वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 271–280
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 271–280
पृष्ठ 271
पाठ पढ़ें पाठ छिपाएँ
म. २१ ] वेदार्थपारिजातभाष्यसहिता ४७ ( श.३ | ८ | ४ | १५ ), ‘ छन्दासि गच्छ स्वाहा सप्त वै छन्दा सि सप्त ग्राम्याः पशवः सप्तारण्यास्तेनैवैतदुभयान् प्रजनयति ( श.३ | ८ | ४ | १६ ), ' द्यावापृथिवी प्रजापतिर्वै प्रजाः सृष्ट्वा ता द्यावापृथि॒वीभ्यां पर्यगृह्णात्ता इमा द्यावापृथिवीभ्यां परिगृहीतास्तथो एवैष एतत्प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां परिगृह्णाति ' ( श. ३ | ८ | ४ | १७ ), ‘ अथात्युपयजति ’ ( श.३ | ८ | ४ | १८ ), स यन्नात्युपयजेद्यावत्यो हैवाग्रे प्रजाः सृष्टास्तावत्यो हैव स्युर्न प्रजायेरन्नथ यदत्युपयजति प्रैवैतज्जनयति तस्मादिमाः प्रजाः पुनरभ्यावर्त प्रजायन्ते । अत्युपाजनामकाश्चत्वार उपयागाः सप्तकानामनन्तरमाधिक्येन यष्टव्याः । विहितानत्युपयागानन्वयव्यतिरेकाभ्यां पुनः पुनः प्रजावृद्धिहेतुतया प्रशंसति – ‘ सोऽत्युपयजति यज्ञं गच्छ स्वाहेत्यापो वै यज्ञ आपोरेतं एवैतत्सिञ्चति ' ( शः ३ | ८ | ५ | १ ) | ‘ सोमं गच्छेति.... सोमो रेतः ' ( श. ३ | ८ | ५ | २ ) । ' दिव्यं तमो गच्छेति । आपो वै दिव्यमापो रेत एवैतत्सिञ्चति ' ( श.३।८।५।३ ) । ‘ अग्निं वैश्वानरं गच्छेति । इयं वै पृथिवी अग्निर्वैश्वानरः सेयं प्रतिष्ठे मामेवैतत्प्रतिष्ठामभिजनयति ’ ( श.३ | ८ | ५ | ४ ) । ' अथ मुखं विमृष्टे ' ( श.३ / ८ / ५ / ५ ) | ' प्रतिवषट्कार हुत्वा मनो म इति मुखोपस्पर्शनम् ' • ( का. श्री. ६ । ९ ।११ ) । प्रतिप्रस्थाता प्रतिवषट्कारमेकैकं गुदकाण्डं हुत्वा सर्वान्ते मुखमालभते । मन्त्रार्थस्तु – हे समुद्रादिदेवतासमूह, हार्दि हृदयसम्बन्धि मे मनो यच्छ निबध्नीहि । निबद्धं मनो हि स्वादायतनान्न च्यवते । ' तथोपयष्टाऽऽत्मानं नानुप्रवृणक्ति ' ( श.३ / ८ / ५ / ५ ) | हार्दि हृदये स्थापितस्य पशोः प्राणरूपस्य गुदस्य विच्छिद्य विच्छिद्य होमादुपयष्टुर्मनोऽपि प्राणाविनाभूतमपगच्छति । तदेवोक्तम् - तथोपयथत्मानं नानुप्रवृणक्ति । ‘ अनुयाजान्ते स्वरुं जुहोति दिवं ते धूम इति ' ( का.श्रौ. ६ | ९ | १२ ) । अन्तग्रहणाच्च धारानुयाजान्ते जुह्वां स्वरुमवधाय जुहुयात् । हे स्वरो, ते तव सम्बन्धी धूमो दिवं द्युलोकं गच्छतु । तव ज्योतिर्ज्याला स्वरादित्यं गच्छतु, स्वरादित्योऽन्तरिक्षं वा । भस्मना पृथिवीमापृण समन्तात् पूरय । स्वाहा सुहुतमस्तु । अध्यात्मपक्षे – - ब्रह्म प्रविविक्षुः स्वात्मानं तदुपाधींश्च व्यष्टीन् समष्टिषु प्रविलाप्य समष्टीनुपाधीनुपहितांश्च परमात्मनि प्रविलापयति । हे देहाद्युपाधिगत जल, त्वं समुद्रं समष्टिजलं गच्छ, तच्च परमात्मनि स्वाहा समर्पितं प्रविलापितमस्तु । हे व्यष्ट्यवकाश, त्वमन्तरिक्षमाकाशं गच्छ तच्च परमात्मनि स्वाहा । हे चक्षुः सवितारं देवं गच्छ तच्च परमात्मनि समर्पितमस्तु । हे प्राणापानद्वय, त्वं मित्रावरुणौ तदधिष्ठातारौ देवौ गच्छ, तौ च स्वाहा परमात्मनि समर्पितौ भवेताम् । हे क्षणमुहूर्तादिसमूह, त्वमहोरात्रे गच्छ ते चेशे स्वाहा । हे व्यष्टिवाक्समूह, त्वं छन्दांसि गच्छ, तानि परमात्मने स्वाहा । हे द्यावापृथिव्योर्विकारसमूह, त्वं स्वोद्गमभूते द्यावापृथिवी गच्छ, ते च परेशाय स्वाहा | हे व्रताद्यनुष्ठानसमूह, त्वं यज्ञं गच्छ, स च परेशाय स्वाहा । हे उपयुज्यमानौषधिसमूह, त्वं सोमं गच्छ, स अध्यात्मपक्ष में अर्धयोजना इस प्रकार है - ब्रह्म में एकत्व प्राप्त करने की इच्छा वाला साधक स्वयं को तथा व्यष्टिगत उपाधियों को समष्टि में एवं समष्टिगत उपाधियों को परमात्मा में विलीन करता है । है देहादि उपाधियुक्त जल, तुम समष्टि जल में चले जाओ और वह भी परमात्मा मे समर्पित हो जाय । हे व्यष्टि आकाश, तुम अन्तरिक्ष में लीन हो जाओ तथा वह परमात्मा में विलीन हो जाय । चक्षु, तुम सविता देवता को प्राप्त करो और वे परमात्मा में विलीन हों । हे प्राण तथा अपान, तुम दोनों मित्रावरुण देवताओं को प्राप्त करो और वे परमात्मा में विलीन हों । हे क्षणादि कालसमूह, तुम अहोरात्र में लीन हो जाओ तथा वे ईश्वर में अर्पित हों । वाणीसमूह, तुम छन्दों में लीन हो जाओ । हे द्यावापृथिवी के विकारगण, तुम अपने उद्गम स्थान द्यावापृथिवी को प्राप्त करो । हे व्रतानुष्ठान आदि, तुम यज्ञ में लीन हो जाओ । हे ओषधियों, तुम लोग सोम में लीन हो जाओ । हे दधि - दुग्ध आदि द्रवों, तुम दिव्य जल में लीन हो जाओ । हे विविध ज्योतिः समूहों तम वैश्वानर अग्नि में लीन हो जाओ तथा यह परमात्मा में विलीन हो जाय ।
पृष्ठ 272
पाठ पढ़ें पाठ छिपाएँ
