वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 61–70

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 61–70

पृष्ठ 61

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 61 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ शुक्लयजुर्वेदसंहिता [ अ. ४ चिद॑सि म॒नोऽसि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतः शीर्णी । सा न॒ः सुप्रा॑च॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीता॑ पू॒षाध्व॑नस्या॒त्विन्द्रि॒याय॑क्षाय ॥१ ९ ॥ हे वाग्दे-चिदसीत्येनामभिमन्त्रयते ' ( का. श्री. ७.६.१३ ) । एनां सोमक्रयणीं गां चिदसीति मन्त्रेणाभिमन्त्रयते – वतारूपे सोमक्रयणि, त्वं चिदसि मनोऽसि धीरसि । अन्तःकरणस्य चित्तमनोबुद्धय इति तिस्रो वृत्तयः । देहेन्द्रियादि- । लक्षणस्याचेतनस्य सङ्घातस्य चेतनतां सम्पादयन्ती बाह्यवस्तुषु वा निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तम् । चित्तमेवेह चिदित्याख्यायते 1 । देहव्यापिनी चेतनाख्या वृत्तिर्वा चित्, ' सङ्घातश्चेतना धृतिः ' ( भ.गी. १३.६ ) इति गीतावचनात् पदार्थं दृष्टा अथवा वाग्रूपाध्यारोपकल्पनया कयाचिद् वृत्त्या चिच्छक्तिरूपैवासीत्यपि सम्भवति । लोके यं कञ्चित् । एवमनेवं वेति सङ्कल्पविकल्पौ कुर्वाणा वृत्तिर्मन इत्युच्यते । त्वं मनोऽसि । इदमेवेति निश्चयात्मिका मतमेवार्थं वृत्तिर्धीशब्देनोच्यते वाक् प्रकाशयतीति एवं वाग्रूपायाः सोमक्रयण्याश्चिन्मनोधीरूपत्वेन प्रशंसा क्रियते । चित्तेन ज्ञातं मनसा । चेतनावस्थापन्ना वाग्रूपायास्तस्याश्चित्तमनोरूपत्वं युक्तम्, ' चित्तं वा इदं मनो वागनुवदति ' ( श. ३.२.४.१६ ) इति श्रुतेः सती त्वं चिदसि तथा मननेन मनोऽप्यसि । धिया ' धिया ह्येतया मनुष्या जुज्यूषन्ति ' ( श. ३. २.४.१६ ) ( जीवितुमिच्छ-न्तीत्यर्थः ) इति श्रुत्या इत्थं वदिष्यामीति बुद्ध्या चित्तवदभिवदन् रूपेण कर्मणा वा । ' धीरिति कर्मनामसु सिद्ध्यति ' । वेदाध्ययनेन । तथैवाह स्वच्छन्दैर्भाषणैर्गाथाभिश्च मनुष्या जीवितुमिच्छन्ति । एवं वाचो धीत्वं जीवनसाधनकर्मत्वं च ) । वागात्मिकां तित्तिरिः — ‘ वाग्वा एषा यत्सोमक्रयणी चिदसि मनोऽसीत्याह शास्त्येवैनामेतदिति ' ( तै. सं. ६.१.७.६ सोमक्रयणीं चिदादिशब्दवाच्यामेवं प्रशंसतीत्यर्थः । तेन पूर्वं चिदादिरूपत्वं सम्पाद्योपचारेण प्रशंसा कृता, दक्षिणादिरूपेण तु विद्यमानमेव प्राशस्त्यमुच्यते । हे सोमक्रयणि, त्वं दक्षिणासि गवां देवद्रव्यत्वेन कर्मसु दक्षिणात्वं सिद्धमेव । यद्वा वाग्दानस्य प्रशस्तत्वात् त्वं दक्षिणासि ।, वाचैव विद्यादानसम्भवात् । क्षत्रियासि, क्षत्रं बलं तदर्हत्वात् क्षत्रिया गौः पयोघृतादिसाधनत्वात् तस्या बलकरत्वसिद्धेः सोमक्रयसाधनत्वाच्च क्षत्रियात्वम्, देवेषु सोमस्य क्षत्रजात्यभिमानित्वात् ' सोमो वै राजा ' ( ऐ. बा. १.१५ ) इत्यादिश्रुतिषु सोमेन सोमे राजशब्दव्यवहारात्, ' यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः ' ( श. १४.४.२.२३ ) इति श्रुतेः । तेन क्षत्रेणाभिमन्तव्यस्य सोमलताद्रव्यस्य क्रयहेतुत्वात् त्वं क्षत्रियासि, क्रयद्वारा तत्सम्बन्धित्वादस्या अपि क्षत्रियत्वोपचारात् । यज्ञियासि, यज्ञार्हत्वात् । सोमयज्ञापेक्षितमुख्यसोमक्रयहेतुत्वादेव त्वं यज्ञियासि । अदितिः, नास्ति दितिः खण्डनं यस्या निरु. सा, अखण्डिता, ' दोऽवखण्डने ' इति धातोर्निष्पन्नत्वात् । अदीना देवमातृरूपा चासि, ' अदितिरदीना सोमक्रयणी देवमाता गौरुभयतः ' ( -४.२२ ) इति यास्कोक्तेः । ज्योतिष्टोमस्याद्यन्तयोः प्रायणीयोदयनीययोरदितिदेवताकत्वेन सेयं ' ( निरु. शीर्णी, उभयतः शीर्षे यस्याः सा तथोक्ता, प्रायणीयोदयनीययोः शीर्षत्वोपचारात् ' द्वे शीर्षे प्रायणीयोदयनीये श. १३.७ ) इति निरुक्तवचनात् । यद्वोभयतःशीर्णी सर्वतोमुखी, वाग्रूपत्वात्, ' स यदेनया समान सद्विपर्यासं वदति सुप्ताची ' ( ३.२.४.१६ ) इति श्रुतेः । वाक्येऽन्यथाऽन्यथा क्रमस्य सम्भवात् सा पूर्वोक्ता चिदादिरूपा त्वं नोऽस्मदर्थे मन्त्रार्थ - हे सोमक्रयणि गौ! तुम चिदात्मा हो, बुद्धिस्वरूपा हो, मनःस्वरूपा हो, दक्षिणारूप हो, दाता की कष्ट से रक्षा करने वाली हो, यज्ञसंबन्धिनी होने से यज्ञ के योग्य हो, देवमाता अदितिस्वरूपा हो, पृथ्वी और स्वर्ग दोनों ओर सिर रखने वाली, अर्थात् दिव्य और भौम भोगों को देने वाली हो । तुम हमारे लिये पूर्वमुखी, पश्चिममुखी होओ । सूर्य दक्षिण पाद का से तुमको बांधे । पूषा देवता यज्ञ के स्वामी इन्द्र देवता की प्रसन्नता के लिये मार्ग में तुम्हारी रक्षा करें ॥ इस मन्त्र से वाणी रूप मानकर सोमक्रयणी गौ की स्तुति की जाती है ॥१ ९ ॥

पृष्ठ 62

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 62 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. १ ९ -२० ] वेदार्थपारिजात भाष्यसंहिता ५३ सुप्रतीची एधि भव । सु प्राङञ्चतीति सुप्राची, सुष्ठु प्रत्यञ्चतीति सुप्रतीची । प्रथमं सोमस्य क्रेतारं प्रति प्राङ्मुखी भूत्वा पश्चात् सोमेन सह अस्मान् प्रत्यागन्तुं प्रत्यङ्मुखी भव, ' सुप्राची न एधि सोमं नोच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह ' ( श. ३.२.४.१७ ) इति श्रुतेः । किञ्च, मित्रो हितकारी सूर्यो देवो यदि दक्षिणपादे त्वा त्वां बध्नीतां बन्धनं करोतु, अप्रणाशाय ते पूषा सर्वपोषको देवः सूर्य एवाध्वनो भयोपेतान्मार्गात् त्वां पातु रक्षतु । अथवा पूषेति टाबन्तं स्त्रीलिङ्गपदम् पूषा पृथिवी त्वां मार्गात् पातु, ' इयं वै पृथिवी पूषा ' ( श. ३.२.४.१ ९ ) इति श्रुतेः । किमर्थम्? इन्द्राय इन्द्रप्रीत्यर्थम् । कीदृशायेन्द्राय? अध्यक्षाय अधि उपरि अक्षिणी यस्य सोऽध्यक्षस्तस्मै द्रष्टे, यज्ञ-स्वामिन इत्यर्थः । यद्वा चतुर्थ्याः षष्ठ्या विपरिणामः । इन्द्रस्याध्यक्षस्य सोमयागस्वामिने हितायेति शेषः ॥ १ ९ ॥ अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ा सग॒भ्यो॑ऽनु॒ सख्खिा सयु॑ध्यः । सा दे॑व दे॒व -मच्छेहीन्द्रा॑य॒ सोमं रु॒द्रस्त्वा॑वर्तयतु॒ स्व॒स्ति सोम॑स॒ना॒ पुन॒रेहि॑ ॥ २० ॥

