वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 221–230

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 221–230

पृष्ठ 221

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 221 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१२ शुक्लयजुर्वेदसंहिता [ अ. ५ ओषधे भवरोगमहौषधरूप, हे स्वधिते संसारबन्धच्छेदक, एनं शरणागतं त्रायस्व भवरोगनिवर्तनेन पालय, चिज्जड-ग्रन्थिच्छेदनेन च स्वात्मतादात्म्यसम्पादनेनैनं मा हिंसीर्मा परादाः, ' देवास्तं परादुर्यो देवानन्यत्रात्मनो वेद ' ( बृ. उ. २.४.६ ) इत्यादिश्रुतिभ्यः । दयानन्दस्तु – ' हे वनस्पते वनरक्षक विद्वन्, यथा त्वमन्यानतीत्यान्यानुपगच्छसि मूर्खानतीत्य तद्विरोधिनो विदुष उपगच्छसि, तथैवाहमपि विद्वद्विरोधिनस्त्यक्त्वा विदुषां समीपं गच्छामि ' इति हिन्दी भाष्ये, संस्कृतान्वये तु — ‘ तथाहमन्यान् नागामन्यानुपागाम् ' इत्युक्तवान् । ' यस्त्वं परेभ्यः परोऽसि, अवरेभ्योऽर्वाक् च तं त्वामहं प्राप्नुयाम् । यथा देवा देवयज्यायै, उत्तमगुणदानाय त्वां कामयन्ते, तथैव वयमपि त्वां जुषामहे । यथा वयं देवयज्यायै उत्तमगुणसङ्गतये त्वां कामयामहे स्वधिते तथैवेमेऽपि जुषन्ताम् । यथा औषधिसमूहो यज्ञाय सम्भूय सिद्धः सर्वं त्रायते, तथैव हे औषधे सर्वरोगनिवारक दुःखविच्छेदक विद्वन्, वयं त्वां यज्ञाय कामयामहे । यथाहमस्य विनाशं न कामये, तथा त्वमपि यज्ञं मा हिंसीः ' इत्यादिकं व्याख्यायामुक्तवान्, तदेतत्सर्वमव्यापारेषु व्यापार एव, वाचकलुप्तोपमालङ्कारस्य दुरुपयोगश्च । मुख्यार्थपरि-त्यागादसङ्गतगौणार्थस्वीकाराच्च तत्रार्थे नितरां दोषाधायकता । ' अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ' ( १.४७ ) इति मनुपरिभाषया वनस्पतिशब्दस्य महावृक्षेषु रूढत्वात्, तथैव कोषेषूल्लेखाच्च तदीयो गौणार्थो हेय एव । न चैक एव मनुष्यः परेभ्यः परोऽवरेभ्यश्चार्वाग् भवति, परस्परविरोधात् । देवपदेन गुणानां ग्रहणमपि निर्मूलमेव । नहि जडस्यौषधि-गणस्य स्वतः सम्भूय सर्वत्राणकरत्वं सम्भवति, तस्य विशेषज्ञाधीनस्यैव कार्यकरत्वोपपत्तेः । न च विदुष ओषधित्वेन स्वधितित्वेन वा सम्बोधनं सम्भवति, ' गौणमुख्यार्थयोर्मुख्यार्थे कार्यसम्प्रत्ययः ' इति न्यायात् ॥४२ ॥

द्यां मा लेखीर॒न्तरि॑क्षि॒ मा हि॑ सीः पृथि॒व्या सम्भ॑व । अ॒यं हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रण॒नाय॑ महते सौभ॑गाय । अ॒तस्त्वं दे॑व वनस्पते श॒तव॑शो॒ विरो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रुहेम ॥४३ ॥

' स यं प्रथमं शकलमपच्छिनत्ति । तमादत्ते तं वा अनक्षस्तम्भं वृश्चेदुत ह्येनमनसा वहन्ति तथोऽनो न प्रतिबाधते ' ( श. ३.६.४.११ ) । प्रथमच्छिन्नयूपोपादानवृक्षच्छिन्नकाष्ठशकलं यूपावटे प्रक्षेपार्थमाददीत । ' प्रथमशकलं निदधाति ’ ( का. श्रौ. ६.१.१३ ), ' अनक्षस्तम्भं वृश्चति ' ( का. श्रौ. ६.१.१४ ) । गच्छतः शकटस्याक्षं छेदनावशिष्टः स्थाणुर्यथा न स्वामी दयानन्द की व्याख्या में वाचक लुप्तोपमा का दुरुपयोग ही किया गया है । मुख्य अर्थ को छोड़ देने तथा असंगत गौण अर्थ को ग्रहण करने के कारण उसमें दोष प्राप्त हो जाता है । देव शब्द से गुणों का ग्रहण करना भी अप्रामाणिक है ॥४२ ॥

मन्त्रार्थ - हे यूपवृक्ष! तुम द्युलोक को मत बिगाड़ो, अन्तरिक्ष को पीड़ा मत दो, पृथ्वी के साथ मिलो, अर्थात् तीनों लोकों में शान्ति हो । यह अतितीक्ष्ण कुठार बड़ा भारी ऐश्वर्य पाने के लिये तुमको यूप बनाता है । हे वृक्षदेवता! इस स्थाणु से तुम बहत अंकुर वाले होते हुए उपजो और हम भी पुत्र - पौत्र आदि बहत सी शाखा वाले हों । इस मन्त्र का उच्चारण करते हुए यजमान यूप के निमित्त कट कर गिरती हुई शाखा का अभिमन्त्रण करे, उस शाखा के पत्ते आदि दूर करे और आज्यस्थाली में से जुहू में घृत लेकर काटने के स्थान पर एक आहुति दे ॥ ४३ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ६.१.१३-१९ ) में उल्लिखित याज्ञिक प्रक्रिया के अनुसार ' द्यां मा लेखी ' इस कण्डिका के मन्त्रों का विनियोग छेदन से गिरते हुए यूपवृक्ष का अभिमन्त्रण तथा शोधन आदि कर्मों में किया गया है । शतपथ ब्राह्मण तथा तैत्तिरीय श्रुति में भी याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।

