वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 281–290

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 281–290

पृष्ठ 281

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 281 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २५ ] वेदार्थपारिजात भाष्यसहिता ५७ त्वा ' ( श. ३ | ९ | ३ | ४ ) इति । उपावहरणप्रकारमभिधायोपावहरणे मन्त्रमाह - हृदे त्वेति । कात्यायनोऽपि -' आज्यासादनात् कृत्वेषामन्तेरणार्धसोममद्रिषु संमुखेषु निदधाति हृदे त्वेति ' ( का.श्रौ. ९ ।१।५ ) । आज्यासादनान्तं कृत्वा सोममादाय हविर्धाने प्रवेश्य दक्षिणस्य हविर्धानस्य ईषान्तरालेन अर्धाधिकं सोमं तृतीयसवनार्थं महांशुसहितं सम्मुखेष्वभिषवार्थपाषाणेषु चर्मण उपरि स्थापितेषु रथादवतार्य सोमोपनहनवाससा सहैवावशिष्टसोमस्य माध्यन्दिनसवनार्थमीषयोरुपर्येवावशेषणम् । तस्य वस्त्रान्तरेण सन्नहनं कर्तव्यम् | अद्रीणां मुखानि स्थवीयांसि भवन्ति । सौम्यनुष्टप् । -तथा चायं मन्त्रार्थः - हे सोमराजन् त्वा त्वां हृदे हृदयवद्भ्यो मनुष्येभ्यो मनसे मनस्विभ्यः पितृभ्यो दिवे द्युलोकनिवासिभ्यो देवेभ्यो विशेषतः सूर्याय चोपहरामि । एवमुपाहतोऽभिषुतस्त्वमूर्ध्वमुत्कृष्टः सन्नध्वरं मदीयं यज्ञं सम्पाद्य दिवि द्युलोकवासिषु होत्रा वषट्कारवादिनः सप्त होत्रकान् यच्छ निबध्धीहि । यद्वा हे सोम, हृदे निश्चयात्मिकायै एतन्मम स्यादिति कामरूपायै बुद्ध्यै त्वामुपावहरामि । मनसे शुभसङ्कल्पाय दिवे द्युलोकप्राप्तये • सूर्याय सूर्यमुखेभ्यो देवेभ्यस्तृप्तये त्वामुपावहरामि । हृदयादिशब्दानां यथोक्तार्थं तित्तिरिर्दर्शयति – ' ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः साद्यः सोममुपावहरते सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह, मनुष्येभ्य एवैतेन मनसे पितृभ्य एवैतेन करोति, दिवे त्वा सूर्याय त्वेति देवेभ्य एवैतेन करोत्येवं यावतीर्वै देवतास्ताभ्य एवैनं सर्वाभ्य उपावहरति ’ इति । ‘ क्षत्रं वै सोमो विशो ग्रावाणः क्षत्रमेवैतद्विश्यध्यूहति तद्यत् संमुखा.... क्षत्रियमभ्यविवादिनीं करोति तस्मात् संमुखा भवन्ति ' ( श. ३ | ९ | ३ | ३ ) | सोमस्य क्षत्रियत्वाद् ग्राव्णां च बहुत्वात् तच्छेषत्वाच्च विशो रूपत्वम् । मध्ये स्थापनेन यत्सर्वग्रावसांमुख्यं तत्प्रशंसति - क्षत्रियमिति । क्षत्रियजातिमभिलक्ष्याविवादिनीमविवादनशीलां करोति । मन्त्रं व्याचष्टे - ' हदे त्वा मनसे त्वेति यजमानस्यैतत्कामायाह हृदयेन हि मनसा यजमानस्तं कामं कामयते यत्काम्या यजते तस्मादाह हदे त्वा मनसे त्वेति ' ( श. ३ | ९ | ३ | ४ ) । हे सोम, त्वा त्वां हृदे हरति दूरस्थं विषयमिति, विषयाभिमुरत्वं स्वोपहितमात्मानं हरतीति वा हृदयमन्तःकरणम्, तद्विशेषरूपं सङ्कल्पविकल्पात्मकं मनः, यजमानसम्बन्धिनोस्तयोरुभयोर्विषयोऽयं कामः, तस्य लाभार्थमुपावहरामि । कर्मकारकस्य द्विराम्नानादुपावहरामीति द्विरभ्यासः । अतो वाक्यद्वयम्, न व्याख्यानव्याख्येयभावः । ' दिवे त्वा सूर्याय त्वेति । देवलोकाय त्वेत्येवैतदाह यदाह दिवे त्वेति सूर्याय त्वेति देवेभ्यस्त्वेत्येवैतदाहोर्ध्वमिमध्वरं दिवि देवेषु होत्रा यच्छेत्यध्वरो वै यज्ञ ऊर्ध्वमिमं यज्ञं दिवि देवेषु धेहीत्येवैतदाह ' ( श. ३।९ ।३।५ ) । दिवे देवलोकाय त्वा सूर्याय त्वेत्येतद्रश्मिभूतानां देवानामुपलक्षणम् हे सोम, ऊर्ध्वमुपरि तायमानत्वेनोन्नतमिमं सोमयागं दिवि द्युलोके देवेषु यच्छ होत्रा होत्रकाश्च देवेषु गच्छन्तु । अध्यात्मपक्षे - हे परमेश्वर त्वा त्वामाश्रयामः । किमर्थम्? हृदे बुद्ध्यै त्वद्विषयकाध्यवसानाय, मनसे त्वद्विषयकसततसङ्कल्पाय, दिवे दिवे द्योतनात्मकाय स्वप्रकाशाय तादृशत्वत्स्वरूपप्राप्तये, सूर्याय हिरण्मयाय मण्डलान्तर्गतपरब्रह्मपुरुषाय तत्प्राप्तये त्वामाश्रयामः 1 त्वत्कृपयैव तत्प्राप्तिसम्भवात् । इममुपासनालक्षणमध्वरं यज्ञम् ऊर्ध्वम् उत्कृष्टं कृत्वा दिवि देवेषु द्युलोके वर्तमानेषु देवेषु ये होत्राः सर्वस्वात्मसमर्पकास्तान् यच्छ उपरमय । संसाराद् ( ९1१1३-४ ) में यह याज्ञिक विनियोग प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्या उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे परमेश्वर, हम आपका आश्रय ग्रहण करते हैं । आपके विषय में अध्यवसायात्मिका बुद्धि के लिये, सतत संकल्प के लिये तथा द्योतनात्मक स्वप्रकाश के लिये, इस प्रकार के आपके स्वरूप की प्राप्ति के लिये, हिरण्मय

पृष्ठ 282

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 282 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ शुक्लयजुर्वेदसंहिता [ अ. ६ व्युत्थाप्य सर्वथा स्वस्मिन् योजय । ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो. १।२।१५ ) इति श्रुतिप्रामाण्यात् सर्वेषामपि वेदानां ब्रह्मप्रतिपादकत्वम् । दयानन्दस्तु – ‘ हे ब्रह्मचारिणि कन्ये, त्वं यथा वयं सर्वा देवेषु स्वपतिषु समीपवर्तिन्यो होत्रा हवनकर्मानुष्ठात्र्यः स्म, तथा भव । यथा वयं हृदे हृत्सुखाय मनसे सदसन्मननाय दिवे सर्वसुखद्योतनाय सूर्याय सूर्यगुणाय अशिशिष्म, तथा दिवीममध्वरम् ऊर्ध्वम् उत्कृष्टं यच्छ ' इति, तदपि यत्किञ्चित्, यथातथादिपदानां मूलेऽभावात् । यत्तु कन्यानां सम्बोधनम्, ' देवेषु ' इत्यस्य ' स्वपतिषु समीपवर्तिन्यः ' इत्यादिव्याख्यानम्, तत्सर्वं निर्मूलम् । ' हृदे ' इत्यस्य हृत्सुखाय, ' मनसे ' इत्यस्य सदसन्मननाय दिवे सुखद्योतनाय, सूर्याय सूर्यगुणायेत्यादिकमपि गौणार्थाश्रयणं निर्बीजमेव । अशिशिष्मेत्यध्याहारोऽपि निर्मूल एव । न च दानार्थकस्य दीव्यतेः सुखदायकपत्यर्थकरणं नासङ्गतमिति वाच्यम्, इतरधनादिदानस्यापि सुखदातुर्मात्रादेरपि सम्भवेन तादृशार्थे विनिगमनाविरहात् || २५ || सोमं राजन् विश्वा॒स्त्वं प्र॒जा उपाव॑रोह॒ विश्वा॒स्त्वा॑ प्र॒जा उ॒पाव॑रो॒हन्तु॒ । 0 शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः । श्रोता॑ ग्रावाणो वि॒दुष न य॒ज्ञं शृणोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥२६ ॥

