वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 41–50
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
३२ शुक्लयजुर्वेदसंहिता [ अ. ४ श्रौ. ७.४.२ ) । मन्त्रार्थस्तु -- अत्र दण्डो देवता । हे वनस्पते वृक्षावयव दण्ड, उच्छ्रयस्व उन्नतो भव | अर्ध्वो भूत्वा मा माम् अंहसः पापात् पाहि रक्ष । कियन्तं कालमित्यपेक्षायामाह – यज्ञस्योदृच इति । अस्य यज्ञस्योदृच उत्तमाया समाप्ति गताया ऋच आ तादृक्पर्यन्तमित्यर्थ इति कावसंहितायां सायणाचार्यः । अध्यात्मपक्षे – हे राजराजेश्वरि, त्वमङ्गिरोनामकानामृषीणां सम्बन्धिनी ऊर्गसि अन्नरसरूपासि, ' यद्यद्विभूति-मत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसम्भवम् ॥ ' ( भ. गी. १०.४१ ) इति श्रीमद्भगवद्गीता-वचनात्, ऊर्जं मयि धेहि । कीदृशी सा ऊर्क्? ऊर्णम्रदा ऊर्णेव कम्बलमिव प्रदीयसी । सा त्वं सोमस्य उमया सहितस्य शिवस्य नीविरसि नाविरिवाच्छादिकासि । विष्णोर्व्यापकस्य शिवस्य परमेश्वरस्य शर्मासि सुखजनकत्वात् सुखरूपासि, अतो यजमानस्य त्वदाराधकस्य मम सुखं प्रयच्छेति शेषः । इन्द्रस्य परमैश्वर्यवतः परमेश्वरस्य योनिरसि परमकारणरूपासि, सर्वविश्वपालकत्वात् । दृषी: सुसस्याः कृधि शोभिनव्रीहियवादियुक्ताः कुरु । हे वनस्पते, वनस्पतिरूपे! त्वमुच्छ्रयस्व सर्वदा निरतिशयोत्कृष्टरूपापि स्वोत्कर्षमाविर्भावय । मां यजमानं त्वत्सेवक-मंहसः पाहि रक्ष, संसारबन्धनान्मोक्षप्रदानेन रक्ष । दयानन्दस्तु — हे वनस्पते विद्वंस्त्वं याङ्गिरस्यूर्णम्रदा ऊर्क् शिल्पविद्यास्यस्ति योर्ज दधाति या सोमस्य नीविरसि या विष्णोर्यजमानस्य शर्म सुखकारिका योनिरस योऽस्योदृचो विष्णोर्यज्ञस्य शर्मास्ति. मय्याधेहि सुसस्या: कृषी: कृधि कुरु कारय वा ऊर्ध्वा मामुच्छ्रयस्व अंहसो मा पाहि विमानादिषु यानेषु यो वनस्पतिरूर्ध्वं स्थाप्यते तमप्युच्छ्रयस्व । सर्वत्र व्यत्ययेन असि अस्ति पदानि त्वेवं व्याख्यातानि । ऊपराक्रमान्नादिप्रदा शिल्पविद्या आङ्गिरसी याङ्गिरोभिरग्न्यादिभिर्निर्वृत्ता सा शिल्पविद्या ऊर्णम्रदा ऊर्णमाच्छादनं मृद्नन्ति यया सा मयि शिल्पिनि धेहि दधाति । सोमस्य उत्पन्नस्य पदार्थसमूहस्य नीवि, या नितरां व्ययति संवृणोति विष्णोः शिल्पवि-द्याव्यापकस्य विदुषः सकाशात् प्राप्य शर्म सुखं यजमानस्य शिल्पविद्याविद इन्द्रस्य परमैश्वर्येण युक्तस्य योजकस्य वा । वनस्पते! वनानां विद्याप्रकाशानां पतिः पालयिता, तत्सम्बुद्धौ । यज्ञस्य शिल्पविद्यासाध्यस्य ' इत्यादि, तदेतत् सर्वमुच्छृङ्खलतामूलकमेव, मुख्यार्थत्यागे कारणाभावात्, लाक्षणिकार्थग्रहणे मानाभावाच्च । श्रुतिसूत्रविरोधस्तु स्फुट एव । यत्तु आङ्गिरसीत्यत्र दयानन्देनोक्तम् उव्वटमहीधराभ्यामिदं निघातत्वात् सम्बोधनान्तं पदमबुध्वा व्याख्यातम्, एतयोः स्वरज्ञानमपि नास्ति, अर्थज्ञानस्य तु का कथा ' इति, तत्तु प्रमत्तप्रलपितमेव, स्वपक्षे गुणस्य तयोः पक्षे दोषस्य प्रदर्शनीयत्वात् । यत्तु कश्चित् — दयानन्देनात्र मन्त्रे सर्वत्र व्यत्यय इत्युपरिष्टादेवोक्तम् तेनात्र सम्बोधने निघाते सत्यपि प्रथमान्तं पदमिदं व्याख्यातम्, उव्वटमहीधराभ्यां तु भ्रान्त्या ( न तु व्यत्ययेन ) ' आङ्गिरसि ' इति प्रथमान्तमिदं पदं ज्ञात्वा व्याख्यानं कृतम् अत्रायमेव दोष इति ध्येयम् ' इति, तदपि तदीयान्धानुकरणमेव, दयानन्देनापि अध्यात्मपक्ष में यह अर्थ है— हे राजराजेश्वरि भगवति! आप आंगिरस ऋषियों से सम्बद्ध अन्नरस ( ऊर्जा ) स्वरूपिणी हैं, अतः ऊन के समान मृदु ऊर्जा मुझमें प्रतिष्ठित करें । आप उमासहित शिव की आच्छादिका शक्ति हैं । व्यापनशील शिव की सुखस्वरूपा हैं, अतः मुझे सुख प्रदान करें । परमैश्वर्य युक्त तत्त्व की कारणभूता हैं, अतः सम्पूर्ण विश्व का पालन करने के कारण आप सुन्दर अन्न से युक्त कृषि प्रदान करें । हे वनस्पति के रूप में विद्यमान, आप निरन्तर उत्कर्ष का प्रकाशन करें तथा मुझे पापों से बचायें, संसारबन्धन से सुरक्षित रखें । स्वामी दयानन्द ने सर्वत्र ' असि ' पदों का ' अस्ति ' के रूप में व्यत्यय करके व्याख्या की है । वह अर्थ उच्छृंखलतामूलक है, क्योंकि मुख्यार्थ के त्याग तथा लाक्षणिक अर्थ के ग्रहण में कोई प्रमाण नहीं है । ' आंगिरसी ' इस पद पर दयानन्द ने कहा है
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
म. १०-११ ] वेदार्थपारिजातभाष्यसहिता ३३ प्रथमान्तेनैव व्याख्यातत्वात् । न च स्वरव्यत्ययानुक्तिरेव दूषणम् त्वयापि तदनुक्तत्वात् । न च सर्वत्र व्यत्यय इत्युक्त्यैव सर्वत्र तदुक्तिर्ज्ञेयेति वाच्यम्, तस्य ' असि, धेहि ' इत्यादिषु चरितार्थत्वात् । यदि विशिष्टानुक्तावपि तज्ज्ञातव्यं तदा तथैव प्रकृतेऽपि किं न स्यात्? शतपथश्रुतिद्रष्टृणां तु सायणोव्वटमहीधराणां व्याख्यानमेव शतपथसम्मतमिति स्पष्टमेव । तत्र कृष्णविषाणाया एव योनित्वमुक्तम् । कृष्णविषाणोल्लेखन- कण्डूयन - नीविकरण-दण्डोच्छ्रयणादिषु मन्त्राणां विनियोगदर्शनात्, शिल्पविद्यातद्याजकादीनां शतपथे सर्वथाप्यश्रवणात् । स्वामी दयान-दस्तु सर्वत्र देवपदेन विदुषो मनुष्यानेव गृह्णाति तदपि शतपथविरुद्धमेव, तत्र मुनष्येभ्यो ऽतिरिक्तानां देवानां वर्णनात् । तथा च श्रुतिः—— ' द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः शुश्रुवां सोऽनूचानास्ते मनुष्यदेवाः ' ( श. २.४.३.१४ ) इति ॥ १० ॥
