वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 261–270

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 261–270

पृष्ठ 261

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 261 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १६-१७ ] वेदार्थपारिजातभाष्यसहिता ३७ गमनं सम्भवति? मूले स्वाहाकृते ऊर्ध्वनभसं मारुतं गच्छतमित्युक्तम् त्वया तु तद्यज्ञशोधितजलमूर्ध्वप्रापकं मारुतं गच्छतमित्युच्यते, तच्चाशुद्धमेव ॥ १६ ॥

इ॒दमा॑प॒ः प्रव॑हताव॒द्यं च॒ मल॑ च॒ यत् । यच्चभिदुद्रोहानृ॑तं यच्च॑ श॒पे अ॑भी॒रुण॑म् । आपो॑ मा॒ तस्मा॒देन॑स॒ पव॑मानश्च मुञ्चतु ॥१७ ॥

' अथ चात्वाले मार्जयन्ते । क्रूरी वा एतत्कुर्वन्ति यत्संज्ञपयन्ति यद्विशासति शान्तिरापस्तदद्भिः शान्त्या शमयन्ते तदद्भिः सन्दधते तस्माच्चात्वाले मार्जयन्ते ' ( श. ३ | ८ | २ | ३० ) । कात्यायनोऽपि - ' चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहतेति ' ( का.श्रौ. ६।६।२५ ) । चात्वालसमीपे षड् ऋत्विजो यजमानः पत्नी चाद्भिरात्मानं मार्जयन्ते अभ्युक्षन्ति । मार्जयन्त इति स्वार्थे णिच् । अब्देवत्या त्र्यवसाना महापङ्किः । पावमानश्चान्त्यः पादः नस्याः षट् पादा अष्टाक्षरा सा महापतिः । हे आपः, इदं पशुसंज्ञपनादिनिमित्तं पापं प्रवहत मत्तोऽपनयत । यच्चावद्यमवदनीयमभिशापादि यच्च मलं शरीरलग्नं प्रसिद्धं तच्च प्रवहत । किञ्च यदहमनृतमसत्यमुक्त्वाऽभिदुद्रोह दुग्धवानस्मि ' द्रुह जिघांसायाम् ', यच्चाहमभीरुणं बिभेतीति भीरुर्न भीरुरभीरुस्तमभीरुणमनपराधिनम् । अपराधी हि बिभेति नानपराधी । तादृशमनपराधिनं शेपे शपितवानस्मि । अनपराधिनं प्रति मया शापो दत्तः, तस्मादेनसः पापाद् आपो मा मां मुञ्च॑न्तु पृथक्कुर्वन्तु । पवमानश्च वायुः सोमो वा तस्मादेनसो मां मुञ्चतु । अध्यात्मपक्षे – आपो गङ्गादिगता मन्त्रैरभिमन्त्रिता वा । हे आपः, यूयमिदं पापं प्रवहतु यच्चावदनीयमभिशापादि यच्च मलं प्रमादकृतं शरीरलग्नं यच्चानृतमभिदुद्रोह यच्च शेपेऽभीरुणम्, यद्वा अभितो लुनाति छिनत्ति सत्कर्माणि यदुच्चरितं सत्तदभीरुणम् अनृतभाषणं तस्माद् मां साधकमापो मुञ्चन्तु । पवमानो वायुः सोमो वा नाममात्रेण पवमानो भगवान् परमेश्वरश्च मां सर्वस्मात् पापाद् मुञ्चतु मोचयतु । दयानन्दस्तु – ‘ भो आपः, सर्वविद्याव्यापिनो विपश्चितः, यूयं यथापः शुद्धिकरास्तथा मम यदवद्यं निन्द्यं कर्म यच्च मलमविद्यारूपं तदिदं प्रवहत । यदहमनृतं कञ्चनाभिदुद्रोह यद् अभीरुणमनपराधिनं पुरुषं शेपे, तस्मादेनसो बोध नहीं करा सकता । वायु शब्द का ' गुणग्राहक शिष्य ' अर्थ करना, ' अग्नि ' शब्द का अर्थ विद्वान् करना प्रसिद्धि के विरुद्ध है || १६ || मन्त्रार्थ - हे ज्योतिरसामृतरूप जलदेवतां, कामनाओं के दाता, हमारे इस अज्ञान को दूर करो, निन्दित विषयभोग, ज्ञान का आवरक मल और अहंकारममकार युक्त मिथ्यामोह, इन सबको आप नष्ट कर दो । अद्वैत आत्मा को ब्रह्म से पृथक् जान कर जो हमने भूल की है, ब्रह्मामृतरूप जल और समष्टि बावु इस अज्ञान से हमें छुड़ावें ॥१७ ॥

भाष्यसार - ' इदमापः ' इस ऋचा के द्वारा सपत्नीक यजमान तथा छः ऋत्विग्गण जल से अपना प्रोक्षण करते हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६/६/२७ ) में उल्लिखित है । शतपथ ब्राह्मण में जल की स्तुति के रूप में मन्त्रार्थ उपदिष्ट है | अध्यात्मपक्ष में अर्थयोजना इस प्रकार है - गंगा आदि पुण्य नदियों के अथवा अभिमन्त्रित किये गये हे जलदेवता, आप इस पाप को बहा दीजिये, जो अभिशाप आदि के द्वारा और प्रमाद के कारण शरीर में संलग्न हो गया है । अथवा सत्कर्मों को विनष्ट करने वाले उच्चरित असत्यभाषण से मुझ साधक को जल देवता मुक्त करें । नामग्रहण मात्र से पवित्र करने वाले भगवान् परमेश्वर मुझे समस्त पापों से मुक्त करें ।

पृष्ठ 262

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 262 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८ शुक्लयजुर्वेदसंहिता [ अ. ६ मां पृथग् रक्षत । यथा पवमानो मालिन्याद् मां सद्यो दूरीकरोति, तथा चान्यानपि पृथक् करोतु ' इति, तदपि यत्किञ्चित्, प्रकृते लुप्तोपमालङ्कारे मानाभावात् । न च विद्वांसो ब्रह्महत्यादिकं पापमपनयन्ति, तथात्वे प्रायश्चित्तोपदेशवैयर्थ्यापत्तेः । त्वद्रीत्या आपोऽपि न तथा कर्तुं प्रभवन्ति । पवमानः क इति तु अन्वये नोक्तम् । हिन्द्यां तु - ‘ पवमानः पवित्रकारको व्यवहारः ' इत्युक्तम्, तदप्यसम्यक् अनिन्द्यव्यवहारस्य पापाजनकत्वेऽपि पापनाशकत्वे मानाभावेन तदसङ्गतेः । परोपकारादिस्तु यद्यपि पवित्रकारकस्तथापि स न व्यवहारः, तस्य शास्त्रमात्रैकगम्यत्वान् ॥ १७ ॥

सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिण॒न् वात॑स्य॒ त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्य ऊ॒ष्मण व्यथिष॒तुं प्रयु॑तं॒ द्वेषः ॥१८ ॥

