वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 71–80

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 71–80

पृष्ठ 71

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ शुक्लयजुर्वेदसंहिता [ अ. ४ मन्त्रार्थस्तु — ' मे मयि यजमाने रायः पशवः पदरूपेण तिष्ठन्तु । ङे: शेरादेशः । ' मा वयमित्यध्वर्युरात्मानं-संस्पृशति ' ( का. श्रौ. ७. ६. २१ ) । वयमध्वर्युप्रभृतयो रायस्पोषेण धनस्य पुष्ट्या मा वियौष्म वियुक्ता मा भवामः । यौतेः ‘ माङि लुङ् ’ ( पा. सू. ३.३.१७५ ) इति लुङि उत्तमपुरुषबहुवचने वियौष्मेति रूपम् । ‘ हृत्वा पल्यै पदं प्रयच्छति, नेष्टा तत इत्येनां वाचयति ' ( का. श्रौ. ७.६.२२-२३ ) । तोतशब्दः कलत्रवाची । नेष्टा ऋत्विग्विशेषो मन्त्रं वाचयति । तस्मिन् कलत्रे रायः पदरूपाणि धनानि तिष्ठन्त्विति मन्त्रार्थः । तथा च श्रुतिः -- ' अथ पल्यै पदं प्रतिपराहरन्ति ' ( श. ३.३.१.१० ) इति । पल्यै पदप्रदानं तित्तिरिरपि प्रतिपादयति – ' अर्धो वा एष आत्मनो यत्पत्नी ' ( तै. ब्रा. ३.३.४.५ ) । तथा गृहे निधत्ते तादृगेव तदिति सायणाचार्यः । अव्ययानामनेकार्थत्वाच्च तोतस्त्वयि रायः सन्त्विति वा मन्त्रार्थः । तोतस्तोकसमानार्थको वा । रायो धनानि तोकः पुत्रः स्वीकरोत्वित्यर्थः । उव्वटमहीधररीत्या प्रथममाज्यदैवतं यजुः । तेन हे आज्य, अदित्या अखण्डितायाः पृथिव्या मूर्धनि देवयजने त्वा त्वाम् आजिघर्मि आक्षारयामीति तदर्थः । शतपथेऽप्ययमर्थ: - ' स जुहोति । अदित्यास्त्वा मूर्धन्नाजिधर्मीतीयं वै पृथिव्यदितिरस्यै हि मूर्धन् जुहोति देव-यजनेति पृथिव्या इति देवयजने हि पृथिव्यै जुहोतीडायास्पदमसि घृतवत्स्वाहेति गौर्वा इडा गोर्हि पदे जुहोति घृतवत्स्वाहेति घृतवद्ध्येतदभिहुतं भवति ' ( श. ३.३.१.४ ) । पदे समन्त्रकं होमं विधत्ते —स जुहोतीति । हे आज्य, त्वा त्वाम् अदित्याः पृथिव्या मूर्धन् मूर्धनि, आजिघर्मि सर्वतः क्षारयामि जुहोमि । अत्र क्षरणमर्थः । कीदृशे? पृथिव्या अवयवभूते देवयजने, देवा इज्यन्तेऽत्रेति देवयजनं तस्मिन् । इयं पृथिव्यदिति, अस्यै अस्याः पृथिव्या मूर्धन् मूर्धनि देवयजने जुहोति । इडायास्पदमसि । अत्र इडेतिपदेन गौरुच्यते । गोर्हि पदे जुहोति । घृतोपेतमेतद्भुतं भवति । तस्याः सोमक्रयण्याः पदं पादनिधानस्थानमसि । अत इदं स्वाहा स्वाहुतमस्तु । इडापदस्य घृतोपेतत्वं तैत्तिरीयके श्रुतम् — ' यदेवास्यै पदाद् घृतमपीड्यत तस्मादेवमाह ' ( तै. सं. ६.१.८.२ ) । सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद् घृतपद्युच्यते । घृत-वत्स्वाहेत्यस्य तात्पर्यमाह्— घृतवद्ध्येतदिति । एतद् एतेन मन्त्रभागपाठेन घृतयुक्तमेव सत् पुनराज्येन चापि संयुक्तं स्यादित्यर्थः । एतदभिप्रायेणैव सायणाचार्येण काण्वसंहिताभाष्ये प्रथममन्त्रव्याख्याने हे सोमक्रयणीपदमिति सम्बोध-नमुक्तम्, अत्र ब्राह्मणव्याख्याने तु उव्वटवद् हे आज्य इति सम्बोधनमुक्तम्, सोमक्रयणीपदस्याज्याभिन्नत्वात् । ' यत्सोम-क्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद् घृतमपीड्यत तस्मादेवमाह ' ( तै. सं. ६.१.८.५ ) सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते — यदध्वर्युरनग्नावाहति जुहुयादन्धोऽध्वर्यू रक्षाक्षसि यज्ञं हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञष्ं रक्षांसि घ्नन्ति ' ( तै. सं. ६.१.८.६ ) इति । ' अथ स्पयमादाय परिलिखति । वज्रो वै स्पयः त्रिष्कृत्वः परिलिखति त्रिवृतैवैतद्वज्रेण समन्तं परिगृ-ह्णात्यनतिक्रमाय ' ( श. ३.३.१.५ ) । सार्थवादं परिलेखनं विधत्ते - अथ स्पयमिति । तस्य त्रिरावृत्तिरुक्ता । ' स परि-लिखति । अस्मे रमस्वेति यजमाने रमस्वेत्येवैतदाहाथ समुल्लिख्य पदं स्थाल्यां संवपत्यस्मे ते बन्धुरिति यजमाने ते बन्धुरित्येवैतदाह ' ( श. ३.३.१.६ ) । ' अस्मे ' इत्यस्य तात्पर्यमाह -- यजमानं इति । अस्मे अस्मदीये यजमाने । सुप्त-मपदपांसोः स्थाल्यां स्थापनं समन्त्रकं विधत्ते - अथ समुल्लिख्येति । हे पादपांसो, तव बन्धुः स्नेहबन्धुः स्नेहब-नमस्मैऽस्मदीये यजमानेऽस्तु । ' अथाप उपनिनयति । यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति तस्मादप उपनिनयति ' ( श. ३.३.१.७ ) । परिलिखितप्रदेशेऽपां निनयनं विधाय इसका अर्थ है – हे सोमक्रयणी गौ के चरणस्थान, मैं तुमको अखण्डनीया पृथ्वी के शिरोरूप देवयजन स्थान में सर्वतः घृतप्लुत करता हूँ । हे चरणस्थान, तुम गौ के पादस्वरूप हो । तुमको मृतयुक्त करने के लिये हवन करता हूँ । तुम हमारे यजमान

