वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 31–40

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 31–40

पृष्ठ 31

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 31 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२ शुक्लयजुर्वेदसंहिता [ अ.४ हितायै वाचेऽग्नये जाठराग्निशोधनाय स्वाहा सत्यवाक्प्रवृत्तये बृहती महागुणविशिष्टा उरो बहुसुखप्रतिपादकोऽन्त-रीक्षस्थो याज्ञ इत्यादयोऽर्था भाक्ता एव । सम्भवन्त्यां शक्तौ भक्तेरनौचित्यमेव । अन्वयानुपपत्तौ तात्पर्यानुपपत्तौ वाक्य-प्रामाण्यानुपपत्तौ च गौणार्थग्रहणं सम्भवति । न चात्रानुपपत्तयः शतपथादिरीत्या सायणादिभिर्व्याख्यातत्वात् ॥७ ॥

विश्व ' दे॒वस्य॑ ने॒तुर्मर्तो ' वुरीत स॒ख्यम् । विश्वो ' रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे स्वाहा॑ ॥८ ॥

सवितृदेवत्याऽनुष्टुप् स्वस्त्यात्रेयदृष्टा । विश्वो मर्तः सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य तङि दानादिगुण- प्रथमैकवचने युक्तस्य देवस्य सवितुः सख्यं सखिभावं वुरीते वृणुते प्रार्थयते, ' वृञ् वरणे ' इत्यस्य लिङि व्यत्ययेन शपो लुकि ' उदोष्ठ्यपूर्वस्य ' ( पा. सू. ७.१.१०२ ) इत्युदादेशः । किञ्च विश्वः सर्वो जनो राये धनाय सवितारम् इषुध्यति प्रार्थयते । किञ्च, पुष्यसे पोषणाय द्युम्नं यशोऽन्नं वा वृणीते सर्वो जनः प्रार्थयते । स्वाहा तस्मै प्रेरकाय सवित्रे वा सुहुतमस्तु । पुषेस्तुमर्थे असेप्रत्ययः । ' इषुध्यति याच्ञाकर्मसु पठितः ' ( निघ. ३.१ ९.१४ ) । षष्ठोऽयमौद्ग्रभणमन्त्रः समाप्तः । शतपथे च – ' अथ यद् ध्रुवायामाज्यं परिशिष्टं भवति । तज्जुह्वामानयति त्रिः स्रुवेणाज्यविलापन्या अधि जुह्वां गृह्णाति यत्तृतीयं गृह्णाति तत्स्रुवमभिपूरयति ' ( श. ३.१.४.१७ ), ' स जुहोति । विश्वो देवस्य स्वाहेति ' ( श. ३.१.४.१८ ) ’, ‘ सैषा देवताभिः पङ्क्तिर्भवति । विश्वो देवस्येति वैश्वदेवं नेतुरिति सावित्रं मर्तो वुरीतेति मैत्रं द्युम्नं वृणीतेति बार्हस्पत्यं द्युम्नं हि बृहस्पतिः पुष्यस इति पौष्णम् ' ( श. ३.१.४.१ ९ ) । पञ्चमस्य होमस्य द्रव्यमाह —–अथ यद् ध्रुवायामाज्यमिति । अयमर्थः - दीक्षणीयेष्टेः सम्बन्धि यदाज्यं ध्रुवायामवशिष्टं तत्पञ्चमाहुत्यर्थं जुह्वामवनयेत् । एत-देकमवत्तम् । अथाज्यस्थाल्याः सकाशात् स्रुवेण जुह्वामुपरि त्रिर्निनयति । एवं चतुरवत्तं भवति । तत्र यत् तृतीयं तदा-ज्यविलापन्या अधि जुह्वा उपरि उत्तानं स्रुवं निधाय यथा पूर्णं भवति तथा स्रुवस्याभित आज्येन पूरयेत् । तथैव सूत्रम् — ' जुह्वां धौवमासिच्य द्विश्च स्थाल्याः स्रुवेण तृतीयं स्रुवमभिपूरयति विश्वो देवस्येति ' ( का. श्रौ. ७.३.१५ ) । पञ्चममौद्ग्रभणसंज्ञकं होमं प्रति ध्रुवास्थमाज्यं जुह्वामासिच्य द्विश्च स्थाल्याः सकाशात् स्रुवेणासिच्य स्थालीतस्तृतीयं भी लाक्षणिक होने के कारण उचित नहीं है । ' अग्नये ' का अर्थ ' विद्युद्विद्या के ग्रहण के लिये ' इस प्रकार करना अनुचित होने पर है भक्ति , क्योंकि का अग्नि शब्द इस अर्थ के प्रकाशन में असमर्थ है । इस प्रकार के अर्थ भाक्त ( लाक्षणिक ) हैं । शक्ति के सम्भव अनौचित्य होता है । अन्वयानुपपत्ति, तात्पर्यानुपपत्ति और वाक्यप्रामाण्यानुपपत्ति होने पर ही गौण अर्थ का ग्रहण सम्भव है ॥७ ॥

मन्त्रार्थ - सकल मनुष्यों के कर्मानुसार नियामक, दानादि गुणयुक्त परमात्मा को हम भक्तिभाव से चाहते हैं । कर्म, उपासना और ज्ञान की पुष्टि के लिये अन्न को चाहते हैं । सकल मनुष्य धन के लिये परमात्मा की प्रार्थना करते हैं । उस परमेश्वर के लिये यह अनुष्ठान सुसिद्ध हो | इस मन्त्र का उच्चारण करते हुए औद्ममण का हवन किया जाता है ॥८ ॥

भाष्यसार -- समस्त मनुष्य फल प्रदान करनेवाले सविता देव की मित्रता की कामना करते हैं । समस्त मानव धन के लिये सविता की प्रार्थना करते हैं । पोषण के लिये यश अथवा अन्न की प्रार्थना करते हैं । उस प्रेरक सविता के लिये यह सुहुत हो । यह मन्त्रार्थ है । शतपथ ब्राह्मण के अनुसार कात्यायन श्रौतसूत्र ( ७.३.१५ ) में ध्रुवा में स्थित घृत के जुहू में ग्रहण करने में इस मन्त्र का ' विनियोग किया गया है ।