पृष्ठ 222

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 222 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.४३ ] वेदार्थपारिजात भाष्यसहिता २१३ स्तनाति तथा नीचं यूपवृक्षं छिन्द्यात् । अनसोऽक्षं स्तभ्नातीत्यक्षस्तम्भः, न अक्षस्तम्भोऽनक्षस्तम्भः । एतेन न वृक्षशाखां छित्त्वा तेन यूपः कार्यः, किन्तु समग्रस्यैव वृक्षस्य नातिस्थूलस्य छेदनमभिप्रेतं भवति । उत ह्येनमनसा वहन्ति तथा सत्यवशिष्टः स्थाणुरनसो गमने बाधको न भविष्यति । ' तं प्राञ्चं पातयेत् । प्राची हि देवानां दिगथो उदञ्चमुदीची हि मनुष्याणां दिगथो प्रत्यञ्चं दक्षिणायै त्वेवैनं दिशः परिविबाधिषेतैषा हि दिक् पितॄणां तस्मादेनं दक्षिणायै दिशः परि-विबाधिषेत ' ( श. ३. ६.४.१२ ) । यूपस्याधः पातनविषये प्रागादिदिक्त्रयं विकल्पयति - तं प्राञ्चमित्यादि । दक्षिणस्यां पातनं निषेधति — दक्षिणायै त्वेवैनं दिश इति । एनं यूपं दक्षिणायै दक्षिणस्या दिशः परिबाधकं कारयितुमिच्छेत्, तस्याः पितृदेवत्यत्वात् । ‘ तं प्रच्यवमानमनुमन्त्रयते । द्यां मा लेखीरन्तरिक्षम्. पृथिव्या सम्भवेति वज्रो वा एष भवति .... यं यूपाय वृश्चन्ति तस्माद् वज्रात् प्रच्यवमानादिमे लोकाः संरेजन्ते तदेभ्य एवैनमेतल्लोकेभ्यः शमयति तथेमांल्लोकान् शान्तो न हिनस्ति ' ( श. ३.६.४.१३ ) । अध: पतन्तं द्यामिति मन्त्रेणानुमन्त्रयते । ' स्फ्यस्तृतीयः, रथस्तृतीयः, यूपस्तृतीयः ' ( तै. सं. ५.२.६.२ ) इति वज्रावयवत्वाद् यूपस्य वज्रत्वम् । अतो वज्रपात इव यूपार्थवृक्षपातः । लोकाः सरेजन्ते भीत्या वेपन्ते, ' भ्यसते रेजत इति भयवेपनयोः ' ( निरु. ३.२१ ) इति यास्कोक्तेः । ‘ द्यां मा लेखीरिति पतन्तमभिमन्त्रयते ' ( का. श्री. ६.१.१६ ) । हे यूपवृक्ष, त्वं पतन् द्यां द्युलोकं मा लेखीर्मा हिंसीः । अन्तरिक्षलोकं च मा हिंसीः । पृथिव्या सम्भव सङ्गतो भव । यूपस्य वज्ररूपत्वाल्लोकानामतः शान्तिराशास्यते । शतपथे स्पष्टमुक्तम् — वज्रात् प्रच्यवमानादिमे लोकाः सरेजन्ते भीत्या वेपन्ते तदेभ्यः शमयति तथेमांल्लोकान् शान्तो न निस्तीति । यद्यप्यन्यत्र लिखधातुरक्षरविन्यासे वर्तते, तथाप्यत्र हिंसार्थकः ' स यदाह द्यां मा लेखीरिति दिवं मा हिंसीरित्येवैतदाह ' ( श. ३.६.४.१४ ) इति श्रुतेः । पृथिव्या सम्भवेत्यस्यापि तात्पर्यमाह श्रुतिः -- ( पृथिव्या सम्भवेति पृथिव्या सञ्जानीष्वेत्येवैतदाह ' ( श. ३.६.४.१४ ) । पृथिव्या सम्मतिमैकमत्यं प्राप्नुहीत्यर्थः । ' अयं हि त्वा स्वधिति-स्तेतिजानः प्रणिनाय महते सौभगायेत्येष ह्येनं स्वधितिस्तेतिजानः प्रणयति ' ( श. ३.६.४.१४ ) । ' न दक्षिणा पतेत् ' ( का.श्रौ. ६.१.१७ ) तथा यत्नः कार्यो यथा यूपवृक्षो दक्षिणस्यां दिशि न पतेत् । ' अयं हि त्वेति शोधनम् ' ( का.श्रौ. ६.१.१८ ) छिन्नस्य यूपवृक्षस्य कुठारेण शाखापर्णादिपातनं कुर्यात्, तदेव शोधनम् । ' अभिमन्त्रणशेषो वा विशेषोपदेशात् ' ( का. श्रौ. ६.१.१ ९ ) । वाशब्दः पक्षव्यावृत्तौ । अयं हि त्वेति मन्त्रो न मन्त्रान्तरमतोऽभिमन्त्रणमन्त्रस्य ' द्यां मा लेखीः ' इत्यस्यैव शेषः । अतो नानेन शोधनं कार्यम् । कुतः? विशेषोपदेशात् तं प्रच्यवमानमभिमन्त्रयते द्यां मा लेखीरिति शतपथे विशिष्याभिमन्त्रणमुद्दिश्यैव विधानात् । अर्थप्राप्तं शोधनं तु तूष्णीं कार्यम् । तथा चायं मन्त्रार्थः - अयं खलु स्वधितिश्छेदनसाधनभूतः परशुः तेतिजानो निशितो भवन्, महते सौभगाय सुभगत्वाय, अष्टात्राकाराश्रयणाद्धि सुभगवत्ता, अथवा सुभगो यज्ञः स एव सौभगः, तदर्थत्वाय यूपप्रणयनस्य प्रणिनाय प्रणयनं कृतवान्, पृथक् कृतवानित्यर्थः छेदनाभावे प्रणयनासम्भवात् । पूर्वशेषत्वपक्षे परशुना छिन्नस्त्वं लोकत्रय-मपीडयन्नधः पतेत्यर्थः । पृथग्विनियोगपक्षे उक्तलक्षणं त्वां शोधयामीत्यर्थः । यद्वा हे छिन्नवृक्ष, तेतिजानोऽतितीक्ष्णोऽयं स्वधितिः परशुर्महते सौभगाय सौभाग्याय दर्शनीयत्वाय तिर्यक्शाखोच्छेदनेन प्रणिनाय प्रकृष्टं यूपत्वं प्रापयामास, छेदनमन्तरा अष्टास्त्रीकरणाद्यभावेन तदसम्भवात् । यद्वा यज्ञाय त्वा प्रणिनाय कुठार एव त्वा यूपत्वं प्रापयति, ' छन्दसि लुङ्लङ्लट ' ( पा. सू. ३. ४.६ ) इति कालसामान्ये लिट् । अतस्त्वया छेदनान्न भेतव्यमित्यभिप्रायः । ‘ अथाव्रश्चनमभि-जुहोति ' ( श. ३.६.४.१५ ) । अतस्त्वमित्याव्रश्चने जुहोति यूपे वा तत्संस्कारात् । आवृश्च्यते यूपोऽस्मादित्यावश्चनः । यूपोपादानस्थाणौ छेदनप्रदेशः, तत्र स्रुवेण जुहुयात् । अथवा.. यूप एव जुहुयान्न स्थाणौ, कुतः? यूपसंस्कारात्,