‘ अथानुसृज्योपतिष्ठते ’ ( श.३।९ ।३।७ ) । ‘ विश्वास्त्वामिति विसृज्योपतिष्ठते ' ( का.श्रौ. ९ ।१।६ ) । यजमानो ग्रावसु स्थापितात् सोमात् स्वहस्तं निष्कृष्य सोममुपतिष्ठतु । विसर्गस्यालम्भपूर्वकत्वाद् आलम्भस्य च याजमानत्वाद् याजमानमिदमुपस्थानम् । हे सोमराजन् त्वां विश्वाः सर्वाः प्रजा उपावरोहन्तु त्वं प्रजानामाधिपत्यं कुर्वित्यर्थः । हे सोम, विश्वाः सर्वाः प्रजास्त्वामुपावरोहन्तु प्रत्युत्थानादिभिः प्राप्नुवन्तु । ' अभूदुषा रुशत्पशुरित्युच्यमाने चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति ' ( का.श्रौ. ९ | ३ | १ ) । प्रातरनुवाकस्य अन्तिमा ऋग् अभूदुषेति । मण्डल के अन्तर्वर्ती परब्रह्म पुरुष की प्राप्ति के लिये आपकी शरण लेते हैं, क्योंकि आपकी कृपा से ही उसकी प्राप्ति सम्भव है । उठा इस उपासनात्मक यज्ञ को उत्कृष्ट बना कर द्युलोक में विद्यमान देवों में जो सर्वस्वात्मसमर्पणकर्ता हैं, उसको रखें । संसार से कर अपने में संयुक्त करें । स्वामी दयानन्द द्वारा निरूपित अर्थ अग्राह्य है । कन्याओं का संबोधन, ' देवेषु ' का अर्थ ' अपने पतियों के समीपवर्ती ' इत्यादि व्याख्या करना अप्रामाणिक है । ' अशिशिष्म ' इस शब्द का अध्याहार करना भी निर्मूल है । दानार्थक ' दिवु ' धातु का सुखदायक पति से अर्थ बैठाना असंगत नहीं है, यह नहीं कहा जा सकता, क्योंकि अन्य धनादि का दान सुखदात्री माता आदि से भी संभव है । अतः उपर्युक्त अर्थ में कोई निश्चित युक्ति नहीं है ॥ २५ ॥

मन्त्रार्थ - हे राजा सोम, तुम इन सम्पूर्ण ऋत्विग्गणों को अपनी प्रजा जान कर इन पर कृपा करो । हे सोम, यह सम्पूर्ण प्रजा तुमको प्रणाम करती है । अग्निदेवता सुविधापूर्वक मेरी इस आहुति से मेरे बुलावे को सुनें । हे ग्रावासमूह, अभिषव के निमित्त प्राप्त हुए तुम विद्वानों की तरह एकाग्रचित्त हो मेरे यज्ञ के बुलावे को सब तरह से सुनो । सबका प्रेरक

परमात्मा मेरे बुलावे को सुने । यह आहुति भली प्रकार गृहीत हो ॥ २६ ॥

भाष्यसार - ' सोम राजन् ' इत्यादि कण्डिका के मन्त्रों से सोम का उपस्थान तथा घृत का हवन किया जाता है । कात्यायन

पृष्ठ 283

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 283 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २६ ] वेदार्थपारिजातभाष्यसहिता ५ ९ तस्मिन् मन्त्रे होत्रा पठ्यमानेऽध्वर्युश्चतुर्गृहीतमाज्यं गृहीत्वा प्रचरण्या स्रुचा जुहुयात् । त्रिष्टुप् लिङ्गोक्तादेवता अग्निः । समिधा समित्पूर्विकयाऽऽहुत्या मे हवं मदीयमाह्वानं शृणोतु । आपश्च मदीयमाह्वानं शृण्वन्तु । कीदृश्यः? धिषणा विद्योपेताः, देवीः देव्यो देवतारूपाश्च । विदुषो नेत्युपमार्थः । विदुष इति विभक्तिव्यत्ययः । तथा च विद्वांसः प्रत्यक्षतो जानन्त इव । हे ग्रावाणः, अभिषवार्थमिहोपस्थिता यूयं मदीयं यज्ञं श्रोता शृणुत । तथा सविता देवो मदीयमाह्वानं शृणोतु । यद्वा धिषणाश्च वाचः, धीसादिन्यो धियं सन्वन्ति ददतीति धिषणाः । ' षणु दाने ' धीमानिन्यो वा ( निरु. ८१४ ) । देवीः देव्यः श्रोता ग्रावाणी यूयमपि शृणुत । स्वाहा सुहुतमस्तु, स्वाहा वागाति वा । अत्र शतपथश्रुतिः - ' विश्वास्त्वां प्रजा उपावरोहन्त्वित्ययथायथमिव वा एतत्करोति यदाह विश्वास्त्वां प्रजा उपावरोहेति क्षत्रं वै सोमस्तत्पापवस्यसं करोति.... यथापूर्वं यदाह विश्वास्त्वां प्रजा उपावरोहन्त्विति तदेनमाभिः प्रजाभिः प्रत्यवरोहयति तस्मात् क्षत्रियमायान्तमिमाः प्रजा विशः प्रत्यवरोहन्ति तमधस्तादुपासक उपसन्नो होता * प्रातरनुवाकमनुवक्ष्यन् भवति ' ( श.३।९ ।३।७ ) । उपावरोहणे यो विश्वास्त्वामिति मन्त्रशेषः । तत्र विश्वाः प्रजा उद्दिश्य तुच्छजनवत् परिचारकपुरुषनिष्पादितावरोहणमन्तरेण स्वत एवावरोहणस्य प्रजाः प्रति सोमस्यापसर्जनलक्षणस्य च प्रतीतिः । तस्याश्च क्षत्रियभूतस्य सोमस्यानुचितत्वाद् विश्वास्त्वामित्यभिधानेन अयथायथं यथास्वरूपस्य यदुचितं तस्य तद्वैपरीत्यं कृतं भवति, तच्च पापवस्यसं पापं च वसीयश्च पापवस्यसं साध्वसाधुमिश्रणम् । तन्मूलत्वेनेदानीमपि जनैः पापवस्यसं क्रियते । अत उक्तवैलक्षण्येनोपस्थानमन्त्रे विश्वास्त्वामित्यभिधानाद् विश्वाभिः प्रजाभिः सोमोपावरोहणस्य कृतत्वादवतरन्तं प्रति विश्वासां प्रजानां स्वस्वस्थानादवतरणस्योक्तत्वाद्वा नोक्तदोषावकाशः । पूर्वस्मिन् यथा अवरोहन्तु, अवरोहयन्त्वित्यर्थः । तस्मात् त्वामवरोहन्त्विति विधानाद् हेतो राजानं प्रति प्रजानामुपक्षीणत्वसम्पादनादिदानीमपि सम्पादयन्तमवरोहन्तं क्षत्रियं सर्वाः प्रजाः परिवाररूपा अवरोहन्ति । यद्वा आयान्तं प्रति सर्वाः प्रजाः स्वस्वस्थानाद् अवरोहन्ति । तदनन्तरं राजानमुपरि कृत्वा अधस्तादुपासते प्रजाः । यद्वा पृथगेवेदं वाक्यम् । तं तीर्णमधस्तादुपासत ऋत्विजोऽध्वर्युप्रमुखाः । ' स जुहोति । शृणोत्वः समिधा हवं म इति शृणोतु म इदमग्निरनु मे जानात्वित्येवैतदाह शृण्वन्त्वापो धिषणाश्च देवीरिति शृण्वन्तु म इदमापोऽनु मे जानात्वित्येवैतदाह श्रोता ग्रावाणो विदुषो न यज्ञमिति शृण्वन्तु म इदं ग्रावाणोऽनु मे जानन्त्वित्येवैतदाह विदुषो न यज्ञमिति विद्वावसो हि ग्रावाणः शृणोतु देवः सविता हवं मे स्वाहेति.... सवितृ-प्रसूत एवैतद्यज्ञस्य रसमच्छैति ' ( श. ३ | ९ | ३ | १४ ) । इमं मन्त्रं विच्छिद्यानूद्य व्याचष्टे - अग्निराप:, धिषणा वाचः, देवीः देव्यः, विदुषो न यज्ञं विद्वांस इव हवं यज्ञमिमं शृण्वन्तु - इति सङ्ग्रहार्थः । सर्वत्र शृणोतु शृण्वन्तु, अनुजानातु अनुजानन्तु इति चार्थपरतया व्याख्यातव्याः । विदुष इति ग्रावविशेषणतया व्याचष्टे - विद्वांसो हि ग्रावाण इति । प्रथमाबहुवचने छान्दसं द्वितीयाबहुवचनम् । अध्यात्मपक्षे - हे सोम, उमया सहितो देवः सोमस्तत्संबुद्धौ हे सोम हे राजन्, सर्वत आधिक्येन राजमान, त्वं विश्वाः समस्ताः प्रजा उपावरोह अधितिष्ठस्व । आधिपत्यं कृत्वा पालयस्व, स्वानुग्रहाद् श्रौतसूत्र ( ९ ।११६, ९ ।३।१ ) में यह याज्ञिक विनियोग उल्लिखित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- हे उमासहित सर्वाधिक विद्योतमान देव, आप समस्त प्रजाओं का आधिपत्यपूर्वक पालन