पृष्ठ 32

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 32 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ८ ] वेदार्थपारिजात भाष्यसहिता २३ स्रुवमभिपूरयेत् । अभिपूर्य जुह्वामासिच्य जुहूस्थमाज्यं विश्वो देवस्येति मन्त्रेण जुहुयादिति सूत्रार्थः । पञ्चमस्य होमस्य मन्त्रमाह — विश्वो देवस्येति । तं प्रशंसति - सैषा देवताभिरिति । ' पञ्चाक्षरा पङ्क्तिः ' ( तै. बा. २.७.१०.२ ) इति श्रुतेः पञ्चसंख्यासम्बन्धाद् एषा पङ्क्तिर्भवति । सैषा पञ्चदेवताभिः पङ्क्तिर्भवति । तद्योजयति — विश्वदेवशब्दश्रवणादिदं मन्त्र-वाक्यं वैश्वदेवम् । नयनस्य सवितृव्यापारत्वान्ने तृशब्दश्रवणात् सावित्रम् | ' मर्तो वुरीत ' इत्येतेन मनुष्यैर्वरणीयत्वाभि-धानान्मैत्रम् । मित्रस्य हि वरणीयत्वं प्रसिद्धम् । मैत्रत्वं बार्हस्पतमन्त्रेषु द्रविणं धेहि चित्रमिति द्युम्नसमानार्थस्य द्रविणस्य दाने बृहस्पतिसम्बन्धश्रवणाद् द्युम्नं वृणीत इति बार्हस्पत्यम् । पुष्यस इति पोषणधर्मश्रवणात् पौष्णम् । एवं वैश्वदेवं सावित्रं मैत्रं बार्हस्पत्यं पौष्णमिति पञ्चदेवतासम्बन्धादस्य मन्त्रस्य पञ्चसंख्यायोगात् पङ्क्तित्वं ज्ञेयम् । ' पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्यैतमेवैतयाप्नोति यद्देवताभिः पङ्क्तिर्भवति ' ( श. ३.१.४.२० ), ' तां वा अनुष्टुभा जुहोति ' ( श. ३.१.४.२१ ) । एवं पञ्चानामाहुतीनां समुच्चयपक्षमुक्त्वा केषाञ्चिद्रीत्या पञ्चमीमेवैकामाहुति जुहुयात् — ‘ यस्मै कामा-येतरा हूयन्त एतयैव तं काममाप्नोतीति तां वै यद्येकां जुहुयात् पूर्णां जुहुयात् सर्वं वै पूर्णं सर्वमेवैनयैतदाप्नोत्यथ यत्स्स्रुवमभिपूरयति स्रुचं तदभिपूरयति तां पूर्णां जुहोत्यन्वेवैतदुच्यते सर्वास्त्वेव हूयन्ते ' ( श. ३.१.४.२२ ), ‘ तां वा अनुष्टभा जुहोति । सैषाऽनुष्टुप् सत्येकत्रिंशदक्षरा भवति दश पाण्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिंशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान् वै पुरुषः पुरुषो यज्ञः पुरुषसम्मितो यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैनयैतदाप्नोति यदनुष्टुभैकत्रिंशदक्षरया जुहोति ' ( श. ३.१.४.२३ ) । एवं श्रुतिभिरेषोऽर्थः प्रतिपादितः । अध्यात्मपक्षे तु — देवस्य स्वप्रकाशस्य विश्वोत्पत्त्यादिक्रीडापरायणस्य नेतुः फलप्रापकस्य सवितुर्जगदुत्पादयितुः परमेश्वरस्य विश्वो मर्तः सर्वो जनः सख्यं सखिभावं वुरीते वृणुते । विश्वः सर्वोऽपि राये धनाय परमेश्वरं सवितारं इषुध्यति प्रार्थयते । पुष्यसे प्रजापुत्रादि पोषयितुं पालयितुं द्युम्नं धनं यशो वा वृणुते । द्युम्नं द्योततेर्यशो वान्नं वा । सकामा निष्कामाः सर्वेऽपि भगवन्तमेव प्रार्थयन्ते । ' अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ ' ( भा. पु. २.३.१० ) । अन्येऽपि देवा भगवदंशत्वाद्भगवद्रूपाः, तैर्दत्तानि फलान्यपि भगवद्दत्तान्येव भवन्ति । ‘ येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ' ( भ.गी. ९.२३ ), ' लभते च ततः कामान् मयैव विहितान् हि तान् ' ( भ.गी. ७.२२ ) इति श्रीमद्भगवद्गीतावचनात् । दयानन्दस्तु — ' यथा विश्वो मर्तो नेतुर्देवस्य जगदीश्वरस्य सख्यं वुरीते राय इषुध्यति शरान् धारयति स द्युम्नं धनं वृणीते | | हे मनुष्य! एतत्सर्वमनुष्ठाय स्वाहा सत्क्रियया त्वमपि पुष्यसे पुष्टो भवेः ' इत्येवं लुप्तोपमालङ्कारं मत्वा यथापदं योजयित्वा व्याख्यातवान् । तत्सर्वं निर्मूलमेव, लुप्तोपमत्वे मानाभावात् । नहि सर्वो मनुष्यः परमेश्वरस्य सख्यं वृणीते, न वा सर्वो धनाय शरान् धारयति, धनप्राप्तये शरधारणस्याव्यभिचरितहेतुत्वाभावात् । ' एतत्सर्वमनुष्ठाय ' इत्यपि निर्मूलम्, तादृशार्थकपदाभावात् । स्वाहेत्यस्य सत्क्रिययेत्यर्थोऽपि निर्मूल एव ॥८ ॥

अध्यात्मपक्ष में अर्थ इस प्रकार है -- - स्वप्रकाशक, फलप्रापक, जगदुत्पादक परमेश्वर के सहयोग की समस्त प्राणी कामना करते हैं । सभी व्यक्ति धन के लिये परमेश्वर से प्रार्थना करते हैं । प्रजा पुत्रादि के पोषणार्थ धन अथवा यश की इच्छा करते हैं । अर्थात् सकाम अथवा निष्काम सभी भगवान् की ही प्रार्थना करते हैं ( द्र. श्रीमद्भागवत २.३.१० ) । स्वामी दयानन्द ने इस कण्डिका में लुप्तोपमा अलंकार मान कर ' यथा ' पद जोड़ कर व्याख्या की है, वह निर्मूल है, क्योंकि लुप्तोपमा मानने के लिये कोई प्रमाण नहीं है । ' एतत्सर्वमनुष्ठाय ' यह कथन भी मन्त्र में इस प्रकार का पद न होने से निर्मूल है । स्वाहा का अर्थ सत्क्रिया करना भी मूलरहित है ॥८ ॥

पृष्ठ 33

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 33 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४ शुक्लयजुर्वेदसंहिता [ अ. ४ ऋक्सा॒मयो॒ोः शिल्पे॑ स्व॒स्ते वा॒मार॑मे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑ः । शर्मासि॒ शर्म॑ मे यच्छ॒ नम॑स्ते॒ अस्तु॒ मा मा॑ हिंसीः ॥ ९ ॥

‘ शुक्लकृष्णसन्धिमालभत ऋक्सामयोरिति ' ( का. श्रौ. ७.३.२० ) । यजमानः कृष्णाजिनयोः शुक्लकृष्णसन्धि- स्थः, मालभेत ऋक्सामयोरिति मन्त्रेण । मन्त्रार्थस्तु — हे शुक्लकृष्णरेखे कृष्णाजिनगते, युवां ऋक्सामयोः शिल्पे ऋगभिमानि - सामाभिमानिदेवतयोर्ये शिल्पे चातुर्ये तद्रूपे भवथः, ' यद्वै प्रतिरूपं तच्छिल्पम् ' ( श. ३.२.१.५ ) इति श्रुतेः । ते वां तथाविधे युवां आरभे आलभे अहं स्पृशामि रलयोः सावर्ण्यात् । ते मा मां पातं पालयतम् । कियन्तं । कालमिति चेदुच्यते— अस्य यज्ञस्य उदृचः आ उद् उत्तमा चरमा ऋग् उदृक् तस्या ऋक्सामाभिमानिन्यौ उदृच, आ तत्पर्यन्तम् देवते अनुष्ठीयमानस्य यज्ञस्य येयमृग् उत्तमास्ति तत्पर्यन्तम्, यज्ञसमाप्तिपर्यन्तमित्यर्थः । केनापि निमित्तेन देवानां यज्ञार्थमवस्थिते सत्यौ कृष्णमृगौ भूत्वा तदीयं रूपं सम्यक्कृत्वा देवेभ्योऽपक्रम्य तिष्ठताम् । तस्य मृगस्य चर्मणि यः शुक्लो वर्णः सोऽयमृचः शिल्परूपम्, यश्च कृष्णवर्णः सोऽयं सं. ६.१.३.१ साम्नः ), शिल्परूपम् । ' ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठतामिति ' ( तै. । ' एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत्कृष्णमिति ' ( तै. सं. ६.१.३.१ ) इति तैत्तिरीयश्रुतेः शरणं यच्छ ‘ दक्षिणजानुनारोहति शर्मासीति ' ( का.श्रौ. ७.३.२१ ) । हे कृष्णाजिन, त्वं शर्म शरणमसि, अतो मे मह्यं देहि स्वकीयत्वेन स्वीकुरु । ते तुभ्यं कृष्णाजिनाय नमोऽस्तु । मा मां यजमानं मा हिंसीर्मा जहि । शतपथे च —– ' अथ जघनेन कृष्णाजिने पश्चात् । प्राङ् जान्वाक्न उपविशति स यत्र शुक्लानां च कृष्णानां च सन्धिर्भवति तदेवमभिमृश्य जपत्यृक्सामयोः शिल्पे स्थ इति यद्वै प्रतिरूपं तच्छिल्पमृचां च साम्नां च पश्चाद्भा- प्रतिरूपे स्थ इत्येवैतदाह ' ( श. ३.२.१.५ ) । कृष्णाजिनदीक्षार्थमुपवेशनप्रकारमाह – अथ जघनेनेति । कृष्णाजिनयोः गेन स्वयमपि पश्चात् प्राङ्मुखो दक्षिणजान्वाक्नः सङ्कुचितदक्षिणजानुक आरुह्योपविशेत् । ' दक्षिणं जान्वाच्यास्ते । पश्चादेनयोः ' ( का. श्रौ. ७.३.१ ९ ) । दक्षिणं जान्वाच्य भूमिसंलग्नं स्पृष्टं कृत्वा एनयोः पश्चाद् यजमान उपविशेत् एवमभिमृश्य जपति — ऋक्सामयोः शिल्पे स्थ इति । शिल्पपदं व्याचष्टे - यद्वा इति । प्रतिरूपं प्रतिकृतिः, लौकिका दीक्ष-हि हरितुरगादिप्रतिरूपं शिल्पमित्याहुः । ' दक्षिणेनाहवनीयं प्राचीनग्रीवे कृष्णाजिने उपस्तृणाति । तयोरेनमधि दक्षिणे यति यदि द्वे भवतस्तदनयोर्लोकयो रूपं तदेनमनयोर्लोकयोरधि दीक्षयति ' ( श. ३.२.१.१ ) । आहवनीयस्य देशे कृष्णाजिने द्वे आस्तीर्य तत्रैनं यजमानं दीक्षयतीत्युक्तम् । ते च परस्परं सम्बद्धपर्यन्तप्रदेशे कुर्यात् । मन्त्रार्थ - हे मृगचर्म की श्वेत - श्याम रेखाओं! तुम ऋक्साम मन्त्रों के अधिष्ठात्री देवताओं के स्पर्श करता हैं । तुम मेरी यज्ञ की समाप्ति तक रक्षा करो । हे मृगचर्म! तुम शरणदाता हो, मुझे नमन करता हूँ । मुझे किसी प्रकार की पीड़ा मत पहुँचाने दो । इस मन्त्र का उच्चारण करते हुए बैठता है ॥९ ॥