' सोऽभिघारयति सं ते मनो स हृदयमेवाग्रेऽभिघारयति । आत्मा वै मनो हृदयं प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवाना हविर्भवत्यमृतममृतानाम्.... मनसा सं प्राणः प्राणेन गच्छतामिति न स्वाहा करोति न ह्येषाहुति - रुद्वासयन्ति पशुम् ' ( श. ३।८।३।८ - ९ ) । पशुहृदयाभिघारणं प्रशंसति - आत्मा वै मन इति । यदेतद् हृदयाख्यमङ्गं तन्मनआख्यक आत्मा खलु, ' एतं मनोमयमात्मानमुपसंक्रामति ' ( तै. उ. २८ ) इत्यादौ आत्मत्वव्यवहारात् । यद्वा मनउपाधिक आत्मा परिपूर्णस्य परमात्मनः परिच्छेदेन जीवभावः, मनस उपाधित्वात् पृषदाज्यस्य प्राणत्वमुक्तम् । एतेन हृदयाभिघारणेन आत्मभूते मनसि प्राणं स्थापितवान् भवति । तथा सति हृदयद्वारा प्राणप्रज्ञयोः स्थापितत्वाद् देवानामिदं सजीवं हविः सम्पद्यते, अग्रशब्दश्रुतेः सामर्थ्यादितराण्यङ्गानि पश्चादाज्येनाभिघारयेत् । सं ते मन इत्यभिघारयति । कात्यायनोऽपि – ' सं ते मन इति हृदयमभिघार्य सर्वमिति ' ( का.श्रौ. ६।८।६ ) । जुहूस्थेन पृषदाज्येन पूर्वं सन्त इति हृदयमभिघार्य ततस्तूष्णी सर्वं पशुमभिघारयेत् । हृदयदेवत्यं यजुः । हे हृदय, ते पशोस्तव मनः पृषदाज्येनाघारितं सद् देवानां मनसा संगच्छताम् । त्वदीयः प्राणोऽपि पृषदाज्येनाघारितः सन् प्राणेन संगच्छताम् । यद्वा हे अभिघार्यमाण हृदय, ते मनः, मनःप्राणयोर्हद्यवस्थानादाश्रयाश्रयिणोरभेदान्मन इति, स्वस्वामिभावसम्बन्धोपचाराद्वा स्वामी दयानन्द द्वारा प्रतिपादित अर्थ लुप्तोपमा अलंकार में प्रमाण न होने के कारण अनुचित है । विद्वान् लोग ब्रह्महत्या आदि के पाप को समाप्त नहीं कर सकते, क्योंकि ऐसा होने पर प्रायश्चित्त का निरूपण ही व्यर्थ हो जायगा । आपके मत में तो जल भी पाप का विनाश नहीं कर सकते । पवमान कौन है? यह भी अन्वय में नहीं कहा गया है । हिन्दी अर्थ में ' पवमान पवित्र करने वाला व्यवहार है ' यह कहा गया है । परन्तु यह भी अनुचित है । अनिन्द्य व्यवहार पाप का उत्पादक न होने पर भी पापनाशक है, इसमें कोई प्रमाण नहीं है । परोपकार आदि यद्यपि पवित्र करने वाले हैं, परन्तु वे व्यवहार नहीं हैं, क्योंकि वे केवल शास्त्रगम्य ही हैं || १७ || मन्त्रार्थ - हे भूतात्मा के हृदय, तुम्हारा मन समष्टि हृदय से संयुक्त हो, प्राण समष्टि प्राण से संयुक्त हो । हे मानस सूर्य, तुम परिच्छिन्न होकर नष्टप्राय हो गये हो, ब्रह्माग्नि तुम्हारी रक्षा करे । प्राण को दहराकाश में पहुँचाने के लिये और मानस सूर्य की भूकुटि में गति के लिये तुम्हें स्वीकार करता हूँ । ब्रह्माग्नि की क्षुधा वृद्धिगत हो, कामना रूप राक्षस का नाश हो ॥१८ ॥

भाष्यसार - ' सं ते मन: ' इस कण्डिका के मन्त्रों से हविर्द्रव्य का अभिघारण तथा हविर्ग्रहण आदि कर्म अनुष्ठित किये जाते

पृष्ठ 263

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 263 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १८. ] वेदार्थपारिजातभाष्यसहिता ३ ९ मन इति । मनसा पृषदाज्यलक्षणेन, पृषदाज्यस्य मनोलक्षणतया स्तुतत्वात् प्राणमनसोरवियोगात् पृषदाज्यमपि मन उच्यते, तेन संगच्छतां संगतं भवति, तथा प्राणः प्राणेन पृषदाज्यलक्षणेन संगतं भवतु । यद्वा हे पशो, ते यौ मनःप्राणावपगतौ ताभ्यां हृदयरूपेणावस्थिताभ्यां संगच्छताम् । तदेषाहुतिरित्यभिघारणरूपत्वेनाहुतिसंस्कारत्वात् स्वत आहुतित्वाभावान्न स्वाहाकुर्यात् । ' अथ वसाहोमं गृह्णाति रेडसीति ' ( श. ३ | ८/३/२० ) ' रेडसीति वसां गृहीत्वा ' ( का.श्रौ. ६।८।११ ) । वसां मांसपाकरसं वसाहोमहवन्या गृह्णाति । वसादेवत्यं यजुः । हे वसे, त्वं रेडसि रिष्टा हिंसिता इव भवसि, अल्पत्वात् । पूष्णोऽल्पत्वं श्रुतिराह - ' लेलयेव हि यूरिति ' ( श. ३ | ८ | ३ | २० ) लेलयाशब्दोऽल्पवचनः । रिषतिहिंसार्थः । कर्मणि विच् । लघूपधगुणे रेडिति रूपम् । तस्मादाहवनीयोऽग्निस्त्वां श्रीणातु श्रपयतु, श्रपयति श्रपयन् भूयसीं करोति । यद्वाग्निस्त्वा श्रीणातु स्वीकरोतु | आपश्च त्वा समरिणन् सम्यक् प्राप्नुवन्तु । अर्थात् तव शोषो मा भूत् । हे वसे, त्वां दधामीति शेषः । किमर्थम्? वाताय वायोर्भ्राज्यै गत्यै । पूष्ण आदित्यस्य रंह्यै गत्यै । रंहतिर्गतिकर्मा । वाय्वादित्ययोरप्रतिहतगमनसिद्ध्यर्थं त्वां दधामीत्यर्थः । ऊष्मणः, ऊष्मान्तरिक्षम्, तदर्थं त्वां गृह्णामि । विशेषेणाधिक्येन सीदतीति व्यधिषद् वसारूपं हविः, तथाभूतं भवतु । यद्वा हे वसाद्रव्य, त्वं रेटू हिंसकमसि । ब्राह्मणानुगुणं लत्वादिकं कृत्वा लेलयारूपम् । लेलयेवेति द्रवद्रव्यत्वादितस्ततश्चलनं विवक्षित्वा शतपथे व्याख्यातम् । तादृशमाहवनीयोऽग्निः श्रीणातु क्षपयतु । आपस्त्वा समरिणन् ' री गतिरेषणयोः ' इत्यस्य लुङि रूपम् । उदकानि त्वां समतरन्, उदकैः सह सर्वाङ्गेभ्यो निःसृतत्वात् । यद्वा ' री वधे गतौ च ' क्रयादिः । अत्र बिभत्यर्थः, समभरन्नपुष्यन्नित्यर्थः । वातस्य वायोः, ध्राज्यै गत्यै गृह्णामि । तथा पूष्णः रंह्यै वेगाय गृह्णामि । वाय्वादित्ययोरन्तरिक्षाश्रयत्वाद् धाजिरंही अन्तरिक्षपरतया ब्राह्मणेन व्याख्याते । ऊष्मणे व्यथिषद् इति वसाविशेषणम् । ऊष्मान्तरिक्षं ततः सकाशाद् व्यथयतीति व्यथिषत् । अन्तरिक्षं ब्रह्मण ऊष्मेव । ऊष्माणमन्तरिक्षं वसा व्यथयतु, कर्मणि षष्ठी । यद्वा व्यत्ययेन प्रथमार्थे षष्ठी । ऊष्मा व्यथिषद् व्यथताम् । वसां पीत्वा तृष्णाधिक्येन यथा सीदति वसारूपं हविस्तथाविधं भवत्वित्यर्थः । अन्तरिक्षार्थं च वसा गृह्यते, होममन्त्रेऽन्तरिक्षस्य हविरसीति लिङ्गात् । इयं वसा ऊष्मणोऽन्तरिक्षस्य या भोकी शक्तिस्तां व्यथिषद् व्यथतु तत्तृप्तिं कृत्वातिरिक्ता भवत्वित्यर्थः । अन्तरिक्षे तृप्ते तत्प्रभवत्वाद् बायुसूर्ययोरपि स्वकर्मक्षमता भवति । रेट्शब्दस्य शतपथश्रुतिव्याख्यानं यथा - ' रेडसीति लेलयेव हि यूस्तस्मादाह रेडसीत्यग्निष्ट्वा श्रीणात्वित्यग्निर्ह्येतच्छ्रपयति तस्मादाहाग्निष्ट्वा श्रीणात्वित्यापस्त्वा समरिणन्नित्यापो ह्येतमङ्गेभ्यो रस सम्भरन्ति तस्मादाहापस्त्वा समरिणन्निति ' ( श. ३ | ८ | ३ | २० ) । रेट्शब्दं व्याचष्ट - यौतीति यू: वसा, सा लेलयेव गमनेनेतस्ततश्चलनमुपमीयते । श्रीणात्वित्यस्य पाकोऽर्थ इति व्याचष्टे - अग्निर्ह्येतत् श्रपयति । आपस्त्वा समरिणन्नित्यापो ह्येत्मङ्गेभ्यो रसं संभरन्ति । अत एव रिणातिर्बिभर्त्यर्थः । आपो हि पच्यमानेभ्यः पश्वङ्गेभ्यो यं रसमाददतेऽसौ वसेत्युच्यते । ' वातस्य त्वा ध्राज्या इति । अन्तरिक्षं वा अयमनुपवते योऽयं पवतेऽन्तरिक्षाय वै गृह्णाति तस्मादाह वातस्य त्वा ध्राज्या इति ' ( श. ३ | ८ | ३ | २१ ) । पूष्णो रह्या इति । एष वै पूष्णो र हिरेतस्मा उ गृह्णाति.... ' ( श. ३ | ८ | ३ | २२ ) । वातस्य धाजिः पूष्णो रंहिश्चान्तरिक्षपराविति व्याचष्टे, वातपूष्णोरुभयोरन्तरिक्षाश्रयत्वात् । एषोऽन्तरिक्ष एव पूष्णो रंहिर्गतिर्वेगो वा । तस्मात् पूष्णो रंह्याश्रयापान्तरिक्षाय हैं । कात्यायन श्रौतसूत्र ( ६/८/६ - ११ ) में यह याज्ञिक विनियोग प्रतिपादित है । शतपथ श्रुति में भी याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।

