वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 241–250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 241–250

पृष्ठ 241

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ७ ] -वेदार्थपारिजातभाष्यसहिता १७ दयानन्दस्तु – ' हे देव त्वष्टः सभापते, यतस्त्वम् उपावीर् उपागतपालक इवासि उपदेवान् विदुषो दैवीर्देवसम्बन्धिनीर्दिव्या विशः प्रजाः प्रागुर् उशिजः कमनीयान् वह्नितमान् अतिशयितान् वोढ्नू, देव दिव्यगुणसम्पन्न त्वष्टः सर्वदुःखच्छिद् वसु वसूनि धनानि रम रमस्व । व्यत्ययेन परस्मैपदम् । हव्या होतुमर्हाणि हव्यानि वसूनि ते तव स्वदन्तां भुञ्जताम् ' इति, हिन्दीभाष्ये तु - ' हे दिव्यगुणसम्पन्न सर्वदुःखच्छित् सभाध्यक्ष, यस्मात्त्वं शरणागतपालकसदृशोऽसि, अतो दैवीर्विद्वत्सम्बन्धिन्यो दिव्याः प्रजा यथा उशिजः श्रेष्ठगुणशोभितान् कामनायोग्यान् अतिशयेन धर्ममार्गे गच्छतो गमयितुंश्च विदुषो उपप्रागुस्तथैव त्वामपि प्राप्नुवन्तु । यथा त्वदाश्रयेण प्रजा धनाढ्या भूत्वा सुखिन्यो भवन्ति, तथैव त्वमपि प्रजाजनैः सत्कृतो रम । यथा त्वं प्रजायाः पदार्थान् स्वदसे, तथैव प्रजा अपि त्वदीयानि हव्यानि अमूल्यानि वसूनि स्वदन्ताम् ' इति, भावार्थे तु - ' यथा गुणग्राहिण उत्तमगुणं विद्वांसं सेवन्ते, तथा न्यायविचक्षणं राजानं प्रजाः सेवन्ते येन मिथः प्रीत्या परस्परोन्नतिर्भवति ' इति, तदेतत् त्रिधापि व्याख्यानं सर्वथा स्वाभ्यूहितत्वात् श्रुतिसूत्रविरुद्धत्वाद् मन्त्रविरुद्धत्वात् परस्परमसम्बन्धाच्च हेयमेव । कथं तावत् ' देव त्वष्ट ' इतिपदेन सभापतिपदार्थोपलब्धिः? किं त्वष्टृपदं दुःखच्छेतृषु क्वचिदपि प्रयुक्तमार्षग्रन्थेषु? पूर्वमीमांसायां तु लोकवेदाधिकरणे स्पष्टमिदं निर्णीतं यद् य एव लौकिकाः शब्दास्तदर्थाश्च त एव वेदेष्वपि ग्राह्या इति । अन्यथा शक्तिग्रहोऽपि पृथगपेक्षितः स्यात् । दिव्याः प्रजाः का भवन्ति? त्वद्रीत्या देवोऽपि न मनुष्यातिरिक्तः सम्भवति, विदुषां मनुष्याणामेव त्वया देवत्वोपगमात् । तत्प्रजासु दिव्यत्वमपि दुर्निरूपमेव । विशां राज्ञां सम्बन्धो भवति विद्वांसस्तु प्रजाजना अपि भवन्त्येव । शरणागतपालकतुल्यस्तद्भिन्न एव भवति । तथात्वे च स शरणागतपालको न भवतीत्येवायातम् । मूलमन्त्रे कश्चिदपि यथातथाशब्दो न दृश्यते । तस्माद्यथा दिव्याः प्रजा उशिजः प्राप्नुवन्ति, तथैव त्वामपि प्राप्नुवन्तु यथा त्वदाश्रयेण धनाढ्या भूत्वा प्रजाः सुखिन्यो भवन्ति, तथा त्वमपि प्रजाजनैः सत्कृतो भूत्वा यथा त्वं प्रजा भुङ्गे तथा त्वदीयानि रत्नानि प्रजाः स्वदन्तु ' इत्यादिकमपि निर्मूलमेव । शतपथे तु - ' अथ तृणमादायोपाकरोति - द्वितीयवान्निरुणधा इति द्वितीयवान् हि वीर्यवान् भवति ' ( श.३।७।३।८ ) । स तृणमादत्ते उपावीरसीत्युप हि द्वितीयोऽवति तस्मादाहोपावीरसीत्युप देवान् दैवीर्विशः प्रागुरिति दैव्यो वा एता विशों यत्पशवोऽस्थिषत देवेभ्य इत्येवैतदाह यदाहोप देवान् दैवीर्विशः प्रागुरिति ' ( श. ३ | ७ | ३ | ९ ) । क्रममुक्त्वा सार्थवादमुपाकरणं विधत्ते - स तृणमुपादत्त इति । तृणादानस्य प्रयोजनमाह -द्वितीयवान् भवतीति । निरुणधै पशोर्निरोधं करवाणीति । तावता किमायातमित्यत आह- द्वितीयवान् हि वीर्यवान् भवतीति । असहायस्य व्यापाराक्षमत्वं लोकसिद्धम् । स तृणमादत्त इति तदङ्गभूतं सव्याख्यानं मन्त्रेणाह श्रुतिः - उपावीरसीति । समीपे स्थित्वा रक्षकोऽसि द्वितीय एकः कार्यकरोऽसीति । ' अवितृस्तु ' ( उ. ३ | ४३८ ) इतीप्रत्ययः । दैवीर्विशः पशुलक्षणा देवसम्बन्धिन्यः प्रजा देवान् उपप्रागुः प्राप्ता देवतार्थमुपस्थिताः । ' उशिजो वह्नितमानिति । विद्वासो हि देवास्तस्मादाहोशिजो वह्नितमानिति ' ( श. ३ | ७ | ३ | १० ) | उशिजो मेधाविनामैतत् । की रक्षा करते हैं । आप ही सखा हैं । दिव्य प्रजाएँ मेधावी अथवा हविष्कामी अग्नीषोम आदि देवताओं का आश्रय ग्रहण करती हैं । हे सर्वप्रपञ्च के शिल्पी त्वष्टा, आप अपने भक्तों के लिये वसुस्वरूप धन को नियुक्त करें । हे उपासकों, तुम्हारे इष्टदेव तुम लोगों के द्वारा प्रदत्त हविर्द्रव्यों को तुम्हारे प्रति अनुग्रह के लिये आस्वादित करें । स्वामी दयानन्द द्वारा प्रतिपादित संस्कृत एवं हिन्दी अर्थ तथा भावार्थ तीनों ही सर्वथा स्वकल्पित होने के कारण, श्रुति - सूत्रों से विरुद्ध होने के कारण, मन्त्र से विरोध के कारण तथा परस्पर भी असम्बद्ध होने के कारण अगग्रस्य है । ' देव त्वष्ट: ' इस पद से ' सभापति ' यह अर्थ कैसे प्राप्त होता है । प्राचीन ग्रन्थों में क्या कहीं भी ' त्वष्टा ' पद दुःखविनाशक के अर्थ में प्रयुक्त हुआ है?