पृष्ठ 72

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २२-२३ ] वेदार्थपारिजातभाष्यसहिता ६३ प्रशंसति - शान्तिराप इति । खननं हि हिंसात्मकत्वात् क्रूरीकरणम् । अपां त्वौष्ण्यनिवारकत्वात् शान्तिरूपत्वं प्रसिद्धम् । अतः शान्त्या अद्भिः शान्तिरूपाभिरद्भिस्तत्क्रौर्यं शमितवान् भवति । निनयनस्य प्रयोजनान्तरमाह -- तदद्भिः सन्दधातीति । ' अथ यजमानाय पदं प्रयच्छति । त्वे राय इति पशवो वै रायस्त्वयि पशव इत्येवैतदाह तद्यजमानः प्रतिगृह्णाति मे राय इति पशवो वै रायो मयि पशव इत्येवैतदाह ' ( श. ३.३.१.८ ) । पदं स्थालीस्थं पदपांसुं यजमानाय प्रयच्छति । रै शब्दार्थमाह - पशवो वै राय इति । ' त्वे ' इत्येतत्सप्तम्यन्तमिति व्याचष्टे - त्वयि पशव इति । अध्वर्युदत्तस्य पांसोः समन्त्रकं प्रतिग्रहं विधत्ते - तद्यजमान इति । ' अथाध्वर्युरात्मानमुपस्पृशति । मा वयं रायस्पोषेण वियौष्मेति तथ हाध्वर्युः पशुभ्य आत्मानं नान्तरेति ' ( श. ३.३.१.९ ) । अध्वर्युरात्मानमुपस्पृशति मा वयं रायस्पोषेण वियौष्मेति । तथो हाध्वर्युः पशुभ्य आत्मानं नान्तरेति । ' अथ पल्यै पदं प्रतिपराहरन्ति । गृहा वै पल्यै प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्ठायां प्रतिष्ठापयति तस्मात् पल्यै पदं प्रतिपराहरन्ति ' ( श. ३.३.१.१० ) । प्रतिपराहरन्ति प्रयच्छेयुरिति । ' हृत्वा पल्यै पदं प्रयच्छति ' ( का.श्रौ. ७.६.२२ ) । यजमानहस्तात् स्थालीस्थं पदं गृहीत्वाध्वर्युः पत्न्यै प्रयच्छेत् । सा च सुगुप्तस्थाने स्थापयेत् । पत्नी खलु प्रतिष्ठा निलयनरूपा । गृहाणां बहुत्वेऽपि प्रतिष्ठाया एकत्वादेकवचनम् । गृहं यथा धान्या-दिनिक्षेपस्थानमेवं पत्न्यपि । अन्यत् स्पष्टम् । ' तां नेष्टा वाचयति । तोतो राय इत्यथैनां सोमक्रयण्या संख्यापयति वृषा वै सोमो योषा पल्येष वा अत्र सोमो भवति यत्सोमक्रयणी मिथुनमेवैतत्प्रजननं क्रियते तस्मादेनां सोमक्रयण्या संख्यापयति ' ( श. ३.३.१.११ ) । तां गृहीतपांसुं पत्नीम् । तोतः तोकसमानार्थः । रायो धनानि तोतः पुत्रः स्वीकरोत्वित्यर्थः । यद्वा तोतस्त्वत्तस्त्वयि रायः सन्त्वित्यर्थः । अथैनां सोमक्रयण्येति । एनां पत्नीं सोमक्रयण्या संख्यापयति, दर्शयतीत्यर्थः । नेष्टा सोमक्रयणी सेयं तया पत्नीमनेन मन्त्रेण दर्शयेत् । गतिबुद्ध्याद्यर्थाभावात् सोमक्रयण्याः कर्मत्वाभावः । संख्यापनं प्रशंसति — एष वा अत्र सोम इति । अत्र सोमक्रयप्रस्तावे सोमक्रयण्याः सोमसम्पत्त्यर्थत्वात् सैव एष सोमः । सोम इति विधेयस्य पुल्लि-ङ्गत्वमपेक्ष्यैष इति पुल्लिङ्गत्वम् । अत एतद् एतेन उभयोः सम्बन्धेन उत्पादनसमर्थं मिथुनमेव सम्पादितम् ॥ २२ ॥

सम॑ख्ये दे॒व्या धि॒या सन्दक्षि॑णय॒रुचक्ष॑सा । मा म॒ आयुः प्रमो॑ष॒मो॑ अ॒हं तव॑ I । वी॒रं वि॑देय॒ तव॑ देव सं॒दृशः॑ ॥२३ ॥

' सोमक्रयण्या च समीक्ष्यमाणां समख्य इति ' ( का. श्रौ. ७.६.२४ ) । सोमक्रयण्या गवा समीक्ष्यमाणां पत्नी समख्य इति मन्त्रं नेष्टा वाचयति । आस्तारपङ्क्तिः, अन्त्यौ चेदास्तारपङ्क्तिरिति वचनात् । सोमक्रयण्या आशिष के प्रति सन्तुष्ट रहो, हम तुम्हारे आत्मीय हैं । हे यजमान इस पादधूलि के रूप में धन अथवा पशुगण तुम्हारे पास रहें, मेरे पास सदा वर्तमान रहें । हम धन पुष्टि से कभी वियुक्त न होवें । पलियों के पास भी धन रहे ॥ २२ ॥

मन्त्रार्थ - हे सोमक्रयणि गौ! तुम यज्ञ की प्रधान दक्षिणा के योग्य विशाल दर्शन वाली हो, तुम्हारी सहायता से मैं बुद्धिपूर्वक यज्ञपुरुष को देखती हैं । तुम मेरी आयु को खण्डित मत करो, मैं तुम्हारी आयु को खण्डित न करूँ । हे पराशक्ति! तेरा सुन्दर दर्शन होने पर बली पुत्र को प्राप्त करूँ । सोमक्रयणी गौ को देखने वाली पत्नी से अध्वर्यु इस मन्त्र का पाठ करावे ॥२३ ॥

भाष्यसार - ' समख्ये देव्या ' इस ऋचा का सोमक्रयणी गौ के द्वारा देखी जाती हुई यजमानपत्नी वाचन करे । यह याज्ञिक विनियोग " कात्यायन श्रौतसूत्र ( ७६.२४ ) में उपदिष्ट है । तदनुसार सायण, उव्वट, महीधर आदि आचार्यों ने अर्थनिरूपण किया हैं ।