चातुर्य हो ।मैं तुम्हारा शरण दो, मैं तुम्हारा यजमान मृगचर्म पर भाष्यसार - याज्ञिक विनियोग के अनुसार ' ऋक्सामयोः शिल्पे ' मन्त्र से यजमान कृष्ण मृगचर्म के सफेद एवं विनियोग काले वर्णों के के सन्धिस्थल का स्पर्श करता है तथा ' शर्मासि ' मन्त्र से दक्षिण जानु से कृष्णाजिन पर आरोहण करता है है । 1 । इस अनुसार सायणादि द्वारा सम्मत अर्थ ही शतपथ श्रुति तथा कात्यायन सूत्र ( ७.३.२० - २१ ) द्वारा भी समर्थित

पृष्ठ 34

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 34 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ९ ] वेदार्थपारिजात भाष्यसहिता २५ तथैवोक्तं कात्यायनेन — ‘ आहवनीयं दक्षिणेन कृष्णाजिने मांससंहिते स्यूतान्ते तर्ह्यसु पश्चादासञ्जनवती निदधाति ' ( का. श्रौ. ७.३.१७ ) । दीक्षणीयासमाप्त्यनन्तरमाहवनीयस्य दक्षिणस्यां दिशि द्वे कृष्णाजिने प्राग्ग्रीवे स्तृणीयात् । कीदृशे? मांससंहिते । मांसशब्देन तत्सहितो देश उच्यते । ते संहिते उपरि लोमानि यथा भवेयुस्तथेत्यर्थः । तर्झसु पश्चात् स्यूतान्ते । तृद्यत इति तई छिद्रं चर्मणो मृगशरीराद् विकर्तनानन्तरं भूमौ कीलकान्निखाय परितश्छिद्राणि कृत्वा तानि कीलकेषु प्रोतयित्वास्तरणं क्रियते यथा चर्म विस्तृतं भवेत् । तदानीं तस्मिंश्चर्मणि कृताश्छिद्रा भवन्ति । तत्रेदमुच्यते-- चर्मणः पश्चाद्भागकल्पितेषु छिद्रेषु स्यूतान्ते स्यूता दोरकेण तन्तुना परस्परं संश्लेषिता अन्ता ययोस्ते । चर्मणोः पश्चाद्भागे यानि छिद्राणि तेष्ववश्यं परिषीवणं भवति नान्यछिद्रेषु । आसञ्जनवती नागदन्तकादावासज्यते येन तदासञ्जनमवलगनरज्जुपाशः, तद्वति । श्रुतावपि — ' संबद्धान्ते भवतः । संबद्धान्ताविव हीमौ लोकौ तर्ह्यसमुते पश्चाद्भवतस्तदिमावेव लोकौ मिथुनीकृत्य तयोरेनमधि दीक्षयति ' ( श. ३.२.१.२ ) । यथोभयोर्मांसप्रदेश: सम्बद्धो भवति, यथा च तर्दनप्रदेशेषु पश्चाद्भागे ऊते परस्परस्यूते भवतः तथैकस्योपर्यपरमास्तृणुयात् । आपस्तम्बोऽपि - ' अन्तर्मांसाभ्यां बहिर्लोमभ्याम् ( आप श्रौ. १०.८.१२ ) इति । तेनोभौ लोकौ मिथुनीकृत्य तयोरुपर्येनं दीक्षयति । ' यद्यु एकं भवति । तदेषां लोकानां रूपं तदेनमेषु लोकेष्वधि दीक्षयति यानि शुक्लानि तानि दिवो रूपं यानि कृष्णानि तान्यस्यै यदि वेतरथा यान्येव कृष्णानि तानि दिवो रूपं यानि शुक्लानि तान्यस्यै यान्येव बभ्रूणीव हरीणि तान्यन्तरिक्षस्य रूपं तदेनमेषु लोकेष्वधि दीक्षयति ' ( श. ३.२.१.३ ) । एककृष्णाजिनपक्षमुक्त्वा प्रशंसति — यद्यु एकमिति । तदेकमेव कृष्णाजिनं लोकत्रयात्मकम्, अत एकेनापि दीक्षयेत् । दिवो द्योतमानत्वेन शुक्लरोमांशस्तद्रूपम्, पृथिव्याः श्यामत्वात् कृष्णानां तद्रूपत्वम् । यद्वा भूर्लोकस्वर्गलोकयोर्मनुष्यैः परिदृश्यमानापरिदृश्यमानत्वमपेक्ष्य वैप-रीत्योपन्यासः । यान्येव लोमानि बभ्रूणि बभ्रुवर्णानि हरीणि हरितवर्णानि तान्यन्तरिक्षस्य रूपम्, नीलं नभ इति लोक-प्रसिद्धेः । ' अन्तकमु तर्हि पश्चात् प्रत्यस्येत् । तदिमानेव लोकान् मिथुनीकृत्य तेष्वेनमधि दीक्षयति ' ( श.३.२.१.४ ) । तस्मिन्नेकाजिनपक्षे, अन्तकमु अन्तप्रदेशमेव पश्चाद्भागे प्रत्यस्येत् संकोचयेत् सन्धिप्रदेशेन द्विगुणीकुर्यात् । तथा च सूत्रम् —'एकं चेत् पश्चात् पादद्विगुणम् ' ( का. श्रौ. ७. ३. १८ ) । यद्येकं कृष्णाजिनं भवति, तदा कृष्णाजिनस्य पश्चात् पादद्विगुणं कार्यम् । पश्चात्पादौ मोटनेन हि द्विगुणीकृतौ संभुग्नीकृतौ यस्य तत् । ' ते वामारभ इति । गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्यक्नाङ्गुलिरिव भवति न्यक्नाङ्गुलय इव हि गर्भाः ' ( श. ३.२.१.६ ) । द्वितीयं भागं व्याचष्टे - ते वामारभ इति । ते वाम् ऋक्सामरूपे शुक्लकृष्णरेखे आरभे आलभे, स्पृशामीत्यर्थः । गर्भो वा एष भवति । वैशब्देन श्रुत्यन्तरप्रसिद्धिरुच्यते । तथा चैतरेयके — ' पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति ' ( ऐ. बा. १.३ ) । छन्दांसि गायत्र्यादीनि । न्यक्नाङ्गुलिर्मुष्टीकरणेन सङ्कुचिताङ्गुलिः, एष य़जमानश्छन्दांसि प्रविशति । शेषमतिरोहितार्थम् । ' स यदाह । ते वामारभ इति ते वां प्रविशामीत्येवैतदाह ते मा पातमास्य यज्ञस्योदृच इति ते मा गोपाय-तमास्य यज्ञस्य संस्थाया इत्येवैतदाह ' ( श. ३.२.१.७ ) । स यजमानो यदाह ते वामारभ इति, तस्यायमर्थः - वां युवामहं प्रविशामि । तथा सति ऋक्सामरूपयोः शुक्लकृष्णरूपशिल्पयोः स्पर्शनेन छन्दः स्वेव प्रवेशो भवति । ते मा मां पातं पालयतम् । कियन्तं कालमित्याकाङ्क्षायामाह — आस्य यज्ञस्योदृचमिति । उदृक्शब्दार्थमाह — अस्य यज्ञस्य संस्थाया इत्येवैतदाहेति । यज्ञस्य संस्थायाः समाप्तेः समाप्तिपर्यन्तमित्यर्थः । ' अथ दक्षिणेन जानुनारोहति । शर्मासि

