वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 251–260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 251–260

पृष्ठ 251

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 251 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ११-१२ ] वेदार्थपारिजातभाष्यसहिता २७ प्रीतिमत्त्वम्, तदपि नोपपद्यते, परिच्छिन्नद्रव्याहुत्या व्यापकस्य वायोस्तदसम्भवात् । न चान्तरिक्षात् कार्यमात्रं सुखमुत्पद्यते प्रति, सुखस्यात्मधर्मत्वात् । सुखनिमित्तत्वमपि नाकाशस्य सम्भवति, तस्य सर्वत्र सत्त्वेन शक्यम्, तस्य साधारणकारणत्वात् । अन्तरिक्षात् सौगन्ध्योपेताद् वान्तरिक्षादुत्पन्नं सुखं नह्यन्येनान्यत्र स्थापयितुं तत्रत्यान् सर्वान् प्रत्यविशिष्टत्वात् ॥ ११ ॥

माहि॑र्भूर्मा पृदा॑क॒र्नम॑स्त॒ आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ अनु॑ ॥ १२ ॥

तां ‘ यदा प्राह संज्ञप्तः पशुरिति । अथाध्वर्युराह नेष्टः पत्नीमुदानयेत्युदानयति नेष्टा पत्नीं पान्नेजनं ६।५।२५ बिभ्रतीं ) । वाचयति नमस्ते ' ( श.३।८।२।१-२ ) । वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माऽ हिर्भूरिति ' ( का.श्रौ. आतानेति । पशुबन्धनरज्जुं नियोजनीं चात्वाले क्षिपेदध्वर्युः । पान्नेजनहस्तां वाचयति नयन्नमस्त हस्ते यस्याः सा पादग्रहणमवयवप्रदर्शनार्थम् । पादौ निज्येते अनेनेति पान्नेजनो मुखाद्यवयवशोधनार्थो जलकलशो तां पत्नी सोनेष्टा गार्हपत्यसमीपात् पशुशोधनाय नयन् वाचयेद् नमस्त इति मन्त्रम् । अध्वर्युराह - हे रज्जो, त्वमहिः सर्पाकारो मा भूः, पृदाकुरजगरो मा भूः । यज्ञदेवत्यं यजुः । नमस्त आतानेति । आ समन्तात् यस्यासावनर्वा तन्यत, इत्यातानो असपत्नः यज्ञः । हे आतान, ते तुभ्यं नमः । हे यज्ञ, त्वम् अनर्वा, इयर्ति वधार्थमित्यर्वा, नास्त्यर्वा सन् प्रेहि समाप्तिपर्यन्तं प्रकर्षेणागच्छ, ' अनर्वा प्रेहीत्याह । भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्यै ' इति तित्तिरिश्रुतेः । इमं मन्त्रभागं शत्रुराहित्यार्थमुच्चारयेदिति तित्तिरिराह । घृतकुल्या जुह्वादिस्रुचिषु आगच्छ, जुह्वादिषु बह्वाज्यसम्भवात् । ता विशिनष्टि – ऋतस्य यज्ञस्य पथ्याः पथिभवास्तादृशीर्नदीरनुलक्ष्य उपप्रेहीत्यर्थः । सान्नाय्यपृषदाज्यकुल्योपलक्षणार्थं घृतकुल्याग्रहणम् । वा अयमेवार्थः शतपथे समर्थितः - ' यज्ञो वा आतानो वा यज्ञ हि तन्वते तेन यज्ञ आतानो जघनार्धो एष यज्ञस्य यत्पत्नी तामेतत् प्राचीं यज्ञं प्रसादयिष्यन् भवति तस्मा एवैतद्यज्ञाय निह्नुते तथो प्रशंसति हैनामेष यज्ञो – जघनार्धो न हिनस्ति वा तस्मादाह नमस्त आतानेति ' ( श. ३।८।२।२ ) | नमस्कारवचनं यज्ञातिक्रमपरिहारत्वेन यज्ञायतने इति । यज्ञस्य जघनार्धे पत्नीशालायामवस्थिता पल्यपि जघनार्ध इत्युच्यते । तां प्राङ् नयति । तस्मिन् । जघननिह्नवनकृतस्तस्या आगोऽनेन नमस्कारवचनेन च यज्ञातिक्रमक्षमापनं सम्पद्यते -के कारण प्रत्येक कार्य के प्रति आत्मा का धर्म है । आकाश का सुखनिमित्त होना भी संभव नहीं है, क्योंकि वह सर्वत्र व्याप्त होने साधारण कारण है || ११ || पीड़ा देने मन्त्रार्थ - हे सुषुम्ना, तुम सर्प के समान कुटिल चाल चलने वाली और बिच्छू के समान मर्म स्थान काम को आदि शत्रुओं बाली मत बनो । हे योगयज्ञ, तुम्हारे लिये भूतात्मारूप अन्न विद्यमान है । हे योगयज्ञ के साधक, की तुम प्रवाहरूप नदियों को से रहित होकर सुषुम्ना मार्ग से गमन करो, ब्रह्ममार्ग में हितकारी इन्द्रियों की सकल शक्तियों देख कर त्रिदेव रूपधारी महाविष्णु को प्राप्त करो ॥१२ ॥

' इस कण्डिका के मन्त्रों से भाष्यसार - कात्यायन श्रौतसूत्र ( ६/५/२५ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' माहिर्भू: हैं । शतपथ तथा तैत्तिरीय पशुको बांधने वाली रस्सी का अग्नि में प्रक्षेप तथा पत्नी द्वारा मन्त्रपाठ आदि कार्य सम्पादित किये जाते श्रुतियों में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।

पृष्ठ 252

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 252 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८ शुक्लयजुर्वेदसंहिता [ अ. ६ अध्यात्मपक्षे तु - हे साधक, त्वमहिः सर्पतुल्यः पृदाकुरजगरतुल्यश्च मा भूः | आतानो यज्ञ इव पावनः, अनर्वा असपत्नः, प्रेहि प्रकर्षेण परमात्मानमेव गच्छ । घृतस्य भक्तिलक्षणस्नेहस्य कुल्या नदी, ऋतस्य परमेश्वरस्य प्राप्त्यै पथि मार्गे भवा पथ्या, ता अनुलक्ष्य परमात्मानं प्रेहि । दयानन्दस्तु – ' हे आतान विद्वन्, त्वमहिर्मा भूः । पृदाकुः मूढवदभिमानी व्याघ्रवद्धिंसको प्रोपेहि मा भूः ' इति । नमोऽस्तु , तदपि त्वत्सुखायान्नादिपदार्थः पुरत एव वर्तते । अनर्वा अश्वहीनो घृतस्य कुल्या इवर्तस्य पथ्याः, यत्किञ्चित्, श्रुतिविरोधात् । ' यज्ञो वै आतानः ' इति श्रुतिरुक्तैव । अहिपदस्य कुटिलगामीत्यादिगौणार्थाश्रयणमयुक्तम् विदुषामर्थार्जने मुख्यार्थत्यागे कारणाभावात् । तत्र विदुषां सुखार्थे घृतकुल्याः प्रवर्तिता दृश्यन्ते चेत्, तथात्वे । ' असपलेन ' इति प्रवृत्त्यभावापातात् । ‘ अनर्वा ' इत्यस्य अश्वराहित्यार्थकरणे न किञ्चित् स्वारस्यम् श्रुतिविरोधश्च ॥ १२ ॥

देवीरापः शुद्धा वदूव सुप॑रिविष्टा दे॒वेषु सु॒प॑रिविष्टा व॒यं परिवे॒ष्टारों भूयास्म ॥१३ ॥