४८ शुक्लयजुर्वेदसंहिता [ अ. ६ च परमात्मने स्वाहा । हे दधिदुग्धाज्यजलादिसमूह, त्वं दिव्यं नभो दिव्या अपो गच्छ, ताश्च विविधज्योतिःसमूह, त्वं वैश्वानरमग्निं गच्छ स चेशे स्वाहा । हे परमात्मन् मे मम हार्दि हृदि परेशाय स्वाहा | हे यच्छ स्वस्वरूपे निबधीहि । हे चितास्थदेह, त्वद्दहनोत्थो धूमो दिवं गच्छतु, ज्योतिः स्वरादित्यं भवं हार्दि मनो पृथिवीं पृण पूरय, तानि च सर्वाणि परमात्मनि प्रविलापितानि सन्तु, कल्पितानामधिष्ठानसत्तयैव गच्छतु । त्वदीयभस्मना सर्वस्यापि कार्यस्य परमकारणानन्यत्वाच्च । सत्तावत्त्वात्, दयानन्दस्तु - ' हे धर्मार्थकाममोक्षराजकर्मानुष्ठानार्ह विद्वन् त्वं समुद्रमुदधिं गच्छ स्वाहा बृहन्नौकारचनादिविद्यासिद्धेन यानेन अन्तरिक्षं गच्छ स्वाहा । खगोलप्रकाशिकया विद्यया सम्पादितेन विमानेन [ द्योतमानं सवितारं परमेश्वरं गच्छ जानीहि ' इत्यादिकमवोचत्, तदपि निर्मूलं निरर्थकं च । किमर्थं देवं वान्तरिक्षं गच्छेदित्युक्त्यभावात्, स्वाहापदेन तदलाभाच्च । ' बृहन्नौकादिविद्यासिद्धेन यानेन ' इत्यादिकमपि समुद्रं किमर्थं तथैव स्वाहा वेदवाचा सत्संगसंस्कृतया वा मित्रावरुणौ प्राणापानौ गच्छ विद्धीत्यपि यत्किञ्चित् निर्मूलम् । प्राणायामाभ्यासेन योगयुक्तया वाचा ' इत्यपि स्वाभ्यूहमात्रम्, निर्मूलत्वात् । अहोरात्रे । ' स्वाहा ज्योतिर्बोधयुक्तया वाचा गच्छ जानीहि याहि वेत्यादि सर्वमेतन्निर्मूलम्, स्वाहापदेन यथेष्टार्थग्रहणे शब्दार्थमर्यादाभङ्गापत्तेः स्वाहा कालविद्यया एवं ' छन्दांसि ऋग्युजः सामाथर्वाणश्चतुरो वेदान् गच्छ विजानीहि स्वाहा, । श्रवणमनननिदिध्यासनसाक्षात्कारेण वेदाङ्गादिविज्ञानसहितया वाचा ' इति, तदपि यत्किञ्चित्, पठनपाठनपुरः सरेण गुरु पारम्पर्येणैव ज्ञातव्यत्वेन तत्र मनननिदिध्यासनसाक्षात्कारानपेक्षणात् । एवमेव - ' वेदस्य आनुश्रविकत्वेन तद्गताभीष्टदेशदेशान्तरौ भूमियानाकाशयानरचनभूगोलभूगर्भखगोलविद्यया जानीहि ' इति द्यावापृथिवी , तदपि भूमिसूर्यौ स्वाहापदस्य तादृशेऽर्थे शक्त्यग्रहात्, देशदेशान्तरादिज्ञानस्य रागप्राप्तत्वेन विधानायोगात् । यच्च ' यज्ञमग्निहोत्रं निर्मूलम्, शिल्पं राज्यव्यवहारादिकं गच्छ प्राप्नुहि स्वाहा ' इति, तथा ' राजनीतिसंस्कृतया वाचा ' इत्यपि तथार्थत्वे बीजाभावात्, श्रौतसूत्रादिबोधितयागार्थत्यागस्यायुक्तत्वात् । ' सोममोषधिसमूहं निर्मूलम्, यज्ञशब्दस्य ' वैद्यकशास्त्रबोधार्हया वाचा ' इत्यपि व्याख्यानं निर्मूलम् प्रस्तुतशब्दयोस्तादृशार्थत्वे गच्छ स्वाहा ' इत्यस्य प्रमाणाभावात् । ' दिव्यं व्यवहर्तव्यं नभो जलं गच्छ तद्गुणविज्ञापयित्र्या वाचा अग्निविद्युद्वैश्वानरं सर्वत्र प्रकाशमानं तद्बोधयुक्तया वाण्या ' इत्यादिकमपि मनः कल्पितमेव, वैश्वानरशब्दस्य सर्वत्र प्रकाशमानमित्यर्थकत्वे गच्छ जानीहि प्रमाणस्य वक्तव्यत्वात् । ' मनश्चित्तं मे मम हार्दि हृदयस्यातिशयेन प्रियं यच्छ निधेहि दिवं सूर्यम् सर्वथाऽप्यस्पष्टमेव । हिन्दीव्याख्याने तु - ' सत्यधर्मे स्थितो मदुपदेशानुकूलं वर्तताम् । तव ' इत्यादिकं तु दिवं सूर्यप्रकाशं तथा ज्योतिः स्वरन्तरिक्षं गच्छतु ' इति, तदपि निरर्थकमेव धूमशकलानां , एवमुपदेशमन्तरापि यज्ञाग्नेर्वा धूमज्योतिषोस्तादृग्गतेः प्राप्तत्वात् । अस्मिन् व्याख्याने शतपथश्रुतिविरोधस्तु स्पष्ट एव || २१ || हे परमात्मा, मेरे हृद्गत मन को स्वस्वरूप में प्रतिष्ठित कीजिये | हे चितास्थित शरीर, तुम्हारे दाह जाय तथा ज्योति आदित्य को प्राप्त करे । तुम्हारी भस्म से पृथिवी को पूर्ण करो । ये सभी परमात्मा से उद्गत हुआ धूम द्युलोक में में विलीन हो जाँय! स्वामी दयानन्द द्वारा प्रतिपादित अर्थ निर्मूल है, क्योंकि समुद्र अथवा अन्तरिक्ष में क्यों जाय, इसका निरूपण नहीं किया गया है । स्वाहा शब्द से भी इसका ज्ञान नहीं होता । स्वाहा शब्द का स्वेच्छानुसार अर्थ करने पर शब्दार्थ की है । देश - देशान्तर का ज्ञान करना तो रागतः प्राप्त है, इसके लिये विधान करना अयुक्त है । इस व्याख्या मर्यादा का अतिक्रमण होता भी स्पष्ट ही है || २१ || में शतपथ श्रुति का विरोध
पृष्ठ 273
पाठ पढ़ें पाठ छिपाएँ
म. २२ ] वेदार्थपारिजातभाष्यसहिता ४ ९ माऽपो मौष॑धीर्हसीर्धाम्नों धाम्नो राजस्ततों वरुण नो मुञ्च । यदाहुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ सुमित्रिया न॒ आय॒ ओष॑धयः सन्तु दुर्मित्रियास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२२ ॥
' अथ हृदयशूलेनावभृथं यन्ति । पशोर्ह आलभ्यमानस्य हृदय शुक् समभ्यवैति हृदयाद्धृदयशूलमथ यच्छृतस्य परितॄन्दन्ति तदलञ्जषं तस्मादु परितृद्यैव शूलाकुर्यात् तत् त्रिः प्रच्युते पशौ हृदयप्रवृत्योत्तमं प्रत्यवदधाति ’ ( श. ३ | ८ | ५ | ८ ) । निरुद्धश्वासस्यालभ्यमानस्य पशोः सुखदुःखयोर्हदयेऽनुभूयमानत्वात् पशोः शुकू शोको हृदयमभिगच्छति । हृदयाद् हृदयशूलमभिगच्छति । अथ यच्छृतस्य पक्वस्य हृदयस्य पश्चात् शूलेन परितर्द्दने तद् जोषाय भक्षणाय अलं पर्याप्तं भवति, शुगनुविद्धत्वाद् यागार्हं न स्यादित्यर्थः । तस्मात् पाकात् पूर्वं शूलं परितृद्य पाकं कुर्यात् । अतः पाकात् पूर्वं शूलेन परितर्दनात् शुग् हृदयशूलं प्राप्नोतीत्यर्थः । त्रिः प्रच्युते पशौ पाकोत्तरकालं हृदयं शूलात् प्रवृह्य उत्तमं प्रत्यवदधाति, इतरावयवानामुपरि स्थापयेत् । ' अथ हृदयशूलं प्रयच्छति । तन्न पृथिव्यां परांस्येन्नाप्सु स यत्पृथिव्यां परास्येदोषधीश्च वनस्पतींश्चैषा शुक् प्रविशेद्यदप्सु परास्येदप एषा शुक् प्रविशेत् तस्मान्न पृथिव्यां नाप्सु ' ( श.