सोमयागस्याध्यक्षायेन्द्राय तत्स्वामिने देवाय प्रीत्यर्थं सोमक्रयसाधनत्वेन सोमाहरणे प्रवृत्तां त्वां माता त्वदीया त्वा त्वामनुमन्यतां त्वामङ्गीकरोत्वनुज्ञां ददातु । पित्रादयोऽप्यनुमन्यन्ताम् । सगर्भ्यः समानगर्भभवः सहोदरो भ्राता अनुमन्यताम् । ' समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ' ( पा. सू. ६.३.८४ ) इति समानस्य सादेशः । त्वया सहैकस्मिन् गर्भेऽवस्थितो वत्सो भ्राताऽनुज्ञां करोतु । सयूथ्यः सखा सह सञ्चारी वत्सः स एव सयूथ्यः सखानुमन्यताम् । हे देवि सोमक्रयणि, या त्वमस्माभिः कृतसामग्रीका सा त्वमिन्द्राय इन्द्रार्थं हे देवि दानादिगुण-युक्ते, सोमं देवं सोमम्, अच्छेहि सोमद्रव्यं प्राप्तुं गच्छ, ' अच्छाभेराप्तुमिति शाकपूणिः ' ( निरु. ५.२८ ) । सोमं गृहीत्वा स्थितां त्वां रुद्रो देवो वर्तयतु अस्मान् प्रति निवर्तयतु । यद्वा रुद्रो देवस्त्वां वर्तयतु प्रवर्तयतु, पशूनां रुद्राज्ञावशवर्तित्वात् । सोमो देवः सखा यस्याः सा त्वं सोमसखा सोमसहिता स्वस्ति क्षेमेण पुनरेहि भूयोऽप्या-गच्छ । तित्तिरिर्विस्पष्टमेनमर्थं प्रपञ्चयामास । शतपथेऽपि स्पष्टमुक्तम् । तथाहि —– ' अथोपनिष्क्रम्याभिमन्त्रयते । चिदसि मनासीति चित्तं वा इदं मनो वागनुवदति धीरसि दक्षिणेति धिया धिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव तस्मादाह धीरसीति दक्षिणेति दक्षिणा होषा क्षत्रियासि यज्ञियासीति क्षत्रिया ह्येषा यज्ञिया ह्येषादितिरस्युभयतः शीर्ष्णाति स यदेनया समान सद्विपर्यासं वदति यदपरं तत्पूर्वं करोति यत्पूर्वं तदपरं तेनोभयतःशीर्णी तस्मादाहादितिरस्युभयतः शीर्णीति ' ( श. ३.२.४.१६ ) । तस्या अभिमन्त्रणं विधत्ते - अथेति । उपनिष्क्रम्य यज्ञशालाया निर्गम्य । अभिमन्त्रणमन्त्रं व्याचष्टे - चिदसि मनासीति । इदमिदानीं सर्वविदितप्रकारेण चित्तं मनः, मनसा वागनुवदति, चित्तेन ज्ञातं मनसा मतमेवार्थं वाक् प्रकाशयति । अतो हे सोमक्रयणि, वाग्रूपा त्वं मन्त्रार्थ - हे वाणी रूपी गौ! सोम लाने में प्रवृत्त तुमको तुम्हारी पृथ्वी माता आज्ञा दे, स्वर्ग पिता आज्ञा दे, सहोदर भाई ईश आज्ञा दे, एक यूथ ( समूह ) में प्रकट होने वाला आत्मप्रतिबिम्ब सखा आज्ञा दे । हे दिव्यगुणयुक्त सोमक्रयणि! तुम इन्द्र के लिये सोमलता लाने को जाओ । रुद्र देवता तुमको पुनः हमारी तरफ लौटायें, सोम को लेकर तुम क्षेमपूर्वक फिर हमारे पास आ जाओ ॥ इस मन्त्र में भी वाणी रूपी गौ की स्तुति की गई है । २० ॥ भाष्यसार - ' चिदसि ' इत्यादि दो कण्डिकाओं से सोमक्रय के लिये निर्धारित सोमक्रयणी गौ का अभिमन्त्रण किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ७.६.१३ ) में निर्दिष्ट है ।

पृष्ठ 63

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 63 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ शुक्लयजुर्वेदसंहिता [ अ.४ चेतनावस्थापन्ना सती चिदसि तथा मननेन मना अपि असि । धीरसि धीरूपाप्यसि । कुत इत्याह — धिया इत्थं वदिष्यामीति बुद्ध्या चित्तवदभिवदनरूपेण वा कर्मणा, ' धीरिति कर्मनाम ' ( निघ. २.१.२१ ), जुज्यूषन्ति जीवितु-मिच्छन्ति मनुष्याः । तया जीवनप्रकारं स्वयमेव दर्शयति श्रुतिः - अनूक्तेनेति । अनूक्तेन अनुवचनेन वेदाध्ययनेन, प्रकामोद्येन इच्छया लौकिक भाषणेन, गाथाभिर्गद्यपद्यमयीभिः कथाभिः । सर्वत्र इवेति वाक्यालङ्कारे । एवंविधै-र्वाग्विशेषैर्जीवितुमिच्छन्ति । एवं वाग्रूपायास्तव चित्तमनोधीरूपत्वमुपपद्यते । दक्षिणेति सोमविक्रयिण आनत्यर्थं दीयमानत्वात् साक्षाद् दक्षिणापि खल्वेषा वस्तुतो भवति । क्षत्रं बलं तदर्हतीति क्षत्रिया गौः पयआदिसाधनत्वेन तस्या बलकरत्वोपपत्तेः । अथवा क्षत्रं सोम, ' सोमो वै राजा ' ( ऐ. बा. १.१५ ) इति राजशब्देन व्यवहारात् । न यज्ञयोगादेव राजत्वम्, किन्तु जात्यापि क्षत्रियत्वम् । ' यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यः ' ( श. १४.४.२.२३ ) । अतः सोमसम्बन्धात् क्षत्रियैवैषा । हे वाग्रूपे, त्वमदितिरसि, उभयतःशीर्णी अदितिरसि, प्रदेशद्वयशिरोयुक्ता अखण्डनीया गौरसि । कुत एतदित्याह - स यदेनया समानं सद्विपर्यासमिति । स वक्ता यद् यस्माद् एनया अदित्या उभयशिरस्कया निमित्तभूतया समानमेकमेव वाक्यं विपर्यासं व्यत्यासेन वदति । तथाहि —— भुङ्क्ष्व देवदत्त तिष्ठ विष्णुमित्र इत्यादौ यदेवापरं वचनं देवदत्तेत्येवमादि तदेव पूर्वं करोति । उक्तवैपरीत्येन यत्पूर्वं भुङ्क्ष्वेत्यादिकं तदपरं देवदत्त भुङ्क्ष्व विष्णुमित्र तिष्ठेत्येवंरूपेणापरं च करोति । तस्माद् वाग्रूपतया सोमक्रयणी उभयतःशीर्णी अदितिरसीत्युच्यते । तैत्तिरीयके तु— ' अदितिरस्युभयतः शीर्णीत्याह यदेवादित्यः प्रायणीयो यज्ञाना-मादित्य उदयनीयः ' ( तै. सं. ६.१.७.५ ) इति शिरोवत् प्रधानभूतयोः सोमयागस्याद्यन्तभूतयोः प्रायणीयोदयनीययोरदिति-र्देवतास्तीति सोभयतःशीर्णीत्युच्यते । ' सा नः सुप्राची सुप्रतीच्येधीति । सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह तस्मादाह सा नः सुप्राची सुप्रतीच्येधीति ' ( श. ३.२.४.१७ ) । सोमक्रयणावसरे सुप्राची भव, पुन-र्यजमानगृहप्राप्त्यवसरे क्रीतेन सोमेन सह सुप्रतीची भव । यथा देवप्रेरिता वाक् सोमेन सह पुनरागता, तदात्मकत्वात्. त्वमपि सोमक्रयं साधयित्वा क्रीतेन सोमेन सार्धं पुनरावर्तस्वेत्यर्थः । मित्रस्त्वा पदि बन्धीतामिति । वरुण्या वा एषा यज्जुः सा यद्रज्ज्वाभिहिता स्याद्वरुण्या स्याद्यद्वनभिहिता स्यादयतेव स्यादेतद्वा अवरुण्यं यन्मैत्रं सा यथा रज्ज्वाभिहिता यतैवमस्यैतद् भवति यदाह मित्रस्त्वा पदि बन्धीतामिति ' ( श. ३.२.४.१८ ) । मित्रदेवतायाः पादबन्धनोपयोगं दर्श-यति वरुण्या वा इति । पाशस्य वरुणस्वामिकत्वाद् वरुणदेवताका रज्जुः । यद् यदि तया अभिहिता बद्धा स्यात्तदा वरुण्या स्यात् सोमार्थता न स्यात्, यद्यनभिहिता अबद्धा तदा अयता अस्वाधीना स्यात् । अत एतद्दोषपरिहाराय मन्त्रे मित्रकर्तृकपादबन्धनमित्याह - एतद्वा अवरुण्यं यन्मैत्रं सा यथा रज्ज्वाऽभिहिता यतैवमस्यैतद् भवति यदाह मित्रस्त्वा पदि बन्धीतामिति । ‘ पूषाऽध्वनस्पात्विति । इयं वै पृथिवी पूषा यस्य वा इयमध्वन् गोप्त्री भवति तस्य न काचन ह्वला भवति तस्मादाह पूषाऽध्वनस्पात्विति ' ( श. ३.२.४.१८-१९ ) । यस्या वा इयं पृथिवी पूषा स्यात्, अध्वनि काचन ह्वला प्रच्युतिर्विनाशो न भवति, ' ह्वल चलने ' । यस्मात् पूष्णा रक्षितस्य प्रच्युतिर्विनाशो नास्ति, तस्मात् पूषाऽध्वनस्पातु । पूष्णो मार्गाणां नेतृत्वं पूषा त्वेतो नयतु ' ( ऋ. सं. १०.८५.२६ ) इति श्रुतिसिद्धम् । ‘ इन्द्रायाध्यक्षायेति । स्वध्यक्षा सदित्येवैतदाह यदाहेन्द्रायाध्यक्षायेत्यनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्य इति सा यत्ते जन्म तेन नोऽनुमता सोममच्छेहीत्येवैतदाह सा देवि देवमच्छेहीति देवी ह्येषा देवमच्छैति यद् वाक् सोमं तस्मादाह सा देवि देवमच्छेहीतीन्द्राय सोममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय

पृष्ठ 64

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 64 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २० ] वेदार्थपारिजात भाष्यसहिता ५५ सोममिति रुद्रस्त्वावर्तयत्वित्यप्रणाशायैतदाह रुद्रं हि नाति पशवः स्वस्ति सोमसखा पुनरेहीति स्वस्ति नः सोमेन सह पुनरेहीत्येवैतदाह ' ( श. ३.२.४.२० ) । अध्यक्षः स्वामी यज्ञस्य तथाविधायेन्द्राय पूषा पातु । सोमस्येन्द्रस्वामिकत्वात् सोमार्थायाः सोमक्रयण्या अपि तत्स्वामित्वम् । तेन एषा स्वध्यक्षा शोभनस्वामिका असद् भवेद् इत्यनेनाभिप्रायेण मन्त्र एवमाह — अनु त्वा मातेति । हे सोमक्रयणि, त्वा त्वां मात्रादिबन्धुवर्गः क्रयार्थं गमनमनुमन्यताम् अनुमतिं करोत्विति मन्त्रभागस्यार्थः । सगर्भ्यः समाने गर्भे भवः, अनेन भ्राता विशेष्यते । सयूथ्यो यूथं सजातीयानां सङ्घ, समाने यूथे भवः सयूथ्यः तादृशः सखा अनुमन्यताम् । यत्ते जन्मेति तादृश्यास्तव सम्बन्धि यज्जन्म यद् यत्र जायते तेन मात्रादिबन्धु-वर्गेणानुमता सोममच्छेहि सोमं प्राप्तुमेहि । हे देवि, सा त्वं देवं सोममच्छेहि । देवि देवमित्यत्र सोमस्य देवत्वं विधित्सितम्, सोमेनानन्यत्वाच्च सिद्धं सोमक्रयण्या देवीत्वं न स्तुत्यर्थमित्यवगमयितुं यद् वाक् सोममित्युक्तम् । यथा वाक् सोमं गतवती, तथैवेयं सोमक्रयणी सोमं प्रति गच्छतीति । ' इन्द्रो वै यज्ञस्य देवता ' ( श. ३.२.४.२० ) । यज्ञस्य तत्साधनस्य सोमस्येन्द्रो देवता । तथा च तैत्तिरीयके— ' इन्द्राय हि सोम आह्रियते ' ( तै. सं. ६.१.७.७ ) इति । रुद्रस्त्वावर्तयत्विति । रुद्रस्य पश्वधिपतित्वात् स्वयमगृह्णन् पुनरावर्तयत्वित्यभिधानं तस्या अप्रणाशाय भवति । कथं हिंसाप्रसङ्ग इति तत्राह— रुद्रं हि पशवो नाति, वर्तन्त इति शेषः । स्वस्ति सोमसखेति । ' स्वस्तीत्यविनाशनाम ' ( निरु. ३.२१ ) इति निरुक्ता-दुक्तोऽनाशप्रसङ्गः । अतः क्षेमेण सोमसखा सोमेन सहिता पुनरागच्छेति मन्त्रार्थः । ' तां यथैवादो देवाः । प्राहिण्वन् सोममच्छ सेनान्त्सह सोमेनागच्छ देवमेवैनामेष एतत् प्रहिणोति सोममच्छ सैनं सह सोमेनागच्छति ' ( श. ३.२.४.२१ ) । ' तां यथैवादो देवाः । व्यह्वयन्ते गन्धर्वैः सा देवानुपावर्ततैवमेवैनामेतद्यजमानो विह्वयते सा यजमानमुपावर्तते तामुदीचीमत्याकुर्वन्त्युदीची हि मनुष्याणां दिक् सो एव यजमानस्य तस्मादुदीची-मत्याकुर्वन्ति ' ( श. ३.२.४.२२ ) । मन्त्रभागानां विभागेनाभिप्रायमुक्त्वा सम्पूर्णमन्त्रतात्पर्यमाह — तां यथैवादो देवा इति । सोमक्रयण्या वागात्मकत्वात् तस्याः सोमक्रयप्रदेशप्राप्तिप्रार्थनं देवैः कृतं सोमानयनार्थ वाक्प्रेषणस्थानीयम्, पुनराग-मनप्रार्थनं तु देवानां पुनर्वागाह्वानस्थानीयमिति संग्रहार्थः । तां यथैवाद इति । विप्रकृष्टे काले गन्धर्वैः सोमपालैर्विश्वा-वसुप्रभृतिभिः साकं देवा व्यह्वयन्त विविधमाह्वयन्, तथैव यथा तत्र वाग्देवानुपावर्तत, एवमेव यजमानो विह्वयते तथैव च सा यजमानमुपावर्तते । गन्तव्यद्वारदक्षिणदेशस्थायाः सोमक्रयण्या उदक्प्रापणं सार्थवादं विधत्ते - तामुदीचीमत्या-कुर्वन्तीति । उदङ्मुखा अध्वर्युप्रमुखा उदीचीं नीयमानामनुगच्छन्ति, उदीचीमतिक्रमणायाकुर्वन्ति अभिमुखीकुर्वन्ति अतिक्रमयन्ति यजमानपुरुषा, सो एव सैव मनुष्यान्तर्वर्तित्वाद् यजमानस्यापि दिक् । ' उदीचीं नीयमानामनुगच्छतो वस्व्यसीति ' ( का. श्रौ. ७.६.१४ ) । दक्षिणद्वारात् सोमक्रयणार्थमुक्तदेशं प्रति नीयमानामुदङ्मुखीं गामध्वर्युप्रतिप्रस्था-तारावनुगच्छेतां वस्व्यसीति मन्त्रेण, पत्नी - यजमान- ब्रह्माणस्तूष्णीम् । अध्यात्मपक्षेऽपि - हे राजराजेश्वरि, त्वं चिदसि अखण्डबोधरूपासि, त्वमेव मनोऽसि अखण्डचिद्रूपाया ब्रह्म-रूपयाश्चितेरेव मनाङ् मननीशक्तिधारणेन मनस्त्वापत्तिः । स आत्मा सर्वगो राम नित्योदितवपुर्महान् । स मनाङ् मननीशक्तिं धत्ते तन्मन उच्यते ॥ ' इति योगवाशिष्ठवचनात् । त्वमेव धीर्बुद्धिरसि, ' या देवी सर्वभूतेषु बुद्धिरूपेण अध्यात्मपक्ष में अर्थयोजना इस प्रकार है— हे राजराजेश्वरि, आप अखण्डबोधरूपा हैं । आप ही ब्रह्मस्वरूपिणी चिद्रूपिणी मननशक्ति हैं । आप ही बुद्धरूपा हैं । आप ही यज्ञ की पूर्णता की कारणरूपा दक्षिणा भी हैं । आप ही तेजःप्रधाना क्षत्र शक्ति हैं । देवमाता अथवा अखण्ड चिद्रूपा आप ही हैं । अविद्या तथा विद्या रूपी संसार के बन्धन एवं मोक्ष के कारणभूत शीर्ष को