पृष्ठ 223

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 223 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१४ शुक्लयजुर्वेदसंहिता । अ.५ तत्संस्कारस्य तत्रैव करणौचित्यात् । हे दीप्यमान वनस्पते, त्वमतोऽस्मात् स्थाणोः शतवल्शो बह्वङ्करः शतशाखो आशास्यते विरोह । विशेषेण जायस्व । वयं च सहस्रवल्शाः पुत्रपौत्रादिभिर्बहुशाखोपेता विशेषेण रुहेम प्रजायेमहीति यजमानेन होमसाधनस्याज्यस्य द्वे सामर्थ्ये - वज्ररूपेण रक्षकत्वम्. रेतोरूपेणोत्पादकत्वं च । तस्मात् स्थानाद् राक्षसा-दिकमुत्पन्नं न भवेदुत्पन्नं च परिकृतं भवति, तथा तत्र व्रश्चनप्रदेशे रेतःस्थापनात् शाखा बहुधा जायन्ते । तदप्युक्तं वज्रेणैवैतनाष्ट्रा रक्षां स्यवबाधते.. रेतो वा आज्यं शतपथे — ‘ नेदतो नाष्ट्रा रक्षां स्यनूत्तिष्ठानिति वज्रो वा आज्यं तद्वनस्पतिष्वेवैतद्रेतो दधाति तस्माद्रेतस आव्रश्चनाद्वनस्पतयोऽनु प्रजायन्ते ' ( श. ३.६.४.१५ ) इति । अध्यात्मपक्षे तु — प्रह्लादानुग्रहाय हिरण्यकशिपोर्वक्षःस्थलं नखैर्विदार्याप्यशान्तं भगवन्तं त्रिलोकीरक्षणाय देवाः प्रार्थयन्ते । अथवा सीताहरणेन कुपितं त्रिलोकीसंहाराय प्रवृत्तं भगवन्तं श्रीरामं भक्ताः प्राहुः - हे भगवन्, द्यां द्युलोकं हि मा लेखीर्मा हिंसीः, अन्तरिक्षं च मा हिंसीः । पृथिव्या सम्भव सञ्जानीष्वैकमत्यं सम्पादय, तामपि रक्षेत्यर्थः । अयं तेतिजानोऽतितीक्ष्णीकृतः स्वधितिरेव वियद्विदारकः । अतः सर्वं रक्ष । यद्वा श्रुतिर्भक्तान् प्रेरयति — हे भक्तसमूह, त्वा त्वां महते सौभगाय सौभाग्याय ऐहिकामुष्मिकाभ्युदयाय परमपदप्राप्तये च प्रणिनाय त्वद्विरोधिसंहारेण प्रापयतिं । अतोऽस्माद्भक्तसौभाग्यदानाद् हे वनस्पते संसारारण्यरक्षक हे देव, शतवल्शः शतशाखो भूत्वा विरोह । वयं भक्ताः श्रुतयो वा सहस्रवल्शा विरुहेम पुत्रपौत्रादिसहस्रशाखाः सन्तः प्रजायेमहि । तथा दयानन्दस्तु — ' हे विद्वन्, यथाहं द्यां न लिखामि तथा त्वमेनां मा लेखीः । यथाहमन्तरिक्षं न हिंसामि त्वमपि मा हिंसीः । यथाहं पृथिव्या सह सम्भवामि तथैतया सह त्वमपि सम्भव । हि यतः कारणात् । यथा तेतिजानः यथा स्वधितिः शत्रून् विच्छिद्यैश्वर्यं प्रापयति तथा त्वमपि प्रापयेः । अतो वयं त्वां महते सौभगाय सम्भावयेम । कश्चिदैश्वर्यं प्रणिनाय प्रापयति, तथा वयं त्वां प्रापयेम । हे देव वनस्पते, पूर्वोक्तेन महता सौभगेन यथा शतवल्शो वृक्षो विरोहति तथा विरोह । यथा सहस्रवल्शा वनस्पतयो विरोहन्ति, तथा वयमपि विरोहेम ' इति, तदप्यसङ्गतम्, विप्रति-षिद्धत्वात् । पदार्थे ' द्यां सूर्यप्रकाशम् ' इत्युक्तवान्, हिन्द्यां तु ' सुखस्वरूपं मा नाशय ' इत्युक्तम्, न च तद् द्वयमपि सम्भवति, स्वरूपसुखस्य सूर्यप्रकाशस्य वा नाशयितुमशक्यत्वेन नाशाप्राप्तौ निषेधायोगात् । अन्तरिक्षपदेन तत्स्थप-दार्थग्रहणेऽपि बीजं वक्तव्यम् । पृथिव्या सह सम्भवनं कीदृशमिति नोक्तम् । हिन्द्यां तु ' निष्पादनं कुरु ' इत्युक्तम्, तदपि अध्यात्मपक्ष में अर्थयोजना इस प्रकार है - प्रह्लाद पर कृपा करने के लिये हिरण्यकशिपु के वक्षःस्थल को नखों से विदीर्ण करने के बाद भी अशान्त भगवान् नृसिंह की अथवा सीताहरण से क्रुद्ध, त्रिलोकसंहार के लिये उद्यत भगवान् राम की प्रार्थना रखें, भक्तगण करते हैं कि हे भगवन्! द्युलोक का संहार न करें, अन्तरिक्ष का विनाश न करें तथा पृथिवी के प्रति भी ऐकमत्य ऐहिक अर्थात् उसकी रक्षा करें । यह अत्यन्त तीक्ष्ण शस्त्र ही विदारक है, अतः इससे सबकी रक्षा करें । अथवा हे भक्तों, तुम्हारे हे आमुष्मिक सौभाग्याभ्युदय के लिये यह विरोधियों के संहार के द्वारा परम पद प्राप्त कराता है । अतः इस भक्तसौभाग्य दान से संसाररक्षक देव! आप शताधिक शाखाओं से वृद्धिंगत हों, तथा हम भक्तगण भी हजारों पुत्र - पौत्रादि शाखाओं से परिवर्धित होवें । स्वामी दयानन्द की व्याख्या असंगत है, क्योंकि स्वरूपसुख अथवा सूर्यप्रकाश को विनष्ट करना असम्भव है, अतः नाश प्राप्त न होने पर उसका निषेध संगत नहीं होता । स्वधिति का अर्थ यज्ञ कहा गया है, यह भी अनुचित है । तब तो भोजन भी क्षुधाविनाशक तथा बलोत्पादक होने के कारण स्वधिति हो जायगा । यहां लुप्तोपमा अलंकार भी प्रमाणरहित है । हमारे सिद्धान्त के अनुसार ब्रह्मात्मपरक अर्थ करना श्रुत्यादि- विरुद्ध नहीं है । ' सर्वे वेदा यत्पदमामनन्ति ' इस श्रुतिवचन के अनुसार आध्यात्मिक अर्थ उचित ही है ॥ ४३ ॥

पृष्ठ 224

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 224 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.४३ ] वेदार्थपारिजात भाष्यसहिता २१५ निर्मूलम् । न च तया मिथुनीभावः सम्भवति । संस्कृते स्वधितिः शत्रून् विच्छिद्यैश्वर्यं प्रापयतीत्युक्तम्, तथा त्वमपि प्रापयेरित्यपि निरर्थकम् शत्रुविच्छेद ऐश्वर्यप्राप्तिश्च स्वप्रयासेन साध्यते, परमेशप्रार्थनया वा न विद्वत्प्रार्थनया, तस्या-समर्थत्वात् । हिन्द्यां तु ' स्वधितिर्दुर्गन्धादिदोषोत्पन्नदुःखनाशकत्वात् स्वधितिर्यज्ञ उक्तः ' इति, तदपि यत्किञ्चित्, भोजनमपि क्षुधामपनीय बलवत्त्वमापादयतीति तस्यापि स्वधितित्वापत्तेः अस्मिन् पर्यनुयोगे प्रतिवचनाभावात् । तत्र तेतिजान इति विशेषणं कथं सङ्गच्छत इत्यपि विचारणीयम् । ' यथा कश्चिद् ऐश्वर्यं प्रापयति तथा वयं त्वां प्रापयेम ' इत्यपि निरर्थकमेव वचः । के यूयमैश्वर्यप्रापकाः? किञ्च प्रयोजनं तत्कथनस्य? लुप्तोपमालङ्कारोऽप्यत्र निष्प्रमाणक एव, यथा तथा तदाश्रयणस्य सर्वत्र सुलभत्वात् । शतपथविरुद्धं च सर्वमेतत् । आशीरपि चार्वाकप्रायस्य तव मते न सम्भवति । ब्रह्मात्मपरत्वं तु न विरुध्यते, ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो. १.२.१५ ) इति श्रुतेः ॥४३ ॥

इति माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्ये पञ्चमोऽध्यायः ॥

पृष्ठ 225

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 225 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