पृष्ठ 264

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 264 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४० शुकुयजुर्वेदसंहिता [ अ. ६ गृह्णाति । ' ऊष्मणो व्यथिषदिति । एष वा ऊष्मैतस्मा उ हि गृह्णाति तस्मादाहोष्मणो व्यथिषदिति.... वा ' ( श.३।८।३।२३ ) । ऊष्मशब्दोऽप्यन्तरिक्षपरः । ' अथोपरिष्टाद् द्विराज्यस्यभिघारयति । अथ पार्श्वेन वासिना प्रयौति । प्रयुतं द्वेष इति तन्नाष्टा एवैतद्रक्षास्यतोऽपहन्ति ' ( श. ३।८।३।२३-२४ ) । कात्यायनोऽपि -' द्विरभिघार्य प्रयुतमिति पार्श्वेन ससृजत्यसिना वा ' ( का.श्रौ. ६ | ८ | ११ ) । मांसपाकरसं वसाहोमहवन्या गृहीत्वोपरिष्टाद् द्विरभिघार्य पार्श्वेन पावस्था असिना, कट्टारिकया वा आज्यं वसां च मिश्रयेत् । अत्र काण्वसंहितायां सायणाचार्यस्तु पार्श्वगतेन मांसेन मिश्रीकुर्यादित्याह पार्श्वेन वसाहोमं प्रयौतीति श्रुत्यन्तरात् । शतपथीयसायणभाष्ये तु पार्श्वेन पार्श्वोस्थिना असिना वेत्युक्तम् । श्रुतौ सूत्रे चासिना वेत्युक्तेर्मिश्रणसाधनत्वेनासेरिव पशोः पार्श्वस्थस्यास्नो ग्रहणं प्रतीयते । सूत्रभाष्यकारा अपि तथैव व्याचक्षते । मन्त्रार्थस्तु - द्वेषः अप्रियम्, ' द्विष अप्रीतौ ' । सायणीयकाण्वभाष्यरीत्या वसापार्श्वमांसयोः परस्परं मिश्रणेन यदप्रियमस्ति, तदुभयोः सकाशात् प्रयुतं पृथग्भूतं भवतु । महीधररीत्या द्वेषो दौर्भाग्यं प्रयुतं पृथग्भूतं वसां वसायाः सकाशाद् घृतमिश्रणेन । शतपथीयसायणभाष्यरीत्या तु पार्श्वेन मांसास्थिना असिना वा गृहीतां पदैः विभजति । द्वेषोऽनिष्टेभ्यः सकाशात् प्रयुतं पृथकृतं भवति । तत्र सूत्रस्थैर्द्विरभिघार्य संसृजतीति श्रुतिस्थद्विराज्यस्याभिघारयति पार्श्वेनासिना वा प्रयौतीति पदैश्च पार्श्वस्थेनास्था असिना वाज्यवसारसयोर्मिश्रणमेव प्रतीयते । तत एव द्वेषस्य दौर्भाग्यस्य, उभयगतस्याप्रियस्य वा पृथक्करणं सङ्गच्छते । अध्यात्मपक्षे – हे भगवत्परायणोपासक, ते तव मनः परमेशमनसा, ते प्राणः परमेशप्राणेन सङ्गच्छताम् । कायानुसारिणी छायेव त्वं प्रियतमस्य भगवतो मनसा स्वं मनः संयोजय, अर्थात् तन्मनसि ते मनः ।, तत्प्राणे अग्निस्तपोरूपः ते प्राणः सङ्गच्छताम्, तदधीनस्थितिगतिप्रवृत्तिर्भवेत्यर्थः । त्वं रेट् कामादिदोषाणां घातकोऽसि प्रियविप्रलम्भरूपो वा त्वा श्रीणातु परिपचतु । त्वदीयदेहेन्द्रियमनोबुद्ध्यादीनां लौकिकत्वं भौतिकत्वं प्राकृतत्वं चापनोद्य तन्मूलतो दहतु, देवत्वं च सम्पादयतु । आपः शमादयः त्वा त्वां समरिणन् प्राप्नुवन्तु, त्वां वा त्वां दिव्यं देवभावं प्रापयतु, देवभावमुपनयन्तु वा । ध्यानप्राप्तभगवत्संश्लेषजनितरसोद्रेको अन्तर्भावितण्यर्थोऽत्र द्रष्टव्यः । ' अतप्ततनूर्न तदामोऽश्नुते दिवम् ' ( ऋ.सं. ९ ।८३।१ ) इत्यादिश्रुतिभ्यः, ' देवो भूत्वा यजेद्देवान्नादेवो देवमर्चयेत् ' इत्यादिकारिकाभ्यश्च, ' दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्त्या क्षीणमङ्गलाः ॥ ' ( भा.पु.१०।२ ९ ।१० ) इति श्रीमद्भागवतवचनाच्च । भगवत्पदप्राप्तये त्वां वातस्य सूत्रात्मनो ध्राज्यै गत्यै पूष्णो हिरण्यगर्भस्य रं वेगाय अहमाचार्यः प्रेरयामि प्रोत्साहयामि वेति शेषः । ऊष्मणोऽनादिकालात् प्रवृत्तान् त्रिविधांस्तापान् भगवत्पदप्राप्त्या व्यथिषद् व्यथयतु, नाशयत्वित्यर्थः । द्वेषे दौर्भाग्यं प्रयुतं त्वत्तः सकाशाद् अनन्तकालाय पृथग्भूतं भवतु । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे भगवत्परायण उपासक, तुम्हारा मन परमेश्वर के मन से तथा तुम्हारा प्राण परमेश्वर प्राण से संयुक्त हो । शरीर का अनुसरण करने वाली छाया की भाँति तुम प्रियतम भगवान् के मन से अपना मन संयुक्त करो, अर्थात् उसके अधीन स्थिति, गति तथा प्रवृत्ति से युक्त बनो । तुम कामादि दोषों के नाशक हो । तपोरूप अथवा प्रियविप्रलम्भ-स्वरूप अग्नि तुमको परिपक्व करे । तुम्हारे देह, इन्द्रिय, मन, बुद्धि आदि का लौकिकत्व, भौतिकत्व और प्राकृतत्व हटाकर उसको दग्ध करे और देवत्व सम्पादित करे । शम, दम आदि तुमको प्राप्त करें तथा देवत्व प्राप्त करावें । अथवा ध्यान से प्राप्त भगवान् के अनुभव से उत्पन्न रसोद्रेक ही तुमको दिव्यभाव प्राप्त करावे । भगवत्पद - प्राप्ति के लिये, सूत्रात्मा की गति के लिये, पूषा हिरण्यगर्भ के वेग के लिये मैं गुरु तुमको प्रोत्साहित अथवा प्रेरित करता हूँ । अनादि काल से प्रवृत्त त्रिविध तापों को भगवत्पदप्राप्ति के द्वारा विनष्ट करे! दौर्भाग्य तुमसे अनन्त काल के लियें दूर हो जाय ।