पृष्ठ 284

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 284 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० शुक्लयजुर्वेदसंहिता [ अ. ६ अभ्युदयनिःश्रेयससम्पादनसौविध्यसौकर्यादिकं सम्पादय । विश्वाः प्रजाश्च त्वामुपावरोहन्तु प्रत्युत्थानाभिवादनादिभिस्त्वां प्राप्नुवन्तु | अग्निः परमेश्वरः समिधा समित्पूर्वकयाहुत्या प्रसन्नः सन् हवं मदीयाह्वानं शृणोतु । होमदानादिभिः प्रसन्नो भगवान् भक्तानामाह्वानं शृणोति । तत एव त्वरया भक्तकार्यं सम्पादयति । तदुक्तमभियुक्तैः - ' या त्वरा द्रौपदीत्राणे या त्वरा गजमोक्षणे । मय्यार्तेकरुणामूर्ते सा त्वरा क्व गता हरे ॥ ' इति । आप आप्नुवन्तीत्यापः, धिषणा विज्ञानाधिष्ठात्र्यो देवीर् देव्यो भगवती उमा तद्गुणशक्तयो दशमहाविद्यारूपा मम हवमाह्वानं शृण्वन्तु । हे ग्रावाणः, द्वादशज्योतिर्लिङ्गरूपा ग्रावाणो लौकिकदृष्ट्या पाषाणवद् भासमानाः, विदुषो न विद्वांस इव यथा विद्वांसः प्रत्यक्षतो जानन्तो यज्ञं शृण्वन्ति, तथा श्रोता शृणुत ( श्रोत इत्यत्र संहितायां दीर्घः ) मे हवमाह्वानम्, तथा सविता सर्वोत्पत्तिस्थितिलयहेतुर्देवो शक्रीडापरायणो मे मम हवं शृणोतु । स्वाहा तुभ्यं मदीयं सर्वस्वं सुहुतमस्तु । दयानन्दस्तु - ' हे सोम राजन् त्वं पितेव विश्वाः प्रजा उपावरोह समीपवर्ती भूत्वा रक्ष । त्वां विश्वाः प्रजा अपत्यानीवोपावरोहन्तु आश्रयन्तु । हे सभाध्यक्ष, भवान् समिधाग्निरिव मे मम प्रजाजनस्य हवं प्रगल्भवाणीं शृणोतु । श्रुत्वा प्रदीप्तो भव । आपो धिषणा देवीर् देव्यः पल्यश्च मातरमिव स्त्रीन्यायं शृण्वन्तु । हे ग्रावाणः स्तावका विद्वांसः • सभासदः, यूयं मम हवं श्रोत । देवः सविता भवान् विदुषो यज्ञं न इव मम हवं स्वाहा शृणोतु ' इत्यादिकम्, तदपि यत्किञ्चित् प्रकृते लुप्तोपमालङ्कारसत्त्वे प्रमाणाभावात्, यास्कजैमिनिव्यासकात्यायनादिभिः कैश्चिदपि महर्षिभिस्तथाऽव्याख्यानात् उपावपूर्वकस्य रोहते रक्षणार्थकताया अप्रामाणिकत्वात् । शृणोत्वित्यस्यास्माकं प्रगल्भवाणीं श्रुत्वा न्यायेन प्रकाशितो भवेत्यर्थोऽपि निर्मूलः । तथैव ' आपो गुणेषु व्याप्ताः ' इति कस्य विशेषणम्? धिषणानां पत्नीनां वा? नाद्यः, धिषणानां गुणात्मकतया गुणे गुणानङ्गीकारात् । नाप्यन्त्यः पक्षः क्षोदक्षमः, द्रव्यरूपाणां पत्नीनामपि गुणेषु व्याप्त्यसम्भवात् । ' पल्यः ' इत्यर्थोऽपि निर्मूलः, मूले पत्नीशब्दाभावात् । ‘ ग्रावाणः सदसद्विवेचका विद्वांसः ' इत्यर्थोऽपि निर्मूलः, ' ग्रावाणः ' इत्यस्य निघण्टौ ( ५/३ इत्यत्र ) पदनामसु पठितत्वेऽपि सदसद्विवेचकरूपार्थस्याप्रामाणिकत्वात् ॥ २६ ॥

करें । अपनी कृपा से अभ्युदय एवं निःश्रेयस का सम्पादन, सौविध्य आदि करें । समस्त प्रजाएं समादर नमन आदि के द्वारा आपको प्राप्त करें । परमेश्वर समिधा आदि की आहुति से प्रसन्न होकर मेरा आह्वान सुनें । व्याप्त करने वाली विज्ञानाधिष्ठात्री देवी भगवती उमा तथा दश महाविद्यारूपी उनकी गुणशक्तियाँ मेरा आह्वान सुनें । हे द्वादश ज्योतिलिंगरूपी लौकिक दृष्टि से पाषाणमूर्ति की भाँति प्रतीत होने वाले शिवधिग्रह, आप जिस प्रकार विद्वान् लोग प्रत्यक्ष समझते हुए यज्ञ का श्रवण करते हैं, उसी प्रकार मेरा आह्वान सुनें । सबकी उत्पत्ति, स्थिति, संहृति का विधाता जगक्रीडा में निरत देव भी मेरा आह्वान सुने । आपके लिये मेरा सर्वस्व समर्पित हो । स्वामी दयानन्द द्वारा निरूपित अर्थ मन्त्र में लुप्तोपमा अलंकार के होने में कोई प्रमाण न रहने के कारण अग्राह्य है । यास्क, जैमिनि, व्यास, कात्यायन आदि किन्हीं भी ऋषियों ने इस प्रकार का अर्थ नहीं किया है । उप तथा अव उपसर्गपूर्वक रुह धातु का ' रक्षण ' अर्थ करने में भी कोई प्रमाण नहीं है । ' ग्रावाणः ' शब्द का ' सदसत् का विवेचन करने वाले विद्वान् ' अर्थ करना भी निर्मूल है || २६ ||

