वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 51–60
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 51–60
पृष्ठ 51
पाठ पढ़ें पाठ छिपाएँ
४२ शुक्लयजुर्वेदसंहिता [ अ.४ सम्यक् सेवनीयः ' इति | हिन्दी भाष्ये तु – ' हे अग्ने, यस्त्वं प्रबुधे जागरणसमये सम्यग् जागरयति यतो वयं जग-त्कर्मानुष्ठातार आनन्दपूर्वकं शयीमहि, अप्रयुच्छन् अप्रमाद्यन् प्रमादरहितानस्मान् रक्ष रक्षति, प्रमादसहितान् नो हिनस्ति, यश्चास्माभिः सार्धं पुनः पुनरेवं व्यवहरति, स युक्त्यास्माभिः सेवनीयः ' इति, तदुभयं यत्किञ्चित् मन्त्राननुसारित्वात् । जागरणे जाते सत्यग्निप्रयोजककर्तृजागरणानुकूलव्यापारस्य निरर्थकत्वात् । ' येन वयं सुमन्दिषीमहि ' इत्यत्रापि येने-त्यंशोऽश्रौत एव । ‘ अप्रयुच्छन् ' इति रक्षकस्य विशेषणम् । तेनाप्रयुच्छतो रक्षसि प्रयुच्छतो हिनस्तीत्येतदश्रौतमेव व्याख्यानम्, वालाग्रशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ' इत्यभियुक्तोक्तेः । शतपथे तु सिद्धान्तानुसारि व्याख्यानमेव समर्थितम् । तथाहि —– ' अथाग्नये परिदाय स्वपिति । देवान् वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवत्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्परिदाय स्वपित्यग्ने त्वं सुजागृहि वयं सुमन्दिषीमहीत्यग्ने त्वं जागृहि वयं स्वप्स्याम इत्येवैतदाह रक्षाणो अप्रयुच्छन्निति गोपाय नोऽप्रमत्त इत्येवैतदाह प्रबुधे नः पुनस्कृधीति यथेतः सुप्त्वा स्वस्ति प्रबुद्ध्यामहा एवं नः कुर्वित्येवैतदाह ' ( श. ३.२.२.२२ ) । अत्र स्पष्टं दीक्षितस्य स्वापकालेऽग्नये परिदानमुक्तम् । परिदानं हि रक्षणार्थं दानम् । यो दीक्षते स देवानुपावर्तते । अतः स दीक्षितो देवतानामेको भवति । न वै देवाः स्वपन्ति । अतोऽनवरुद्ध एतस्यास्वप्नो भवति । अग्निर्वै देवानां व्रतपतिरिति तस्मै अग्नये रक्षणार्थं दत्त्वायं स्वपिति । तदनेन मन्त्रेण परिदानमुच्यते । मन्त्रपदानि व्याचष्टे श्रुतिः । तत्र प्रथमभागस्य तात्पर्यमाह - अग्ने त्वं जागृहि वयं स्वप्स्याम इति । अप्रयुच्छन्नित्यस्य तात्पर्यमल - गोपाय नोऽप्रमत्त इति । नात्राप्रमत्तस्य रक्षणं प्रमत्तस्य हिंसनं वोक्तम् । प्रबुधे नः पुनस्कृधीत्यस्य तात्पर्यमाह - यथेतः सुप्त्वा स्वस्ति प्रबुध्यामहा एवं कुर्वित्येवैतदाहेति । इतोऽस्मात् स्थानात् स्वापानन्तरं स्वस्ति क्षेमेण ज्वरशिरोव्यथादिराहित्येन यथा प्रबुद्धयामहे तथा कुर्विति मन्त्रभाग आहेत्यर्थः । तस्माद्यथाव्याख्यात एवार्थः ॥ १४ ॥
पुन॒र्मन॒ पुन॒रायुर्म॒ आय॒न् पुनः॑ प्रा॒णः पुन॑रा॒त्मा म॒ आग॒न् पुन॒श्चक्षुः पुन॒ः श्रोत्र॑ म॒ आग॑न् । वैश्वान॒रो अद॑ब्धस्तनु॒पा अ॒ग्निनः॑ पातु दुरि॒ताद॑व॒द्यात् ॥१५ ॥
' अग्निमभ्यावृत्तं विबुद्धमस्वपस्यन्तं पुनर्मन इति वाचयति ' ( का. श्रौ. ७.४.३४ ७.५.१ ) । अग्निमभ्यावृत्तो बुद्धश्च यजमानो यदि पुनर्न स्वपितुमिच्छति, तदा पुनर्मन इति मन्त्रं वाचयेत् । मन्त्रार्थस्तु — मे मम यजमानस्य अतः अप्रमत्त की रक्षा करते हो तथा प्रमाद करने वाले की हिंसा करते हो, यह व्याख्या श्रुतिवाक्य से विपरीत है । जब कि प्राचीन आचार्यों ने कहा है कि वाल के अग्र भाग के सौवें हिस्से की भी प्रमाणरहित कल्पना नहीं करनी चाहिये । शतपथ श्रुति में तो हमारे सिद्धान्त के अनुसार व्याख्या ही समर्थित है ॥ १४ ॥
मन्त्रार्थ - मेरा मन सुषुप्ति काल में विलीन होकर जागने पर फिर शरीर में आ गया, स्वप्न में नष्टप्राय हुई आयु फिर प्राप्त हुई, वही प्राण फिर प्राप्त हुए, मेरा जीवात्मा फिर प्राप्त हुआ, मेरी चक्षु और श्रोत्र इन्द्रियां फिर प्राप्त हुई । सब मनुष्यों का उपकारक, अविनाशी हमारे शरीर का रक्षक ईशानाग्नि निन्दित पाप से हमारी रक्षा करे ॥ जागने के बाद यजमान इस मन्त्र को पढ़ता है ॥ १५ ॥
भाष्यसार – यजमान के उठ जाने पर पुनः न सोने की स्थिति में ' पुनर्मन: ' इस मन्त्र के वाचन का विधान कात्यायन श्रौतसूत्र ( ७.४.३५ ) में किया गया है । याज्ञिक प्रक्रिया के अनुसार ही शतपथ ब्राह्मण में मन्त्रार्थ उपदिष्ट है ।
पृष्ठ 52
पाठ पढ़ें पाठ छिपाएँ
म. १५ ] वेदार्थपारिजात भाष्यसहिता ४३ मनः पुनरागन् सुषुप्तिकाले स्वकारणेऽज्ञाने विलीय पुनरिदानी शरीरे आगतम् ' मो नो धातो: ' ( पा. सू. ८.२.६४ ) इति मकारस्य नकारः । किञ्च, स्वापकाले मे मदीयमायुर्नष्टप्रायं भूत्वा पुनरागन् पुनरुत्पन्नमिवासीत् । तथा मेचक्षुः पुनरागन् तथा मे श्रोत्रं पुनरागन् तथा मे प्राणो घ्राणेन्द्रियं पुनरागन् न प्राणः । श्रुतौ तु प्राण इत्येव पाठः । किन्तु प्राणानामपगमे पुनः शरीरे तदप्रवेशात् प्राणपदेन घ्राणेन्द्रियमेव ग्राह्यम् । तथा मे आत्मा बुद्धिः पुनरागन् । एवं सर्वेष्वागतेष्वत ऊर्ध्वमग्निरवद्याद् जिह्वया वदितुमयोग्याद् निन्दिताद् दुरितात् पापाद् मा पातु मां पालयतु कीदृशः सोऽग्निः? वैश्वानरः, विश्वान् नृणाति नयतीति विश्वानरः स एव वैश्वानरः । विश्वेषां नराणामुपकारको वा, तदुपलक्षितः परमात्मा । ' नरे संज्ञायाम् ' ( पा. सू. ६.३.