पृष्ठ 73

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४ शुक्लयजुर्वेदसंहिता [ अ. ४ विस्तीर्णदर्शनया आशास्ते पत्नी । देव्या द्योतमानया धिया बुद्ध्या समख्येऽहं पत्नी सोमक्रयणीं सम्यग् यथा भवति । तथाविधे तथा हे सोमक्रयणि, दक्षिणात्वयोग्यया गवा सोमक्रयण्या समित्यनेनोपसर्गेण संयुज्य स्थितास्मीत्ययमर्थ उपलक्ष्यते पत्नी मो प्रमोषिषमित्यध्याह्रियते, त्वं मे पल्या आयुर्मा प्रमोषीः प्रमुषितं विनष्टं मा कार्षीः । मो अहं तव सोमक्रयण्या लभेयेति आयुरहं सायणाचार्यः । प्रमुषितं माऽकार्षम् । किञ्च तव संदृशि सन्दर्शने सति वीरान् पुत्रान् विदेय धिया यद्वा उव्वटमहीधररीत्याऽयमर्थः -- हे सोमक्रयणि, देव्या दानादिगुणयुक्तया द्योतमानया तङि वा ' अस्यतिवक्ति- त्वया बुद्धया सह बुद्धिपूर्वकमहं समख्ये अदृक्षि, दृष्टेत्यर्थः । प्रकथनार्थायाः ख्यातेः ' समख्ये सम्पूर्वस्य ' इति लुङि रूपम् । अपरं समिति ख्यातिभ्योऽङ् ' ( पा. सू. ३.१.५२ ) इति च्लेरङि उत्तमैकवचने कर्मणि उरु चष्टे या सोरुचक्षा-पादपूरणार्थम् । कीदृश्या त्वया, दक्षिणया दक्षिणात्वयोग्यया, पुनः कीदृश्या? उरुचक्षसा । मो तव सोमक्रयण्या स्तया विस्तीर्णदर्शनया । एवंभूता त्वं मे मम यजमानपल्या आयुर्मा प्रमोषीर्माऽवखण्डय वा । ' विद्लृ लाभे ' इत्यस्य आयुरहं यजमानपत्नी मा उ मैव प्रमोषिषमिति शेषः । ' मो ' इति निषेधार्थकमव्ययं ९ ) इति नुमभावे लिङि ' तुदादिभ्यः शः ' ( पा. सू. ३.१.७७ ) इति शप्रत्यये व्यत्ययेन ' शे मुचादीनाम् ' ( पा. सू. ७.१.५ विदेयेति रूपम् । अन्यत् पूर्ववत् । अध्यात्मपक्षे तु — अहं द्योतमानया स्वप्रकाशया धिया नित्यविज्ञानरूपया सन्दक्षिणया अवामया जीवानां अनुकू लया उरुचक्षसा विस्तीर्णदर्शनया सर्वज्ञया त्वया समख्ये दृष्टास्मि, अनुग्रहपूर्णया त्वदीययाऽनुकूलदृष्ट्यैव मत्पूर्णत्वसम्भवात् तत्प्रमोषेण कल्याणसम्भवात् । हे राजराजेश्वरि, त्वमस्माकमायुर्जीवनं मा प्रमोषी; त्वत्सत्तयैव प्रत्यचमन्तरा तत्पदार्थस्य मम तद्विलोपप्रसङ्गात् । अहं च तवायुर्जीवनं तवापरोक्षत्वं स्वप्रकाशत्वं मा प्रमोषिषम् ब्रह्म निराकरोत् ' ( औपनिष-पराक्त्वापत्त्या स्वप्रकाशत्वपरप्रेमास्पदत्वविलोपप्रसङ्गात् ' माऽहं ब्रह्म निराकुर्यां मा मा सर्वलोकेषु स्वात्माप्येनं दशान्तिपाठेषु ) इत्यादिश्रुते; ' यश्च रामं न पश्येत्तु रामोऽयं नाभिपश्यति । निन्दितः सति तवानुग्रहपूर्णया विगर्हते ॥ ' ( वा. रा. २.१७.१४ ) इति श्रीमद्वाल्मीकीयरामायणवचनाच्च । तव संदृशि संदर्शने दृष्ट्या अहं वीरमज्ञाननाशकं प्रबोधरूपं पुत्रं विदेय लभेय । धिया श्रीदयानन्दस्तु –'समख्ये सम्प्रकथयामीति व्यत्ययेनात्मनेपदम् । लडर्थे लुङ् । देव्या उरुचक्षो देदीप्यमानया व्यक्तं वचनं प्रज्ञया कर्मणा वा । समेकीभावे, दक्षिणया ज्ञानसाधिकया अज्ञाननाशिकया च उरुचक्षसा सर्वप्रियं प्रेप्सु दर्शनं वा यस्यास्तया मे ममायुर्जीवनं मा प्रमोषीर् मुष्णीयात् खण्डयेत् । अत्र लिङथें लुङ् सर्वे । अहं विधयो भवन्ति ' तव सर्वसुहृदो वीरं विक्रान्तं जनं मो विन्देय अन्यायेन न विन्देय । अत्र ' वा छन्दसि आपके अध्यात्मपक्ष में यह अर्थ है - मैं स्वप्रकाशात्मक नित्यविज्ञानरूपा, अवामा, अनुकूला, विस्तीर्ण दर्शनवाली आप सर्वज्ञा मेरी आयु का द्वारा देखी गयी हैं । अनुग्रहपूर्ण आपकी अनुकूल दृष्टि से ही जीवों का कल्याण सम्भव है । हे राजराजेश्वरि ( २.१७.१४ , ) तथा औपनिषद विलोप न करें । मैं भी आपके अपरोक्षत्व स्वप्रकाशकत्व का अपलाप न करूँ । वाल्मीकि रामायण प्रबोधरूपी शान्तिपाठ में भी यह भावना व्यक्त की गई है । आपका सन्दर्शन हो जाने पर मैं आपकी अनुग्रहपूर्ण दृष्टि से अज्ञाननाशक पुत्र को प्राप्त करूँ! है । ' दक्षिणया ' का श्री दयानन्द का कहा गया अर्थ प्रमाणरहित तथा व्यत्यय आदि से प्रस्त होने के कारण निस्सार ने व्यत्यय के द्वारा ‘ ज्ञानसाधिका अथवा अज्ञाननाशिका द्वारा इस प्रकार अर्थ करना निर्मूल है । ' विदेय ' इस पद में महीधराचार्य