पृष्ठ 285

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 285 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २७ ] वेदार्थपारिजातभाष्यसहिता ६१

देवी॑रापो अपा॑नपा॒द्यो व॑ ऊ॒र्मिर्हवि॒ष्य॒ इन्द्रि॒यावा॑न् म॒दिन्त॑मः ।

तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्रपेभ्यो॒ येषा॑ भा॒ग स्थ स्वाहा ॥२७ ॥

' अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । उदङ् प्रयन्नाहाप इष्य होतरित्यप इच्छ.... ' ( श.३।९ ।३।१५ ) । ' अपरं गृहीत्वोदङ् गच्छन्नाहाप इष्य होतरिति ' ( का.श्रौ. ९ ३ २ ) । अपरं चतुर्गृहीतं गृहीत्वा उदङ्मुखं गच्छन् अप इष्य होतः ( अपः प्रति गच्छ ) इति होतारं प्रत्यध्वर्युर्ब्रूयात् । ' अथ सम्प्रेष्यति । मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति सम्प्रैषु एवैषः ' ( श.३।९ ।३।१६ ) । ' त उदञ्चो निष्क्रामन्ति । जघनेन चात्वालमग्रेणाग्नीध्र स यस्यां ततो दिश्यापो भवन्ति तद्यन्ति ते वै सह पत्नीभिर्यन्ति तद्यत् सह पत्नीभिर्यन्ति ' ( श. ३ | ९ | ३ | १७ ) | हे नेष्टः, त्वं पत्नीः पान्नेजनोदकाहरणाय उदानय । एकधना उदकानि तेषां धारकाः कुम्भा वा उपतिष्ठेति निर्दिष्टाः । गमनसमये पत्नीसाहित्यं विधाय तदाख्यानमुखेन प्रशंसा – ‘ यत्र वैः ' ( श.३ | ९ | ३ | १८ ) इत्यादिना । पुरा किल देवैर्यज्ञशिरश्छेदाद्गतो रसः पलाय्याप्सु निविष्टः । तं रसं गन्धर्वाः सोमपालका ररक्षुः । ते देवा ऊचुरिमे गन्धर्वा नाष्ट्राः । कथमनाष्ट्रे देशे रसमाहरेत्येवं विचार्य गन्धर्वा योषिप्रियास्तद्वयं पत्नीभिः सहिता गच्छामः । गन्धर्वाः पत्नीषु काङ्क्षन्ति, तस्मिन् समये वयमनाष्ट्रेऽभये यज्ञस्य रसमाहरिष्यामः । ते सह पत्नीभिर्गताः । ते च तथैव तास्वाकाङ्क्षां कृतवन्तः । तस्मिन् समये ते रसमाजहुः । तथैवेदानीमपि कर्तव्यम् । ते पत्नीष्वेव गन्धर्वा गृध्यन्ति । अथैनमभयेऽनाष्ट्रे यज्ञस्य रसमाहरन्ति । ' प्रेष्यति च मैत्रावरुणस्य चमसाध्वर्यवे हि नेष्टः पत्नीरुदानयैकधनिन एता अग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठास होतृचमसेन चेति ' ( का.श्रौ. ९ ।३।३ ) । अध्वर्युरुदङ् गच्छन्नेव मैत्रावरुणस्य चमसाध्वर्यवे हि इति चमसाध्वर्युनेष्टुः पत्नीरुदानय इति नेष्टारं एकधनिन एत इति निर्व्यापारानृत्विजोऽग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन इत्यग्नीध्रं प्रेष्येत । ' अपो गत्वा देवीराप इत्यप्सु जुहोति ' ( का.श्रौ. ९ ।३।४ ) । यच्चतुर्गृहीतं सह आनीतं तदपः प्रति गत्वा देवीराप इत्युदकमध्ये जुहुयात् । अब्देवत्या पङ्किः । पञ्चपदा चत्वारिंशद्वर्णा पङ्क्तिर्भवति । द्वितीयः सप्ताक्षरः । तुर्यपञ्चमौ नवार्णौ । तेनैकाधिका स्वाहेति । हे आपो देवीः देव्यः, वो युष्माकम् अपान्नपाद् अपत्यरूप ऊर्मिर्देवत्रा देवान् प्रति स्थितोऽप्सङ्घातः कृत्स्नो रसः । तमूर्मिं देवेभ्यो देवार्थं दत्त प्रयच्छत । कीदृश ऊर्मिः? हविष्यः । हविषे सोमरूपाय हितो यज्ञियः, इन्द्रियावान् इन्द्रियं वीर्यमस्यास्तीति इन्द्रियावान् । दीर्घ आर्षः । पीतः सन्निन्द्रियवृद्धिकारी । मदिन्तमः अतिशयेन मदयतीति मदिन्तमः पीयमानोऽत्यन्तहर्षकारी हर्षयितृतमः । ‘ नाद्धस्य ' ( पा. सू. ८।२।१७ ) तमपि नुमागमः । हे आपः, यूयमेषां देवानां भाग स्थ भागधेया भवथः । मन्त्रार्थ - हे जलदेवता, तुम्हारे जल की अपत्यरूप ये लहरियां हवियोग्य, वीर्यवान् और तृप्त करने वाली हैं । देवताओं के प्रति जाने वाली ऊर्मियों को सोमग्रह पीने वाले शुक्र आदि देवताओं को प्रदान करो । जिन देवताओं के तुम भाग हो,

उन सबके निमित्त तुम्हें हवि देता हूँ । यह आहुति भली प्रकार गृहीत हो ॥२७ ॥

भाष्यसार – ‘ देवीरापः ’ इस ऋचा से अध्वर्यु प्रैषपूर्वक जल के समीप जाकर आज्य की आहुति जल में प्रदान करता है । कात्यायन श्रौतसूत्र ( ९।३।२-४ ) में यह याज्ञिक प्रक्रिया प्रतिपादित । शतपथ ब्राह्मण में भी तदनुकूल अर्थ उपदिष्ट है ।