१२ ९ ) इति दीर्घः । अदब्धः केनापि हिंसितुमशक्यः । तनूपा अस्मदीयशरीरस्य पालकः सर्वतनूनां पालको वा । अध्यात्मपक्षे — अनेन मन्त्रेणात्मनो मनआदिभ्यो भिन्नत्वं बोध्यते, तेषां गमनागमनशीलत्वादात्मनश्चानागन्तु-कत्वात् । वैश्वानरः समष्टिप्रपञ्चाभिमानी अग्निरग्रणीर्देवः परमात्माऽवद्याद् दुरितात् पातकाद् दुरितं पुण्यपापलक्षणं कर्म । बन्धनहेतुत्वात् पुण्यमपि दुरितमेव । तद्धेतोरज्ञानात् पातु । ब्रह्मात्मसाक्षात्कारप्रदानेन पातु रक्षतु । दयानन्दस्तु — ‘ पुनः शयनानन्तरं मरणानन्तरं वा द्वितीये जन्मनि वा मनो विज्ञानसाधनमायुर्जीवनम्, आगन् प्राप्नोति । पुनः प्राणः शरीरधारकः पुनरात्मा अतति सर्वत्र व्याप्नोतीति सर्वान्तर्यामी परमात्मा स्वस्वभावो वा मे मह्यम् अभित आगन् प्राप्नोति, पुनः चक्षुश्चष्टे येन तद्रूपग्राहकमिन्द्रियम्, श्रोत्रं शृणोति शब्दान् येन तत् शब्दग्राहकमिन्द्रियमागन्, वैश्वानरः शरीरनेता जाठराग्निः सर्वस्य नेता परमेश्वरो वा अदब्धो हिंसितुमनर्हः, तनूपा यः शरीरमात्मानं च रक्षति, अग्निरन्तस्थो विज्ञानस्वरूपो नः पातु दुरितात् पापजन्यात् प्राप्तव्याद् दुःखाद् दुष्कर्मणो अवद्यात् पापाचरणात् । यस्य सम्बन्धेन कृपया वा मह्यं पुनर्जागरणे पुनर्जन्मनि वा आयुः पुनरागन् सोऽदब्धो नोऽवद्याद् दुरितात् पातु ' इति, तदप्यसङ्गतमेव, यस्य प्रसादात् कृपया वेत्यंशस्य मन्त्रासंस्पर्शित्वात् । आत्मा आगन् इत्यत्रात्मशब्दस्यान्तर्याम्यर्थकत्वेऽसङ्गति, व्यापकस्यागमनायोगात् । दुरितशब्दस्य पापार्थकत्वं दुष्टकर्मार्थकत्वं वा प्रसिद्धम् । दुःखार्थकत्वं तु लाक्षणिकमेव, तन्न युक्तम्, सम्भवति मुख्यार्थत्वे लक्षणायां बीजाभावात् श्रुतिसूत्रविरो-धाच्च । कात्यायनादिभिर्यजमानस्य पुनरस्वापेच्छायामयं मन्त्रो यजमानवाचने विनियुक्तः । शतपथे च — ' अथ यत्र सुप्त्वा पुनर्नावनिद्रास्यन् भवति । तद्वाचयति । पुनर्मनः पुनः श्रोत्रं म आगन्निति । सर्वे ह वा एते स्वपतोऽपक्रामन्ति प्राण एव न तैरेवैतत् सुप्त्वा पुनः सङ्गच्छते तस्मादाह पुनर्मनः पुनरायुर्म अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार है - इस मन्त्र के पूर्वार्ध द्वारा आत्मा की मन आदि इन्द्रियों से भिन्नता बताई गई है, क्योंकि इन्द्रियां गमनागमनशील हैं और आत्मा अनागन्तुक ( स्थायी ) है । वैश्वानर, अर्थात् समष्टि प्रपंच का अभिमानी अग्रणी देव परमात्मा निन्दित पातकादि बन्धनकारक कर्म से अथवा बन्धन के कारणभूत अज्ञान से रक्षा करे । स्वामी दयानन्द द्वारा अभिहित अर्थ असंगत है, क्योंकि आत्मा प्राप्त हुई है इस प्रकार आत्मशब्द की ' अन्तर्यामी ' इस अर्थ में व्यापक तत्त्व की गमन परिस्थिति न रहने के कारण संगति नहीं हो सकती । दुरित शब्द का अर्थ पाप अथवा दुष्ट कर्म प्रसिद्ध है, दुःख अर्थ तो लाक्षणिक है । मुख्य अर्थ के सम्भव होने पर लक्षणा करने में कोई हेतु नहीं है । श्रुतिवाक्यों तथा सूत्रविधान के विरुद्ध होने के कारण भी यह असंगत है । कात्यायन आदि आचार्यों ने यजमान की पुनः न सोने की इच्छा ( अर्थात् पूर्ण जागरण की परिस्थिति ) में इस मन्त्र का यजमान द्वारा वाचन में विनियोग किया है ॥ १५ ॥
पृष्ठ 53
पाठ पढ़ें पाठ छिपाएँ
४४ शुक्लयजुर्वेदसंहिता [ अ.४ ' दुरितादवद्यादिति तद्यदेवात्र स्वप्नेन वा येन वा मिथ्याकर्म तस्मान्नः सर्वस्मादग्निर्गोपायत्वित्येवैतदाह तस्मादाह वैश्वा ' दुरितादवद्यादिति ' ( श. ३. २. २.२३ ) । दीक्षितस्य स्वापानन्तरं प्रबोधे सति पुनर्निद्राया अप्राप्तौ तदा समन्त्रकं जपं विधत्ते— अथ यत्रेति । यत्र यस्मिन् काले सुप्त्वा पुनर्नावद्रास्यन् भवति पुनर्न स्वप्स्यन् निद्राणो भवति, तत् तदा मनआदेः पुनःप्राप्तिसमर्थनाय तदपगमनप्रसक्तिं प्रदर्शयति — सर्वे ह वा इति । एते स्वपतः पुरुषस्य मनआ-दयो s पक्रामन्ति, प्राण एव नापक्रामतीति शेषः, प्राणस्यापि गमने सर्वात्मना मृतिप्रसङ्गात् । मन्त्रे प्राणशब्दो घ्राणेन्द्रियपरः । आत्मा बुद्धिर्न जीवात्मा परमात्मा वा जीवतस्तदपगमासम्भवात् । द्वितीयभागस्य तात्पर्यमाह – स्वप्नेन साधनेन येन वाऽन्येन्द्रियद्वारा मलनिर्गमनादिनिमित्तेन मिथ्या अशास्त्रीयं कृतवन्तः स्म, तस्मात् सर्वस्मान्नोऽग्निर्गोपायतु ॥१५ ॥
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मत्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑ः । रास्वेय॑त् स॒मा भूयो भर दे॒वो नः सवि॒ता वसो॑र्मा॒ता वस्व॑दात् ॥ १६ ॥
' त्वमग्न इत्याह क्रुद्ध्वाऽव्रत्यं वा व्याहृत्य ' ( का. श्रौ. ७.५.२ ) । यजमानः क्रोधं कृत्वा व्रतविरुद्धमश्लीला-दिकं व्याहृत्य वा त्वमग्न इति मन्त्रं प्रायश्चित्तार्थं पठेत् । मन्त्रार्थस्तु – हे अग्ने! देवो द्योतनात्मकस्त्वम् आमर्त्येषु मनुष्यपर्यन्तेषु सर्वत्र प्राणिषु व्रतस्य कर्मणः पालकोऽसि । यद्वा आकारद्वयं समुच्चयार्थम् देवे इति सप्तम्यन्तम् । हे अग्ने, त्वं देवेषु च मर्त्येषु च आ व्रतपा असि, देवानां मनुष्याणां च व्रतस्य संकल्पस्य कर्मणो वा सिद्धेस्त्वत्कृपायत्तत्वात् । तथा त्वमासमन्ताद् यज्ञेष्वध्वरेष्वीड्यः स्तुत्योऽसि याचितव्यः पूजयितव्यो भवति । ' ईडिरध्येषणाकर्मा वा पूजाकर्मा वा ' ( निरु. ७.