षष्ठोऽध्यायः सौमिकवेदिप्रधाने पञ्चमेऽध्याये आतिथ्येष्टिमारभ्य यूपनिर्माणमन्त्रा उक्ताः । अग्नीषोमीयपशुप्रधाने षष्ठेऽध्याये यूपसंस्कारमारभ्य सोमाभिषवोद्योगपर्यन्ता मन्त्रा उच्यन्ते - ' अभ्रिमादत्ते देवस्य त्वा.... नार्यसीति समान एतस्य यजुषो बन्धुर्योषा वा एषा यदभ्रिस्तस्मादाह नार्यसीति ' ( श. ३ | ७ | १ | १ ) । ' देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखतीदमहमित्याहवनीयस्य पुरस्तादन्तर्वेद्यर्धम् ' ( का.श्रौ. ६ २८ ) । आज्यासादनानन्तरं देवस्य त्वेतिमन्त्रेणाभ्रिमादाय आहवनीयस्य पुरस्ताद् यूपनिखननार्थमिदमहमिति मन्त्रेण देशं परिलिखेत् । तस्य देशस्यार्धभागो वेद्यामन्तः, भागार्थं वेदेर्बहिर्यथा स्यात् तथा गर्तयोग्यं देशं परिलिखेदित्यर्थः । सूत्रमिदं शतपथादिब्राह्मणानुसार्येव । पूष्णो हस्ताभ्यामित्यन्तो मन्त्रो व्याख्यातपूर्वः । ॐ दे॒वस्य॑ त्वा सवि॒तुः प्रवेऽश्वनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒ -दम॒ह रक्ष॑सां ग्री॒वा अपि॑कृ॒न्तामि । यर्वोऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयाऽरा॑तीदिवे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लोकाः पि॑त॒षद॑नाः पितृ॒षद॑नमसि ॥१ ॥

' वोऽसीत् वानप्य प्रोक्षत्यग्रमध्यमूलानि दिवेति प्रतिमन्त्रम् ' ( का.श्रौ. ६।२।१५ ) । ' अवटे शेषमासिञ्चति । क्वचित्पात्रस्थासु लौकिकीष्वप्सु यवान् प्रक्षिप्य यूपस्याग्रं मध्यं मूलं च प्रोक्षेच्छुन्धन्तामिति ' ( का.श्रौ. ६।२।१७ ) । बर्हीींषि प्राञ्चि उदञ्च च प्रास्यति पितृषदनमसीति । दिवे त्वेत्यादिषु त्रिषु मन्त्रेषु निराकाङ्क्षीकरणाय प्रोक्षामीति क्रियापदं योज्यम् । प्रोक्षणशेषं जलं गर्ते क्षिपेत् । प्रागग्रानुदगग्रांश्च कुशान् पूर्वं यूपस्योपरि निहितान् गर्ते प्रक्षिपेदिति सूत्रार्थः । मन्त्रार्थास्तु औदुम्बरीविषये यथा व्याख्यातास्तथैवात्र यूपविषये व्याख्यातव्याः । -अध्यात्मपक्षे – भगवदाराधनाय पूजोपकरणानि गृह्णन् साधकः प्रार्थयते - हे पूजोपकरणानि त्वां युष्मान् अहम् अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे । ध्वजारोपणाय लेखनेन च रक्षसां यज्ञनानां ग्रीवा अपि कृन्तामि । पूजास्थानोपशोभनाय यवानुप्यन् प्रार्थयते - हे यव, त्वं यवोऽसि । अस्मद् द्वेषो यवय अदानानि च पृथक्कुरु । भगवदीयं ध्वजं च स्थापयन् प्रार्थयते । शेषं यज्ञव्याख्यानवदेव प्रत्येतव्यम् । मन्त्रार्थ – ' देवस्य... कृन्तामि ' का अर्थ ५।२२ पर दिया जा चुका है । हे शस्य, तुम यव हो । हमारे शत्रु अथवा दुर्भाग्य को हमसे दूर करो, हमारे वैरियों को दूर करो । हे गूलर की शाखा के अग्र भाग, द्युलोक की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । हे मध्य भाग, अन्तरिक्ष की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । हे मूल भाग, पृथ्वी की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । पितरों के निवासस्थान लोक इससे शुद्ध हों । हे कुशाओं, तुम पितरों के बैठने के लिये आसन बनो ॥१ ॥

भाष्यसार - पंचम अध्याय में आतिथ्या इष्टि से प्रारम्भ करके यूपनिर्माण तक के मन्त्र उपदिष्ट हैं । छठे अध्याय में अग्नीषोमीय पशु की प्रधानता है तथा यूप के संस्कार से लेकर सोम के अभिषव की तैयारी तक के मन्त्र उपदिष्ट हैं । शतपथ ब्राह्मण तथा कात्यायन श्रौतसूत्र में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार आज्यासादन के बाद ' देवस्य त्वा ' इस मन्त्र से अनि हाथ में लेकर आहवनीय पूर्व भाग में यूप गाड़ने के लिये ' इदमहम् ' इस मन्त्र से स्थान खोदा जाता है । उस स्थान का आधा हिस्सा वेदि के भीतर तथा आधा हिस्सा वेदि के बाहर जैसे रहे, इस प्रकार खोदना चाहिये ।

पृष्ठ 226

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 226 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ शुक्लयजुर्वेदसंहिता [ अ. ६ दयानन्दस्तु – ' देवस्येति देवस्य द्योतमानस्य त्वा त्वां सभाध्यक्षं सवितुः सर्वविश्वोत्पादकस्य प्रसवे सृष्टौ अश्विनोः प्राणोदानयोर्बाहुभ्यां बलवीर्याभ्यां पूष्णः पुष्टिनिमित्तस्य प्राणस्य हस्ताभ्यां धारणाकर्षणाभ्यामाददे गृह्णामि । नारि यज्ञसहकारिणि असि । इदं युद्धाख्यमहं रक्षसां दुष्टकर्मकारिणां ग्रीवाः कण्ठान् अपिकृन्तामि छिनद्मि । यतः संयोगविभागकर्ता असि । यवय वियुहि । अरातीः शत्रून् दिवे विद्यादिप्रकाशनाय त्वा त्वां न्यायप्रकाशम् अन्तरिक्षाय त्वा सत्यानुष्ठानाय प्रकाशं पृथिव्यै भूमिराज्याय त्वा राज्यविस्तारकं शुन्धन्ताम् । लोका न्यायदृष्ट्या समीक्षणीयाः पितृषदना यथा पितृषु विद्वत्सु रक्षितृषु सीदन्ति ते पितृषदनाः, यथा विद्वत्स्थाने ' इति, तदपि यत्किञ्चित्, निर्बीजलाक्षणिकार्थाश्रयणमूलकत्वात् । ' इदम् ' इत्यनेन युद्धं कथं गृह्यते? युद्धग्रहणे च नार्या यज्ञसहकारिण्याः कः प्रसङ्गः? समाध्यक्षश्च कथं सम्बोधनीयः? ' त्वां न्यायप्रकाशम्, लोका न्यायदृष्ट्या समीक्षणीयाः ' इत्यादयोऽर्था निर्मूला एव, कैश्चिदपि ऋषिभिस्तथाऽव्याख्यानात् । सायणादिव्याख्यानानि तु श्रुतिसूत्रमूलकत्वादेवोपादेयानि विश्वसनीयानि च ॥ १ ॥

अग्रेणीर॑सि स्वावे॒श उ॑त्रेतॄणामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः । द्यामग्रे॑णास्पृक्ष आन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृहीः ॥२ ॥