३ / ८ / ५ / ९ ) | ( अप एवाभ्यवेत्य । यत्र शुष्कस्य चार्द्रस्य च सन्धिः स्यात् तदुपगूहेद्यद्यु अभ्यवायनाय ग्लायेदग्रेण यूपमुदपात्रं निनीय यत्र शुष्कस्य चार्द्रस्य सन्धिर्भवति तदुपगूहति मापो.... यदाहुरघ्या इति.... मुञ्चेति तदेनं सर्वस्माद्वरुणपाशात् प्रमुञ्चति ' ( श. ३ | ८ | ५ | १० ) । यद्यु तत्रैवोक्तदोषाभावायोपापमाद् अपः सम्प्राप्य यत्रातीवारसः सरसश्च न भवति तत्रोपगूहेत् । यदाब्विषये ग्लानिं प्राप्नुयात् तदा यूपस्य प्राग्देशे उदपात्रनिनयनं कृत्वा तत्रापीषदार्द्रप्रदेशे उपगूहेत । तत्रायं मन्त्रः - मापो मौषधीरिति । कात्यायनोऽपि - ' अभ्यवेत्य शुष्कार्द्रसन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो मापो मौषधीरिति ' ( का.श्रौ. ६ | १० | ३ ) । अध्वर्युरुदके प्रविश्य यत्र भूमौ शुष्कस्यार्द्रस्य च सन्धिः स्यात् तत्र हृदयशूलं भूमिमध्येऽधोमुखं बलात् प्रवेशयेत् । हृदयशूलदैवतं यजुः । मन्त्रार्थस्तु - हे हृदयशूल, त्वमपः अब्देवता मा हिंसीः, ओषधीश्च मा हिंसीः । ईषदार्द्रे उपगूहनादपां हिंसाप्रसङ्गः । पृथिव्यामुपगूहनादोषधीनां बाधप्रसङ्गः । अतस्तदुभयहिंसापरिहारः प्रार्थ्यते - ' अथाभिमन्त्रयते । सुमित्रिया ' ( श.३ / ८ / ५ / ११ ) । ' धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यपः ' ( का.श्रौ. ६/१०१५ ) । तडागादिस्थमुदकं मन्त्रार्थ - हे मन, तुम इन्द्रियाग्नियों के अन्तरिक्ष को नष्ट मत करो, इन्द्रियों की शक्तियों को नष्ट मत करो । हे राजन् मन, अपने पाशरूप प्रत्येक इन्द्रिय से हमें मुक्त करो । ईश्वर के पूजक देह के अवयव अवध्य हैं, ऐसा शास्त्रों का कहना है । हे मन, हम तो इस योग की विधि से इनका बध कर रहे हैं, अतः इस पाप से हमें मुक्त करो । इन्द्रिय स्थित आकाश और इन्द्रियां हमारी श्रेष्ठ मित्र हो । जो काम हमारे प्रतिकूल होता है और जिस कार्य को हम शत्रुदृष्टि से देखते हैं, उस काम के लिये इंन्द्रियों का अन्तरिक्ष और इन्द्रियाँ शत्रुरूप हों, अर्थात् हमारी इन्द्रियों में किसी प्रकार की विषयवासना उत्पन्न न हो ॥ २२ ॥
भाव्यसार १- कात्यायन श्रौतसूत्र ( ६।१०।३, ५ ) में निरूपित याज्ञिक विनियोग के अनुसार ' माऽप: ' इस कण्डिका के मन्त्रों से जलाशय के प्रारम्भिक स्थान पर भूमि में शूल गाड़ कर अध्वर्यु छिपाता है तथा यजमान एवं ऋत्विक् जल का स्पर्श करते हैं । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 274
पाठ पढ़ें पाठ छिपाएँ
५० शुक्लयजुर्वेदसंहिता [ अ. ६ बन्धनस्य यूपं पूर्वेण निषिक्तं वोदकमालभन्ते मन्त्राभ्यां सर्वे ऋत्विग्यजमानाः । तत्र पापरूपबन्धनेऽनवस्थाने निगूहनस्य बन्धनरूपत्वाद् बद्धाः स्मः, च वरुणाधिष्ठातृकत्वाद् वरुणस्य सम्बोधनम् । हे राजन् वरुण, यस्मिन् यस्मिन्नागसि सम्भाविते आगस्कर्तारोऽप्यघ्न्या ततस्तस्माद् धाम्नो बन्धनस्थानान्नोऽस्मान् मुञ्च पापेन मुक्तान् कुरु । किञ्च वयं किन्तु पालयितव्या इति शपामहे अहन्तव्या रक्षणीया वयमित्याहुर्मनुष्या इत्येवं प्रकारेणापराधिनोऽप्यघ्न्या वरुण्यादिति पुनरभिधानाद् आक्रोशामः, ततोऽपि नोऽस्मान् मुञ्च । तत्तेन धाम्नो धाम्न इति मन्त्रपाठे वरुण, भवदाद्याः सर्वा देवता अघ्न्या वारुण्यपाशात्तदतिरिक्ताच्च सर्वस्मात् पाशाद् विमोक्षः प्रार्थ्यते । किञ्च, हे वयं ता देवताः शपामहे अहन्तव्याः पूजनीया इति उदाहुर्ब्रह्मवादिनो वदन्ति इत्येवं सत्यस्माकमनिष्टपरिहारार्थं वयं बिभीमः, तस्मात् स्थानान्नोऽस्मान् ततस्तस्मात् पापान्नोऽस्मान् मुञ्च । यद्वा त्वदीयपाशसमन्वितात् स्थानाद् बहुवचनमनुवन्ध्याबहुत्वेऽर्थवत्, मुञ्च मोचय । यदाहुरघ्न्या इति । अघ्न्या इति गवां नाम । प्रकरणादिहानुवष्ध्याविषयं वन्ध्याः पूजनीया इति करन एकानुवन्ध्यापक्षे पूजार्थम् । यद्वेदस्मृतिलोकवाक्यान्याहुः - अघ्न्या अहन्तव्या प्रदर्शनार्थम् । शपतिर्हिंसार्थः । एवमनेन वाक्यस्याभिनयं दर्शयति । हे वरुण, वयं तु इति शपामहे, इतिकरणं मुञ्च मोचय । विधिना अघ्न्या हिंस्मः । अत एव त्वां याचामहे । हे वरुण, ततस्तस्मादघ्न्यावधजातादेनसोऽस्मान् वयं च यं द्विष्मः तस्मै शत्रवे सुमित्रिया आप ओषधयश्च नोऽस्माकं साधु मित्ररूपाः सन्तु । योऽस्मान् द्वेष्टि वरुणपाशात् सर्वस्माद्वरुण्यात् आप ओषधयश्च अमित्ररूपा भवन्तु । एवं मन्त्रेण वरुणप्रार्थनया ' सर्वस्माद् एतेन प्रचरन्त्यापश्च ह वा प्रमुञ्चति ' ( श.३ | ८ | ५ | १० ) इति श्रुतिरेव तत्फलं दर्शयति - ' यत्र वा पुनः प्रविशन्त्येषो तत्र प्रायश्चित्तिः अस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति तदु ताभिर्मित्रधेयं कुरुते तथो हैनं ताः स्थानाद् अपक्रम्य अपसृत्येव क्रियते ' ( श.३।८।५।