१५ ) इति यास्कः । सत्कारपूर्वकव्यापारोऽध्येषणा । अध्येषितव्यो याचितव्य इत्युव्वाचार्यः । स्वापस्यापि व्रतविरोधित्वात् तत्परिहारोऽप्यनेन मन्त्रेण क्रियते, ' अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति । त्वमग्ने व्रतपा असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमालम्भयति ' ( तै. सं. ६.१.४.१४ ) इति तैत्तिरीयश्रुतेः । ' लब्धमालभ्य वाचयति रास्वेयदिति ' ( का. श्रौ. ७.५.३ ) । क्रतौ देयद्रव्यं यद्यत् परिचारकैरानीतं तत्सर्वमुपस्पृश्येमं मन्त्रं पठेत् । हे सोम, इयदिति लब्धद्रव्यपरिमाणवचनम् । इयद्रास्व एतावद् धनं रास्व देहि ' रा दाने ' सोमदेवत्यं यजुः । भूयः पुनरपि आभर धनमाहर । ' हग्रहोर्भश्छन्दसि ' ( पा. सू. ८.२.३२ ) इति वार्त्तिकेन हस्य भः । वसोर्धनस्य दाता सविता देवो नोऽस्मभ्यं वस्वदात् पूर्वमपि धनं दत्तवान् । भूय इत्यस्याप-रिमितपशुरूपधनाहरणे तात्पर्यम् । ' सोमा भूयो भरेत्याहापरिमितानेव पशूनवरुन्धे ' ( तै. सं. ६.१.४.१८ ) इति तित्तिरिरिति काण्वसंहिताभाष्ये सायणाचार्यः । मन्त्रार्थ - हे अग्ने! तुम मनुष्य पर्यन्त सब प्राणियों के यज्ञकर्म के रक्षक हो, यज्ञों में सब प्रकार से पूजनीय हो । हे सोम! हमें ढेर सारा धन दीजिये, बार - बार धन दीजिये, क्योंकि धन के दाता सविता देवता ने भी हमको धन दिया था ॥ इस मन्त्र से यजमान किसी कारण क्रुद्ध हो गया हो या यज्ञविरुद्ध भाषण करना पड़ा हो, तो उसका प्रायश्चित्त करता है तथा सुवर्ण का स्पर्श करता है ॥ १६ ॥
भाष्यसार -- - कात्यायन श्रौतसूत्र ( ७.५.१ - २ ) के अनुसार सोमयाग में दीक्षित यजमान यदि क्रोधाभिभूत हो जाय, अथवा व्रत के विरुद्ध अश्लीलादि का उच्चारण कर दे, तब ' त्वमग्ने ' इस मन्त्र को प्रायश्चित्त के लिये पढ़े । ' रास्वेयत् ' इस मन्त्र का पाठ यजमान यज्ञ के लिये लाये गये द्रव्यों का स्पर्श करते हुए करता है ।
पृष्ठ 54
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १६ ] वेदार्थपारिजात भाष्यसहिता ४५ अध्यात्मपक्षेऽपि — अग्ने परमेश्वर, त्वं व्रतपा असि व्रतं सत्यसङ्कल्पं यज्ञीयनियमाचरणं वा पातीति व्रतपा असि, परमात्माश्रयणेनैव व्रतरक्षणसिद्धेः । देवो द्योतनात्मकः स्वप्रकाशत्वात् त्वम् आमर्त्येषु मनुष्यपर्यन्तेषु सर्वप्राणिषु व्रतस्य नियमाचरणस्य वैदिककर्मणो वा पालकोऽसि । यद्वा आकारद्वयं समुच्चयार्थम् । त्वं देवे आ देवेषु च मर्त्येषु च व्रतपा असि देवानां मनुष्याणां च समेषां त्वमेव व्रतस्य रक्षकोऽसि । तस्मान्मदीयत्वद्भक्तिज्ञानतत्साधनादिसङ्कल्पोऽपि त्वत्कृपया पूर्णतामुपैतु । त्वमेव च हे अग्ने, आसमन्ताद् यज्ञेषु ईड्यः स्तुत्यः पूज्योऽध्येषणीयो याचितव्यो वा । अतो मे व्रतं पाहीति शेषः । सोम, उमया सहितो महादेवः सोमस्तत्सम्बुद्धौ हे सोम, इयद् अस्मदभिलषितं त्वद्विषयकं लोकोत्तरं प्रेम अपरोक्षज्ञानं वा रास्व । न केवलमेतदेव, किन्तु भूयः पुनरपि आभर धनमाहर, यतो वसोर्धनस्य दाता सविता देवो जगदुत्पादकः सर्वजनकोऽस्मभ्यं पूर्वमपि धनं देहेन्द्रियादिलक्षणं दत्तवान् । ‘ अशक्येऽभिमन्त्रणम् ’ ( का. श्रौ. ७.५.४ ) । आलम्भनाशक्तावनेनाभिमन्त्रणं कुर्यात् । यावदवभृथं दीक्षितः ' शूद्र-सम्प्रवेशसंभाषाप्रत्युत्थानाभिवादनोदकावायवर्षाणि वर्जयेत् प्रागवभृथात् ' ( का. श्रौ. ७.५.५ ) । वर्षं वृष्टिस्तत्सम्बन्धि जलं च वर्जयेदिति । अत्र दयानन्दः - हे सोमाग्ने, यस्त्वं मर्त्येषु व्रतपा सविता ( देवो ) यज्ञेष्वीड्यो देवोऽसि स भवान्नोऽस्मभ्यं वसोर्दाता सन् वस्वदाद् विज्ञानधनं ददाति स भूयो वस्वारस्वेयत् संस्त्वमेतान्यस्मदर्थमाभरेत्येकः । योऽग्नेऽयमग्निर्मर्त्येषु व्रतपाः सविता देवो यज्ञेष्वीड्यो ऽध्येषितव्यः सोमो देवोऽस्ति स त्वं नोऽस्मभ्यं वसोर्दाता सन् भूयो वस्वदात् । सर्वकार्येष्वारास्वारासते आभराभितः सुखैर्भरति पुष्णातीति द्वितीयः । त्वं स वा अग्ने जगदीश्वर अग्निर्वा यो व्रतं सत्यं धर्माद्याचरणनियमं पाति, असि अस्ति, पक्षे व्यत्ययः । देवो दाता प्रकाशको वा आसमन्ताद् मर्त्येषु मरणधर्मेषु मनुष्येषु कार्येषु वा आ अभितः स्वं स वा यज्ञेषु सत्कारेषूपासनाद्यग्निहोत्रेषु शिल्पेषु ईड्यः स्तोतुमध्येषितुं वाऽर्हः । रास्व देहि । आ अभितो भूयोऽतिशयेन बहु भर भरति वा । देवो द्योतकः, नोऽस्मभ्यं सवितोत्पादकः प्रेरको वा वसोर्धनस्य दाता प्रापको वसु धनमदात् ' इति, तदपि निर्मूलमेव, श्रुतिसूत्रविरोधात् । सूत्राण्युक्तानि । अथ शातपथी श्रुतिरुदाह्रियते । तथाहि - ' अथ यद्दीक्षितोऽव्रत्यं वा व्याहरति क्रुद्ध्यति वा तन्मिथ्या करोति व्रतं प्रमीणात्यक्रोधो ह्येव दीक्षितस्याग्निर्वै देवानां व्रतपतिस्तमेवैतदुपधावति त्वमग्ने व्रतपा असि देव आमर्त्येष्वा त्वं यज्ञेष्वीड्य इति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतत्र मिथ्या कृतं भवति न व्रतं प्रमीणाति तस्मादाह त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञेष्वीड्य इति ' ( श. ३. २. २. २४ ) । अवत्यं व्रतं दीक्षा व्रतविरोधि अध्यात्मपक्ष में यह अर्थ है - हे परमेश्वर अग्निदेव, आप सत्यसंकल्प व्रत अथवा यज्ञ के नियमाचरणों के रक्षक हैं । स्वप्रकाशात्मक आप मनुष्य पर्यन्त समस्त प्राणियों में व्रत के रक्षणकर्ता हैं । अथवा यहां समुच्चयार्थक दो आकार मानकर आप देवताओं में भी तथा मनुष्यों में भी व्रतरक्षणकर्ता हैं । अतः आपकी कृपा से मेरा यह संकल्प पूर्णता को प्राप्त करे । आप ही यज्ञों में स्तुत्य अथवा प्रार्थनीय हैं । हे उमासंयुक्त महादेव, हमारे द्वारा अभिलषित ज्ञान अथवा प्रेम ( भक्ति ) को प्रदान करें । केवल इतना ही नहीं, अपितु और भी प्रदान करें । समस्त धनों के दाता जगदुत्पादक सविता ने हमको पूर्व में भी देहेन्द्रियादिरूप धन प्रदान किया है । इस मन्त्र में स्वामी दयानन्द का अर्थ श्रुति एवं सूत्र से विरुद्ध होने के कारण निर्मूल है । यहां स्वामी दयानन्द का अर्थकथन शतपथ श्रुति का किञ्चिन्मात्र भी स्पर्श नहीं करता । इस मन्त्र में शिल्प अथवा सत्कार का कोई प्रसंग भी नहीं है । इनके अर्थ में गौणार्थकता का दोष आ जाता है ॥१६ ॥