‘ प्रथमशकलं चाग्रेणीरसीति ' ( का.श्रौ. ६ । २।१ ९ ) । यूपावटे शकलं निःक्षिपेत् प्रथमशकलं च यूपस्योपरि प्रथमच्छिन्नं शकलं निदध्यात् । अग्रमुत्तरेण चषालम् । यूपाग्रस्योत्तरतः समीप एव चषालं निदध्यात् । मन्त्रार्थस्तु -हे यूपशकल, स्वावेशः सुष्ठु शोभन आवेशो यूपावस्थितिलक्षणो यस्मिंस्तादृशस्त्वम् । यूपस्य त्रयो नेतारः - ( १ ) प्रथमशकलः, ( २ ) स्वरुः, ( ३ ) चषालश्चेति । तेषामूर्ध्वनेतॄणां मध्येऽग्रेऽवस्थितो यूपोऽवटं प्रति नीयत, इत्यग्रेणीरसि । यूपस्य प्रथमावयवभूतोऽसीत्यर्थः । यद्वा अग्रे प्रथमं यूपस्य छिद्यमानस्यापनीयत इत्यग्रेणीः यूपावयवभूतोऽसि । अग्रेऽवस्थितो यूपमवटं प्रति नयतीत्यग्रेणीः पुरःसरोऽसीति वा । कथम्भूतस्त्वम्? उन्नेतॄणामुन्नयनकर्तॄणामध्वर्यूणां स्वावेशः सुखेनावेशयितुं शक्यः । त एव यूपावटे यूपशकलमेनं सुखेनावेशयन्ति स्थापयन्ति, लघुप्रमाणत्वात् । तादृशस्त्वं हे यूपशकल, एतस्य कर्मणो वित्तात् । कर्मणि षष्ठी । एतत्कर्म विद्धि । कात्यायन श्रौतसूत्र ( ६।२।१५-१७ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' यवोऽसि ' इस मन्त्र से किसी पात्र में रखे हुए लौकिक जल में जौ डालकर उससे यूप के अग्रभाग, मध्यभाग तथा मूलभाग का प्रोक्षण करे । प्रोक्षण के त्वा बाद ' इत्यादि यूप ऊपर प्रागग्र तथा उत्तराग्र रखी गई कुशाओं को ' पितृषदनमसि ' इस मन्त्र से गड्ढे में फेक देता है । प्रोक्षण के ' दिवे तीन मन्त्रों में वाक्यपूर्ति के लिये ' प्रोक्षामि ' यह क्रियापद लगाना चाहिये । प्रोक्षण से बचा हुआ जल गड्ढे में गिरा दिया जाता || है १ || । इन मन्त्रों के अर्थ औदुम्बरी के प्रसङ्ग में जिस प्रकार वर्णित किये जा चुके हैं, उसी प्रकार यहाँ भी व्याख्या की जानी चाहिये मन्त्रार्थ - हे यूपखण्ड, उठाने वाले ऋत्विजों के लिये हल्के बनकर सुख से प्रवेशयोग्य होकर आगे बढ़ो । तुम इस बात को जानो कि तुम्हारे ऊपर दूसरा और खण्ड स्थापित होगा । सबके प्रेरक सविता देव मधु और घृत से तुमको सींचे । हे चषाल, शुभ फलयुक्त औषधियों के निमित्त तुमको यूपखण्ड पर स्थापित करता हूँ । हे यूप, तुमने अग्र भाग से घुलोक को स्पर्श किया है, मध्य भाग से अन्तरिक्ष को पूर्ण किया है और अधो भाग से पृथ्वी को दृढ़ किया है ॥२ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ६।२।१ ९, ६।३।२-४, ७ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' अग्रेणीरसि ' इस कण्डिका के मन्त्रों से यूप के लिये खोदे गये गड्ढे में शकलप्रक्षेप, प्रथम शकल का स्थापन, चषाल का निधान, यूप का घृत से लेपन तथा यूप

पृष्ठ 227

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 227 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २ ] वेदार्थपारिजातभाष्यसहिता ३ कतमत् कर्म? यद् अधि त्वा स्थास्यति । अधीत्युपरिभावमैश्वर्यं वा । यूपस्त्वामधिष्ठास्यति त्वदुपर्यवस्थानं करिष्यतीति त्वया बोद्धव्यमित्यर्थः । सायणरीत्या तु - त्वा त्वां यस्मात् कर्मण्यध्वर्युरधिष्ठास्यंति स्थापयिष्यति त्वमेतद्विद्धीति । ' देवस्त्वेत्यनक्ति ’ ( का.श्रौ.६।३।२ ) । ‘ आज्येन यूपमञ्ज्यादुपरवर्जम् ( ६।३।२ ) इत्युपरस्याग्रेऽञ्जनविधानाद् यूपस्य निखननीयः पञ्चमो भाग उपरो नामेत्युक्तमेव । हे यूप, त्वा त्वां सविता प्रेरको देवः, मध्वा मधुरेणाज्येन आनक्तु । ' अश्रू व्यक्तिम्रक्षणकान्तिगतिषु ' । म्रक्षयतु श्लक्ष्णं करोतु । आगमशास्त्रस्यानित्यत्वान्नुमभावे रूपम् । ' चषालमुभयतोऽक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति ' ( का.श्रौ. ६।३।३-४ ) । चषालो यूपस्योपरि प्रतिमोक्तव्योऽष्टाश्रिर्मध्ये सन्नतो वलयः । तं चषालमुपरिष्टादधस्ताच्च अन्तबर्हिश्चानेनैव मन्त्रेणाञ्ज्यात् ॥ अक्तं चषालमधस्तादुपरिष्टादाज्येन सिक्तं यूपचूडायां सुपिप्पलाभ्य इति मन्त्रेण प्रतिमुञ्चेत् । ' अग्रमुत्तरेण चषालम् ' ( का.श्रौ. ६।२।१४ ) यूपाग्रस्योत्तरतः समीप एव चषालं निदध्यात् । हे चषाल, त्वा त्वां सुपिप्पलाभ्यः, पिप्पलं फलम्, शोभनफलोपेताभ्य ओषधीभ्यस्तन्निष्पत्त्यर्थं यूपस्याग्रे प्रतिमुञ्चामीति शेषः । • ' द्यामग्रेणेत्युच्छ्रयतीति ' ( का.श्रौ. ६।३।७ ) । तं नाभिमात्रे सर्वतो गृहीतं यूपमुच्छ्रयेत् । हे यूप, तवाग्रेण द्यां द्युलोकमस्पृक्षः, त्वं स्पृष्टवानसि । तथा अन्तरिक्षमन्तरिक्षलोकं मध्येन मध्यप्रदेशेनासमन्तात् प्राः पूरितवानसि । ‘ प्रा प्रपूरणे ' । तथा पृथिवीं भूलोकमुपरेण पूर्वोक्तेन भूमिष्ठेन निखननीयेन पञ्चमभागेन तव मूलभागेन अबृंहीः दृढीकृतवानसि । अस्पृक्ष इति स्पृशतेलुङि ' शल इगुपधादनिटः क्सः ' ( पा. सू. ३/१/४५ ) इति क्सप्रत्यये रूपम् | सिद्धान्तरीत्या तु औदुम्बरीविषय इवात्रापि मन्त्रा व्याख्येयाः । हे अभ्रे! काष्ठनिर्मितखननसाधनविशेष, त्वा त्वां सवितुः परमेश्वरस्य देवस्य प्रसवे प्रेरणे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे, न तु प्राकृताभ्यां स्वीयाभ्यां बाहुभ्यां न वा स्वाभ्यां हस्ताभ्याम् । अत्र स्वबाह्वोर्हस्तयोश्चाश्विबाहुपूषहस्तभावना कर्तव्या कर्मसाद्गुण्याय । त्वं नार्यसि खननसाधनत्वेन कर्मोपयोगित्वेन च नराणामनुष्ठातृणां सम्बन्धिन्यसि ' योषा वा एषा ' ( श. ३ | ७ | १ | १ ) इति श्रुत्यनुसारेण स्त्रीलिङ्गत्वाद् नार्यसि । यूपावटपरिलेखमभिलक्ष्याह - इदमिति । व्यत्ययेन अनेनेति । अनेन अवटपरिलेखनेन रक्षसां यज्ञघ्नानां ग्रीवाः कण्ठान् अपिकृन्तामि छिनद्मि । यवोऽसीत्यप्सु यवानोप्येति कात्यायनरीत्या हे यव धान्यविशेष, त्वं यवोऽसि यु मिश्रणामिश्रणयोः ' पृथक्करोषि । अस्मद् अस्माकं सकाशाद् द्वेषो द्वेष्ट्न् दौर्भाग्यं च यवय पृथक्कुरु । अरातीः अदानानि शत्रून् वा यवय पृथक्कुरु । ' प्रोक्षत्यग्रमूलानि दिवे त्वेति प्रतिमन्त्रं ' प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादिति ' ( का.श्रौ. ६ । २।१६ ) । हे यूपाग्रभाग, दिवे द्युलोकप्रीत्यर्थं त्वा प्रोक्षामि । हे मध्यमाग, अन्तरिक्षाय अन्तरिक्षलोकप्रीत्यै त्वां प्रोक्षामि । हे मूलभाग, पृथव्यै पृथिवीलोकप्रीत्यै त्वां प्रोक्षामि । ' अवटे ( प्रोक्षण ) शेषमासिञ्चति शुन्धन्तामिति ' ( का.श्रौ. ६।२।१७ ) अनेनोदकसेचनेन पितृषदनाः पितृदेवमनुष्यनिवासभूता लोकाः शुन्धन्तां शुद्धा भवन्तु । खननेनोत्पन्नस्य क्रौर्यस्य शान्त्यर्थमिदमुदकसेचनम् | ' बर्हषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति ' ( का.श्रौ. ६।२।१८ ) । तस्मिन्नवटे प्रागग्रानुदगग्रांश्च दर्भानास्तृणाति । हे बर्हिः, त्वं पितृसदनमसि पितरः सीदन्त्युपविशन्त्यस्मिन्निति तदसीति । ‘ सोऽभ्रिमादत्ते योषा वा एषा । अथावटं परिलिखति । अथ खनति प्राञ्चमुत्करमुत्किरत्युपरेण सम्मायावटं खनति तदग्रेण प्राञ्चं यूपं निदधात्येतावन्मात्राणि बर्हीष्युपरिष्टादधिनिदधाति तदुपरिष्टाद्यूपशकलमधिनिदधाति पुरस्तात्पार्श्वतश्चषालमुपनिदधात्यथ यवमत्यः प्रोक्षण्यो भवन्ति सोऽसावेव बन्धुः ' ( श. ३ | ७ | १ | १-३ ) । यूपस्याष्टमो भागो मूलभाग उपरः । तावत्परिमितं यूपावटं कुर्यात् । मुष्टिपरिमितानि बर्हीींषि यूपाग्रे निदध्याद् यूपशकलं च ।