पृष्ठ 242

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ शुक्लयजुर्वेदसंहिता | अ. ६ तानेतद् देवा ' वह्नितमान् वोद्धृतमान् । " देव त्वष्टर्वसु रमेति । त्वष्टा वै पशूनामीष्टे | ११ पशवो ) । मन्त्रं वसु व्याचष्टे - उप हि अतिष्ठमानांस्त्वष्टारमब्रुवन्नुपनिमदेति यदाह देव त्वष्टर्वसु रमेति ' ( श. ३ | ७ | ३ प्रसिद्धम् । यथा विशः द्वितीय इत्यादिना । लोक एकः कर्म कर्तुमशक्त इति द्वितीयः साहाय्यकरणेन तमवतीति । अस्थिषत देवेभ्य इतीति, स्वामिनमुपकुर्वन्ति, एवं पशवो हविषा देवान् पुष्णन्तीति तेषां प्रजारूपत्वोपचारः. १।३।२३ ) इत्यात्मनेपदम् । तेषामर्थायात्मानं प्रकाशितवन्त इत्यर्थः । ' प्रकाशनस्थेयाख्ययोश्च ' ( पा. सू वै पशूनामीष्ट इति । उशिक्शब्दार्थमाह - विद्वांसो हि देवा इति । त्वष्टुः प्रार्थनायाः कारणमाह - - उपनिमद त्वष्टा अस्मत्समीपे नितरां अतिष्ठमानान् पशून् प्रति त्वष्टारं देवा उपनिमद इति यदब्रुवन् एतदेवाह त्वष्टृप्रार्थनमुक्तं मादर्येत तदर्थः । अथवा यदध्वर्युणा देव त्वष्टुरित्यभिधानम्, तत् पुरा यद् देवैरुक्तलक्षणं , तथापि पलायनमकृत्वा तत्स्थानीयम् । हव्या ते स्वदन्ताम् । यद्यप्युपाकरणकाले हविषामनिष्पत्तेः वस्वाख्यं स्वदनं नोपपद्यते धनं रम रमय, नियोजयेत्यर्थः । यदाघृता अभवन् तदेव हविर्भविष्यतीत्यर्थः । त्वष्टर्देव पशुस्वामिन् वसु हव्या ते ' हव्या ते स्वदन्तामिति ( श. ३ | ७ | ३ | १२ ) | यदा वा एव एतस्मा अध्रियन्त यद्धविरभविष्यंस्तस्मादाह भविष्यन्ति तदाह पशोर्हव्या स्वदन्तामिति । यदा एते पशव एतस्मै देवाय अध्रियन्त तदा यदेते हविर्भूता व्याख्यानं समर्थ्यते । दैवीर्विश हवींषि तदङ्गानि हृदयादीनि स्वदन्ताम् । एतद्ब्राह्मणवचनैः सायणादिसम्मतमेव पशूनामीष्ट इति इत्यस्य स्पष्टमेव पशवो देवसम्बन्धिन्यो विश उक्ताः । त्वष्टा देवविशेषः । स खलु विशेषतः ब्राह्मणवचनसिद्धम् । तस्माद् दुःखच्छित्त्वेन सभाध्यक्ष एव त्वष्टेत्यपास्तमेव || ७ || रेव॑ती॒रम॑ध्व॒ बृह॑स्पते धा॒रयो॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहवः पार्थेन॒ प्रति॑मु॒ञ्चामि॒ धर्षा मानुषः ॥ ८ ॥

रेवती लिङ्गव्यत्ययेन हे रेवन्तः, क्षीरादिलक्षणधनवन्तः पशवः, रमध्वं यूयं क्रीडध्वम्, यजमानगृह धारय इति शेषः । हे बृहस्पते, बृहत्या वेदलक्षणाया वाचः पते तदधिष्ठातृदैवत ब्रह्मन् वसूनि पशुलक्षणानि वै बृहस्पतिः धनानि पशवो निश्चलीकुरु । ‘ धारया ' इति ' अन्येषामपि दृश्यते ' ( पा. सू. ६।३।१३६ ) इति दीर्घः । ब्रह्म अन्तरा शृङ्गमभिदक्षिणं वसु ' ( श. ३।७।३।१३ ) इति श्रुतिः । द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वा बध्नाति ऋतस्य त्वेति ' ( का.श्रौ. ६।३।२४ ) । अवयवद्वयोपेतया व्यामद्वयपरिमितया कुशदर्भनिर्मितरशनया कृत्वा तेनाभिदक्षिणं दक्षिणं पादं बनीयात् । शृङ्गद्वयमध्ये ता रशनामानीय बन्धकारणरशनाग्रवर्तिनं नागपाशं हैं, वेद में भी वही ग्रहण किये जाते पूर्वमीमांसा के लोकवेदाधिकरण में यह स्पष्ट निर्णय है कि जो लौकिक शब्द एवं उनके अर्थ में दिव्यत्व भी निरूपित करना हैं । दिव्य प्रजाएँ क्या हैं? उनके मत में मनुष्य से अतिरिक्त देवता भी नहीं होते । अतः प्रकार प्रजाओं व्याख्या करना अप्रामाणिक है ॥ ७ ॥

कठिन है । मूल मन्त्र में ' यथा, तथा ' शब्दों का कहीं भी प्रयोग न होने के कारण इस मन्त्रार्थ - दूध आदि धन बाली गायों के समान, शम - दम आदि धन से युक्त इन्द्रियरूप पशु आत्मस्वरूप योगयज्ञ यजमान के पाश के शरीर में क्रीड़ा करें । हे परमात्मन्, प्राण और इन्द्रियों को योगलक्ष्मी के द्वारा पुष्ट करो । हे भूतात्मन्, देवता तुमको मैं तुमको बाँधता हूँ और कर्मबन्धन के पाश से योगयज्ञ के द्वारा मुक्त करता हूँ । विष्णुरूप प्राणाभिमानी शान्ति प्रदान करें ॥८ ॥

बांधा जाता है । भाष्यसार - ' रेवती रमध्वम् ' इत्यादि कण्डिका के मन्त्रों से कुशा की रस्सी के द्वारा पशु के दाहिने पैर के को अनुकूल व्याख्यान यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६ | ३ | २४ ) में प्रतिपादित है । शतपथ ब्राह्मण में भी याज्ञिक प्रक्रिया उपदिष्ट है ।