पृष्ठ 55
पाठ पढ़ें पाठ छिपाएँ
४६ शुक्लयजुर्वेदसंहिता [ अ. ४ व्यर्थं वचनमभिवदेत् क्रोधं वा तत् तेनोभयेन मिथ्या यज्ञविरोध्येव करोति, तेन व्रतं प्रमीणाति हिनस्ति । अक्रोधो ह्येव दीक्षितस्य व्रतं भवति । अग्निर्वै देवानां व्रतपतिः । व्रतहिंसासमाधानाय एतद् एतेन त्वमग्ने व्रतपा इत्यनेन साक्षाद् व्रतपतिं तमेवाग्निमेवोपधावति व्रतरक्षणाय प्राप्तवान् भवति । तस्य उ ह एषा प्रायश्चित्तिः । तथा सत्यस्य यजमानस्य न मिथ्या कृतं भवति । कथञ्चित् तत्सत्त्वेऽपि न व्रतं प्रमीणाति । तस्मादाह — त्वमग्ने व्रतपा इति । ‘ अथ यद्दीक्षितायाभिहरन्ति । तस्मिन् वाचयति रास्वेयत्सोमा भूयो भरेति सोमो ह वा अस्मा एतद्युते यद्दीक्षितायाभिहरन्ति स यदाह रास्वेयत्सोमेति रास्व न इयत्सोमेत्येवैतदाहा भूयो भरेत्या नो भूयो हरेत्येवैतदाह देवो नः सविता वसोर्दाता वस्वदादिति तथो हास्मा एतत् सवितृप्रसूतमेव दानाय भवति ' ( श. ३.२.२.२५ ) । दीक्षितस्य यज्ञार्थगवादिधनलाभे वाच्यं मन्त्रमाह — अथेति । स्वेयत्सोमा भूयो भरेति मन्त्रं वाचयत्यध्वर्युः । दाने सोमसम्बन्धस्य कः प्रसङ्ग इत्य-त्राह - सोमो ह वा अस्मै यजमानाय एतद्धनं खलु युते मिश्रयति, ' यु मिश्रणामिश्रणयोः, यद् धनं दीक्षिताय अभिहरन्ति इयत् तदिति प्रदेयं धनं हस्तेनोपस्पृश्य मन्त्रं पठति । मन्त्रभागं व्याचष्टे - आ नो भूय इति । इयद् एतावत्परिमितं धनं हे सोम रास्व देहि । न केवलमेतावत्परिमितमेव, किन्तु आ नो भूयो भरेति, किन्तु ततो भूयोऽन्यदपि बहु धनम् आहर मह्यमानय । देवो नः सविता वसोर्दाता स एव वस्वदात् । एतन्मन्त्रभागपाठेन सवित्राभ्यनुज्ञातत्वाल्लब्धं धनं दक्षिणार्हं भवति । तदेवोच्यते - एतत्सवितृप्रसूतमेव दानाय भवतीति । अत्र न दयानन्दोक्तिर्मनागपि शातपथीं श्रुतिं स्पृशति । नात्र शिल्पस्य सत्कारस्य वा प्रसङ्गोऽपि, गौणार्थकत्वप्रसङ्गश्च ॥ १६ ॥
एषा ते शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राज॑ ' गच्छ । जूर॑सि घृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ ॥१७ ॥
' शालाद्वाराण्यपिधाय धौवं जुह्वां चतुर्विगृह्णाति, बर्हिस्तृणेन हिरण्यं बद्ध्वावदधात्येषा त इति ' ( का. श्रौ. ७.६.५-६ ) । ततोऽध्वर्युर्वस्त्रादिना शालाद्वाराण्यपिधाय धौवमाज्यं जुह्वां चतुर्विगृह्णाति । आस्तृतस्य बर्हिषः सम्बन्धिनि तृणे हिरण्यं बद्ध्वा ध्रुवातो गृहीतस्याज्यस्य मध्ये तन्निक्षिपेत् ' एषा ते ' इति मन्त्रेण । अत्र पूर्वोऽर्धर्चो हिरण्याज्यदैवतम् । अनुष्टुप् । मन्त्रार्थस्तु - हे शुक्र दीप्यमानाग्ने, तव एषा तनूर् दृश्यमानमाज्यरूपं शरीरमेतदाज्ये प्रक्षिप्यमाणं हिरण्यं वर्चस्तदीयं तेजस्तया सम्भव आज्यरूपया तन्वा एकीभव । ततो भ्राजं गच्छ हिरण्यगतां दीप्ति प्राप्नुहि । एतन्मन्त्रपाठेनाग्नेः सतेजस्त्वं सतनुत्वं सम्पद्यते, ' सतेजसमेवैनं सतनुं करोति ' ( तै. सं. ६.१.७१ ) इति तित्तिरिश्रुतेः । यद्वा हे शुक्र आज्य, एषा हिरण्यलक्षणा ते तनूः, एतत्ते वर्च, ' समानजन्म वै पयश्च हिरण्यं चोभयं ह्यग्निरेतसम् ' ( श. ३.२.४.८ ) इति श्रुतेः । तया हिरण्यलक्षणया तन्वा सम्भव एकीभव । भ्राजं सोमं गच्छ । भ्राजते दीप्यतेऽसाविति भ्राट् तं भ्राजम्, ‘ सोमो वै भ्राट् ’ ( श. ३.२.४.९ ) इति श्रुतेः । ' जूरसीति जुहोति ' ( का.श्रौ. ७.६.७ ) । चतुर्गृहीतमाज्यं जूरसीति मन्त्रेणाहवनीये मन्त्रार्थ - हे दीप्यमान अग्ने! यह घृत तुम्हारा शरीर है और यह सुवर्ण तेज है । इन दोनों में एक ही भाव द्वारा आप सुवर्ण की कान्ति को प्राप्त कीजिये । हे वाणि! तुम वेगवान् हो, जीवन देने वाली हो । आप मन से धारण की हुई यज्ञपुरुष के लिये प्रीति युक्त होइये | इस मन्त्र से यजमान घी में दर्भ से बंधे हुए सुवर्ण को छोड़ता है और समिदाधान करता हुआ अग्नि में आहति देता है ॥ १७ ॥
भाष्यसार— याज्ञिक प्रक्रिया के अनुसार ध्रुवा से जुहू नामक स्रुक्पात्र में लिये गये घृत में स्वर्ण का खण्ड ' एषा ते ' इस मन्त्र के द्वारा रखा जाता है । तदनन्तर अध्वर्यु ' जूरसि ' मन्त्र से आहवनीय अग्नि में घृत का हवन करता है ( का.श्रौ. ७.६.५-७ ) । शतपथ ब्राह्मण तथा तैत्तिरीय श्रुति में इस मन्त्र का व्याख्यान इसी प्रकार किया गया है 1
पृष्ठ 56