११ ) । एतेन हृदयशूलनिगूहनेन आपश्च ओषधयश्च अस्मात् कृतवान् भवति । तथा सति ताः तिष्ठन्ति । तदु तस्मादेव कारणात् ताभिः सह सुमित्रिया इति पाठेन मित्रत्वं पुनः प्रविशन्ति । एषा उ तत्र प्रायश्चित्तिः । अपामोषधीनां च विनाशे अध्यात्मपक्षे - हे राजन्, सर्वोपरि दीप्यमान परमेश्वर, अस्माकं दुष्कर्मवशाद् अवरोधकात् तत्स्थानान्नोऽस्मान् प्राप्ते त्वमस्मासु करुणया ता मा हिंसीः । हे वरुण, धाम्नो धाम्नः स्थानात् स्थानाद् नोऽस्मान् मुञ्च मोचयं मुञ्च मोचय । स्थीयतेऽवरोधपूर्वकमनेनेति स्थानम्, तस्माद् बन्धनरूपात् स्थानाद् शिष्टास्तथैव वयमप्यहन्तव्याः अन्तर्भावितण्यर्थः । यच्च अघ्न्या इति ( अघ्न्या गावः ) लोके अहन्तव्या इत्याहुः वरीतुं योग्य, शपामहे आक्रोशाम आर्ताः पालनीयाः, शरणागतत्वात् । हे वरुण, आश्रयत्वेन रक्षकत्वेन च वरणीय द्वेष्टि यं च वयं द्विष्मस्तस्मै सन्तस्त्वामेवाह्वयामहे । त्वत्कृपया ओषधय आपश्च सुमित्रियाः सन्तु । योऽस्मान् दुर्मित्रियाः सन्तु त्वद्भक्तविरोधित्वात् । , हमारे दुष्कर्मों के कारण जल तथा ओषधियों का अध्यात्ममक्ष में अर्थयोजना इस प्रकार है- सर्वोपरि दीप्यमान हे परमेश्वर स्थानों से हमें दें । हे वरुण, अवरोध करने वाले उन विनाश उपस्थित होने पर आप हमारे ऊपर कृपा करके उन्हें विनष्ट न होने भी शरणागत होने के कारण पालनीय हैं । आश्रय मुक्त कीजिये । जिस प्रकार जगत् में गायें अहन्तव्य कही जाती हैं, उसी प्रकार हम ही पुकारते हैं । आपकी कृपा से ओषधियां तथा के रूप में तथा रक्षक रूप में वरणीय हे वरुणदेव, हम आर्त होकर आपको हैं, उसके लिये आपके भक्तों के विरोधी होने के कारण जल मित्रभूत हो जाँय । जो हमसे द्वेष करता है तथा जिससे हम द्वेष करते ये सभी अमित्र रूपी रहें ।
पृष्ठ 275
पाठ पढ़ें पाठ छिपाएँ
म. २२-२३ ] -वेदार्थपारिजातभाष्यसहिता ५१ दयानन्दस्तु – ' हे राजन्, त्वमप ओषधीश्च न केवलमिदमेव कुर्याः, किन्तु ततो धाम्नो नोऽस्मान् मुञ्च । हे वरुण, अघ्न्या इति यद् भवन्त आहुर्वयं चेति शपामहे ततस्त्वं नोऽस्मान् मा मुञ्च वयमपि न मुञ्चामः । हे वरुण, नोऽस्मभ्यम् आप ओषधयश्च सुमित्रिया सुमित्रवत् सन्तु । योऽस्मान् द्वेष्टि.... तस्मै दुर्मित्रिया शत्रुवत् सन्तु ' इति, तदपि यत्किञ्चित्, राज्ञोऽपामोषधीनां च हिंसने प्रवृत्त्यसम्भवेन तन्निषेधायोगात् । एवं स्थानात् स्थानाद् राजकर्तृकप्रजाकर्मकपरित्यागोऽप्यप्राप्त एवेति तन्निषेधोऽपि व्यर्थ एव । यदपि ' न्याये गवादयः पशवोऽन्या अहन्तव्या इति यद् भवन्त आहुर्वयं च तथैव शपामहे ' इति, तदपि न स्पष्टम् | आप ओषधयश्च राजप्रार्थनया कथं सुमित्रवद् भविष्यन्ति, कथं च तया ता एव प्रार्थयितृशत्रूणां कृते दुर्मित्रवद् भविष्यन्तीति सर्वथा युक्तिशून्यं वचः । मन्त्रपाठादिजनितेनादृष्टेन तथा कल्पनमपि सिद्धान्तहानिकरमेव, सामाजिर्कैस्तथानभ्युपगमात् ॥२२ ॥
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मा॒२ ॥ आ
वि॑वासति ।
ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्माँ २ ॥ अस्तु सूर्यः ॥२३ ॥
अथ सोमाभिषवोपयुक्तानां वसतीवरीसंज्ञकानामुपादानं विधीयते - ' यत्र वै यज्ञस्य शिरोऽश्छिद्यत तस्य रसो द्रुत्वापः प्रविवेश तेनैवैतद्रसेनापः स्यन्दन्ते तमेवैतद्रस स्यन्दमानं मन्यन्ते ' ( श. ३।९ ।२1१ ) | यस्मिन् काले यज्ञरूपस्य विष्णोर्देवतानां यश आहृत्य गतवत्यो वधार्थं देवैः प्रेषिता उपदीका धनुर्ज्याछेदनेन तच्छिरश्चिच्छिदुः, स कालोऽत्र यत्रेतिशब्देन विवक्षितः । तस्मिन् काले छिन्नशिरसो यज्ञस्य रसोऽद्रवत्, रसो द्रुत्वा धावित्वा अपउदकानि प्रविवेश । तेनैव रसेनेदानीमपि यथापूर्वं स्यन्दमानस्वभावा आपः स्यन्दन्ते । तमेव रसमिदानीमप्सु स्यन्दमानं मन्यन्तेऽभिज्ञाः । स यद्वसतीवरीरच्छेति । तमेवैतद्रसं यज्ञे दधाति रसवन्तं यज्ञं करोति ' ( श.३।९ ।२।२ ) । वसतीवरीग्रहणं विधत्ते - स यदिति । अच्छैति अभिमुखं गच्छति, तमेव रसं पुनराहृत्य यज्ञे सन्दधाति । ‘ अग्नीषोमीयस्य वपामार्जनान्ते वसतीवरीग्रहण स्यन्दमानानामनस्तमिते ' ( का.श्रौ. ८ / ९ / ६ ) इति सूत्रे वपाहवनानन्तरं तद्ग्रहणमुक्तम् । अग्नीषोमीयस्य पशोर्वपामार्जनान्ते कर्मणि कृते सत्यनस्तमिते सूर्ये नद्यादौ प्रवहन्तीनामपां वसतीवरीनाम्नां ग्रहणं कुर्यात् कुम्भेषु । अभिषुतस्य सोमस्य वर्धनार्थमिमा आपः सोमरसेन संसृज्यन्ते, ता वसतीवर्य उच्यन्ते । ' ता एव सर्वेषु सवनेषु विभजति ' ( श. ३ / ९ / २ / ३ ) | ' गोपीथाय वा एता स्वामी दयानन्द द्वारा निरूपित अर्थ विसंगत है । जल तथा ओषधियों की हिंसा में राजा प्रवृत्ति न होने के कारण उसका निषेध करना युक्त नहीं है । राजा की प्रार्थना से जल तथा ओषधियां कैसे सुमित्र की भांति हो जायंगी तथा इसी प्रकार की प्रार्थना करने वाले के शत्रुओं के लिये दुर्मित्र हो जायंगी, यह कथन सर्वथा युक्तिशून्य है । मन्त्रपाठ आदि से उत्पन्न अदृष्ट के द्वारा इस प्रकार कल्पना करना भी उनके मत में हानिप्रद है, क्योंकि आर्यसमाजी अदृष्ट को नहीं मानते || २२ || मन्त्रार्थ - सूर्यास्त से पहले नदी आदि में बहते हुए बसतीवरी नामक जल को ग्रहण कर प्रार्थना की जाती है कि हवि से युक्त यजमान बसतीवरी नामक जल की परिचर्या करता है, अर्थात् जल के समूह से उसे पृथक करता है । इससे प्रकाशवान् यज्ञ हवि से युक्त हो, सूर्य भी हविष्मान् हो, क्योंकि सूर्य जल को अन्य सब देवताओं के लिये ग्रहण करता है, अतः सब देवता इस विराडात्मक सूर्य की किरणें हैं ॥२३ ॥
