वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 231–240
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 231–240
पृष्ठ 231
पाठ पढ़ें पाठ छिपाएँ
म. ३ ] वेदार्थपारिजातभाष्यसहिता ७ गावो रश्मयः, अयासः अयन्त इत्ययासो गन्तारो वर्तन्ते, सर्वे किरणा येषु गता इत्यर्थः । कीदृशा गावः? भूरिशृङ्गा भूरि बहु शृङ्गं दीप्तिर्येषां ते भूरिशृङ्गाः । ' प्रज्वलननामसु शृङ्गाणीति पठितम् ' ( निघ. १।१७ ) । यद्वा भूरि बहुप्रकारं यथा स्यात्तथा, अत्राह अहेत्यर्थकः, अत्रैव एष्वेव स्थानेषु भूरि आदित्यमण्डललक्षणं पदम् अवभारि अवभाति शोभते । अव अवाचीनं वा भाति । उरुगायस्य महागतेः, ' गाङ् गतौ ' इति धातो रूपम् । ‘ ब्रह्मवनि त्वेति पा्सुभिः पर्य्यहति ' ( का.श्रौ. ६ । ३1 ९ ) । यूपावटं पांसुभिर्ब्रह्मवनीति मन्त्रेण पूरयति । ' ब्रह्म दृ हेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूहति ' ( का.श्रौ. ६।३।१० ) । पांसुभिः पूरितं गर्तं सर्वतस्त्रिः कुट्टयति । कुट्टनेन च पांसूनवटे प्रवेशयेत् । हे यूप, त्वा त्वां पर्यूहामि परितो मृत्तिकां प्रक्षिपामि । कीदृशं त्वाम्? ब्रह्मवनि । ब्रह्म वनोतीति ब्रह्मवनिः । मन्त्रेऽविभक्तिको निर्देशः । क्रियाविशेषणतया वा क्लीबत्वम् | क्षत्रं क्षत्रियजातिं वनोतीति क्षत्रवनिः । रायस्पोषवनि रायो धनस्य पोषं पुष्टिं वनतीति तथोक्तम् । सर्वत्र ' सुपां सुलुक्.... ' ( पा.सू.७।१।३ ९ ) इति विभक्तिलोपः । ब्रह्म ब्राह्मणजाति क्षत्रं क्षत्रियजातिम् आयुर्जीवनं प्रजां पुत्रादिरूपां च दृह दृढीकुरु । सिद्धान्ते तु यूपावच्छिन्नचैतन्यरूपस्तदधिष्ठातृदेवोऽत्र प्रार्थ्यते । ब्रह्मजातिं क्षत्रजातिं रायस्पोषं यजमानस्य ब्रह्मक्षत्ररायस्पोषादिकामयितारं संविभक्तारं तादृशं देवमनुकूलयितुं यूपं यज्ञाङ्गं पांसुभिः स्थिरं करोमि । स त्वं हे यूप, मम ब्रह्मक्षत्रादिकं दृढीकुरु - इत्यर्थकेन मन्त्रेण मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूहामि दृढीकरोमीति । श्रुतिसम्मतश्चायमर्थः । सूत्राणि तु सव्याख्यानान्युक्तानि । दयानन्दीयं व्याख्यानं तन्मनोराज्यमात्रम् । तथाहि - ' पुनस्तं कीदृशमिति वाणिज्यकर्म कुर्वाणा जना आश्रयन्तीत्युच्यते उपदिश्यते । हे सभाध्यक्ष, यानि ते तव धामानि दधति सुखानि येषु तानि राज्यप्रबन्धस्थानानि देशदेशान्तरवाणिज्यार्हाणि इति तदीयोऽर्थः । स तु निर्मूल एव, वाणिज्यस्थानापेक्षयापि भोजनरमणादिस्थानान्यधिकसुखदानि भवन्तीति तान्येव कुतो न गृह्येरन्निति विनिगमनाभावात् । यदपि ' मारि म्रियते लडर्थे लुङ्, ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा.सू. ६।४।४७ ) इत्यडभावः ' इति, तदपि तुच्छम्, तादृग्गौरवापेक्षया तकारस्य छान्दसो रेफ इति पक्षे लाघवात् । यत्तु हिन्दीभाष्ये - ' विष्णोः परमेश्वरस्य भूरिशृङ्गा अत्यन्तप्रकाशवन्तः किरणाश्चैतन्यकला अयासो विस्तृताः ' इति, तदपि निर्मूलम्, निष्कलस्य चैतन्यकलाऽयोगात् । नहि सूर्यस्य किरणा एव परमेश्वरस्य तत्स्वरूपातिरिक्ताश्चैतन्यात्मिकाः कलाः सन्तीत्यत्र प्रमाणमस्ति । ' विद्वद्भिर्भियतेऽवधार्यते ' इत्यपि निर्मूलम्, मन्त्रे तथाभूतपदानुपलब्धेः । ' त्वा त्वां परमेश्वरं वेदविज्ञानं वा कामयानं राज्यं वीरांश्च वा कामयानं धनपोषसंविभक्तारमहं पर्यूहामि विविधैस्तर्कैरवगच्छामि ' इत्यादिकमप्युपहासास्पदम्, विकल्पासहत्वात् । सभाध्यक्षस्योपदेष्टा कोऽस्ति? परमेश्वरोऽन्यो वा? नान्त्यः, तथात्वे वेदस्य पौरुषेयत्वापत्तेः । नाद्यः, तस्य सर्वज्ञस्य ज्ञाने तर्कानपेक्षणात् । ब्रह्म हेत्यत्रापि ' ब्रह्म परमेश्वरं वेदं वा गृह स्वचित्ते स्थिरं कुरु, क्षत्रं धनुर्वेदवेत्तारं दृह उन्नमय । आयुः स्वीयावस्थां वर्धय । प्रजां रक्षायोग्यं प्रजाजनमुन्नमय ' इत्यादिकं सर्वमपि विसङ्गतमेव, धात्वर्थविरोधात् । दृढीकरणमेव दृहतेरर्थः । तत् परिहाय लक्षणायां लक्षितलक्षणायां वा बीजं वक्तव्यम् । तत्तु नोक्तम् । मिट्टी से पूर्ण किया जाता है तथा ' ब्रह्म दृह ' इस मन्त्र से मैत्रावरुण दण्ड से यूप के गर्त की मिट्टी को दबाया जाता है । कात्यायन श्रौतसूत्र ( ६।३।८-१० ) में यह याज्ञिक विनियोग प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 232
पाठ पढ़ें पाठ छिपाएँ
८ शुकुयजुर्वेदसंहिता [ अ. ६ सैद्धान्तिकेऽर्थे शातपथी श्रुतिरुद्धियते - ' अथ मिनोति । या ते धामान्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य विष्णोः परमं पदमव भारि भूरीत्येतया त्रिष्टुभा मिनोति वज्रस्त्रिष्टुप् वज्रो यूपस्तस्मात् त्रिष्टुभा मिनोति ' ( श. ३।७।१।