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्माग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑ः । दैव॒ धियं ' मनामहे सुमृडीकाम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसं सुत॒र्था नो॑ अस॒द्वशे । ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नऽवन्तु॒ ते न॑ः पान्तु॒ तेभ्यः॒ स्वाहा॑ ॥११ ॥
' अग्निमभ्यावृत्य व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वाग्निर्ब्रह्मेति च सकृत् ' ( का. श्रौ. ७.४.१४ ) । आहवनी-याभिमुखो भूत्वा व्रतं कृणुतेति त्रिरुक्त्वा अग्निर्ब्रह्मेति सकृत् पठित्वा वाचं विसृजेत् । मौनव्रतस्य यजमानस्यैतन्मन्त्रो-च्चारणं वाग्विसर्जनसाधनम् । मन्त्रार्थस्तु — हे परिचारकाः, व्रतं कृणुत दोहनादिना क्षीरं निष्पादयत । त्रिवारं वाक्यावृत्तिरादरार्था । अत्र व्रतशब्देन दीक्षितस्य भोजनाय यत् पयो नियतं तदुच्यते । अनेन मन्त्रेण मौनत्यागं स्पष्टं तित्तिरिराह — ' व्रतं कुरुतेति वाचं विसृजति ' ( तै. सं. ६.१.४.४ ) इति काण्वसंहिताभाष्ये सायणाचार्य: । अग्निर्ब्रह्मेति मन्त्रं सकृदुच्चारयेत । ब्रह्मशब्देनात्र वेदत्रयमभिधीयते, ब्रह्मपरत्वात् ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो. १.२.१५ ) इति श्रुतेः । तस्य वेदत्रयस्याग्नित्वमौपचारिकम्, आधाननिष्पन्नाग्नेर्वेदैकसाध्यत्वात् । तस्य चाग्नेर्यज्ञसाधनत्वादौपचारिकं यज्ञत्वमपि । तथैव यज्ञयोग्यस्य खादिरादेर्वनस्पतेर्यज्ञसाधनत्वात् तत्रापि यज्ञत्वोपचारः । तथा चायं श्रौतोऽग्निर्ब्रह्मैव वेदरूप एव । यज्ञयोग्यो यो वनस्पतिः खादिरादिः सोऽपि यज्ञ इत्यनुवर्तते, ' नहि मनुष्या यजेरन् यद्वनस्पतयो न स्युः ' ( श. ३.२.२.९ ) इति श्रुते: । ' दैवीं धियमिति व्रतायोपस्पर्शनं स्वासने ' ( का. श्रौ. ७.४.२६ ) इति कृष्णाजिन उपविष्टो कि उव्वट एवं महीधर दोनों ने इसे सर्वानुदात्त होने के कारण सम्बोधनान्त पद न समझ कर व्याख्या की है, अतः इनको स्वरज्ञान भी नहीं है, परन्तु दयानन्द ने भी इस की प्रथमान्त पद के रूप में ही व्याख्या की है ॥१० ॥
मन्त्रार्थ - हे ऋत्विजों! यज्ञ का अनुष्ठान प्रारम्भ करो, यज्ञ के लिये आवश्यक सामग्री ब्रह्माग्नि, वनस्पति आदि को इकट्ठा करो । ये सब यज्ञस्वरूप ही हैं । इस अनुष्ठान की सिद्धि के लिये हम सुखकारिणी तेजोधारिणी बुद्धि के लिये परमात्मा से प्रार्थना करते हैं । इच्छा के अनुरूप रूप धारण कर सत्संकल्प वाले चक्षु आदि इन्द्रिय रूप प्राण देवता विघ्नों को दूर करें । उनके लिये यह क्षीर की आहति सुफल हो । इस मन्त्र के द्वारा यजमान वाग् - विसर्जन कर ऋत्विजों को यज्ञ प्रारम्भ करने की कहता है ॥ ११ ॥
भाष्यसार — याज्ञिक विनियोग के अनुसार कात्यायन श्रौतसूत्र ( ७.४.१५, २७-२८ ) में विधान किया गया है कि ' व्रतं कृणुत ' इत्यादि मन्त्र से वाग्विसर्जन ( मौनत्याग ), ' दैवीं धियम् ' मन्त्र से आचमन तथा ' ये देवाः ' मन्त्र से दुग्धादि व्रतरूपी आहार का ग्रहण यजमान करे ।
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
३४ शुक्लयजुर्वेदसंहिता [ अ.४ यजमानो दैवीमिति मन्त्रेण व्रतार्थमाचामेत्, ' दैवीं धियं मनामह इति हस्ताववनिज्येति ' ( आप श्रौ पठितः . ) । ' अभिष्टयेऽभिमुखत्वेन ( निघ. ३.१ ९.१६ ) । प्राप्तस्य यज्ञस्य सिद्ध्यर्थं धियमनुष्ठानविषयां बुद्धि मनामहे याचामहे । ' याच्ञाकर्मसु तां शोभनसुखहेतुम्, वर्चोधां कीदृशीं दैवीं देवसम्बन्धिनीं देवतोद्देशेन प्रवृत्तां सुमृडीकां सुष्ठु मृडयतीति सुमृडीकां यज्ञवाहास्तं यज्ञनिर्वाहयित्रीम् । वर्चो दधातीति वर्चोधा तामनुष्ठानविषयकतेजसो धारयित्रीम्, यज्ञवाहसं यज्ञं वहतीति सुखेन तरीतुं प्राप्तुं शक्या शक्वरी अतिशक्वरी वा अस्याः पूर्वेणार्धर्चेन व्रतायोपस्पृशति । तादृशी धीः सुतीर्था । ' ये देवा इति व्रतयत्यमृन्मये ' सुतीर्था सुष्ठ तीर्थमवतरणमार्गों यस्यां सा सुतीर्धा सती नो वशे असद् अस्मदायत्ता कंसे चमसे भवतु वा निषिच्य व्रतं प्रयच्छति । ( का. श्रौ. ७.४.२७ ) । स्वासन उपविष्टः कांस्यपात्रेण पयः पिबेत् । ' अथास्मै प्राणा मनोजाता तद्दक्षिणः परिश्रित्य व्रतयति ये देवाः ' इति बोधायनः । दीव्यन्ति द्योतन्ते देवाश्चक्षुरादीन्द्रियरूपाः । तथा मनोयुजो मनसा दर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः तादृश्यामिच्छायां सत्यामेव चक्षुरादीनां प्रवर्तमानत्वात् मनोयुजः ' ( तै. सं. ६.१.४.५ ) युक्ता एव वर्तन्ते, अन्यमनस्कस्य रूपादिप्रतिभासासम्भवात्, ' प्राणा वै देवा मनोजाता क्रतवः सङ्कल्पा येषां ते इति तित्तिरिश्रुतेः । स्वप्नावस्थायां वा मनसा युज्यन्ते । ते च दक्षक्रतवो दक्षा: कुशलाः पालयन्तु । कुशलसंकल्पाः शुभसङ्कल्पा, सङ्कल्पार्थकारिण इत्यर्थः । ते देवा नोऽस्मानवन्तु इदं अनुष्ठानविघ्ननिवारणेनास्मान् क्षीरं हुतमस्तु, ' वागेवाग्निः प्राणोदानौ तेऽस्मान् पान्तु फलप्रापणेन रक्षन्तु । तेभ्यः प्राणरूपेभ्यो देवेभ्यः स्वाहा मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवाः ' ( श. ३.२.२.१३ ) इति श्रुतेः । 