पृष्ठ 243

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ८ ] वेदार्थपारिजातभाष्यसहिता १ ९ दक्षिणशृङ्गमभिमुखं पाशं प्रतिमुच्य बध्नीयादिति तदर्थः । हे देवहविः, देवानां हवीरूपपशो! ऋतस्य सत्यस्य यज्ञस्य अवश्यंभाविफलोपेतत्वाद् यज्ञस्य सत्यत्वात् तादृशस्य यज्ञस्य सिद्ध्यर्थं त्वां पाशेन प्रतिमुञ्चामि बध्नामि, प्रतिपूर्वस्य मुञ्चतेर्बघ्नार्थत्वात् । धर्षा मानुषो धर्षेति विकरणव्यत्ययश्छान्दसः । प्रथमपुरुषस्थाने मध्यमपुरुषः । धृष्णोतु शक्नोतु शमयितुं मानुषः 1 । यद्वा यस्मादृतस्य यज्ञस्य त्वां हे देवहविः, पाशेन प्रतिमुञ्चामि तस्माद् धृष्णोतु त्वां मानुषः । पाशेन बद्धत्वादेव धर्षा । ' द्व्यचोऽतस्तिङः ' ( पा. सू. ६ । ३ । १३५ ) इति धर्षेत्यत्र दीर्घः । अध्यात्मपक्षे तु - रेवन्तो दैवीसम्पत्तिमन्तः साधका ब्रह्मात्मतत्त्वे रमध्वं क्रीडध्वम् । हे बृहस्पते, बृहत्या वेदलक्षणाया वाचः पते पालक परमेश्वर, साधकानां वसूनि धनानि शमदमादीनि दिव्यसम्पल्लक्षणानि धनानि धारया धारय निश्चलानि कुरु । हे देवहविः, देवस्य परमात्मनो हविरन्नं भोग्यमिति देवहंविः । उपासको हि भगवन्तं भोक्तारं मत्वा स्वात्मानं हविष्ट्वेन भोग्यत्वेन तदुपकरणत्वेनोपस्थापयति, यथा शेषः स्वात्मानमेव भगवतः शय्यासिंहासनछत्रपादुकादिरूपेणोपकल्पयतिः, तथा भक्ता अपि स्वात्मानं भगवद्भेोग्यत्वेनोपकल्पयन्ति । ऋतस्य • सत्यस्य पाशेन त्वा प्रतिबध्नामि । एवं वेदेन गुरुणा वा ऋतस्य सत्यस्य पाशेन बद्धो नियन्त्रितः सन् मानुषो धर्षा भगवन्तं वशीकर्तुं प्रगल्भो भवतीत्यर्थः । अन्यो न कोऽपि तं वशीकर्तुं शक्नोति । दयानन्दस्तु - ' रायो धनानि यासु विद्यन्ते ताः प्रजा रमध्वं क्रीडध्वम्, बृहत्या वेदवाचः पते परमविद्वन् धारय । ऋतस्य सत्यन्यायाख्यस्य यज्ञस्य त्वा त्वां देवहविः, यथा देवानां हविरादातुं चरित्रमस्ति, तथा पाशेन बन्धनेन प्रतिमुञ्चामि । धर्षा धृष्णुहि । मानुषः सर्वशास्त्रमननशीलः ' इति । हिन्दीव्याख्यानरीत्या तु - ' है प्रजाजनाः, यूयं विद्यादिशिक्षासु रमध्वम्, हे विद्वन्! ऋतस्य सत्यन्यायव्यवहारप्राप्तस्य धनस्य अस्मदर्थं धारय स्वीकुरु ' इति । उत्तरत्र - ' अध्यापकः शिष्यायोपदिशति - हे राजन्, प्रजापुरुषा वा अहं मानुषः सर्वशास्त्रविचारकः पाशेन अविद्याबन्धनाद् यथा देवानां विदुषां हविग्रह्यचरित्रं तुभ्यं प्राप्नोतु, तथा त्वां प्रतिमुञ्चामि मोचयामि त्वं विद्यायां शिक्षायां धर्ष प्रगल्भो भव ' इति, तदेतत् सर्वमनाकलितपौर्वापर्यस्य तस्य धार्त्त्यमेव, निर्मूलत्वात् । सिद्धान्ते तु ' रेवन्तो हि पशवः ' ( श. ३ | ७ | ३ | १३ ) इति श्रुतिबलेन रेवन्त इत्यस्य पशव एवार्थः । ' ब्रह्म वै बृहस्पतिः, पशवो वसुः ' ( श.३ | ७ | ३ | १३ ) इति श्रुत्यनुसारेण शब्दार्था निश्चिताः । सूत्राणि च तत्रानुगुणानि । विद्यायां रमध्वमित्याक्षेपोऽपि निराधारः । देवानां हविरादातुं चरित्रमित्यपि निर्मूलमेव । पाशेनेत्यस्याविद्याबन्धनादिति च कथमर्थः? तृतीयायाः पञ्चम्यन्तत्वेन विपरिणामे किं मूलम्? पाशेन प्रतिबध्धामीति यथाश्रुतार्थे किं बाधकम्? णिजर्थः कुतो लब्धः? अध्यापकस्य शिष्यायोपदेश इत्यत्रापि किं मूलम्? सिद्धान्तव्याख्याने तु श्रुतयः सूत्राणि च मूलमिति स्फुटमेव । शतपथे हि - ' रेवती रमध्वमिति । रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमिति बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिः पशवो वसु तानेतद् देवा अतिष्ठमानान् ब्रह्मणैव परस्तात्... परिदधाति तन्नातियन्ति तस्मादाह अध्यात्मपक्ष में अर्थ इस प्रकार है- हे दैवी सम्पत्ति से युक्त साधकगण, आप लोग ब्रह्मात्मतत्त्व में रमण कीजिये । हे वेदवाणी के पालक परमेश्वर, साधकों के शम, दम आदि दिव्यलक्षणसम्पन्न धनों को निश्चल करें । हे परमात्मा के भोग्य उपासकों, सत्य के पाश से तुमको प्रतिबद्ध करता हूँ । इस प्रकार वेद से अथवा गुरु से सत्य के पाश द्वारा नियन्त्रित होकर भगवान् को वश में करने के लिये समर्थ होता है । दूसरा कोई उसको वश में नहीं कर सकता । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ पौर्वापर्य की संगति से रहित है । ' विद्या में रमण करें ' इसमें अध्याहार करना भी निर्मूल

पृष्ठ 244

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० शुक्लयजुर्वेदसंहिता [ अ. ६ बृहस्पते धारया वसूनीति पाशं कृत्वा प्रतिमुञ्चत्यथातो नियोजनस्यैव ' ( श. ३ | ७ | ३ | १३ ) । स्पष्टार्थं ब्राह्मणम् न । अतिष्ठमानान् पशून् ब्रह्मणैव परस्तात् परे देशे पर्यदधुः परितोऽधारयन् । तत् तेन अत्यापनमतिक्रमणं इति शेषः । कृतवन्तः । एनान् एतद् ब्रह्मणैव परिदधाति तन्नातियन्ति । अथातो नियोजनस्यैव, विधानमभिधीयत ‘ पाशं कृत्वा प्रतिमुञ्चति । ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामीति वरुण्या वा एषा यद्रज्जुस्तदेनमेतदृतस्यैव पाशेन सम्बन्धनमाह– पाशं कृत्वा प्रतिमुञ्चति तथो हैनमेषा वरुण्या रज्जुर्न हिनस्ति ' ( श. ३ | ७ | ४ | १ ) | समन्त्रकं प्रतिमुञ्चतीति । पाशाग्रग्रन्थ्याः सुषिरं कृत्वा तस्मिन्नितरमग्रं बहिः प्रसार्य बहिर्गतं पाशमाकृष्य यथा शिरो न गलति तथा कृत्वा बीयादिति सायणः । ऋतस्य त्वेति । हे देवहविः पशो, त्वाम् ऋतस्य पाशेन प्रतिमुञ्चामि बध्नामि । कृतव्याख्यान एव मन्त्रः । बन्धनकर्मणो वरुणाभिमानिकत्वाद् वरुण्या वा एषा यद्रजुः, बन्धनसाधनभूताया वरुणसम्बन्धिरज्जोस्तत्त्वम्, तदपि परिहाय मन्त्रेण बन्धे सति ऋतपाशेन बन्धो भवति । ' धर्षा मानुष इति । न वा एतमग्रे मनुष्योऽधृष्णोत् स यदैवर्तस्य पाशेनैतद्देवहविः प्रतिमुञ्चत्यथैनं मनुष्यो धृष्णोति तस्मादाह धर्षा मानुष इति ' ( श.३ | ७ | ४ | २ ) | मन्त्रभागस्य तात्पर्यमाह - न वा एतमग्रे मनुष्योऽधृष्णादिति । यस्मात् पशुधर्षणसामर्थ्यं मनुष्यस्य देवकृतपाशविमोकायत्तम्, अतो मन्त्रो धर्षा मानुष इति ब्रूते ॥ ८ ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॑ जुष्टं नियु॑नज्मि । अ॒द्भ्यस्त्वौष॑धा॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒भ्र्भ्योऽनु सखा॑ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां॑ त्वा॒ जुष्टं प्रोक्षमि ॥९ ॥

' अथ नियुनक्ति.... स प्रोक्षति.... अनु त्वा माता ' ( श. ३।७।४।३-५ ) । ' देवस्य त्वेति यूपे ' ( का.श्रौ. ६।३।२५ ) | जुबद्धं पशुं यूपे बध्नीयादित्यर्थः । ' अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षति ' ( का.श्रौ. ६।३।२७ ) । प्रोक्षणीशब्दो यौगिकोऽपि संस्कृतप्रोक्षणीविषयः, प्रोक्षणोपादानसामर्थ्यात् । पूर्वोक्तश्रुतिप्रामाण्येन मन्त्रस्यायमर्थः - हे पशो, देवस्य सवितुः प्रसवे प्रेरणे त्वा त्वामश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नीषोमाभ्यां सम्मिलितदेवताभ्यां । जुष्टमभिरुचितं त्वां पशुं नियुनज्मि बध्नामि । हे पशो, त्वामद्भिरोषधीभिश्च प्रोक्षामि मेध्यं करोमि दर्भैरपामुत्पूतत्वादस्त्योषधीनामपि प्रोक्षणसाधनत्वम् । स्वमातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वात् तेनोभयेन युक्तमिति । ‘ अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भयो ह्येष औषधीभ्यः सम्भवति यत्पशुरिति ' इति तत्तिरि श्रुतेः । है ' है । ' पाशेन ' इसका अर्थ ' अविद्या के बन्धन से ' इस प्रकार कैसे हो सकता है? ' यह अध्यापक का शिष्य के लिये उपदेश इस प्रकार कहने में क्या प्रमाण है? हमारे सिद्धान्त पक्ष के व्याख्यान में तो श्रुतिवाक्य तथा सूत्र प्रमाण हैं, यह स्पष्ट ही है || ८ || मन्त्रार्थ - हे भूतात्मन्, आत्मविचार की प्रेरणा देनेवाले गुरु की प्रेरणा से मैं प्रकृति - पुरुष के प्रिय तुमको मन- ( हृदय ) की ग्रहण करने की शक्ति रूप बाहुओं से और मानस सूर्य के शक्तिरूप हाथों से निश्चल करता हूँ । हे भूतात्मन्, प्रकृति- करता पुरुष के प्रिय तुमको ज्योतिरस रूप जल और जन्म रूप रोग का नाश करने वाली ज्ञान - स्वरूप औषधियों से प्रोक्षित हूँ । प्रोक्षित हुए तुमको प्रकृति और पुरुष आज्ञा दें, सहोदर भ्राता के समान जीवात्मा अनुमति दें, समान यूथ वाले मित्र भी आज्ञा दें ॥ ९ ॥