' अथ पशोः प्राणानद्भिः पल्युपस्पृशति ' ( श. ३ | ८ | २१४ ) | ( पशोः प्राणाञ्छुन्धति पत्नी । मुखं नासिके ) । चक्षुषी कर्णौ नाभिं मेद्रं पायुं पादान् सहत्य वाचं ते शुन्धामीति प्रतिमन्त्रम् ' ( का.श्रौ. ६।६।२-३ । हे नासिकयोश्चक्षुषोर्युगपत् स्पर्शासम्भवाद् भेदेन प्रवृत्तौ मन्त्रावृत्तिः । एवं यज्ञं स्तुत्वा आप इदानीं स्तूयन्ते सत्यो देवेषु सुपरिविष्टाः! पान्नेजनीपात्रेषु पूरिता देवीः! हे देव्य आपः, यूयं स्वभावतः संस्कारतश्च ' शुद्धाः इत्यस्य लुङि तङि विषयभूतेषु वोड्वं वहत, पशुमिति शेषः । एनं पशुं देवान् प्रति वहत प्रापयत । ' वह प्रापणे वयमपि देवेषु मध्यमबहुवचनेऽऽभावे रूपम् । किञ्च वयमपि सुपरिविष्टाः, देवेष्विति पदमिहाप्यनुवर्तनीयम्, । मध्येऽवस्थितास्तैरेव देवेषु सुपरिविष्टास्तर्पिताः सन्तस्तेषामेव देवानां परिवेष्टारः परिवेषणकर्तारो एव भूयास्मेत्याशीः पावयति । ' देवीरापः शुद्धा.... भूयास्मेत्यप एवैतत् पावयति ' ( श. ३।८।२।३ ) । देवीरित्यादिमन्त्रेण अप बनो । यज्ञ के समान अध्यात्मपक्ष में अर्धयोजना इस प्रकार है - हे साधक, तुम सर्प की भाँति तथा अजगर की भाँति न प्राप्ति के लिये मार्ग में विद्यमान पवित्र तथा शत्रुरहित होकर परमात्मा के प्रति गति करो । भक्तिरूपी स्नेह की नदी परमेश्वर की है, उसको लक्षित करके परमात्मा के प्रति जाओ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ श्रुतिवाक्यों के विरुद्ध होने के कारण अग्रास्य है । ' अहि ' शब्द का भी गौण ' अश्वरहित अर्थ कुटिलगामी ' करने में करना उचित नहीं है, क्योंकि मुख्य अर्थ के परित्याग में कोई कारण नहीं है । ' अनर्वा ' शब्द का अर्थ कोई प्रयोजन नहीं है ॥ १२ ॥

मन्त्रार्थ - हे इन्द्रियसम्बन्धी गोलकरूप अन्तरिक्षों, सांसारिक सुख और शयन का दाता जो सुख है, उसको धारण करने वाले देह में प्रविष्ट होकर तुम भूतात्मा को देवताओं तक पहुँचाओ, अर्थात् उसकी ज्ञानदशा को की कर्म प्राप्ति का फल के साधन अर्पित बनो । तुम्हारे प्रसाद से योगयज्ञ में प्रतिष्ठित होकर तृप्त हुए हम वाक् आदि ऋत्विग्गण देवताओं करने वाले बनें ॥१३ ॥

याज्ञिक भाष्यसार - ' देवीराप: ' इस मन्त्र से पशु को प्रेक्षित करने के लिये जल का संस्कार किया जाता है । शतपथ ब्राह्मण में दृष्टि से अर्थ उपदिष्ट है ।

पृष्ठ 253

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 253 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १३-१४ ] वेदार्थपारिजातभाष्यसहिता २ ९ अध्यात्मपक्षे तु– हे देव्यः! महाकालीमहालक्ष्मीमहासरस्वत्यः, यूयम् आपो व्यापनशीलाः, व्यापकस्य परमात्मन उत्पादनपालनसंहरणशक्तित्वात् । अत एव शुद्धा निर्मला देवेषु सुष्ठु रीत्या परितश्च पूरिता निविष्टाः, अथवा देवेषु देवकार्येषु सुपरिविष्टा अभिनिविष्टाः, वोड्वं वहत प्रापयत तत्सुखावहं हविरादिकमिति शेषः । हे भगवत्यः, वयं सुपरिविष्टा युष्माभिः, अर्थाद् युष्मत्कर्तृकाभीष्टपरिवेषणेन तर्पिताः सन्तो युष्माकं परिवेष्टारः परिवेषणकर्तारो भूयास्म । दयानन्दस्तु – ‘ हे कुमार्यः, यथापः सद्गुणेषु व्याप्ताः शुद्धा देवीर्देव्यो विदुष्यः सत्स्त्रियो देवेषु सद्विद्यादिगुणेषु विद्वत्सु सुपरिविष्टाः कृतब्रह्मचर्याः स्वसमानवरान् स्वीकृतवत्यः तथा च ते विद्वांसस्ता विदुषीः प्राप्तास्तथा यूयं वोड्वं प्राप्नुतैवं वयमपि सुपरिविष्टाः परिवेष्टारो भूयास्मेति ब्रह्मचारिब्रह्मचारिणीनां परस्परं वरत्वेन पलीत्वेन च वरणमुपदिश्यते ' इति, तन्न, निर्मूलत्वात् 1 श्रुतिसूत्रादिषु तथा विनियोगादर्शनात् । ' हे कुमार्यः ' इति सम्बोधनमपि निर्मूलम् । यथातथापदानामुपस्थापनाय वाचकलुप्तोपमालङ्काराश्रयणमपि निर्मूलम्, अत एव वोड्वं स्वयंवरविवाहविधिं प्राप्नुतेत्यपि निर्मूलम् | सुपरिविष्टास्तत्तत्सेवासम्मुख्य इत्यपि निर्मूलम् । ' वयमपि सुपरिविष्टाः परिवेष्टारः परितो व्याप्ताः ’ इति, हिन्द्यां तु ‘ तत्कर्मयोग्यतामुपगच्छामः ' इत्युक्तम्, तत्तु सर्वमसम्बद्धमुपहासास्पदं च । योऽन्यान् विदुषो विदुषीश्च विवाहाय प्रेरयति, स स्वयं तदयोग्यः, तद्योग्यतां प्राप्तुं कामयत इति चित्रम् || १३ || वाचं ते शुन्धामि प्राणं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं ते शुन्धामि॒ नाभि॑ ते शुन्धामि मेढ्रं ते शुन्धामि पा॒युं ते॑ शुन्धामि चरित्रस्ते शुन्धामि ॥१४ ॥