1 — अध्यात्मपक्षे तु वेदः साधकानाह - हे साधकाः, व्रतं शुभसङ्कल्परूपं कृणुत । कीदृशं कथमिति चेत् शुश्रुम , तत्राह ' ( भा. अग्निः परमेश्वर एव ब्रह्म वेदत्रयम्, तस्यैव तदात्मना प्रादुर्भावात्, ' वेदो नारायणः साक्षात् स्वयम्भूरिति । वनस्पतिस्तदुपलक्षितः पु. ६.१.४० ) इति श्रीमद्भागवतवचनात् । अग्निः स एव यज्ञः, तस्यैव यागैः समर्हणीयत्वात् शुभसङ्कल्परूपां धियं सर्वोऽपि प्रपञ्चो यज्ञियो यज्ञार्हो यज्ञोपकरणं यज्ञफलं च । वेदोपदेशेन सावधाना साधकास्तां । प्रार्थयन्ते । वयं सर्वे दैवीं धियम्, देवः परमेश्वरः सर्वभूतेषु गूढ, ' एको देवः सर्वभूतेषु गूढः ' ( श्वे. ६.११ किमर्थम् ) इत्यादिश्रुतेः ? अभिष्टये तत्सम्बन्धिनीमुपासनालक्षणां शुभसङ्कल्परूपां धियं मनामहे भगवन्तं प्रति याचामहे । कीदृशीं सुमृडीकां सुष्ठु मृडयति अभिमतस्य भगवत्साक्षात्कारस्य प्रेम्णो वा सिद्ध्यर्थम् । कीदृशीं दैवीं परमात्मविषयां तथा वर्चसो धारयित्रीं यज्ञवाहसं सुखयतीति सुमृडीकां परमानन्ददायिनी तद्रूपा च तां वर्चोधां वर्चसो ब्रह्मसम्बन्धिनो नो वशे ब्रह्मयज्ञज्ञानध्यानयज्ञादिनिर्वाहयित्रीं मनामह इति । तादृशी धीः सुतीर्था सुष्ठुतया संसारसागरतरणहेतुभूता आधिदैविकाश्च मनोजाता हिर-असद् भवतु | ये देवा दीव्यन्ते द्योतन्त इति देवाश्चक्षुरादय आध्यात्मिका अग्न्यादय कुशलकर्माणश्च ण्यगर्भमनसो जाता उत्पन्नाः, तथा मनोयुजो मनसा युज्यन्त इति मनोयुज, दक्षक्रतवः कुशलसङ्कल्पाः रक्षन्तु, ते देवा भगवदंशभूता नोऽस्मानवन्तु । निर्विघ्नभगवत्प्रेमभगवत्साक्षात्कारसम्पादनेन पालयन्तु । ते नः पान्तु फलपर्यवसायिज्ञानभक्तिप्रापणेनेति शेषः । श्रुतिसूत्रसम्मतं मुख्यं व्याख्यानं तूक्तमेव । रूपी व्रत अध्यात्मपक्ष में इस मन्त्र का अर्थ यह है— वेद का साधकों के प्रति निर्देश है कि हे साधकगण, शुभ संकल्प करें । अग्नि परमेश्वर ही वेद है, अग्नि पज्ञ है तथा वनस्पति आदि समस्त विश्वप्रपंच यज्ञ का साधन है । साधक उस शुभसंकल्पात्मक बुद्धि की मति के लिये प्रार्थना करते हैं । अभिमत की सिद्धि के लिये सुखकारिणी, ब्रह्म की धारयित्री, ब्रह्मयज्ञ की निर्वाहकारिणी , भगवदंशभूत याचना करते हैं । संसारतारण की हेतुभूता बुद्धि हमारे पास रहे । द्योतमान, मन से उत्पन्न, मन से संयुक्त, कुशलसंकल्पवान् देवगण हमारी रक्षा करें, हमारा पालन करें ।
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ११ ] वेदार्थपारिजात भाष्यसहिता ३५ दयानन्दस्तु –— ' मनुष्यैर्यस्याग्निसंज्ञा, तद् ब्रह्म विज्ञायोपास्य सुप्रज्ञा प्राप्तव्या, यां बुद्धिं विद्वांसः स्वीकुर्वन्ति । तथा शिल्पयज्ञान् संसेव्य विदुषां सङ्गमेन विद्यां प्राप्य स्वतन्त्रे व्यवहारे सदा स्थातव्यम् । नहि प्रज्ञया विना कश्चित् सुखमेधते । तस्मात् सर्वैर्विद्वद्भिः सर्वेभ्यो मनुष्येभ्यो ब्रह्मविद्यां बुद्धि च दत्त्वैते सततं रक्ष्याः । रक्षिताश्चैते परमेश्वरस्य धार्मिकाणां च विदुषां प्रियाणि कर्माणि नित्यमाचरेयुः ' इति भावार्थमाह । पदार्थनिरूपणे तु —— ' व्रतं नियमपूर्वकं धर्म्याचरणम्, अग्निर्वाचकः, ब्रह्म सच्चिदानन्दलक्षणं वाच्यम् । अग्निरभिधायकः, यज्ञोऽभिधेयः । वनस्पतिर्वनानां पाल-यिताग्निसंज्ञकः ' इत्याह, तत्तु निर्मूलमेव, श्रुतिसूत्रादिविरोधात् । श्रुतिसूत्रसम्मतश्च सायणादिव्याख्यातः पूर्वोक्त एवार्थः । तथाहि - ' वाचं यच्छति ( श. ३.२.२.१ ) इति वाङ्नियमनं विहितम् । तस्य ' तद्धैके नक्षत्रं दृष्ट्वा वाचं विसर्जयन्ति ' ( श. ३.२.२.५ ) इति केषाञ्चिद्रीत्या नक्षत्रदर्शनकाले वाग्वि-सर्जनमनुष्ठ्या, सम्यगित्यर्थ: । तदानीं सर्वैः प्रज्ञातत्वेन सूर्योऽस्तमितो भवति । तन्मतं निराकृतम् । यदि नक्षत्राच्छादको मेघस्तदा क्व वाग्विसर्जनं कुर्युः? ' तस्माद्यत्रैवानुष्ठ्या सम्यगस्तमितं मन्येत तदेव वाचं विसर्जयेत् ' ( श. ३.२.२.५ ) । यत्र कालेऽस्तमितमनुष्ठ्या सम्यक् प्रज्ञातं मन्येत तदैव विसर्जयेत् । एवमेव केषाञ्चिद्रीत्या भूर्भुवः स्वरिति मन्त्रेण वाग्विसर्जनमनूद्य तदपि यज्ञाप्यायनसन्धानयोस्तन्मन्त्रे स्फुटाप्रतिभानात् प्रतिक्षिप्य ' अनेनैव वाचं विसर्जयेत् । व्रतं कृणुत व्रतं कृणुताग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञिय इत्येष ह्यस्यात्र यज्ञो भवत्येतद्धविर्यथा पुराग्निहोत्रं तद्यज्ञेनैवैतद्यज्ञं संभृत्य यज्ञे यज्ञं प्रतिष्ठापयति यज्ञेन यज्ञं सन्तनोति संततं ह्येवास्यैतद् व्रतं भवत्यासुत्यायै त्रिष्कृत्व आह त्रिवृद्धि यज्ञः ' ( श. ३.२.२.७ ) इति सिद्धान्तपक्षमाह - अनेन वाचं विसर्जयति, यतोऽत्र व्रतं कृणुतेति । व्रतग्रहणार्थत्वं साम-र्थ्यादवसीयते । वीप्सया सूत्रानुसारेण च त्रिब्रूयादित्युक्तमेव । व्रतकरणं प्रशंसति - एष हीति । एष व्रताख्यः पदार्थः, अत्र दीक्षाकाले यज्ञो भवति तथा एतद् व्रतं हविरपि भवति, यथा पुरा दीक्षादिवसात् पूर्वमग्निहोत्रमेवमिदमप्यग्नि-होत्रप्रत्याम्नाय एवेत्यर्थः । तदुक्तमापस्तम्बेनापि — ' न त्वेव न व्रतयेदग्निहोत्रस्याविच्छेदाय ' ( आप. श्रौ. १०.१६.