पृष्ठ 35

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 35 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६ शुक्लयजुर्वेदसंहिता [ अ. ४ शर्ग मे यच्छेति चर्म वा एतत् कृष्णस्य तदस्य तन्मानुषं शर्म देवत्रा तस्मादाह शर्मासि शर्म मे यच्छेति नमस्ते अस्तु मा मा हिंसीरिति श्रेयांसं वा एष उपाधिरोहति यो यज्ञं यज्ञो हि कृष्णाजिनं तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनमेष यज्ञो न हिनस्ति तस्मादाह नमस्ते अस्तु मा मा हिंसीरिति ' ( श. ३.२.१.८ ) । अनन्तरं कृष्णाजिनारोहणं विधत्ते— अध दक्षिणेनेति । दक्षिणेन जानुना कृष्णाजिनमारोहति शर्मेत्यादिमन्त्रेण । मनुष्येषु यत् चर्मेति प्रसिद्धम् एतद् देवत्रा देवेषु सुखहेतुत्वात् शमेति शब्दाभिधेयम् । अतो वैदिकेन स्वरूपेण शर्मासीति कृष्णाजिनस्य स्तुतिः । मा मा हिंसीरिति हिप्तापरिहारप्रसक्तिं दर्शयति - श्रेयांसं वा एष यजमानो यज्ञमुपाधिरोहतीति । कुत इति चेत्, यज्ञो हि कृष्णाजिनम्, तेन यज्ञाख्यश्रेयोऽतिक्रमणापराधप्रार्थनं युक्तमेव । तथो हैनमेष यज्ञो न हिनस्ति तस्मादाह नमस्तेऽस्तु मा मा हिंसीरिति । ‘ स वै जघनार्ध इहैवाग्र आसीत । अथ यदग्र एव मध्य उपविशेद्य एनं तत्रानुष्ठ्याहरेद् द्रप्स्यति वा प्र वा पतिष्यतीति तथा हैव स्यात् तस्माज्जघनार्थ इवैवाग्र आसीत ' ( श. ३.२.१.९ ) । स यजमान आरूढः कृष्णाजिनस्य पश्चाद्भाग एव अग्रे प्रथममासीत । विपक्षे बाधकमाह - यदग्र एवं मध्यप्रदेशमारूढं ब्रूया ५ अन्यो द्रप्स्यति दृप्तः कुत्सि -तगतिर्भविष्यति ततः पतिष्यति चेति । तथा हैव स्यात्तस्भाज्जघनार्ध इवैवाग्र आसीत । तथैवोक्तं कात्यायनेनापि — ' दक्षिणजानुनारोहति शर्मासीति तेनास्तेऽपरे ऽन्ते ' ( का.श्रौ. ७.३.२१ ) । दक्षिणजानुना भुग्नेन कृष्णाजिने यजमान आरोहेत । आरुह्य तयोः पश्चिमे भागे दक्षिणेनैव जानुनोपविशेत् । एतेन सायणादिसम्मत एवार्थः शतपथश्रुत्या कात्यायनसूत्रेणापि समर्थ्यते । अध्यात्मपक्षे तु ——- कृष्णाजिन उपवेक्ष्यमाणो यजमानः साधको वा सर्वत्रैव परमेश्वरस्य माहात्म्यं पश्यन् कृष्णा-जिनगते शुक्लकृष्णरूपे एव सम्बोध्याह— हे शुक्लकृष्णरेखे! युवां ऋक्सामयोर्भगवन्निःश्वसितयोः शिल्पे चातुर्यरूपे स्थः । ते वाम् आरभे आलभे स्पृशामि परमेश्वरीयज्ञानचातुर्यमनुभवामि । ते मां यज्ञस्य प्रसिद्धयज्ञस्य विष्णोर्वा आ उदृचः, उद् उत्तमा चरमा ऋग् उदृक् तस्या उदृच आ तत्पर्यन्तम् अथवा उद् उत्तमा ऋक् प्राप्तिः स्तुतिर्वा उदृक्, तस्या आ पर्यन्तं मां पातम् । हे परमेश्वर, त्वं शर्मासि सुखरूपमसि सुखं मे देहि नमस्ते अस्तु । मा मां मा हिंसीः स्वरूपतिरोधानेन जननमरणाविच्छेदलक्षणायां संसृतौ मा पातय । ब्राह्मणोक्तव्याख्यानस्य तु कर्मकाण्डप्रतिपादनद्वारा नित्यकर्मानुष्ठानेनोपात्तदुरितक्षयद्वारा काम्यानामपि संयोगपृथक्त्वन्यायेन विविदिषोत्पादनद्वारा इष्यमाणवेदनसाधनत्वेन वा ब्रह्मपरत्वं सम्पद्यते । दयानन्दस्तु -- ' हे विद्वन्, अहं ऋक्सामयोरध्ययनानन्तरम् उदृचोऽस्य यज्ञस्य सम्बन्धिनीं वां ये शिल्पे मान-सप्रसिद्धक्रियया सिद्धे स्थः भवतः, ते आरभे । या मा माम् आ अभितः पातं रक्षतः । यस्य तव सकाशाद् मया गृह्येते ते तुभ्यं मम नमोऽस्तु । त्वं मा मां शिल्पविद्यां शिक्षस्व । मा हिंसीर् विचालनं मा कुर्याः । यच्छर्म सुखमस्यास्ति तच्छर्म मे मह्यं देहि । उदृच उत्कृष्टा अधीताः प्रत्यक्षीकृता ऋचो यस्मिंस्तस्य ' इति । हिन्दीव्याख्याने तु — ' हे विद्वन् अध्यात्मपक्ष में तो अर्थ इस प्रकार है - कृष्णाजिन पर बैठने वाला यजमान साधक सर्वत्र ही परमेश्वर के माहात्म्य का दर्शन करते हुए कृष्णाजिन में स्थित शुक्ल एवं कृष्ण रूपो को सम्बोधित करता है । हे शुक्ल एवं कृष्ण रेखाओं! आप लोग ऋक् एवं सामात्मक भगवान् के निश्वासों के ज्ञान चातुर्यरूपी हो । उन आपका मैं स्पर्शानुभव करता हूँ । उस विष्णु की सम्पूर्ण स्तुतिपर्यन्त मेरी रक्षा करें । हे परमेश्वर! आप सुखस्वरूप हैं, मुझे सुख प्रदान करें । आपको नमस्कार है, संसार में मेरी रक्षा करें । स्वामी दयानन्द ने ‘ ऋक् एवं साम के अध्ययनानन्तर ' यह अर्थ किया है, वह निर्मूल है, क्योंकि मन्त्र में ' अध्ययनानन्तर ' पद नहीं है । यज्ञ शिल्पविद्यासाध्य है, यह कथन भी निर्मूल है । फिर यज्ञ में ऋचाओं का प्रत्यक्षीकरण कैसे होता है? प्रत्यक्षीकरण