पृष्ठ 74

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २३ ] वेदार्थपारिजात भाष्यसहिता ६५ ( पा. सू. १.४.९ ) इति नुमभावः । तव तस्या देवि देव्या दिव्यगुणैर्विराजमानायाः, अत्रार्थाद्विभक्तेर्विपरिणामः ( पा. सू. १.३.९ ) भाष्यवचनाद् विभक्तेर्विपरिणामः । सन्दृशि समीचीनं दृग्दर्शनं यस्मिन् व्यवहारे तस्मिन् । हे विद्वन् मनुष्य यथाहं दक्षिणया उरुचक्षसा देव्या धिया तव देवि तस्या दिव्यैर्गुणैर्विराजमानाया वाचो विद्युतो वा संदृशि जीवनं, समख्ये सा मे ममायुर्मा प्रमोषीः खण्डनं न कुर्यादहमेतां समख्ये प्रख्यातां कुर्यामन्यायेन तव वीरं मो मा संविदेय, तथैव त्वमेतत्सर्वमाचर्यान्यायेनापि मम वीरं च मा संविदस्व ' इति । हिन्दीभाष्ये तु - ' हे विद्वन् मनुष्य, यथाहं ज्ञानसाधिकयाऽज्ञाननाशिकया उरुचक्षसा बहुप्रकटवचनेन दर्शने वा देव्या देदीप्यमानया धिया कर्मणा वा तव तस्या देवि सर्वोत्कृष्टगुणैर्युक्ताया वाचो विद्युतो वा संदृशि सम्यग्दर्शनार्हे व्यवहारे जीवनं समख्ये कथनेन प्रकटयामि सा मे मायुर्जीवनं मा प्रमोषीर्न नाशयेत् । तामहमविद्यया न नाशयामि । तव सर्वमित्रस्यान्यायेन वीरं शूरमहं मो प्राप्नुयाम्, तथैव त्वमपि मम शूरमन्यायेन मा प्राप्नुहि ' इति, तत्सर्वमेतन्निःसारं प्रलपितमात्रम्, निष्प्रमाणव्यत्ययादिमूलकत्वात् । दक्षिणया ज्ञानसाधिकयाऽज्ञाननाशिकयेत्यपि निर्मूलम् । किञ्च, मूले संदृशिपदं विद्यते, वाचो विद्युतो तेन कः सम्बन्धः? संदृशिपदस्य व्यवहारार्थकताप्यसिद्धैव, सम्यग्दर्शनार्हताया रूपादौ व्यभिचारात् । ' देवि ' वा पदस्य विपरिणामेऽपि दिव्यैर्गुणैर्विराजमानाया वाचो विद्युतो वा ग्रहणे किं बीजम्? भागवत्याः शक्तेरपि इति तथात्वसम्भवात्, सामान्यभूतायां वाचि विद्युति तदसम्भवाच्च । जडां वाचं विद्युतं प्रति जीवनप्रमोषाभावप्रार्थनापि नोपपद्यते । अन्यायेन वीरप्राप्तिः कीदृशी? सा प्रकृते कथं प्रसक्ता? किमर्थं च सा निवार्यते? ' तवसर्वसुहृदः ' इत्यपि कल्पनामात्रम् । अहं सर्वप्रियं प्रेप्सुरित्यपि निर्मूलम्, तत्पदयोस्तत्राशक्तत्वात् । यत्तु — ' अत्रावैयाकरणेन महीधरेण भ्रान्त्या ' विद्लृ लाभे ' इत्यस्य व्यत्ययेन तुदादिभ्यः शप्रत्ययेन लिङि रूपमित्यशुद्धं व्याख्यातम्, कुतः? विधातोः स्वत एव तुदादित्वं वर्तते ' इति, तदेतदज्ञानविजृम्भितम्, नहि महीधराचार्यो व्यत्ययेन तुदादित्वं साधयति, यत एवमाक्षिप्येत, किन्तु व्यत्ययेन ' तुदादिभ्यः ३.१.७७ ) । इति शप्रत्ययाभावेन नुमभावे शपि विदेयेति रूपं साधयति । तत्र लेखकप्रमादान्मुद्रणादिदोषाद्वा शः ' ( पा. सू. ‘ शप्रत्ययाभावे ' इति स्थाने ' शप्रत्ययः ' इति मुद्रितम् । तदज्ञानेनैव वैयाकरणम्मानिना दयानन्देन तुदादित्वं नेत्यवगतम् । ' नह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति ' । व्यत्यये-' स संख्यापयति । समख्ये देव्या धिया सं दक्षिणयोरुचक्षसा मा म आयुः प्रमोषीमों अहं तव तव देवि संदृशीत्याशिषमेवैतदाशास्ते पुत्रो वै वीरः पुत्रं विदेय तव संदृशीत्येवैतदाह वीरं विदेय धिया देव्या, धीर्देवी हि सोमक्रयणी प्रागुक्ता, ' धीरसि दक्षिणासि ( वा. सं. ४.१ ९ ) ' ( श. ३.३.१.१२ ) । अहं सोमक्रयण्या समख्ये दृष्टा भवामीत्यर्थः । ' अस्यतिवक्तिख्यातिभ्योऽङ् ' ( पा. सू. ३.१.५२ इत्यत्र ) इत्यङ् । अतो कर्मणि वाग्रूपया , अत तुदादित्व साधन की चेष्टा नहीं की है, जिससे इस प्रकार का आक्षेप किया जा सके । अपितु के न होने पर शप् द्वारा ' विदेय ' इस पद को सिद्ध किया है । उसमें लिपिकर्ता के प्रमाद व्यत्यय अथवा से शप्रत्यय के अभाव में नुम् ‘ शप्रत्ययाऽभावे ' इसके स्थान पर ' शप्रत्यये ' इस प्रकार मुद्रित हो गया । वैयाकरणमानी स्वामी दयानन्द मुद्रण के दोष के कारण से तुदादित्व समझ लिया है ॥२३ ॥ ने अज्ञान से इसमें व्यत्यय

पृष्ठ 75

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६ शुक्लयजुर्वेदसंहिता एवात्मनेपदम् । दक्षिणापि सोमक्रयणी, ' दक्षिणा ह्येषा क्षत्रियासि यज्ञियासीति ' ( श. ३.२.४.१६ ) इत्यत्रोक्तत्वात् उरुचक्षसा प्रभूतदर्शनया तया समख्ये । अथ प्रत्यक्षवादः -- हे सोमक्रयणि, मे आयुर्मा प्रमोषी, मा उ अहमपि । तवायुर्मा प्रमोषिषम् । हे देवि, तव सन्दर्शने सति वीरं पुत्रं विदेय लभेय । आशीः परोऽयं मन्त्रः । मन्त्रस्यास्याशीः परत्वमुच्यते, वीरपदेन पुत्र उच्यते । तेन स्पष्टं सोमक्रयण्या संदृशि तत्कर्तृके अत्र सन्दर्शने शतपथश्रुत्या सति यजमानपत्नी पुत्रमाशास्ते । नात्र दयानन्दरीत्या अहं तव वीरमन्यायेन मा विन्देय त्वमेतत्सर्वमन्यायेनापि मम वीरं च मा विन्दस्वेत्यादिकं विवक्षितम् । अत एव लुप्तोपमालङ्कारश्चापास्तो वेदितव्यः । सोमक्रयण्येवात्र ' धीरसि दक्षिणासि ' इति पूर्वोक्तमन्त्र उक्ता । तस्माद् वाग् विद्युद्वा नात्र विवक्षिता । शतपथे सोमक्रयण्येव वाग्रूपा देवैः सोमानयनाय प्रेषिताया वाच इव सोमक्रयण्या अपि नियुक्तत्वात् ॥ २३ विवक्षिता, ॥ ए॒ष ते॑ गाय॒त्रो भाग इति॑ मे॒ सोमा॑य॒ ब्रूतादे॒ष ते॒ त्रैष्ट॑भो भाग इति॑ मे॒ सोमा॑य॒ ब्रूतादे॒ष ते॒ जग॑तो भाग इति॑ मे॒ सोमा॑य॒ ब्रूताच्छन्दोना॒माना॒ साम्रज्य॑ ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता-दास्मा॒ाकॊोऽसि शु॒क्रस्ते॒ महो॑ वि॒चित॑स्त्वा॒ विच॑न्वन्तु ॥२४ ॥