११ ) । अत एव एतद्व्रताख्येन यज्ञेन प्रवर्तमानेन चिकीर्षितं ज्योतिष्टोमं यज्ञं व्रताख्यं संभृत्य एकीकृत्य तत्रैव प्रतिष्ठाप्य तं ज्योतिष्टोममेतेन विस्तारितवान् भवति । अत एतन्मन्त्रेणाभिमतयज्ञसन्धानसम्भवादयं पक्ष एव श्रेयानित्यर्थः । विहितव्रतं सुत्यापर्यन्तं कर्तव्यमित्याह-- सन्ततं ह्येवास्यैतद् व्रतं भवत्यासुत्यायै । व्रतं कृणुतेति त्रिष्कृत्व आह हि यतो यज्ञस्त्रिवृत् । मन्त्रे व्रतशब्दो यजमानभोजनीयपयः पर एव । दीक्षाकाले व्रताख्यः पेयरूपः पदार्थों यज्ञो भवति, यज्ञान्तरस्य दीक्षाकाले निषेधात् । अग्निहोत्रमपि दीक्षाकाले निषिद्धम् । तत्प्रत्याम्नाय एवायमत्र यज्ञे हविरपि । एतदेव पयोरूपमेव । तदनेन व्रताख्येन यज्ञेन चिकीर्षितं यज्ञं सम्भृत्य विस्तारितवान् भवतीत्युक्तमेव । ' अथाग्निमभ्यावृत्य वाचं विसृजते । न ह स यज्ञमाप्याययति न सन्दधाति योऽतोऽन्येन वाचं विसृजते स प्रथमं व्याहरन् सत्यं वाचोऽभिव्याहरति ' ( श. ३.२.२.८ ) । वाग्विसर्जनमग्न्यभिमुखं कर्तव्यमित्याह – अथाग्नि-मिति । उक्तमर्थं व्यतिरेकेण प्रशंसति — अतोऽन्येनेति । अस्मान्मन्त्रादन्येन भूर्भुवः स्वरित्यनेन यो वाचं विसृजते, स्वामी दयानन्द ने वनस्पति का अर्थ ' वनों का पालक अग्नि ' किया है । परन्तु ब्राह्मण ग्रन्थ में वनस्पति को स्पष्ट ही यज्ञार्ह कहा गया है, अतः वनस्पति यज्ञार्ह द्रव्य है । इससे वनों का पालक अग्नि वनस्पति है, यह मत निरस्त हो जाता है । ' व्रत का अर्थ नियमपूर्वक धर्माचरण है ' यह स्वामी दयानन्द द्वारा कथित व्याख्या भी निरस्त माननी चाहिये, क्योंकि उसका श्रपण सम्भव नहीं हैं । ब्राह्मण ग्रन्थों में व्रत के श्रपण का विधान किया गया है । अतः श्रुतिवाक्यों तथा सूत्रनिर्देशों के विरुद्ध यह व्याख्यान उपेक्षा के योग्य है ॥११ ॥
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
३६ शुक्लयजुर्वेदसंहिता [ अ. ४ स न यज्ञमाप्याययति न सन्दधाति । तस्माद् व्रतं कृणुतेत्यनेनैव मन्त्रेण वाचं विसृजेदिति । मन्त्रपदानि व्याचष्टे – स प्रथममिति । स वाग्व्यवहारस्यादावग्निर्ब्रह्मेति ब्रुवन् सत्यमेवोक्तवान् भवति, ' सत्यं ब्रह्म ' ( बृ. उ. ५.४.१. ) इति श्रुतेः । ' अग्निर्ब्रह्मेति । अग्निर्ह्येव ब्रह्माग्निर्यज्ञ इत्यग्निर्ह्येव यज्ञो वनस्पतिर्यज्ञिय इति वनस्पतयो हि यज्ञिया नहि मनुष्या यजेरन् यद्वनस्पतयो न स्युस्तस्मादाह वनस्पतिर्यज्ञिय इति ' ( श. ३.२.२.९ ) । अत्र स्पष्टमग्निर्ह्येव ब्रह्मेत्यु-क्त्याग्नेर्वाचकत्वप्रत्याख्यानेनाग्नेर्ब्रह्मत्वमुक्तम् । तच्च पूर्वोक्तरीत्यैव सङ्गच्छते । ब्रह्मपदेन वेदत्रयमुच्यते । तत्साध्य-त्वाद् वैदिकाग्नेर्ब्रह्मरूपत्वमेव युक्तम् । अग्नेर्यज्ञसाधनत्वात् तत्र यज्ञत्वमप्युपचर्यते । वनस्पतेर्यज्ञियत्वमपि स्पष्टमेव ब्राह्मणेनोच्यते । यदि वनस्पतयो न भवेयुस्तदा मनुष्याः साधनाभावाद् यज्ञं न कुर्युः, तस्माद्वनस्पतिर्यज्ञः । एतावता वनस्पतिर्वनानां पालकोऽग्निरिति निरस्तमेव । ' अथास्मै व्रतं श्रपयन्ति । देवान् वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति, शृतं वै देवानां हविर्नाशृतं तस्माच्छ्रपयन्ति तदेष एव व्रतयति नाग्नौ जुहोति तद्यदेष एव व्रतयति नाग्नौ जुहोति ' ( श. ३.२.२.१० ) । व्रतपदेन यजमानभक्षणीयं पय एवेत्यत्र स्पष्टमिदं ब्राह्मणवचनं प्रमाणम् । अथास्मै यजमानाय व्रतं तद्भक्षणीयं पयः श्रपयन्ति । तेन व्रतं नियमपूर्वकधर्माचरणमिति दयानन्दोक्तं व्याख्यानं परास्तं वेदितव्यम्, तस्य यो श्रपणासम्भवात् । ननु यजमानो न देव इति कथं तत्पयः श्रपणीयमिति चेत्तत्राह — देवान् वा एष उपावर्तते दीक्षतइति । तस्माद् दीक्षितो देवानामेको भवति । देवानां च नानृतं हविर्भवति । तस्माच्छ्रपणीयमेव । ननु देवा अग्निमुखा भवन्तीत्यग्नावेव होतव्यमिति तत्राप्याह - एष एव यजमान एव व्रतयति पिबति नाग्नौ जुहोति । ' यज्ञेन वै देवा इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्त्रथ यदेनेनायोपयंस्तस्माद्यूपो नाम ' ( श. ३.२.२.११ ) । आत्मन्येव होमं पुरातनवृत्तान्तेन प्रशंसति – यज्ञेन वा इति । श्रुतिस्तु व्याख्याता । प्रसङ्गान्तरे देवैराच्छादितस्यापि पयोव्रतस्य तदवगच्छद्भिः पूर्वोक्तर्षिभिः सम्भृतत्वादनेनापि संभर्तव्यमित्यपि तत्रैवोक्तम् । ‘ तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन् यथायं यज्ञः संभृत एष वा अत्र यज्ञो भवति यो दीक्षत एष ह्येनं तनुत एष एनं जनयति तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत् पुनराप्याययति यदेष एव व्रतयति नाग्नौ जुहोति न हाप्याययेद्यदग्नौ जुहुयाद् । जुह्वदु हैव मन्येत नाजुह्वत् ' ( श. ३.२.२.१२ ) । ननु सर्वेषामपि हविरग्नौ हूयते, पयोऽपि हविरिति किमिदं पीयते, कुतो न हूयत इति चेत्तत्रापि दीक्षितस्याग्नित्वमुपपादयति — एव वा अत्र यज्ञोऽग्निर्भवति यो दीक्षते । कुत एतदित्याह - एष ह्येनं यज्ञं तनुते, एनं जनयतीति । अत्र यज्ञशब्देनाग्निरभिधीयते, यज्ञोत्पादक-त्वात् । अतः स्वात्माग्नौ होमेन यज्ञस्य ज्योतिष्टोमस्य यन्निधीतं निष्पीतमनुष्ठानेन विफलम् यच्च विदुग्धं विपरीतानुष्ठानेन विपरीतफलमङ्गम्, तत्पुनराप्यायितवान् भवति । व्यतिरेके दोषमाह — नाग्नौ जुहोत्यादिना । ‘ इमे वै प्राणाः मनोजाता मनोयुजो दक्षक्रतवो वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा एतासु हैवास्यैतद्देवतासु हुतं भवति ' ( श. ३.