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १७ ] वेदार्थपारिजात भाष्यसहिता ४७ जुहोत्यध्वर्युः । उत्तरोऽर्धचों वाग्देवत्योऽनुष्टुप् । हे सोमक्रयणि, वाग्रूपा त्वं जूरसि वेगयुक्तासि । यद्वा ' जीव प्राणधारणे ' इत्यस्य क्विबन्तस्य डूप्रत्ययेन जूरिति रूपसिद्धिः । या त्वं जूरसि जीवनमसि, तथा मनसा धृता नियमितासि, विष्णवे यज्ञाय जुष्टासि प्रीतियुक्तासि । यद्वा यज्ञस्याभिरुचितासि । तमेतं मन्त्रं तित्तिरिर्व्याचष्टे - ' वाग्वा एषा यत् सोमक्रयणी जूरसीत्याह यन्मनसा जवते तद्वाचा वदति धृता मनसेत्याह मनसा हि वाग्धृता जुष्टा विष्णव इत्याह यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः प्रसव इत्याह सवितृप्रसूतामेव वाचमवरुन्धे ' ( तै. सं. ६.१.७.६-७ ) इति जवतेः शीघ्रकर्तव्यतामवगच्छति । अध्यात्मपक्षे - हे शुक्र, ब्रह्मज्योतिरेषा अपरोक्षभूता प्रत्यक्चितिस्ते तव तनूः स्वरूपम्, ' तत्त्वमसि ' ( छा. उ. ६.८.७ ) इत्यादिश्रुतिभ्यः । एतज्ज्ञानं ते वर्चः प्रकाशः, तया प्रत्यक्चित्या सम्भव अनात्मतादात्म्यादिनिबन्धनभेदापोहे-नैकीभव । भ्राजमपरोक्षात्मतादात्म्यं गच्छ तदभावे तत्पदार्थस्य ब्रह्मणोऽपरोक्षत्वानुपपत्तेः । प्रत्यग्ब्रह्मैक्येन प्रतीचि पूर्णत्वमानन्त्यं सिद्ध्यति, परस्मिंस्तु स्वप्रकाशत्वमपरोक्षत्वं निरुपाधिकनिरतिशयपरप्रेमास्पदत्वं च सिद्ध्यति । हे प्रत्य-क्चिते! त्वं जूरसि मनउपाधिना वेगवत्यसि, ' मनसो जवीय: ' ( वा. सं. ४०.४ ) इति श्रुतेः । मनसा शास्त्राचार्योपदेश-संस्कारसंस्कृतेन धृता आवरणनिवृत्तये वृत्तिव्याप्त्या विषयीकृता विष्णवे व्यापनशीलाय परमात्मने तादर्थ्याय जुष्टा प्रीत्या सेविता तमेव प्राप्नुहीति शेषः । दयानन्दस्तु — ' हे शुक्र विद्वन्, ते तव या एषा विष्णवे तनूरस्यस्ति, या त्वया धृता जुष्टा च तया जूः सन् त्वमेतद्वर्चः सम्भव सम्यग्भावय । भ्राजं गच्छ मनसैतेन पुरुषार्थं प्राप्नुहि । भ्राजं प्रकाशम् । जूः ज्ञानी वेगवान् वा विष्णवे परमात्मने यज्ञाय वा ' इति, हिन्दी भाष्ये तु — ' हे वीर्यपराक्रमवन्, ते तवैषा यद्विष्णवे यज्ञाय वा तनूः शरीरमस्ति, त्वया या धृता प्रीत्या सेविता च, तया त्वं ज्ञानी वेगवान् वा भूत्वा एतद्वचें विज्ञानं तेजो वा सम्यग् भावय प्रकाशं प्राप्नुहि, मनसा विज्ञानेन पुरुषार्थं प्राप्नुहि ' इति, तदेतत्सर्वमपि निर्मूलम्, शुक्रशब्दस्य तथार्थत्वे मानाभावात् । वर्चःपदमपि तेजःपरमेव I । विज्ञानं तु गौणार्थकमेव । तन्वा धारणं प्रीतिपूर्वकं सेवनं च कर्मायत्तं भवति, न विद्वदादितन्त्रम् । अस्मिन्नर्थे सूत्रविरोधोऽपि । सूत्रानुसारि व्याख्यानं तूक्तमेव । शतपथश्रुतिरपि सूत्राणि समर्थयति । तथाहि - ' दिवि वै सोम आसीत् । अथेह देवास्ते देवा अकामयन्ता नः सोमो गच्छेत् तेनागतेन यजेमहीति त एते माये असृजन्त सुपर्णी च कद्रू च तद्धिष्ण्यानां ब्राह्मणे व्याख्यायते सौपर्णीकाद्रवं यथा तदास ' ( श. ३.२.४.१ ) इत्यादिभिः सोमक्रयं विधातुमाख्यायिकया सोमस्य तृतीयस्यां दिवि सत्त्वम् तस्य भूमावानयनाय देवा माये असृजन्त । परव्यामोहनकारिणी शक्तिर्माया । द्वे मायाभिरूपे सौपर्णी अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है— हे ब्रह्मज्योति! यह अपरोक्षभूता प्रत्यक् चिति तुम्हारा स्वरूप है । यह ज्ञान तुम्हारा प्रकाश है । इस प्रत्यक्विति से एकीभूत हो जाओ । अपरोक्ष तादात्म्य को प्राप्त करो । हे प्रत्यक्विति, तुम मन से उपहित होने के कारण वेगवती हो । संस्कारों से संस्कृत मन के द्वारा आवरण निवृत्ति के लिये विषयीकृत होकर व्यापनशील परमात्मा के लिये प्रीतिपूर्वक सेवित होकर उसे प्राप्त करो स्वामी दयानन्द का संस्कृत एवं हिन्दी अर्थ मूलरहित है, क्योंकि शुक्र शब्द के ' विद्वान् ' इस अर्थ में कोई प्रमाण नहीं है वर्चस् पद भी तेजस् अर्थपरक है । इसका विज्ञान अर्थ तो गौण ही है । शरीरधारण तथा प्रीतिपूर्वक सेवन विद्वान् आदि के अधीन नहीं होता, अपितु कर्म के अधीन होता है । अतः यह कथन उचित नहीं है । इस अर्थ में सूत्रप्रन्थों का विरोध भी होता है । सूत्र के अनुसार हमारा व्याख्यान उपयुक्त है । शतपथ श्रुति भी सूत्रों का समर्थन करती है. ॥१७ ॥
पृष्ठ 57
पाठ पढ़ें पाठ छिपाएँ
४८ शुक्लयजुर्वेदसंहिता [ अ. ४ कद्रू च सोमरक्षकाणां गन्धर्वाणां स्त्रियां मोहाय सृष्टवन्तः ( श. ३.६.२.७ ) इत्यत्रोक्तम् । तत्र मायामय्योः सुपर्ण्याः सुपर्णी-कद्र्वोरुत्पत्तिस्तयोर्मिथः कलहः परस्परजयपराजयनिमित्तकः समयबन्धः, ततः कद्रूजयः पराजितायाः उक्ताः । तत्र स्वात्मनिष्क्रयाय सोमोपहरणार्थं छन्दसां सुपर्ण्याः सकाशादुत्पत्तिः गायत्र्या च सोमाहरणमित्यादयोऽर्था स्थापिता अग्नयो धिष्ण्या ' वागेव सुपर्णीयं कद्रूः ' ( श. ३.६.२.२ ) इत्यादिना होतृमैत्रावरुणादीनां शंसनप्रदेशेषु पुरतः देवेभ्यो लब्धवराः होत्रीयादयः । ते खलु पुरा दिवि सोमरक्षकाः पश्चात् सोम आहृते सति तेन सार्धं भूमावागत्य होत्राः ' ( श. ३.६.२.९ ), सन्तोऽत्रापि सोमरक्षणाय धिष्ण्यतां प्राप्ताः । ' तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमे अभिमुख-' तेभ्यो गायत्री सोममच्छापतत् ' ( श. ३.२.४.