ) । अशुष्कमार्द्रमग्रं यस्य तम्, ऊर्ध्वाः सकलावेष्टनत्वचः शाखाप्ररोहाश्च यस्य तम् मध्येऽग्रे नास्ति व्रणं ग्रन्थिर्यस्य तमिति । मन्त्रार्थस्तु – हे पुरोवर्तियूपवृक्ष, त्वत्तोऽन्यान् कांश्चिद्यूप्यानपि समप्रदेशादिजन्मादिलक्षणरहितान् अत्यगाम् लक्षणयुक्तं अति-क्रान्तवानस्मि | अन्यांस्त्वयूपान् नोपागां न प्राप्तवानस्मि । अर्वाक् परेभ्य उत्कृष्टेभ्यो लक्षणेभ्यः प्रत्यासन्नं त्वामविदं लब्धवानस्मि । पुनः कीदृशम्? परोवरेभ्यो ऽत्यन्तनिकृष्टलक्षणेभ्यो दूरवर्तिनं तद्रहितमिति यावत् । अर्वाक् त्वा परेभ्योऽविदं ये त्वत्तः पराञ्चो वृक्षास्तेभ्यस्त्वामर्वाग् अविदम्, विदिर्लाभार्थो ज्ञानार्थो वा, लब्धवान् ज्ञातवान् वा । परः परस्तादवरेभ्यस्त्वामविदमित्यनुवर्तते । तं त्वा लक्षण्यं जुषामहे लक्षणानामुत्कर्षापकर्षापेक्षयैव निकटत्वदूरत्वाऽ- तस्य पालक र्वाक्त्वपराक्त्वादिकं मन्तव्यम् । तथा च पूर्वस्मिन् सायणसम्मते व्याख्याने उक्तमेव । हे वनस्पते देव, । हे दीप्यमान वृक्ष, तं तादृशं त्वा देवयज्यायै देवयागार्थं जुषामहे सेवामहे । देवा अपि देवयागार्थं त्वां सेवन्ताम् । अवरेभ्यो यूपवृक्ष, त्वा त्वां विष्णवे यज्ञार्थमुपस्पृशानीति शेषः । यद्वा परेभ्यो दूरवर्तिभ्योऽर्वाग् निकटं त्वामविदम् निकटेभ्यः परः परस्तादतिनिकटमविदम्, ' विद्लृ लाभे ', ' पुषादिभ्योऽङ् ' ( पा. सू. ३.१.५५ ) इत्यङ् लुङि रूपम् । ' अथ मन्त्रार्थ - हे आगे वर्तमान यूप वृक्ष! मैं तुम्हारे पास अन्य वृक्षों को छोड़ कर आया हैं, यूप के योग्य अन्य वृक्षों के समीप नहीं गया । तुमको दूर के वृक्षों से निकट और निकट के वृक्षों में श्रेष्ठ पाकर आया हूँ । हे वन के पालक देव! देवयज्ञ के निमित्त हम तुम्हारी सेवा करते हैं । देवता भी देवयजन के निमित्त तुम्हारी सेवा करें । हे यूपवृक्ष! परमात्मा की प्रीति के लिये हम तुम्हारा स्पर्श करते हैं । हे औषध! तुम वज्र के भय से मेरी रक्षा करो । हे कुठार! इस यूप करता के हुआ अन्य स्थान का व्याघात मत करो ॥ यजमान हतशेष घृत लेकर तक्षा ( बढ़ई ) के साथ वन में जाकर इस मन्त्र का पाठ लगावे यूप के योग्य एक वृक्ष का पूर्वाभिमुख हो अभिमर्शन और अभिमन्त्रण करे । स्रुवे में विद्यमान हतशेष घृत को वृक्ष पर और कुशतरुण को रखकर उसके ऊपर कुठार से प्रहार करे ॥ ४२ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ६.१५ - १२ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' अत्यन्याम् ' इस कण्डिका के मन्त्रों का विनियोग यूप - वृक्ष का स्पर्श करते हुए अभिमन्त्रण में, स्रुव द्वारा स्पर्श तथा परशु से प्रहार करने में किया गया है । शतपथ ब्राह्मण में उपदिष्ट व्याख्यान याज्ञिक प्रक्रिया के अनुकूल है ।
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
म. ४२ ] वेदार्थपारिजातभाष्यसहिता २११ स्रुवेणोपस्पृशति । विष्णवे त्वेति.... विष्णवे त्वेति ' ( श. ३.६.४.९ ), ' अथ दर्भतरुणकमन्तर्दधाति । ओषधे त्रायस्वेति ' ( श.३.६.४.१० ) । कात्यायनोऽपि - ' स्रुवेणोपस्पृशति विष्णवे त्वेति ' ( का.श्रौ. ६.१.११ ) । घृताक्तेन स्रुवेण छेदनप्रदेशे यूपवृक्षमुपस्पृशेदिति । ' ओषध इति कुशतरुणकं तिरस्कृत्य स्वधित इति परशुना प्रहरति ' ( का. श्रौ. ६.१.१२ ) । कुशपत्रमेकं सन्धाय कुठारेणान्तर्हितस्य तृणस्योपरि छेदनाय प्रहारं कुर्यात् । तथा च मन्त्रार्थ: -हे यूपवृक्ष, त्वा त्वां विष्णवे यज्ञार्थमुपस्पृशामीति शेषः, ' यज्ञो वै विष्णुः ' इति श्रुतेः । हे ओषधे, त्रायस्व मां स्वधितिभयाद्रक्ष । स्वधिते परशो एनं यूपं मा हिंसीः मा वधीः । मन्त्रमिमं शातपथी श्रुतिरेवं व्याख्यातंवती — ‘ अर्वाग्घ्येनं परेभ्यो वृश्चति य एतस्मात् पराञ्चो भवन्ति परोऽवरेभ्य इति परो ह्येनमवरेभ्यो वृश्चति य एतस्मादर्वाञ्च भवन्ति तस्मादाहार्वाक् त्वा परेभ्योऽविदं परोऽवरेभ्य इति ' ( श. ३.