' पशोः प्राणाञ्छुन्धति पत्नी । मुखं नासिके चक्षुषी कर्णौ नाभिं मेद्रं पायुं पादान् सहृत्य वाचं ते शुन्धामीति प्रतिमन्त्रम् ' ( का.श्रौ. ६ | ६ २-३ ) | नासिकयोश्चक्षुषोर्युगपत् स्पर्शासम्भवात् भेदेन प्रवृत्ती मन्त्रावृत्तिः । हे यज्ञियपशो, ते तव सम्बन्धिनीं वाचं वागिन्द्रियं शुन्धामि शोधयामि । प्राणं प्राणवायुं घ्राणेन्द्रियं अध्यात्मपक्ष में अर्धयोजना इस प्रकार है - हे महाकाली महालक्ष्मी महासरस्वती देवियों, आप लोग व्यापनशील हैं, क्योंकि आप सब व्यापक परमात्मा की उत्पादन, पालन तथा संहरणात्मक शक्तियाँ हैं । अतः निर्मल तथा देवताओं में पूर्णतः निविष्ट अथवा देवकार्यो में अभिनिविष्ट होकर हविष्य आदि को पहुँचावें । हे भगवती, हम लोग आपके द्वारा सम्पादित अभीष्टपूरण से तृप्त होते हुए आपके लिये प्रदानशील हों । स्वामी दयानन्द द्वारा निरूपित अर्थ श्रुति तथा सूत्र में तदनुकूल विनियोग न उपलब्ध होने के कारण अप्रामाणिक है । ' हे कुमारियों ' इस प्रकार के सम्बोधन में भी प्रमाण नहीं है । किसी भी प्रकार से पदों को जोड़ने के लिये वाचकलुप्तोपमा अलंकार की सहायता लेना अनुचित है | अतः ' स्वयंवर विवाह की विधि को प्राप्त करें ' यह कहना भी निर्मूल है । हिन्दी अर्थ में ' उस कर्म की योग्यता को प्राप्त करें यह कहना असम्बद्ध तथा उपहासास्पद है । दूसरे विद्वान् तथा विदुषी स्त्रियों को विवाह के लिये प्रेरणा देता है, वह स्वयं को उसके अयोग्य मानकर उसकी योग्यता की प्राप्ति के लिये इच्छा कर रहा है, यह विचित्र कल्पना है || १३ || मन्त्रार्थ - बुद्धि कहती है कि हे भूतात्माओं, मैं तुम्हारी वाक् इन्द्रिय को शुद्ध करती हूँ, तुम्हारे प्राण, चक्षुरिन्द्रिय, श्रोत्रेन्द्रिय और नाभि को शुद्ध करती हूँ, तुम्हारी लिंगेन्द्रिय, गुदेन्द्रिय और चरणों को शुद्ध करती हूँ ॥१४ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ६ ६ ३ ) में उल्लिखित याज्ञिक विनियोग के अनुसार ' वाचं ते ' इस कण्डिका के मन्त्रों से

पृष्ठ 254

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 254 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३० शुक्लयजुर्वेदसंहिता [ अ. ६ वा, तथा चक्षुरिन्द्रियं शुद्धं करोमि । श्रोत्रेन्द्रियं नाभिच्छिद्रं मेद्रं लिङ्गं पायुं गुदं गुह्येन्द्रियं चरित्रान् । चरण ( गमन ) साधनभूतान् पादान्, चरन्ति गच्छन्त्येभिरिति एवमादीनि त्वदीयानि सर्वाणीन्द्रियाणि शुन्धामि ‘ तद्यदद्भिः प्राणानुपस्पृशति जीवं वै देवाना हविरमृतममृतानामथैतत् पशुं घ्नन्ति यत्संज्ञपयन्ति यद्विशासत्यापो वै प्राणास्तदस्मिन्नेतान् प्राणान् दधाति तथैतमेतज्जीवमेव देवाना हविर्भवत्यमृतमभृताम् ' ( श. ३।८।२।४ ) । पशोः प्राणमुखनासाचक्षुरादीन्यद्भिः पत्नी उपस्पृशति, प्रक्षालयतीत्यर्थः । उपस्पर्शनं पशोः सजीवत्वकरणात्मना प्रशंसति – जीवं वै देवानां हविरमृतमिति । पदद्वयं व्याचष्टे - देवा अमृता अमृतधर्माणः, जीवनमप्यमृतं मृतिरहितम्, अतो योग्यत्वाद्देवानां जीवनं युज्यते । तस्मादमृतानीति देवानां हविरप्यमृतं जीवनयुक्तमेव युक्तम् । यत्पशुं घ्नन्ति संज्ञपयन्ति तद् हननात्मकमेव भवति । अतो हेतोरस्य देवहविषः पशोः प्राणापेक्षणात्, अपाम् ' आपोमयः प्राणः ' ( छा.उ. ६ | ५ | ४ ) इति श्रुत्या प्राणरूपत्वाद् मुखादिच्छिद्रेष्वपां क्षेपेण प्राणधारणं सम्पद्यते, ततश्चामृतानां देवानां सजीवनं हविर्दत्तं भवति । अपामुपस्पर्शनं प्रशस्य तस्य पत्नीकर्तृकत्वं प्रशंसति – ‘ अथ यत्पल्युपस्पृशति । योषा वै पत्नी योषायै वा इमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषायै प्रजनयति तस्मातू पन्युपस्पृशति ' ( श.३।४।२।५ ) । योषायै योषायाः सकाशाद् इमाः प्रजाः प्रजायन्ते । तस्मात्तस्या योषायाः पल्याः सकाशादेव तत्कर्तृकोपस्पर्शनेन पशोरपि जीवनं जायते । -' सोपस्पृशति वाचं ते शुन्धामीति मुखं प्राणं ते शुन्धामीति नासिके चक्षुस्ते शुन्धामीत्यक्ष्यौ श्रोत्रं ते शुन्धामीति कर्णौ नाभिं ते शुन्धामीति योऽयमनिरुक्तः प्राणो मेद्रं ते शुन्धामीति वा पायुं ते शुन्धामीति योऽयं पश्चात् प्राणस्तत्प्राणान् दधाति तत्समीरयत्यथ सहृत्य पदश्चरित्रांस्ते शुन्धामीति पद्भिर्वै प्रतितिष्ठति प्रतिष्ठित्या एव तदेनं प्रतिष्ठापयति ' ( श.३ | ४ | २।६ ) । अवयवावयविभेदेनोपस्पर्शनमन्त्रभागमाह - वाचं ते शुन्धामीतीति । मुखं वदनम् । हे पशो, ते प्राणं प्राणनं मुखनासिकाभ्यामुत्पद्यमानं प्राणवायुं शुन्धामि विशुद्धं करोमि । चक्षुः श्रोत्रे दर्शनश्रवणशक्तीन्द्रिये । नाभिं ते शुन्धामीति । योऽयमनिरुक्तोऽनभिव्यक्तप्राणस्तं शुन्धामि । पश्चात् प्राणः, अधस्ताद्वर्तमानोऽपानः, तं तत्र पायौ स्थापयति । अथ संहृत्य पदः पादानेकीकृत्य चरित्रांस्ते शुन्धामीति पादानपि शोधयति । पादशोधनं प्रशंसति – पद्भिरिति । पद्भिर्वै प्रतितिष्ठति । तस्मात् तदुपस्पर्शनेनैनं प्रतिष्ठापयति । अध्यात्मपक्षे तु – साधकप्रार्थितो भगवानेव साधकमाश्वास्य स्वानुग्रहेण साधकस्य वागादीनि शोधयति शुद्धानि करोति । येन शुद्धान्तर्बाह्यकरणः साधकः परमेश्वरं प्रपद्यते । आचार्योऽप्यभिमन्त्रितजलसिञ्चनेन शिष्यमभिषिच्य वागादीनि शोधयति । मन्त्रव्याख्यानं तु पूर्ववदेव । यजमानपत्नी पशु के मुख, नासिका आदि अंगों को जल से शुद्ध करती है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थयोजना इस प्रकार है- साधक के द्वारा प्रार्थित भगवान् ही साधक को आश्वस्त करते हुए अपने अनुग्रह के द्वारा साधक की वाणी आदि को शुद्ध करते हैं, जिससे अन्तःकरण तथा बाह्य इन्द्रियों से साधक शुद्ध होकर परमेश्वर को प्राप्त करता है । गुरु भी अभिमन्त्रित जल के सिंचन से शिष्य को अभिषिक्त करते हुए वाणी आदि का शोधन करता है । मन्त्रार्थ तो पूर्व की ही भांति इस प्रकार है- तुम्हारी वाणी, नासिका, नेत्र, नाभि, मेद्र, गुह्य तथा पैरों को शुद्ध करता हूँ ।