भाष्यसार - ' देवस्य त्वा ' इस कण्डिका के मन्त्रों के द्वारा पशु का यूप में नियोजन तथा प्रोक्षणी जलों से पशु का प्रोक्षण आदि कार्य अनुष्ठित किये जाते हैं । याज्ञिक प्रक्रिया के अन्तर्गत यह विनियोग कात्यायन श्रौतसूत्र ( ६ | ३ | २५-२७ ) में उल्लिखित है ।

पृष्ठ 245

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ९ -१० ] वेदार्थपारिजातभाष्यसहिता २१ हे पशो, एवं प्रोक्ष्यमाणं त्वां माता भूमिरनुमन्यताम्, तथा पिता द्यौरनुमन्यताम् । एवमुत्तरत्राप्यनुमन्यतामिति प्रत्येकं सम्बद्ध्यते । भ्राता समानजन्मा सगर्भ्यः समाने गर्भे उदरे भवः सगर्भ्यः सोदरः, सहैव ख्यायत इति सखा सुहत्, समानयूथे भवः सयूथ्यः, अग्नीषोमाभ्यामेवं त्वां जुष्टमभिरुचितं प्रोक्षामि, ' इद हि यदा वर्षत्यथौषधयो जायन्ते ( श.३।७।४।४ ) इति श्रुतेः । ' तद्यथैवादौ देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताभ्योऽप्यादिशति.... प्रोक्षणस्य बन्धुर्मेध्यमेवैतत्करोति ' ( श. ३ | ७ | ४ | ३ ) । यथैवामुष्मिन् दर्शपूर्णमासयागे हविर्निवापे देवतादेशनम्, तथैवात्राप्यग्नीषोमाभ्यां देवताभ्यामेव हविरादिशति । प्रोक्षणस्य प्रयोजनमप्याह - मेध्यमेवैतद्धविः करोतीति । ' अद्भ्यस्त्वौषधीभ्य इति तद्यत एव सम्भवति, तत एवैतन्मेध्यं करोती हि यदा वर्षत्यथौषधयो जायन्ते..... ' ( श.३ | ७ | ४ | ४ ) । अद्भ्य ओषधीभ्यश्च संभूतं त्वां प्रोक्षामि । यदा वर्षत्यथौषधयो जायन्ते । ओषधीनां भक्षणादपां पानाच्च रसो जायते, तस्माद्रेतो जायते, तदैव पित्रोः शुक्रशोणिताभ्यां पशवो जायन्ते । तस्मादोषधीभ्योऽद्भयश्च सम्भूतमद्भिरोषधीभिश्च प्रोक्षति । संज्ञपनार्थं प्रोक्ष्यमाणं त्वां मात्रादिरनुमन्यतामिति । ' तद्यत एव जायते तत एवैतन्मेध्यं करोति.... स यत्ते जन्म तेन त्वानुमतमारभे ' ( श. ३ | ७ | ४ | ५ ) | मन्त्रस्य परमं प्रयोजनमाह - तद् यत इति । आपश्चौषधयश्चोपादानकारणम्, मातापितरावाश्रयत्वेन निमित्तकारणत्वम् । अतस्तत्सकाशाद् मेध्यं करोति । सगर्भ्यादीनामपि जन्मसम्बन्धसम्भवात् तेन सम्बन्धिना सगर्भ्यादिना अनुमन्यत इत्युक्तं भवति || ९ || अ॒पां पेरुरस्यापो॑ दे॒वीः स्व॑दन्तु स्वा॒त्तं चि॒त्सदे॑व॒ह॒विः । सं ते॑ प्रा॒णो वार्तेन गच्छता॒ समङ्गानि॒ यज॑त्रैः सं य॒ज्ञप॑तिराशिषा ॥ १० ॥

‘ अथोपगृह्णाति । अपां पेरुरसीति ' ( श.३ | ७ | ४ | ६ ), ' उ प्रोक्षत्यापो देवीः ' ( श.३ | ७ | ४ | ६ ), ‘ अपां पेरुरित्यास्य उनगृह्णाति ' ( का.श्रौ. ६ । ३।२८ ) । पशोरास्ये मुखे प्रोक्षणीरपः प्रक्षिपेत्, अर्थात् तृडभावेऽपि पाययेत् । मुखस्याधस्तात् संल्लग्ना एव प्रोक्षणीर्धारयेत् । ' आपो देवीरित्यधस्तादुपोक्षति ' ( २ ९ ) । पशोरुदरप्रदेशे प्रोक्षेत । हे पशो, त्वमपां पेरुरसि उदकस्य पानशीलोऽसि । हे पशो, त्वाम् आपो देवीर् अब्रूपा देव्यः स्वदन्तु आस्वादयन्तु । स्वात्तं स्वकीयतया प्राप्तं चिद् अतिस्वादु सद् आपो देव्यः स्वदन्तु स्वादयन्तु । देवहविर्देवानामेव योग्यं हविर्भूयात् । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । मन्त्रार्थ इस प्रकार है - हे पशु, सविता देवता की प्रेरणा में, अश्विनीकुमार देवताओं की भुजाओं से, पूषा देवता के हाथों से, अग्नीषोम देवताओं के लिये अत्यन्त प्रिय तुमको नियुक्त करता हूँ । हे पशु, तुम्हें जल से तथा ओषधियों से प्रोक्षित करता हूँ | हे पशु, इस प्रकार प्रोक्षित किये जाते हुए तुमको माता भूमि तथा पिता द्युलोक अनुमत करें । इसी प्रकार भ्राता, सगर्थ्य, सखा तथा सयूथ्य अनुमत करें । अग्नीषोम देवताओं के लिये अभिरुचित तुम्हारा प्रोक्षण करता हूँ । आध्यात्मिक अर्थ अग्रिम मन्त्र में संयुक्त है ॥ ९ ॥

मन्त्रार्थ - हे भूतात्मन्, तुम ब्रह्म - ज्योति के रसरूप अमृत का पान करने वाले हो, ब्रह्मज्योति के रसरूप जल को स्वीकार करो । हे भूतात्मन्, तुम्हारा प्राण समष्टि प्राण से संयुक्त हो, तुम्हारे अंग योगयज्ञ की साधना में लगें, आत्मारूप यजमान योगयज्ञ के फलरूप आशीर्वाद से युक्त हो ॥१० ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ६।३।२८-२९, ६।४।२ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' अपां पेरुः ' इस कण्डिका के मन्त्र पश को जल पिलाना. प्रोक्षण तथा जल का लेपन इत्यादि कार्यों में विनियक्त हैं । शतपथ ब्राह्मण में भी याज्ञिक विनियोग