१५ ) । या त इति मन्त्रेण यूपं मिनुयात् । यानि धामानि स्थानानि गमध्यै गमनाय प्राप्तये उश्मसि कामयामहे । यत्र येषु धामसु गावो रश्मयो भूरिशृङ्गाः प्रभूतोर्ध्वप्रदेशाः । अयासो गन्तारो रश्मयः । तं परिवेषं हे विष्णो, अत्र एषु स्थानेषु उरुगायस्य प्रभूताभिर्वाग्भिः प्रभूतैर्ऋषिभिर्वा गीयमानस्य विष्णोर्व्याप्तस्य तव श्रुतिस्मृतिप्रसिद्धं परममुत्कृष्टं पदं भूरि प्रभूतमवभाति सर्वदा प्रकाशते, तत्प्रार्थयामह इति शेषः । अधियज्ञपरतया तु विष्णोः सवनत्रयव्याप्तस्य यज्ञस्य धामानि स्थानानि गमध्यै प्रापणाय उश्मसि कामयामहे । अत्राह अत्रैवोरुगायस्य उरुभिर्वेदैर्याज्ञिकैश्च गीयमानस्य विष्णोस्ते राध्यं पदं यूपाख्यमवभाति । मन्त्रस्य त्रिष्टुप्त्वं यूपमानस्योचितमिति प्रशंसति - एतया त्रिष्टुभामिनोतीति । ' सम्प्रत्यग्निमग्निष्ठां मिनोति । यजमानो वा अग्निष्ठाग्निरु वै यज्ञः स यदग्नेरग्निष्ठा ह्वलयेद्ध्वलेद्ध यज्ञाद्यजमानस्तस्मात्सम्प्रत्यग्निमग्निष्ठां मिनोत्यथ पर्यूहत्यथ पर्यूषत्यथाप निनयति ' ( श. ३ | ७ | १ | १६ ) | माने विशेषमाह - सम्प्रत्यग्निष्ठामिति । अग्न्यभिमुखं मिनोति प्रक्रमार्थम् । विपक्षे दोषदर्शनेन द्रढयति - यजमानो वाग्निष्ठाग्निः । उ एव यज्ञः । सोऽध्वर्युर्यद् यदि, अग्नेः सकाशादग्निष्ठां ह्वलयेत् चालयेत यज्ञाद् यजमानोऽपि ह्वलेद् नश्येत् । तस्मात् सम्प्रत्यग्निमग्न्यभिमुखमेव मिनुयात् । अथ पर्यूहति । मृदामेकीभावापादने पर्यहणादि मन्त्राणामौदुम्बर्यामुक्तत्वात् ( श.३।७।१।१७-१९ ) समानत्वादत्र नोक्ता । मन्त्रव्याख्याने तु स्पष्टं पांसुभिः पर्यहणम्, मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषणं चोक्तमेव । अध्यात्मपक्षे - हे विष्णो व्यापनशील परमेश्वर, यानि ते वैकुण्ठगोलोकसाकेतादिधामानि स्थानानि गमध्यै गन्तुं वयमुश्मसि कामयामहे, यत्र च भूरिशृङ्गा बृहच्छृङ्गा बहुदीप्तयो वा गावो धेनवः, अयासो विचरन्ति, अत्र एषु स्थानेषु, अह एव एषु स्थानेष्वेव, उरुगायस्य वेदैर्वेदज्ञैमहर्षिभिश्चोरुभिर्गीयमानस्य परममुत्कृष्टं पदं पद्यते गम्यते प्राप्यत इति पदं प्रापणीयं परप्रेमास्पदं भूरि बहुधा अवभाति श्रीविष्णुरूपेण श्रीकृष्णरूपेण श्री रामरूपेण अवभाति । हे विष्णो, भक्तानां हिताय ब्रह्मवनि ब्रह्म वेदं ब्राह्मणजातिं वा वनुते संभजत इति ब्रह्मवनि, क्षत्रवनि क्षत्रं क्षत्रजातिं क्षात्रमैश्वर्यं वा वनुत इति क्षत्रवनि, रायस्पोषवनि रायो धनस्य पोषं पोषकं वनुते संभजते भक्तानां कृते ब्रह्मक्षत्ररायस्पोषादिकामयितारं त्वा त्वां पर्यूहामि परितोऽवगच्छामि साक्षात्करोमि । हे प्रभो, प्राप्तान् ब्रह्मक्षत्रादीन् दृह दृढीकुरु, अर्थादप्राप्तान् ब्रह्मादीन् प्रापय प्राप्तांश्च तान् सर्वतो रक्ष, परमेश्वरस्यैव योगक्षेमयोः सम्पादकत्वात् । आयुर्दीर्घजीवनं प्रजां च दृह सुस्थिरं कुरु ॥ ३ ॥
अध्यात्मपक्ष में अर्थयोजना इस प्रकार है- हे व्यापनशील परमेश्वर! आपके जिन वैकुण्ठ, गोलोक, साकेत आदि धामों में जाने की हम इच्छा करते हैं और जहाँ बड़े शृंगों से युक्त अथवा दीप्तिमती गायें विचरण करती हैं, उन धामों में ही वेदज्ञ महर्षियों द्वारा स्तुति किये जाने वाले का परम उत्कृष्ट स्थान श्रीविष्णु, श्रीकृष्ण, श्रीराम के रूप से अत्यन्त प्रकाशित होता है । हे विष्णुदेव, भक्तों के हित के लिये वेद अथवा ब्राह्मण्य को धारण करने वाले, ऐश्वर्य अथवा क्षत्रियत्व को सेवन करने वाले, धन के पोषण को धारण करने वाले आपका मैं सर्वतोभावेन साक्षात्कार करता हूँ । हे प्रभो, प्राप्त ब्रह्म - क्षत्र आदि को मुझमें दृढ़ करें, अर्थात् अप्राप्त ब्रह्मक्षत्रादि को प्रदान करें तथा प्राप्त का रक्षण करें, क्योंकि परमेश्वर ही योगक्षेम के सम्पादक हैं । दीर्घजीवन तथा प्रजा को भी सुस्थिर करें || ३ ||
पृष्ठ 233
पाठ पढ़ें पाठ छिपाएँ
म. ४ ] वेदार्थपारिजातभाष्यसहिता ९
विष्णोः कर्माणि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ यु॒ज्य॒ सखा॑ ॥ ४ ॥
' समं भूमि कृत्वाद्भिरुपसिच्य विष्णोः कर्माणीति वाचयति यूपमन्वारब्धमिति ' ( का.श्रौ. ६ ३ ११ ) तमवटं परिपिट्टनेन वर्तमानया भूम्या समं कृत्वा लौकिकाद्भिरुपसिच्य यूपकृतान्वारम्भं यजमानं विष्णोः कर्माणीति मन्त्रमध्वर्युर्वाचयेत् । यूपमन्वारभस्वेत्यध्येषणा कार्येति कर्कादयः । द्वे वैष्णव्यौ गायत्र्यौ मेघातिथिदृष्टे । हे ऋत्विजः, विष्णोः परमेश्वरस्य कर्माणि सृष्टिस्थितिसंहारतिरोधानानुग्रहादीनि, हिरण्याक्षहिरण्यकशिपु-रावणशिशुपालादिवध – भक्तानुग्रहादीनि चरितानि पश्यत चिन्तयत । यतो यैः कर्मभिर्व्रतानि भावत्कानि लौकिकवैदिककर्माणि पस्पशे बद्धवान् निर्मितवान्, ' स्पश बन्धने ' सृष्ट्यादिभिर्देहेन्द्रियमनोबुद्ध्यहङ्कारादिसत्त्व एव लौकिकवैदिककर्मणामनुष्ठानसम्भवात् । स विष्णुरिन्द्रस्य परमैश्वर्यशालिनः शतक्रतोः, युज्यो योग्यः सखा स्निग्धं मित्रमस्ति । यद्वा विष्णोर्यज्ञस्य सम्बन्धीनि कर्माणि वीर्याणि पश्यत, यतो यैर्वीर्यैर्ब्रतान्याधानपशुसोमादीनि कर्माणि , पस्पशे बद्धवान् । अन्यत् पूर्ववत् । व्रतमिति कर्मनाम । विष्णुर्हि यज्ञानामधिष्ठात्री देवता । यद्वा विष्णोः कर्माणि वीर्याणि पश्यत यैर्वीर्यैस्तानि व्रतानि कर्माण्यग्निवायुसूर्याणां स्वानि स्वान्यप्रमत्ता एतानि कुरुतेत्येवं नियमैः पस्पशे निबद्धवान् । यश्च विष्णुरिन्द्रस्य सखा वृत्रवधादिकर्मसु सहायकः । युज्यो योगार्हः, अनुरूप इत्यर्थः । आध्यात्मिकोऽपि पूर्वोक्त एवार्थः । स्वामिदयानन्दस्तु - ' यतो येन विज्ञानेन व्रतानि नियतंसत्यभाषणादीनि पस्पशे बध्धामि, लडर्थे लिट् । हे सभ्यजनाः, यूयं यथेन्द्रस्य युज्यः सखा विष्णोः कर्माणि पश्यन्नहं यतो विज्ञानेन मनसि व्रतानि सत्यभाषणादिनियमान् पस्पशे बध्धामि, तथैवानेनैव विज्ञानेन तानि पश्यत, यतो राज्यकर्मणि सत्यानुष्ठातारो भवत ' इति, तदपि विसङ्गतमेव, कोऽत्र वक्तेत्यनिर्णयात् । न चेश्वरो वक्ता, तस्य द्रष्टव्यकर्मसम्बन्धित्वेनोक्तत्वात् । नापि जीवः, तस्योपदेष्टव्यसाधारण्यात् । नापि तस्य युज्यत्वं सखित्वं च विशेषः, ' सयुजा सखाया ' ( मु.उ. ३।१ ) इति तस्यापि सर्वजीवसाधारण्यात् । मन्त्रार्थ - हे ऋत्विजों, तुम लोग परमात्मा के सृष्टि संहार आदि कार्यों को देखो । वह इन्द्र का अनुरूप मित्र है, उसने लौकिक और वैदिक कर्मों की रचना की है ॥४ ॥