पृष्ठ 286

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 286 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ शुक्लयजुर्वेदसंहिता [ अ. अ. ६ शुक्रपेभ्यः शुक्रं दीप्तं सोमरसं पिबन्तीति शुक्रपास्तेभ्यो देवेभ्यः स्वाहा इदमाज्यं युष्मभ्यं हुतमस्तु । यद्वा शुक्रादीन् सोमग्रहान् पिबन्तीति शुक्रपास्तेभ्यः । शुक्रादिसोमग्रहपातृभ्यो देवेभ्यो येषां च यूयं भागः स्थ तेभ्यो दत्तेति सम्बन्धः । ग्रहीष्यमाणानामपां मूल्यत्वेनेयमाहुतिरिति तित्तिरिः - ' देवीरापो अपांनपादित्याहाहुत्या वै निष्क्रीय गृह्णातीति । शतपथे च - ' सोऽपोऽभिजुहोति । एता ह वा आहुति हुतामेष यज्ञस्य रसमैति तां प्रत्युत्तिष्ठति तमेवैतदाविष्कृत्य गृह्णाति ' ( श.३ ९ ३ २३ ) । प्रचरणीगृहीतस्याज्यस्याप्सु होमं विधाय प्रशंसति - सोऽप इति । हुतामाहुतिमनुसृत्य एष अनुप्रविष्टो यज्ञरसोऽभिमुखं सम्प्राप्नोति । तमेव रसमेतद्धोमेनाविष्कृत्य गृहीतवान् भवति । ' यद्धैवैतामाहुतिं जुहोति । एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्धे तमपो याचति याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतस्त्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रस सन्नमन्ति ' ( श. ३ | ९ | ३।२४ ) । प्रकारान्तरेण स्तौति - यद्धैवैतामाहुतिमिति । किञ्च तमपेक्षितं यज्ञरसमप उदकानि याचति । उ अपि च याभ्यो देवताभ्य एतामाहुतिं जुहोति, ता एव एतद् एतेन प्रीणाति । तृप्ताः प्रीतास्ता अस्मै यजमानाय एतं यज्ञरसं सन्नमयन्ति यजमानाधीनं कुर्वन्ति । ' स जुहोति देवीरापो अपान्नपादिति देव्यो ह्यापस्तस्मादाह देवीरापो अपान्नपादिति यो व ऊर्मिर्हविष्य इति यो व ऊर्मिर्यज्ञिय इत्येवैतदाहेन्द्रियावान् मदिन्तम इति वीर्यवानित्येवैतदाह यदाहेन्द्रियावानिति मदिन्तम इति स्वादिष्ठ इत्येवैतदाह तं देवेभ्यो देवत्रा दत्तेत्येतदेना अयाचिष्ट यदाह तं देवेभ्यो देवत्रा दत्तेति शुक्रपेभ्य इति सत्यं वै शुक्र सत्यपेभ्य इत्येवैतदाह येषां भागः स्थ स्वाहेति तेषामु ह्येष भागः ' ( श. ३ ९ ३ २५ ) । मन्त्रं विधाय विच्छिद्य व्याचष्टे - देव्यो ह्याप इति । हविष्य इति पदं व्याचष्टे - यज्ञिय इति । हविः शब्देन तत्साध्यो यज्ञो लभ्यते, द्रव्यदेवतयोर्हि यज्ञस्वरूपत्वात् । इन्द्रियशब्दस्य वीर्यमर्थ इत्याह- वीर्यवानित्येवैतदाहेति । मदिन्तमशब्दस्यार्थमाह – स्वादिष्ठ इति, यत्स्वदन्तमुन्मादयतीति व्याप्तिदर्शनात् । तं देवेभ्य इति भागस्य प्रार्थनायां तात्पर्यम् । एतेन अयाचिष्ट यदाहृतं देवेभ्यो देवत्रा दत्तेति । एतद् एतेन मन्त्रभागेन एना अपः, अयांचिष्ट देवतार्थं याचितवान् भवति । शुक्रपेभ्य इत्यस्य तात्पर्यमाह - सत्यं वै शुक्रमिति । सत्यपेभ्य इत्याहेति । शुक्रं दीप्तं रसाख्यं वस्तु तत्सत्यम् | सोमोद्धारेण सत्यस्यामृतत्वधर्मस्य साधनत्वात् सत्यमित्युच्यते । तादृशस्य पातृभ्य इत्येवैतत् शुक्रपेभ्य इति वाक्यमाहेत्यर्थः । येषां भागः स्थ एषाम् अपां शुक्ररसरूपो भागः, तेषामु तेषां शुक्रपानां देवानां भागः प्रतिनियतांशः । तथा च हे देवीर् देव्य आपः, हे अपान्नपात् ' न पातयतीति तत् ' ( निरु. १०।२ ) । योऽयं वो युष्माकं सम्बन्धी ऊर्मिः कल्लोलः प्रवृद्धो हविष्यो यज्ञिये रस इन्द्रियावान् वीर्यवान् मदन्तमो मादयितृतमः स्वादिष्ठस्तं रसं देवत्रा देवेषु मध्ये, ' देवमनुष्येभ्यः ' ( पा. सू. ५/६ | ५६ ) इति सप्तम्यर्थे प्रत्ययः, देवेषु मध्ये शुक्रपेभ्यो दीप्तरसाख्यं पातृभ्यो देवेभ्यो दत्त प्रयच्छतेति । हे आपः, यूयं येषां देवानां भागः स्थ भवथ, तदर्थं स्वाहा इदं द्रव्यं स्वाहुतमस्त्विति श्रुत्यनुसारी मन्त्रार्थः । अध्यात्मपक्षे - हे देवीर् देव्य आपो व्यापनशीलाः, वो युष्माकमपान्नपाद् अपत्यरूपो योऽयमूर्मिः कल्लोलसदृशो भोगमोक्षप्राप्तिसामर्थ्यरूपो देवेभ्यो देवभाववद्भ्यः साधकेभ्यस्तं दत्त प्रयच्छत । ' देवो भूत्वा यजेद् देवान् ' इति रीत्या ये वैदिकैस्तान्त्रिकैश्च संस्कारैः संस्कृताः सन्तः परमात्मानमुपासते, तेभ्यो यथायोग्यं अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- हे व्यापनशील देवियों, आप लोगों का जो पुत्ररूपी भोगमोक्षप्राप्ति का सामर्थ्यात्मक यह कल्लोल है, उसे देवभाव से युक्त साधकों को प्रदान करें । देवो भूत्वा यजेद् देवान् ' इस सिद्धान्त के अनुसार जो वैदिक तथा

पृष्ठ 287

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 287 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २७-२८ ] वेदार्थपारिजातभाष्यसहिता ६३ भोगमोक्षप्राप्तिसामर्थ्यं देव्यो भगवतः पालन्यादिशक्तिरूपा देव्यः प्रयच्छन्ति, बुद्धिलक्ष्मीकान्तिशान्त्यादिरूपेण तासामेवाविर्भावात् । कीदृश ऊर्मिः? हविष्यः । धर्मोपासनादियोग्येभ्यो हविर्भ्यो हितः । इन्द्रियावान् लौकिकवैदिकदिव्यवीर्योपतः । मदिन्तमः भोगमोक्षप्रदातृत्वेन प्रहर्षयितृतमः । कीदृशेभ्यो देवेभ्यः? देवत्रा देवेषु मध्ये शुक्रपेभ्यः सत्यशमदमादिदीप्तरसपातृभ्यः । येषां देवानां यूयं भागः, वचनव्यत्ययः, भागरूपा भजनीयरूपाः स्थ भवत, ताभ्यो युष्मभ्यं स्वाहा विविधसमर्चनं समर्पितमस्तु । दयानन्दस्तु– ‘ हे आपो आप्ताः प्रजाः, देवीर्देव्यः प्रजाः, यूयं राजभक्ताः स्थ भवत | शुक्रपेभ्यो देवेभ्यो येषां वो युष्माकं योऽपांनपादविनश्वर ऊर्मिरिन्द्रियावान् मदिन्तमो हविष्यो भागोऽस्ति, तं स्वाहा सद्वाचा गृह्णीत । यथा राजादयः सभ्या जना देवत्रा दिव्यान् भोगान् युष्मभ्यं प्रददति, तथैतेभ्यो यूयमपि मत्त ' इति, एवं हिन्द्यामपि – ' हे श्रेष्ठगुणेषु व्याप्ताः शुभकर्मभिः प्रकाशमानाः प्रजाजनाः, यूयं राजभक्ताः शुक्रपेभ्यः शरीराणामात्मनां च पराक्रमस्य रक्षकेभ्यो देवेभ्यो विद्वद्भ्यः येषां वो युष्माकं योऽपांनपाद् जलस्य नाशरहितः स्वाभाविक ऊर्मिर्जलतरङ्गसदृशः प्रजारक्षकः, यत्र प्रशस्तानीन्द्रियाणि भवन्ति, यश्चानन्दप्रदो हविष्यो भोगयोग्यपदार्थेभ्यो निष्पन्नो वलिभागः, यूयं तं स्वाहा आदरेण गृह्णीत । यथा राजादयः सभ्या दिव्यान् भोगान् प्रददति, तथैव यूयमेभ्यो दत्त ' इति, तत्सर्वमसाधु, स्वेच्छामूलकत्वात्, निर्मूलत्वात् श्रुतिविरोधाच्च । आप्तत्त्वाद् यथा आपो गृह्यन्ते, तथैवाकाशादयः कुतो न गृह्यन्ते? राजभक्ता इति कस्य पदस्यार्थः? न च भागपदस्य सोऽर्थः, मानाभावात्, त्वयैव तस्य वलिरूप इति व्याख्यानाच्च । शस्तेन्द्रियवत्त्वं च प्रमाणापेक्षमेव । राजादीनां दिव्यभोगदातृत्वमपि साध्यमेव, नित्यसिद्धत्वे पुरुषार्थवैयर्थ्यापातात् । शतपथे तु पदार्था विशदं व्याख्याताः पूर्वं प्रदर्शिता एव || २७ || काषि॑रसि समु॒द्रस्य॒ त्वाक्षि॑त्या॒ उन्न॑यामि ॥ समापों अद्भिरंग्मत समोष॑धीभि॒रोष॑धीः ॥ २८ ॥