पृष्ठ 265

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 265 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १८-१९ ] वेदार्थपारिजातभाष्यसहिता ४१ रेडसि । दयानन्दस्तु - ' हे योद्धः, संग्रामे ते मनो मनसा प्राणः प्राणेन च सङ्गच्छताम् । हे वीर, त्वं त्वामग्निर्युद्धजन्यक्रोधाग्निः श्रीणातु । त्वं प्रयुतं शत्रुसैन्यं प्राप्य तज्जन्यादूष्मणो द्वेषो मा त्वां संव्यथिषत् । वातस्य ध्राज्यै वातस्य गतिरिव युद्धकर्मणि गत्यै, यद्वा पूष्णो रंह्यै सूर्यगतिरिव युद्धभूमिषु गत्यै यथार्थतया युद्धकर्मणि प्रवृत्त्यै । आपस्त्वां समरिणन् ' इति, तदप्यसङ्गतमस्पष्टं च योद्धुरन्यस्य वात्र सम्बोधनीयत्वे विनिगमनाभावात् सङ्गतं सायणादिव्याख्यानेषु तु श्रुतिसूत्राणि प्रमाणानि, तथा नात्र किञ्चन प्रमाणमस्ति । किञ्च, मनो मनसा कथं । भवेत्, कथं च प्राणः प्राणेन? तृतीयान्तयोर्मनः प्राणशब्दयोर्विज्ञानबले अर्थः इत्यत्रापि न किञ्चिदपि मूलमस्ति एवमग्निपदेन युद्धाग्निः क्रोधाग्निः कामाग्निर्भौतिको वाग्निरित्यत्र किं गमकम्? ' श्रीणातु ' इत्यस्य दृढीकरोत्वित्यर्थ इति हिन्द्यामुक्तम् । तदपि मूलसापेक्षम्, सति मुख्यार्थसम्भवे गौणार्थाश्रयणायोगात् । तज्जन्यादूष्मणो द्वेषो त्वा मा व्यथिषदित्यपि न सङ्गतम्, मूले मापदस्य अन्यस्य वा निषेधबोधकस्य पदस्याभावात् । युद्धकर्मणि वातस्येव ध्राज्ये पूष्णो रंह्यै नह्यपां प्राप्तिरेव साधनम्, शत्रूणामपि तत्सौलभ्यात् । प्रयुतपदं संख्यापरम्, न तेन शत्रुसैन्यं ग्रहीतुं शक्यते । प्राप्येत्यपि निर्मूलम् । तस्मान्मूर्खजनप्रतारणमात्रमेतत् || १८ || घृ॒तं घृ॒तपावानः पिबत॒ वसो॑ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ । दिश॑ः प्र॒दिशं आदिशों विदिशं उद्दिशों दिग्भ्यः स्वाहा॑ां ॥१ ९ ॥ प्रजाः ' स जुहोति घृतं घृतपावानः..... स्वाहेत्येतेन वैश्वदेवेन यजुषा जुहोति वैश्वदेवं वान्तरिक्षं तद्यदेनेनेमाः ' प्राणत्यश्चोदानत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवं वषट्कृते जुहोति यानि जुह्वामचदानानि भवन्ति ( श.३।८।३।३२ ) । वसाहोममन्त्रमाह - ' अर्धर्चान्तरे याज्यायै वसैकदेशं जुहोति घृतं घृतपावानः ' ( का.श्रौ. ६।८।१६ ) । याज्याया अर्धर्चयोरन्तराले एकस्मिन्नर्धर्चे उक्ते द्वितीये चानुक्ते सति सव्ये स्रुचौ कृत्वा दक्षिणेन घृतं वसाहोमहवन्या द्रवरूपं हविः वसाया एकदेशं जुहुयात् । वैश्वदेवं यजुः । हे घृतपावानः घृतस्य पातार उपभोक्तारः, यूयं को सम्बोधित करने में स्वामी दयानन्द द्वारा प्रतिपादित अर्थ अस्पष्ट तथा असंगत है, क्योंकि यहाँ योद्धा तथा किसी अन्य नहीं है । कोई निश्चित प्रमाण नहीं है । सायण आदि की व्याख्याओं में तो श्रुति तथा सूत्रवाक्य प्रमाण हैं, परन्तु यहाँ कोई प्रमाण रहने पर गौण ' श्रीणातु ' इसका अर्थ हिन्दी में ' दृढ़ करे ' इस प्रकार किया गया है, इसमें भी मूल की अपेक्षा है । मुख्यार्थ सम्भव । ' प्राप्त करके ' यह अर्थ का अवलम्बन अनुचित है । ' प्रयुत ' शब्द संख्यापरंक है, उससे शत्रुसेना का ग्रहण है नहीं || १८ किया || जा सकता कहना भी निर्मूल ही है, अतः यह व्याख्या केवल अज्ञ जनों को दिग्भ्रान्त करने वाली मन्त्रार्थ - हे इन्द्रियों की शक्तियों को पीने वाले समष्टिरूप मन, बुद्धि और प्राण, तुम सब इन्द्रियों की सकल शक्तियों का पान का पान करो I । हे मानससूर्य का पान करने वाले ब्रह्मपरायण नारायण नामक देवताओं, तुम सब मानससूर्य के हैं-करो । हे मानससूर्य, तुम हार्द अन्तरिक्ष से श्रेष्ठ हवि प्रदान करो, विशेष रूप से ब्रह्मविद्या के उपदेष्टा तीन प्रकार और महेश सावित्री का उपदेष्टा, निर्गुण और सगुण ब्रह्म का उपदेष्टा और उत्तम योगमार्ग का उपदेष्टा । ब्रह्मा, विष्णु रूप ये तीनों प्रकार के गुरु हमें उपदेश करते हैं । इनके लिये हम श्रेष्ठ हवि प्रदान करते हैं ॥१ ९ ॥ भाष्यसार - कात्यायन श्रौतसूत्र ( ६ / ८ / १६-२०, ४ | ४ | १८ ) में निरूपित यात्रिक प्रक्रिया के अनुसार ' घृतं घृतपावान: ' इस