' सोमं गच्छन्त्येष त इति वाचयति ' ( का. श्रौ. ७. ७.६ ) । ब्रह्मयजमाना ध्वर्युप्रतिप्रस्थातारः सोमं गच्छन्तं यजमानम् एष त इति मन्त्रं वाचयेदध्वर्युरिति सूत्रार्थः । हे सोम, ते तव एष पुरो दृश्यमानो गच्छन्ति, गायत्रो गायत्रीसम्बन्धी । प्रातःसवनो गायत्र्याः सम्बन्धी, अतो गायत्र्यादिदेवताप्रीत्यर्थ एष तव भागोंऽशः इत्यभिप्रायः । इति एवम् । ' मे ' इति यजमानाभिधायकं पदम् । एवंप्रकारं मम यजमानस्य सोमस्तुत्यात्मकं क्रयो न वधार्थ सोमाय ब्रूतात् । हे अध्वय, सोमाभिमानिने देवाय ब्रूहि, गायत्रीच्छन्दोऽर्थं सोमस्य क्रयो वचनं यजमानोक्त्यभिप्रायः । तमेतमभिप्रायं हे अध्वर्यो! सोमाय कथयेत्यर्थः । एष ते त्रैष्टुभो भाग न इति तु वधार्थमिति ब्रूतात्, त्रिष्टुप्छन्दसः सम्बन्धी भाग इति मे यजमानस्य वचनं सोमाय ब्रूहि । एष ते जागतो भाग इति मे मे सोमाय सोमाय बूतात्, जगतीच्छन्दसः सम्बन्धी भाग इति मे मम यजमानस्य वचनं सोमाय ब्रूहि । हे अध्वर्यो इति नाम येषामन्येषामप्युष्णिगादीनां ते छन्दोनामानस्तेषां छन्दसां साम्राज्यं गच्छ सर्वेषां छन्दसामाधिपत्यं ! छन्दोनामानां छन्द इति मे वचः सोमाय ब्रूतात् कथय । यः सोमाय छन्दसामाधिपत्यं दत्त्वा क्रीणाति स स्वानामाधिपत्यं प्राप्नुहि, वै सोमं राजानं साम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानां साम्राज्यम् प्राप्नोति, ' यो ' ( तै. सं. ३.१.२.२ ) इति मन्त्रार्थ - हे अध्वर्यु! सोमाधिष्ठात्री देवता के लिये यह वचन कहो कि तुम्हारा संबन्धी है, जगती संबन्धी है । तुम उष्णिक् आदि सब छन्दों के अधिपति बन जाओ । हे यह भाग गायत्री संबन्धी है, त्रिष्टुप् किया है । अब तुम हमारे हो । यह शुक्र नामक सब तुम्हारे ग्रहण करने योग्य है, सारासार सोम! तुमको मैंने खरीद कर प्राप्त सार भाग को ग्रहण करे । सोम की ओर जाते समय यजमान इस मन्त्र का जानने में समर्थ है । यह तुम्हारे का स्पर्श करता है ॥ २४ ॥ उच्चारण करता है और पूर्व मुख बैठ कर सोम

भाष्यसार - कात्यायन श्रौतसूत्र ( ७.७६-७ ) में निर्दिष्ट याज्ञिक प्रक्रिया के विनियोगानुसार लिये जाते हुए यजमान से अध्वर्यु पाठ करावे । तदनन्तर सोम के पास बैठ कर ' कोऽसि ' एष ते ' इस मन्त्र को सोम के इस विनियोग के आधार पर शतपथ ब्राह्मण में मन्त्र का अर्थ प्रतिपादित है 1 । ' इस मन्त्र से अध्वर्यु सोम का स्पर्श करे ।