पृष्ठ 65

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 65 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ शुक्लयजुर्वेदसंहिता [ अ. ४ संस्थिता ' इति सप्तशतीवचनात् । त्वमेव यज्ञतृप्तिहेतुर्गवादिर्देयद्रव्यरूपा दक्षिणाऽप्यसि । त्वमेव क्षत्रियासि, तेजः-प्रधानायाः क्षत्रशक्तेरपि शक्तिसामान्यान्तर्भावात् । अदितिर्देवमातृरूपापि त्वमेवासि, अखण्डचिद्रूपापि त्वमेवासि । उभ-यतो विद्याऽविद्यारूपे संसारबन्धमोक्षहेतुभूते शीर्षे यस्याः सोभयतःशीर्णी सा त्वं नोऽस्मभ्यं सुप्राची अभ्युदयहेतुत्वेन प्राची निःश्रेयसहेतुत्वेन सुप्रतीची एधि भव । संसारोऽयमभ्युदयेन प्रारभ्यते निःश्रेयसेन च समाप्यते । हे प्रत्यक्चिते, मित्रः सूर्यो ज्ञानरूपः, यदि दक्षिणपादे त्वां बध्नीताम्, स्वशक्त्या त्वां योजयतु तेन निवृत्तिमार्गः सिद्ध्यति । पूषा पोषको देवः, अध्वनो दुर्गात् त्वां पातु, ' दुर्गं पथस्तत् कवयो वदन्ति ' ( कठो. १.३.१४ ) इति श्रुतेः । एवं देवं भगवन्तं प्राप्तुमुद्यतां त्वां माता प्रकृतिस्तदवच्छिन्ना चिद्वा अनुमन्यतामनुजानातु । पिता परमेश्वरः सगर्थ्यो भ्राता व्यावहारिकोऽनु-मन्यताम्, सयूथ्यः सखा चानुमन्यताम् I । हे देवि प्रत्यक्चिते, त्वं देवं परमात्मानमच्छ प्राप्तुमेहि । कीदृशं देवम्? सोममुमया सहितम् । रुद्रो देवस्त्वामावर्तयतु विघ्नान् विद्राव्य परमात्मप्राप्तये प्रवर्तयतु । सोमः साम्बशिवः सखा सहायको यस्याः सा त्वं स्वस्ति सकुशलं पुनरेहि पुनः स्वस्वरूपं प्राप्नुहि ॥ २० ॥

वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒राच॑के ॥२१ ॥

' उदीचीं नीयमानामनुगच्छतो वस्व्यसीति ' ( का. श्रौ. ७.६.१४ ) । सायणरीत्याऽध्वर्युयजमानावनुगच्छत;, अन्यदृष्ट्या तु सूत्रं व्याख्यातमेव । अनुष्टुप् बृहती वा । सोमक्रयणी स्तूयते - हे सोमक्रयणि, त्वं वस्वी वसुरूपासि । रुद्रा एकादशरुद्ररूपासि । चन्द्ररूपा चासि । किञ्च, बृहस्पतिः सुम्ने सुखे सुखकरे मार्गे वा त्वा त्वां रम्णातु रमयतु । रमतेर्व्यत्ययेन श्नाप्रत्ययः । यद्वा रम्णातु संयमयतु, ' रम्णातिः संयमनकर्मा विसर्जनकर्मा वा ' ( नि १०.९ ) इति यास्कोक्तेः । रुद्रो वसुभिरष्टदेवैः सहितस्त्वामाचके रक्षितुं कामयताम् । आचक इति, चकमानः कान्तिकर्मसु पठितः ( निघ. २.६.१६ ) । आप धारण करती हैं । ऐसी आप हमारे लिये अभ्युदय के रूप से सम्मुख तथा निःश्रेयस के रूप से पश्चात् दोनों तरफ स्थित रहें, क्योंकि यह जगत् अभ्युदय से प्रारम्भ होता है तथा निःश्रेयस द्वारा समाप्त होता है । हे प्रत्यक् चितिस्वरूपा, ज्ञानरूपी सूर्य आपको दक्षिण पाद में अपनी शक्ति से संयुक्त करे । इस प्रकार से निवृत्ति मार्ग की सिद्धि होती है । पोषक देव ( पूषा ) दुर्गम पथ से रक्षा करें । द्वितीय कण्डिका का आध्यात्मिक अर्थ यह है— उपर्युक्त प्रकार से भगवत्प्राप्तिहेतु उद्यत आपको माता प्रकृति अथवा प्रकृत्यवच्छिन्ना चिति अनुज्ञा प्रदान करे । पिता परमेश्वर तथा व्यावहारिक भ्राता भी अनुज्ञा प्रदान करें । समान स्तर के मित्र भी अनुमति दें । हे प्रत्यक्चितिरूपा देवि! आप उमासहित विद्योतमान परमात्मा की प्राप्ति के लिये जाँय । रुद्र देव आपको विघ्ननिवारण पूर्वक परमात्मतत्त्व की प्राप्ति के लिये प्रवृत्त करें । साम्ब सदाशिव से सहायताप्राप्त आप सकुशल पुनः स्वस्वरूप को प्राप्त करें ॥१ ९ -२० ॥ मन्त्रार्थ - हे वाक्! हे गौ! तुम वसु देवता की शक्तिरूपा हो, देवमाता रूप हो, द्वादश आदित्य रूप हो, एकादश रुद्र रूप हो, चन्द्र रूप हो, बृहस्पति देवता तुमको सुख पहुंचावें, रुद्र देवता आठ वसुओं के साथ तुम्हारी रक्षा की कामना करें ॥ इस मन्त्र से सोमक्रमणी को यजमान उत्तर की ओर ले जाते हुए उसकी स्तुति करता है ॥२१ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ७६.१४ ) के अनुसार ' वस्व्यसि ' इस मन्त्र से अध्वर्यु एवं प्रतिप्रस्थाता ( सायण के मत से अध्वर्यु तथा यजमान ) सोमक्रयणी गौ का अनुगमन करते हैं । इस याज्ञिक विनियोग के अनुसार शतपथ ब्राह्मण में व्याख्या उपदिष्ट है ।