भाष्यसार -• कात्यायन श्रौतसूत्र ( ८ / ९ / ६ - ९ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' हविष्मतीरिमा: ' इस ऋचा से यजमान
पृष्ठ 276
पाठ पढ़ें पाठ छिपाएँ
५२ शुक्लयजुर्वेदसंहिता ( अ. ६ गृह्यन्ते । सर्वं वा इदमन्यदिलयति यदिदं किञ्च योऽयं पवतेऽथैता एवं नेलयन्ति प्रवाहोदकव्यतिरिक्तमुदकमिदं यत्किञ्च इलयति इतस्ततश्चलयति योऽयं वायुः पवते । एतस्यापि ' ( श.३ / ९ / २ / ५ ) | एताः स्यन्दमाना एवापो नेलयन्ति । ' दिवा गृह्णीयात् । पश्यन् यज्ञस्य रसं गृह्णानीति.... य एष चलनं तत्कृतमेव । होना देवेभ्यो गृह्णाति.... ' ( श.३।९ ।२।६ ) । तपति विश्वेभ्यो दर्शनपूर्वकग्रहणे सति यज्ञरसस्य परिज्ञातत्वात् तथाविधाभिरद्भिः क्रियमाणोऽभिषवः साङ्गो भवतीति । किञ्च, विश्वेभ्यो देवेभ्य एना अपो गृह्णाति । विश्वेदेवाश्च सवितू रश्मिरूपाः । अतो रश्मिरूपाणां तदधिपतेः सवितुश्च दिवैव सम्भवाद् दिवैव गृह्णीयात् । एतद्ध वै विश्वेदेवाः । यजमानस्य विश्वेषां देवानां यः पुरादित्यस्यास्तमयाद् वसंतीवरीर्गृह्णाति यथा श्रेयस्यागमिष्यत्यावसथेनोपक्लप्तेनोपासीतैवं गृहानागच्छन्ति स प्रविशन्ति ता एतासु वसतीवरीषूपविशन्ति स उपवसथः ' ( श. ३ / ९ / २ / ७ ) । लोके तत्त एतद्धविः पूर्वमुपक्लृप्तेनावसथेनोपासीत, एवं तत्तद्यज्ञोपकरणं संस्करोति, तेन संस्कारोचितेन यथा गुवदिः पूजोपकरणेन पूज्यस्यागमनात् सम्भावयति । एतत् खल्वतिथिभूतानां विश्वेषां देवानामागमनात् पूर्वं यद् वसतीवरीणां देवान् तत्तत्सम्मानस्थानीय सोम रसेष्वनुप्रवेशाद्धविः सम्पद्यन्ते ता आपः । उपवसन्त्यासु वसतीवरीषु ग्रहणमस्ति, देवा अस्मिन् काले इत्युपवसथः, उपवासकाल इत्यर्थ: । ' स यस्यागृहीता अभ्यस्तमियात् । तत्र प्रायश्चित्तिः क्रियते यदि स्यान्निनाह्याद् गृह्णीयाद् दिवा हि तस्य ताः पुरा गृहीता भवन्ति यद्यु अनीजानः स्याद्य एनमीजान पुरेजानः वा पर्यवसितो वा स्यात्तस्य.... ताः पुरा गृहीता भवन्ति ' ( श. ३१ ९ / २ / ८ ) । तत्रैव वसतीवरीणां उपावसितो सति तद्ग्रहणोपाय उच्यते - स यस्या इति । प्रायश्चित्तिभिर्दिवाग्रहणे दोषस्पर्शाभावोपायः । ग्रहणात् प्रागस्तमये पुरेजान इष्टप्रथमसोमयागः स्यात्, तदा स निनाह्यात् स्वगृहस्थितप्रभूतघटादेः सकाशाद् गृह्णीयात् स यजमानो यदि ता आपोऽस्तमयात् पूर्वं गृहीता भवन्ति, प्रथमानुष्ठानेऽस्तमयात् पूर्वं गृहीतत्वादिति । एवंकरणात्तस्य यजमानमीजान इष्टवानन्य उपावसितः समीपे गृहेऽवस्थितः पर्यवसितो दूरगृहस्थितो । स्वयमनीजानश्चेद् य एनं निनाह्याद् घटादेः सकाशाद् गृह्णीयात् । एवं सत्यपि ता पुरा दिवा गृहीता भवन्ति । वा ईजानः स्यात्, तस्य ' यद्यु एतदुभयं न विन्देत् । उत्कुषीमेवादायोपपरेयात्तामुपर्युपरि धारयन् गृह्णीयाद् हिरण्यं गृह्णीयात्तदेतस्य रूपं क्रियते य एष तपति ' ( श.३ / ९ / २ / ९ ) । उत्कुषीमुल्कां हिरण्यं वोपर्युपरि वोपर्युपरि धारयन् उल्काया हिरण्यस्य च सूर्यवर्णसाम्यात् तद्रूपकरणम् । तदेतत्सर्वमुक्तं कात्यायनेनापि - ' अस्तमितश्चेन्निनाह्यात् धारयन् गृह्णीयात् । पुरेजानश्चेत् ' ( का.श्रौ. ८ / ९ / ७ ) । यदिग्रहणात् पूर्वं सोमेनेष्टवान् स्यात् । ' अनीजानोऽन्यस्यापि ( का.श्रौ. ८ / ९ / ८ ) । यदि यजमानः स्वयमकृतसोमः स्यात्, तदान्यस्यापि कृतसोमस्य पार्श्ववर्तिनो समीपावसितस्य ' गृह्णीयात् । ' उभयाभाव उत्कुषी हिरण्यं वोपर्युपरि धारयन् हविष्मतीरिति ' ( का.श्रौ. ८ निनाह्याद् नेष्टवान् समीपवासी च नेष्टवान्, तदा उल्कां हिरण्यं वा स्यन्दमानानामपामुपरि धारयन् / ९ / ९ ) । यदा स्वयं इमाश्च प्रवाहाभिमुखं तिष्ठता ग्रहीतव्याः, ' प्रतीषं तिष्ठन् गृह्णाति ' इति तैत्तिरीयसंहितावचनात् वसतीवरीगृह्णीयात् ॥ अनुष्टुपू, लिङ्गोक्ता देवता । हविष्मतीरभिषूयमाणेन हविषा सोमेन युक्ताः, स्वासु प्रविष्टेन यज्ञरसरूपेण हविषा वा हविष्मत्यः । इमा गृह्यमाणा वसतीवरीरप आविवासति परिचरति । ततो देवो द्योतमानोऽध्वरेयागोऽपि ' बसतीवरी ' नामक जल का ग्रहण करता है । शतपथ तथा तैत्तिरीय श्रुतियों में याज्ञिक विनियोगके अनुकूल अर्थ उपदिष्ट है ।
पृष्ठ 277
पाठ पढ़ें पाठ छिपाएँ