भाष्यसार - यूप के गर्त को समतल करके उसमें जलसेचन के अनन्तर यूप का स्पर्श करते हुए यजमान से ' विष्णोः कर्माणि ' इस ऋचा का पाठ अध्वर्यु कराता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६ | ३ | ११-१२ ) में उपदिष्ट है । शतपथ ब्राह्मण में भी याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । मन्त्रार्थ इस प्रकार है - हे ऋत्विग्गण! श्रीविष्णु परमेश्वर के सृष्टि, स्थिति, संहार, अनुग्रह आदि कर्मों को; हिरण्याक्ष, हिरण्यकशिपु, रावण, शिशुपाल आदि के दधरूपी भक्तों के प्रति अनुग्रहात्मक चरितों को देखिये, जिन कर्मों के द्वारा आप लोगों के लौकिक, वैदिक कर्मों को निर्मित किया है, क्योंकि सृष्टि आदि के द्वारा देह, इन्द्रिय, मन, बुद्धि, अहंकार आदि के होने पर ही लौकिक - वैदिक कर्मों का अनुष्ठान सम्भव है । वे विष्णु ही परमैश्वर्यवान् शतक्रतु इन्द्र के प्रिय मित्र हैं । अथवा विष्णुदेव के यज्ञसम्बन्धी कर्मों को देखें, जिनसे उन्होंने आधान, पशु, सोम आदि कार्यों का निर्माण किया है । अथवा विष्णुदेव के उन कर्मों को देखिये, जिनके द्वारा अग्नि, वायु, सूर्य के अपने अपने कार्यों में नियत रहने के नियमों से कर्मों का नियन्त्रण किया है । आध्यात्मिक अर्थ भी पूर्वोक्त की भाँति है । स्वामी दयानन्द का अर्थ विसंगत है, क्योंकि यहां वक्ता कौन है, यह निर्णय नहीं किया गया । द्रष्टव्य कर्म से सम्बद्ध कहे जाने के कारण ईश्वर वक्ता नहीं हो सकता । उपदेश का पात्र होने के कारण जीव भी वक्ता नहीं हो सकता । इन्द्र शब्द का भी
पृष्ठ 234
पाठ पढ़ें पाठ छिपाएँ
१० शुक्लयजुर्वेदसंहिता [ अ. ६ अत्र शातपथी श्रुतिरुद्धियते - ' अथैवमभिपद्य वाचयति विष्णोः कर्माणि.... सखेति वज्रं वा एष प्राहार्षीद्यो युज्यः यूपमुदशिश्रियद्विष्णोर्विजितिं पश्यतेत्येवैतदाह यदाह विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पर्श इन्द्रस्य सखेतीन्द्रो वै यज्ञस्य देवता वैष्णवो यूपस्तथ सेन्द्रं करोति तस्मादाहेन्द्रस्य युज्यः सखेति ' ( श. ३ | ७ | १ | १७ ) ’ । एवं कर्मकलापं कृत्वा यूपमन्वारभ्य वाचयति । ' विष्णोः कर्माणीति वाचयति यूपमन्वारब्धमिति ( का.श्रौ.६।३।११ ) । मन्त्रार्थस्तूक्तः । श्रुतिर्मन्त्रतात्पर्यमाह - उदशिश्रियत यो यूपमुदशिश्रियत यूपमुच्छ्राययति वज्रं वा एष प्रहरति, उभयत्र लडर्थे लुङ्, रक्षोभ्योऽरातिभ्यः कर्माणि पश्यतेति विष्णोर्विजितिं विजयमुत्कर्षं पश्यतेत्येवार्थः । यो विष्णुरिन्द्रस्य यज्ञाभिमानिनो देवस्य युज्यः सखा सखिभूतः । अत्र विष्णुरेव इन्द्रस्य युज्यः । सखा गदितः । इन्द्रपदस्यापि विष्ण्वर्थत्वेन दयानन्दरीत्या कथं सङ्गतिः स्यात्? इन्द्रो वै यज्ञस्य देवता प्रोक्ता वाय्वादिशुद्धिप्रयोजनकस्य यज्ञस्य देवता किमर्थमुपदिश्यते? त्वद्रीत्या देवानां हविर्भुक्त्वानुपपत्तेः । यूपस्य वैष्णवत्वकथनेन यज्ञे यूपस्य प्रयोगेण यूपं सेन्द्रं करोतीदमेव विष्णोरिन्द्रस्य सखित्वम्, तदेतदपि कथं तद्रीत्या सङ्गच्छते? ॥४ ॥
तद्वष्णो॑ प॒र॒मं प॒द ँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॒ीव॒ चक्षुरात॑तम् ॥ ५ ॥
: ' तद्विष्णोरिति चषालमीक्षमाणम् ' ( का.श्रौ. ६ | ३ | १२ ) । यूपवलयं चषालं यजमानं प्रेक्षमाणं वाचयेत् ॥ मन्त्रार्थस्तु - सूरयो विद्वांसो वेदवेदान्तपारगा विष्णोस्तत्प्रसिद्धं परममुत्कृष्टं पदं पद्यते गम्यत इति पदं सदा पश्यन्ति कीदृशं तत्? दिवि आकाशे निरावरणे चक्षुरिवाततं व्याप्तम् । यद्वा यद् दिवि आकाशे चक्षुरादित्यमण्डलं ततं विस्तारितम् । इवोऽनर्थकः । ' चक्षुर्मित्रस्य वरुणस्य ' ( वा. स. ७।४२ ) इत्यत्र ' तच्चक्षुर्देवहितम् ' ( वा. स. ३६।२४ ) । इत्यत्र च चक्षुः पदेन आदित्यमण्डलस्योक्तत्वात् । ' तद्विष्णोः परमं पदम् ' इत्यत्र तदित्यनेन यदित्याक्षिप्यते यद्विज्ञानानन्दघनं ब्रह्म, तद्विष्णोः परमेश्वरस्य परमं पदं स्वरूपं सूरयो वेदान्तविदः पश्यन्ति । कीदृशं तत्? विष्णोः दिवीव चक्षुर्द्युलोकगतमादित्यमण्डलम् आततं विस्तारितम् । निरावरणे आकाशे आततं आसमन्तात् प्रसृतं चक्षुरिव पदं व्याप्तम् । यद्यपि चक्षुषो व्याप्तिः सापेक्षैव सा हि नीरूपस्य चाक्षुषालोकस्य यथा तत्रत्यप्रकाश्यप्रकाशनाद् विज्ञायते, तथैव व्यापकस्य विष्णोर्नित्यापरिच्छिन्ननित्यज्ञानरूपस्य सर्वावभासकस्य सत्त्वं विज्ञायते । यज्ञपक्षे तु विष्णोर्यज्ञस्य तत् परमं पदं पद्यत इति पदं दिवि निरावरण आकाशे चक्षुरिव आततं प्रसृतम् । अन्यत् समानम् । शतपथे तु - ' अथ चषालमुदीक्षते । तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्षुराततमिति ततमिति ’ वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियत् तां विष्णोर्विजितिं पश्यतेत्येवैतदाह यदाह तद्विष्णोः.... का विष्णु अर्थ मानने पर उसकी संगति कैसे संभव है? वायु आदि की शुद्धि के उद्देश्य से किये जाने वाले यज्ञ के लिये देवता उपदेश क्यों किया जा रहा है? क्योंकि उनके मत के अनुसार देवताओं का हविर्भुक् होना असिद्ध है || ४ || मन्त्रार्थ - वेदान्त के बेत्ता योगी सर्वव्यापक परमात्मा के उस मोक्षस्वरूप परम पद को सदा देखते हैं, जो कि निरावरण आकाश में चक्षु के समान व्याप्त है ॥५ ॥