पृष्ठ 66

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 66 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २१ ] वेदार्थपारिजातभाष्यसहिता ५७ ' सप्तपदान्यनु निक्रामति ' ( श. ३.३.१.१ ) इति सोमक्रयण्या अनुक्रमणं विहितम् । सा यदा प्रथमं पदं निष्क्रामति, तदनु अध्वर्युः स्वयमपि प्रथमं पदं निष्क्रामति, द्वितीयमनु द्वितीयम् । वृङ्क्ते एवैनाम्, केवलो वृजिराङ्पूर्वो द्रष्टव्यः, आवर्जितवानेनाम् । सप्तसंख्यां प्रशंसति - यत्र वा इति । सुपर्णीरूपेणावस्थिताया वाचः सकाशाच्छन्दानामुत्पत्तिकाले तेषां छन्दसां परार्ध्या शक्वरी, परार्धे उपरिभागे भवा परार्ध्या । शक्वर्याः सप्तपदत्वं प्रसिद्धम्, ' सप्तपदा शक्वरी ' ( तै. सं. ६.१.८.१ ) । परस्तादर्वाचीं वृङ्क्ते स्वाभिमुखमावर्जितवान् भवति । ' षट् पदान्यतीत्य सप्तमं पर्युपविशन्ति ' ( का. श्रौ. ७.६.१५ ) । नीयमाना सोमक्रयणी यत्र पदानि निक्षिपति, तानि दक्षिणोत्तराणि गमयित्वा षट्पदान्यतीत्य सप्तमे पदनिक्षेपस्थानेऽध्वर्यु - ब्रह्म- यजमानप्रतिप्रस्थातार उपविशेयुः । तत्र दक्षिणतो ब्रह्मयजमानौ, पश्चादध्वर्युरुत्तरतः प्रतिप्रस्थातेति । ' सवै वाच एव रूपेणानु निक्रामति । वस्व्यस्यदितिरस्यादित्यासि रुद्रासि चन्द्रासीति वस्वी ह्येषादितिर्ह्येषादित्या ह्येषा रुद्रा ह्येषा चन्द्रा ह्येषा बृहस्पतिष्ट्वा सुम्ने रम्णात्विति ब्रह्म वै बृहस्पतिर्बृहस्पतिष्ट्वा साधुना वर्तयत्वित्येवैतदाह रुद्रो वसुभिराचक इत्यप्रणाशायैतदाह रुद्रं हि नाति पशवः ' ( श. ३.३.१.२ ) । अनुक्रमणं समन्त्रकं कर्तव्यमित्याह — स वैवाच इति । अनुक्रमणमन्त्रे सोमक्रयण्यवस्थादिरूपत्वाभिधानं न स्तुत्यर्थमित्याह — वस्वी ह्येषादितिषेत्यादिना । वसुरुद्रादित्याः सवनत्रयदेवताः, अदितिः प्रायणीयोदयनीयदेवता, चन्द्रशब्देनाह्लादकत्वादियुक्तं सुवर्णमुक्तम् । हे सोम-क्रयणि, त्वं वस्वादीनां स्वरूपमसि, तदपेक्षितसोमसाधनत्वाद् वस्वी ह्येषा इत्याद्यभिधानम् । रम्णात्वित्यादिकं स्पष्टार्थम् । बृहस्पतिष्ट्वेत्यस्य तात्पर्यमाह — ब्रह्म वै बृहद् बृहतो मन्त्रस्य पालयिता । तदभिमानिदेवता गच्छन्तीं त्वां सुम्ने सुखकरे यत्सुखकरं तत्साधुः, अतः सुम्ने रम्णात्विति यदाह तेन साधुना मार्गेण आवर्तयत्वित्येवैतदाह – रुद्रो देवो वसुभिरिति । हे सोमक्रयणि, तव सुखं वसुभिः सहितो रुद्र आचके कामयत इति मन्त्रभागस्यार्थः । रुद्रप्रार्थनाया उपयोगं दर्श-यति — अप्रणाशायेति । ‘ अथ सप्तमं पदं पर्युपविशन्ति । स हिरण्यं पदे निधाय जुहोति न वा अनग्नावाहुतिर्हृयते । अग्निरेतसं वै हिरण्यं तथोहास्यैषा अग्निमत्येवाहुतिर्हृता भवति वज्रो वा आज्यं वज्रेणैवैतदाज्येन स्पृणुते तां स्मृत्वा स्वीकुरुते ' ( श. ३.३.१.३ ) । यजमानमितरांश्चर्त्विजोऽपेक्ष्य पर्युपविशन्तीति बहुवचनम् । परितः सप्तमपदस्य सर्वतो दिक्षूपविशन्ति । क्रमस्तूक्त एव । सोऽध्वर्युर्हिरण्यं पदे निधाय जुहोति । होमाय हिरण्यनिधानं प्रशंसति न वानग्ना-वाहुतिः क्रियत इति । हिरण्यस्याग्निरेतस्त्वमुक्तमेव । होमसाधनमाज्यम् । तथा सत्यग्निमेवाहुतिर्हृता भवति । होम-साधनमाज्यं प्रशंसति — वज्रो वा इति । ' घृतं वै देवा वज्रं कृत्वा सोममघ्नन् ' ( तै. सं. ६.२.३.४ ) इति श्रुत्यन्तरात् । स्पृणुते हिनस्ति, तां पदप्रदेशस्थां मृदमित्यर्थः । अध्यात्मपक्षे – सैव प्रत्यक्चितिस्तत्त्वज्ञानेन ब्रह्मात्मभावमापन्ना सार्वात्म्यं भजते । हे प्रत्यक्चिते, त्वं वसु-रूपासि अदितिरूपासि आदित्यासि रुद्रचन्द्रादिरूपासि । बृहस्पतिर्ज्ञानविज्ञानाधिष्ठात्री देवता त्वा त्वां सुम्ने सुखरूपे सुखकरे ब्रह्मणि रम्णातु रमयतु रुद्रो देवो वसुभिः सह त्वा त्वां रक्षितुमाचके कामयताम् । तत्त्वज्ञान-प्रदानेनाज्ञानतत्कार्यात्मकप्रपञ्चबाधनमेव रक्षणम् । तच्च रुद्रानुग्रहेणैव सम्भवति, ' विद्याकामस्तु गिरिशम् ' ( भा. पु. २.३.७ ) इति श्रीमद्भागवतवचनात् । अध्यात्मपक्ष में यह अर्थ है - वही प्रत्यक्चिति तत्त्वज्ञान के द्वारा ब्रह्मात्मभाव को प्राप्त करके सर्वात्मता धारण करती है । हे प्रत्यक्चिति, तुम वसुरूपा हो, अदितिरूपा हो, आदित्यरूपिणी हो, रुद्रचन्द्रादिस्वरूपा हो । ज्ञानविज्ञानाधिष्ठातृ देवता बृहस्पति