पृष्ठ 76

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २४ ] वेदार्थपारिजातभाष्यसहिता ६७ तैत्तिरीयश्रुतेः । अत एतैर्मन्त्रैः सोमस्य राज्याप्तिः सूच्यते । गायत्र्यादिच्छन्दोदेवता यत्र तिष्ठन्ति स छन्दोलोकः । तदाधिपत्यं प्रापय्य सोमं क्रीणानः स्वानामाधिपत्यं प्राप्नोतीत्यर्थः । ' प्राङुपविश्यास्माकोऽसीति सोममालभते ' ( का. श्रौ. ७.७७ ) । सोमस्य पश्चादध्वर्युस्तदुत्तरतः प्रतिप्रस्थाता दक्षिणेन ब्रह्मयजमानौ तत्पश्चात्पत्नी चोपविश्य प्राङ्मुखोऽध्वर्युः सोममालभते । हे सोम, त्वं क्रयपथमागतः सन्नास्माकोऽसि मदीयः सञ्जातः । ' तस्मिन्नणि च युष्माकास्माकौ ' ( पा. सू. ४.३.२ ) इत्यस्माकादेशः । शुक्रः शुक्लसंज्ञस्ते तव ग्रह्यो ग्रहः । शुक्रपदमैन्द्रवायवादिग्रहाणामुपलक्षणम् । शुक्लादयः सर्वे ते ग्रह्या ग्रहा एव ग्रह्या; ग्रहा इत्यर्थः । यद्वा शुक्रनामको यस्ते ग्रहः, स ग्रह्यो ग्रहेषु साधुः । ते सर्वेऽपि ग्रहाः साधव इत्यर्थ इति काण्वसंहिताभाष्ये सायणोक्तोऽर्थः । किञ्च, विचितो विचयनकर्तारस्त्वां विचिन्वन्तु विविक्तं कुर्वन्तु, ग्राह्यग्राह्यविवेकं कृत्वा सारभूतं समूहयन्तु । काण्वास्तु छन्दोमानानामिति पठन्ति । तद्रीत्या अस्मिंश्छन्दस्येतावन्त्यक्षराणीति मानं परिमाणं यैर्देवैर्ज्ञायते ते छन्दोमानास्तेषां सम्बन्धी लोकः साम्राज्यः समीचीनराज्योपेतस्तं लोकं हे सोम, त्वं गच्छतात् प्राप्नुहि । योऽयं * यजमानः सोमाभिप्रेतं समीचीनराजार्हं लोकं प्रथमतो वाचा प्रापय्य सन्तोषं जनयित्वा पश्चात् सोमं क्रीणाति, स यजमानो जातानां मध्ये साम्राज्यं प्राप्नोति । सोमस्य तथाविधो लोकः क इति चेत्, गायत्र्यादिछन्दोदेवता यत्र तिष्ठन्ति स एव तथाविधो लोक इति । अध्यात्मपक्षे तु — उमया सहितः सोमो देवः शिवः, तस्य सार्वात्म्यमिह निरूप्यते - हे सोम, मनुष्येषु पशुषु वृक्षेषु पाषाणेषु य एष ब्राह्मणसमुदायः, एष ते गायत्रो भागो गायत्रीसम्बन्धी, गायत्र्या निर्मितत्वात्, गायत्र्या संस्कृतत्वाच्व । य एष क्षत्रियसमुदाय एष ते त्रैष्टुभो भाग; त्रिष्टुभा निर्मितत्वात् । य एष वैश्यसमुदाय, स जागतो भाग; जगत्या निर्मितत्वात् । इत्येवं मे वेदस्य वचनं सोमाय हे साधक! ब्रूताद् ब्रूहि । तेन तत्कृपया तस्य सर्वात्म्यमवगतं भविष्यति । हे सोम, छन्दोनामानां समेषां छन्दसां साम्राज्यं गच्छ सर्वछन्दःप्रतिपाद्यत्वेन सर्ववेद-महातात्पर्यविषयत्वेन स्वीयं सार्वात्म्यमाविर्भावय, मम हृदय इति शेषः । हे देव, त्वं सर्वात्मापि सन् विशेषत आस्माकोऽसि मदीयोऽसि मया तथात्वेन साक्षात्कृतत्वात् । ते तव शुक्रः स्वप्रकाशः स्वरूपो भास्वरो वा रजतगिरिनिभो मुक्ताकुन्देन्दुगौरो ग्रह्यो विशुद्धेन चेतसा ग्रहीतुं शक्यः । विचितो विचयनकर्तारो विवेकिन; देहेन्द्रियमनोबुद्ध्यादिभ्यो विविक्तः प्रत्यक्चैतन्याभिन्नो भगवान् सोमः साम्बसदाशिवो ब्रह्मात्मनाऽभिव्यज्यत इति विचिन्वन्तु, अनात्मप्रपञ्चाद् भगवन्तं विचिन्वन्तु, अनात्मविवेकेन प्रत्यगभेदेन साक्षात्कुर्वन्तु । Ch अध्यात्मपक्ष में अर्थ इस प्रकार है— हे उमासहित महेश्वर शिव! मनुष्य, पशु, वृक्ष, पाषाण आदि में यह जो ब्राह्मण - समुदाय है, वह आपका गायत्री सम्बन्धी अथवा गायत्री से संस्कृत होने के कारण गायत्र भाग है । यह क्षत्रिय समुदाय त्रिष्टुप् से निर्मित होने के कारण त्रैष्ट भाग है । जगती से निर्मित होने के कारण यह वैश्य समुदाय जागत भाग है । हे साधक! इस प्रकार मेरा वचन साम्बशिव से कहो । हे साम्बशिव! समस्त छन्दों के साम्राज्य के प्रति गमन करो, अर्थात् समस्त छन्दों के प्रतिपाद्य होने के कारण, समस्त वेदों के महातात्पर्य के विषय होने के कारण ( मेरे हृदय में ) अपनी सर्वात्मता प्रकाशित करें । हे देव! आप सर्वात्मा होते हुए भी मेरे आत्मीय हैं । आपका स्वप्रकाशत्व विशुद्ध चित्त द्वारा ही ग्राह्य है । विवेकी जन अनात्म प्रपञ्च के मध्य से अन्वेषण कर भगवान का साक्षात्कार करें ।