भाष्यसार - ' तद् विष्णोः ' इस ऋचा का पाठ अध्वर्यु यजमान से कराता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६।३।१२ ) में निर्दिष्ट है । शतपथ ब्राह्मण में भी यज्ञप्रक्रिया के अनुकूल अर्थ उपदिष्ट है । मन्त्र की अर्थ योजना इस प्रकार है- विद्वान् लोग वेदवेदान्त के ज्ञाता, विष्णु के उस प्रसिद्ध परम उत्कृष्ट स्वरूप । को सदा याज्ञिक देखते हैं, जो निरावरण आकाश में चक्षु की भांति व्याप्त है, अथवा जो आकाश में आदित्यमण्डल के रूप में विस्तीर्ण है
पृष्ठ 235
पाठ पढ़ें पाठ छिपाएँ
म. ५-६ ] वेदार्थपारिजातभाष्यसहिता ११ ( श. ३ | ७ | १ | १८ ) | ' अथ परिव्ययति । अनग्नतायै न्वेव परिव्ययति तस्मादत्रेव.... हीदं वासो भवत्यन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नं प्रतितिष्ठति तस्मादत्रेव परिव्ययति ' ( श. ३ | ७ | १ | १ ९ ) । तद्विष्णोरिति मन्त्रेण चषालमुदीक्षते ऊर्ध्वमुदीक्षते विष्णोर्यज्ञस्य तत्परमं पदं पद्यत इति पदं यूपस्तं सदा पश्यन्ति सूरयो विद्वांसः । कीदृशम्? दिवि निरावरण आकाश आततं प्रसृतं चक्षुरिव । मन्त्रस्य तात्पर्यमाह – परमपदस्य यूपस्य शत्रुवधार्थमुद्यतवज्ज्ररूपत्वात्, तद्दर्शनेन यज्ञविघातकासुराणां पलायनात् । उच्छ्रितयूप एव विष्णोर्विजितिस्तं पश्यतेति मन्त्र आह । अनेन विवरणेनाध्यात्मपक्षोऽप्युक्तप्रायः । ---दयानन्दस्तु – ' सूरयः स्तोतारः । सूरीति स्तोत्रनामसु पठितम् ' ( निघ. ३ । १६ ) इति, तन्त्र, स्तोतारस्तु दर्शनमन्तरापि स्तुवन्त्येव । प्रकृते पश्यन्तीत्युक्तम्, दर्शनं तु वेदविदामेवोपपद्यते । यदपि - ' दिवीति आदित्यप्रकाश इव ' इति, तदपि न युक्तम्, प्रकाशरहितेऽपि चक्षुषो व्याप्तिमत्त्वाविशेषात् । यत्तु - ' पदधातोः ' खनो घ च ' ( पा. सू. ३।३।१२५ ) इति घप्रत्ययः । यतः खनेर्घो विधीयते, न खनेः कश्चिदवयवः कुत्वभागिति तेन घित्करणमर्थकं सद् ज्ञापयत्यन्येभ्योऽप्ययं भवतीति । तेन भर्जेर्भगः, पदेः पदम् खलेरधिकरणे खल् इत्यादयः सिद्ध्यन्ति । तेन पदशब्दः पचाद्यजन्तः, ' चितः ' ( पा. सू. ६।१।१६३ ) इत्यन्तोदात्त इति सायणः ( ऋ.सं.१।२२।५ ) । ‘ पदं यजमानेन प्राप्यं स्थानमिति स्वोक्तार्थविरोधादयुक्तम् ' इति, तदप्ययुक्तम्, बाहुलकाद्वा समाधानमिति ' कृत्यल्युटो बहुलम् ' ( पा. सू. ३ | ३ | ११३ ) । इति तद् भङ्क्त्वा भाष्यकार आह ' कृतो बहुलम् ', अर्थात् सर्वे कृतो बाहुलकात् कर्मादौ भवन्तीति सायणोक्तस्यार्थस्य साधुत्वात् ॥ ५ ॥
परिवीर॑सि परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ता॒ परि॒मं यज॑मान॒ रायो॑ मनु॒ष्या॒णाम् 1 दि॒वः सू॒नुर॑स्यै॒ष ते॑ पृथि॒व्या॑ लो॒क आ॒र॒ण्यस्ते॑ प॒शुः ॥६ ॥
‘ परिवीयमाणायानुवाचयति त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति ' ( का.श्रौ. ६।३।१३ ) । यूपाय परिवीयमाणायानुब्रूहीति होतारं प्रेष्येदध्वर्युः । त्रिगुणिता व्यामत्रयप्रमाणा ( प्रसारितभुजयोरन्तरालं व्यामः ) कौशी रशना रज्जुः, तया रज्जुवा मध्यभागे वासः परिधानस्थाने यजमाननाभिसम्मिते धूपस्य प्रदेशे प्रदक्षिणं यूपं त्रिर्वेष्टयेत् । हे यूप, त्वं परिवीरसि ' व्येञ संवरणे ' इत्यस्य स्वार्थे क्विपि सम्प्रसारणे रूपम् । पक्ष में तो विष्णु, अर्थात् यज्ञ का परम पद व्याप्त है, इस प्रकार अर्थ है । स्वामी दयानन्द के अर्थ में ' सूरयः ' का अर्थ स्तोतागण करना उचित नहीं है, क्योंकि स्तोता तो दर्शन के बिल भी स्तुति करते हैं । मन्त्र में ' पश्यन्ति ' यह कहा गया है । दर्शन तो वेदवेत्ताओं को ही संभव है और ' पद ' धातु से घ प्रत्यय आदि कथन भी अनुचित है, क्योंकि भाष्यकार ने कहा है कि सभी कृत् प्रत्यय बाहुलक से कर्मादि में होते हैं । अतः सायणाचार्य द्वारा प्रतिपादित अर्थ ही समीचीन है || ५ || मन्त्रार्थ - हे यूप, तुम चारों ओर रस्सी से और हमसे घिरे हुये हो, देवताओं की मरुद्गण आदि प्रजा अथवा पशु तुमको चारों ओर से घेरे हुए हैं । इसी तरह से मनुष्य सम्बन्धी धन इस यजमान को चारों ओर से घेरे । हे स्फ्य, तुम स्वर्ग के पुत्र हो, अर्थात् द्युलोक से वर्षा होने पर वृक्ष से यूप और यूप से स्फ्य बनता है, इस कारण स्फ्य स्वर्ग का पुत्र कहलाता है । हे यूप, तुम्हारा आश्रयस्थान यह पृथ्वी है, वन सम्बन्धी पशु भी तुम्हारे लिये ही हैं ॥६ ॥
भाष्यसार - यूप में लपेटने के लिये त्रिगुणित तथा तीन व्याम की कुशा की रस्सी ग्रहण की जाती है । यूप के परिव्ययण के समय ' परिवीरसि ' यह मन्त्र पढ़ा जाता है । कण्डिका के अन्य मन्त्रों से यूप के खण्ड का स्थापन आदि कार्य किये जाते हैं । यह
पृष्ठ 236
पाठ पढ़ें पाठ छिपाएँ