पृष्ठ 255

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 255 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १४-१५ ] वेदार्थपारिजातभाष्यसहिता ३१ दयानन्दस्तु – ' कथं ता गुरुपल्यो गुरवश्च यथायोग्यशिक्षया स्वस्वान्तेवासिनं सद्गुणेषु प्रकाशयन्तीत्यनेनोपदिश्यते । हे शिष्य, विविधशिक्षाभिस्तेऽहं वाचं शुन्धामि । प्राणं चक्षुः श्रोत्रं नाभिं मेढ्रं ते शुन्धामि पायुं तु शुन्धामि ' इति, तदपि निर्मूलं निरर्थकं च, शिक्षाभिर्मुखप्राणमेद्रपाय्वादिशोधनासम्भवात् । दयानन्दस्तु – ‘ गणानां त्वा गणपतिम् ' ( वा.सं.२३।१ ९ ) इति स्थलीयं मृताश्वशोधनपरं महीधरादिव्याख्यानमश्लीलत्वेन दूषयति । यद्यपि तद् व्याख्यानं ब्राह्मणादिसम्मतमिति भूमिकायां प्रदर्शितम्, परं स्वयं कीदृशं व्याख्यातीति न वेत्ति | अध्यापका अध्यापयित्र्यश्च कथं ब्रह्मचारिब्रह्मचारिणीनां मेद्रपाय्वादीनि शिक्षया शोधयिष्यन्तीत्यपि तेन वक्तव्यमासीत् । अस्य व्याख्याने श्रुतिसूत्रविरोधस्तु स्पष्ट एव ॥ १४ ॥

मन॑स्त॒ आप्या॑यतां॒ वाक्त आप्या॑यतां प्राणस्त आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता श्रोत्र॑ त॒ आप्या॑य॒ताम् । यत्ते॑ क्रूरं यदास्थि॑ितं॒ तत्त॒ आप्या॑यतां॒ निष्ट्या॑यतां॒ तत्ते॑ शुध्यतु शमहो॑भ्यः । ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः ॥१५ ॥

' अथ या आपः परिशिष्यन्ते । अर्धा वा यावत्यो वा ताभिरेनं यजमानश्च शीर्षतोऽग्रेऽनुषिञ्चतस्तत्प्राणांश्चैवास्मिंस्तत्तौ धत्तस्तच्चैनमतः समीरयतः ' ( श. ३ | ८ | २ | ७ ) । परिशिष्टाभिरर्धाभिरल्पीयसीभिर्वाद्भिर्यजमानश्चकारादध्वर्युश्च पशोः शीर्षाग्रं प्रथमं तदारभ्य निषिञ्चतः । तौ यजमानाध्वर्यू तत् तेन निषिञ्चनेन पशोः प्राणान् धत्तो धारयतः । तत् तेनैनं पशुमतोऽस्मात् स्थानात् समीरयतः सजीवत्वं कुरुतः । कात्यायनोऽपि - ' शेषेण यजमानश्च शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिरः ' ( का.श्रौ. ६।६।४ ) । पान्नेजनशेषेण यजमानोऽध्वर्युश्च पशोः शिरः प्रभृत्यङ्गान्यनुषिञ्चेतामिति विलिङ्गत्वादस्य मन्त्रस्योक्तसूत्रेण विनियोगमुक्तवान् । वाक् त आप्यायतामित्यादिमन्त्राणां तु लिङ्गबलादेव विनियोग सिद्ध इति स सूत्रकृता नोक्त इति । शतपथीयसायणभाष्ये तु पत्नीयजमानौ शिरः प्रभृत्यनुषिञ्चत इत्युक्तम् । काण्वसंहितासायणभाष्ये तु पल्या पश्ववयवजातं येनोदकेन शोधितं तेनोदकशेषेणाध्वर्युयजमानौ पशोः शिरआद्यङ्गान्यनुक्रमेण सिञ्चेतामित्युक्तम् । उव्वटमहीधराभ्यामपि तदेवोक्तम् । सूत्रभाष्यकारादयोऽपि तथैव वदन्ति । तस्माच्छतपथीयं व्याख्यानं स्वामी दयानन्द द्वारा निरूपित अर्थ में शिक्षाओं के द्वारा मुख, प्राण आदि की शुद्धि असंभव होने के कारण निरर्थकता है । यद्यपि स्वामी दयानन्द ने. ‘ गणानां त्वा ' आदि मन्त्र की व्याख्या के प्रसंग में महीधर आदि आचार्यों के अर्थ को अश्लील मानते हुए आलोचना की है | परन्तु उन्होंने स्वयं इस मन्त्र की कैसी व्याख्या की है? अध्यापक तथा अध्यापिकाएं कैसे ब्रह्मचारी तथा ब्रह्मचारिणियों के गुह्यादि को शिक्षा द्वारा शुद्ध करेंगे, यह भी वक्तव्य है? इस व्याख्या में श्रुति तथा सूत्र का विरोध तो स्पष्ट ही है || १४ || मन्त्रार्थ - हे भूतात्मन्, तुम्हारा मन सारूप्य मोक्ष को पाने के लिये समष्टिभाव को प्राणरूप में प्राप्त करे, तुम्हारी वागिन्द्रिय, तुम्हारे प्राण, चक्षुरिन्द्रिय, श्रोत्रेन्द्रिय समष्टिभाव को पावें । तुम्हारा कष्टदायक संसारबन्धन शान्त होकर द्वैतभाव रहित होकर एकीभावरूप ब्रह्मभाव को प्राप्त करे । तुम्हारे देवयान सम्बन्धी दिन कल्याणमय हों । हे इन्द्रियों की शक्तियों, मेरी रक्षा करो, उन्मार्ग में मत जाओ । हे मन, इस भूतात्मा को संसारबन्धन में डाल कर नष्ट मत करो ॥१५ ॥

भाष्यसार- • कात्यायन श्रौतसूत्र ( ६ | ६ | ४ - ९ ) में उल्लिखित याज्ञिक प्रक्रिया के अनुसार ' मनस्ते ' इस कण्डिका के मन्त्र यजमान