पृष्ठ 228

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 228 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ शुक्लयजुर्वेदसंहिता [ अ. ६ ' सयवानावपति । यवोऽसि यवयास्मद् द्वेषो यवयाऽरातीरिति नात्र तिरोहितमिवास्त्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यमेवैतत् करोति ' ( श. ३ | ७ | १ | ४ ) । स प्रोक्षति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति वज्रो वै यूपी लोकानामभिगुप्त्यै एषां त्वा लोकानामभिगुप्त्यै प्रोक्षामीत्येवैतदाह ' ( श. ३ | ७ | १/५ ) | ' अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति ' ( श.३ | ७ | १ | ६ ) । ' अथ बर्हषि । प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्यं वा अस्यैतद् भवति यन्निखात स यथानिखात ओषधिषु मितः स्यादेवमेतास्वोषधिषु मितो भवति ' ( श.३ । ७।१।७ ) ' अथ यूपशकलं प्रास्यति । तेजो ह वा एतद्वनस्पतीनां यद्वाह्याशकलस्तस्माद्यदा बाह्याशकलमपतक्ष्णुवन्त्यथ शुष्यन्ति तेजो ह्येषामेतद्यद्यूपशकलं प्रास्यति सुतेजसं मिनवानीति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्माद्यूपशकलं प्रास्यति ' ( श. ३ | ७ | १ | ८ ) । यूपशंकलस्य गर्ते प्रक्षेपं सार्थवादमाह – ' अथ यूपशकलं प्रास्यतीति । तेजो वा एतद्वनस्पतीनां यद्वाह्याशकलस्तस्मादेव यदा बाह्याशकलमपतक्ष्णुवन्ति बाह्यशकलं तक्षणेन पृथक्कुर्वन्ति, अथानन्तरमेव वनस्पतयः शुष्यन्ति । अतो बाह्यशकलमेव वनस्पतीनां तेजः, जीवनहेतुभूतं सारतत्त्वम् | यूपावटे तस्य बाह्यशकलस्य स्थापनेन यूपं सतेजसं करोति । ' यूपं तक्षति, यूपमष्टास्त्रीकरोति ’ इत्यादिभिस्तक्षणादिभिर्निस्त्वचं यूपं सत्वचमेव करोति । एष हि यजुष्कृतो मेध्यस्तस्माद्यूपशकलं प्रास्यति । ' स प्रास्यति अग्रेणीरसि स्वावेश उन्नेतॄणामित्येतस्य वित्तादधि त्वा स्थास्यतीत्यधि ह्येनं तिष्ठति तस्मादाहैतस्य वित्तादधि त्वा स्थास्यतीति ' ( श.३।७ / १1 ९ ) । शकलप्रासनं समन्त्रकं विधत्ते - स प्रास्यति अग्रेणीरसीति । इत्याद्युपर्युक्तासु शातपथीषु श्रुतिषु स्पष्टमेव सिद्धान्तपक्षः समर्थितः । मन्त्रस्तु व्याख्यातः । श्रुतिरेव मन्त्रतात्पर्यमाह - पुरस्ताद्वा अस्मादेषोऽपच्छिद्यते यस्मादेष शकलोऽस्माद् यूपात् पुरस्तादपि च्छिद्यते तस्मादाह अग्रेणीरिति । अस्य प्रथमशकलत्वाद् यूपात् प्रथमं नीयमानत्वाद् अग्रेणीः स्वावेश इत्यर्थः । अधि त्वा स्थास्यतीत्यस्य तात्पर्यमाह - त्वामधि तवोपरि यूपः स्थास्यतीति तस्यावस्थानं वित्ताद् विजानीहीत्यर्थः । ‘ अथ स्रुवेणोपहत्याज्यम् । अवटमभिजुहोति नेदधस्तान्नाष्ट्रा रक्षा स्युपोत्तिष्ठानिति वज्रो वा आज्यं तद्वज्रेणैवैतं नाष्ट्रा रक्षा स्यपबाधते तथाधस्तान्नाष्ट्रा रक्षासि नोपोत्तिष्ठन्त्यथ पुरस्तात्परीत्योदङ्ङासीनो यूपमनक्ति स आह यूपायाज्यमानायानुब्रूहीति ' ( श. ३ | ७ | ३ | १० ) । आज्यमुपहत्य स्रुवेणादाय अवटमभि तूष्णीं जुहोति । ' स्रुवेणावटे जुहोति तूष्णीम् ' ( का.श्रौ. ६ । २।२० ) । होमसाधनस्याज्यस्य द्वे सामर्थ्ये – वज्ररूपेण रक्षकत्वम्, रेतोरूपेणोत्पादकत्वं च । अतो नाष्ट्रा नाशकानि रक्षांसि नोत्तिष्ठेरन्निति वज्ररूपेण आज्येन रक्षांस्यपबाधते ॥ अथ अवटस्य पुरस्तात् परीत्य परिक्रम्य उदङ्मुख आसीनोऽध्वर्युर्यजमानो वा यूपमनक्ति । ' पुरस्तात्परिक्रम्याध्वर्युर्यजमानो वा यूपमनक्ति उदड्डुपविश्येति ' ( का.श्रौ. ६।२।२१ ) । स यूपायाज्यमानायानुब्रूहीति यूपाञ्जनप्रैषः । सोऽनक्ति । देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानां प्रसविता यजमानो वा एष निदानेन यद् यूपः, सर्वं वा इदं मधु यदिदं किञ्च तदेनमनेन सर्वेण स स्पर्शयति तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति ' ( श. ३ | ७ | ३ | ११ ) | देवस्त्वेत्यञ्जनमन्त्रस्य तात्पर्यमाह - सविता वै देवानामिति । यजमाननिष्पाद्यस्य यागस्य यूपेनापि निष्पाद्यत्वात् तत्सिद्धिन्यायाद् यजमानो यूपत्वेनोपचर्यते । यजमानो वा एष निदानेन यद् यूपः । सर्वं वा इदं मधु यदिदं किञ्चेति सर्वस्य मधुरूपत्वमुच्यते । ' इयं वै पृथिवी सर्वेषां मधु ' ( श. १४ | ५ | ५ | १ ) इति मधुब्राह्मणेन सर्वं सर्वस्योपकारकत्वेन मोदकत्वान्मधूच्यते । तत् तत एनं यूपमेव यूपद्वारेणानेन सर्वेण मधुभूतेन चराचरेण आज्यद्वारेण संस्पर्शयति । ' अथ चषालमुभयतः प्रत्यज्य प्रतिमुञ्चति ।