पृष्ठ 77

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८ शुक्लयजुर्वेदसंहिता [ अ. ४ छन्दसः श्रीदयानन्दस्तु – ' एष प्रत्यक्षस्तव गायत्रो गायत्रीच्छन्द आदिरस्य प्रगाथस्य प्रकारार्थे सः ' सोऽस्यादिरिति । मे मह्यं सोमाय प्रगाथेषु ' ( पा. सू. ४.२.५५ ) अनेन प्रगाथविषये प्रत्ययः । भागः सेवनीयः इति प्रगाथस्य स पदार्थविद्यासम्पादकाय ब्रूताद् ब्रवीतु । एष यो विज्ञातुं योग्यः स ते तव त्रैष्टुभस्त्रिष्टुप्छन्द जागतो आदिरस्य जगतीच्छन्द आदिरस्य भागोंऽश इत्येवं मे मह्यं सोमाय उत्तरभागसम्पादकाय ब्रूतात् । एष योक्तुमर्हस्ते तव । छन्दोनामानां यानि प्रगाथस्य स भागः स्वीकर्तुमर्ह इत्येवं मे मह्यं सोमाय पदार्थविद्यास्वीकाराय ब्रूताद् उपदिशतु । साम्राज्यं गच्छ छन्दसामुष्णिगादीनां नामानि तेषाम्, ' अनसन्तान्नपुं. ' ( पा. सू. ५.४.१०३ ) इति समासान्तष्टच्प्रत्ययः चा तत् । मे मह्यं सोमाय साम्राज्यं प्राप्नुहि प्रापय वा । सम्यग्राजन्ते प्रकाशन्ते ते सम्राजो राजानः तेषां भावः कर्म, शुक्रः पवित्रः पवित्रता-ऐश्वर्ययुक्ताय राज्याय ब्रूतात् । आस्माको योऽयमस्माकमुपदेष्टाऽधिपतिः स असि वर्तसे त्वां तं वा कारको वा ते तव ग्रह्यो ग्रहीतुं योग्यः । विचितो विविधविद्याशुभगुणधनादिभिश्चितः संयुक्तः गायत्रो , त्वा भागोऽस्तीति विचिन्वन्तु विविधं वर्धयन्तु, अत्रान्तर्गतो ण्यर्थः । हे विद्वंस्त्वं विद्वांसं प्रति कोऽस्य यज्ञस्य पृच्छ । स ते पृच्छ । स विद्वान् ते तव एषोऽयमस्तीति मे मह्यं सोमायैतं ब्रूयात् । कोऽस्य त्रैष्टुभो भागोऽस्तीति छन्दोनामानामुष्णिगादीनां एषोऽयमस्तीति समक्षे खल्वेतं मे मह्यं सोमायैतं ब्रवीतु । एवं जागतो यथा भवान् यतस्त्वमास्माकः छन्दसां मध्ये प्रतिपादितस्य यज्ञस्योपदेशे साम्राज्यं गच्छ गच्छतु, तथैवैतेषामेनं सोमाय मे ब्रूतात्, तेऽपि त्वामेतं यज्ञं शुक्रोऽसि, तस्मात्तेऽहं विचितो ग्राह्योऽस्मि । त्वं मां सर्वैरेतैर्विचिनु । अहं त्वां विचिनोम्येव संगृह्णीरन् ॥ विद्वांसः खल्वेता मां च विचिन्वन्तु वर्धयन्तु । अस्य भावस्तु - मनुष्या विद्वद्भ्यः पृष्ट्वा सर्वा विद्याः सेवेरन् ' इति । ग्राहयन्तु । परस्परमनुग्राह्यानुग्राहकभावेन वर्तित्वा सर्वे वृद्धिं प्राप्य चक्रवर्तिराज्यं विचित्रमिदं व्याख्यानम्, भावार्थस्य पदार्थैरन्वयेन च दूरतोऽपि सम्बन्धादर्शनात् । पूर्वोक्तैः प्रश्नैरुत्तरैश्च यज्ञ का कस्या अपि विद्याया ज्ञानं न भवति, किमुत सर्वविद्यानाम्? हिन्दी भाष्ये तु — ' हे विद्वन्, मनुष्य कौन इस से वेदस्थ गायत्री च्छन्द युक्त मन्त्रों के समूहों से प्रतिपादित ( भाग ) सेवनयोग्य भाग है, इस ) प्रकार पदार्थविद्यासम्पादन तू विद्वान् पूँछ | वह विद्वान् ( ते ) तुझको उस यज्ञ का ( एष ) यह प्रत्यक्ष भाग है, इस प्रकार से ( सोमाय को भागो करने वाले ( मे ) मेरे लिये ( ब्रूतात् ) कहे ' इति, तदप्यपेशलम् किञ्चित्समाधानादर्शनात् । यदि यज्ञस्य गायत्रीच्छन्दस्कैर्मन्त्रसमूहैः प्रतिपादितः? इति चेत् प्रश्नस्तदास्य यज्ञस्यामुको भागस्तथाविध इत्युत्तरणीयम् वायुशुद्ध्यर्थो , तत्र प्रमाणं च वक्तव्यम्! किञ्च यज्ञस्य भजनीयोंऽशः कः? अभजनीयश्च कः? यज्ञोऽपि त्वदीयो इति ते सिद्धान्तः । होमश्चेत्तत्र गायत्र्यादिच्छन्दस्कानां मन्त्राणां नास्त्येवोपयोगः । केवलमभ्यासार्थं मन्त्राः पठनीया देयम्, तथा च तस्य यज्ञस्य गायत्रीच्छन्दस्कप्रतिपाद्यः कोऽपि भागो नास्त्येव । किञ्च यस्य प्रश्नस्तस्मै प्रतिवचनं कथं प्रश्नप्रेरकाय किमर्थमुत्तरं देयम्? प्रेरकश्च कः? किं सोम एव प्रेरकः? कि प्रयोजनं प्रेरणस्य? स एव नोपदिशेत्? किञ्चैकत्र सोमशब्दस्य पदार्थविद्यासम्पादकोऽर्थः अन्यत्र रससम्पादकोऽर्थः किमत्र मूलम्? जिजा -श्री दयानन्द ने इसका विचित्र रीति से व्याख्यान किया है । भावार्थ का पदार्थ एवं अन्वय से दूर का भी यहां कोई दृष्टिगोचर सम्बन्ध नहीं दिखाई देता । यज्ञ का भजनीय अंश क्या है? तथा अभजनीय ( असेवनीय ) अंशं क्या है? प्रगाथ का प्रसंग भी है, नहीं होता । हिन्दी व्याख्या में सोम पदार्थ सर्वैश्वर्ययुक्त कहा गया है । फिर वही सार्वभौम राज्य की प्राप्ति का उपाय भी पूँछता यह व्याख्या की विचित्रता है ॥२४ ॥

पृष्ठ 78

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २४ ] वेदार्थपारिजातभाष्यसहिता ६ ९ सवे प्रतिवचनं भवति, न पदार्थविद्यासम्पादकस्य तत्सम्बन्धे प्रश्नो भवति । न वा तदर्थं प्रतिवचनमपेक्षितम् । प्रगाथप्रसङ्गोऽपि नात्र दृश्यते । ' कौन इस यज्ञ का त्रैष्टभ भाग है, त्रिष्टुप् छन्द से प्रतिपादित भाग है, तू इस प्रकार विद्वान् से पूँछ । उत्तम रस के सम्पादन करने वाले मेरे लिए कहे कौन इस यज्ञ का जागत भाग है, जगती छन्द से कथित भाग है, इस प्रकार तू आप्त से पूँछ । वह तुझको इस यज्ञ का यह प्रसिद्ध भाग है, इसी प्रकार पदार्थविद्या सम्पादन करने वाले मेरे लिए उत्तर कहे । जैसे आप ' छन्दोनामानामुष्णिक् ' आदि छन्दों के मध्य में कहे हुए यज्ञ के उपदेश में साम्राज्य ' भले प्रकार राज्य को प्राप्त हों, ( इति ) इस प्रकार ( सोमाय ) ऐश्वर्ययुक्त मेरे लिए सार्वभौम राज्य की प्राप्ति होने के उपाय कहिए ' । अत्र सोमपदार्थः सर्वैश्वर्ययुक्तः सञ्जातः । पुनश्च स सार्वभौमराज्यप्राप्त्यु-पायमपि जिज्ञासत इति व्याख्यावैचित्र्यम् । ' जिस कारण आप हम लोगों के पवित्र करने वाले उपदेशक हैं, वैसे में आपके ( ग्रह्य ) ग्रहण करने योग्य हूँ । ( विचित ) उत्तम धनादि द्रव्य गुणों से युक्त शिष्य हूँ, आप मुझको गुणों से बढ़ाइये । इस कारण मैं आपको वृद्धियुक्त करता हूँ और सब मनुष्य आप इस यज्ञ को तथा मुझको वृद्धि युक्त करें । प्रकृतमन्त्रे कस्य शब्दस्यायमर्थ इति दयानन्द एव जानातु । यः प्रश्नप्रयोजकः स पदार्थविद्यासम्पादकः, रससम्पादकः, सर्वैश्वर्ययुक्तः सोम उक्तः । छन्दोनामानां साम्राज्यमित्यस्य को वार्थ इति त्वद्यापि त्वद्वयाख्यानेऽव्यक्त एव । यज्ञोपदेशे साम्राज्यं किं भवति? स चोपदेशकानां शिष्योऽपि संवृत्तः । सामाजिका अस्यैव वेदार्थस्य माहात्म्यं वर्णयन्तो भ्राम्यन्ति । यथाऽऽधुनिकश्छायावादी लेखकोऽपि स्ववाक्यार्थं न प्रत्येति, तथैव दयानन्दोऽपि स्वभाष्यार्थं न जानातीत्येवं तस्य माहात्म्यमिति स्यात् । शतपथे तु — ' सा या बभ्रुः पिङ्गाक्षी ' ( श. ३.३.१.१४ ) इति कण्डिकायां सोमक्रयण्या भेदा उक्ताः । बभ्रुश्चतुर्वर्णा पिङ्गाक्षी सोमदेवतार्हत्वात् सोमक्रयणी । अथ या रोहिणी रोहितवर्णा सा वार्त्रघ्नी । यां रोहिणीमिदा-नीन्तनो राजा संग्रामं जित्वा परकीयाद्राष्ट्रादानयति सा वार्त्रघ्नी वृत्रहदेवत्या । या श्येताक्षी कृष्णलोचना सा पितृदेवत्या । बभ्रुः पिङ्गाक्षी सोमक्रये मुख्या । तदभावेऽरुणा । तदभावे रोहिणी । अरुणाभावे श्येताक्षी । ' सा स्यादप्रवीता ' ( श. ३.३.१.१६ ) अप्रवीता अगृहीतगर्भा । अयातयाम्नी बहुभिरसकृदुच्यमानाया अपि वाचोऽगत-रसत्वं प्रसिद्धम्, अतः सोमक्रयण्या वाग्रूपत्वादयातयाम्या भवितव्यम् । अत एकहायनीपरिग्रहे गर्भरूपरसनिर्गमा-भावाद् वागनुगुण्यं भवति । तस्मादप्रवीता भवेत् । सा चाङ्गवैकल्यरहिता । वण्डा वर्धिष्णुस्तद्विपरीता अवण्डा । कूटा एकशृङ्गी । काणा एकाक्षी । कर्णा छिन्नकर्णा । लक्षिता तप्तायः शलाकया चिह्निता । सप्तशफा एकस्मिन् पादे एकेन शफेन हीना । अवण्डा कूटादिभिन्ना एकरूपा सम्पूर्णावयवा गौः सोमक्रयणी युज्यते । ' पद समुप्य पाणी अवनेनिक्ते ' ( श. ३.३.२.१ ) इत्यादिनाऽध्वर्योः पात्रे सोमक्रयण्याः पदपांसुप्रक्षेपानन्तरं हस्तप्रक्षालनं विहितम् । ' अथास्यां हिरण्यं बध्नीते ' ( श. ३.३.२.२ ) इत्यध्वर्योः स्वाङ्गुल्यामनामिकायां हिरण्यबन्धनं विहितम् । तत्रैव हिरण्यस्य देवसम्बन्धद्वारा सत्यत्वमभिधाय तेन ' अंशूनुपस्पृशानि ' अभिषवाप्यायनादिषु, तेन ' सोमं पराहराणि ’ व्यापारयाणि । उपस्पर्शाद्युपयोगाय हिरण्यं धारयेदित्यर्थः । ' अथ सम्प्रेष्यति । सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति स यदेव शोभनं तत्सोमोपनहनं स्याद्वासो ह्यस्यैतद् भवति शोभनं ह्येतस्य वासः स यो हैनं शोभनेनोपचरति शोभते हाथ य आह यदेव