पृष्ठ 36

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 36 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. 1 ९ -१० ] वेदार्थपारिजातभाष्यसहिता २७ ऋक्सामयोरध्ययनस्य पश्चाद् यस्मिनृवः सम्यक् प्रत्यक्षीक्रियन्ते तस्य यज्ञस्य शिल्पे मनस्सा प्रसिद्धक्रियया प्रसिद्धे शिल्पविद्ये योऽहमारभे ये मां पातं ते विद्यं यस्य तव सकाशाद् मया गृह्येते ने तुभ्यं मन्त्रादिसत्कारपूर्वकं नमस्करोमि, विदितोऽस्तु । त्वं मां शिल्पविद्यां शिक्षस्व ततो मां विचालय यत्सुखं तन्मह्यं यच्छ ' इति, तदपि यत्किञ्चित्, असङ्गतेः । तथाहि — ऋक्सामयोरिति पदस्यैव मन्त्रे सत्त्वेन ' अध्ययनानन्तरम् ' इत्यस्य निर्मूलत्वात् । ' शिल्पे ' इति पदेन शिल्पविद्या चेज्जिघृक्षिता स्यात्तदा द्विवचनस्य किं स्वारस्यम्? नहि मनसा क्रियया च सिद्धत्वादेव द्विवचनोपपत्ति, साधन-भेदेऽप्यनेकसाधनसिद्धाया विद्याया द्वित्वानुपपत्तेः । यज्ञोऽपि मनसा क्रियया च सिद्ध्यति । न तावतापि तत्र द्वित्वम-नुभूयते । यज्ञः शिल्पविद्यासाध्य इत्यपि निर्मूलम् । यज्ञे च कथमृचः प्रत्यक्षीक्रियन्ते? किञ्च तासां प्रत्यक्षीकरणम्? तदीयशब्दानां तु समेषां प्रत्यक्षतैवास्ति । अर्थस्य प्रत्यक्षत्वमपि किं ताभिरेव यत्नान्तरैर्वा? नाभिरेव चेत्कथं शब्द-स्यापरोक्षत्वम्, तस्य परोक्षत्वस्वाभाव्यात् । यत्नान्तरैश्चेद् ऋचां साक्षात्कारः स्थात्तर्हि किं वेदैः? न च शिल्पविद्यैव वेदानां विषयः, तथात्वे तेषां दृष्टार्थत्वेन लोकप्रसिद्धशिल्पविद्यासाधारण्येन धर्मशास्त्रत्वव्याघातात् । शतपथे च स्पष्ट-मेवास्य मन्त्रस्य कृष्णाजिनस्पर्शनाङ्गत्वेन जपे विनियोग उक्तः । ' तदेवमभिमृश्य उपत्यृक्सामयोः शिल्पे इति ' ( श. ३.२.१.५ ) । तत्रैव कृष्णस्य चर्मेति मानुषं शर्म देवत्रेति नवम्यां कण्डिकायमुक्तम् । उदृच इत्यस्यापि ते मा गोपायत माऽस्य यज्ञस्य संस्थाया इत्येवैतदाहेति स्पष्टं व्याख्यानं कृतम् । न चात्राध्यापकाय नमस्कारोऽभिधीयते, तस्यात्रा --प्रसक्तत्वात्, मन्त्रे तद्बोधकपदाभावाच्च । ' यद्वै प्रतिरूपं तच्छिल्पप् ' ( श. ३.२.१.५ ) इति श्रुत्यैव शिल्पपदमपि व्याख्यातमेव ' यानि शुक्लानि तानि दिवो रूपं याने कृष्णानि तान्यस्यै ' ( श. ३.२.१.३ ) इत्यादिभिः ॥९ ॥

ऊर्गस्याङ्गर॒स्यूर्णम्रा ऊर्ज् मयि॑ धेहि । सोम॑स्य वी॒विर॑सि॒ विष्णो॒ शर्म॑सि॒ शर्म॒ यज॑-मान॒स्येन्द्र॑स्य॒ योनि॑रसि सु॒स॒स्याः कृ॒षीस्कृ॑धि । उच्छ्रयस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यं हंस आस्य य॒ज्ञस्यो॒दृतः॑ ॥१० ॥

' अथ मेखलां परिहरते... ' ( श. ३.२.१.१० ) । परिहरति मध्ये परितो वेष्टयति । मेखला बन्धीते वेणि त्रिवृतं शणमुञ्जमिश्रामन्तरां वासस ऊर्गसीति ' ( का. श्री. ७.३.२२ ) । अध्वर्युर्यजमानस्य कटीप्रदेशे परिधानवस्त्रस्यान्तर्मेखलां प्रदक्षिणं बध्नीते । कीदृशीम्? वेणि वेग्याकारां त्रिगुणया रज्ज्वा प्रथितां शणतृणैर्मुञ्जतृणैश्च निर्मितां शरमयीं मौजी क्या है? शिल्पविद्या ही वेद का विषय नहीं है । ऐसा होने पर दृष्टार्थत्व होने के कारण वेद का धर्मशास्त्रत्व व्याहत हो जायगा । शतपथ ब्राह्मण में तो स्पष्ट ही इस मन्त्र का विनियोग किया गया है । वहां शिल्प पद की व्याख्या भी की गई है ॥९ ॥

मन्त्रार्थ - हे उष्णीष! तुम बहत्र्यापी यत का कल्याणमय रूप हो, गुझ यजमान का कल्याण करो । हे मेखते! तुम अंगिरा वंश के ऋषियों से संबन्ध रखने वाली, अन्नरसस्य और ऊन के समान कोमल हो, अन्नरस को मुझ में स्थापित करो । हे मेखले! तुम सोम देवता की नीवी हो । हे विषाण! तुम जैसे इन्द्र के स्थान हो, वैसे ही मेरे भी स्थान बनो । हे विषाण! तुम खेती को सुन्दर धान्य वाली बनाओ । हे वनस्पति के दण्ड! तुम ऊंचे होओ और ऊंचे होकर इस यज्ञ की समाप्ति पर्यन्त पापों से मेरी रक्षा करो । इस मन्त्र का उच्चारण करते हुए यजमान मेखला, उष्णीष, दण्ड आदि वारण करता है ॥१० ॥

भाष्यसार — इस कण्डिका के याज्ञिक विनियोग के अनुसार यजमान को ' ऊर्गसि ' मन्त्र से मेखलाबन्धन, ' सोमस्य नीविः ' से नीवि ( प्रन्थि ) का बन्धन, ' विष्णो शर्म ' से उष्णीष ( पगड़ी ) बन्धन, खुजलाने के लिये कृष्णमृग के शृंग का धारण तथा दण्डधारण किया जाता है ( का.श्रौ. ७.३.२२ - २६ ) । तदनुकूल अर्ध शतपथ ब्राह्मण में उपदिष्ट है ।