६.४.६ ) । परेभ्योऽर्वाग्घ्येनं वृश्चति, अवरेभ्यश्च परस्तादेनं वृश्चति ।— तद्यथा बहूनां मध्यात् साधवे कर्मणे जुषेत, स रातमनास्तस्मै कर्मणे स्यादेवमेवैनमेतद्बहूनां मध्यात् साधवे कर्मणे जुषते स रातमना व्रश्चनाय भवति ' ( श. ३.६.४.७ ) । मन्त्रतात्पर्यमाह — यथा बहूनां पुरुषाणां मध्यादेकमवकृष्य साधवे शोभनाय कर्मणे जुषेत सेवेत, स जोष्टा रातमना दत्तचित्तः कर्मार्थमङ्गीकृतमनस्कः सन् तस्मै कर्मणे तत्कर्म कर्तुं प्रवृत्तो भवेत्, एवमेव बहूनां वृक्षाणां मध्यादेकं वृक्षं साधवे कर्मणे जुषामि । ' तद्वै समृद्धं यं देवाः साधवे कर्मणे जुषान्तै तस्मादाह देवास्त्वा देवयज्यायै ' ( श. ३. ६.४.८ ) । जुषान्तै जुषेरन् । देवानां जोषणाभिधानस्य प्रार्थनाया. प्रयोजनमाह — तद्वै समृद्धं यं देवाः साधवे कर्मणे जुषेरन्निति । ' वज्रो वै परशुस्तथो हैनमेष वज्रः परशुर्न हिनस्त्यथ परशुना प्रहरति ' ( श. ३.६.४.१० ) । एवं पूर्वोक्तब्राह्मणानुसारेण मन्त्रस्यायमर्थः सायणेन स्पष्टीकृतः— ' हे पुरोवर्तिपालाशादिरूप वृक्ष, तव प्राप्तेः पूर्वमन्यान् यूप्यानपि नानाजातीयान् वृक्षानत्यगाम् अतिक्रम्य त्वां प्राप्तोऽस्मि । एवमन्यान् ब्राह्मणोक्तातिरिक्तानितः परमपि नोपागां नोपगच्छामि । त्वा त्वां परेभ्यस्त्वत्तोऽप्युपरि वर्तमाना ये सन्ति, तेभ्योऽर्वागधस्तात् प्रथमं वर्तमानमविदम् । तथा अवरेभ्यः पूर्वभाविभ्यः सकाशात् त्वां परः परस्ताद्वर्तमानमविदं लब्ध-वानस्मि । आद्यन्तयोर्वर्तमानानां वातातपादिकृतदोषसम्भवान्निकृष्टत्वम् । अतः सर्वेषां मध्ये वर्तमानं त्वामेव निर्दोषमविदं ज्ञातवानस्मि । हे देव वनस्पते, तादृशं वर्तमानं यूपार्हं त्वां देवयज्यायै यागार्थं जुषामहे प्रीत्या सेवामहे ' इति । अध्यात्मपक्षे तु — हे सर्वेश्वर, अन्यान् त्वदतिरिक्तान् सर्वानतीत्य त्वामगां त्वां परित्यज्य नान्यान् कदाचिद-प्युपागामुपगच्छामि । परेभ्यः परः परस्ताद् महतो महीयांसमवरेभ्योऽर्वाग् अणोरणीयांसं त्वामेवाविदं विज्ञातवानस्मि, विज्ञाय च प्राप्तवानस्मि । तं तादृशं त्वां सकलविरुद्धधर्माश्रयत्वात् सर्वकारणं परमेश्वरं त्वा जुषामहे प्रीत्या सेवामहे । हे देव द्योतमान स्वप्रकाश परमेश्वर वनस्पते, ( वनस्पतिशब्दो यद्यप्यश्वत्थादिषु रुढस्तथापि यौगिकीं वृत्तिमाश्रित्य ) संसारारण्यपते संसारपालक हे परमेश्वर, त्वां देवयज्यायै देवानां यजनाय देवानामपि देवं सर्वदेवात्मकं त्वामस्माक-मिन्द्रियाणि मनोबुद्धिचित्ताहङ्काराश्च त्वां प्रीत्या सेवन्ताम् । विष्णवे व्यापनशीलाय त्वत्प्राप्तय एव त्वां जुषामः । हे -अध्यात्मपक्ष में यह अर्थ है – हे सर्वेश्वर परमात्मन्, आपके अतिरिक्त सबको छोड़कर मैं आपके पास आया हूँ । मैं आपको छोड़कर अन्यों के प्रति कभी न जाऊँ । महान् से भी महत्तर तथा अणु से भी अणुतर आपको ही मैंने जाना है, तथा जान कर प्राप्त किया है । ऐसे समस्त विरुद्ध धर्मों के आश्रय रूप होने के कारण सबके कारणभूत आप परमेश्वर की हम प्रीतिपुरःसर सेवा करते हैं । हे स्वप्रकाश परमेश्वर! संसाररूपी अरण्य के पालक, देवताओं के यजन के लिये सर्वदेवात्मक आपको हमारी सब इन्द्रियां, मन, बुद्धि, चित्त, अहंकार आदि प्रीति से सेवित करें । हे व्यापक! आपकी प्राप्ति के लिये हम आपकी सेवा करते हैं । हे संसाररोग की महौषधिरूप! संसार - बन्धन का विच्छेद करने वाले! इस शरणागत की रक्षा करें, तथा इसे हिंसित न होने दें ।