२ ) । गायत्रीच्छन्दोदेवता पक्षिरूपेण दिवि स्थितं अपजहार सोममच्छ । ततस्ते देवा मपतद् अगमत् । आहरन्त्यास्तस्याः स्वभूतं सोमं विश्वावसुर्नाम गन्धर्वः पर्यमुष्णाद् । त होचुर्योषि-द्युलोकात् सोमः प्रच्युत इति विविदुः । अथ अस्मान्नागच्छति गन्धर्वा विश्वावसोर्धृत्याः पर्यमोषिषुः स्वमपि त्कामा गन्धर्वा इत्येभ्यो व्यामोहाय वाचं प्रेषयामः । सा नः सोमेनागमिष्यतीति सोममुपायेनानयन्ती गन्धर्वावि-प्रतिनिवर्तिष्यत इति ते गन्धर्वा अन्वागत्याऽब्रुवन् सोमो युष्माकं वागेवास्माकम् । तथेति देवा अब्रुवन् यूयं वयं च वाचं रोधेनैव देवैर्दृष्टं वाग्लाभोपायं विचारयन्तो हे गन्धर्वा एनामिहागतां प्रेषयामो बलात्कारेण मा नैष्ट वेदानेव प्रचिरे विह्वयामहै वाचं विविधमाकारयामः । एवं मिथः समयं कृत्वा गन्धर्वास्तां व्यह्वयन्त तस्यै गन्धर्वा वाचां वशीकरणाय । अथ देवा वाणीमेव सृष्ट्वा वादयन्ति निषादादिस्वरानुकूल्येन ध्वनिमुत्पादयन्तः त्वामेवंप्रकारेण , तदनु स्वयं गायन्तो निषेदुः । ते त्वदर्थं गास्यामः । न केवलमीदृशं गानमस्माकम्, किन्तु हे शंसद्भयः वाग्देवते! स्तोत्रशस्त्ररूपं त्वा प्रवचनं तोषयाम इत्युक्तवन्तः । सा देवानुपावर्तत उपावर्तते स्म प्रत्यावृत्ता वाक् स्तुवद्भ्यः इदानीं मोघं कुर्वद्भयो गन्धर्वेभ्यः सकाशाद् देवैः कृतं नृत्तं गीतं चोपावृत्ता सा पूर्वं सोमाहरणाय प्रेषिता वाग् अत्यन्तमनुरक्ता व्यर्थमेव चोपवृत्ता । तस्मादिदानीमपि मोघसंहिता योषा य एवं नृत्यति यो वा गायति तस्मित्रेवैता यागानर्हत्वात्, भवन्ति, तद्वा एतदुभयं देवेष्वासीत् सोमश्च वाक् च तस्मात् सोमप्राप्त्या सोमं क्रीणीयात्, अक्रीतस्य आगतोऽपि सोमो क्रयसंस्कारेणानागतत्वादनागत उच्यते । एवं महतोपक्रमेण सोमक्रयणं विधाय सोमक्रयणात् पूर्वं कञ्चिद्धोमं विदधाति — ' अथ यद् ध्रुवायामाज्यं परिशिष्टं भवति । तज्जुह्वां चतुष्कृत्वो विगृह्णाति बर्हिषा हिरण्यं प्रबध्यावधाय जुहोति कृत्स्नेन पयसा जुहवानीति समानजन्म वै पयश्च हिरण्यं चोभयं ह्यग्निरेतसम् ' ( श. ३.२.४.८ ) । प्रायणीयार्थमुपयुज्य यद्धृतं ध्रुवायामवशिष्टं तद् जुह्वां चतुष्कृत्वश्चतुर्वारं गृहीत्वा बर्हिषा हिरण्यं प्रबध्य जुह्वामाधाय जुहुयात् । एतदेव कात्यायनोक्तम् – । हिरण्यावधानप्रयोजन- ' शालाद्वाराण्यपिधाय धौवं जुह्वां चतुर्विगृह्णाति ' ( का. श्रौ. ७.६.५ ) इत्यादिना । तच्च सिद्धान्तव्याख्यान उक्तमेव पयसः कार्त्स्यम् । माह — कृत्स्नेन पयसा जुहवानीति । पयःप्रकृतिकत्वादाज्यं पयः । हिरण्यस्यापि पयस्त्वे भवत्येव । कथं समानत्वं तदेव कुत इत्यत आह- समानजन्म वा इति । पयश्च हिरण्यं च वस्तुद्वयं समानजन्म समानोत्पत्तिकम् द्वितीयकाण्डे जन्मनः? हि यस्मादुभयमपि अग्निरेतसमग्ने रेतो वीर्यं यस्योभयस्य तत् तथोक्तम् । पयसोऽग्निरेतस्त्वं ' ( श. प्रोक्तम्- -‘तामुहाग्निरभिदध्यौ मिथुन्यनया स्यामिति तां सम्बभूव तस्यां रेतः प्रासिञ्चत् तत्पयोऽभवत् २.२.४.१५ ) । व्याख्यातं च पूर्वमेतत् । हिरण्यस्याग्निरेतस्त्वं तैत्तिरीयक आम्नातम्— ' आपो वरुणस्य पनय आसन् परापतत् ' ( तै. ब्रा. १.१.३.८ ), ( स हिरण्यमवदधाति । एषा शुक्र ता अग्निरभ्यध्यायत् ताः समभवत् तस्य रेतः तनूरेतद्वर्च इति वर्चो वा एतद्यद्धिरण्यं तया सम्भव भ्राजं गच्छेति स यदाह तया संभवेति तया सम्पृच्यस्वेत्येवैतदाह । भ्राजं गच्छेति सोमो वै भ्राट् सोमं गच्छेत्येवैतदाह ' ( श. ३.२.४.९ ) । समन्त्रं हिरण्यावधानमाह — स हिरण्यमवदधातीति
पृष्ठ 58
पाठ पढ़ें पाठ छिपाएँ
म. १७-१८ ] वेदार्थपारिजात भाष्यसहिता ४ ९ स अध्वर्युः । हिरण्यनिधानमन्त्रं त्रेधा विभज्य व्याचष्टे - एषा त इत्यादिना । हे शुक्र, एषा एतद्धिरण्यं ते तनूः शरीरम् तनुशब्दापेक्षया स्त्रीत्वम् । अथवा एषा जुहूस्ते तनूः एतदेवाज्यं ते वर्चस्तेजः । स मन्त्रः । यदाह तया सम्भवेत्य-स्यायमर्थस्तया सम्पृच्यस्व इत्येवाह । सम्पर्कोऽत्रैकीभावः । भ्राट्शब्दार्थमाह – सोमो वै भ्राडिति । भ्राजमानत्वाद् भ्राट् सोम इत्युक्तमेव । अत आज्यं भ्राजं गच्छेति ब्रुवती श्रुतिः सोनं गच्छेत्युक्तवतीत्यर्थः । सोमप्राप्तिप्रकारस्त्वित्थम् — हिरण्यसंस्कृताज्यहोमः सोमक्रयणार्थः । स च क्रेतव्यसोमार्थ इति विहितामाहुति सोमक्रयणीप्रीतिहेतुत्वेन प्रशंसयन् तदर्थम् — ' तां यथैवादो देवाः । प्राहिण्वन्त्सोममच्छैवमेवैनामेष एतत्प्रहिणोति सोममच्छ वाग्वै सोमक्रयणी निदानेन तमेतयाहुत्या प्रीणाति प्रीतया सोमं क्रीणांनीति ' ( श. ३.२.४.१० ) इति सोमक्रयण्यानयनप्रयोजनप्रकारमाह — तामिति । अदो व्यवहितकाले तां वाचं प्राहिण्वन् गन्धर्वापहृतां प्रति प्रागग-मयन् । एवमेवाध्वर्युरेतेन सोमक्रयणीप्रेरणेन प्रेरितवान् भवति । तयोः कः सम्बन्ध इति तत्राह – वाग्वा इति । वाग्वै सोमक्रयणीनिदानं वास्तवं स्वरूपम् तेन वाग्रूपां सोमक्रयणीमेतयाहुत्या प्रीणाति । ' स जुहोति । जूरसीत्येतद्ध वा अस्या एकं नाम यज्जूरसीति धृता मनसेति मनसा वा इयं वाग्धृता मनो वा इदं पुरस्ताद् वाच इत्थं वद मैतद्वादीरित्यलग्लामिव ह वै वाग्वदेद्यन्मनो न स्यात्तस्मादाह धृता मनसेति ' ( श. ३.२.४.११ ) । होममन्त्रं पञ्चधा विभज्य व्याचष्टे – जूरिति । जूरिति सौत्रो गत्यर्थो धातुः । जवति सोमं प्रति गच्छतीति जूः । अस्या वाग्रूपायाः सोमक्रयण्या जूरित्येकं नाम । मनसा धृता । मनसो वागाधारत्वं साधयति— मनो वेति । ' मनो वा इदं पुरस्ताद्वाचो रूपम् । यद्वै मनसा ध्यायति तद्वाचा वदति ' ( श. १२.९.१.१३ ) । धारणप्रकारं दर्शयति — इत्थं वद मैतद्वादीरिति । यद्यपि हितोपदेष्टृवद् मनो न वाग्व्यापारं करोति, तथापीदं वक्तव्यमिदं नेति गुणदोषविकल्पनस्य मनोव्यापारत्वाद् वाग्विधिनिषेधकर्तृत्वव्यवहारः । व्यतिरेकदोषोपन्यासेन मनो-वाचोरेकत्वं द्रढयति — यन्मनो न स्यादिति । पूर्वोक्तरीत्या गुणदोषावालोच्य मनःकर्तृकविधिनिषेधौ न स्याताम्, तदा वाग् अलग्लामिव अलग्नामिव वक्तव्यपदार्थेनासंसृष्टामिव वाचं वदेत्, हृदयपूर्वकत्वाभावात् । एतावता स्वीया तनूरेव त्वया धृता प्रीत्या च सेवितेत्यादिव्याख्यानमपास्तं वेदितव्यम् ॥१७ ॥