पृष्ठ 266

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 266 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ शुक्लयजुर्वेद संहिता [ अ. ६ पिबत । हे वसायाः पातारो देवाः, अत्रत्यं वसारूपमिदं हविः पिबत । वसायां द्विरभिघारणस्य विहितत्वाद् घृतस्य विद्यमानत्वाद् घृतपातृत्वं सङ्गच्छते । यद्वा ' घृ क्षरणदीप्त्योः ' इत्यनुसारेण क्षरणरूपं रसात्मकमिदं हविः । तेन घृतस्य रसद्रव्यस्य पातारः, अन्तरिक्षस्य सर्वदेवाश्रयत्वादस्यापि तदर्थत्वादन्तरिक्षस्य देवताद्वारा अन्तरिक्षस्यैव हविष्ट्वम् । हे पशो हे वसे वा, त्वमन्तरिक्षवासिनो देवगणस्य हविरसि, स्वाहा सुहुतमस्तु । मन्त्रस्य वैश्वदेवत्वं प्रकृतहोमसङ्गतमित्याह - वैश्वदेवेन यजुषा जुहोतीति । वैश्वदेवं वा अन्तरिक्षम्, तत्रैव समेषां देवानां सत्त्वात् । यदेतेन वैश्वदेवेन इमाः प्रजाः प्राणत्यः प्राणनं कुर्वन्त्यः, उदानत्य उदानं कुर्वन्त्यः, अन्तरिक्षमनुचरन्ति । बहुत्वलिङ्गाद्वैश्वदेवत्वं यजुषः । अन्तरिक्षमपि सर्वासां देवतानां प्राणोदानव्यापाराश्रयत्वेन वैश्वदेवम् । अन्तरिक्षार्थश्च वसाहोमः । तेन होमस्य वैश्वदेवत्वे एतदपि वैश्वदेवं यजुरत्र युज्यते । मन्त्रे होतव्यवसाहोममभिधाय प्रधानहोममाह - ' वषट्कृते जुहोति यानि जुह्वामिति । अथ जुह्वा पृषदाज्यस्योपघ्नन्नाह - वनस्पतयेऽनुब्रूहीति ' ( श. ३ | ८ | ३ | ३३ ) ' प्रत्येत्य दिशो व्याघारयति वसाशेषेण वाजिनवदिति ' ( का.श्रौ. ६।८।२० ) | यजतिस्थानवज्जुहोतिस्थानं प्रत्येत्य स्रुचौ सव्ये कृत्वा वसाशेषेण वाजिनचद् दिग्व्यवधारणं कुर्यात् । वसाहोमानन्तरं जुह्वा पृषदाज्यस्यैकदेशमवद्यन् वनस्पतयेऽनुब्रूहीति होतारं ब्रूयात् । ' अथ यद्वसाहोमस्य परिशिष्यते तेन दिशो व्याघारयति ' ( श. ) । दिशो व्याघारयतीति श्रुतेरेकैको मन्त्र एकैकदिगर्थः । दिशः प्राग्दिग्भ्यः स्वाहा, प्रदिशो दक्षिणदिग्भ्यः स्वाहा, आदिशः पश्चिमदिग्भ्यः स्वाहा, विदिश उत्तरदिग्भ्यः स्वाहा, उद्दिश ऊर्ध्वदिग्भ्यः स्वाहा, दिग्भ्यः सर्वाभ्यो दिग्भ्यः स्वाहा, बसाहोमो रसो वै द्रवद्रव्यात्मकः खलु दिशि सम्भूतो रसोऽभिगम्यते । ' षड् दिग्दैवतानि स्वाहाकारः सर्वत्र साकाङ्क्षत्वादिति ' ( का.श्रौ. ४/४/१८ ) ' रसो वै वसाहोमः सर्वास्वेवैतद्दिक्षु रसं दधाति

तस्मादयं दिशि दिशि रसोऽभिगम्यते ' ( श. ३ । ८ । ३ । ३५ ) ॥ १ ९ ॥

ऐन्द्रः प्रा॒णो अ अ निदी॑ध्य॒न्द्र उ॑दा॒नो अङ्रे अङ्के निधीतः । देवं त्वष्टि॒र्भूरि॑ ते॒ स समेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं भवति । दे॒व॒त्रा य॑न्त॒मव॑से॒ सखा॑योऽनु॑ त्वा माता पितरों मदन्तु ॥२० ॥

कण्डका के मन्त्रों से होम तथा दिशाओं का व्याधारण किया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट

है ।

अध्यात्मपक्षीय मन्त्रार्थ का निरूपण अग्रिम मन्त्र के साथ संयुक्त है ॥१ ९ ॥

मन्त्रार्थ - भूतात्मा का प्राण ईश्वर के अंग - अंग में स्थित हुआ, भूतात्मा का उदान ईश्वर के अंगों में निहित हुआ हे ज्योतिस्वरूप ईश्वर, तुम्हारा विष्णु रूप परिपूर्ण है । हे सर्वव्यापिन्, निवृत्त आत्मा बाणरूप होता है, अतः अंगुष्ठ- । प्रमाण आत्मा विष्णु को प्राप्त हो । हे सायुज्य के अधिकारी आत्मा, संसार से त्राण पाने के लिये विष्णुरूप अग्नि में जाने बाले तुमको प्राण आदि अनुमति दें ॥२० ॥

पृष्ठ 267

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 267 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २० ] वेदार्थपारिजातभाष्यसहिता ४३ ‘ अथ पशुसंमृशति । एतर्हि संमर्शनस्य कालोऽथ यः पुरा संमृशति य इममुपतिष्ठन्ते ते विमथिष्यन्त इति शङ्कमानो यद्यु विमाथान्न शङ्केतात्रैव संमृशेत ' ( श. ३ | ८ | ३ | ३६ ) | दिग्घोमानन्तरमेतर्हि एतस्मिन् काले पशुसंमर्शनं कुर्यात् । ये च राक्षसा इमे मदीयं यज्ञमुपतिष्ठन्ति प्राप्नुवन्ति, ते पशुं विमथिष्यन्त इति शङ्कमानश्चेत्, पूर्वस्मिन् काले संमृशेत् । अन्यथा दिग्घोमानन्तरे काले संमृशेत् । ' ऐन्द्रः प्राण इति पशु संमृशतीति ' ( का.श्रौ. ६।९ ।१ ) । अवशिष्टानि पश्ववदानान्यालभते । ऐन्द्र इन्द्र आत्मा तस्य सम्बन्धी प्राणवायुः, अङ्गे अङ्गे वीप्सा, पशोः सर्वाङ्गेषु निदीध्यत्, ‘ दीधीङ् दीप्तिदेवनयोः ' निधीयते निहितः । कर्मणि लकारश्छान्दसः । इन्द्रसम्बन्धी उदानवायुः पशोः सर्वाङ्गेषु निधीतः, निक्षिप्तो भवत्वित्यर्थः । ‘ धीङ् आदरानादरयोः ' । एवं पश्वङ्गेषु प्राणं दत्त्वा त्वष्टारमाह - हे त्वष्टः, त्वष्टृनामकदेव, यत्पशोरङ्गजातं सलक्ष्म समानलक्षणं सत् छेदनेन विषुरूपं सर्वतो नानारूपं भवति, तत्सर्वं तवानुग्रहेण भूरि बहुलमत्यन्तम्, समित्येकीभावे, अत्यन्तमेकीकृत्य समेतु सङ्गच्छताम् । ' प्रसमुपोदः पादपूरणे ' ( पा.सू. ८।१।६ ) इति स्वमित्यस्य द्वित्वम् । हे पशो, प्राणैश्चाङ्गैश्चानेन मन्त्रेण कृत्स्नीकृतं दृढीकृतं सन्तं देवत्रा देवेषु यन्तं गच्छन्तं त्वामवसे अवनाय पशवो मातापितरश्चानुमोदन्तां हर्षं कुर्वन्तु । यद्वा अवसे त्वन्मुखेन स्वर्गप्राप्त्या स्वकुलं सर्वमवितुं प्रीणयितुम्, तुमर्थे असेप्रत्ययः । ‘ ऐन्द्रः प्राणोऽङ्गे अङ्गे..... निधीत इति यदङ्गशो विकृत्तो भवति तत्प्राणोदानाभ्या सन्दधाति देव त्वष्टर्भूरिति ते स् समेतु भवातीति कृत्स्नवृतमेवैतत्करोति देवत्रा यन्तमवसे सखायो मदन्त्विति तद्यत्रैनमहौषीत्तदेनं कृत्स्नं कृत्वाऽनुसमस्यति सोऽस्य कृत्स्नोऽमुष्मिल्लोक आत्मा भवति ' ( श.३ | ८ | ३ | ३७ ) इति ब्राह्मणरीत्या त्वयमर्थः - इन्द्रः परमात्मा, तत्सम्बन्धी ऐन्द्रः प्राणः । हे पशो, ते अङ्गे अङ्गे सर्वेष्वङ्गेषु निदीध्यत नितरां दीप्तो भवतु, दीव्यतु वा । एवं व्यानोऽपि । अत्र सर्वत्र व्यानस्थान उदानव्यवहारः । हे त्वष्टः, पशुरूपकर्तः, ' देवस्त्वष्टा वै पशूनां मिथुनानां रूपकृत् ' ( तै. सं. ६ | ३ | ३ | ११ ) इति श्रुतेः । ते तवं पशोर्यदङ्गं छेदनेन सलक्ष्मा ( सलक्ष्म ), अत एव विषुरूपं भवाति भवति, तत् ते त्वत्सम्बन्धि सं सम्यक् पूर्वस्मादपि भूरि प्रभूतं समेतु संगतो भवतु । पूर्वं यादृशसन्निवेशविशिष्टं तादृशसन्निवेशेनाविशिष्टं भवेदिति, प्रवृद्धं भवत्वित्यर्थः । अस्माकमवसे रक्षणाय देवानां प्रीतये वा देवेषु मध्ये यन्तं त्वां सखायो मातापितरश्च अनुमदन्तु साधु जातमित्यनुमोदन्ताम् । श्रुतिश्च व्याचष्टे - ' यदङ्गशो विकृत्त ' इत्यादिना । कृत्स्नमेवैतत्करोतीत्येतत् पशुद्रव्यम् । यद्वा एतद् एतेन देव त्वष्टरिति मन्त्रेण मन्त्रोच्चारणसामर्थ्येन कृत्स्नैरङ्गैर्वृतं व्याप्तं करोति । यत्र यस्मिन् प्रदेशे एनं पशुमहौषीत्, तत् तेन एनं कृत्स्नं कृत्वा विकलं सकलं करोति । अनुसमस्यति गतप्राणेन त्वगस्थिमांसेन सह प्राणान् अङ्गानि चानुक्रमेण संघट्टनं कृतवान् भवति । तेन स पशुरमुष्मिल्लोके स्वर्गे लोके सात्मा सजीवो भवति । अध्यात्मपक्षे तु - घृतं भक्त्याख्यं प्रेमरसं पिबन्ति ये ते घृतपावानो भक्ताः घृतं प्रेमरसं पिबत, तस्यैवैहिकामुष्मिकाभ्युदयपरमनिःश्रेयसहेतुत्वात् । वसन्ति सर्वे जना यया सा वसा हार्दकला, ताः पिबन्तीति भाष्यसार – ‘ ऐन्द्रः प्राणः ' इस मन्त्र से अवदान द्रव्य का स्पर्श किया जाता है । कात्यायन श्रौतसूत्र ( ६ / ९ / १ ) में यह याज्ञिक विनियोग उल्लिखित है । शतपथ तथा तैत्तिरीय श्रुतियों में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में पूर्व मन्त्र का अर्थ इस प्रकार है- भक्तिरूपी प्रेमरस का पान करने वाले हे भक्तजनों! प्रेमरस का पान करो, क्योंकि वही लौकिक, पारलौलिक अभ्युदय तथा परम मोक्ष का कारण है । हे सांसारिक जनों, आप लोग कामेश्वर एवं कामेश्वरी