म. २३ ] वेदार्थपारिजातभाष्यसहिता ५३ स्वशरीरनिष्पत्त्यर्थं हविष्मान् भवतु वसतीवरीभिः । किञ्च, सूर्योऽपि देवो यजमानस्य फलदानाय स्वसन्तृप्त्यर्थं हविष्मान् हविः सम्पन्नो भवतु । एताभिर्निष्पन्नेन सोमेन हविषा हविष्मान् यजमानः । ' यज्ञस्य ह्यासु रसः प्राविशत्.... हविष्मान् ह्येना यजमान आविवासति.... ' ( श. ३ / ९ / २ / १० ) इति श्रुत्या यज्ञरसे प्रवेशादपां हविष्मत्त्वमुक्तम् | हविष्मानत्र यजमानो ग्राह्य इत्यपि निगदव्याख्यातम् । ' हविष्मान् देवोऽध्वरः ' ( श. ३।९ ।२।११ ) इत्यनया श्रुत्या यज्ञ एवात्र देवोऽध्वरः । ' हविष्माँ अस्तु सूर्य इति । एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवाः.... ' ( श. ३ / ९ / २ / १२ ) इति श्रुतिः । रश्मिमालिन आदित्याय वसतीवरीर्गृह्णाति । रश्मयश्च सर्वरूपास्ते चांशिनो जगत्स्रष्टुर्भगवतः सूर्यस्यांशरूपा एव तस्मात् सूर्यस्य हविष्मत्त्वे सर्वदेवानां हविष्मत्त्वं सम्पद्यते । अध्यात्मपक्षे – साधको भगवन्तं प्रार्थयते । हे परमेश्वर, त्वत्कृपया इमाः परिदृश्यमाना आपस्त्वदर्थनैवेद्यनिर्माणार्थं समर्पणीयेन हविषा विविधपक्वान्नलक्षणेन हविष्मत्यो भवन्तु । हविष्मान् प्रशस्तविविधसमर्पणीयपक्वान्नादिहविषा हविष्मान् साधकस्त्वामाविवासति परिचरति, तेनैव हविषा देवो द्योतमानो भगवान् हविष्मान् भवतु । त्वदीयः पूजालक्षणोऽध्वरोऽपि स्वस्वरूपनिष्पत्तये हविष्मान् भवतु । सूर्यो भगवान् भास्करः सर्वकर्मसाक्षी हविष्मान् अस्तु, सूयदिव पर्जन्यादिक्रमेण हविषामुत्पत्तेः । भगवत्पूजार्थं सूर्योऽपि जन्यजनकभावेन हविष्मान् भवत्वित्यर्थः । भगवतो दिव्यत्वात् पूजापि दिव्या । तदर्थं सूर्यादुत्पन्नानि हवींष्यपि दिव्यानि । तन्निर्माणोपयोगिन्य आपोऽपि दिव्याः । तादृग् दिव्यपक्वान्नादिलक्षणेन हविषा युक्तो यजमानस्त्वां परिचरति, परिचरेदित्यर्थः । -दयानन्दस्तु – ' हे विद्वांसः, यथेमा आपो हविष्मतीर्हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति सर्वान् परिचरति, देवोऽध्वरो हविष्मान् स्यात्, सूर्यो हविष्मानस्तु तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु ' इति, तदप्यसङ्गतम्, अनुपपत्तेः । यत्तु ' दानादानाभ्यां तासां सुखशुद्धिभ्यामुपकारत्वमेव हविष्मत्त्वम् ' इति, तत्तुच्छम्, तद्भिन्नस्य हविष्ट्वेनैव तासां हविष्मत्त्वोपपत्तेः, अन्यथा मतुप आनर्थक्यात् । वायुपदं तु मूले नास्त्येव । ‘ तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु ' इत्यंशस्य सर्वथा निर्मूलत्वमेव ॥ २३ ॥
अध्यात्मपक्ष में अर्थ इस प्रकार है- साधक भगवान् से प्रार्थना करता है कि हे परमेश्वर, आपकी कृपा से दृश्यमान जल आपके नैवेद्यनिर्माण के लिये समर्पणीय विविध पक्वान्नरूपी हविर्द्रव्य से हविष्मान् हों । प्रशस्त तथा विविध समर्पणयोग्य पक्वान्न आदि हविर्द्रव्यों से हविष्मान् साधक आपकी परिचर्या करता है । उस हविर्द्रव्य से विद्योतमान भगवान् हविष्मान् हों । आपका पूजारूपी यज्ञ अपने स्वरूप की पूर्णता के लिये हविष्मान् हो । सब कर्मों के साक्षी भगवान् भास्कर हविष्मान् हों, क्योंकि सूर्य से ही पर्जन्य आदि के क्रम से हविर्द्रव्यों की उत्पत्ति होती है, अर्थात् भगवान् की पूजा के लिये सूर्य भी जन्यजनकभाव से हविष्मान् हों । भगवान् के दिव्य होने के करण पूजा भी दिव्य है । एतदर्थ सूर्य से उत्पन्न हविर्द्रव्य भी दिव्य हैं । उनके निर्माण में उपयोगी जल भी दिव्य हैं । इस प्रकार के दिव्य पक्वान्न आदि हविर्द्रव्यों से युक्त यजमान आपकी परिचर्या करे । स्वामी दयानन्द द्वारा निरूपित अर्थ अनुपपन्न होने के कारण अग्राह्य है । वायु शब्द तो मूल मन्त्र में है ही नहीं । ' आप लोग यज्ञ के द्वारा इनको शुद्ध करें ' यह अंश तो सर्वथा निर्मूल है ॥ २३ ॥
पृष्ठ 278
पाठ पढ़ें पाठ छिपाएँ
५४ शुक्लयजुर्वेदसंहिता [ अ. ६ अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामीन्द्रा॒ग्न्योर्भाग॒धेयीं स्थ मि॒त्रावरु॑णयोर्भाग॒धेयीं स्थ॒ विश्वे॑षां दे॒वानां॑ भाग॒धेयीं स्थ । अ॒मूर्या॒ उप॒ सूर्ये याभि॑र्वा॒ सूर्यः स॒ह । ता नों हिन्वन्त्वध्वरम् ॥२४ ॥
' ता आहृत्य जघनेन गार्हपत्य सादयति । अग्नेर्वोऽपन्न.... ' ( श. ३ | ९ | २ | १३ ) इति समन्त्रकं वसतीवरीणामपां गार्हपत्यस्य पश्चाद्भागे सादनं विधत्ते । कात्यायनोऽपि - ' अग्नेर्व इति निदधाति शालाद्वार्यमपरेण ' ( का.श्रौ. ८।९ ।१० ) । ता आनीता वसतीवरीः शालाद्वार्यस्य पश्चिमतो निदद्यात् । हे वसतीवर्यः, वो युष्मान् अपन्नगृहस्य अपतितगृहस्यै. अशीर्णगृहस्य अविनश्वरगृहस्य शालामुखीयाग्नेः सदसि समीपस्थाने सादयामि स्थापयामि, ‘ अनार्तगृहस्य सदसि ' इति तत्रैव श्रुतेः । ' यदाग्नीषोमीयः पशुः सन्तिष्ठते अथ परिहरति व्युत्क्रामतेत्याहाग्रेण हविर्धाने यजमान आस्ते ता आदत्ते ' ( श. ३।९ ।२।१३ ) । अथ यदाग्नीषोमीयः पशुः सन्तिष्ठते पत्नीसंयाजान्तः समाप्तो भवति, वसतीवरीर्वेदेः परितो नयेत् । वेदिमध्ये स्थिता दीक्षिता व्युत्क्रामत इत्याह - अध्वर्युस्त्रिब्रूयाद् हविर्धानस्य पुरो देशे यजमान आस्ते, उत्तरवेदिमपरेण उपस्थे सोमं कृत्वा । ‘ स दक्षिणेन निष्क्रामति । ता दक्षिणाया श्रोणी सादयतीन्द्राग्न्योर्भागधेयी स्थेति विश्वेभ्यो ह्येना देवेभ्यो गृह्णातीन्द्राग्नी हि विश्वेदेवास्ताः पुनराहृत्याग्रेण पत्नीं सादयति स जघनेन पत्नीं पर्येत्य ता आदत्ते ' ( श. ३।