तान्त्रिक संस्कारों से संस्कृत होकर परमात्मा की उपासना करते हैं, उनको यथायोग्य भोग, मोक्ष आदि की प्राप्ति का सामर्थ्य भगवान् की पालन आदि शक्तिरूपिणी देवियाँ प्रदान करती हैं, क्योंकि बुद्धि, लक्ष्मी, कान्ति, शान्ति आदि रूपों से उन्हीं का आविर्भाव होता है । यह कल्लोल धर्म, उपासना आदि के योग्य जनों का हितकर है, लौकिक तथा वैदिक शक्ति से सम्पन्न है, भोग तथा मोक्ष प्रदान करने के कारण अत्यन्त आनन्दप्रद है । देवताओं के मध्य सत्य, शम, दम आदि दीप्तिमान् रसों का पान करने वाले तथा जिन देवताओं के आप सेवनीय होते हैं, उन आप लोगों के लिये विविध अर्चना समर्पित हो । स्वामी दयानन्द द्वारा उल्लिखित संस्कृत तथा हिन्दी अर्थ स्वेच्छामूलक, प्रमाणरहित तथा श्रुति से विरुद्ध होने के कारण असमीचीन हैं । आप्तत्व के कारण जैसे जल का ग्रहण किया जाता है, उसी प्रकार आकाश आदि का ग्रहण क्यों नहीं किया जा सकता! ' राजभक्त ' किस शब्द का अर्थ किया गया है? भाग शब्द का वह अर्थ प्रमाण न रहने के कारण नहीं हो सकता | हिन्दी अर्थ में उसीका अर्थ ' बलिरूप ' किया गया है । राजा आदि का दिव्य भोगप्रदाता होना साध्य ही है । नित्यसिद्ध होने पर तो पुरुषार्थ की व्यर्थता हो जायगी || २७ || मन्त्रार्थ - हे घृत, तुम देवोच्छिष्ट पाप को दूर करने वाले हो । हे जलदेवता, बसतीवरी लक्षण वाले सागररूप जल की अक्षीणता के लिये तुम्हारा ग्रहण करता हूँ । हे मित्रावरुण चमस में स्थित जलदेवता, तुम इस बसतीवरी जल के साथ भली प्रकार मिश्रित हो जाओ, सम्पूर्ण ओषधियाँ आपस में भली प्रकार मिश्रित हो जाँय ॥२८ ॥

पृष्ठ 288

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 288 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेदसंहिता [ अ. ६ ' अथ मैत्रावरुणचमसेनैतामाहुतिमपप्लावयति कार्षिरसीति ' ( श.३ | ९ | ३ | २६ ) । ‘ कार्षिरसीति मैत्रावरुणचमसेनाज्यमपोहति ' ( का.श्रौ. ९ ।३।५ ) । अप्सु हुतमाज्यं मैत्रावरुणचमसेन करणभूतेन प्रेर्य दूरीकुर्यात् । कार्षिरिति मन्त्रत्रयं मिलित्वाऽनुष्टुप् छन्दः । आद्यस्याज्यं देवता । हे आज्यपदार्थ, त्वं कार्षिः कर्षणशीलोऽव्रतमलस्यापनेतासि, ' शमलमेवासामपप्लावयतीति ' इति तैत्तिरीयश्रुतेः । यद्वा त्वं कार्षिराकृष्टोऽसि देवतया भक्षितोऽसि, यद्वा कृषेर्देवतायाः कर्षणस्य भक्षणस्य वा सम्बन्धी असि । अतस्त्वां समुद्रस्य समुन्दनस्योदकस्य अक्षित्यै अक्षीणतायै त्वा त्वामपनयामि अपसारयामि । शतपथे स्पष्टीकृतम् - ' यथा वा अङ्गारा अग्निना प्सातः स्यादेवमेषाहुतिरेतया देवतया प्साता भवति राजानं वा एताभिरद्भिरुपस्रक्ष्यन् भवति या एता मैत्रावरुणचमसे वज्रो वा आाज्य रेतः सोमो नेद्वज्रेणाज्येन रेतः सोम हिनसानीति तस्माद्वा अपप्लावयति ' ( श. ३ ।९ ३ २६ ) । यथा अग्निना प्सातो भक्षितोऽङ्गारः करीषभावेन त्याज्यो भवत्येवमेषाहुतिरेतया अब्देवतया ' साता भवति । सोमहिंसापरिहारत्वे परित्यक्तव्यमित्याह - मैत्रावरुणचमसे वर्तमाना या एता इदानीं गृह्यमाणा आपः सन्ति, एताभिरद्भिरुपस्रक्ष्यन् अभिषवकाले सोमस्य संसर्गं करिष्यन् भवति, अत एव ' आधवनीये समवनयति ' ( श.३।९ ।३।३० ) इति वक्ष्यते । आधवनीयसंस्पृष्टस्योदकस्य सोमरसेन संसृज्यमानत्वाद् आज्यस्य वज्ररूपत्वात् तेन सोमहिंसा यथा न स्यात् तथा तदपनयनमपेक्षितम् । ' अथ गृह्णाति / समुद्रस्य त्वाक्षित्या उन्नयामीत्यापो वै समुद्रोऽप्स्वेवैतदक्षितिं दधाति तस्मादाप एतावति भोगे भुज्यमाने न क्षीयन्ते तदन्वेकधनानुन्नयन्ति तदनु पान्नेजनान् ' ( श.३।९ ।३।२७ ) । यद्यपि श्रुतावत्र मैत्रावरुणचमसेनेति श्रुतम्, तथापि ' समुद्रस्य त्वेति तेन गृह्णाति ’ ( का.श्रौ. ९ ।३।६ ) इति सूत्रानुसारेणाध्वर्युर्मैत्रावरुणचमसे तडागादिस्था अपो गृह्णीयादिति तदवगमः । अपां संघातात्मकत्वात् समुद्रस्य ' आपो वै समुद्रः ' इत्युक्तिः । इत्येकदेशस्य कृत्स्नात्मना स्तुतिः । एतेन मन्त्रपाठेन अप्स्वेव अक्षितिमक्षीणत्वं दधाति । तस्माद् एतावति भोगे भुज्यमाने स्थावरजङ्गमात्मकजगत्पर्याप्तेऽपि भोगे सर्वैर्भुज्यमानेऽपि न क्षीयन्ते, किन्त्वजस्रं प्रवहन्त्येव । तदन्विति होतृचमसोन्नयनानन्तरमेकधनानां पान्नेजनानां चानुक्रमेणोन्नयनंम् । एकधना सोमरसाभिवृद्ध्यर्था उदकविशेषाः, पाच्छब्देनोरुप्रदेशो लक्ष्यते । पत्नीकर्तृकपशुपादोरुक्षालनसाधनोदकविशेषाः पान्नेजनाः । ताः पल्यो गृह्णीयुः । ' पान्नेजनाश्च पल्यो द्वौ द्वौ ' ( का.श्रौ. ९ ।३।८ ) । पशोः पादौ निज्येते एभिरिति पान्नेजनाः कलशाः । तान् पान्नेजनार्थान् लघुकलशान् सर्वाः पल्यः पृथक् पृथग् द्वौ द्वौ पान्नेजनौ अद्भिः पूरयित्वा तूष्णीमेव निष्कासयन्ति । एकः पान्नेजनः पशुप्राणशोधनार्थः, अपर ऊर्वभिषेकार्थः । बहुवचनमविवक्षितम् । समुद्रस्य ' आपो वै समुद्रः ' इति श्रुतेर्वसतीवरीलक्षणस्याप्समुद्रस्य अक्षित्यै अक्षीणत्वाय, हे आज्यमिश्रोदक, त्वामुन्नयामि उद्गृह्णामि । वसतीवरीणां वर्धनाय एता आपो गृह्यन्ते । शतपथीयोपपत्तिरुक्तैव । पुनश्चोच्यते- ' तद्यन्मैत्रावरुणचमसेन गृह्णाति । यत्र वै देवेभ्यो यज्ञोऽपाक्रामत्तमेतद्देवाः प्रैषैरेव प्रैषमैच्छन् पुरोरुग्भिः प्रारोचयन्निविद्भिर्न्यवेदयंस्तस्मान्मैत्रावरुणचमसेन गृह्णाति ' ( श. ३।९ ।३।२८ ) । सत्स्वितरेषां चमसेषु किं मैत्रावरुणचमसेनेत्यत आह- मैत्रावरुणेति । यस्माद्देवेभ्योऽपक्रान्तं यज्ञमेतेन मैत्रावरुणाख्ये नर्त्विजा भाष्यसार - ' कार्षिरसि ' इस कण्डिका के मन्त्रों से हुत आज्य का दूरीकरण, मैत्रावरुण चमस से जलग्रहण, वसतीवरी जल से उनका सम्मेलन आदि विधियाँ अनुष्ठित की जाती हैं । यह याज्ञिक प्रक्रिया कात्यायन श्रौतसूत्र ( ९ / ३ / ५-१० ) में वर्णित है । याज्ञिक विनियोग के अनुकूल अर्थ शतपथ आदि श्रुतियों में उपदिष्ट है ।