तस्या॑स्ते॒ स॒त्यस॑वसः प्र॑स॒वे त॒न्वो॒ य॒न्त्रम॑शीय॒ स्वाहा॑ । श॒क्रम॑सि च॒न्द्रमस्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥१८ ॥
सत्यमवितथं सवोऽनुज्ञा यस्यास्तथाभूतायास्ते वाग्रूपायाः सोमक्रयण्याः प्रसवेऽनुज्ञायां वर्तमानोऽहं तन्वः शरीरस्य नियमनं दाढर्यं वा अशीय प्राप्नुयाम् । स्वाहा इदमाज्यं हुतमस्तु । ' शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं मन्त्रार्थ - सत्य अनुज्ञा वाली देववाणी की आज्ञा में वर्तमान रह कर मैं शरीर के नियमन की दृढ़ता प्राप्त करूँ । इस घृत की सुन्दर आहति हो । हे सुवर्ण! तुम दीप्यमान हो, आह्लाद को देने वाले हो, जीवन के उपाय हो, सब देवताओं के सम्बन्धी हो, क्योंकि सब देवता सुवर्ण दान से तृप्त होते हैं । इस मन्त्र से यजमान घृत में से निकाल कर सुवर्ण को वेदी पर रखता है ॥ १८ ॥
भाष्यसार — - कात्यायन श्रौतसूत्र में प्रतिपादित ( ७.६८ ) विनियोग के अनुसार ' शुक्रमसि ' इत्यादि मन्त्र से वेदि पर स्वर्ण खण्ड को स्थापन किया जाता है ।
पृष्ठ 59
पाठ पढ़ें पाठ छिपाएँ
५० शुक्लयजुर्वेदसंहिता [ अ. ४ निदधाति ' ( का. श्रौ. ७.६.८ ) । तृणबद्धं हिरण्यमुद्धृत्य विस्रंस्य हिरण्यं हस्ते कृत्वा तृणं वेद्यां निदधाति शुक्रमसीति मन्त्रेणेति । हे हिरण्य, त्वं शुक्रमसि । शोचत इति शुक्रम्, ' शुच दीप्तौ दीप्यमानमसि तथा चन्द्रमसि आह्लादकमसि, ' चदि आह्लादने, अमृतं मरणरहितमसि, सर्वनाशकस्याप्यग्नेः संयोगेऽपि हिरण्यस्य विनाशादर्श-नात् । वैश्वदेवमसि सर्वदेवसम्बन्ध्यसि, हिरण्यदानेन सर्वेषामपि देवानां तोषणात् । अध्यात्मपक्षेऽपि — तस्यास्ते प्रत्यक्चित्यभिन्नायाः सत्यसवसोऽवितथसङ्कल्पायाः प्रसवे प्रेरणे त्वदीयतनु-भूताया अपरोक्षज्ञप्तिलक्षणाया यन्त्रं नियमनमेकाग्रतां दाढर्यं वा अशीय प्राप्नुयाम | तदेव स्तौति - हे ब्रह्मात्मापरो-क्षज्ञान, त्वं शुक्रमसि दीप्यमानमसि, चन्द्रमाह्लादकमसि, अमृतमसि, अमृतमोक्षफलकत्वात् । वैश्वदेवमसि, सार्वात्म्य-बोधकत्वात् । दयानन्दस्तु — ' तस्या वाचो विद्युतो वा ते तव सत्यसवसः सत्यं सव ऐश्वर्यं जगत्कारणं यस्य तस्य परमात्मनः प्रसवे उत्पादिते संसारे तन्वः शरीरस्य यन्त्रयति सङ्कचति चालयति निबध्नाति वा येन तद् तत् अशीय ' इति, प्राप्नुयाम् । स्वाहा वाचं विद्युतं वा शुक्रं शुद्धमसि अस्ति, चन्द्रमाह्लादकममृतमसि, वैश्वदेवं यद्विश्वेषामिदं हिन्दीभाष्ये— ' हे जगदीश्वर, सत्यैश्वर्ययुक्तस्य जगन्निमित्तकारणस्य ते तवोत्पादिते संसारे तन्वः शरीरस्य सम्बन्धिन्या वाण्या विद्युतो वा सकाशाद्विद्यां प्राप्य शुद्धं चन्द्रमाह्लादकममृतं सर्वविद्वत्सु कारकं यन्त्रं संकोचविकाशचालन-बन्धनकारकं यन्त्रमशीय प्राप्नुयाम् ' इति, तदेतदनाकलितपौर्वापर्यस्य अनाघ्रातास्तिकसिद्धान्तस्य पाश्चात्त्यनेयबुद्धेर्दु-श्चेष्टितम्, तन्वः सम्बन्धिन्या विद्युतो वाण्या वा सकाशाद् यन्त्रोत्पत्त्यसम्भवात् । न च स्वाहापदस्य वाणी विद्युद्वार्थः सम्भवति, तत्रास्य पदस्याशक्तत्वात् तथा तन्व इति पदस्य वैयर्थ्यापातात् अतनोर्वाण्या अदर्शनात् तन्वश्च विद्युदसिद्धेः श्रुतिसूत्रविरोधाच्च । शतपथे तु — ' जुष्टा विष्णव इति जुष्टा सोमायेत्येवैतदाह यमच्छेम इति । तस्यास्ते सत्यसवसः प्रसव इति सत्यप्रसवा न एधि सोमं नोच्छेहीत्येवैतदाह तन्वो यन्त्रमशीय स्वाहेति स ह वै तन्वो यन्त्रमश्नुते यो यज्ञस्योदृचं गच्छति यज्ञस्योदृचं गच्छानीत्येवैतदाह ' ( श. ३.२.४.१२ ) । विष्णुपदस्याभिमतमर्थमाह- जुष्टा सोमायेति । भुवनत्रय-व्यापकत्वात् सोमो विष्णुः, सर्वस्यैव लोकस्याग्नीषोमात्मकत्वात् । ' रुच्यर्थानां प्रीयमाणः ' ( पा. सू. १.४.३३ ) इति जुषतियोगे चतुर्थी । यं सोममच्छ अभिमुखमिमो गच्छेम वयम्, अनेनाभिप्रायेण सोमायेत्याहेत्यर्थः । सत्यसवसः सत्यानुज्ञायास्तस्या देवैः प्रेरिताया वाचः प्रसवेऽनुज्ञायां सत्यामिति मन्त्रभागस्यार्थः । अस्य भागस्य तात्पर्यमाह — सत्यप्रसवा न एधीति । नोऽस्माकं सत्यानुज्ञा भवेत्यर्थः । न एधीत्यत्र न इत्यस्य नः सोममित्यर्थ इति व्याचष्टे – सोमं नोऽच्छेहीति । चरमभागस्य अध्यात्मपक्ष में सम्पूर्ण कण्डिका का अर्थ इस प्रकार है— उस तुम्हारी प्रत्यक् चैतन्य से अभिन्न सत्यसङ्कल्पशीला देहभूता अपरोक्ष ज्ञप्ति की प्रेरणा में हम नियमन अथवा दृढ़ता को प्राप्त करें । हे ब्रह्मात्मसम्बन्धी अपरोक्ष ज्ञान, तुम प्रकाशशील हो, आह्लादक हो, मोक्षफलदाता अमृतरूप हो तथा सर्वात्मबोधक होने के कारण वैश्वदेव हो । स्वामी दयानन्द ने जो अर्थ किया है, वह पौर्वापर्य का विचार किये बिना, आस्तिक सिद्धान्त की गन्ध से रहित पाश्चात्त्यों का अनुकरण करनेवाली बुद्धि की दुश्चेष्टा है, क्योंकि शरीर से सम्बद्ध विद्युत् अथवा वाणी से यन्त्र की उत्पत्ति सम्भव नहीं है और स्वाहा पद का वाणी अथवा विद्युत् अर्थ भी सम्भव नहीं है । इस अर्थ के अभिधान में स्वाहा पद समर्थ नहीं है । साथ ही ' तन्वः ' पद की व्यर्थता भी हो जाती है, क्योंकि शरीर ( आकृति ) से रहित वाणी दृष्टिगोचर नहीं होती तथा शरीर से विद्युत् की सिद्धि भी सम्भव नही हैं । शतपथश्रुति तथा सूत्रों का विरोध भी इस अर्थ में है ॥ १८ ॥