पृष्ठ 246

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२ शुक्लयजुर्वेदसंहिता [ अ. ६ तथा स पशुः स्वात्तं सुष्ठु स्वीकृतं भवतु । पशुर्विशेष्यते - देवहविरिति । देवतयोरग्नीषोमयोर्हविर्भूतं स पशुः स्वात्तं भवतु । यद्वा - हे आ अद्भ्य एतन्मन्त्रत्रयेण प्रोक्षणादिकमवश्यमनुष्ठेयमिति तित्तिरिः - ' उपरिष्टात् प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पावयत्युत्तर एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ' । शतपथेऽपि – ' अपां पेरुरसीति तदेनमन्तरतो मेध्यं करोत्यधस्तादुपोक्षत्यापो देवीः स्वदन्तु स्वात्तं चित् सद्देवहविरिति तदेन सर्वतो मेध्यं करोति ' ( श. ३ | ७ | ४ | ६ ) । ' स उत्तरमाघारमाघार्यास स्पर्शयन् स्रुचो पर्येत्य जुह्वा पशु समनक्ति शिरो वै यज्ञस्योत्तर आधारः | ' स ललाटे समनक्ति । सन्ते प्राणो वातेन गच्छतामिति समङ्गानि यजत्रैरित्यसयोः सं यज्ञपतिराशिषेति श्रोण्योः स यस्मै कामाय पशुमालभन्ते तत्प्राप्नुहीति ' ( श. ३ | ७ | ४ | ८ ) । ' उत्तराघारमाघार्य पशुं पूर्व समनक्ति ललाटास श्रोणिषु सन्त इति प्रतिमन्त्रम् ' ( का.श्रौ. ६ ४ २ ) । उत्तराघारहोमानन्तरं ध्रुवासमञ्जनात् प्राग् ललाटे दक्षिणोत्तरस्कन्धयोर्दक्षिणोत्तरकट्योश्च जुहूस्थाज्येन जुह्वैव समनक्ति । अंसयोः श्रोण्योश्च मन्त्रावृत्तिः । पशुदैवतानि यजूंषि । हे पशो, ते तव प्राणो वातेन वायुना सङ्गच्छतामिति मन्त्रेण ललाटे । अंसाद्यङ्गानि यजत्रैर्यागैः सङ्गच्छन्तामित्यंसयोः । सं यजमान आशिषेत्ययं यजमानो दीर्घेणायुषा संगच्छताम् । शतपथे स्पष्टमुक्तम् - प्राणो वातमभिपद्यते.... यत्तेऽङ्गैर्यजान्ता.... सं यज्ञपतिराशिषेति यजमानाय वा एतेनाशिषमाशासते ' ( श. ३ । ७ । ४ । ९ ) । अध्यात्मपक्षे तु - हे साधक, देवस्य सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नीषोमाभ्यां दान्तिशान्तिभ्यां तपःक्षान्तिभ्यां जुष्टं सेवितं त्वां नियुजज्मि परमेश्वरोपासनायां प्रवर्तयामि, अद्भ्य ओषधीभ्यश्च त्वा प्रोक्षामि मेध्यं करोमि । तदर्थं ते तव मातानुमन्यतां पितानुमन्यताम्, मातृमान् पितृमान् ' आचार्यवान् पुरुषो वेद ' ( छा. उ ६।१४।२ ) इति श्रुतेः । तदनु भ्राता सगर्भ्यः सखा सयूथ्योऽनुमन्यताम्, सर्वेषां तत्रानुकूल्यस्यापेक्षितत्वात् । तैस्तैरनुमतं त्वां तपः क्षान्तिभ्यां जुष्टं प्रोक्षामि भगवदुपासनाय प्रोक्षणेन मेध्यं करोमि । हे साधक, त्वमपां लोकानां पेरुः पानशीलोऽसि । ' मिपीभ्यां रुः ' ( उ.४।१०१ ) इति रुः । ज्ञानी पुरुषः प्रत्यक्वैतन्याभिन्नपरब्रह्मसाक्षात्कारेण सर्वांल्लोकान् स्वात्मनि प्रविलापयति, ' दृश्यं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया ' इत्याद्यजगद्गुरुशङ्कराचार्योक्तेः । हे साधक, आपो देव्यः स्वदन्तु | अब्रूपा देव्यस्त्वां स्वदन्तु । ब्रह्मात्मरूपं त्वामास्वादयन्तु । त्वत्सत्तया सत्तावत्यस्त्वत्स्फूर्त्या स्फूर्तिमत्यस्त्वद्रसेन रसवत्यश्च भवन्तु । यद्वा आपो देवीर्दिव्या आपो गङ्गादिगतास्त्वा त्वां स्वदन्तु उक्षयन्तु समुक्षणेन त्वां पवित्रयन्तु । चिद् यस्मात् ( चिदित्यव्ययं के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में दो कण्डिकाओं का अर्थ इस प्रकार है- हे साधक, सविता देवता की आज्ञा में, अश्विनी कुमार देवों की भुजाओं से, पूषा देव के हाथों से, दान्ति एवं शान्ति के लिये अथवा तप एवं क्षान्ति के लिये सेवित तुमको नियुक्त करता हूँ, परमेश्वर की उपासना में प्रवर्तित करता हूँ । जल तथा औषधियों से तुमको प्रोक्षित करता हूँ, पवित्र करता हूँ । एतदर्थ तुमको मातापिता अनुमत करें तथा भ्राता सग, सखा सयूथ्य अनुमत करें । उनके द्वारा अनुज्ञात तुमको तप एवं क्षान्ति के लिये सेवित, भगवान् की उपासना लिये प्रोक्षण के द्वारा पवित्र करता हूँ । हे साधक, तुम लोकों का पान करने वाले, अर्थात् स्वात्मा में विलीन करने वाले हो । जलरूपिणी देवियां तुम्हारा ब्रह्मात्मरूप से आस्वादन करें, अथवा गङ्गा आदि की दिव्य जलधाराएं प्रोक्षण के द्वारा तुमको पवित्र करें, क्योंकि उन तीर्थगत पवित्र जल से

पृष्ठ 247

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १०-११ ] वेदार्थपारिजातभाष्यसहिता २३ त्वर्थे ) ताभिस्तीर्थगताभिः पवित्राद्भिः स्वात्तं स्वादितं सत् शोभनं देवस्य भगवतो योग्यं हविर्भोग्यं भवति । उपासको भगवतो भोग्यो भवति, भगवांश्च भक्तभोग्यो भवति । यमुपासकं भगवान् स्वात्मतादात्म्यमापादयति स एव भगवद्भोग्यो भवति । हे साधक, भगवद्भावापत्तौ ते प्राणो वातेन सङ्गच्छतां वाततादात्म्यापन्नो भवतु । ते तव अङ्गानि चक्षुः श्रोत्रादीनि यजत्रा यजनात् त्रायन्त इति यजत्रा देवास्तैः सङ्गच्छन्तां तत्तद्देवतादात्म्यापन्नानि भवन्तु । इज्यन्ते वा यजत्रा देवा यज्ञपतिर्यजमान उपासक आशिषा स्वाभीष्टेन सङ्गच्छतां संयुज्यतामिति मन्त्रद्वयस्याध्यात्मिकोऽर्थः । दयानन्दस्तु - देवस्य त्वेत्यत्राह - ' हे शिष्य, अहं सवितुर्देवस्य प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वाददे । अग्नीषोमाभ्यां तयोस्तेजः शान्तिगुणाभ्यां जुष्टं प्रीतं त्वां या ब्रह्मचर्यधर्मानुकूला आप ओषधयश्च सन्ति, ताभ्योऽद्भ्य ओषधीभ्यश्च त्वा मत्समीपे स्थातुं माताऽनुमन्यतां पिता भ्राता सगर्भ्यः सोदरः सखा सुहृत् सयूथ्यः सैन्यश्चानुमन्यताम् | अग्नीषोमाभ्यां पूर्वोक्ताभ्यां जुष्टं प्रीतम् उक्षामि सिञ्चामि ' इति, तत्तु शतपथविरुद्धमेव, लादृशेऽर्थे मन्त्रविनियोगोऽपि प्रमाणशून्यः, मुख्यार्थत्यागे गौणार्थग्रहणे प्रमाणाभावश्च । अपां पेरुरिति मन्त्रे स आह – ' हे शिष्य, त्वमपां जलानां पेरू रक्षकोऽसि । आपो देवीः शुद्धा दिव्यसुखप्रदाः स्वेन समन्ताद् गृहीतं चिद् अपि स्वधर्मानुष्ठाने स्वीकृतं सद् देवहविरिव स्वदन्तु | मदाशिषा तवाङ्गानि यजत्रैः सह सङ्गच्छन्ताम् । प्राणो वातेन सङ्गच्छताम् । त्वं यज्ञपतिर्भव ' इति, तदपि सर्वं तुच्छम्, निर्मूलत्वादध्याहारबाहुल्याच्च || १० || घृ॒तेना॒क्तौ प॒शूंस्त्रयेथा॒ रेव॑ति॒ यज॑माने प्रि॒यं धा आवि॑श । उ॒रोर॒न्तरि॑क्षात् स॒जूर्देवेन वाते॑ना॒स्य ह॒विषि॒स्त्मना यज॒ सम॑स्य त॒न्वा॒ भव । वर्षो वर्षीयसि॑ य॒ज्ञे य॒ज्ञप॑ति॑ धा॒ः स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ ॥११ ॥