पृष्ठ 67

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 67 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ शुक्लयजुर्वेदसंहिता [ अ. ४ पूर्वोक्तानां चतुर्णां मन्त्राणां सम्बन्धे दयानन्दस्वामिनः - चिद् या विद्याव्यवहारस्य चेतयमाना दक्षिणा वाग् विद्युद्वा दक्षन्ते असि अस्ति । सर्वत्र व्यत्ययः । मना ज्ञानसाधिका असि अस्ति, धीः प्रज्ञा कर्मविद्याधारिका प्राप्नुवन्ति विज्ञानं विजयश्च यया सा अस्ति, क्षत्रिया या क्षत्रस्यापत्यवद् वर्तते अस्ति, यज्ञिया या च यज्ञमर्हति सा अस्ति, अदितिरविनाशिनी अस्ति, उभयतःशीष्ण उभयतः शिरोवदुत्तमा गुणा यस्यां सा । अत्र पञ्चम्या अलुक् । सानोऽस्मभ्यं सुप्राची शोभनः प्राक् पूर्वः कालो यस्यां सा, सुप्रतीची सुष्ठु प्रत्यक् पश्चिमः कालो यस्यां सा, एधि भवतु । मित्रः सखा त्वा तां यदि पद्यते जानाति प्राप्नोति येन व्यवहारेण तस्मिन् बध्नीतां बद्धां कुरुताम् । पूषा पुष्टिकर्ता अध्वनो मार्गस्य मध्ये पातु रक्षतु । इन्द्राय परमैश्वर्यवते परमेश्वराय स्वामिने व्यवहाराय वा अध्यक्षाय अधि उपरि अन्वेक्षणे अक्षाण्यक्षिणी वा यस्य यस्माद्वा तस्मै ' इति, तदपि चिन्त्यम् चित्पदेन वाचो विद्युतो वा बोधासम्भवात्, ' चिती संज्ञाने ' इति धातोर्निष्पद्यमानस्यापि चिच्छब्दस्य विद्युदर्थासङ्गतेः ज्ञानजनकत्वेन वाचि कथ-ञ्चित् प्रवर्तमानत्वेऽपि ज्ञानजनकेषु चक्षुरादिष्वपि तत्प्रयोगापत्तेः । ' मना असि ज्ञानसाधिका ' इत्यप्यसङ्गतम्, चिदसी-त्यनेनैव गतार्थत्वात् । ' धीः कर्मविद्याधारिका ' इत्यप्यसङ्गतम् विद्युति कर्मधारकत्वोपपत्तावपि विद्याधारकत्वानुपपत्तेः । वाच्यपि विद्याधारकत्वं न सम्भवति, वाचो ज्ञानाधिकरणत्वायोगात् । व्यत्ययश्च च निष्प्रमा- दक्षिणा-णकः । एवं दक्षिणापदमपि वाचि विद्युति च नोपपद्यते, विज्ञानसाधने चक्षुरादौ विजयसाधने शस्त्रादौ पदप्रयोगापत्तेः । न चेष्टापत्तिः लोके तथाऽप्रयोगात् । ' क्षत्रस्यापत्यवद् वर्तते या सा क्षत्रिया ' इत्यपि यत्किञ्चित् मुख्यार्थत्यागे गौणार्थग्रहणे च मानायोगात् । ' उभयतः शीण उभयतः शिवोवदुत्तमा गुणा यस्यां सा ' इत्यपि न किञ्चित्, उभयत इत्यस्यानिरुक्तेः । अदितिरित्यपि न सङ्गच्छते, वाचो विद्युतश्च विनाशदर्शनात् । सुप्राचीत्यस्यापि व्याख्यानमसङ्गतम्, प्राक्कालेऽविद्यमानत्वेन सुखसाधनत्वायोगात् । एवमेव पश्चिमकालेऽपि सुखसाधनत्वं नोपपद्यते प्राक्प-, तदानीं तस्या असत्त्वात् । वाचो विद्युतश्च प्राक्काले यथाऽसत्त्वं पश्चिमकालेऽपि तथैवासत्त्वम्, कार्यमात्रस्य श्चिमकालयोरसत्त्वनिश्चयात् । कश्च सखा तां वाचं व्यवहारे बध्नाति? यदुक्तं ' सर्वस्य मित्रः ' इति, तदप्यसङ्गतम्, परमात्मानमन्तरा क्वचिदपि तदसम्भवात् । मित्रत्वार्थकत्वे मित्रशब्दस्य गौणार्थतैव स्यात् । पूषापि कः? वाग् विद्युच्च उपयोक्तॄणां कौशालादकौशलाच्च शुभाशुभव्यवहारयोरुपयुक्ते भवतः । ' इन्द्राय परमैश्वर्यवते परमेश्वराय एव ' । इत्यनेन किमुक्तम्? तदपि न स्पष्टम् । अध्वनः पात्विति समन्वये सम्भवति मध्य इत्यध्याहारोऽपि निर्मूल श्रुतिसूत्रस्वारस्यं तु सिद्धान्तव्याख्यान एव सङ्गच्छत इति पूर्वोक्तव्याख्यानपरिशीलिनां न तिरोहितम् । एवमेव ' अनु त्वा माता ' इत्यत्रापि ' हे मनुष्य, यथा रुद्रः परमेश्वरो विद्वान् वा यां वाणीं विद्युतं सोमं देवं स्वस्ति सुखं यस्मा इन्द्राय आवर्तयतु स सोमसखा, देवी वाग् विद्युद् देवं विद्वांसमेति, तथैव त्वं तस्मै पुनरच्छेहि तुमको सुखस्वरूप ब्रह्म में प्रतिष्ठित करें । रुद्रदेव वसुओं के साथ रक्षणहेतु कामना करें । तत्त्वज्ञान के प्रदान द्वारा अज्ञानप्रपञ्च का श्रीमद्भागवत ( २.३.७ ) का वचन है I बाधन ही रक्षण है । यह रुद्र के अनुग्रह से ही हो सकता है, यह पूर्व के चार मन्त्रों के सम्बन्ध में दयानन्द स्वामी का व्याख्यान असंगत है, क्योंकि ' चित् ' शब्द से वाणी अथवा विद्युत् का बोधन असम्भव है । ' चिती संज्ञाने ' इस धातु से निष्पन्न होने वाले चित् शब्द की विद्युत् अर्थ से संगति नहीं है । ज्ञानजनक होने के कारण वाणी के अर्थ में यदि कथञ्चित् प्रयोग हो भी, तो ज्ञानजनक चक्षु आदि इन्द्रियों के लिये भी उसका प्रयोग हो जायगा । रुद्र का अर्थ ' चौआलीस वर्ष पर्यन्त ब्रह्मचर्यानुष्ठाता ' करना भी प्रमाण न होने के कारण असंगत है ।