२.२.१३ ) । ननु देवताप्रीणनाभावात् कथं यज्ञबुद्धिरिति चेत्, तत्राह— इमे वा इति । वागादीनां मुख्यप्राणप्रवेशेन प्राणशब्दव्यवहारस्य इमे प्राणा वागादयो मनोजाता मनसः सकाशादुत्पन्नाः, मनोव्यतिरेकेण शब्दादिषु प्रवृत्त्यसम्भवात् । मनोयुजः, स्वस्वव्यापारेषु मनसः कर्तृत्वात् । त एव दक्षक्रतवो दक्षाः प्रवृद्धा स्वस्वोचिताः क्रतवः कर्माणि येषां ते दक्षक्रतवः । तेषां देवता विभज्य योजयति — वागेवाग्निरित्यादिना । ' अग्निर्वाग्भूत्वा मुखं प्राविशत् ' ( ऐ. आ. २.४.२ ) । इन्द्रियतदभिमानिदेवतयोरभेदव्यवहारः । एतासु देवतासु प्रीणयति, तस्मादेतासु निमित्तभूतासु स्वात्मनि हुतं भवति । यद्वा अग्नौ चेदेकस्मिन्नेव हुतं भवेत्, आत्मनि तु तत्तदिन्द्रियदेवतासु
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
म. ११-१२ ] वेदार्थपारिजात भाष्यसहिता ३७ सर्वास्वपि हुतं भवति । तस्माज्जुह्वन्मन्येत । एवं यजमानस्य दीक्षितस्य यज्ञनिर्वर्तकत्वेन यज्ञरूपत्वात् तदीयवागादिषु प्राणेष्वग्न्यादिदेवतानां सत्त्वात् तत्पानेन सर्वदेवतासु तद्भुतं भवति । तद्धैके प्रथमे व्रत उभौ व्रीहियवावावपतीत्यादिना केषाञ्चिद्रीत्या व्रीहियवयोर्व्रतत्वमन्येषां व्रीहियवप्रियङ्गुगोधूमादि यच्च सुरभिपिप्पल्यादि तस्य सर्वौषधस्य व्रतत्वमुपक्षिष्य तौ पक्षौ प्रत्याख्याय पयस एव व्रतत्वं प्रशस्य ' अथास्मै व्रतं प्रयच्छति । अतिनीय मानुषं कालं सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे व्याकृत्या एव दैवं चैवैतन्मानुषं च व्याकरोति ' ( श. ३.२.२.१६ ) । मानुषं कालमतिनीयातिक्रम्य सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे दैवं च मानुषं च कालं व्याकृत्य विभज्य प्रयच्छति । तदुक्तं कात्यायनेन — ' व्रतं प्रय-च्छत्यनुत्सिक्तमपररात्रे सायंदोहमपराह्णे प्रातर्दोहम् ' ( का. श्रौ. ७.४.२५ ) । व्रतयतीति व्रतं पयः, अनुत्सिक्तं पयो भोजनार्थं यजमानाय प्रयच्छत्यध्वर्युः । तत्र सायंदोहमपररात्रे दद्यात् प्रातदहं चापराह्णे दद्यात् । व्रतं दुग्धमल्पं दृष्ट्वा यदि कश्चित् स्नेहदयादियुक्तः पुरुषोऽन्यद् दुग्धमानीय व्रतमध्ये निनयति तदुत्सिक्तम्, तद्विपरीतमनुत्सिक्तं क्षीरान्तरेणासंस्-ष्टमित्यर्थः । प्रकृते चानुत्सिक्तमेव व्रतं दद्यात् । ' अथास्मै व्रतं प्रदास्यन्नप उपस्पर्शयति । दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति मानुषाय वा एष पुराऽशनायावनेनिक्तेऽथात्र देव्यै धिये तस्मादाह दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति स यावत्कियच्च व्रतं व्रतयिष्यन्नप उपस्पृशेदेतेनैवोपस्पृशेत् ' ( श. ३.२.२.१७ ) । अध्वर्युकारयितृकं यजमानकर्तृकमुपस्पर्शनं विधत्ते - अथास्मै व्रतं प्रदास्यन्निति । लौकिकाशनाय हस्ता-वनेजनव्यापृतये मन्त्रेणावनेजनं युक्तमिति तदुच्यते । तत्रापि पयोव्रतस्य दीक्षितविषयत्वेन देवाशनत्वाद् दैवीं धियमिति मन्त्रेणावनेजनं युक्तम् । प्रकरणात् पयोव्रत एव हस्तप्रक्षालनेऽयं मन्त्र इति प्राप्तिस्तथापि सर्वव्रतावनेजनसाधारणता-माह - स यावदिति । उपस्पर्शनमाचमनमिति कर्कः । उदकस्पर्शमात्रमेवेति सम्प्रदाय इति हरिस्वामी च । ' अथ व्रतं व्रतयति । ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते नोऽवन्तु ते नः पान्तु तेभ्यः स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद् भवति ' ( श. ३.२.२.१८ ) । समत्रकं व्रत ( पयः ) पानं विधत्ते - अथ व्रतमिति । एवमस्य समन्त्रकं व्रतं स्वाहाकृतत्वाद् हुतमेव भवति । मन्त्रव्याख्यानं तु तदनुगुणं कृतमेव । तस्माच्छूतिसूत्रविरुद्धं व्याख्या-नमुपेक्षणीयमेव ॥ ११ ॥
श्वा॒ात्राः पि॒ता भ॑वत यु॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवः॑ ।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नम॒वा अना॑गस॒ः स्वद॑न्तु॒ दे॒वीर॒मृता॑ ऋता॒वृधः॑ ॥१२ ॥
' वात्रा: पीता इति नाभिमालभते ' ( का. श्रौ. ७.४.२ ९ ) । श्वात्राः पीता इति मन्त्रेण यजमानो नाभिमालभते । अब्दैवत्या जगती । हे क्षीररूपा आप! यूयं मया पीता सत्यः श्वात्राः क्षिप्रपरिणामाः शीघ्रं जीर्णा भवत । ' श्वात्रमिति क्षिप्रनामसु ' ( निरु. ५.३ ) । किञ्चास्माकं पीतवतामन्तरुदरे जलपाकस्थाने सुशेवाः शोभनसुखाः भवतेत्यनुवर्तते । मन्त्रार्थ - हे दुग्धरूप जलदेवता! पीये जाने पर तुम शीघ्र जीर्ण ( पच ) हो जाओ । हम पीने वालों के उदर में सुखकारी, सभी रोगों को दूर करने वाले, भूख - प्यास आदि को मिटाने वाले, यज्ञ को समृद्ध करने वाले, मृत्यु को दूर करने वाले, मरण-रहित तुम हमारे लिये स्वादयुक्त बनो । इस मन्त्र का उच्चारण करते हुए यजमान अपनी नाभि का स्पर्श करता है ॥१२ ॥
भाष्यसार कात्यायन श्रौतसूत्र ( ७.४.३० ) के याज्ञिक विनियोग के अनुसार ' श्वात्राः पीता: ' इस कण्डिका से यजमान नाभि का स्पर्श करता है । तदनुसार इस मन्त्र का जलदेवतापरक अर्थ किया गया है ।
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