पृष्ठ 229

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 229 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २ ] वेदार्थपारिजातभाष्यसहिता सुपिप्पलाभ्यस्त्वौषधीभ्य इति पिप्पल हैवास्यैतद्यन्मध्ये संगृहीतमिव भवति तिर्यग्वा इदं वृक्षे पिप्पलमाहत स यदेवेद् सम्बन्धनं चान्तरोपेनितमिव तदेवैतत्करोति तस्मान्मध्ये संगृहीतमिव भवति ' ( श ०३ | ७ | ३ | १२ ) । चषालं पूर्वोक्तप्रकारं वलयमाज्येन प्रत्यज्य प्रतिमुञ्चति उपरि बधाति । मन्त्रार्थस्तूक्त एवानुसन्धेयः । अस्य यूपस्य चषालं सुपिप्पलं सुफलं खलु । तच्च मध्ये संगृहीतमिव कुर्यात् । उक्तं यूपफलरूपत्वं लौकिकवृक्षदृष्टान्तेन द्रढयति -तिर्यग्वा इदं पिप्पलं फलं वृक्षे आदृतं सम्बद्धं भवति । यदेवेदं सम्बन्धनं सम्यग्बन्धनसाधनं वृन्तं फलं चान्तरा वृन्तफलयोर्मध्ये उपेनितमिव उपेनितम् अल्पपरिमाणं विद्यते, तदेव एतद् एतेन चषालोपेनितेन कृतवान् भवति तस्मान्मध्ये संगृहीतमिव भवति । ' आन्तमग्निष्ठामनक्ति । यजमानो वा अग्निष्ठा रस आज्य रसेनैवैतद्यजमानमनक्ति तस्मादान्तमग्निष्ठामनक्त्यथ परिव्ययणं प्रति समन्तं परिमृशत्यथाहोच्छ्रीयमाणायानुब्रूहीति ' ( श.३ | ७ | ३ | १३ ) पुनरञ्जनं विधत्ते - अग्निष्ठा अग्नेरभिमुखाश्रिस्तामग्निष्ठाम् आन्तम् उपरिप्रदेशपर्यन्तमनक्ति । . सोपरमग्निष्ठादेशमङ्क्त्वा परिव्ययणदेश समन्तं परिमृश्याध्वर्युर्नावसृजेदापरिव्ययणात् ' ( का.श्रौ. ६।३।५ ) । उपरेण सह वर्तते सोपरम्, अग्निसमीपे तिष्ठतीत्यग्निष्ठा अग्नेरभिमुखीभूता प्रत्यासन्ना यूपस्याश्रिर्यूपस्य सोपरमग्निसम्मुखाश्रिदेशं पुनस्तेनैव मन्त्रेणैवाक्त्वा परिव्ययणदेशं यूपस्य रशनाबन्धनस्थानं सर्वतो हस्तेन गृहीत्वाऽपरिव्ययणादध्वर्युर्न विसृजेत । अधुना अग्निसमीपेऽवस्थानाभावादग्निष्ठादेशमित्युक्तमिति सूत्राभिप्रायः । सोपरं मूलभागसहितं समन्तमुपरिदेशपर्यन्तम् अग्निष्ठादेशमञ्ज्यादित्याद्युक्तमेव । यजमानो वा एष अग्निष्ठा, अग्निसन्निधिसाम्याद् रस आज्यं यदग्निष्ठामाज्येनानक्ति तद्यजमानं रसेनानक्ति तस्मादान्तमग्निष्ठानक्ति । अथ परिव्ययणमिति । परिव्ययणो रशनावेष्टनप्रदेशस्तं प्रति समन्तम् आज्येन परिमृशति परिमृशेत् । उच्छ्रीयमाणायानुब्रूहीति सम्प्रैषः । ' स उच्छ्रयति । द्यामग्रेणास्पृक्ष आन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृ हीरिति वज्रो वै यूप एषां लोकानामभिनित्यै तेन वज्रेणेमाल्लोकान् स्पृणुत एभ्यो लोकेभ्यः सपत्नान् निर्भजति ' ( श. ३ | ७ | १ | १४ ) । द्यामग्रेणेति मन्त्रेण यूपोच्छ्रयणं कुर्यात् । अन्यत् सर्वं स्पष्टम् । अध्यात्मपक्षेऽपि – हे यूपशकलोपलक्षित शुद्धचैतन्य, त्वमग्रेणीरसि सर्वासु वृत्तिषु स्वस्वविषयप्रकाशनायाग्रे नीयसे, वृत्तिपुरःसरोऽसि । उन्नेतॄणामुन्नयनकर्तॄणां स्वावेशोऽसि सुष्ठु सर्वे उन्नयनकर्तार आविशन्ति यस्मिन् स त्वं सर्वाधिष्ठानभूतपरमात्मस्वरूपोऽसि । एतस्य वित्ताद् एतत् त्वं विद्धि । अधिष्ठानतत्त्वाज्ञानादेव नानाविधाः परिच्छेदा भवन्ति । अधिष्ठानसाक्षात्कारादेव तद्वाधात् शुद्धमधिष्ठानभूतं चैतन्यं त्वामधिष्ठास्यति तवोपरि स्थास्यति, अधिष्ठानस्यैव स्वाध्यस्तनियन्तृत्वात् । देवः परमेश्वरः सविता प्रेरकस्त्वा त्वामनक्तु श्लक्ष्णं करोतु भक्तिभावनया स्नेहवन्तं करोतु, मधुना मधुरेण घृतगन्धिना स्नेहेन भक्त्या विशुद्ध एवाधिष्ठानचैतन्यस्याभिव्यक्तेः । सुपिप्पलाभ्यः सुफलाभ्य ओषधिभ्यस्तन्निष्पत्त्यर्थं त्वा त्वां प्रतिमुञ्चामि, अधिष्ठानचैतन्येऽवलगयामि । हे विराट्, का उच्छ्रयण आदि कार्य अनुष्ठित किये जाते हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे यूपशकल से सङ्केतित शुद्ध चैतन्य, आप अग्रणी हैं, समस्त वृत्तियों में अपने - अपने विषय के प्रकाशन के लिये आगे नयन किये जाते हैं । उन्नयन कर्ताओं के अधिष्ठानभूत हैं, अर्थात् सभी उन्नयनकर्ता भली भांति जिसमें निविष्ट होते हैं, इस प्रकार के परमात्मस्वरूप हैं, यह जानें । अधिष्ठान तत्त्व के अपरिज्ञान के कारण ही अनेक प्रकार के बन्धन होते हैं, अधिष्ठान के साक्षात्कार से ही उनका बाध होता है । शुद्ध अधिष्ठानभूत चैतन्य तुम पर अधिष्ठित होगा, क्योंकि अध्यस्त