पृष्ठ 256

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 256 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२ शुकुयजुर्वेदसंहिता [ अ. ६ शोधकप्रमादादशुद्धमेवेति मन्तव्यम् । हे पशो, ते त्वदीयं मन आप्यायतां शाम्यतु । एवं त्वदीयानि वाक्पाणिचक्षुःश्रोत्राणि शाम्यन्तु । ' तद्यत् क्रूरीकुर्वन्ति यदास्थापयन्ति तदद्भिः शान्त्या शमयत सादं सन्धत्तः ' ( श. ३।८।२१८ ) । ' तावनुषिञ्चतः मनस्त.... ' ( श.३।८।२।९ ) । ' यत्ते क्रूरमित्यङ्गानि ' ( का.श्रौ. ६ | ६ | ५ ) | सर्वाण्यङ्गान्यनुषिञ्चतः । हे पशो, ते तव यद्बन्धनमुखनिरोधादिकं क्रूरमस्माभिः कृतम्, यच्च च्छेदादिकमास्थितं कर्तुमास्थितं शमित्रा, तत्सर्वमाप्यायतां शाम्यतु । किञ्च तत्सर्वं तव निष्ट्यायतां सहतं भवतु । ' ट्यै संघाते ' । तत्सर्वं तव शुद्ध्यतु शुद्धं भवतु । ' शमहोभ्य इति जघनेन पशुं निनयतः ' ( श. ३ | ८ | २ | ११ ) | शमहोभ्य इति पशोर्जघनप्रदेशं निनयतः । ' शमहोभ्य इति पश्चात् पशोर्निषिञ्चतः ' ( का.श्रौ. ६ ६ ६ ) | पशोर्जघनप्रदेशे पान्नेजनशेषमुभावपि निनयतः । मन्त्रार्थस्तु - दिवसादिकालविशेषेभ्यः शं सुखमस्माकं पशोश्च भूयात् । ' अथोत्तानं पशुं पर्यस्यन्ति । स तृणमन्तर्दधात्योषधे त्रायस्व उत्तानं पशुं कृत्वाऽग्रेण नाभिं तृणं निदधात्योषध इति । अध्वर्युः पशुमुत्तानं कृत्वा नाभेरग्रतो वपायाः स्थाने अङ्गुलचतुष्टयं त्यक्त्वा प्रागग्रतृणं निदध्यात् । हे ओषधे दर्भतृण, एनं त्रायस्व हननादिदुः खादेनं रक्ष । ' सा या प्रज्ञाताश्रिः । तयाभिनिदधाति सा हि यजुष्कृता मेध्या ' ( श. ३।८।२।१३ ) | या पूर्वं पश्वञ्जनायासीद्याभिर्निदध्यात् सा यथा पशोरुपरि भवति, तथा स्थापयित्वा छिन्द्यात् । ' स्वधित इति प्रज्ञतयाऽभिनिधाय छित्त्वा ' ( का.श्रौ. ६ | ६ | ९ ) । स्वधित इति मन्त्रेण कृतचिह्नां घृताक्तामसिधारां तृणस्योपरि निधाय तूष्णीं सतृणामुदरत्वचं तिर्यक् पाटयेत्, हे स्वधिते! एनं मा हिंसीरिति । अध्यात्मपक्षे तु - परमेश्वरः प्रसन्न आचार्यो वा साधकं शिष्यमाशीर्भिराप्याययति । हे साधक, ते मन आप्यायतां ज्ञानवैराग्यविवेकादिभिराप्यायताम्, विशिष्टसामर्थ्यशालितामुपगच्छतु । तथैव वाग् हितमितसत्य सूनृत भाषणादिभिराप्यायताम् अवन्ध्यतामुपैतु । प्राणो मुखनासिकाभ्यामुत्पद्यमानः प्रच्छर्दनविधारणादिभिर्विशिष्टशक्तिमत्तामुपगच्छतु । चक्षुः श्रोत्रं च नियन्त्रणजनितलोकोत्तरसामर्थ्यप्राप्त्या दूरदर्शनदूरश्रवणोपेते सम्पद्येताम् । यत्ते प्रमादात् क्रूरं क्रूरभाषणाचरणादि यच्चास्थितं संज्ञपनादिकं तत्सर्वमाप्यायतां शाम्यतु । तादृशक्रौर्यसञ्जातशक्तिक्षयेण परिम्लानस्तवात्मा कार्यकरणसङ्घातः शुभाचरणतपोभिर्गुरुपरमेश्वराशीर्भिश्च पुनराप्यायतां वर्धताम् । निष्ट्यायतां संहतो भवतु । तत्सर्वं ते शुद्धयतु । अहोभ्यो दिनोपलक्षितेभ्यः कालविशेषैभ्यस्तव शं कल्याणं भवतु । ओषधे, जातावेकवचनम्, ओषधय एनं साधकं स्वप्रभावैरेनं त्रायन्ताम् । के द्वारा पशु के प्रोक्षण, अंगों के प्रोक्षण आदि क्रियाओं में विनियुक्त हैं । शतपथ श्रुति में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थयोजना इस प्रकार है- परमेश्वर अथवा प्रसन्न गुरु साधक शिष्य को आशीर्वादों से अभिषिक्त करता है कि हे साधक, तुम्हारा मन ज्ञान, वैराग्य आदि से विशिष्टं सामर्थ्य को प्राप्त करे । इसी प्रकार वाणी भी हित, मित, सत्य, सूनृत आदि भाषण से अमोघ हो । मुख, नासिका से उत्पन्न होने वाला प्राणवायु विशिष्ट शक्तिमान् बने । नेत्र तथा कर्ण भी लोकोत्तर सामर्थ्य की प्राप्ति के द्वारा दूरदृष्टि तथा दूरश्रवण के सामर्थ्य से युक्त हों । प्रमाद के कारण तुम्हारा जो क्रूर आचरण तथा हिंसादि व्यापार है, वह सब शान्त हो जाय । शुभ आचरण, तपस्या, गुरु तथा परमेश्वर के आशीर्वाद से तुम्हारी आत्मा पुनः परिवर्धित हो, संहत हो तथा परिशुद्ध हो । दिन आदि समस्त कालों में तुम्हारा कल्याण हो । हे औषधियों, इस साधक को अपने प्रभाव से रक्षित कीजिये | हे शस्त्रास्त्र, अभिचारादि, मेरी आज्ञा से तथा आशी: से इसको! हेंसित मत करो । जिस प्रकार वाल्मीकिरामायण

पृष्ठ 257

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 257 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १५-१६ ] वेदार्थपारिजातभाष्यसहिता ३३ स्वधितयः शस्त्रास्त्राणि पराभिचारादयश्च घातका मदाज्ञयाशीर्भिश्चैनं मा हिंसीर्न घ्नन्तु । यथा ' शीतो भव हनूमतः ' ( वा. रा. सु. ५३ । २८ ) इति सीताया आशिषाज्ञया च दाहकोऽपि वह्निः शीतः सम्पन्न इति तद्वत् । दयानन्दस्तु – - ' हे शिष्य, मदीयशिक्षणेन ते तव मन आप्यायताम् । ते वाक्.... चक्षुः... श्रोत्रं.... .. तद्यत् क्रूरं दुश्चरित्रं तन्निष्ट्यायतां दूरं गच्छतु । यत्ते तवास्थितं निश्चितं तदाप्यायताम् । इत्थं ते सर्वं शुद्ध्यतु । अहोभ्यो दिनेभ्यस्तुभ्यं शमस्तु । अथ स्वस्वामिनि शिष्यलालनापरं गुरुपत्नीवाक्यम् - हे ओषधे विज्ञानवराध्यापक, त्वमेनं शिष्यं त्रायस्व मा हिंसीः । स च स्वपत्नीं प्रत्याह- स्वधितेऽध्यापिके स्त्रि, त्वमेनां त्रायस्व मा हिंसीश्च ' इति, तत्सर्वमेव स्वातन्त्र्यमूलकम्, शिक्षणेन मनसि ज्ञानसम्भवेऽपि शुद्धेः शिक्षणजन्यत्वे प्रमाणाभावात्, स्वधर्मानुष्ठानादधर्मपरिवर्जनाच्च शुद्धिसम्भवात् । एवं प्राणचक्षुराद्याप्यायनानामपि शिक्षणजन्यत्वं चिन्त्यम् । क्रूरपदेन दुश्चरित्रग्रहणमपि निष्प्रमाणमेव, अक्रूराणां परस्त्र्यादिसंसर्गाणामपि दुश्चरित्रत्वानपायात् । तथैव ' निष्ट्यायतां दूरीगच्छतु ' इत्यपि निर्मूलम् । ओषधिस्वधितिशब्दाभ्यामध्यापकाध्यापिकाग्रहणमपि स्वेच्छामूलकमेव । पदार्थभाष्ये संहन्यतामित्यर्थकरणमपि तत्प्रतिकूलमेव । मैनमिति स्थाने मैनामिति कल्पनमपि स्वैरितैव, विपरिणामस्वातन्त्र्ये वेदार्थेऽनाश्वासप्रसङ्गात् । सनातनिसम्मतेषु भाष्येषु श्रुतिसूत्रानुसारेणैव तत्र तत्र वक्तृश्रोतृकल्पनमिति स्पष्टमेव ॥ १५ ॥

रक्ष॑सां भा॒ग॒ऽसि॒ निर॑स्त॒ इ॒दम॒ह रक्षॊऽध॒मं तमो॑ वेस्तो॒काना॑म॒ग्निराज्य॑स्य बेतु॒ रक्ष॑ इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामा॒दम॒हः रक्षोऽव॑बाध नयामि ॥ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण॒वानां॒ वायो स्वाहा॒ स्वाहा॑हा॒कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥१६ ॥