३८ शुक्लयजुर्वेदसंहिता [ अ.४ ' शेवमिति सुखनामसु ' ( निरु. १०.१७ ) । तास्तथाविधा आपोऽस्मभ्यमस्मद्धितार्थं स्वदन्तु स्वादुत्वयुक्ता भवन्तु । कथंभूतास्ताः? अयक्ष्माः प्रबलरोगविशेषरहिताः, अनमीवा अल्पेन रोगसामान्येनापि रहिताः, अनागसो निष्पापा निरुपद्रवा देवीः देवेभ्यो शरीरादिपुष्टिहेतुत्वेन द्योतमाना अमृता अपमृत्युरहिता ऋतावृध ऋतं यज्ञं वर्धयन्तीति ऋतावृधः, यज्ञपोषिका इत्यर्थः । यद्वा देवीरिति द्वितीयान्तं पदम् । एतत्पदसामानाधिकरण्यात्तु ता इत्यादीन्यपि द्वितीयान्तान्येव पदानि । ता युष्मान् अस्मभ्यमस्मदर्थमयक्ष्मा अनमीवा अनागसः स्वदन्तु आस्वादयन्तु । अमृता ऋतावृधः प्राणाः । अध्यात्मपक्षे – सर्वाण्यपि वस्तूनि सर्वशेषिणो भगवतः शेषभूतान्येवेति तदधिगमतद्भक्तितत्सेवौपयिकत्वेनैव सर्वेषां साफल्यम् । शरीरस्थितिरपि भगवद्भक्तिसदुपयोगेनैवेप्सिता । तथैव जलान्नादिकमपि तदर्थमेवोपयोगीति तदाह – हे आपः! आप्नुवन्तीत्यापः यूयं पीताः सत्यः श्वात्राः क्षिप्रविपरिणामा जीर्णाः अस्माकमन्तरुदरे सुशेवाः शोभनसुखा भगवद्भक्त्युपयोगिस्वास्थ्यसम्पादिका भवत । ' शेवमिति सुखनामसु ' ( निरु. १०.१७ ) । सुखशोभनत्व-मिदमेव यद् भगवत्सम्बन्धित्वम् । वैषयिकसुखस्य विषवत् त्याज्यत्वोक्त्याऽशोभनत्वमेव, ' मोक्षमिच्छसि चेत्तात विषयान् विषवत् त्यज ' इत्यभियुक्तोक्तेः । किञ्चास्माकं हिताय भगवत्परायणतायै स्वदन्तु स्वादुत्वादिगुणविशिष्टा भवन्तु । अयक्ष्मा प्रबलरोगशून्याः, अनमीवाः सामान्यरोगनिवर्तिकाः, अनागसोऽपराधहारिण्यः, ऋतावृध ऋतं सत्यं ध्यानज्ञानादिलक्षणं यज्ञं वर्धयन्तीति ऋतावृध, देवीः देव्यो द्योतमाना भगवत्सुखप्रकाशिका, अमृता अमरणहेतवो भगवत्प्रापणेन मरणनिवर्तिका भवन्तु । दयानन्दस्तु — हे मनुष्याः, या अस्माभिः पीता अस्माकमन्तरुदरेऽस्मभ्यं श्वात्राः सुशेवा अयक्ष्मा अनमीवा अनागस ऋतावृधोऽमृता देवीः देव्यस्ता भवन्तः स्वदन्तु सुसेवन्ताम् । तदेतदनुष्ठाय यूयं सुखिनो भवत । श्वात्रं प्रशस्तं विज्ञानं धनं वा विद्यते यासां ताः, अर्शआद्यच् । ' श्वात्रं पदनामसु पठितम् ' ( निघ. ४.२.१४ ), ' धननामसु च ' ( निघ. २.१०.६ ) इति, तदसङ्गतमेव, स्वसिद्धान्तव्याकोपात् । तथाहि त्वद्रीत्या अपां जडत्वेन तासु विज्ञानाभावेन सुतरामसङ्गतिः । प्रशस्तज्ञानस्य तु तत्र का कथा? तासु प्रशस्तं धनमपि न सम्भवति, अन्यथा जलस्य सौलभ्याद् धनसौलभ्यमपि स्यात् । तस्मात् क्षिप्रपरिणामा इत्येवार्थः । अपां सेवनं जीवनहेतुत्वादनिवार्यमेवेति रागप्राप्तत्वात् द्विधानं व्यर्थमेव स्यात् । अध्यात्मपक्ष में यह अर्थ है - - समस्त वस्तुएं भगवदवयवभूत हैं । अतः भगवत्सेवा के द्वारा ही सबकी सफलता है । इस आशय से कहा गया है कि हे व्यापनशील जलधाराओं, आप पीने पर शीघ्र पचनशील होकर हमारे उदर के अन्तर्गत सुखकर भगवद्भक्ति की सम्पादिनी हों तथा रोगशून्य, रोगनिवर्तक, दोषहारक, सत्य एवं यज्ञ की परिवर्धक, भगवत्सुख की प्रकाशक, अमृतत्वप्रापक होकर स्वादुत्वादि गुणविशेष से युक्त हों । स्वामी दयानन्द ने ' श्वात्रा ' का अर्थ प्रशस्त विज्ञान अथवा धनवाली किया है, वह असंगत है, क्योंकि इससे स्वामी दयानन्द के सिद्धान्त का ही खण्डन होता है । उनके मत में जल के जड होने के कारण उसमें ज्ञान का अभाव होने से इस अर्थ की कथमपि संगति नहीं है । उस मत में प्रशस्त ज्ञान की तो बात ही नहीं हो सकती । जल में प्रशस्त धन की संभावना भी नहीं है । अन्यथा जल की प्राप्ति से धन की प्राप्ति भी कही जायगी । अतः ' श्वात्रा ' का अर्थ शीघ्र पचनशील ही ठीक है । शतपथ ब्राह्मण में भी हमारे सिद्धान्त से सम्मत व्याख्यान ही उपदिष्ट है ॥ १२ ॥
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
म. १२-१३ ] वेदार्थपारिजात भाष्यसहिता ३ ९ शतपथे तु सिद्धान्तसम्मतमेव व्याख्यानं समर्थितम् । ' अथ व्रतं व्रतयित्वा नाभिमुपस्पृशते श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवास्ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृध इति देवान् वा एषु उपावर्तते यो दीक्षते स देवतानामेको भवत्यनुत्सिक्तं वै देवानां हविरथैतद् व्रतप्रदो मिथ्याकरोति. व्रतमुपोत्सिञ्चन् व्रतं प्रमीणाति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्या कृतं भवति न व्रतं प्रमीणाति तस्मादाह श्वात्राः पीता भवत यूयमापो.. इति म़ यावत्किग्च्च व्रतं व्रतयित्वा नाभिमुपस्पृशेदेतेनैवोपस्पृशेत् कस्तद्वेद यद् व्रतप्रदो व्रतमुपोत्सिञ्चेत् ' ( श. ३.२.२.१ ९ ) । समन्त्रकनाभ्युपस्पर्शनस्य विधानं तत्प्रयोजनं चाह — अथ व्रतं व्रतयित्वेति । देवार्थस्य हविषः स्कन्दनायोग्यत्वाद् दीक्षितस्यापि देवत्वाद् व्रतप्रदानेऽप्यध्वर्योः प्रमादात् स्कन्दनादेः सम्भवाद् यज्ञदोषः सम्भाव्येत, तस्यायं मन्त्रः प्रायश्चित्तमित्यर्थः । अस्मिन् मन्त्रे पयसामितस्ततः पतनराहित्येन शीघ्रपीतत्वस्योदरान्तःप्रवेशस्य च प्रार्थितत्वादुदकोपस्पर्शनमन्त्रवत् तन्नाभ्युपस्पर्शनमन्त्रस्यापि सर्वव्रतसाधारण्य-माह - स यावत्कियदिति । नाभ्युपस्पर्शनात्मकप्रायश्चित्तमन्त्रस्य सर्वत्र कर्तव्यत्वे कारणमाह — कस्तदिति । उपोत्सि-चेत् सर्वतो विकिरेत् ॥१२ ॥
इ॒यं ते॑ य॒ज्ञिया॑ त॒नू र॒पो मु॑ञ्चामि॒ न प्र॒जाम् । अ॒क्षं होमुच॒ स्वाहा॑कृ॒ताः पृथि॒वीमावि॑शत पृथि॒व्या सम्भ॑व ॥१३ ॥