पृष्ठ 230

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 230 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ शुकुयजुर्वेदसंहिता [ अ. ६ त्वमग्रेणाग्रभागेन द्यां द्युलोकं स्पृष्टवानसि मध्येन मध्यभागेन अन्तरिक्षमाप्राः पूरितवानसि उपरेण मूलभागेन पृथिवीमदृंहीः दृढीकृतवानसि । दयानन्दस्तु – ‘ यथाध्यापकः शिष्यान् पिता स्वसन्तानान् पुरस्तादेव सुशिक्षया विद्यां प्रापयति, तथा असि स्वावेशः । यथा शोभनं धर्ममाविशति तथा नेता । उन्नेतॄणां यथोन्नेतॄणामुत्कर्षं प्रापयितॄणां राज्यमेतस्य प्रकृतं राज्यं पालयितुं वित्ताद् विजानीहि । अधि त्वां स्थास्यति । देवः अखिलराज्येश्वरस्त्वां सविता सर्वस्य जनयिता मध्वा मधुरगुणेन अनक्तु सिञ्चतु । सुपिप्पलाभ्यः सुष्ठुफलाभ्यस्त्वामोषधीभ्यः प्रसिद्धाभ्यो द्यां विद्यान्यायप्रकाशमग्रेण पुरस्ताद् अस्पृक्षः । स्पृशेर्लोडर्थे लुङ् । आसमन्ताद् अन्तरिक्षं धर्मप्रचारस्यावकाशं मध्येन मध्यमावस्थाविशेषेण आप्राः पिपृहि । पृथिवीं भूमिराज्यम् उपरेण उत्कृष्टनियमेन अट्टंहीः प्राप्य वर्धस्व ' इति, तदपि यत्किञ्चित्, अग्रेणीत्यादेरध्यापकादिबोधने मानाभावात् । ' नेता यथा धर्मपथमाविशति ' इत्यर्थोऽपि निर्मूल एव, ' एतस्य ' इति प्रकृतराज्यं पालयितुमित्यपि स्वाभ्यूहितमेव । अन्तरिक्षमित्यस्य धर्मप्रचारस्यावकाशम् अग्रेण प्रथमयशसा मध्येन यशसा ' इत्याद्यपि सर्वथा निर्मूलम् । उपरेण उत्कृष्टनियमेनेत्यपि प्रमाणशून्यमेव || २ || या ते॒ धामा॑न्युश्मसि॒ गम॑ध्य॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ः । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णः पर॒मं प॒दमव॑भारि॒ भूरि॑ । ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यूहामि । ब्रह्म॑ दृथ्ह क्ष॒त्रं दृथ्हायु॑र्दृथ्ह प्र॒जां वृ॑ह ॥३ ॥

' या त इति मिनोत्यग्निष्ठा सम्प्रत्याहवनीयम् ' ( का.श्रौ. ६।३।८ ) । यूपस्य पञ्चमांशं गर्ते प्रक्षिप्य या अश्रिः पूर्वं सोपरा अक्ता तां चिह्नितां कृत्वा तामाहवनीयसमीपे कुर्यादिति सूत्रार्थः । यूपदेवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे यूप, या यानि तव सम्बन्धीनि धामानि स्थानानि गमध्यै गन्तुं ' तुमर्थे सेसेन... ' ( पा. सू. ३ | ४ | ९ ) इति कध्यैन्प्रत्ययः । नित्त्वादाद्युदात्तः । उश्मसि उश्मः, वयं कामयामहे । ' वश कान्तौ ' । लटि उत्तमबहुवचने शपो लोपे सम्प्रसारणे ‘ इदन्तो मसि ' ( पा. सू. ७/१/४६ ) जीकारः । यत्र येषु स्थानेषु उरुगायस्य उरुभिः प्रभूताभिर्वाग्भिः प्रभूतैर्महात्मभिर्वा गेयस्य गीयमानस्य विष्णोर्व्यापकस्य भगवतः परममुत्कृष्टं भूरि महत्पदमवभारि अवभाति । तकारस्य छान्दसो रेफः । तादृशस्थानप्राप्तिहेतुभूताय ज्योतिष्टोमादिकर्मणे हे यूप, अवटे तिष्ठेत्यर्थः । यत्र येषु स्थानेषु का नियन्ता अधिष्ठान ही है । प्रेरक परमेश्वर तुमको निर्मल भक्तिभावना के द्वारा स्नेह युक्त करें, क्योंकि मधुर भक्ति के द्वारा विशुद्ध चित्त में ही अधिष्ठान चैतन्य की अभिव्यक्ति हो सकती है । सुफल औषधियों की निष्पत्ति के लिये तुमको अधिष्ठान चैतन्य धृत करता हूँ । विराट्, तुमने अग्रभाग से द्युलोक का स्पर्श किया है, मध्यभाग से अन्तरिक्ष को परिपूर्ण किया है तथा मूलभाग से पृथिवी को सुदृढ़ किया है ॥ २ ॥

मन्त्रार्थ - हे यूप, जो तुम्हारे स्थान पर गमन करने की कामना करे, जहाँ सूर्य देवता की अति प्रकाशवान् किरणें विस्तृत होती हैं, जिस स्थान को महात्माओं से प्रशंसित व्यापक परमात्मा का उत्तम स्थान कहते हैं, वह स्थान अनेक प्रकार से प्रकाशित है । हे यूप, ब्राह्मणों के स्वीकार योग्य, क्षत्रियों के चाहने योग्य धन और पुष्टि के निमित्त तुम पर चारों ओर से मिट्टी डालता हूँ । हे यूप, तुम ब्राह्मण और क्षत्रिय जाति को दृढ़ करो, आयु और संतान को दृढ़ करो ॥३ ॥

भाष्यसार - ' या ते ' इस ऋचा से यूप के पांचवें हिस्से को भूमि में गाड़ा जाता है तथा यूप के जिस भाग पर घृत लगाया गया है, उसे आहवनीय अग्नि के सामने रखा जाना चाहिये । तदनन्तर इस कण्डिका के परवर्ती मन्त्र ' ब्रह्मवनि त्वा ' से यूप के गर्त को