पृष्ठ 289

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 289 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २८ ] वेदार्थपारिजातभाष्यसहिता ६५ प्रैषैस्तत्कृतिगमनसाधनैराह्वानैः प्रैषं यज्ञस्य गमनमैच्छन्, निविद्भिर्निवेदनसाधनैः ' अग्निर्देवेद्धः ' ( ऐ.ब्रा. २।५।२ ) इत्यादिवाक्यैर्न्यवेदयन् परस्परं निवेदितवन्तः, पुरोरुग्भिः पुरो याज्यानुवाक्याभ्यां पुरस्ताद् रुचिमिच्छां जनयन्ति देवताया इति पुरोरुचः ' वायुरग्रेगाः ' ( ऐ. ब्रा. ३ | १ / ९ ) इत्याद्यास्ताभिः प्रारोचयन् प्ररोचनामजनयन्, अतो मैत्रावरुणस्य प्रैषादिसाधनत्वात् तदीयश्चमसः प्रशस्तः । ‘ त आयान्ति । प्रत्युपतिष्ठतेऽग्नीच्चात्वाले वसतीवरीभिश्च.... मैत्रावरुणचमसं च समापो अद्भिरम्मत समोषधीभिरोषधीरिति यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभय सः सृजति ' ( श. ३ | ९ | ३ | २ ९ ) । अप्सम्भरणानन्तरं त ऋत्विगादयः पुनर्देवयजनमागच्छेयुः । अग्नीच्च निर्गमनकाले सम्प्रेषितप्रकारेण चात्वाले वसतीवरीभिरद्भिर्होतृचमसे च युक्तः सन् प्रत्युपस्थानं कुर्यात् । तदुक्तं कात्यायनेन - ' प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीभिश्च सस्पर्शयति समाप इति ' ( का.श्रौ. ९ ३ ९ ) । जलाशयात् प्रत्यागत्य चात्वालस्योपर्यध्वर्युर्मैत्रावरुणचमसस्था आपोऽद्भिर्वसतीवरीभिः समग्मत सङ्गच्छन्ताम् । गमेर्लुङि तङि प्रथमाबहुवचने शपि लुप्ते ' गमहन.... ' ( पा.सू. ६।४।९ ८ ) इत्युपधालोपे समग्मतेति रूपम् । तथा ओषधीर् ओषधयो मुद्गमसूरादय ओषधीभिर्त्रीहियवादिभिः सङ्गच्छध्वम् । अपां कारणभूतत्वादोषधीनामपि तथोपयोगो भवत्वित्यभिप्रायः । सूत्रे च श्रुतावन्यपक्षा अप्युक्ताः । ' इतरेतरस्मिन् व्यानयन्त्येके मैत्रावरुणचमसे प्रथमम् ' ( का.श्रौ. ९ / ३ / १० ) । एके इतरेतरस्मिन् परस्परस्मिन् सम्मिश्रणं कुर्वन्ति । अस्मिन् पक्षे प्रथमं मैत्रावरुणचमसाद्वसतीवरीषु निनयेत । उभयत्र समाप इत्येव मन्त्रः । पूर्वस्मिन् पक्षे इतरस्य मध्ये इतरस्य निनयनमिति विशेषः । तद्रीत्या आपो मैत्रावरुणचमसगता अद्भिर्होतृचमसस्थाभिर्वसतीवरीभिः सङ्गता अभवन्निति । तथा ओषधीर् ओषधयो वर्धनीया ब्राहम्यादिरूपा ओषधीभिर्ब्रह्यादिरूपाभिः समग्मत । यद्वा उभयत्र ओषधिशब्देन प्रकृता मैत्रावरुणचमसगता आपो विवक्ष्यन्ते । ' तद्धे के.... ' ( श. ३१ ९ / ३ / ३० ) इति केषाञ्चित् साक्षादुदकसं सर्जनपक्षमुदाहृत्य तदभिप्रायमुपवर्ण्य तस्यान्यथासिद्धित्वकथनेन निराचष्टे - तद्धेक इति । मैत्रावरुणचमसाद्वसतीवरीषु, उपसर्गवशान्नयन्तीत्यनुषज्यते । एवं कुर्वतां पूर्वेद्युराहृतस्य यज्ञरसस्य अद्याहृतस्य च संसर्ग एवापेक्षितः । स उपरिष्टाद् आधवनीये निनयनाद् भविष्यति, अतस्तदु तथा न कुर्यात् । यदुक्तम्- ' होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति निग्राभ्याः ' ( का.श्रौ.९ ।३।११ ) | आग्नीध्रहस्तस्थं होतृचमसमादाय पूर्वेद्युराहता वसतीवरीरध्वर्युर्गृह्णाति । निग्राभ्याभ्यो होतृचमसे निगृह्यमाणत्वाद् निग्राभ्या इति संज्ञा । निग्राभ्यासु च्यावयति निग्राभ्यासु संसिञ्चतीत्येवमर्थाय । तच्च बहुधा प्रशस्तम् । अध्यात्मपक्षे तु - हे कृष्ण, त्वं कार्षिर् भक्तानां चित्ताकर्षकः, असि । समुद्रस्य रससमुद्रस्य अक्षित्या अक्षीणतायै त्वा त्वाम् उन्नयामि हृदये ब्रह्मरन्ध्रे धारयामि । त्वदनुग्रहाच्च आपो व्यापनशीलाः, व्यष्टयो विश्वतैजसप्राज्ञा आत्मानोऽद्भिर्व्यापनशीलैर्वि राहिरण्यगर्भाव्याकृतैः समग्मत सङ्गच्छन्ताम् । ओषधीर् ओषधयोऽन्नोपलक्षिता व्यष्टय उपाधयः, ओषधीभिः समष्टिभिरुपाधिभिः सङ्गच्छन्ताम् । सर्वे च तेऽधिष्ठानमात्रे पर्यवस्यन्तु । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे कृष्ण, आप भक्तों को आकृष्ट करने वाले हैं । रससमुद्र की अक्षीणता के लिये हृदय में, ब्रह्मरन्ध्र में आपको धारण करता हूँ । आपकी कृपा से व्यापनशील व्यष्टिगत विश्व, तैजस तथा प्राज्ञ व्यापक विराड्, हिरण्यगर्भ अव्याकृत के साथ संयुक्त हों । अन्न आदि व्यष्टि उपाधियां समष्टि उपाधियों से संगत हों, वे सभी अधिष्ठानमात्र में पर्यवसित हों ।