पृष्ठ 37

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 37 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८ शुक्लयजुर्वेदसंहिता [ अ.४ वा मेखलां त्रिवृत् पृथ्यन् प्रतरतः पाशा तया यजमानं दीक्षयतीत्यापस्तम्बोऽपि । हे मेखले, त्वमाङ्गिरसी अङ्गिरोनाम-कानामृषीणां सम्बन्धिनी ऊर्गस्यन्नरसरूपासि । ऊर्णम्रदा असि कम्बलवन्मृदुरसि । तथाविधा त्वमूर्जमन्नरसं मे यच्छ । अस्याः शरमय्या मेखलाया अङ्गिरोभिः सम्बन्धं तित्तिरिरपि दर्शयति – ' अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यदत्यशिष्यत ते शरा अभवन् ऊर्वै शरा यच्छरमयी मेखला भवत्यूर्जमेवावरुन्धे ' ( तै. सं. ६.१.३.३ ) । अङ्गिरसां परस्परमन्नरसे विभज्यमाने यदवशिष्टोऽन्नरसो भूमौ पतितः, तच्छरनामकतृणविशेषरूपेणाविर्भूतः, तस्मादूर्गसीत्यादिमन्त्र उपपद्यते । अङ्गिरोभिर्दृष्टं मेखलादेवताकं यजुः । शतपथे च - ' अङ्गिरसो ह वै दीक्षिता न बल्यमविन्दंस्ते नान्यद्वतादशनमवाकल्पयंस्त एतामूर्जमपश्यन्त्समाप्ति तां मध्यत आत्मन ऊर्जमदधत समाप्तिं तया समाप्नुवंस्तथो एवैष एतां मध्यत आत्मन ऊर्जं धत्ते समाप्ति बलार्हं तया समाप्नोति ' ( श. ३.२.१.१० ) । पुरावृत्तान्तमुखेन मेखलां प्रशंसति - अङ्गिरस इति । दीक्षिता अङ्गिरसो बल्यं बलकरं वस्तु नाविन्दन्, यतस्ते व्रतात् तत्साधनात् पयसोऽन्यदशनं न अवाकल्पयन् । अतस्ते एतामूर्जं बलम्, तत्सा-धनत्वान्मेखला ऊर्गित्युच्यते । कीदृशीं मेखलामिति तां विशिनष्टि - समाप्तिं सम्यगाप्यायते बलमनयेति समाप्तिर्मेखला, ताम् । स्पष्टमन्यत् । ‘ सा वै शाणी भवति । मृद्व्यसदिति न्वेव शाणी यत्र वै प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञात् तस्य यन्त्रेदि-ष्ठमुल्बमासीत्ते शणास्तस्मात्ते पूतयो वान्ति यद्वस्य जराय्वासीत् तद्दीक्षितवसनमन्तरं वा उल्बं जरायुणो भवति तस्मा-देषान्तरा वाससो भवति स यथैवान्तः प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञादेवमेवैषोऽतो जायते गर्भो भूत्वैतस्माद्यज्ञात् ' ( श. ३.२.१.११ ) । मेखलाया उपादानद्रव्यमाह - सा समाप्तिर्मेखला शाणी शणमयी भवेत् । मृद्वी सुखसंस्पर्शा असद् भवेत्, गर्भाणां मार्दवस्यापेक्षितत्वात् । यदा प्रजापतिर्यज्ञसकाशादुत्पन्नस्तस्य गर्भभूतस्य प्रजापतेर्नेदिष्ठं यदुल्बमासीत्ते शणा अभवन् । तस्माद् गर्भमालिन्यसम्भवात् ते शणाः पूतयो वान्ति दुर्गन्धा भवन्ति । उल्ब नाम पटसदृशं गर्भ-स्यान्तर्वेष्टनम् । यदु अस्य प्रजापतेर्जरायुर्बहिर्वेष्टनं तद् दीक्षितेन धार्यं वसनमभूत् । उभे अपि गर्भरूपप्रजापतिवद् दीक्षितस्यापि गर्भत्वाद् धायें अभूताम् । मेखलाया वसनादान्तरत्वं विधत्ते - अन्तरं वा उल्ब जरायुणो भवतीति । तस्मादेषान्तरा वाससो भवतीत्यादि स्पष्टम् । ' सा वै त्रिवृद् भवति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत् तृतीयं तस्मात् त्रिवृद् भवति । ' ( श. ३.२.१.१२ ) । अजाव्यादयः पशवो ह्यन्त्रम्, तच्च पितृमातृपुत्रात्मना त्रिवृद् भवति । तस्मान्मेखलापि त्रिवृद् भवति । ‘ मुञ्जवल्शेनान्वस्ता भवति । वज्रो वै शरो विरक्षस्तायै स्तुकासंसृष्टा भवति सा यत् प्रसलविसृष्टा स्याद् यथेदमन्या रज्जवो मानुषी स्याद्यद्यपसलविसृष्टा स्यात् पितृदेवत्या स्यात् तस्मात् स्तुकासर्गं सृष्टा भवति ' ( श. ३.२.१.१३ ) । तस्य मुञ्जशाखामिश्रितत्वं विधत्ते – मुञ्जवल्शेनान्वस्तेति । मुञ्जशाखयान्वस्ता मिश्रिता । वज्रो वै शर; वज्रावयवत्वात् । तस्य च रक्षोविवासकत्वम् । ' इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । स प्रहृतश्चतुर्थाऽभवत् तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा रथस्तृतीयं वा यावद्वाथ यत्र प्राहरत्तच्छकलोऽशीर्यत स पतित्वा शरोऽभवत् तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वज्रोऽभवत् ' ( श. १.२.४.१ ) । मेखलायाः केशवेणीव निर्माणं विधत्ते —स्तुकासर्गं सृष्टा भवतीति । स्तुका केशवेणी, सा यथा सृज्यते तथा सृष्टा भवेत् । उक्तप्रकारनिर्माणं प्रशंसितुं प्रकारान्तरयोर्दोषमाह— सा मेखला यद् यदि प्रसलविसृष्टा दक्षिणपाणेर्व्यापारेण निर्मिता स्यात् तदा यथाऽन्या गवादिबन्धनरज्जवो मानुष्या भवन्ति, एवमियमपि मानुषी भवेत् । यद् यदि, अपसलविसृष्टा सव्यपाणिनोपरि व्यापृतेन निर्मिता स्यात् तदा पितृदेवत्या

पृष्ठ 38

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 38 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १० ] वेदार्थपारिजातभाष्यसहिता २ ९ स्यात् । तस्मात् स्तुकासर्गं सृष्टा स्यात् । ' तां परिहरते । ऊर्गस्याङ्गिरसीत्याङ्गिरसो ह्येतामूर्जमपश्यन्नूर्णम्रदा ऊर्जं मयि धेहीति नात्र तिरोहितमिवास्ति ' ( श. ३.२.१.१४ ) । बन्धनमन्त्रं विधाय व्याचष्टे - तामिति । ' नीवि कुरुते सोमस्य नीविरिति ' ( का. श्रौ. ७.३.२३ ) । वेष्टितवसनग्रन्थिर्नीविः । शतपथे— ' नीविमुद्गुहते सोमस्य नीविरसीत्यदीक्षितस्य वा अस्यैषाग्रे नीविर्भवत्यथात्र दीक्षितस्य सोमस्य तस्मादाह सोमस्य नीविरसीति ' ( श. ३.२.१.१५ ) । वस्त्रान्तस्य समन्त्रकमुद्गहन-माह — सोमस्य नीविरसीति मन्त्रेण । अग्रे सोमयागात् पूर्वमदीक्षितस्येदानीं तु दीक्षितस्य सोमस्य सोमयागकर्तृकत्वाद् दीक्षितो ह्युपचारेण सोम उच्यते । मन्त्रार्थस्तु – हे मेखले! त्वं सोमस्य सोमदेवतायाः प्रियभूता ग्रन्थिरसि । मूलाग्रयोरेकीकरणेन ग्रन्थिविशेषो नीविरुच्यते । अदीक्षितस्य पितृदेवत्या नीविर्भवति । सोमयागाय दीक्षितस्य तु नीविः सोमेन व्यपदिश्यते । ' अथ प्रोर्णुते । गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भा उल्बेनेव जरायुणेव तस्माद्वै प्रोर्णुते ' ( श. ३.२.१.१६ ) । वाससा आच्छादनं विधत्ते - अथ प्रोर्णुत इति । शेषं स्पष्टम् । ' स प्रोर्णुते । विष्णोः शर्मासि शर्म यजमानस्येत्युभयं वा एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च यदह दीक्षते तद्विष्णुर्भवति यद्यजते तद्यजमानस्तस्मादाह विष्णोः शर्मासि शर्म यजमानस्येति ' ( श. ३.२.१.१७ ) । आच्छाद्यप्रदेश: सूत्रे स्पष्टमुक्तः - ' शिरः प्रोर्णुते विष्णोः शर्मेति ' ( का. श्रौ. ७.३.२४ ) । उष्णीषेण स्वं शिरः प्रदक्षिणमाच्छादयेद्यजमानो विष्णोः शर्मासि शर्म यजमानस्येत्युभयं वा एषोऽत्र भवति । विष्णुशब्दः पुरुषोत्तमे प्रसिद्धः । अत आह— विष्णुश्च यजमानश्चेति । कुत एतदित्याह — यदह दीक्षते तद्विष्णुर्भवति । दीक्षणीयेष्टौ आग्नावैष्णवे हविषि विष्णुर्देवतेति तत्संस्कारसंस्कृतो यजमानोऽपि विष्णुर्भवति । तदेवाह श्रुतिः- यद्यजते तद्यज-मानस्तस्मादाह विष्णोः शर्मासि शर्म यजमानस्येति । | मन्त्रार्थस्तु हे वस्त्र, त्वं विष्णोर्व्यापकस्य यज्ञस्य शर्मासि सुखहेतुर्भवसि अतो यजमानस्य सुखं कुर्विति शेषः । ' अथ कृष्णविषाणं सिचि बध्नीते । देवाश्च वा असुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुर्मन एव देवा उपायन् वाचमसुरा यज्ञमेव तद्देवा उपायन् वाचमसुरा अमूमेव देवा उपायन्निमामसुराः ' ( श. ३. २.१.१८ ) । वस्त्रान्ते कृष्णविषाणाबन्धनमाह — अथेति । सिग् वस्त्रान्तम्, तत्र कृष्णविषाणं बध्नीतेऽध्वर्युः । कृष्णविषाणोत्पत्त्यर्थमाख्यायि-कामाह — देवाश्चासुराश्चेति । देवाश्चासुराश्चोभये प्राजापत्या दायं पैतृकं धनमुपेयुः । इन्द्रियेषु मध्ये मन एव देवाः प्राप्तवन्तः, वाचं वागिन्द्रियमसुराः । तथा यज्ञमेव देवा उपगता वाचमसुराः । अमूं दिवं देवा इमां पृथिवीमसुराः । ' ते देवा यज्ञमब्रुवन् । योषा वा इयं वागुपमन्त्रयस्व ह्वयिष्यते वै त्वेति स्वयं वा हैवैक्षत योषा वा इयं वागुपमन्त्रयै ह्वयिष्यते वै मेति तामुपामन्त्रयत सा हास्मा आरकादिवैवाग्र आसूयत्तस्मादु स्त्री पुंसोपमन्त्रितारकादि-वैवाग्रेऽसूयति स होवाचारकादिव वै म आसूयीदिति ' ( श. ३.२.१.१ ९ ) । ते देवा वाचोऽपि स्वाधीनत्वापादनाय यज्ञमेवमब्रुवन् – यज्ञ! इयं वाग् योषा स्त्री त्वं तु पुमान् तस्मात्तामुपामन्त्रयस्व सङ्केतेनाह्वय सापि त्वा त्वां ह्वयिष्यत आकारयिष्यति । तद्वृत्तान्तं जानती श्रुतिब्रूते न केवलं तेषां वचनमेव, किन्तु ' स्वयं वा ह एव, वाशब्दश्चार्थे । यज्ञः स्वयमप्यैक्षत विचारितवान् । ईक्षणप्रकारमेवानुवदति – योषा वा इयं वागुपमन्त्रयै ह्वयिष्यते मेति । उपमन्त्रिता सा अग्रे प्रथमवारम् आरकाद् आरमेवारकम् तेन चारकाग्रेण व्यथिता इव आसूयद् आरकाग्रनुन्नो बलीवर्दादिरिवासूया-मकरोत् । तथैव लोकवृत्तान्तोऽपि -- स्त्री पुंसोपमन्त्रिताऽऽरकादिवाग्रेऽसूयति । एवं पुनर्देवैर्याच्यमानो यज्ञस्तामुपाम-न्त्रयत् । सापि निपलाशमिव निपतितपर्णं वृक्षादिकमिव तद्यथा केवलं कम्पते, एवं शिरश्चालनेनोवाच, अथवा पलाशनिपतनमिव ओष्ठचालनेनोवाच । तृतीयवारे त्वाहूतवती । आह्वानवृत्तान्तं ज्ञातवन्तो देवा ईक्षाञ्चक्रिरे इयं वाग्