पृष्ठ 68

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 68 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २१ ] वेदार्थपारिजात भाष्यसहिता ५ ९ पुनः पुनः समन्तात् सम्यग्रीत्या प्राप्नुहि । एतद्विद्यां ग्रहीतुं त्वां मातानुमन्यताम्, पितानुमन्यताम्, सगर्थ्यो भ्रातानुमन्यताम्, सयूथ्यः सखानुमन्यताम् । त्वं चैताः पुनः पुरुषार्थेनैहि प्राप्नुहि । देवि देदीप्यमाना देवं परमेश्वरं विद्यायुक्तं शुद्धव्यवहारं वा अच्छ सम्यग्रीत्या इन्द्राय परमैश्वर्यप्राप्तये सोममुत्तमपदार्थसमूहं रुद्रः परमेश्वरश्चतुश्चत्वारिंशद्वर्षकृतब्रह्मचर्यो विद्वान् वा त्वां ताम् आसमन्ताद् वर्तयतु प्रवृत्तं कारयतु । स्वस्ति शोभनमस्ति यस्मिन् प्राप्तव्ये तत्सुखम्, सोमसखा सोमः परमेश्वरः सोमविद्याविन्मनुष्यो वा सखा सुहृद् यस्य सः ' इत्यादि, तदेतत् सर्वथाऽसङ्गतमेव, रुद्रशब्दस्य चतुश्चत्वारिंशद्वर्षकृतब्रह्मचर्यार्थत्वे मानाभावात् । सोमपदस्याप्युत्तमपदार्थसमू-हार्थता काल्पनिक्येव, निर्मूलत्वात् । सोमपदस्य सोमविद्याविन्मनुष्य इत्यपि निर्मूलम्, सोमः परमेश्वरस्तादृङ्मनुष्यः सुहृद्यस्येत्यंप्यसङ्गतम्, स सोमसखा इत्यन्वयविरोधात् । विद्याग्रहणविधानस्य मन्त्रे बोधकं किमपि पदं न लक्ष्यते । स्वस्तिपदस्य सुखमिति न सङ्गतम्, सुखातिरिक्तानामपि प्राप्तव्यत्वसम्भवेन व्यभिचारात् । देविपदं किं सम्बोधन-मन्यद्वा? न प्रथमः त्वया तदनङ्गीकारात् । न प्रथमान्तम् ह्रस्वत्वस्य कारणानुक्तेः । तावताप्यर्थोऽस्फुट एव । हिन्दीव्याख्यानमपि न स्फुटम् – ' हे मनुष्य यथा रुद्रश्चतुश्चत्वारिंशद्वर्षपर्यन्ताखण्डब्रह्मचर्यपालकः पूर्णविद्यान्वित विद्वान् वा त्वां यां वाणीं विद्युतं सोममुत्तमपदार्थसमूहं स्वस्ति सुखं च इन्द्राय परमैश्वर्यप्राप्तये आवर्तयतु प्रवर्तयतु तथा सोमसखा पस्मेश्वरः सोमविद्याविन्मनुष्ययुक्तः । देवी विद्याप्रकाशयुक्ता वाणी तथा दिव्यगुणयुक्ता विद्युद् देवमुत्तमधर्मात्मानं प्राप्नोति तथा तां ग्रहीतुं त्वां मात्रादयोऽनुमन्यन्ताम् ' इति, तदेतत् सर्वथाप्यस्फुटं संस्कृतार्थ-विरुद्धं च । दृष्टान्तस्तु स एव भवति यः प्रयोक्तृप्रतिपत्त्रुभयसम्मतः स्यात् । परमेश्वरो विद्वान् वा सम्बन्धनीयं मनुष्यं वाणीं विद्युतं शोभनपदार्थसमूहं प्रापयतीति नोभयसम्मतम् । तथा वाणी विद्युद्वा धर्मात्मानं विद्वांसं प्राप्नोतीत्यपि रिक्तं वचः, विपरीतं प्रत्यपि तदुपगमनदर्शनात् । तथैव त्वं तां प्राप्नुहीत्यपि निरर्थकम्, परमेश्वरेण विदुषा वा तत्प्रापणस्योक्तत्वात् । मात्राद्यनुमतिरपि न तत्र हेतुः, अन्यथासिद्धत्वात् । शतपथ विरोधोऽपि स्फुट एव । वस्व्यसीत्यत्र —‘वस्वीयाग्न्यादिपदार्थाख्यवसुविद्यासम्बन्धिनी वसुभिश्चतुर्विंशतिवर्षकृतब्रह्मचर्यैः प्राप्ता सा असि अस्ति । अत्र सर्वत्र व्यत्ययः । अदितिः प्रकाशवन्नित्या । आदित्या आदित्यवत्प्रकाशिका अष्टत्वारिंश-द्वत्सरपर्यन्तानुष्ठितब्रह्मचर्यैः स्वीकृता सा असि अस्ति । रुद्रा या प्राणवायुसम्बन्धिनी चतुश्चत्वारिंशद्धायनसेवितब-ह्मचर्यैः स्वीकृता सा चन्द्रा आह्लादयित्री असि अस्ति । बृहस्पतिः परमेश्वरो विद्वान् वा तां सुम्ने सुखे रम्णातु रमयतु । अत्रान्तर्गतो ण्यर्थो विकरणव्यत्ययश्च । रुद्रो दुष्टानां रोदयिता विद्वान् वसुभिरुषितसर्वविद्यैर्विद्वद्भिः सह आ समन्ताद् आचके कमितवान् कामयतां वा ' इति, तदपि निर्मूलमसङ्गतं च, असम्बद्धत्वात् । अग्न्यादिपदार्थाख्यवसु-विद्या तत्सम्बन्धिनी वाणी विद्युच्च चतुर्विंशतिवर्षकृतब्रह्मचर्यैः प्राप्यते किञ्च तत्र मानमित्यनिरूपणाच्च । रुद्रा आदित्यवत् सर्वविद्याप्रकाशिका या वाणी विद्युच्च अष्टचत्वारिंशद्धायनावधिसेवितब्रह्मचर्यैः स्वीकर्तव्या, तत्रापि किं मात्रम्? कथञ्चिद् वाक्षु वैलक्षण्येऽपि विद्युति कीदृग्वैलक्षण्यम्? अमुकामुकवर्षपर्यन्तकृतब्रह्मचर्याणां तत्र कथमु-पयोगः? तथार्थबोधकपदाभावात् । किमप्येतत्पदं निर्मूलतां नातिवर्तते । तां वाणीं परमेश्वरो विद्वान् वा कथं सुखे रमयिष्यति? वाचो विद्युतश्च जडत्वेन सुखरमणाद्यसम्भवात् । किञ्च, बृहस्पतिरुद्रशब्दावुभावपि यदि परमेश्वरबो-धकौ तदान्यतरप्रयोगो व्यर्थ एव स्यात् । वसुरुद्रादित्यदिशब्दा लक्षणया अष्टैकादशद्वादशादिसंख्याबोधका भवन्ति, परं प्रकृते चतुर्विंशत्यादिवर्षपर्यन्तकृतब्रह्मचर्यप्राप्यार्थबोधकत्वं तेषां कथम्? ' वालाग्रशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ' इत्याप्तोक्तिविरोधात । शतपथव्याख्याविरोधश्च स्पष्ट एव ।

पृष्ठ 69

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 69 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० शुक्लयजुर्वेदसंहिता [ अ. ४ ' आदित्यास्त्वा ' इत्यत्र यदुक्तम् — ' आदित्या अन्तरिक्षस्य त्वा तां मूर्धन् मूर्धनि वर्तमानाम् आसमन्ता-ज्जिघर्मि प्रदीप्ये सञ्चालयामि वा देवयजने देवानां विदुषां संगतिकरण एतेभ्यो दाने वा पृथिव्या भूमेर्मध्ये इडायाः स्तोतुमन्वेष्टुमर्हाया वेदवाण्याः, ' इडेति वाङ्नामसु पठितम् ' ( निघ. १.११.३ ), पदं वेदितव्यं प्राप्तव्यं वा असि रमतां अस्ति । घृतवद् घृतेन पुष्टिदीप्तिकारकेण तुल्या स्वाहा यया क्रियया सुहुतं यजति तस्याः अस्मे धनं अस्मासु वयं मनुष्या रमयतु वा । अस्मे अस्माकम्, ते तव बन्धुर्भ्राता त्वे त्वयि रायो विद्यादिसुवर्णधनं में मयि रायो ' तु राय उक्तधनस्य पोषेण मा वियुक्ता भवेम । तोत; तुवन्ति जानन्ति प्राप्नुवन्ति हिंसन्ति वा येन यत्किञ्चित् स,, गतिवृद्धिहिंसास्तुतिषु ' इति धातोर्बाहुलक औणादिकस्तन्प्रत्ययः । रायो विद्याराज्यसमृद्धयः ” इति, तदपि कपोलकल्पितत्वात् । ' हे विद्वन् मनुष्य, त्वं यथा या देवयजनेऽदित्याः पृथिव्या इडायाः स्वाहा मूर्धन् घृतवत्पदमस्यस्ति, यामहं जिघर्मि त्वा तां त्वमपि जिघृहि । या अस्मे अस्मासु रमते सा युष्मास्वपि रमस्व रमताम् । यामहं रमयामि तां मे भवानपि स्वस्मिन् रमयतु । योऽस्मे अस्माकं बन्धुरस्ति स ते तवाप्यस्तु । यो रायो धनसमूहस्ते वर्तन्ते त्वय्यस्ति तास्त्वय्यपि स मय्यप्यस्तु । तोतो भवान् या रायो विद्याधनसमृद्धीः प्राप्नोति, ता मे मय्यपि सन्तु, या मयि सन्तु । एता रायः समृद्धयः ताः सर्वेषां सुखायापि सम्प्रयुक्ताः सन्तु । यथैवं जानन्तो निश्चिन्वन्तोऽनुतिष्ठन्तो तदेतत्सर्वं यूयं वयं च रायस्पोषेण कदाचिन्मा वियौष्म वियुक्ता मा भवेम, तथैव सर्वे भवन्तु ' इति, तत्कपोलकल्पितम् । यदुक्तम् – ‘ अदितिरन्तरिक्षम् ' ( ऋ. सं. १.८ ९.१० ) इत्यस्मादयमर्थो गृह्यते, तत्तुच्छम्, अदित्यन्तरिक्ष-शब्दयोः पर्यायवाचकत्वे घटकलशवत् सामानाधिकरण्यानुपपत्तेः । एतेन ' अदितिद्यौः ' ( ऋ. सं. १.८ ९.१० ) इति प्रकाशकारकोऽर्थो गृह्यते ' इत्यप्यपास्तम्, सामानाधिकरण्यानुपपत्तेः । अन्तरिक्षादीनां मूर्धनि वर्तमानानामिति पदार्थ-व्याख्याने उक्तम्, अन्वये च ' अदित्याः पृथिव्या इडायाः स्वाहा मूर्धन् घृतवत्पदमस्यास्ति, यामहमाजिघर्मि त्वा तां त्वमपि जिघृहि ' इत्यस्य सन्दर्भस्य को वार्थ इति न स्पष्टम् । हिन्द्यां तु पदं पदवी इत्युक्तम् । क एतेषां सन्दर्भाणां सम्बन्ध इति विद्वांसो विभावयन्तु । पदव्याः प्रदीपनं सञ्चालनं कथं भवति, घृतवच्च पुष्टिकारकत्वं तत्र कथं सेत्स्यतीत्यपि विमर्शनीयम् । अदित्या एव मूर्धनि तस्या वर्तमानत्वमदित्यादीनां वा मूर्धसु वर्तमानत्वं विवक्षितम्? प्रथमे पृथिव्यादीनां कथं सम्बन्धः? अन्त्ये कथमदित्यादीनामेक एव मूर्धा स्यात्? अपि च, प्राणिनां कर्मभेदात् समृद्ध्यादिभेदोऽनिवार्यः स्यात् । तथा च यास्त्वयि सन्ति ता मय्यपि सन्त्विति कथं सङ्गच्छते? सर्वथापि दुरूहोऽयं दयानन्दोक्तोऽर्थः । पदार्थेऽन्योऽर्थोऽन्वयेऽन्यः भावार्थेऽन्यो हिन्दी भाष्ये चान्योऽर्थो व्यज्यते । मन्त्राक्षरा-सम्बद्धः शतपथादिविरुद्धश्चायमर्थः ॥२१ ॥