१२ शुक्लयजुर्वेदसंहिता [ अ. ६ यूप, त्वं परिवीरसि । परितो रशनयाऽस्माभिश्च वीतो वेष्टितो भवसि । दैवीर्विशो देवसम्बन्धिनीः तद्वदिमं प्रजा मरुद्गणादयः पशवो वा त्वां परितो व्ययन्तां वेष्टयन्तु, ' देव्यो वा एता विशो यत्पशवः ' इति श्रुतेः । यजमानं मनुष्याणां सम्बन्धीनि मनुष्याणां मध्ये वा इमं यजमानं रायो धनानि परिवेष्टयन्तु । ‘ यूपशकलमस्यामुपगूहत्युत्तरेणाग्निष्ठां दिवः सूनुरसीति ' ( का.श्रौ. ६।३।१५ ) । अग्निष्ठामस्रिमुत्तरेण यूपे त्रिर्वेष्टितायामस्यां रशनायां यूपशकलं स्वरुमधोमुखं रशनायूपान्तराले प्रवेशयेत् । यूपनिर्माणोपक्रमे कुठाराघातेन प्रथमच्छिन्नकाष्ठशकलं स्वरुपदवाच्यं भवति | स्वरुहोमश्च भवति । अष्टास्त्रेर्यूपस्य याग्निसमीपस्थिता तस्या उत्तरभागे रशनायां स्वरुनामकं शकलमवसजेदित्यर्थः । हे शकल, त्वं दिवः सूनुरसि द्युलोकस्य पुत्रोऽसि । द्युलोकाद्वर्षति ततो यूपो ' जायते यूपात् स्वरुरिति रीत्या दिवः सूनुः स्वरुः । ' वर्षिष्ठाद् दक्षिणं वितष्टं द्वादशं निदधात्येष त इति तष्टो ( का.श्रौ.८।८।२२ ) । यूपैकादशिनीपक्षे द्वादशं यूपं सकलमप्यतष्टम् | सायणरीत्या तु विशेषेणोपरप्रदेशे वितष्टः । अतिशयेन महतो दक्षिणाद्यूपाद् दक्षिणं भूमौ स्थापयेत्, न निखन्यात् । अयमेव ' उपशयो यूप ' इत्युच्यते, यूपानां समीपे शेत इत्युपशयः । अस्य च प्रयोजनम् – ' आरण्यं पशुमाखुं वोपशये निर्दिशेत् ' ( आपस्तम्बश्रौतसूत्र न १४ | ७ | १ ) इत्युक्तम् । तथा च हे उपशय यूप! यूपानां दक्षिणप्रदेश, पृथिव्या ते तव लोकः स्थानम्, भूम्यामन्तर्मिनामीत्यर्थः । ननु ' पशवो वै यूपमुच्छ्रयन्ति ' ( श. ३ | ७ | ३ | ४ ) इति श्रुतेपे पशुना भवितव्यमित्यत आह- ते तव आरण्योऽरण्ये भवोऽरण्यसम्बन्धी पशुर्वने वर्तमानः पशुरस्तीत्यर्थः । दयानन्दस्तु – ' यथा परितः सर्वा विद्या व्येति व्याप्नोति तथासि । परि सर्वतस्त्वां सभाध्यक्षं देवानां विदुषामिमा दिवः विशः प्रजा व्ययन्तां विशिष्टतया प्राप्नुवन्तु जानन्तु वा । परि सर्वत इमं प्रत्यक्षं यजमानं रायो धनानि लोके राष्ट्रं प्रकाशमयात् सूर्यात् सूनुः सूयत उत्पद्यत इति सूनुः किरणसमूह इव असि । एष ते तव पृथिव्यां प्रलापमात्रम्, राज्यस्थानम् आरण्यः अरण्ये भवस्ते पशुः पश्यकश्चतुष्पात् सिंहात् ' इति । सर्वमेतन्निष्प्रमाणं शाक्तेऽर्थे सम्भवति भाक्तस्यार्थस्याप्रामाणिकत्वात् । यूपः सम्बोधनीय इत्यर्थे तु श्रुतयः सूत्राणि च प्रमाणम् | सभाध्यक्षस्य सम्बोधनीयत्वे तु न किमपि बीजम् । सभाध्यक्षस्य विद्याव्यापकत्वमप्यौपचारिकमेव । अत एव व्यापकवदसीति तेनाप्युक्तम् । देवानां विदुषामिमाः प्रजा इत्यपि निर्मूलम्, प्रजानां राजसम्बन्धनियमात् निष्प्रमाणमेव , देवानां, मनुष्यमित्रत्वस्य भूमिकायां साधितत्वाच्च । विदुषां सन्तानवत् प्रजास्त्वां व्याप्नुवन्त्विति हिन्दीभाष्यमपि दृष्टान्तस्वारस्यस्यानिरूपणात् । दिवः सूनुरसि प्रकाशपुञ्जतुल्योऽसीत्यपि यत्किञ्चित्, गौणार्थकत्वे मानाभावात् । पृथिव्यां ते तव लोको राष्ट्र राज्यस्थानमित्यपि निरर्थकम् पृथिव्या अन्यत्र तदसम्भवेन व्यावर्त्यान विशेषणवैयर्थ्यात् । लोकपदस्य राष्ट्रमर्थ इत्यपि निर्मूलम्, तथा शक्तिग्रहाभावात् । आरण्यस्ते पशुः सिंहस्ते वशेऽस्त्वित्यपि निर्मूलम्, तद्बोधकपदाभावात् । ' सर्वे वेदा यत्पदमामनन्ति ' श्रुत्या त्वध्यात्मपक्षोऽपि समर्थित एवेति ।प ' अथ परिव्ययति । अनग्नतायै न्वेव परिव्ययति तस्मादत्रेव परिव्ययतीत्यत्रेव हीदं वासो भवत्यन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नं प्रतितिष्ठति तस्मादत्रेव परिव्ययति ' ( श. ३ | ७ | १ | १ ९ ) । रशना -परिव्ययणं विधाय प्रशंसति - अथेति । अनग्नतायै परिव्ययति । परिव्ययणप्रदेशमभिनयेन निर्दिशति – अत्रेवेति । नाभिप्रदेशे ' नाभिदध्ने ' ( तै. सं. ६।३।४ ) । उक्तार्थे लोकस्थितिं हेतुत्वेन वक्ति - अत्रेव हीदमिति । लोके शरीरस्य मध्यदेशे । खल्विदं वसनं भवति । अन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नं प्रतितिष्ठति, रशनाया याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६।३।१३-१५ ) में प्रतिपादित है । शतपथ ब्राह्मण में भी याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 237
पाठ पढ़ें पाठ छिपाएँ
म. ६ ] वेदार्थपारिजातभाष्यसहिता १३ अन्नसम्बन्धिविकारत्वेनान्नरूपत्वादन्नमेवास्मिन्नुपस्थापितवान् भवति । तत्रैवाशितमन्नमपि प्रतितिष्ठति, तस्मादन्नेन परिव्ययति । नात्र कश्चित् सभाध्यक्षो विवक्षितो न वा तस्य प्राप्तिरपि विवक्षिता । तस्मान्मुधै दयानन्दीयमभ्यूहनम् । ‘ त्रिवृता परिव्ययति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात् त्रिवृता परिव्ययति ' ( श.३ | ७ | १ | २० ) । रशनायास्त्रैगुण्यमाह - अन्नस्य त्रिवृत्त्वमिति, पशवो ह्यन्नम् । कथं तेषु त्रिवृत्त्वमिति तदुपपादयति – पिता माता यज्जायते तत्तृतीयमिति । दधिपयोरूपस्यान्नस्य त्रयाणामपि कारणत्वात् तेषामप्यन्नत्वोपचारः । तस्मात् त्रिवृता रशनया परिव्ययति ' परिवीरसि.... रायो मनुष्याणामिति तद्यजमानायाशिषमाशास्ते यदाह परमं यजमान रायो मनुष्याणामिति ' ( श. ३ | ७ | १ | २१ ) । परिव्यय मन्त्रमाह - परिवीरसीति । मन्त्रो व्याख्यात एव । ' अथ यूपशकलमवगूहति । दिवः सूनुरसीति प्रजा हैवास्यैषा तस्माद्यदि यूपैकादशिनी स्यात् स्वछ स्वमेवावगूहेदविपर्यासं तस्य हैषा मुग्धानुव्रता प्रजा जायतेऽथ यो विपर्यासमवगूहति न स्व स्वं तस्य हैषा मुग्धाननुव्रता प्रजा जायते तस्मादु स्वछ स्वमेवागूहेदविपर्यासम् ' ( श.