में- ' शीतो भव हनूमतः ' माता सीता की इस आज्ञा तथा आशीर्वाद से अग्नि शीतल हो गई । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ स्वच्छन्दतामूलक है । प्राण, चक्षु आदि का आप्यायन शिक्षा से होना शोचनीय है । क्रूर शब्द से ' दुश्चरित्र ' अर्थ ग्रहण करना अप्रामाणिक है । क्रूर न होने वाले परस्त्रीसंसर्गादि कर्ताओं का दुश्चरित्रत्व भी संभव ही है । ' निष्ट्यायताम् ' का अर्थ ' दूर चला जाय ' इस प्रकार करना भी निर्मूल है । ओषधि तथा स्वधिति शब्दों से अध्यापक तथा अध्यापिका अर्थ निकालना भी स्वेच्छाचारिता है । सनातनधर्म - संमत भाष्यों में श्रुति तथा सूत्र के वचनों के अनुसार ही वक्ता तथा श्रोता का निर्देश स्थान - स्थान पर किया गया है ॥ १५ ॥

मन्त्रार्थ - हे क्रोध आदि के समूह, तुम राक्षस के समान काम आदि के भाग हो, योगयज्ञ में विघ्न करने वाला अज्ञान नष्ट हो गया है । मैं इस राक्षस रूप अज्ञान को पावों तले रौंद रहा हूँ, इस अज्ञान को पूरी तरह से नष्ट कर रहा हूँ । मैं इस अज्ञान को उसके अतिनिकृष्ट उत्पत्तिस्थान तमोगुण में पहुँचाता हूँ । हे मेरे हृदय और मन, तुम दोनों इन्द्रियों की शक्ति से अपनी आत्मा को परिपूर्ण करो । हे प्राणवायु, तुम ब्रह्मरन्ध्र से टपकने वाली अमृतरस की बूँदों का पान करो, आत्माग्नि इन्द्रियों की शक्तियों का पान करे, ब्रह्मज्ञान का उपदेश पाकर तुम दोनों व्यष्टि और समष्टि के प्रतिबिम्ब ब्रह्मरन्धरूप आकाश में वर्तमान समष्टि वायु का पान करो ॥१६ ॥

पृष्ठ 258

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 258 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४ शुकयजुर्वेदसंहिता [ अ. ६ यद् ' तद्यदग्रं तृणस्य तत्सव्ये पाणौ कुरुतेऽथ यद्बुध्नं तद्दक्षिणेनादत्ते ' ( श. ३।८।२।१३ ) । ' स यत्राच्छयति | २ | १४ ) । तत् एतल्लोहितमुत्पतति तदुभयतोऽनक्ति रक्षसां भागोऽसीति रक्षसा ह्येष भागो यदसृक् ' ( आच्छयति श. ३ | ८ आच्छिनत्ति, तस्य छिन्नस्य दर्भस्य यदग्रं तत् सव्ये पाणौ गृहीत्वा यन्मूलं तद्दक्षिणेनादाय यत्र यस्मिन् प्रदेशे रक्षसामिति मन्त्रेण । तत्र प्रदेशे यतो यस्माल्लोहितमुत्पतति तत्र च मूलतृणस्य उभयतो मूलमग्रं चानक्ति रक्षसामिति ’ कात्यायनोऽपि तथैवाह - ' अग्रछ सव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति लोहितेन तृणमूलं द्विगुणीकृत्य ( का.श्रौ. ६।६।८ ) । सतॄणाया उदरत्वचश्छेदने तृणाग्रपृथग्भूतं सव्ये हस्ते कृत्वा दक्षिणहस्तेन तृण, त्वं रक्षसां अग्रे मूले च छेदनस्थाने समुत्पन्नेन पशो रुधिरेणाञ्जयात् । तेनायं मन्त्रार्थ: - हे लोहिताक्त । तद् दर्भाग्रम् इदमहमिति भागोऽसि । ‘ तदुपास्याभितिष्ठति । इदमह रक्षो..... नयामीति ' ( श.३ / ८ / २ / १५ ) यजमानोऽतिक्रामति । कात्यायनोऽपि - ' निरस्तमित्यपास्यति ' ( का.श्रौ. ६।६।९ ) । अध्वर्यू रुधिराक्तं तृणमूलमुत्करे प्रक्षिपेत् । ‘ इदमहमित्यभितिष्ठति यजमानः ' ( का.श्रौ. ६ । ६ । १० ) । अध्वर्युणा उत्करे क्षिप्तं , न तृणमूलं केवलं स्थितिमात्रम् पादेनाक्रमेद्; यजमानः । तथा चायं मन्त्रार्थः - तदिदं रक्षः, अहं यजमानोऽभितः पादेनाक्रम्य तिष्ठामि निकृष्टं तमो नयामि किन्तु अहमिदं रक्षोऽवबाधे, अवाचीनं यथा भवति तथा नाशयामि । अहमिदं रक्षोऽधममत्यन्तं । तया वपाश्रपण्यौ नरकं प्रापयामि । निकृष्टमन्धकारं भूमेरधस्ताद्वर्तमानं तम एव प्रापयामि । ' अथ वपामुत्खिदति शाखयोरुपरि प्रोर्णौति घृतेन द्यावापृथिवी प्रोर्णुवाथामिति ' ( श. ३।८।२।१६ ) । तया उद्धृतया वपया वपाश्रपण्योः प्रोर्णौति घृतेन प्रोर्णोति प्रच्छादयेद् घृतेन द्यावापृथिवीति मन्त्रेण । कात्यायनोऽपि - ' वपामुत्खिद्य वपाश्रपण्यौ तयां वपया वपाश्रपण्यौ द्यावापृथिवीति ' ( का.श्रौ. ६ । ६ । ११ ) । पाटितात् पशोरुदराद् वपां निष्काश्य । हे द्यावापृथिवी प्रकर्षेणाच्छादयेद् घृतेनेति । उदरदेशेऽवस्थितो वपाख्यो मांसविशेषः । तां श्रपयतीति वपाश्रपणी । द्यावापृथिव्यौ द्युलोकभूलोकसदृश्यौ वपाश्रपण्यौ, भवदीयस्वरूपं घृतेन आज्येन तत्सदृश्या वपया प्रोर्णुवाथामाच्छादयतम् । यद्वा युवां वपाश्रपण्योराच्छादनद्वारा घृतेन दीप्यमानेन वपापदार्थेन प्रोर्णुवाथां प्रकर्षेणाच्छादयेथाम् अत्रैव शतपथे देवानां पश्वालम्भे - उदीच आकृष्यमाणस्यावाङ् मेघः पपात स एष वनस्पतिरजायत । यद्यत् तस्मात् काष्मर्यमथ्यौ कृष्यमाणस्यावाङ्पतनात् तस्य कष्मरीति नामधेयं जातं तेन मेघेन समर्धति कृत्स्नं करोति हे द्यावापृथिव्यौ, युवां वपाश्रपण्यौ भवत इत्युक्तम् - काष्मर्यमय्यौ वपाश्रपण्यौ भवतः ' ( श.३।८।२।१७ ) । यद्वा हुते घृतेनोदकेन आत्मानं प्रोर्णुवाथाम् आच्छादयेथाम् । परस्परम् आहुतिपरिणामाभिप्रायेणैतत् उर्जा रसेन ' ते वा मार्जयत्यनयोरूर्ज एते आहुती उत्क्रामतः ’ इत्युपक्रम्य ‘ आहुतिपरिणाममिदं जगत् ' इति श्रुतेः । ' तदिमे द्यावापृथिवी | घृतेन यद् द्यावापृथिवीपूरणम्, रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति ' ( श. ३ | ६ | १ | २१ ) उपजीवन्तीति । तदूर्ग्ररसेनैव द्यावापृथिवीपूरणं कृतं भवति, तेन द्यावापृथिवी रसवत्यौ उपजीवनीये इमाः प्रजा जघनेन चात्वालं ‘ तां परिवासयति । तां पशुश्रपणे प्रतपति तथो हास्यात्रापि शृता भवति पुनरुल्मुकमग्नीदादत्ते तेन स्तोकाना यन्ति ता आयन्त्यागच्छन्त्याहवनीय स एतत्तृणमध्वर्युराहवनीये प्रास्यति वायो वेः स्तोकानामिति तां पशुश्रपणे पशुः ह्येषा समित् ' ( श.३।८।२।१८ ) । तां तयोरुपसृतां परिवासयति पशोः सकाशाच्छिनत्ति । छिन्नां आहवनीयेन श्रप्यतेऽस्मिन्नग्नौ स तत्र प्रतपति । तथा सत्यस्य पशोर्वपाऽत्रापि शृता भवति । अत्रापीत्यत्र अपिशब्द पश्चाद् समुच्चयार्थः । पुनरुल्मुकमिति । प्रागाहृतमुल्मुकं श्रपणार्थमाहृताङ्गारं पुनरग्नीदादाय सर्वेऽपि चात्वालात् में प्रक्षेप आदि कार्य भाष्यसार - ' रक्षसां भागः ' इस कण्डिका के मन्त्रों के द्वारा कुशा के मूल एवं अग्रभाग का अंजन, उत्कर