पृष्ठ 60
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १८ ] वेदार्थपारिजात भाष्यसहिता ५१ तात्पर्यमाह — तन्वो यन्त्रमिति । उदृचम् उत्तमा ऋग् उदृक्, तया यज्ञसमाप्तिर्लक्ष्यते । अतो यो यज्ञसमाप्ति गच्छति, स एव तन्वो यन्त्रमश्नुते । तेन तन्वो यन्त्रमशीयेत्यनेन यज्ञस्योहचं यज्ञसमाप्तिं गच्छानीत्येवैतदाह । एतेन ' सव ऐश्वर्यम्, प्रसव उत्पादिते संसारे, यन्त्रं सङ्कोचविकाशचालनादियन्त्रम् ' इत्यादिव्याख्यानमपव्याख्यानमेवेति सिद्ध्यति । ‘ अथ हिरण्यमपोद्धरति । तन्मनुष्येषु हिरण्यं करोति स यत्सहिरण्यं जुहुयात् परागु हैवैतन्मनुष्येभ्यो हिरण्यं प्रवृञ्ज्यात् । तन्न मनुष्येषु हिरण्यमभिगम्येत ' ( श. ३.२.४.१३ ) । हिरण्यस्यापोद्धारं विधाय प्रशंसति — अथेति । प्राण्युपभोगस्य धन-मूलत्वाद् हिरण्यस्यापोद्धारेण मनुष्येषु हिरण्यस्थापनं कृतं भवति । विपक्षे बाधदर्शनेन विहितमर्थं प्रशंसति - स यत् सहिरण्यं जुहुयात् परागु हैवैतन्मनुष्येभ्यो हिरण्यं प्रवृञ्ज्यादिति । स यदि हिरण्येन सहितमाज्यं जुहुयाद् अपुनरागमनं मनुष्येभ्यः सकाशाद् वर्जयेत् । अस्तु किं तत इत्यत आह- तन्नेति । तत्तर्हि मनुष्येषु हिरण्यं नानुवर्तेत तस्माद्धिरण्य-संस्कृतमाज्यमेव जुहुयान्न सहिरण्यमाज्यमित्यर्थः । अत एव शुक्रममृतं चन्द्रमित्यादीनि हिरण्यप्रशंसकानि विशेषणानि । न यन्त्रमित्यस्येति तथा व्याख्यानमश्रौतमेव । ‘ सोऽपोद्धरति । शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवमसीति कृत्स्नेन पयसा हुत्वा यदेवैतत्तदाह शुक्रमसीति शुक्रं ह्येतच्चन्द्रमसीति चन्द्रं ह्येतदमृतमसीत्यमृतं ह्येतद्वैश्वदेवमिति वैश्वदेवं ह्येतत्प्रमुच्य तृणं बर्हिष्यपसृजति सूत्रेण हिरण्यं प्रबध्नीते ' ( श. ३. २. ४.४ ) । अपोद्धारमनूद्य मन्त्रमाह-- सोऽपोद्धरतीति । हे हिरण्य, त्वं शुक्रं दीप्तमसि, चन्द्रं सर्वाह्लादकमसि, अमृतममरणधर्मकमसि, अत्यन्ताग्निसंयोगे ऽप्यविनाशात् । वैश्वदेवस्य सर्वदेवताप्रीतिकरत्वात् तदीयोऽयमपोद्धारो होमानन्तरं कार्य इत्याह- कृत्स्नेनेति । प्रागेव चेदपोद्धरेत्तदा हिरण्यात्मकस्य पयसोऽभावादाज्यं रूपं पयसोऽकृत्स्नं स्यात् । तस्मादुच्यते कृत्स्नेन पयसा हुत्वेति । मन्त्रगतं हिरण्यस्य शुक्राद्यात्मकत्वं न स्तुत्यर्थ-मित्याह — यदेवैतत्तदाह शुक्रमसीत्यादिना । यदेवैतद् हिरण्यस्य स्वाभाविकं रूपं शुक्रं शुक्ररूपं तत् । एष मन्त्र आह । यद्यपि हिरण्यमाग्नेयं तथापि सर्वप्रियत्वाद् वैश्वदेवमुच्यते । प्रमुच्य तृणमिति हिरण्ये बद्धं तृणं विमुच्य बर्हिष्यपसृज्य पुनः सूत्रेण बध्नीयात्, ' शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधाति, सूत्रबद्धं हिरण्यं कुरुते ' ( का. श्रौ. ७.६.८ - ९ ) इति कात्यायनसूत्राभ्याम् । ' अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । अन्वारभस्व यजमानेत्याहापोर्णुवन्ति शालायै द्वारे दक्षिणतः सोमक्रयण्यु-पतिष्ठते तत्प्रहितामेवैनामेतत्सतीं प्राहैषीद् वाग् वै सोमक्रयणी निदानेन तामेतयाहुत्या त्रैषीत् प्रीतया सोमं क्रीणानीति ' ( श. ३.२.४.१५ ) । पूर्वोक्तप्रायणीशेषादेवान्यतश्चतुर्गृहीतमाज्यं गृहीत्वा यजमान अन्वारभस्वेति ब्रूयात् । अध्वर्योरनु-स्पर्शोऽन्वारम्भः । शालायै शालायाः अपोर्णुवन्ति, द्वाराणीति शेषः, शालाया द्वाराण्यपिधायेति कात्यायनेनोक्तत्वात् । तथा च सर्वाणि शालायाः पूर्वं पिहितानि द्वाराण्यपवृत्तानि कुर्युरित्यर्थः । ' अपावृतद्वारे निष्क्रामतः ' ( का. श्री. ७.६.११ ) । विमिते उद्घाटितद्वारे सति विमितादध्वर्युयजमानौ निष्क्रामेताम् । द्वारे दक्षिणत आहवनीयात् प्राक्तने द्वारे सोमक्रयार्थं दक्षिणतो दक्षिणदेशे सोमक्रयणी गौरुपतिष्ठते उपावर्तते । तदुक्तम्- ' दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्यल-क्षिताऽव्यङ्गाऽप्रवीताऽरज्जुबद्धा बभ्रूः पिङ्गलाभावेऽरुणाऽरुणाभावे रोहिण्यश्येताक्षी ' ( का. श्रौ. ७.६.१२ ) । स्वामि-बोधकचिह्नेनानङ्किता अप्रवीता वृषभेणाकामिता अरुणा अव्यक्तरागा रोहिणी रक्तवर्णा अरक्ताक्षी । सोमक्रयण्यवस्थापनं प्रशंसति — तत्प्रहितामेवैनामिति । देवैः प्रेषितया वाचा प्रेरितां सतीम्, अथवा तत् तथा सतीव प्रहितामेवेमां सोमक्रयार्थं गमयति स्वप्रेरितां सतीमेवैतामेतदेतेनावस्थापनेन प्राहैषीत् प्रेषितवान् भवति । तस्या इतरगोसाधारण्यं वारयति - वाग् वै सोमक्रयणी । तामेतयेति तां वाग्रूषां सोमक्रयणीं यस्मादेतया पूर्वविहितया धूरसीत्यादिमन्त्रदेवतयाऽत्रैषीदध्वर्युः प्रेरितवान् । क्या बुद्ध्या? प्रीतया तृप्तया सोमं क्रीणानीति ॥१८ ॥