३।७।१।२२ ) । यूपशकलं स्वरुमवगूहेद् दशनामध्ये तस्मात् स्वरोर्यूपरूपत्वात्, एवं सर्वथाऽवगूहनीयत्वाद् यूपैकादशित्वपक्षेऽपि स्वस्वयूपानतिक्रमेणैवावगूहयेत्, यस्य यूपस्यांशो यः स्वरुः स तत्रैवावगूहनीयः । अविपर्यासं विपर्यासाया एकादशिन्याः क्रमेणाग्रहणात्, दोषाविधानेन विपर्यासं प्रशंसति - तस्य हैषा मुग्धानुव्रता प्रजा जायत इति । अनुव्रता यजमानव्यापारानुकूला प्रजा जायते । यो विपर्यासमवगूहति, अन्यदीयं स्वरुमन्यत्रावगूहति, तस्य मुग्धा अननुव्रता यजमानव्यापारप्रतिकूला प्रजा जायते । तस्मात् स्वं स्वमेवावगूहेदविपर्यासम् । ' स्वर्गस्यो हैष लोकस्य समारोहणः क्रियते । यद्यूपशकल इय रशना रशनायै यूपशकलो यूपशकलाच्चषालं चषालात् स्वर्गं लोक समश्नुते ' ( श. ३।७।१।२३ ) । यूपशकलरशनाचषालानां क्रमेणोर्ध्वभावित्वात् स्वर्गारोहणसोपानत्वेन प्रशंसति - ' अथ यस्मात् स्वरुर्नाम | एतस्माद्वा एषोऽपच्छिद्यते तदस्यैतत् स्वमेवारुर्भवति तस्मात् स्वरुर्नाम ' ( श. ३।७।१।२४ ) । यूपावयवत्वेन स्वरोः सर्वथावगूहनं प्रशंसितुं तन्नाम निर्वक्ति - एतस्माद्वा इति । एतस्मादेव एष यूपशकलोऽपच्छिद्यते । तद् एतत् छिन्नं द्रव्यम् अस्य यूपसम्बन्धि पुनः स्वकीयमेव अरुर् गन्ता भवति । स्वमियर्तीति स्वरुः, ' त एतं स्वरुमपश्यन् यूपशकलम् ' ( ऐ.ब्रा.२।१।३ ) इति नाम सम्पद्यते । तस्य यन्निखातम् । तेन पितृलोकं जयत्यथ यदूर्ध्वं निखातादा रशनायै तेन मनुष्यलोकं जयत्यथ यदूर्ध्व रशनाया आचषालात्तेन देवलोकं जयत्यथ यदूर्ध्वं चषालाद् द्व्यङ्गुलं वा त्र्यङ्गुलं वा साध्या इति देवास्तेन तेषां लोकं जयति स लोको ह वै साध्यैर्देवैर्भवति य एवमेतद्वेद ' ( श.३।७।१।२५ ) । यूपं लोकत्रयजयात्मना प्रशंसति - तस्य यन्निखातमिति । निखन्यत इति निखातो गर्तगतो भागस्तेन पितृलोकं जयति । यदूर्ध्वं निखातादा रशनायास्तेन मनुष्यलोकं जयति । चषालादुपरि यूपाग्रं हि त्र्यङ्गुलभागः तेन साध्या इति प्रसिद्धास्तेषां साध्यानां देवानां लोकं जयति । ' तेषां लोकं जयति ' ( तै.सं. ६।३।४।७ ) । वेदितुः फलमाह - स लोको ह वै साध्यैर्देवैर्भवति य एवमेतद्वेद । ' तं वै पूर्वार्धे मिनोति । वज्रो वै यूपो वज्रो दण्डः पूर्वार्धं वै दण्डस्याभिपद्य प्रहरति पूर्वार्ध एष यज्ञस्य तस्मात्पूर्वार्धे मिनोति ' ( श. ३ | ७ | १२६ ) । यूपस्य पूर्वार्धं भूमौ यन्मानं तद्दण्डसाम्यतः स्तौति - वज्रो वै यूपो वज्रो दण्ड इति । यज्ञस्य प्रहरणसाधनत्वाद् दीर्घत्वाच्च वज्रो दण्डो दण्डस्य पूर्वार्धम् अभिपद्य गृहीत्वा प्रहरति । यज्ञस्याप्येष यूपः पूर्वार्धः, होमात् पूर्वमनुष्ठेयत्वात् । तस्मात् पूर्वार्धे पूर्वभागे मिनोति । अध्यात्मपक्ष में अर्थ इस प्रकार है - हे परमेश्वर, आप महदादि से, पांच कोषों से परिवेष्टित हैं । दिव्य प्रजाएं आपको परिवेष्टित करती हैं । आपके आराधक इस यजमान का सम्पूर्ण धन आवृत करे । हे उपासक जीव, तुम स्वप्रकाश ब्रह्म हो । यह पुत्ररूप देह आदि तुम्हारा कर्मफल है । भोगभूमि पृथ्वी पर तुम उससे पृथक् चिद्रूप हो । संसाररूपी अरण्य में सब तुम्हारे ही पशु हैं ।
पृष्ठ 238
पाठ पढ़ें पाठ छिपाएँ
१४ शुक्लयजुर्वेदसंहिता [ अ. ६ प्रकारान्तरेण पूर्वार्धमभिमातुं भूयो द्योतयति - ' यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदं मनुष्यैरनारोह्य स्यादिति ते यज्ञस्य रसं धीत्वा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम पुरस्ताद्वै प्रज्ञा पुरस्तान्मनोजवस्तस्मात्पूर्वार्धे मिनोति । देवैस्तिरोभावितस्य यज्ञस्य यूपस्य इतरेषामनुष्ठातॄणां प्रज्ञापकत्वात्, प्रज्ञापकस्य पुरस्ताद्भावित्वदर्शनाद् यूपोऽपि पुरस्ताद्देशे स्थाप्य इत्यर्थः । यूपस्य देवैराच्छादितयज्ञस्य प्रज्ञापालकत्वं तैत्तिरीयकेऽप्युक्तम्- ' यज्ञेन वै देवाः सुवर्गं लोकमायन् तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन् । तमृषयो यूपेनैवानुप्राजानन् तद् यूपस्य यूपत्वम् ' ( तै. ६।३।४।७ ) । ' स वा अष्टात्रिर्भवति । अष्टाक्षरा वै गायत्री पूर्वार्धो वा यज्ञस्य गायत्री पूर्वार्ध एष यज्ञस्य तस्मादास्त्रिर्भवति ' ( श. ३ | ७ | १ | २८ ) । अष्टसंख्यासाम्येन च गायत्र्या अष्टात्रियूपस्य चैक्यम् | ' तह स्मैतं देवा अनुप्रहरन्ति यथेदमप्येतर्ह्येकेऽनुप्रहरन्तीति देवा अकुर्वन्निति ततो रक्षा ७ सि यज्ञमनूदपिबन्त ' ( श. ३ | ७ | १ | २ ९ ) । ' ते देवा अध्वर्युमब्रुवन् । यूपशकलमेव जुहुधि तदा हैष स्वगाकृतो भविष्यति तथो रक्षासि यज्ञं नानूत्पास्यन्तेऽयं वै वज्र उद्यत इति ' ( श.३।७।१।