अग्रिम कण्डिका ' अदित्यास्त्वा ' के अर्थ में भी जो स्वामी दयानन्द प्रतिपादित किया है, वह कपोलकल्पित ही है । अदिति तथा अन्तरिक्ष शब्द के पर्यायवाची होने में घट कलश शब्दों की भाँति सामानाधिकरण्य संगत नहीं होता । हिन्दी व्याख्या में पदवी ( पदम् ) यह अर्थ कहा गया है । पदवी का अर्थ प्रदीपन, संचालन किस प्रकार होता है और घृत के समान पुष्टिकारकता उसमें कैसे संगत होगी, यह भी विचारणीय है । स्वामी दयानन्द द्वारा प्रतिपादित यह अर्थ सर्वथा दुरूह है । पदार्थ में कुछ दूसरा अर्थ, अन्वय में उससे भिन्न, भावार्थ में भित्र तथा हिन्दी व्याख्या में दूसरा ही अर्थ कहा जाता है । मन्त्राक्षरों से सम्बन्धविहीन तथा शतपथ ब्राह्मण आदि से विरुद्ध यह अर्थ है ॥ २१ ॥

पृष्ठ 70

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 70 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २२ ] वेदार्थपारिजातभाष्यसहिता ६१ अदि॑त्यास्त्वा मूर्धन्नाजि॑घर्म देव॒यज॑ने पृथि॒व्या इर्डायास्प॒दम॑सि घृ॒तव॒त् स्वाहा॑ । अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धुस्त्वे रायो॒ो मे रायो मा व॒यं रायस्योषे॑ण॒ वियो॑ष्य॒ तोतो॒ राय॑ः ॥२२ ॥

‘ षट्पदान्यतीत्य सप्तमं पर्युपविशन्ति, हिरण्यमस्मिन्निधायाभिजुहोत्यदित्यास्त्वेति ' ( का. श्रौ. ७.६.१५-१६ ) । षट्पदान्यतीत्य सप्तमपदप्रदेशं परितोऽध्वर्युब्रह्मयजमानप्रतिप्रस्थातार उपविशन्ति । अस्मिन् सप्तमे पदे हिरण्यं निधाय जुहुयादध्वर्युः । अदित्या अखण्डितायाः पृथिव्या भुवो मूर्धन् मूर्धनि शिरोरूपे देवयजने देवानां याग-योग्यस्थाने देवा हविर्भुज इज्यन्त आराध्यन्ते हविरादिप्रदानेन यत्र तादृशे स्थाने त्वा त्वाम् आजिघर्मि । हे सोमक्रयणीपद, त्वा त्वामाक्षारयामि आ सर्वतः क्षारयामि, ' घृ क्षरणदीप्त्योः ' देवयजनस्य पृथिवीमूर्धत्वप्रसिद्धिं तित्तिरिर्दर्शयति— ‘ पृथिव्या ह्येष मूर्धा यद्देवयजनम् ' ( तै. सं. ६.१.८.५ ) इति । किञ्च, इडायास्पदमसि, हे स्थान-विशेष, इडाया गोः पदं पादोऽसि तत्पदेनाङ्कितत्वात् तद्रूपमसि, तच्च पदं घृतवद् घृतयुक्तं कर्तुं स्वाहा जुहोमि, उव्वटाचार्यस्तु — देवयजने पृथिव्या इडाया गोः पदं यतस्त्वमसि, अतो घृतवद् घृतयुक्तं त्वां कर्तुं जुहोमीति शेषः i तदप्याह तित्तिरिः — ‘ यदेवास्यै पदाद् घृतमपी- यत तस्मादेवमाह ' ( तै. सं. ६.१.८.५ ) इति, ' सा यत्र यत्र न्यक्रामत ततो घृतमपी यत ( तै. सं. २.६.७.१ ) । इति च । ‘ स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति ' ( का. श्रौ. ७.६.१७ ) । होमानन्तरमध्वर्युस्तत्पदक्षेपस्थानं त्रिः परिलिखति परितो रेखां करोति, सकृन्मन्त्रेण द्विस्तूष्णीम् । हे गोः पद, त्वमस्मदीये यजमाने रमस्व क्रीडां कुरु । ' समुद्धृत्य पदं स्थाल्यामावपत्यस्मे ते बन्धुरिति ' ( का. श्री. ७.६. १८ ) । हिरण्यमपसार्य निक्षेपस्थानीयान् पदपांसून् हस्तेन गृहीत्वा स्थाल्यामावपेत् – हे सोमक्रमणीपद, ते तव अस्मे बन्धुर्वयं बन्धुभूताः स्मः । ' सुपां सुलुक्... ' ( पा. सू. ७.१.३ ९ ) इति जसः शे आदेशे ‘ अस्मे ’ इति रूपम् । यद्वा ते तव बन्धुः स्नेहबन्धुः स्नेहबन्धनम्, अस्मे अस्मदीये यजमानेऽस्तु, ‘ अस्मे ते बन्धुरिति यजमाने ते बन्धुरित्येवैतदाह ' ( श. ३.३.१.६ ) इति श्रुतेः । ' अपः स्थाने निषिच्य यजमानाय पदं प्रयच्छति त्वे राय इति ' ( का. श्रौ. ७.६.१ ९ ) । उद्धृतस्य पदस्य स्थाने भूमावपो निषिच्याध्वर्युर्यजमानाय पदपांसून् प्रयच्छति — ' हे यजमान, ते त्वयि रायो धनानि, एतत्पदरूपेण तिष्ठन्त्विति शेषः । अथवा रायः पशवः, ते त्वयि सन्तु ‘ पशवो वै रायः ’ ( श. ३.३.१.८ ) इति श्रुतेः । ' मे राय इति यजमानः प्रतिगृह्णाति पदम् ' ( का. श्रौ. ७.६.२० ) । मे राय इति मन्त्रेण यजमानः पदमध्वर्युप्रत्तान् पदपांसून् प्रतिगृह्णाति । मन्त्रार्थ - अखण्डित पृथ्वी के शिरस्वरूप हे घृत! देवताओं के यज्ञयोग्य स्थान में तुमको टपकाता हूँ । हे स्थान! तुम गौ के चरणचिह्न हो, यहां मैं घृत की आहति देता हैं । हे गोपद! तुम हमें सुख पहुँचाओ, हम तुम्हारे बन्धुरूप हैं । हे यजमान! तुममें धन इस पदरूप से स्थित हों । ये मेरे धन और पशु हैं । हम धन की पुष्टि से न वियुक्त हों । ब्रह्मा, विष्णु महेश पत्नीसहित यजमान को धन और पशुओं से संपन्न करें । यजमान सोमक्रयणी के पीछे ६ पग चलकर जहां सातवां पग पड़कर खुर का चिह्न बने, उसमें सोने का टुकड़ा डाल कर उस पर घी की आहुति देता हुआ इस मन्त्र का उच्चारण करता है ॥ २२ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ७.६.१५-२३ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' अदित्यास्त्वा ' इस कण्डिका के मन्त्रों के द्वारा सोमक्रयणी गौ के सातवें पादप्रक्षेप के स्थान पर हवन, रेखाकरण, पदधूलि का ग्रहण, यजमान को गौपदधूलि का प्रदान तथा पत्नी द्वारा मन्त्रोच्चारण एवं गौ की चरणरेणु का ग्रहण किया जाता है 1 । शतपथ ब्राह्मण तथा तैत्तिरीय श्रुति में इन याज्ञिक विनियोगों के अनुसार ही मन्त्रों की व्याख्या उपदिष्ट है I