पृष्ठ 268

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 268 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ शुक्लयजुर्वेदसंहिता [ अ. ६ वसापावानः संसारिजना भवन्तः सर्वे वसां कामेश्वरकामेश्वरीसम्बन्धिनीं हार्दकलां पिबत संसरन्ति । तत्त्वंपदार्थयोरैक्यानुसन्धानेन , भगवत्सम्बन्धिन्या च स्वात्मतादात्म्यमनुभवत । जगत्सम्बन्धिन्या हार्दरूपया स्नेहकलया संसारिणः, विमुच्यन्ते । हे जीव, त्वमन्तरिक्षस्य आकाशपदार्थस्य परमेश्वरस्य हविरादातुं योग्यं सुहुतमस्तु हविर्भोग्यरूपोऽसि | सर्वमिदं ' आकाशस्तल्लिङ्गात् ' ( ब्र. सू. १।१।२२ ) इति न्यायात् । तस्मै परमात्मने स्वाहा सर्वं त्वदीयं परमात्मनि सुहुता दिग्भ्यः सुहुतमस्तु, सर्वस्य दिगन्तर्गतत्वात् । दिशः प्रदिशो विदिश उद्दिशश्च सर्वास्तस्मिन् परमात्मनि प्रविलाप्य सुखी भवन्तु । दिक्स्थानि वस्तूनि दिक्षु प्रलीनानि विभाव्य दिशश्च सर्वा अन्तरिक्षात्मके भवेत्यर्थः । ऐन्द्र इति । इन्द्र ऐश्वर्यवान् हिरण्यगर्भः, तस्य स्वांशभूतः प्राणः । हे साधक, ते तव अङ्गमङ्गं यावन्त्यङ्गानि । ऐन्द्र सन्ति, तेषु निदीध्यत नितरां प्रकाशते । प्राणप्रभावादेवेन्द्रियेष्वङ्गेषु च प्रकाशो भवति, प्राणाभावे तदभावात्! भूरि उदान आत्मसम्बन्धी उदानः, अङ्गेऽङ्गे निधीतो निहितः । हे देव द्योतमान त्वष्टः, विश्वशिल्पिन् हिरण्यगर्भ समेतु साधकं पूर्वतोऽपि बहुलं यथा स्यात्तथा सम्यक् ते तव विषुरूपं नानारूपं सम्यक् सलक्ष्मा दिव्यलक्षणोपेतं देवत्रा यन्तं देवेषु प्राप्य शरीरे एकीभवतु । हे साधक, एवं हिरण्यगर्भसम्बन्धिन्, प्राणैश्चाङ्गैश्च कृत्स्नीभूतं सुसम्पन्नं देवभावान् गच्छन्तं त्वामवसेऽवनाय तव प्रीत्यै सखायो मातापितरः, पूजार्थं बहुवचनम्, अनुमदन्तु प्राप्नुवन्तं अभ्यनुजानन्तु त्वां हर्षयन्तु वा । स वै हिरण्यगर्भस्य दिव्यप्राणोदानाभ्यां तदनुग्रहेण दिव्यप्राणाङ्गादिभिरुपेतं देवभावं भूत्वा साधको सर्वे पूर्वसम्बन्धिनोऽनुमोदन्तु हर्षयन्तु वेति । एवं देवयानेन सगुणब्रह्मानुग्रहेण दिव्यप्राणेन्द्रियविग्रहो ब्रह्मविष्णुरुद्रादिलोकान् गच्छतीति पुराणेषूपनिषत्सु च प्रसिद्धमेव । पिबत । हे सेनाध्यक्ष दयानन्दस्तु – ' हे घृतपावानो वीराः, यूयं घृतं पिबत । हे वसापावानः, यूयं वसां प्रदिश आदिशो चक्रव्यूहादिसेनारचक, त्वं प्रतिवीरमन्तरिक्षस्य हविरसीति स्वाहा । शोभनया वाचा सर्वान् वीरान्, विदिश उद्दिशश्च सन्ति ताभ्यः सर्वाभ्यो दिग्भ्यः सेना विभज्य शत्रून् विजयध्वम् ' इति, तत्तु केवलं कल्पनामूलकम् का अनुभव करो । जगत्सम्बन्धी से सम्बद्ध हार्दकला का आस्वादन करो । तत् तथा त्वं पदार्थों के अभेद का अन्वेषण करके स्वात्मतादात्म्य , तुम आकाशपदार्थ परमेश्वर के स्नेहकला से प्राणी संसृति में पड़ते हैं, तथा भगवत्सम्बन्धी स्नेहकला से मुक्त होते दिशाओं हैं । में हे अर्पित जीव हो । समस्त पदार्थों के दिगन्तर्गत हविर्भोग्यरूपी हो । उस परमात्मा के लिये तुम्हारा सर्वस्व समर्पित हो । यह सब अर्थात् दिशाओं में स्थित वस्तुओं को होने के कारण दिशाएं, प्रदिशाएं, विदिशाएं तथा उद्दिशाएं सभी उस परमात्मा में समर्पित हों सुखी , हो जाओ । दिशाओं में प्रलीन समझ कर तथा दिशाओं को अन्तरिक्षात्मक परमात्मा में विलीन करके प्रत्येक अंग में प्रकाशित द्वितीय कण्डिका का अर्थ इस प्रकार है - हे साधक, ऐश्वर्यवान् हिरण्यगर्भ का स्वांशभूत उदान प्राण भी तुम्हारे अंग - अंग में अवस्थित है । हे हो रहा है । प्राण के प्रभाव ही इन्द्रियों तथा अंगों में प्रकाश होता है । आत्मसम्बन्धी वैविध्यपूर्ण दिव्य लक्षणों से विद्योतमान विश्वनिर्माता हिरण्यगर्भ, पहले से भी विपुल जिस प्रकार होसके, उस प्रकार का आपका से सम्बद्ध प्राण तथा अंगों सम्पन्न स्वरूप साधक के शरीर को प्राप्त करके एकाकार हो जाय । हे साधक, इस प्रकार - पिता हिरण्यगर्भ आदि अनुज्ञा दें अथवा अभिनन्दित से सुसम्पन्न होकर देवभाव की ओर जाते हुए तुम्हारी रक्षा तथा प्रसन्नता के लिये मित्रगण, माता युक्त देवभाव को प्राप्त करने वाले तुमको करें । हिरण्यगर्भ के दिव्य प्राण, उदान के द्वारा, उसके अनुग्रह से दिव्य प्राण अंग आदि से इन्द्रिय से सम्पन्न होकर ब्रह्मलोक, सभी पूर्वोक्त प्रकारों से अनुमोदित करें । इस प्रकार सगुण ब्रह्म की कृपा से साधक दिव्य । प्राण, विष्णुलोक, शिवलोक आदि को जाता है, यह पुराणों तथा उपनिषदों में प्रसिद्ध ही है ' करना निर्मूल है । सेना, विजय स्वामी दयानन्द द्वारा प्रतिपादित व्याख्यान कल्पनामूलक ही है । ' वसा ' का अर्थ ' वीररस नीति