९ ।२।१४ ) । अथ ता अध्वर्युरादाय दक्षिणेन द्वारेण प्राग्वंशान्निष्क्रम्य उत्तरवेद्या दक्षिण श्रोणी सादयति । इन्द्राग्न्योभागधेयी स्थ इति भागधेय्यौ भवथ । ' स उत्तरेण निष्क्रामति । ता उत्तराया श्रोणौ सादयति मित्रावरुणयोर्भागधेयी स्थति नैव सादयेदतिरिक्तमेतन्नैव सम्पत् सम्पद्यत इन्द्राग्न्योर्भागधेयी स्थेत्येव ब्रूयात् तदेवानतिरिक्तं तथा संपत् सम्पद्यते ' ( श. ३।९ ।२।१५ ) | आदायोत्तरेण मार्गेण निष्क्रामति । निष्क्रम्य उत्तरवेदेरुत्तरश्रोण्यां सादने कञ्चिन्मन्त्रं निर्दिश्य तस्य वक्ष्यमाणसप्तपदोपेतशक्वरीच्छन्दः प्राप्तिलक्षणायाः सम्पदोऽतिरेकेणाधिक्येन प्रातिकूल्यमभिधाय दक्षिणवेदिश्रोणिसादनमन्त्रमेव सम्पदनुकूलत्वात् सिद्धान्तयति । ' दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्राग्न्योरिति ' ( का.श्रौ. ८।९ ।१६ ) । वसतीवरीरादाय दक्षिणे शालाया निष्काश्य मार्जालीयं दक्षिणेन नीत्वा दक्षिणस्यामुत्तर श्रीणावासादयेत् । मन्त्रार्थस्तु - हे वसतीवर्यः, यूयमिन्द्राग्न्योर्भागधेय्यो भागरूपाः स्थ भवथ । ' भागरूपनामभ्यो धेयः ' इति वार्त्तिकेन स्वार्थे धेयप्रत्ययः । केवलमामकभागधेय.... ' ( पा. सू. ४ । १।३० ) इत्यादिना ङीपि भागधेयीति रूपम् । ‘ ते देवा बिभ्यतोऽग्निं प्राविशन्, तस्मादाहुरग्निः सर्वा देवता: ' ( तै.सं.१।८1१ ) इति । इन्द्रस्य तु देवाधिपत्वं प्रसिद्धम् । ‘ उत्तरस्यां पूर्ववन्मित्रवरुणयोरिति वा ' ( का.श्रौ. ८।९ ।१ ९ -२० ) । हे वसतीवर्यः, यूयं मित्रावरुणयोर्भागधेयी स्थ भागरूपा भवथ । ' आग्नीध्रे सादयति विश्वेषां भागधेयी स्थेति ' ( श. ३ / ९ / २ / १६ ) । ' विश्वेषां देवानामित्याग्नीध्रे ' ( का.श्रौ. ८।९ ।२१ ) । उत्तरवेदिश्रोणेः सकाशाद् वसतीवरीरादायाग्नीध्रीयस्याग्नेः पश्चान्निदध्यात् । मन्त्रार्थ - हे बसतीवरी जलों, तुमको अविनश्वर घर वाले अग्नि के निकट स्थापित करता हूँ, तुम इन्द्र और अग्नि देवता के भाग हो, तुम सभी देवताओं के भाग हो । जो जल बहुत काल तक रहने के कारण सूर्य की किरणों में अदृश्य रूप में स्थित है, अथवा जिनके साथ सूर्य गमन करता है, वे जल हमारे यज्ञ को तृप्त करें ॥ २४ ॥
भाष्यसार - ' अग्नेर्व: ' इस कण्डिका के मन्त्रों से वसतीवरी जल का स्थापन विविध स्थानों पर किया जाता है । यह याज्ञिक
पृष्ठ 279
पाठ पढ़ें पाठ छिपाएँ
म. २४ ] वेदार्थपारिजातभाष्यसहिता ५५ हे वसतीवर्यः, यूयं सर्वेषां देवानां भागरूपा भवथ । अमूर्या इति ऋग् अब्देवत्या गायत्री । याः प्रसिद्धा अमूरीदृश्यो वसतीवरीरूपा आप उपसूर्ये सूर्यसमीपें स्थिताः, विभक्तिव्यत्ययेन याभिर्वा, वाशब्दः समुच्चये, याभिश्चाद्भिः सह सूर्यो भवति ता आपो नोऽस्माकमध्वरं यज्ञं हिन्वन्तु तर्पयन्तु । सर्वतः परिहरणमुत्तरवेदेश्चापरिहरणं प्रशंसति श्रुतिः - ' गुप्त्यै वा एताः परिह्रियन्ते । अग्निः पुरस्तादथैताः समन्तं पल्यङ्गयन्ते नाष्ट्रा रक्षा स्यपघ्नत्यस्ता आग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थेति तदासु विश्वान् देवान् संवेशयत्येते वै वसतांवरं तस्माद्वसतीवर्यो नाम वसताहि वरं भवति य एवं वेद ' ( श. ३।९ ।२।१६ ) | अपां वज्रत्वेन रक्षोविघातकत्वात् सर्वतः परिहरणेन यज्ञस्य रक्षः सकाशात् सर्वतो गुप्तिर्भवति । साक्षाद्रक्षोद्वेषिणोऽग्नेः पुरस्ताद्वर्तमानत्वान्न तदपेक्षा, पुरस्तात् परिहारापेक्षा नास्ति । पल्यङ्गयन्ते परितोऽङ्गयन्ते ह्रियन्ते । ता आग्नीध्रे उत्तर श्रोणितश्चादाय विश्वेषां देवानामिति मन्त्रेण सादयेत् । ततस्तेन विश्वेषां देवानां संवेशनं तत्र भवति । तत्प्रसङ्गेनैव वसतीवरीशब्दं निर्वक्ति - एते वै वसतां वरम्, तस्याद्वसतीवर्यो नामेति । वसतां क्वचित् क्वचित् स्थानेषु निवसतां मध्ये, एते खलु देवा वरम् एतेषां यासो वरं श्रेष्ठः, वसतां देवानां श्रेष्ठत्वापादकत्वाद् वसतीवर्यो नाम सम्पन्नमासामपाम् । यद्वा एतेष्वेता आपो वसतां विश्वेषां देवानां वरमुत्कृष्टं स्थानमिति वसतीवर्य इति नाम । उक्तार्थज्ञं प्रशंसति - वसतां ह वै वरं भवति । ‘ तानि वा एतानि सप्त यजूषि भवन्ति । चतुर्भिर्गृह्णात्येकेन जघनेन गार्हपत्य सादयत्येकेन परिहरत्येकेनाग्नीध्रे तानि सप्त यत्र वै वाचः प्रजातानि छन्दासि सप्तपदा वै तेषां परार्ध्या शक्कर्येतामभिसम्पदं तस्मात् सप्त यषि भवन्ति ' ( श.३।९ ।२।१७ ) । वसतीवरीग्रहणप्रभृतीनामाग्नीध्रसादनान्तानां मन्त्राणां या सप्त संख्या, तां शक्करीत्वसम्पत्त्या प्रशंसति - तानीति । वाच सकाशाच्छन्दसामुत्पत्तिः सोमाहरणप्रस्तावे ' वागेव सुपर्णी ' इत्युक्त्वा ' तथेति सा छन्दासि ससृजे ' ( श. ३।६।२।