स्वादित सुन्दर होकर उपासक भगवान् के योग्य भोग्य होता है, भगवान् भी भक्त के भोग्य हो जाते हैं । हे साधक, भगवद्भाव की प्राप्ति में तुम्हारा प्राण वायु से तादात्म्य प्राप्त करे । तुम्हारे नेत्र, कर्ण आदि अंग देवताओं से तादाम्य प्राप्त करें । यज्ञपति उपासक भी आशीर्वाद के द्वारा अपने अभीष्ट से संयुक्त हो । स्वामी दयानन्द द्वारा प्रतिपादित ' देवस्य त्वा ' इस मन्त्र का अर्थ शतपथश्रुति से विरुद्धं है । उस प्रकार के अर्थ में मुख्यार्थ के परित्याग तथा गौण अर्थ के ग्रहण में कोई प्रमाण नहीं है । ' अपां पेरु: ' इस मन्त्र में स्वामी दयानन्द द्वारा निरूपित अर्थ मूलरहित तथा अध्याहारों की अधिकता के कारण अग्राह्य है ॥ १० ॥

मन्त्रार्थ - हे बुद्धि और मन, तुम दोनों अग्नि की समीपता से घृत के समान विषयों की समीपता से पिघलने वाली इन्द्रियों की सकल शक्तियों से लिप्त होकर भूतात्मा के अंग, प्राण आदि की रक्षा करो । हे महावाणी, आत्मरूप यजमान के मोक्ष को धारण करो । प्रकाशवान् प्राण के साथ प्रीतियुक्त होकर गुरु के हृदयाकाश से ज्ञान - दान के द्वारा यजमान प्रवेश कर इस भूतात्मा के हविरूप शरीर की आहुति दो । इस भूतात्मा के शरीर से ब्रह्माकार में प्रकट होओ । हे विस्तार बाली सुषुम्ना, अति विस्तार वाले विष्णु परमात्मा में योगयज्ञ के कर्ता को स्थापित कर कर्मेन्द्रियों के लयस्थान में देवताओं के निमित्त उनकी आहुति दो, ज्ञानेन्द्रियों के लयस्थान में देवताओं के निमित्त ज्ञानेन्द्रियों की आहुति दो ॥११ ॥

पृष्ठ 248

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४ शुक्लयजुर्वेदसंहिता [ अ. ६ ' ते वा एत एकादश प्रयाजा भवन्ति । दश वा इमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान् वै पुरुषस्तदस्य सर्वमात्मानमाप्याययन्ति तस्मादेकादश प्रयाजा भवन्ति ' ( श. ३ | ८ | ११३ ) | सप्त शीर्षण्याः प्राणा द्वावपानौ ( पायूपस्थौ ) नाभिर्दशमी तेषामाधारो देह एकादशः । ' स आश्राव्याह । समिधः.... प्रेष्य प्रेष्येति चतुर्थे चतुर्थे प्रयाजे समानयमानो दशभिः प्रयाजैश्चरति दश प्रयाजानिष्ट्वाह शासमाहरेत्यसि वै शास इत्याचक्षते ’ ( श ०३ | ८ | १ | ४ ) । समिद्याग एव समिधः प्रेष्य, तथैव तनूनपात्प्रभृतीनां प्रेष्य..... जुहूगतेनाज्येन प्रयाजत्रयं कृत्वा पुनरुपभृति स्थितमाज्यमथ चतुर्थादिसप्तमान्त प्रयाजचतुष्टयाय समवनीय पुनरष्टमाद्येकादशान्तं प्रयाजचतुष्टयार्थमष्टममवनयेद् दशमप्रयाजानन्तरं शासमसिमाहरेति ब्रूयात् । शस्यते हिंस्यतेऽनेनेति शासोऽसिः, ' शसु हिंसायाम् ', शासशब्दस्याप्रसिद्धार्थतामभिप्रेत्य व्याचष्टे - असिं वै शासमित्याचक्षत इति । ' अथ यूपशकलमादत्ते । नावग्रे जुह्वा अक्ता पशोर्ललाटमुपस्पृशति घृतेनाक्तौ पशूंस्त्रायेथामिति वज्रो वा यूपशकलो वज्रः शासो वज्र आज्यं तमेवैतत्कृत्स्नं वज्र सम्भृत्य तमस्याभिगोप्तारं करोति नेदेनं नाष्ट्रा रक्षासि हिनसन्निति पुनर्यूपशकलमवगूहत्येषा ते प्रज्ञाताविरस्त्वित्याह शासं प्रयच्छन् सादयति स्रुचौ ' ( श. ३ | ८ | १ | ५ ) । यूपशकलौ जुड़ा अग्रगतेनाज्येन समज्य ताभ्यामक्ताभ्यां पशोर्ललाटमुपस्पृशति । कात्यायनोऽपि - ' एकादश प्रयाजा अनुयाजाश्च ' ( का.श्रौ. ६।४।७ ), ' दशेष्ट्वा प्रयाजानाह शासमाहरेति ' ( का.श्रौ. ६।४।९ ) । शासहस्तं विशसितारं प्रत्यध्वर्युर्ब्रयात् । ' स्वरुमादायाक्त्वोभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाक्ताविति ' ( का.श्रौ. ६ । ४ । १० ) । विशसित्रा दत्तं शासमादाय यूपात् स्वरुं च स्वयमेवादाय उभौ असिस्वरू जुह्वा अग्रे प्रणालिकाया घृतेनाक्त्वा ताभ्यां स्वर्सिभ्यां पशोर्ललाटमालभेत । हे शास, हे यूपशकल, युवामुभौ घृतेनाक्तौ सन्तौ पशुमेनं त्रायेथां पालयेथां स्वर्गप्रापणेन दिव्यस्वर्गसुखादिप्रदानेन पालनं कुरुताम् । वज्रो वै यूपः शकलो वज्रः शासो वज्र आज्यं तमेवैतत्कृत्स्नं वज्रं सम्भृत्य तं वज्रसमूहमस्य पशोरभिगोप्तारं करोति तेनैनं पशुं नाष्ट्रा रक्षांसि न हिंसिष्यन्ति । पुनर्यूपशकलमवगूहति - हे शमितः! एषा अष्टाश्रिस्ते प्रज्ञातास्तु । शासं प्रयच्छन् सुचावासादयति । ' स्वरुमवगुह्यासिं प्रयच्छन्नाहैषा ते प्रज्ञाताऽाश्ररस्त्विति ' ( का.श्रौ. ६ | ४ | ११ ) स्वरूं यूपे यथास्थानेऽवगूह्य शमित्रेऽसिं प्रयच्छन् ब्रूयात् - एषा अश्रिधारा ते तव चिह्निता भवतु | असेर्धाराद्वयम् तत्रैका अक्ता, अपरा अनक्ता । त्वया अनक्तया धारया पशुविशसनं कर्तव्यम् | अक्तया तु शृतपशोरवदानं भविष्यति ' सादयित्वा स्रुचौ चात्वालमुत्तरेण शामित्रायोल्लिखति ' ( का.श्रौ. ६।४।१२ ) । शामित्राग्नेः स्थापनार्थमुल्लिखति । अत्रोल्लेखनोपलक्षिताः स्मार्ताः पञ्च भूसंस्काराः कर्तव्याः । शामित्रः पशुश्रपणोऽग्निरुच्यते । “ अभिपर्यग्निकृ देशे उल्मुकं निदधाति स शामित्रः ' ( आप.श्रौ. ७ १६ २ - ३ ) । स्रुचोः सादनानन्तरं पर्यग्नयेऽनुब्रूहीति पर्यग्निं करोति । आग्नीध्र उल्मुके पशोः परितोऽग्निं करोति ' ( श. ३ | ८ | १ | ६ ) | ' आहवनीयोल्मुकमादायाग्नीत् त्रिः समन्तं पर्येति पश्वाज्यशामित्रदेशयूपचात्वालाहवनीयान् ( का.श्रौ. ६/५/२ ) । अग्नीत् त्रिः त्रिवारं सर्वतः प्रदक्षिणं पश्वाज्यशामित्रदेशयूपचात्वालाहवनीयान् पर्यग्निं करोति, ' आज्यपशुशामित्रान् वा ' ( का.श्रौ. ६।५।३ ) । ‘ अथोल्मुकमादायाग्नीत् पुरस्तात् प्रतिपद्यते । अग्निमेवैतत् पुरस्तात् करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षा ७ स्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण पशुं नयन्ति तं वपाश्रपणीभ्यां प्रतिप्रस्थाताऽन्वारभते प्रतिप्रस्थातारमध्वर्युरध्वर्युं यजमानः ' ( श. ३।८।१।९ ) । ' न वा एतं मृत्यवे नयन्ति यं यज्ञाय नयन्ति ' ( श. ३ | ८ | १ | १० ) । ' अथ स्तीर्णायै भाष्यसार - ' घृतेनाक्तौ ' इस कण्डिका के मन्त्रों से पशु के ललाट का स्पर्श, यजमान द्वारा मन्त्रवाचन तथा आहुतिप्रदान आदि