पृष्ठ 290

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 290 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६ शुक्लयजुर्वेदसंहिता [ अ. ६ -दयानन्दस्तु – ' हे वैश्यजन, त्वं कार्षिरसि । त्वां समुद्रस्य अन्तरिक्षस्याक्षित्यै समुन्नयामि । सर्वे यूयं । यज्ञशोधिताभिरद्भिरेवाप ओषधीभिरोषधीः समग्मत ' इति, तदपि न किञ्चित्, हलकर्षणेनान्तरिक्षस्य क्षीणतानुपपत्तेः न चाद्यत्वे व्रीह्याद्यौषधप्रतिलम्भे यज्ञोऽपेक्षितः, विविधैराधुनिकैरुपचारैरेव तत्सिद्धेः ॥२८ || यम॑ग्ने॒ पृ॒त्सु॒ मर्त्यमवा॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषि॒ स्वाहा॑ ॥२ ९ ॥ ' त आयन्ति । त होता पृच्छत्यध्वर्योऽवेरपा ३ इत्यविदोऽपा ३ इत्येवैतदाह तं प्रत्याहोतेव -नन्नमुरित्यविदमथो मेऽनथ संतेत्येवैतदाह ' ( श.३ | ९ | ३ | ३१ ) । अथाध्वर्युमुद्दिश्याब्विषयं होतुः प्रश्नमवतारयति ) । तमध्वर्युं होता पृच्छति, हे अध्वर्यो! अप उदकानि, अवेर्लब्धवानसि? प्लुतिः प्रश्नार्थे ( पा. सू. ६।२।१०० च अवेर् अविदः । अध्वर्योर्होतारं प्रति प्रतिवचनमाह - नन्नमुरिति । वयमिदानीं न केवलमपो लब्धार एव च, मे अपि आपः, नन्नमुरत्यर्थमानता अभवन् । तात्पर्यमाह - अविदमिति । अविदमपो लब्धवानस्मि । अथो अपि स स्रवः ' अनंसत आनता आगता अभूवन् इत्येवोत्तरवाक्यमाह । स यद्यग्निष्टोमः स्यात् । यदि प्रचरण्या परिशिष्टोऽल होमाय स्यात् तं जुहुयाद्यद्यु नाल होमाय स्यादपरं चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यमग्ने पृत्सु.... स्वाहेत्याग्नेय्या जुहोत्यग्निर्वा अग्निष्टोमस्तदग्नावग्निष्टोमं प्रतिष्ठापयति मर्त्तवत्या पुरुषसंमितो वा अग्निष्टोम एवं ’ जुहुयाद्यद्यग्निष्टोमः स्यात् ' ( श. ३।९ ।३।३२ ) । तथैवोक्तं कात्यायनेन – ' होत्रा पृष्टः प्रत्याहोतेव ततो होता नंनमुरिति अध्वर्युं ( का.श्रौ.९ | ३ | १२ ) । ततः सर्वे चात्वालाद् हविर्धानद्वार्युपविष्टं होतारं प्रत्यागच्छन्ति । पृच्छति - अध्वर्यो, अवेरपा ३ सोऽध्वर्युर्होत्रैव पृष्ट उतेव नन्नमुरिति प्रत्याह, तस्याभिप्रायस्तूक्त एव । प्रचरणीस स्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्न इति ' ( का.श्रौ. ९ ।३।१३ ) । अग्निष्टोमसंस्थे क्रतौ प्रचरणीसंस्रवं । चरणीयान्नलिप्तं यमग्न इति जुहुयात् । प्रचरणीसंस्रवस्य होमपर्याप्तस्याभावेऽपरं चतुर्गृहीतमाज्यं गृहीत्वा जुहुयात् ‘ उक्थ्ये प्रथमं परिधिमालभते ' ( का.श्रौ. ९ ।३।१४ ) । उक्थ्यसंस्थे क्रतौ प्रारब्धे सति प्रथमं परिधिं हस्तेन स्पृशति यमग्न इति मन्त्रेण । -, मन्त्रार्थस्तु - हे अग्ने, पृत्सु संग्रामेषु यं मर्त्यम् अवा रक्षसि, किञ्च वाजेषु अन्ननिमित्तं यं मर्त्यं जुना गच्छसि हवींषि ग्रहीतुं यस्य सकाशं गच्छसि, जवतिर्गत्यर्थः, प्राप्तवानसि स उभयविधो जनः शाश्वतीर्नित्यानि षोडशिसंस्थे इषोऽन्नानि प्राप्तवान् भवति, प्राप्स्यतीत्यर्थः । स्वाहा सुहुतमस्तु । उक्थसंस्थे यमग्न इति मन्त्रेणाद्यं परिधिं स्पृशेत् । ) | रराटिं स्पृशेत् । अतिरात्रे छदिं स्पृशेदन्यसंस्थासु हविर्धानं प्रविशेत् । ' प्रविशत्येवान्यत्र ' ( का.श्रौ. ९ ।३।१५ कल धान आदि स्वामी दयानन्द द्वारा वर्णित अर्थ असंगत है । हल जोतने से अन्तरिक्ष की क्षीणता होना असिद्ध है । आज || अन्नों की उपलब्धि में यज्ञ की अपेक्षा नहीं है । विभिन्न आधुनिक साधनों से ही उसकी प्राप्ति हो जाती है || २८ मन्त्रार्थ - हे अग्निदेव, बड़े संग्रामों में जिस मनुष्य की तुम रक्षा करते हो, तथा हवि लक्षण वाले अन्न अक्षय में अन्न अन्न के निमित्त जिस मनुष्य के पास तुम हवि ग्रहण करने को उपस्थित होते हो, वह मनुष्य तुम्हारे प्रसाद से निरन्तर

और धन का स्वामी हो जाता है । हमारी यह आहुति भली प्रकार गृहीत हो ॥२ ९ ॥

यज्ञ भाष्यसार - ' यमग्ने ' इस कण्डिका से अग्निष्टोम संस्था वाले यज्ञ में घृत की आहुति प्रदान की द्वारा जाती विहित है । है उक्थ्यसंस्थ । यह याज्ञिक में प्रथम परिधि का स्पर्श, षोडशी में रराटी का स्पर्श, अतिरात्र में छदि का स्पर्श इस कण्डिका के