पृष्ठ 269

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 269 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २०-२१ ] वेदार्थपारिजातभाष्यसहिता ४५ उदकपातृत्वस्य सर्वत्राविशेषात् । यत्तु ' वसा वीररसनीति: ' इति, तत्तु निर्मूलमेव । यदपि वासनहेतुत्वाद् वीररसनीतिरिह ग्राह्या, तथात्वे साक्षाद्वासनहेतुत्वाद्वसतिरेव गृह्यताम्, राजनीतिरेव वा गृह्यताम्, तथात्वेऽपि न तस्याः पानार्हता । वसां निवासं यातीत्यपि निर्मूलम्, वसेति टाबन्तताया नैरर्थक्यात् । अन्तरिक्षस्य हविरसीत्यस्य यदाकाशस्य हविर्हृयत आदीयत इति स्वाहा | युद्धानुकूलां शोभनां वाचमिति यद् व्याख्यानम्, तदपि निर्मूलं निरर्थकं च । एवमेव दिग्भ्यः सर्वाः सेना विभज्य शत्रून् विजयध्वमित्यपि निर्मूलम्, सेनाविजयादिपदानां मूलेऽसत्त्वात् । एवमेव ' हे त्वष्टर्देव सेनापते, भवान् अङ्गे अने ऐन्द्र इव अवसे सङ्ग्रामे निदीध्यत्, यद्वा अ ऐन्द्र उदान इव सङ्ग्रामे निधीतो भवति, ते तव विषुरूपं सलक्ष्म भवति, तत्सङ्ग्रामे भूरि यथा स्यात्तथा सं समेतु सखायो मातापितरश्च देवत्रा धर्मयुद्धव्यवहारं यन्तं त्वामनुमदन्तु ' इति, तदपि निर्मूलम्, सेनापतिपदाध्याहारे मानाभावात् । इवपदमपि निर्मूलमेव, मूलेऽभावात् । नितरां दीध्यदित्यस्य शत्रून् वञ्चित्वा स्वयं प्रकाशेत् इत्यप्यैच्छिकमेव । ' विषुरूपं सलक्ष्म च संग्रामे यथा स्यात्तथा सं समेतु ' इत्यपि तथैव निर्मूलम्, मूले संग्रामपदाभावात् । एवं ' धर्मं युद्धव्यवहारं वा यन्तम् ' इति च निर्मूलम्, धर्मयुद्धादिपदानामभावात् ॥ २० ॥

समुद्रं च्छ॒ स्वाहा॒ ऽन्तरि॑क्षं गच्छ स्वाहा॑ां देवः सवितारं गच्छ स्वाहां मित्रावरुणौ गच्छ स्वाहांऽहोरात्रे गच्छ स्वाहा॑हा॒ छन्दसि गच्छ स्वाहा॒ द्यावा॑पृथि॒वी गच्छ॒ स्वाहा॑ य॒ज्ञं गच्छ॒ स्वाहा॒ सोमं गच्छ॒ स्वाहा॑ दि॒व्यं न गच्छ॒ स्वाहा॒ ऽग्नं वै॑श्वान॒रं गच्छ॒ स्वाहा॑ मनों मे हार्दि ' यच्छ॒ दिवं ते धूमो ग॑च्छतु स्व॒ज्र्ज्योति॑ः पृथि॒वीं भस्म॒नाऽऽपृ॑ण॒ स्वाहा॑ां ॥२१ ॥

' प्रतिप्रस्थातोपयजति गुदतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रम् ' ( का.श्रौ. ६।९ ।१० ) । अनुयाजेषु त्रूयमानेषु वेदिश्रोण्यां होतृधिष्ण्ये वा न्युप्तेष्वङ्गारेषु प्रतिप्रस्थाता प्रच्छिद्य प्रच्छिद्य एकादशधा हस्तेन गुदकाण्डं तृतीयं जुहोति । सूत्रार्थस्तु औपयजेष्वङ्गारेषु पूर्वं स्थापितं वर्षिष्ठं गुदतृतीयमेकादशधा प्रच्छिद्य प्रच्छिद्य आदि पद भी मूल मन्त्र में नही हैं । इसी प्रकार ' हे सेनापति ' इस सम्बोधन पद के अध्याहार करने में भी कोई प्रमाण नहीं है । मन्त्र में संग्राम, धर्मयुद्ध आदि शब्दों के न रहने के कारण यह अर्थ निर्मूल है || २० || मन्त्रार्थ - देह के अवयवों में प्रत्येक को उपदेश करती हुई श्रुति कहती है कि हे भूतात्मा के जल, तुम अपने समष्टिरूप समुद्र में लीन हो जाओ । हे भूतात्मा के वायु, तुम अन्तरिक्ष में चले जाओ । हे, आत्मप्रतिबिम्ब, तुम सूर्य देवता में विलीन हो जाओ । हे जीवात्मा, तुम नरनारायण के पास चले जाओ । हे जन्ममरण के काल, तुम अहोरात्र में विलीन हो जाओ । हे शरीर के अवयवों, तुम समष्टि शरीर के अंगों में विलीन हो जाओ । हे मन ( हृदय ) आदि के कमलों, तुम पृथ्वी और स्वर्ग के अधिष्ठाता देवों के पास पहुँचो । हे यज्ञक्रियाओं, तुम यज्ञपुरुष विष्णु के पास पहुँचो । हे अन्न - पान आदि भोगों के समूह, तुम सोम देवता के पास पहुँचो । हे भूतात्मा के आकाश, तुम दिव्य आकाश में जा मिलो । हे जठराग्नि, तुम वैश्वानर अग्निदेवता के पास पहुँचो । हे योगशक्ति, तुम मेरे हृदय सम्बन्धी मन को रोको । हे भूतात्मा, तुम्हारा धूम्र स्वर्ग हो जाय, आत्मा रूपी ज्योति स्वर्ग को प्राप्त हो, भस्म के द्वारा पृथ्वी को पूर्ण करो और इस प्रकार उन - उन देवताओं को दी गई इन आहुतियों से यह प्राकृतिक होम सम्पन्न हो ॥२१ ॥