पृष्ठ 249

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ११ ] वेदार्थपारिजातभाष्यसहिता २५ वेदेः । द्वे तृणे अध्वर्युरादत्ते स आश्राव्याहोपप्रेष्य होतर्हव्या देवेभ्य इत्येतदु वैश्वदेवं पशौ अन्वारम्भसमये वेद्यास्तीर्णे बर्हिषि तृणद्वयमादायान्वारभते । स तृणं गृहीत्वा ' ( श.३ / ८ / १ / ११ ) । होतर्हव्या देवेभ्य इत्याह, होतुर्हव्यान्युद्दिश्य देवेभ्य उपप्रैष्य मैत्रावरुणप्रैषादनन्तरमध्वर्युः अध्वर्युराश्रावणमुक्त्वा प्रैषं पठतीति प्रपद्य देवेभ्य इत्यभिधानादेव पशौ वैश्वदेवत्वापादनम् । ' अथ वाचयति । रेवति यजमान तस्यार्थः । ' रेवति यजमान इति वाचयति ' ( का.श्रौ. ६ | ५ | १० ) । अध्वर्युर्यजमानं वाचयति - हे रेवति इति ' ( रयिमति श. ३ | ८ | १ | १२ ) । यजमानेऽस्मिन् प्रियमभिप्रेतमनार्तिलक्षणमभिमतं वा धा धेहि । आविश ज्ञानप्रदानेन यजमानं प्रविश वाग्देवते, रेवती सा यद्वाग् बहु वदति तेन वाग्रेवती प्रियं धा आविशेत्यनार्तिमाविशेत्येवैतदाह ' ( श. ३।८।१।१२ | ' वाग्वै श्रुतेः । हे रेवति, वातेन वायुना देवेन सजूः समानप्रीतिर्भूत्वा उरोर्विस्तीर्णादन्तरिक्षाद्यजमानं गोपायेति शेषः ) इति । ‘ अन्तरिक्षं वाऽनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथाऽयं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तद्वातेनैन संविदानादन्तरिक्षाद् गोपायेत्येवैतदाह यदाहोरोरन्तरिक्षादिति ' ( श. ३।८।१।१२ मूलसम्बन्धरहितम् उभयत उपरिष्टादधस्ताच्च संश्लेषरहितम् । तेनान्तरिक्षे रक्षः सञ्चारकारणेन वातादन्तरिक्षाच्च ) । अमूलं गोपायतीत्याह मन्त्रः । किञ्चास्य पशुलक्षणस्य हविषः, त्मना आत्मना यज । ' मन्त्रेष्वाड्यादेरात्मनः इत्याकारलोपः । तथा चास्य पशोर्हविष आत्मना यज, अस्य पशोस्तन्वा शरीरेण सम्भव ' ( पा.सू. ६।४ | १४१ ) यजमानरूपेण वात्मना पशुरूपेण चात्मना भूत्वा त्मनैव यज । यद्वा अनार्तस्यास्य एकीभव हविष । हे आत्मना रेवति, यजेत्युक्तत्वादनार्तिं कर्तुं पशूनाविशेत्यर्थः । शतपथेऽपि - ' अस्य हविषस्त्मना यजेति । वाचमेवैतदाहानार्तस्यास्य हविष आत्मना यजेति समस्य तन्वा भवेति वाचमेवैतदाहानार्तस्य हविषस्तन्वा सम्भवेति' ( श. ३ | ८ | १ | १३ ) । तद्यत्रैनं विशसन्ति तत्पुरस्तात्तृणमुपास्यति वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः । पश्चात्तृणमुपास्यति वर्षीयसीति शामित्रस्य पश्चाद् विशसनप्रदेशेऽध्वर्युर्हस्तस्थयोर्वेदितॄणयोर्मध्येऽन्यतरत्तृणं वर्षो वर्षो! वर्षादुत्पन्नं वर्षुः, तत्सम्बोधने हे वर्षो वृष्टिजन्यतृणदेवते, वर्षीयसि विस्तीर्णतरे यज्ञे प्रागग्रं यज्ञपतिं प्रक्षिपेत् । हे धेहि । एतद्बर्हिस्तरणेन स्थापनीयमिति स्तौति – ' बर्हिरेवास्मा एतत् स्तृणात्यस्कन्न यजमानं धाः विशस्यमानस्य किञ्चित् स्कन्दति तदेतस्मिन् प्रतितिष्ठति तथा नामुया भवति ' ( श ०३ हविरसदिति | तद्यदेवास्य कृते सत्यन्यत्र पतितमङ्गममुयाऽमुत्रान्तरिक्षेऽनभिमतप्रदेशे न भवति न विनश्यतीत्यर्थः ८ । | ' तद्यत्रैनं १ | १४ ) निविद्ध्यन्ति इति । तथा तत्पुरा संज्ञपनाज्जुहोति स्वाहा देवेभ्य इत्यथ यदा प्राह संज्ञप्तः पशुरित्यथ जुहोति देवेभ्यः स्वाहेति ( श.३।८।१।१६ ) । ' स्वाहा देवेभ्य इति जुहोति ' ( का.श्रौ. ६।५।२१ ) । अध्वर्युः सकृद्गृहीतमाज्यं ’ जुहुयात् । ' संज्ञप्तः पशुरिति प्रोक्ते शेतान्नु मुहूर्तमित्याहाऽसोमे ' ( का.श्रौ. ६।५।२२ ) । संज्ञप्तः पशुरिति पूर्णाहुतिधर्मेण अध्वर्युः सोमादन्यत्र निरूढे पशौ शेतान्नु मुहूर्तमिति ब्रूयात् । ' देवेभ्यः स्वाहेति जुहोति शमित्रा प्रोक्ते पूर्णाहुतिसंस्कृतेनैवाज्येन मन्त्रयोरनयोरर्थैक्येऽपि पाठभेदस्य तात्पर्यं श्रुतिः स्वयमेवाह - पुरस्तात् ' ( का.श्रौ. ६ | ५ | २३ ) । अन्ये देवा उपरिष्टात् स्वाहाकृतयोऽन्ये तानेवैतत् प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं ' लोकमभिवहन्ति स्वाहाकृतयो वा एते परिपशव्ये इत्याहुती ' ( श. ३।८।१।१६ ) । उक्ते परिपशव्ये इति नामधेये परित आज्यं तयोः पशोर्हितं ते वा परिपशव्ये संज्ञपनात् प्राक् स्वाहा देवेभ्य इति जुहुयात्, संज्ञपनादूर्ध्वं देवेभ्यः स्वाहेति जुहुयात् यतोऽतः । कार्य अनुष्ठित किये जाते हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६ | ४ | ७ - ६ | ५ | में भी याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । २३ ) में प्रतिपादित है । शतपथ ब्राह्मण