पृष्ठ 259

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 259 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म.१६ ] -वेदार्थपारिजातभाष्यसहिता ३५ भागादाहवनीयं प्राप्नुयुः । तत्राध्वर्युरेतत्पुरा सव्ये धृतं तृणाग्रमाहवनीये ' वायो वेः ' इति प्रास्येत् । तथैव कात्यायनोऽपि – ‘ परिवास्य चात्वालेऽवसिच्य शामित्रे प्रतपति ' ( का.श्रौ. ६ | ६ | १२ ) । तां वपामुदरसंलग्नां छेदनेन पृथक्कृत्य चात्वाले वपाश्रपणीस्थामेव वपामुदकेन परिषिच्य शामित्रेऽग्नौ प्रतपति प्रतिप्रस्थाता । ' शामित्रैकदेशमाहवनीये प्रास्यत्यग्नीत् ' ( का.श्रौ. ६ | ६ | १३ ) । सव्ये हस्ते कृतं तृणाग्रं चाहवनीयेऽधुना प्रक्षिपेदध्वर्युः, स्तोकानामिति मन्त्रशेषः । हे वायो, स्तोकानां वपासम्बन्धिनां विप्रुषां वेः, वपाया उपरि आज्याभिघारणकाले पतिता बिन्दवः स्तोकाः तेषामाधारत्वेन तृणाग्रं समित्स्थानीयम् । स्तोकान् वपाया विप्रुषो जानीहि ज्ञात्वा च पिबेत्यर्थः । स्तोकानामिति कर्मणि षष्ठी । ' विद् ज्ञाने ' इत्यस्य लुङि मध्यमैकवचने दस्य ' दश्च ' ( पा.सू.८ / २ / ७५ ) इति रुत्वे कृते रूपमिति । अडभाव आर्ष इत्युव्वटमहीधराचार्यौ । ‘ अथोत्तरतस्तिष्ठन् वपां प्रतपति ' ( श. ३८२२० ) । ' अथ सुवेणोपहत्याज्यमध्वर्युर्वपामभिजुहोत्यग्निराज्यस्य वेतु स्वाहा ' ( श.३।८।२।२१ ) । ' अथाज्यमुपस्तृणीते । अथ हिरण्यशकलमवदधात्यथ वपामवद्यन्नाहाग्नीषोमाभ्यां छागस्य वपायै मेदसोऽनुब्रूहि ' ( श.३।८।२।२६ ) । ' हुत्वा वपा समीच्यौ । वपाश्रपण्यौ कृत्वाऽनुप्रास्यति.... ऊर्ध्वनभसं मारुतं गच्छतमिति ' ( श.३।८।२।२८ ) । कात्यायनोऽपि - ' उत्तरतस्तिष्ठन् प्रतप्य वपामन्तरा यूपाग्नी हृत्वा दक्षिणतः प्रतिप्रस्थाता श्रपयति परीत्य ' ( का.श्रौ. ६ । ६ । १५ ) | प्रतिप्रस्थाता आहवनीयादुत्तरे तिष्ठन् वपां प्रतप्य ततोऽग्नियूपयोरन्तरालेन वपां हृत्वा स्वयमपि परीत्य, न तूत्तरस्थित एव, आहवनीयाद्दक्षिणदिश्यासीन आहवनीय एव वपां श्रपयेत् । ' वपा सुवेणाभिघारयत्यग्निराज्यस्येति ' ( का.श्रौ. ६।६ । १६ ) । आहवनीयस्योपरि धृतां वपां स्रुवेणाभिघारयेत् । ' स्तोकेभ्योऽनुवाचयति ' ( का.श्रौ. ६।६।१७ ) । स्तोकेभ्योऽनुब्रूहीति मैत्रावरुणं प्रेष्येत् । ' शृताया शृता प्रचरेत्याह प्रतिप्रस्थाता ' ( का.श्रौ. ६।६।१७ ) । तत उत्तमप्रयाजप्रैषादिकमङ्गग्रामं निर्वर्त्य ' हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरा स्वाहाकृते इति ' ( का.श्रौ. ६।६।२४ ) । अग्निराहवनीय आज्यस्य वेतु आज्यं पिबतु स्वाहा तस्मै सुहुतमस्तु । वपां हुत्वा वपाश्रपण्यावाहवनीये प्रक्षिपेत् । प्रक्षेपप्रकारमाह - विशाखां द्विशृङ्गां प्रागग्राम्, इतरामेकशृङ्गां प्रत्यगग्रां निक्षिपेत् । स्वाहाकृते उच्चारिते प्रास्यति । तत्र प्रासने मन्त्रः - ऊर्ध्वनभसमिति । ऊर्ध्वमुपरिभूतं नभोऽन्तरिक्षं यस्य वायोः स तथोक्तस्तमूर्ध्वनभसं तं मारुतं वायुं हे वपाश्रपण्यौ, स्वाहाकृते स्वाहाकारेण आहुतिभावमुपगते सत्यौ, हे वपाश्रपण्यौ, युवामागच्छतम् । वायुर्हि प्रतिष्ठा यज्ञस्य । याभ्यां शाखाभ्यां वपामशिश्रियां वपाश्रपणमकार्ष्म, ते इमे अमुका अमुत्र समुच्छ्रयरहितेऽनमिते देशे प्रणष्टे न भवत इत्यभिप्रायेणाग्नौ प्रास्यते । अयं वपायोगो विप्रकृष्टकालीनस्याङ्गयागस्य मध्यवर्तिव्यवधानेन क्षुधार्ताया देवताया अवान्तरक्षुन्निवर्तकत्वेन विहितोऽतोऽयं क्रोधशान्तिहेतुर्भवतीति स्पष्टम् । ' तद्यद् द्वयया चरन्ति यस्यै देवतायै पशुमालभन्ते तामेवैतद्देवतामेतेन मेधेन प्रीणाति सैषा देवतैतेन मेधेन प्रीता शान्तोत्तराणि हवींषि श्रप्यमाणान्युपरमति तस्माद्वपया चरन्ति । ' अध्यात्मपक्षे तु - भगवत्पदप्राप्तिप्रतिबन्धकविघ्नसमूहमनुलक्ष्याह - हे विघ्नसमूह, त्वं रक्षसां विघ्नकारिणां रक्षोजातीयानां भागोंऽशोऽसि । भगवदनुसन्धानेन दिव्यदृष्ट्यवलोकनादिना निरस्तं रक्षो दिव्यान्तरिक्ष रक्षसां निरसनेन त्वमपि निरस्तो भवेत्यर्थः । अहं गुरुपरमेश्वरादिकृपापीयूषाप्यायितो रक्षोऽभितिष्ठाम्यतिक्रम्य तिष्ठामि । किये जाते हैं । याज्ञिक प्रक्रिया के अन्तर्गत यह विनियोग कात्यायन श्रौतसूत्र ( ६।६।८-१८, २५ ) में उल्लिखित है । शतपथ ब्राह्मण में भी याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।