पृष्ठ 39

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 39 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३० शुक्लयजुर्वेदसंहिता अ. ४ योषा यद्यस्मादेनं यज्ञं न युविता मिलितवती, अतो न विश्वसितव्या । एवमीक्षित्वा ते यज्ञमब्रुवन् — हे यज्ञ, इहैव मा मां तिष्ठन्तमभ्येहीति तां ब्रूहि । आगतां तां वाचं नोऽस्माकं प्रतिब्रूताद् निवेदयत्विति चाब्रुवन् । सापि यज्ञेनाकारिता वाक् तस्मिन्नेव सङ्केतप्रदेशे तिष्ठन्तं यज्ञमभ्येयाय । तस्मादु स्त्री पुमांसं संस्कृते तिष्ठन्तमभ्यैति । तामागतामेभ्यो देवेभ्यो यज्ञः प्रतिप्रोवाच । ते देवास्तां वाचमसुरेभ्योऽन्तरायन् तथा वर्जितानकुर्वन् । स्वीकृत्य चाग्निमुखभन्तरेण स्वभोगायोगादग्नावेव तां वाचमनुष्टुभा विश्वो देवस्य ने तुरित्येतया कृत्वा यथा पुनरसुराणां निराशा भवति तथा अजुहुवुः । केवला किं न स्वीकृतेत्यत आह- आहुतिर्हि आहुतिरूपेणाग्नौ दत्तमेव देवानां प्रियं भवति: असुरा आत्तवचसो देवैः स्वीकृतवचसो ‘ हे अरयो हे अरयः ' इत्युच्चारयितुमशक्ता ' हेलवो हेलवः ' इति वदन्तः पराभूताः । ‘ तत्रैतामपि वाचमूचुः । उपजिज्ञास्यां स म्लेच्छस्तस्मान्न ब्राह्मणो म्लेच्छेदसुर्या हैषा वागेवमेवैष द्विषतां सपत्नानामादत्ते वाचं तेऽस्यात्तवचसः पराभवन्ति य एवमेतद्वेद ' ( श. ३.२.१.२४ ) । असुरा उपजिज्ञास्यां सन्दिग्धां वाचमूचुः । सन्दिग्धार्थस्यापभ्रंशरूपस्य वचसो यद्भाषणं तन्म्लेच्छमित्यर्थः । यद्वा य ईदृशीं वाचं वदति स म्लेच्छः । तस्माद् ब्राह्मणो न म्लेच्छेत् तदीयामपार्थिकां वाचं न बूयात् । असुर्या हैया वाक् । उक्तार्थज्ञानं प्रशंसति — एवमेवैष इति । एष ज्ञाता द्विषतां सपलानां वाचमादत्ते । अस्य सपना अनेन ज्ञात्राऽपहृतवचसः सन्तः पराभवन्ति य एवं वेद । यदर्थमाख्यायिका प्रपञ्चिता तमर्थ विधातुमाह- सोऽयं यज्ञो वाचमभिदध्यौ । मिथुन्येनया स्यामिति तां सम्बभूव ' ( श. ३.२.१.२५ ) । तया भङ्गतो बभूवेत्यर्थः । ' इन्द्रो ह वा ईक्षाञ्चक्रे । महद्वा इतोऽभ्वं जनिष्यते यज्ञस्य च मिथुनाद् वाचश्च यन्मा नाभिभवेदिति स इन्द्र एवं गर्भो भूत्वैतन्मिथुनं प्रविवेश ' ( श. ३.२.१.२६ ) । ' स ह संवत्सरे जायमान ईक्षाञ्चक्रे | महावीर्या वा इयं योनिर्या मामदीधरत यद्वै मेतो महदेवाभ्वं नानुप्रजायेत यन्मा तन्नाभिभवेदिति ' ( श. ३.२.१.२७ ) । इन्द्रो विचारितवान् अस्मान् मिथुनाद् यज्ञवाचो मिथुनाद् यद् अभ्वमपत्यं जनिष्यते तन्मां नाभिभवेदित्येवं विचार्यान्योत्पत्तिभयात् स इन्द्र एव वाग्योन्यां गर्भो भूत्वा प्रविष्टः । स तत्र संवत्सरमुषित्वा अजायत । योनिं प्रशंसति— महावीर्येयं योनिर्या मामदीधरतेति । एतस्मान्मिथुनान्मामनु अन्यन्महदपत्यं यद्युत्पद्येत तन्मामभिभवेत् । ' तां प्रतिप-रामृश्यावेष्ट्याच्छिनत् । तां यज्ञस्य शीर्षन् प्रत्यदधाद् यज्ञो हि कृष्णः स यः स यज्ञस्तत्कृष्णाजिनं योषा योनिः सा कृष्णविषाणाऽथ यदेनामिन्द्र आवेष्ट्याच्छिनत् तस्मादावेष्टितेव स यथैवात इन्द्रोऽजायत गर्भो भूत्वैतदस्मान्मिथुनादे-मेवैषोऽतो जायते गर्भो भूत्वैतस्मान्मिथुनात् ' ( श. ३.२.१.२८ ) । एवं प्रतिपरामृश्य योनिदेशे किमुत्पादकमिति विचार्य तामावेष्ट्य हस्तेनावेष्टनं कृत्वाऽऽच्छिद्य अदधाद् यज्ञशिरसि स्थापितवान् । यज्ञो हि कृष्णः, ' यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वा ' ( तै. बा. ३.२.५.६ ) इत्यादिश्रुतिप्रसिद्धेः । यः कृष्णो मृगः स एव निदानेन यज्ञः । तदेव यजमानेन धार्यते कृष्णाजिनं तस्या वाचो योनिः सा कृष्णविषाणा । कृष्णविषाणाधारणे लिङ्गं दर्शयति – ' यदेनामिन्द्र आवे -ष्ट्याच्छिनत् तस्मादावेष्टितेव कृष्णविषाणा भवतीति । ' तां वा उत्तानामिव बध्नाति । उत्तानेव वै योनिर्गर्भं बिभर्त्यथ दक्षिणां भ्रुवमुपर्युपरि ललाटमुपस्पृशतीन्द्रस्थ योनिरसीतीन्द्रस्य ह्येषा योनिरतो वा ह्येनां प्रविशन् प्रविशत्यतो वा जायमानो जायते तस्मादाहेन्द्रस्य योनिरसीति ' ( श. ३.२.१.२ ९ ) । योनिर्यद्यधोमुखं गर्भं बिभृयात्, तदा पतेदेव, अत उत्तानभरणं सिद्धम् । अत उत्तानां बध्नीयात् । बन्धनप्रकारमाह -- दक्षिणां भ्रुवमारभ्य ललाटस्येषदुपरिप्रदेशं स्पृशेत् । तथा च सूत्रम् -- ' कृष्णविषाणां त्रिवलिं पञ्चवलि वोत्तानां दशायां बध्नीते ' ( का. श्रौ. ७.३.२५ ) । कृष्णमृगस्य शृङ्गं ग्रन्थित्रययुतं पञ्चग्रन्थियुतं वा प्रादेशं प्रादेशमात्रमूर्ध्वायं परिधानीयस्य दशायां बध्नीयाद् यजमानः । वलयः कृष्णवि-घाणागता उच्चप्रदेशाः । ‘ तया कण्डूयनम् ' ( का. श्रौ. ७.३.२६ ) । कण्डूरुत्पद्यते चेत्, तथा कण्डूयनं कार्यम्, न तु नखैः काष्ठादिभिर्वा ।