पृष्ठ 250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६ शुकुयजुर्वेदसंहिता -[ अ. ६ अध्यात्मपक्षे तु - हे कामेश्वरीकामेश्वरौ सीतारामौ राधाकृष्णौ लक्ष्मीनारायणौ वा, युवां घृतगन्धिना स्नेहेनाक्तौ व्याप्तौ परस्पराश्रयाभ्यां परस्परविषयाभ्यां स्नेहाभ्यामक्तौ परिप्लुतौ पशून् अनादिमायामोहितान् , विशेषेण जीवान् परिपूर्णानुग्रहदृष्टिवृष्ट्या त्रायेथां पालयेथाम् । हे रेवति, प्रशस्तधनाद्यैश्वर्यवति राजराजेश्वरि भगवति त्वं यजमान उपासके भवतोरर्चनापरायणे जने प्रियं धा विशेषानुग्रहं कुरु त्वदनुग्रहादेव साधकानां तवैव पुरुषार्थसिद्धिसम्भवात् | आविश विद्यादिरूपेण तत्र प्रविश, स्वाहा स्वधा - विद्या - वार्तादिरूपेण प्राणानां प्राणेन, सर्वपुरुषार्थसाधकत्वात् । देवेन परमात्मना कामेश्वरेण श्रीरामेण श्रीकृष्णेन श्रीविष्णुना वातेन सजूः समानप्रीतिमती सती हे रेवति, उरोरपरिच्छिन्नादन्तरिक्षाद् अपरिच्छिन्नानन्दमयाकाशात् तादृशस्वरूपाविर्भावनेन साधकं पालयेति शेषः । हे रेवति, अस्य साधकस्य हविषः, त्मना आत्मना, स्वात्मानमेव हविष्ट्वेन सङ्कल्प्य यजमानस्य हविषो रूपेण यज, भगवन्तं सङ्गमय प्रापय, यजेः सङ्गतिकरणार्थत्वात् । अस्य तन्वा शरीरेण सम्भव एकीभव । एकीभूतया तन्वा च परमेश्वरं सङ्गमय त्वदनुग्रहेण त्वद्रूपो भूत्वा साधकस्त्वत्प्राणनाथं भगवन्तं यज्ञपतिं प्राप्नोत्वित्यर्थः । हे वर्षो! हे कृपामृतवर्षिन् भगवन् कामेश्वर, वर्षीयसि विस्तीर्णतमे ब्रह्मात्मनि स्वाहा यजमानमुपासकं धाः धेहि । स्वाहा देवेभ्यः । हे साधक, साधनारम्भात् प्राग् देवेभ्यो देवदेवाय भगवते सर्वस्वं निवेदय, साधनसम्पत्तेरूर्ध्वं च देवेभ्यः सर्वस्वं निवेदय । पूर्वं स्वात्मसमर्पणेन देवा आवर्जनीयाः, पश्चादावर्जितेभ्यस्तेभ्यः साधनं तत्फलं च निवेद्य कृतार्थो भवेत्यर्थः । अत्र पूजायां बहुवचनम् । दयानन्दस्तु – ' हे कर्ताकारयितारौ घृतेनाक्तौ घृतमनस्कौ युवां पशून् त्रायेथाम् । त्वमेकैकेन देवेन वातेन । सजूरुरोरन्तरिक्षात् प्रियं प्रेमोत्पादकं सुखं रेवति प्रशस्तैश्वर्यवति यजमाने धास्तथा आविश, तत्स्वान्तवृत्तमाप्नुहि तद्यज्ञं अस्य हविष आत्मना यज्ञ अस्य तन्वा सम्भव एकीभव । हे वर्षो! यज्ञकर्मणा सुखसेचक, त्वं देवेभ्यः ' स्वाहा इति, तदपि दिदृक्षुभ्यः पुनः पुनरागतेभ्यो विद्वद्भ्योऽसकृत् सत्कृत्य वाचमुदीरयन् वर्षीयसि यज्ञे यज्ञपतिं धाः यत्किञ्चित्, श्रुतिसूत्रविरुद्धत्वात् असम्बद्धत्वाच्च । ' वातेन पवनेन समानप्रीतिमान् भूत्वा विस्तृतादन्तरिक्षादुत्पन्नं प्रियं सुखं यजमाने स्थापय ' इति हिन्द्यामुक्तम् । तच्च कथमुपपद्यते? कथं यज्ञकर्तुर्यज्ञकारयितुर्वा सर्वगतेन वातेन प्रीतिमत्ता? कथं चान्तरिक्षात् प्रीतिकारकं सुखमुत्पद्यते? यदि तु सुगन्धिद्रव्यादिहोमेन वायोः शुद्धत्वापादनमेव , अध्यात्मपक्ष में अर्थयोजना इस प्रकार है - हे कामेश्वरी तथा कामेश्वर, सीता एवं राम, राधा और कृष्ण, अथवा लक्ष्मीनारायण वर्षा आप परस्पराश्रय तथा परस्परविषयत्व के स्नेहों से परिपूर्ण होते हुए अनादि माया से मोहित जीवों को पूर्ण अनुग्रह में निरत दृष्टि भक्तजन की से रक्षित कीजिये । हे प्रशस्त धन ऐश्वर्य आदि की स्वामिनी, भगवती राजराजेश्वरी, विशेष रूप से आप उपासना रूपों से उसमें निविष्ट पर अनुग्रह करें, क्योंकि आपके अनुग्रह से ही साधकों की पुरुषार्थसिद्धि सम्भव होती है । विद्या आदि धनवती के, आप अपरिच्छिन्न होइये । परमात्मा कामेश्वर, श्रीराम, श्रीकृष्ण अथवा विष्णु से प्राणरूपी देव से समान प्रीतियुक्त होकर हे ही हवि के रूप में संकल्पित आनन्दमय आकाश के स्वरूपाविर्भाव के द्वारा साधक का पालन करें । हे रेवती, इस साधक के स्वात्मा को होकर करके भनवान् से संगत करें । इसके शरीर से एकीकृत हों तथा उसे परमेश्वर से संगत करें, अर्थात् आपके अनुग्रह से करें तद्रूप । हे साधक, साधक भगवान् को प्राप्त करे । कृपामृत की वर्षा करने वाले हे भगवन् विस्तीर्ण ब्रह्मात्मा में उपासक को अवस्थित भी देवताओं साधना आरम्भ करने के पूर्व देवाधिदेव भगवान् के लिये सर्वस्व निवेदित करें, तथा साधना से सम्पन्न होने के पश्चात् के लिये सर्वस्व निवेदित करें । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ श्रुति तथा सूत्र से विरुद्ध होने के कारण तथा असम्बद्ध होने के कारण असंगत है । यज्ञकर्ता अथवा कारयिता की सर्वगत वायु से प्रीतियुक्तता कैसे होगी? अन्तरिक्ष से सुख उत्पन्न नहीं हो सकता, क्योंकि सुख