३० ) । यूपे निगूढस्य स्वरोरुत्तरत्र प्रतिपत्तिकर्मत्वेन यूपप्रतिनिध्यात्मना होममभिधातुमाह- ' तं ह स्मेति । अप्येतर्हि इदानीमपि एके अनुष्ठातारः । इदमित्यनुप्रहरणक्रियाविशेषणम् । देवा यथा अनुप्रहरन्ति तथानुप्रहरन्तीति । इदानीमप्यनुप्रहरणमेव कुर्वन्ति । देवा अकुर्वन्निति । तेन यज्ञस्थानीयस्य यूपस्य दग्धत्वेन बाधकाभावाद् यथाकामं रक्षांसि यज्ञमुदपिबन्त । अत एव देवा अध्वर्युमब्रुवन् यूपशकलमेव जुहुधीति । तेनैव एष यूपः स्वगाकृतो भविष्यति । होमे कृतप्रतिपत्तिकोऽनुभवति, तप्रतिनिधिभूतस्य यूपशकलस्य स्वगाकृतत्वात् । तथा उ रक्षांसि यज्ञं नानूत्पास्यन्ते यतोऽयं यूप उद्यतवज्ज्र इव तेषां बाधको भविष्यति । ' सोऽध्वर्युः । यूपशकलमेवाजुहोत् तदु हैष स्वगाकृत आसीत् तथो रक्षाछसि यज्ञं नानूदपिबन्तायं वै वज्र उद्यत इति ' ( श. ३ | ७ | १ | ३१ ) उक्तार्थमेतत् । तथो एवैष एतत् । यूपशकलमेव जुहोति तदु है स्वगाकृतो भवति तथो रक्षासि यज्ञं नानूत्पिबन्तेऽयं वै वज्र उद्यत इति स जुहोति दिवं ते धूमो गच्छतु स्वर्ज्योतिः पृथिवीं भस्मना पृण स्वाहेति ' ( श. ३।७।१।३२ ) । यूपशकलहोतुरभिप्रायं वक्ति- दिवं ते धूमो गच्छत्वित्यादिना । अत्रैव शतपथेऽग्नीषोमीययूपप्रसङ्गाद् यूपैकादशिनीपक्षोऽप्युक्तः । यावती वै वेदिस्तावती पृथिवी । वज्रा वै यूपास्तदिमामेतत्पृथिवीमेतैर्वजैः स्पृणुतेऽस्यै सपत्नान्निर्भजति तस्माद्यूपैकादशिनी भवति द्वादश उपशयो भवति वितष्टस्तं दक्षिणत उपनिदधाति तद् द्वादश उपशयो भवति ' ( श. ३।७।२।१ ) । एतैर्यूपैः पृथिव्यात्मिकां वेदिं स्पृणुते बलवतीं करोति । अतोऽत्यन्तदाढर्याय यूपैकादशिनी कर्तव्या । तस्मिन् पक्षे उप यूपानां समीपे शेते इत्युपशयोऽन्यो यूपः तै (. सं. ६ | ६ | ४ ) । ' स द्वादशो भवति स च वितष्टः, विशेषेणोपरप्रदेशेऽपि तष्टः । केचित्तु वितष्ट इत्यस्य तक्षपरहित इत्यर्थं वदन्ति । तं यूपानां दक्षिणदेशे भूमौ निखातं कृत्वा तूष्णीं स्थापयेत् । ' देवा ह वै यज्ञं तन्वानाः । ते असुरराक्षसेभ्य आसङ्गाद्विभयाञ्चक्रुस्तद्य एत उच्छ्रिता यथेषुरस्ता तया वै स्तृणुते वा न वा स्तृणुते यथा दण्डः प्रहृतस्तेन वै स्तृणुते वा न वा स्तृणुतेऽथ य एष द्वादश उपशयो भवति यथेषुरायतानस्ता यथोद्यतमप्रहृतमेवमेष पशु की भाँति आपके भोगसाधन होने के कारण आपके उपकरण ही हैं । अतः अनात्मा के प्रति तादात्म्य को छोड़ कर चिदात्मक तुम ब्रह्माभिमुख होओ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ शक्तार्थ संभव होने पर अन्य वृत्ति के द्वारा उपलब्ध अर्थ के अप्रामाणिक होने के कारण असंगत ही है । सभाध्यक्ष को सम्बोधित करने में कोई प्रमाण नहीं है । विद्वान् देवों की ये प्रजाएँ हैं, यह कहना भी अप्रामाणिक
पृष्ठ 239
पाठ पढ़ें पाठ छिपाएँ
म. ६ ] वेदार्थपारिजातभाष्यसहिता १५ वज्र उद्यतो दक्षिणतो नाष्ट्राणा रक्षसामपहत्यै तस्माद् द्वादश उपशयो भवति ' ( श.३।७।२।२ ) । उपशयं रक्षोनाशकत्वेन प्रशंसति तद्य एत इति । यथा मुक्तेषुः प्रहृतो दन्तिदण्डो वा यदा ऋजुर्गच्छति तदा लक्ष्यं विध्यति न चेन्नैवं यूपोऽपि स्थापितस्तत्पतनाशङ्काया अपगतत्वाद् रक्षसां यूपविषयं भयं नोदियादती यूपस्य सोपशयत्वे सति यथेषुरनायता यथोद्यतमप्रहतं यदोपशयाख्यं वज्रमुद्यच्छतीति रक्षसां भयमुत्पद्यते, तस्मादुपशयः कर्तव्यः । --' तं निदधाति । एष ते पृथिव्यां लोक आरण्यस्ते पशुरिति पशुश्च वै यूपश्च तदस्मा आरण्यमेव पशूनामनुदिशति तेनो एष पशुमान् भवति तद् द्वयं यूपैकादशिन्यै सम्मयनमाहुः श्वः सुत्यायै ह न्वेवैके सम्मिन्वन्ति प्रकुब्रतायै चैव श्वः सुत्यायै यूपं मिन्वन्तीत्यु च ' ( श. ३१७/२१३ ) । निधानमन्त्रमाह - हे उपशय यूप, त्वं यूपानां दक्षिणप्रदेशः । पृथिव्यां ते तव लोकः स्थानम्, अतो भूम्यामन्तर्मिनामीत्यर्थः । तर्ह्यस्य कः पशुरिति तं दर्शयति -आरण्यस्ते पशुरिति । अरण्ये भव आरण्यो व्याघ्रादिः, स एव ते पशुः । तथा च सूत्रम् - ' वितष्टं द्वादशं निदधात्येष तइति ' ( का.श्रौ. ८।८।२२ ) । सर्वथापि लोको राष्ट्रं राज्यं पृथिव्यां सभाध्यक्षस्य भवतीति विशृङ्खलमेव व्याख्यानम् । यूपस्य सर्वथा पशुसम्बन्धोऽपेक्षित इत्याह- पशुश्च वै यूपश्चेति । एतावविनाभूतावित्यर्थः । वैशब्द इतरयूपानां पशुसम्बन्धनियमप्रसिद्धिद्योतनार्थः । तत् तस्माद् अव्यभिचाराद् आरण्यमेव पशूनामनुदिशति - तेनो एष इति । तेन उ एष यजमानः पशुमान् भवति । तद्वयं यूपैकादशिन्यां सम्मयनं द्वयं द्विविधमाहुर्विवदन्ते, अभिज्ञा इति शेषः । तत्रैकेषां पक्षमाह- श्वः सुत्यायै ह त्वेवैके सम्मिन्वन्तीति । श्वः परेद्युः क्रियमाणायाः सुत्यायाः पूर्वस्मिन् दिनेऽग्निष्ठप्रमुखाः सर्वान् यूपान् निखनन्ति । कीदृश्यै सुत्याया इत्याह- प्रकुरताया इति । कुबिति ककुप् प्रकृष्टथ कुप् प्रकुप् दक्षिणा दिक्, तस्यां रता दक्षिणमार्गप्रापिकेति यावत् । तस्यै सुत्याया इत्यर्थः । अत्र खननमेव सम्मयनम् | ‘ तदु तथा न कुर्यात् । अग्निष्ठमेवोच्छ्रयेदिदं वै यूपमुच्छ्रित्याध्वर्युरापरिव्ययणान्नान्वर्जत्यपरिवीता वा एत एताछ रात्रिं वसन्ति सान्वेव परिचक्षा पशवे वै यूपमुच्छ्रयन्ति प्रातर्वै पशूनालभन्ते तस्मादु प्रातरेवोच्छ्रयेत् ' ( श.३।७।२।