पृष्ठ 40

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 40 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १० ] • वेदार्थपारिजात भाष्यसहिता ३१ ' अथ न दीक्षितः । काष्ठेन नखेन वा कण्डूयेत गर्भो वा एष भवति यो दीक्षते यो वै गर्भस्य काष्ठेन वा नखेन वा कण्डूयेदपास्यन् मृत्येत्ततो दीक्षितः पामनो भवितोर्दीक्षितं वा अनु रेतांसि ततो रेतांसि पामनानि जनितोः स्वा वै योनी रेतो न हिनस्त्येषा वा एतस्य स्वा योनिर्भवति यत्कृष्णविषाणा तथो हैनमेषा न हिनस्ति तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः ' ( श. ३.२.१.३१ ) । यो गर्भं कृष्णविषाणाया अन्येन काष्ठादिना विकर्षेत्, तदा स गर्भोऽपगच्छन् मृतिं प्राप्नुयात् । ततोऽन्यस्य दुष्टत्वाद् विकर्षमाणो दीक्षितः पामनो भवितो: । पामा विचर्चिका तद्वान् भवितुं समर्थो भवति । मत्वर्थीयो न ' लोमादि ' ( पा. सू. ५.२.१०० ) इति सूत्रेण । न केवलं दीक्षितः पामनो भवति, किन्तु तदुत्पन्नाः पुत्रा अपि तादृशा भवन्तीत्याह — दीक्षितं वा अन्विति । विपक्षे दोषमुक्त्वा स्वपक्षे तदभावमाह —– स्वा इति । कृष्णविषाणाया योनित्वाद् दीक्षितस्य गर्भत्वाद् हिंसाभावाय कृष्णविषाणयैव कण्डूयेतेति विधिः I । अन्येन कण्डूयने गर्भस्यैव कर्षणम्, तेन गर्भस्य मरणमिवानिष्टमेव भवति दीक्षितस्य, अतः खर्जूयुक्तो भवति । दीक्षितस्य पश्चाद्भावीनि रेतांसि पुत्रादयोऽपि । वै योनी रेतो गर्भं न हिनस्ति । तेन तया कण्डूयनेन न दोष इत्यर्थः । ' उपस्पृशत्येनया दक्षिणस्या ध्रुव उपरीन्द्रस्य योनिरिति ' ( का. श्रौ. ७.३.२७ ) । यजमान एनया कृष्णविषाणया दक्षिणस्या ध्रुव उपरि ललाटं स्पृशेत् । मन्त्रार्थस्तु — हे कृष्णविषाणे, त्वं यथा पूर्वमिन्द्रस्य योनिरसि तथेदानीं यजमानस्य स्थानं भवेति शेषः । पुरा कदाचिद्यज्ञपुरुषो दक्षिणां देवीं समभवत् । तस्मात् सम्भवनादिन्द्रोऽजायत । तदानीमत्रान्य-स्योत्पत्तिर्मा भूदिति विचार्येन्द्रस्तद्योनिमाच्छिद्य मृगेषु न्यदधात् । निहिता सा योनिः कृष्णविषाणाऽभूत् । सोऽयमर्थ -स्तित्तिरिणा – ' यज्ञो दक्षिणामभ्यध्यायत् ' ( तै. सं. ६.१.३.१५ ) इत्यस्मिन्नाख्याने समाख्यात इति काण्वसंहिताभाष्ये सायणाचार्यः । शतपथीयवृत्तान्तस्तु पूर्वमेवोक्तः । ' भूमौ चोल्लिखति सुसस्या ' इति । ( का. श्री. ७.३.२८ ) । शृङ्गेण भूमौ रेखां कुर्यात् सुसस्येति मन्त्रेण । मन्त्रार्थस्तु – सस्यं व्रीहियवादि, तदर्थो भूमिगतो व्यापारः कृषिः । याः कृषयः सन्ति ताः सर्वाः सुसस्याः शोभनधान्याः कृधि । हे कृष्णविषाणे! त्वं कृषीः सुसस्याः कुरु । मन्त्रलभ्यं फलं तित्तिरिराह— ' कृष्यै त्वा सुसस्याया इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते ' ( तै. सं. ६.१.३.१६ ) इति । शतपथेऽपि — ' अथो-ल्लिखति । सुसस्याः कृषीष्कृधीति यज्ञमेवैतज्जनयति यदा वै सुषमं भवत्यथालं यज्ञाय भवति यदो दुःषमं भवति न तर्ह्यात्मने च नालं भवति तद्यज्ञमेवैतज्जनयति ' ( श. ३.२.१.३० ) । तथा भूमेरुपरि समन्त्रकमुल्लेखनं विधत्ते —कृष्टस्थलीः समृद्धसस्याः कृधीति मन्त्रार्थः । एतद् एतेनोल्लेखनेन । स्पष्टमन्यत् । यदा कृष्यादिसम्पत्त्या सुषमं सुखप्रदः संवत्सरो भवति, तदैव यज्ञो अनुष्ठानाय प्रभवति । यदोक्तवैपरीत्येन दुःषमं दुःखहेतुः संवत्सरः स्यात्, तदा आत्मने स्वशरीर-रक्षणायापि न प्रभवति, का कथा यज्ञस्येति । ' अथास्मै दण्डं प्रयच्छति । वज्रो वै दण्डो विरक्षस्तायै ' ( श. ३.२.१.३२ ) । अथ दण्डेन दीक्षां विधत्ते-अथास्मै दण्डमिति । प्रहारसाधनत्वाद् दण्डस्य वज्रत्वम् । ' औदुम्बरो भवति 1 । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरो भवति ' ( श. ३.२.१.३३ ), ' मुखसम्मितो भवति । एतावद्वै वीर्यं स यावदेव वीर्यं तावांस्तद् भवति यन्मुखसम्मितः ' ( श. ३.२.१.३४ ), ' तमुच्छ्रयति । उच्छ्रयस्व वनस्पत ऊर्ध्वो मा पाह्यं हस आस्य यज्ञस्योदृच इत्यूर्ध्वो मा गोपायास्य यज्ञस्य संस्थाया इत्येवैतदाह ' ( श. ३.२.१.३५ ) । बलकररसरूपमन्त्रमुदुम्बरो भवति । तथा च श्रुतिः — ' देवा वा ऊर्जं व्यभजन्त तत उदुम्बर उदतिष्ठत् ' ( तै. ब्रा. १.१.३.१० ) इति । ' मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति ' ( का.श्रौ. ७.४.१ ) । अध्वर्युर्यजमानायोदगग्रम्, ऊर्ध्वोष्ठपर्यन्तं मुखम्, तत्सम्मितम् । ' उच्छ्रयस्वेत्येनमुच्छ्रयति ' ( का.