' मेक्ष्यन् कृष्णविषाणया लोष्टं किञ्चिद्वादत्त इयं त इति ' ( का. श्रौ. ७.४.३० ) । मूत्रं करिष्यन् शृङ्गेण लोष्टं किञ्चिद्वा तृणादिकं वा गृह्णाति । हे यज्ञपुरुष! इयं पृथिवी ते तव यज्ञिया तनूः यज्ञार्हो देहः, अतोऽस्या मूत्रोपहतिपरिहाराय व्यवधानं कर्तुं लोष्टं तृण वा स्वीकरोमि । यद्वा पृथिवी प्रोच्यते इयं तव यज्ञिया तनूः तामाददे इति शेषः । ' अपो मुञ्चामीति मेहति ' ( का. श्रौ. ७.४.३१ ) । अपो मुञ्चामीति मेहतीत्यस्यां लोष्टव्यवहितायां पृथिव्यामपो मूत्ररूपा अहं मुञ्चामि न प्रजां प्रजोत्पत्तिनिमित्तं रेतो मुञ्चामि । हे आपः! मूत्ररूपा यूयं पृथिवीमाविशत प्रविशत । कीदृश्यः? अंहोमुचः अंहसः पापाद् मुञ्चन्ति पुरुषं पृथक्कुर्वन्तीति । स्वाहाकृताः पूर्वं क्षीरपानकाले स्वाहेति मन्त्रेण स्वीकृताः, अथवा स्वाहाकृताः सत्यो भूमिमाविशत | ' पृथिव्या सम्भवेत्यात्तं निदधाति ' ( का. श्री. ७.४.३२ ) । गृहीतलोष्टादिकं मूत्रणस्थाने क्षिपेत् । हे लोष्टादिक! पृथिव्या सह त्वं सम्भव एकीभव । ' अथ यत्र मेक्ष्यन् भवति । तत्कृष्णविषाणया लोष्टं वा किञ्चिद्बोपहन्तीयं ते यज्ञिया तनूरितीयं वै पृथिवी देवी देवयजनी सा दीक्षितेन नाभिमिह्या तस्या एतदुद्गृह्यैव यज्ञियां तनूमथायज्ञियं शरीरमभिमेहत्यपो मुञ्चामि न प्रजामित्युभयं वा अत एत्यापश्च रेतश्च स एतदप एव मुञ्चति न प्रजामहोमुचः स्वाहाकृता इत्यं हस इव ह्येता मुञ्चन्ति यदुदरे गुण्ठितं भवति तस्मादाहां होमुच इति स्वाहाकृताः मन्त्रार्थ - हे यज्ञपुरूष! यह पृथ्वी तुम्हारे लिये शरीर का काम करती है, अतः इसकी अपवित्रता को दूर करने के लिये मैं मिट्टी के ढेले या तृण को ग्रहण करता हैं । मैं मूत्ररूप जल को छोड़ता हैं । हे मूत्ररूप जल! तुम अशुचि हो । दूध पीते समय स्वाहा मन्त्र से स्वीकृत तुम पृथ्वी में प्रवेश करो । हे लोष्ट आदि तुम पृथ्वी के साथ एक रूप हो जाओ ॥ इस मन्त्र का उच्चारण करते हुए यजमान हिरण के सींग से मिट्टी या तृण को ग्रहण कर अपवित्र भूमि पर डालता है ॥ १३ ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( ७.४.३१-३३ ) में ' इयं ते ' इत्यादि मन्त्रों में सोमयाग में दीक्षित यजमान की दैहिक जलोत्सर्जन शंका के निवारण हेतु विनियोगविधान का निर्देश किया गया है ।
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
४० शुक्लयजुर्वेदसंहिता [ अ. ४ पृथिवीमाविशतेत्याहुतयो भूत्वा शान्ताः पृथिवीमाविशतेत्येवैतदाह ' ( श. ३.२.२.२० ) । दीक्षितस्य मूत्रोत्सर्गे विशेष-माह - अथ यत्रेति । यत्र प्रदेशे मेक्ष्यन् मूत्रसेकं करिष्यन् भवति, तत्र किञ्चिद्वा लोष्टाभावे तत्सम्बन्धि मृदादिकं कृष्ण-विषाणया उपहन्ति उपाददीत लोष्टं वा किञ्चिद्वा । मन्त्रमाह — इयं त इति । व्याचष्टे -- इयं वा इति । पृथिव्या देवयजनार्हत्वं कृतवान् भवति । मेहनमन्त्रमाह — अपो मुञ्चामीति । अंहोमुच इति देहान्तर्गतेन पापेन सहैवैता मूत्ररूपा अपो मुञ्चन्तीति तस्मादंहोमुच इति पठेत् । अध्यात्मपक्षेऽपि — सर्वस्यैव प्रपञ्चस्य ब्रह्मकार्यत्वेन ब्रह्मरूपत्वमभिप्रेत्य न साक्षात्पृथिव्यामषां विमोकः, पृथिव्या ब्रह्मरूपत्वात्, किन्तु लोष्टादिव्यवहितायामेवापो मूत्ररूपा मुञ्चामि । हे आपः! अंहोमुचः, अंहसः सकाशा-त्पुरुषं मुञ्चन्ति पृथक्कुर्वन्ति स्वाहाकृताः स्वाहाकारेण ज्योतिष्टोमादौ व्रतरूपा यजमानेन स्वाहेति मन्त्रेण स्वीकृता यूयं पृथिवीमाविशत, हे लोष्टादिक! पृथिव्या सहैकीभव । यद्वा आप्नुवन्तीत्यापो व्यापकब्रह्मविवर्तत्वेन ब्रह्मरूपाः । दयानन्दस्तु — ' इयं वक्ष्यमाणा ते तव यज्ञिया यज्ञमर्हति सा यज्ञिया तनूः शरीरम् अपः संस्कृतजलानि मुञ्चामि प्रक्षिपामि न प्रजाम् । अंहोमुचो दुःखमोचयित्र्यः स्वाहाकृता यत्क्रियया सुसंस्कृताः क्रियन्ते ताः । पृथिवीं भूमिम् आसमन्ताद् विशत । पृथिव्या भूम्या सह सम्भव सम्पद्यस्व । हे विद्वन्, यथा ते येयं यज्ञिया तनूरपः प्राणान् प्रजां पालनीयां न त्यजति यं त्वं न मुञ्चसि तथैवाहमेता ईदृशं स्वशरीरं च न मुञ्चामि न त्यजामि । हे मनुष्याः, यथा यूयं पृथिव्या सह सम्भवतांहोमुचः स्वाहाकृता अपः पृथिवीं चाविशत विज्ञानेनासमन्तात् प्रवेशं कुरुताहं च सम्भवाम्याविशामि च, तथा त्वमपि सम्भव चाविश ' इति, हिन्दीभाष्ये च ' हे विद्वन्, यथा ते इयं यज्ञिया तनूः यज्ञयोग्यो देहः, अपो जलं प्राणान् प्रजां वा न त्यजसि रक्षसि, तथैवाहं मदीयं शरीरं पूर्णमायुर्भोगमन्तरा मध्य एव प्रमादेन न मुञ्चामि । हे मनुष्याः यूयं पृथिव्या भूम्या वैभवेन युक्ताः सन्तः, अंहोमुचो दुःखमोचयितृभ्यः स्वाहाकृता वाण्या सिद्धा अपो भूमिं च आविशत अहं चैश्वर्यसहित इमान् प्रविशामि तथैव त्वमपि सम्भव प्रविश च ' इति, तदपि यत्किञ्चित्, पूर्वोक्तशतपथवचनविरुद्धत्वात् अनुपपत्तेश्च । नात्र परमेश्वरो वक्ता, तस्याशरीरत्वात् । न जीवः, समत्वात् । हे विद्वन्निति सम्बोधनेन विद्वानुपदेश्यः प्रतीयते, उपदेष्टुश्चातथात्वं ज्ञायते । न च विद्वानुपदेष्टव्यो वैदुष्यादेव । नहि यज्ञियैव तनूः प्राणान् प्रजां च न त्यजति किन्त्वयज्ञियापि तथैव । न च केचिज्जलं पृथिवीं प्रविशमाना उपलभ्यन्ते, न वा तदनुकुर्वाणा केचित्तथाभूता दृश्यन्ते, उपपद्यते वा ॥१३ ॥