भाष्यसार - ' समुद्रं गच्छ ' इस कण्डिका के मन्त्रों से प्रतिप्रस्थाता ऋत्विक् हवन करता है तथा ' मनो मे ' आदि से मुखस्पर्श

पृष्ठ 270

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 270 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ शुकुयजुर्वेदसंहिता [ अ. ६ अनुयाजानां वषट्कृते एकैकं गुदकाण्डं प्रतिप्रस्थाता हस्तेन जुहुयात् । अध्वर्युणा एकैकमनुयाजे प्रतिप्रस्थाता जुहुयात् । तदेतच्छतपथे स्पष्टम् - ' त्रीणि वै पशोरेकादशानि । एकादश हूयमाने पश्चात् एकादशीप जो दश पाण्या अङ्गुलयो दश पाद्या दश प्राणा प्राण उदानो व्यान इत्येतावान् प्रयाजा वै पुरुषो एकादशानुयाजा पशूनां यऽनुपशवः ' ( श. ३ | ८ | ४ | १ ) । अत्र प्राणस्य श्रेष्ठत्वकारणाभिधानमुखेन गुदस्य प्रधानस्विष्टकृदुपदिष्ट्यर्थं यः पराद्धः त्रेधा विभज्य विनियोगं प्रशंसन् प्रयाजादीनामितराङ्गत्त्वमाह - प्रयाजा अनुयाजाश्चैकादशैकादश एकादशोपयाजा उपरिष्टादाम्नास्यन्ते तदेतदेकादशत्रयं मिलित्वा त्रयस्त्रिंशत् सम्पद्यन्ते । पशुषूत्कृष्टस्य प्रसिद्धाः । पुरुषस्य सप्त शीर्षण्याः प्राणा अवाञ्चौ द्वौ नाभिर्दशमी दश प्राणाः । ते च पाणिपादगतविंशत्यङ्गुलिभिः द्विपात्पशोः भवन्ति । प्राण उदानो व्यान इति त्रयो मुख्यप्राणाः । त्रयस्त्रिंशदेव यज्ञाङ्गानि सम्पद्यन्ते सहितास्त्रिंशद् किं तद्यज्ञे क्रियते येन प्राणः सर्वेभ्योऽङ्गेभ्यः शिव इंति ' ( श. ३१८१४१२ ) । अर्थात् पुरुषपशोर्हस्तपादाङ्गुलयः । तत्रायं प्रश्नः - ' तदाहुः प्राणरूपाङ्गानि भवन्ति | मुख्यप्राणस्य इतराङ्गुलिवत् साधारण्यमेव न प्राप्तं न श्रेष्ठत्वमतो यज्ञे सर्वेभ्योऽङ्गेभ्यः सकाशात् प्राणस्य श्रेष्ठत्वं केन प्रकारेणेति प्रश्नाभिप्रायः । तस्योत्तरं तु - ' यदेव गुदं त्रेधा करोति सोऽयं प्राङाततस्तमयं प्राणोऽनुसञ्चरति ' ( श. ३१८/४/३ ) । ' स यदेव गुदं त्रेधा करोति तृतीयमुपयड्भ्यस्तृतीयं प्राणो वै गुदः, जुह्वां तृतीयमुपभृति तेन प्राणः सर्वेभ्योऽङ्गेभ्यः शिवः ' ( श. ३ | ८ | ४१४ ) । प्राणो वै गुदः प्राणसञ्चरणाधिष्ठानत्वात् प्राण एव गुद इत्युक्तम् । कथं गुदस्य प्राणत्वमित्युपपादयति - सोऽयं प्राङातत इति । गुदः प्राङाततः ब्रह्मरन्ध्रपर्यन्तमूर्ध्वं प्रवृत्तः सन् वर्तते, तं गुदमन्वयं प्राणः सञ्चरति, अतः प्राणसञ्चरणाधिष्ठानत्वात् शरीरमध्ये तस्य प्रधानस्विष्टकृदुपयड्भेदेन त्रिषु स्थानेषु विभज्य विनियोग एव सर्वेभ्योऽङ्गेभ्यः श्रेष्ठत्वकारणम् प्राण एव गुदः । प्राणस्यापि सर्वेभ्योऽङ्गेभ्यः शिवत्वमिति, गुदस्य प्राणत्वेन श्रेष्ठत्वाभिधानत्वप्रसङ्गात् ॥ तेनैव कृशत्वं स्यात्, तर्हि गुदस्य सम्पूर्णत्वाय उदयं मांसं तेन सह मिश्रणीयमिति । सर्वावयवपूर्णमेव यदि कथञ्चित् पशुमालभेत तत्पशोः कृशमित्यादिकम्, तथापि तदलाभे कृशस्यापि पशोरुदर्याद् मेदस उद्धृत्य अल्पीयसि गुदे न्यृषेत् न अनुयाजार्थं पृषदाज्यग्रहणं विधाय प्रशंसति - अथ पृषदाज्यं गृह्णातीति । द्वयं वा इदं सर्पिश्च दधि चेत्यादिना निगमयेत् । उपयभ्यः पुरस्तादनुयाजेषु पृषदाज्यानुष्ठानेन पुरस्तात् प्राणं मुखस्थप्राणमप्राणे पशौ निहितवान् भवति ॥ पश्चादुपयडनुष्ठानस्य पश्चात् प्राणमुदानाख्यं पशौ स्थापितवान् भवति । तद्वा एतदेको द्वाभ्यां वषट्करोति ’ ( श. ३ | ८ | ४ | ११ ) । उपयष्ट्रे प्रतिप्रस्थात्रे च प्रयाजार्थमुपयाजार्थं च वषट् कुर्यात् । काण्वसंहिताभाष्ये सायणाचार्यस्तु - ' गुदकाण्डस्य तृतीयभागमेकादशधा तिर्यक् छित्त्वा अनुयाजानामेकैकस्मिन् वषट्कारे कृते सति समुद्रं गच्छ स्वाहेत्येतदादिभिरग्निं वैश्वानरं गच्छ स्वाहा इत्येतदन्तैरेकादशभिर्मन्त्रैरेकैकं गुदकाण्डभागं प्रतिप्रस्थाता जुहुयात् । हे गुदावयवरूप हविस्त्वं समुद्रादिनामकान् देवान् एवमेव ' देव सवितारं गच्छ स्वाहा ', ' अहोरात्रे गच्छ स्वाहा ' अहोरात्राभिमानिदेवते गच्छ गच्छ , प्राप्नुहि सुहुतमस्तु । स्वाहेति शतपथे । ' समुद्र आपो रेतो रेत एवैतत्सिञ्चति ' ( श. ३१८ | ४ | ११ ), ' अन्तरिक्षं वा अग्निं वैश्वानरं गच्छ ( श. ३ | ८ | ४ | १२ ), ' देवानां प्रसविता सवितृप्रसूत एवैतत्प्रजनयति ' ( श. ३ | ८ | ४ अनु | १३ प्रजाः प्रजायन्ते ' प्राणोदानावेवैतत्प्रजासु दधाति ' ( श. ३ | ८ | ४ | १४ ), ' अहोरात्रे वा अनु प्रजाः प्रजायन्तेऽहोरात्रे एवैतदनु ), ' मित्रावरुणौ प्रजनयति ' तथा स्वरुहोम करता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ६।९।१०-१२ ) में प्रतिपादित प्रक्रिया के अनुरूप अर्थ उपदिष्ट है । है । शतपथ ब्राह्मण में याज्ञिक