पृष्ठ 260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 260 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६ शुक्लयजुर्वेदसंहिता अ. ६ न केवलमेतावदेव, किन्त्वहमिदं रक्षोऽवबाधे समूलमुन्मूलयामि । ' अधममिदं रक्षः । अधमं तमो नयामि निकृष्टं तमो नयामि । हे द्यावापृथिवी, युवां घृतेन प्रोर्णुवाथां मातापितृरूपे दिव्यदम्पती गौरीशङ्करौ सीतारामौ राधाकृष्ण वा घृतेन स्नेहेन परस्परमात्मानमाच्छादयेथाम्, तदनुभवेनैव भक्तानामभीष्टसिद्धेः । परस्परगौरश्यामतेजः संवलितं परस्परालिङ्गितं प्रहृष्टं ब्रह्मज्योतिर्भक्तानां सर्वपुरुषार्थसाधकं भवति । हे वायो मत्प्राणभूत त्वं स्तोकानां दिव्यदम्पत्योः प्रेमबिन्दून् वेः पिब, पीत्वा कृतार्थो भव । अग्निः परमेश्वरः शक्तिमदधिष्ठानचेतनमाज्यस्य आज्यम्, शेषे षष्ठी, त्वद्विषयकं भक्ताश्रयं प्रेम वेतु जानातु । तस्मै स्वाहा सर्वस्वं निवेदितमस्तु । हे दिव्यदम्पती द्यावापृथिव्यौ, युवां स्वाहाकृते परस्परात्मसमर्पणेनान्योन्यात्मतामुपगते । ऊर्ध्वं नभ आकाशो यस्मात् तम् ऊ॒र्ध्वनभसं मारुतं बहिश्चरं प्राणं त्वत्प्रियमुपासकमुपगच्छतम् । दयानन्दस्तु – ‘ शिष्यवर्गेषु यथायोग्योपदेशकरणमनेन मन्त्रेणाह - हे दुष्टकर्मकारिन्, त्वं रक्षसां भागोऽसि, अतो रक्षो निरस्तं भव । अहमिदं रक्षोऽधितिष्ठामि, तिरस्करणाय तदभिमुखमुपविशामि । अहमिदं दुष्टस्वभाविनमवबाधे अर्वाचीनो यथा स्यात्तथा हन्मि । अहमिदं रक्षोऽधमं तमो नयामि दुःसहदुःखं प्रापयामि । श्रेष्ठगुणग्राहि शिष्यमुपदिशति - हे वायो गुणग्राहकशिष्य, त्वं स्तोकान् सूक्ष्मेभ्योऽपि सूक्ष्मान् व्यवहारान् वेः विद्धि । त्वद्यज्ञशोधितेन घृतेन द्यावापृथिवी आच्छादयेताम् | अग्निः समस्तविद्यापन्नो विद्वान्, तवाज्यस्य स्नेहद्रव्यं स्वाहा वेतु जानातु । तथा स्वाहाकृते पूर्वोक्ते द्यावापृथिव्यौ ऊर्ध्वनभसं त्वद्यज्ञशोधितजलमूर्ध्वप्रापकं मारुतं गच्छतम् ' इति, तदपि बालप्रलपितमेव, विरुद्धत्वात् । नहि रक्षसां भागोऽसीत्युपदेशवचनं सम्भवति, न चामुखस्थितिस्तिरस्कारकारणं भवति, प्रसादनायापि तत्सम्भवात् । न चोपदेष्टृणां हनने प्रवृत्तिः सम्भवति, तस्य शासनकार्यत्वात्, प्रमादात्तथात्वे दण्ड्यत्वापातात्, स्तोकशब्दस्य स्वल्पार्थत्वे सत्यपि सूक्ष्मार्थत्वाभावाच्च । अत एव ' स्तोकान् विद्धि ' इत्यस्य स्वल्पान् विद्धीत्येवार्थः सम्भवति, न तु सूक्ष्मान् नेतरान् सूक्ष्मेभ्योऽपि सूक्ष्मानिति । त्वद्यज्ञशोधितेन घृतेनेत्यपि निर्मूलम्, शब्दार्थबहिर्भूतत्वात् । न च शोधितेनापि घृतेन द्यावापृथिव्योराच्छादनं सम्भवति । वायुपदस्य गुणग्राहकशिष्योऽर्थ इत्यपि निर्मूलम्, तथैवाग्निपदस्य प्राप्तविद्यो विद्वानर्थ इत्यपि प्रसिद्धिविरुद्धमेव । कथं च द्यावापृथिव्योर्मारुतं प्रति प्रतिबन्धक विघ्नसमूह को लक्ष्य करके कहा गया कि अध्यात्मपक्ष में अर्थयोजना इस प्रकार है- भगवत्पद की प्राप्ति के विघ्नसमूह, तुम विघ्नकारी राक्षसों के अंश हो, भगवदन्वेषण से दिव्य दृष्टि के अवलोकन के द्वारा अन्य राक्षसों के निरास के साथ ही तुम भी निरस्त हो जाओ । मैं गुरु, परमेश्वर आदि की कृपासुधा से सिंचित होकर राक्षसों का अतिक्रमण करके खड़ा हूँ । इतना ही नहीं, मैं राक्षसों को समूल नष्ट करता हूँ । इस अधम राक्षस को निकृष्ट अन्धकार में पहुँचाता हूँ । हे द्यावापृथिवी, मातापितारूपी दिव्यदम्पती गौरीशंकर, अथवा सीताराम या राधाकृष्ण आप दोनों स्नेह से परस्पर समाच्छादित रहें, क्योंकि इसके अनुभव से ही भक्तों के अभीष्ट की सिद्धि होती है । परस्पर गौरश्याम तेज से संवलित आनन्दरूप ब्रह्मज्योति भक्तों के सम्पूर्ण पुरुषार्थ की साधिका है । ओ मेरे प्राणवायु, तुम दिव्य दम्पती के स्नेहबिन्दुओं को पीकर कृतार्थ होओ । परमेश्वर तुमसे सम्बद्ध भक्ताश्रय प्रेम को जानें । उसके लिये सर्वस्व निवेदित है । हे दिव्यदम्पती, आप दोनों परस्पर आत्मसमर्पण के द्वारा अन्योन्याश्रित हैं । बहिश्चर प्राण आपके उपासक को प्राप्त हों । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ विरुद्ध होने के कारण बालाक्ति की भांति है । ' तुम राक्षसों के भाग हो ' उपदेशवचन इस प्रकार होना संभव नहीं है । उपदेशकों की प्रवृत्ति हिंसा में नहीं हो सकती, क्योंकि यह तो शासन का कार्य है । यदि प्रमाद से कोई हिंसा करना है, तो वह दण्ड का भागी हो जाता है । स्तोक शब्द ' स्वल्प ' अर्थ का बोधक होने पर भी ' सूक्ष्म ' अर्थ का