२ - ८ ) इत्यत्र प्रतिपादिता । तेषां मध्ये परार्ध्या परार्धे भवा परार्ध्या श्रेष्ठ सप्तपदा शक्करी । परार्ध्यत्वं प्रधानभूतानां सप्तच्छन्दसामुपरि भावित्वात् । एतां संख्याद्वारा शक्करीप्राप्तिलक्षणां सम्पदमभिलक्ष्य सप्त मन्त्रा उक्ता भवन्ति । अध्यात्मपक्षे - हे पराप्रकृतयो जीवात्मानः, अपन्नगृहस्य अविनश्वरगृहस्य अग्नेः सर्वस्य नेतुः परमेश्वरस्य स एव नित्यगृहो भवति, तस्य स्वात्मप्रतिष्ठत्वात्, ' स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि ' इति श्रुतेः । सदसि निकटस्थाने सभायां वा युष्मान् सादयामि । यूयम् इन्द्राग्न्योर्भागधेयी भागधेय्यो भागरूपां भवथ, देवानामुपकारकत्वेन भोग्यत्वात् । मित्रावरुणयोर्भागरूपा भवथ । न केवलमेतेषामेव, किन्तु विश्वेषां समेषां देवानां भागरूपा भवथं । ' देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ' ( भ.गी. ३।११-१२ ) इति गीतोक्तेः । याः प्रसिद्धा अमूरीदृश्यः पराप्रकृतिरूपा उपसूर्ये सूर्यस्य सूर्यमण्डलान्तर्वर्तिनोऽन्तर्यामिणो हिरण्यकेशस्य हिरण्यश्मश्रीर्हिरण्यमयस्य भगवतः समीपे स्थिताः, याभिश्च सह सूर्यः परमेश्वरः स्थितः ' द्वा सुपर्णा विनियोग कात्यायन श्रौतसूत्र ( ८ / ९ / १०-२१ ) में प्रतिपादित है । शतपथ तथा तैत्तिरीय श्रुतियों में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे जीवात्माओं, अविनश्वर गृह वाले, सबके नेता परमेश्वर के निकट अथवा सभा में तुमको बैठता हूँ । तुम लोग इन्द्राग्नी के भागरूप बनो, मित्रावरुणों के भागरूप बनो, समस्त देवताओं के भागरूप बनो । जो इस प्रकार की परा प्रकृतिरूपा हैं, सूर्यमण्डल के अन्तर्वर्ती अन्तर्यामी स्वर्णमय केशश्मश्रु वाले भगवान् के समीप अवस्थित हैं तथा जिनके साथ
पृष्ठ 280
पाठ पढ़ें पाठ छिपाएँ
५६ शुक्लयजुर्वेदसंहिता [ अ. ६ सयुजा सखाया समानं वृक्षं परिषस्वजाते ' ( ऋ.सं. १।१६४ / २० ) इत्यादिश्रुतेः, ता नोऽस्माकं वेदानामध्वरम् अध्वरोपलक्षितकर्मोपासनाज्ञानादिरूपान् प्रतिपाद्यानर्थान् हिन्वन्तु प्रेरयन्तु, सर्वहिताय प्रेरयन्तु प्रोत्साहयन्तु वा । दयानन्दस्तु – ' हे ब्रह्मचारिण्यः, या अमूः स्वयंवरविवाहं कृतवत्यः सन्ति, तद्वद् या यूयमिन्द्राग्न्योर्भागधेयीः स्थ, सूर्यविद्युतोर्गुणानां विभागज्ञानयुक्ता विश्वेषां देवानां भागधेयीः स्थ, ता वो युष्मान् अपन्नगृहस्याग्नेः सदस्यहं सादयामि, सूर्ये सूर्यगुणेषु उपतिष्ठन्ति वा याभिः सह सूर्यो वर्तते ता नोऽस्माकमध्वरं विवाहं कृत्वा हिन्वन्तु प्रीणन्तु ' इति, तदपि यत्किञ्चित्, प्रकृते ब्रह्मचारिणीनां सम्बोधनीयत्वे प्रमाणाभावात् । तथैवेन्द्राग्निशब्दयोस्तद्गुणपरत्वं च भाक्तमेव, न शाक्तम् । न चात्र गौणार्थग्रहणे बीजमुपलभामहे । सायणादिरीत्या शक्त्यैव निर्वाहसम्भवे भक्त्याश्रयणस्यान्याय्यत्वात्ं । ' विश्वेषां देवानां विदुषां पृथिव्यादीनां वा विभागविज्ञानयुक्ताः ' इत्यपि निर्मूलम्,
गौणार्थाश्रयणापत्तेः । सर्वमेतच्छतपथीयश्रुतिव्याख्यानविरुद्धं च ॥ २४ ॥
हृ॒दे त्वा॒ मन॑से॒ त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु होत्रा यच्छ ॥२५ ॥
' तान् सम्प्रबोधयन्ति । ते अप उपस्पृश्याग्नीध्रमुपसमायान्ति त आज्यानि गृह्णते गृहीत्वाज्यान्यायान्ति ' ( श. ३ | ९ | ३ | १ ) इत्यादिना सुत्यादिवसे प्रातः कालीनं सवनीयपश्वर्थप्रयोगमाह । प्रबोधिता ऋत्विजो विहितकर्माण्यनुष्ठायोदकोपस्पर्शनं कृत्वा आज्यानि गृहीत्वा उत्तरवेदिसमीपमायान्ति । प्रयोगश्च सूत्रे - शालाद्वार्ये परिस्तरणपात्रसंसादनप्रोक्षणाज्यनिर्वपणाधिश्रयणस्रुक्संमार्जेद्वासनावेक्षणानि कृत्वाग्नीध्र उत्पूय पश्वाज्यग्रहणम् । आज्यान्यादाय सोमं चार्थवच्चाहवनीय इध्मप्रोक्षणादि करोति । अग्नीषोमीयवत् स्तरणम् । ' अथ राजानमुपाहरति ' ( श. ३ | ९ | ३ | २ ) । अधिषवणचर्मोपरि प्रदेशं प्रति अधो नयेत् । ' अन्तरेणेषे उपावहरति ' ( श. ३।९ ।३।३ ) । इषे आयतौ शकटदण्डौ, यज्ञसादनसोमाश्रयत्वात् । ' यज्ञो वा अनः । तयोरन्तरालादधः सुप्त्वावरोहणेन यज्ञाद्धविर्धानाद् बाह्यं न कृतवान् भवति । ' ग्राव्सु संमुखेष्वधिनिंदधाति ' ( श. ३ | ९ | ३ | ३ ) । ' स उपावहरति हृदे साथ परमेश्वर स्थित हैं, वे हमारे वेदों के प्रतिपाद्य कर्म, उपासना, ज्ञानादिरूप यज्ञ आदि पदार्थों को प्रेरित करें अथवा सबके हित के लिये प्रोत्साहित करें । स्वामी दयानन्द द्वारा निरूपित अर्थ मन्त्र में ब्रह्मचारिणियों को सम्बोधित करने में प्रमाण न रहने के कारण, असंगत है । इसी प्रकार इन्द्र, अग्नि आदि शब्दों को उनके गुण का वाचक मानना भी शब्द - शक्ति से नहीं सिद्ध होता, अपितु गौण है । इस अर्थ के ग्रहण में कोई मूल हमें नहीं उपलब्ध होता । सायण आदि आचार्यों की रीति से शब्द - शक्ति से ही अर्थ की सिद्धि संभव होने पर भक्ति का आश्रय लेना अनुचित है । यह सब शतपथ श्रुति के विरुद्ध भी है || २४ || मन्त्रार्थ - हे सोम, हृदयवान् मनुष्यों के निमित्त, संकल्प - विकल्पात्मक मन के निमित्त, पुलोक की प्राप्ति के निमित्त, सूर्य देवता के निमित्त तुम्हारा उपाहरण करता हूँ । इस यज्ञ को उन्नत करके यज्ञ के वषट्कर्ता सात होताओं को देवलोक में देवताओं के मध्य देवत्व प्रदान करो ॥ २५ ॥
भाप्यसार - ' हृदे त्वा ' इस ऋचा के द्वारा तृतीय सवन के लिये सोमलता को प्रस्तरखण्ड पर रखा जाता है । कात्यायन श्रौतसूत्र