४ ) । तं पक्षं निराकरोति तदु तथा न कुर्यादिति । तस्मिन् कालेऽग्निष्ठमेकमेव उत्तरवेदेः पुरो -देशस्थमेवाग्नीषोमीयपश्वर्थमुच्छ्रयेत् । अन्येषामपि पूर्वेद्युरुच्छ्रयणे दोषमाह - अग्निष्ठमेवेति । इदं वै वक्ष्यमाणं भवति । यूपमुच्छृत्याध्वर्युरा परिव्ययणाद् रशनापरिव्ययणपर्यन्तं नान्वर्जति नैव हस्तस्य स्पर्शं परित्यजेत् । अतोऽग्निव्यतिरिक्तानां परिव्ययणस्य प्रातः परेद्युः पशूपकरणकाले कर्तव्यत्वात् कृत्स्नां रात्रिम् अपरिवीता नग्ना वसन्ति यूपाः । सा न्वेव सैव उक्तलक्षणैव परिचक्षा पूर्वेद्युरुच्छ्रयणस्य निन्दा भवति । स्वपक्षे युक्तिमाह - पशवे वै यूपमुच्छ्रयन्तीति । तस्मात् प्रातरेव परेद्युरेव उच्छ्रयणं कुर्यात् । ततः क्रमेण यूपोच्छ्रयणम् । ततो यूपस्य पशोश्चाविनाभावो दर्शितः । ततः पशूपाकरणं ततोऽग्निमन्थनं ततो यूपे पशुनियोजनम् । अध्यात्मपक्षे तु - हे परमेश्वर, त्वं परिवीरसि महदादिभिः पञ्चकोषैश्च परिवेष्टितोऽसि । दैवीर्विशो दिव्याः प्रजास्त्वां परिव्ययन्तां परिवेष्टयन्ति । लकारव्यत्ययः । इमं त्वदुपासकं मनुष्याणां रायः सर्वाणि धनानीमं यजमानं त्वदीयमाराधकं परिव्ययन्ताम् । हे उपासक जीव, त्वं दिवः स्वप्रकाशस्य ब्रह्मणः सूनुः पुत्रोऽसि, ' अमृतस्य पुत्राः ' इति मन्त्रवर्णात् । एष देहादिस्ते लोकः कर्मफलम्, पृथिव्यां भोगभूमौ त्वं तु ततो विलक्षणश्चिद्रूपोऽसि । आरण्यः संसारारण्ये सर्वोऽपि प्रपञ्चस्ते पशुः । पशुवत् त्वदीयभोगसाधनत्वात् त्वदुपकरणभूत एव । तस्मादनात्मतादात्म्यमपहाय विदात्मकस्त्वं दिवः सूनुत्वात् तदभिमुखो भवेत्यभिप्रायः ॥ ६ ॥
है, क्योंकि प्रजाओं का सम्बन्ध राजा से नियत है । लोक शब्द का ' राष्ट्र ' अर्थ भी निर्मूल है । ' सर्वे वेदा यत्पदमामनन्ति ' इत्यादि श्रुतिवाक्यों से अध्यात्मपक्ष तो समर्थित ही है ॥ ६ ॥
पृष्ठ 240
पाठ पढ़ें पाठ छिपाएँ
१६ शुक्लयजुर्वेदसंहिता [ अ. ६ उपा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्वशि॒पाणु॑रु॒शिजो॒ वहि॑ितमान् । देव॑ त्वष्टि॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥७ ॥
‘ उपावीरसीति तृणमादाय तेन पशुमुपस्पृशत्युपदेवानिति ' ( का.श्रौ. ६।३।१७ ) । स्तृतबर्हिषोऽन्यद् दर्भतृणमादाय तेन तृणेन पुरस्तात् प्रत्यङ्मुखमवस्थितं पशुमुपस्पृशेत् । हे तृणविशेष, त्वमुंपावीरसि उप समीपमवतीत्युपावीः, उप समीपेऽवस्थितः सन्नवतीति वा, पशोर्द्वितीयः सखा त्वमसीत्यर्थः । तेन गृहीतेन तृणेन पशुं प्रत्यञ्चं स्थितं स्पृशति उपदेवानिति मन्त्रेण । उपदेवानग्नीषोमादीन् प्रति दैवीर्विशो देवसम्बन्धिन्यः प्रजाः पशवः, प्रथमार्थे द्वितीया, उपागुर् उपगच्छन्तु, ' दैव्यो एता विशो यत्पशवः ' इति श्रुतेः । ' इण् गतौ ' इत्यस्मात् ' छन्दसि लुङ्लिङ्लटः ’ ( पा. सू. ३।४।६ ) इति कालसामान्ये लुङ्, ' इणो गा लुङ् ' ( पा. सू. २/४/४५ ) इति गादेशः । कीदृशान् देवान्? उशिजो मेधाविनः, हवींषि कामयमानान् वा । वह्नितमान् वहन्तीति वह्नयः, अतिशयेन वह्नय इति वह्नितमास्तान् यजमानं स्वर्गं प्रति वहतां देवानां मध्ये श्रेष्ठतमान् । वहन्ति हि ते देवा यजमानं स्वर्गं प्रति कर्मस्वङ्गभावमुपगच्छन्तः । सायणाचार्यरीत्या तु वह्नितमान् यजमानं प्रति स्वर्गं वहतां प्रापयतां देवानां मध्ये श्रेष्ठतमान् तानुशिजो हवींषि कामयमानान् अग्नीषोमादीन् देवान् दैवीर्विशस्तत्सम्बन्धिनीः प्रजाश्च हे पशो, त्वदीयानि हृदयाद्यङ्गानि, उपागुर् ' उपागच्छन्तु । एवं स्वपशून् प्रार्थ्य त्वष्टारमाह - हे त्वष्टृनामकदेव, वसु पशुलक्षणं धनं रम रमयस्व । ' छन्दस्युभयथा ( पा.सू. ३।४।११७ ) इति शपोऽप्यार्धधातुकसंज्ञत्वात् णिचो लोपः । हे पशो, त्वदीयानि हव्यानि हवींषि स्वदन्तां स्वादूनि भवन्तु । ' स्वद स्वाद आस्वादने ' । यद्वा हवींषि स्वदन्ताम् आस्वादयन्तु, देवा इति शेषः । अत्रापि णिचो लोपः । अध्यात्मपक्षे तु - हे परमेश्वर, त्वमुपावीरसि समीपेऽवस्थितः सन् सर्वान् जीवान् विशेषत उपासकान् अवसि । त्वमेव द्वितीयः सखासि । ' द्वा सुपर्णा सयुजा सखाया ' ( मु.उ. ३।१ ) इति श्रुतेः । दैवीर्विशो दिव्याः प्रजा देवानुपप्रागुर् अग्नीषोमादीन् देवानुपाश्रयन्ते । कीदृशो देवान्? मेधाविनो हवींषि कामयमानान् वा, हे त्वष्टर्देव हे सर्वप्रपञ्चनिर्माणकुशल शिल्पिन्, त्वं वसुस्वरूपभूतं धनं नियोजय, स्वभक्तेभ्य इति शेषः । ' यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ' ( भ.गी.९ ।२५ ) इति गीतावचनात् । हे उपासक, ते तव त्वदीयानि हव्यानि हवींषि त्वदनुग्रहाय स्वदन्ताम् आस्वादयन्तु त्वदीया इष्टदेवता इति शेषः । ' नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ ' ( भा.पु. ७ / ९ / ११ ) इति श्रीमद्भागवतवचनात् । मन्त्रार्थ - हे सुषुम्ना के अधिष्ठात्री देव, तुम प्राण वायु के निकट रह कर उसके रक्षक सखा हो । योगसाधना करने वाले के प्राण योगयुक्तों को चाहने वाले श्रेष्ठ अग्नि के समान प्रकाश स्वरूप नरनारायण को प्राप्त हों । हे दिव्यस्वरूप भगवन् योगी के आत्मप्रतिबिम्ब में या प्राणरूप धन में रमण कीजिये । हे भूतात्मन्, यह प्राणरूप हवि आपको रुचिकर हो ॥७ ॥
विनियोग के अनुसार ' उपवीरसि ' इस ऋचा से कुशा के भाष्यसार - कात्यायन श्रौतसूत्र ( ६ । ३।१७ ) में उल्लिखित याज्ञिक तृण से पशु का स्पर्श किया जाता है । शतपथ ब्राह्मण में तथा सायणादि द्वारा रचित भाष्यों में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है- हे परमेश्वर, आप समीप में हैं तथा समस्त जीवों की विशेषतः उपासकों