इस कण्डिका का आध्यात्मिक पक्ष में इस प्रकार अर्थ है - समस्त विश्वप्रपच की ब्रह्मरूपता मानने पर पृथ्वी के भी ब्रह्मरूप होने के कारण साक्षात् पृथ्वी पर जलोत्सर्ग नहीं किया जाता, अपि तु लोष्ट ( ढेला ) आदि का व्यवधान रखते हैं । हे जल, पाप से पुरुष को मुक्त करने वाले, यज्ञों में यजमान के द्वारा स्वाहा- मन्त्रों से परिगृहीत आप पृथिवी में प्रविष्ट हों । तथा हे लोष्टादि द्रव्य, आप सब पृथिवी से संयुक्त हों । स्वामी दयानन्द ने भाष्य तथा हिन्दी व्याख्या में जो अर्थ किया है, वह शतपथ ब्राह्मण से विरुद्ध होने के कारण तथा संगति न रहने के कारण समीचीन नहीं है । इनके मत में परमेश्वर शरीररहित होने के कारण वक्ता नहीं हो सकता । समान होने के कारण जीव भी वक्ता नहीं हो सकता । ' हे विद्वन् ' इस प्रकार विद्वान् को उपदेश देना उसके वैदुष्य रहने पर उचित नहीं है । स्वामी दयानन्द के अर्थानुसार जल और पृथ्वी में प्रविष्ट होते हुए कोई उपलब्ध नहीं होते । उनका अनुकरण करने वाले भी इस प्रकार के व्यक्ति दृष्टिगोचर नहीं होते । यह अर्थ संगत भी नहीं है ॥१३ ॥
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १४ ] वेदार्थपारिजात भाष्यसहिता
अग्ने॒ त्वनं॒ सुजा॑गृहि व॒यं सुम॑न्दिषीमहि ।
रक्ष णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒ पुन॑स्कृधि ॥ १४ ॥
४१ ' अग्ने त्वमित्युक्त्वा स्वपित्यधः प्राङ् दक्षिणत इति ' ( का.श्रौ. ७.४.३३ ) । अग्निदेवत्याऽनुष्टुप् । हे अग्ने, त्वं सुजागृहि निद्राणस्य मम भयपरिहाराय सुष्ठु विनिद्रो भव । वयं यष्टारः सुमन्दिषीमहि साधु स्वप्स्यामः । मन्दति स्वापार्थः । स्वापविघाते सति मोदस्याभावादेवं प्रार्थना । अप्रयुच्छन्नप्रमाद्यन् नो रक्ष अस्मान् पालय । युच्छतिः प्रमादार्थः । नोऽस्माकं प्रबुधे प्रबोधाय पुनस्कृधि भूयोऽपि कुरु, प्रयत्नमिति शेषः ' अग्निमेवाधिपं कृत्वा स्वपिति रक्षसामपहत्यै ' ( तै. सं. ६.१.४.६ ) इति श्रुतेः । ' नश्च धातुस्थोरुषुभ्यः ' ( पा. सू. ८.४.२७ ) इति नस्य णत्वम् । नोऽप्रयुच्छन्नित्यत्र ' एङः पदान्तादति ' ( पा. सू. ६.१.१० ९ ) इति पूर्वरूपे प्राप्ते ' प्रकृत्यान्तःपादमव्यपरे ' ( पा. सू. ६.१.११५ ) इति प्रकृतिभावः । अध्यात्मपक्षे – हे अग्ने परमेश्वर, त्वं नोऽस्माकं रक्षणाय सुजागृहि विनिद्रो भव । सदा सावधानोऽपि परमेश्वरः स्वात्मरक्षणाय तज्जागरणाय प्रार्थ्यते | । येन मद्रक्षणाय त्वत्कर्तृकजागरणेन च वयं सुमन्दिषीमहि निर्भयं सुखं शयीमहि, ' यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः ' ( भा. पु. ६.२.५ ) इति श्रीमद्भागवतवचनात् । अप्रयुच्छन् सावधान:, नोऽस्मान् रक्ष पालय । दैन्यातिशयात् सावधानेऽप्रमत्तेऽपि भगवति सावधानतायै प्रार्थना भवति । यथोक्तमभियुक्तैः-' या त्वरा द्रौपदीत्राणे या त्वरा गजमोक्षणे । मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ' इति । यथा वा केनचिद् भाषाकविना — ‘ बाण सेरान कि सिंह हेरान कि ध्यान धरे प्रभु को जपती हो । की कहुँ सेवक कष्ट परो तँह अष्टभुजा बल दे लड़ती हो । सिंह चढ़े देवी छत्र विराजत लाल ध्वजा रण में फिरती हो ।- मोंहि पुकारत देर भी जगदम्ब विलम्ब कहाँ करती हो । ' अर्थात् किं बाणा समाप्ताः कि व सिंहो ( वाहनम् ) ऽपगतो ध्याने वा संलग्ना क्वचिदार्तत्राणे वा दत्तचित्तासि, कुतो मद्रक्षणे विलम्ब इति । हे परमेश्वर, स्वापकालेऽस्मान् रक्ष पालय सर्वतो भयात् प्रबोधाय जागरणाय पुरुषार्थसाधनोद्योगाय पुनः कृधि कुरु, प्रयत्नमिति शेषः । दयानन्दस्तु -- अग्ने त्वमिति योऽग्निः प्रबुधे जागरिते नोऽस्मान् सुजागृहि सुजागरयति, येन वयं सुमन्दिषीमहि शयीमहि, अप्रयुच्छन्नोऽस्मान् रक्ष रक्षति प्रयुच्छतश्च हिनस्ति, यो नोऽस्मान् पुनरेवं कृधि करोति, सोऽस्माभिर्युक्त्या मन्त्रार्थ - हे अग्निदेवता! आप भली प्रकार जागिये, जिससे कि हम सुखपूर्वक सो सकें । हमारे सो जाने पर हमारी चारों तरफ से आप सावधानी से रक्षा कीजिये और उचित समय पर हमें जगा दीजिये । इस मन्त्र से यजमान आहवनीय अग्नि के दक्षिण में उत्तर या पूर्व में सिर करके अग्नि की अपेक्षा नीची भूमि में सोवे ॥ १४ ॥
भाष्यसार — याज्ञिक प्रक्रिया के विनियोग के अनुसार सोमयागकर्ता यजमान रात्रि में भूमि पर शयन करने से पूर्व ' अग्ने त्वम् ' इस ऋचा का पाठ करे । कात्यायन श्रौतसूत्र ( ७.४.३ ९ ) के इस विनियोग से संमत अर्थ ही शतपथ ब्राह्मण में भी निर्दिष्ट है । अध्यात्मपक्ष में यह अर्थ है - - हे परमेश्वर अग्निदेव! आप हमारी रक्षा के लिये भलीभांति जाग्रत् हो जाइये, जिससे हम लोग निर्भय होकर सुखपूर्वक शयन करें । श्रीमद्भागवत ( ६.२५ ) के वचन से भी यह प्रार्थना संमत है । हे देव, सावधान होकर हमारी रक्षा करें । यहां दैन्य के अतिशय के कारण सर्वदा सावधान तथा प्रमादशून्य भगवान् के प्रति भी सावधान रहने के लिये प्रार्थना की गई है । हे परमेश्वर, हमारे सर्वविध भय से प्रबोधन- हेतु पुरुषार्थ के साधन हेतु उद्योग के लिये पुनः प्रयत्न करें । स्वामी दयानन्द के संस्कृत भाष्य एवं हिन्दी अर्थ दोनों ही मन्त्र के अनुसार न होने के कारण ठीक नहीं हैं । जागरण हो जाने पर अग्नि द्वारा कर्ता के जागरण के लिये किया गया व्यापार निरर्थक हो जायगा । ' अप्रयुच्छन् ' यह रक्षक का विशेषण है ।