पृष्ठ 79

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७० शुक्लयजुर्वेदसंहिता [ अ. ४ किञ्चेति यद्धैव किञ्च भवति तस्माद्यदेव शोभनं तत्सोमोपनहनं स्याद्यदेव किञ्च सोमपर्याणहनम् ( श. ३.३.२.३ सोमार्थमध्वर्योः प्रेषो दर्शितः । सोम उपनह्यते येन तत् सोमोपनहनं बन्धनवस्त्रम् । सोमो लताविशेषः । इदानीं ) । तदभावे पूतिकालता गृह्यते । सोमपर्याणहनं शकटेन सह सोमस्य परितो बन्धनवासः । तदर्थमुष्णीषमाहरेति सम्प्रैषः । यद् वस्त्रं शोभनं बहुमूल्यं तत्सोमोपनहनं कर्तव्यम् । कात्यायनेनाप्युक्तम्— ' शोभनं सोमोपनहनम् ' ( का. श्री. ७.७.३ ) । सोमस्याच्छादनार्थत्वात् तेन वस्त्रेण शोभनेन भवितव्यम् । यः शोभनेन सोममुपचरति, स स्वयं वस्त्रादिना शोभते । तद्विपर्ययेण यत्किञ्चिद्वासः सोमायानयेति ब्रुवन् स्वयं यत्किञ्चिद् भवति । सोमपर्याणहने तु नायं नियमः । ' यद्युष्णीषं विन्देत् ' ( श. ३.३.२.४ ) । उष्णीषः स्वीकार्यः । तदभावे -कर्तितवासस्तत्स्थाने ग्राह्यः । सोमोपनहनस्यादानमध्वर्युयजमानयोरन्यतरेण कार्यम् । ' अथाग्रेण राजानं विचिन्वन्ति । तदुदकुम्भ उपनिहितो भवति तद् ब्राह्मण उपास्ते तदभ्यायन्ति प्राञ्चः ( श. ३.३.२.५ ) । प्राचीनवंशस्य पुरोदेशे विचिन्वन्ति अपनेयाशमपनयन्ति तत् तत्र क्रयप्रदेशे निहितोदकुम्भस्य समीपे ब्राह्मणः सोमविक्रयी निवसेत् । तत्स्थानं प्रत्यभिगच्छन्ति प्राञ्चः सोमक्रयप्रदेशाभिमुखाः । ' तदा यत् सुवाचयति । एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टभो भाग इति मे सोमाय बूतादेष ते जागतो भाग इति मे सोमाय बूताच्छन्दोनामानां साम्राज्यं गच्छेति मे सोमायं ब्रूतादित्येकं वा एष क्रीयमाणोऽभिक्रीयते छन्दसामेव राज्याय छन्दसां साम्राज्याय घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतदाह मेव त्वा राज्याय क्रीणामि छन्दसां साम्राज्याय न वधायेत्यथैत्य प्राङुपविशति ' । ( श. ३.३.२.६ ), ' सोऽभिमृशति छन्दसा-आस्माकोऽसीति स्व इव ह्यस्यैतद् भवति यदागतस्तस्मादाहास्माकोऽसीति शुक्रस्ते ग्रह्म इति शुक्रं । ग्रहीष्यन् भवति विचितस्त्वा विचिन्वन्त्विति सर्वत्वायैतदाह । ( श. ३.३.२.७ ) । आयत्सु ऋत्विग्यजमानेषु ह्यस्माद् क्रयदेशं ग्रहं समागच्छत्सु एष त इत्यमुं मन्त्रं वाचयति यजमानमध्वर्युः । मन्त्रार्थस्तूक्त एव । ' गायत्रं प्रातःसवनम्, त्रैष्टुभं माध्यन्दिनं सवनम् ' ( तै. सं. २.२.९.५-६; ऐ. बा. ६.१० ) इत्यादिभिः प्रातः सवनादीनां गायत्र्याद्यभिमानात् तत्सवनार्हाणां गायत्र्यादिसम्बन्धः । छन्दसां साम्राज्यप्राप्तिर्नाम सवनत्रयप्राप्तिरेव । एतत्प्रशंसति -- एकं क्रीयमाणोऽभिक्रीयत इति । एष क्रीयमाणः क्रयेण स्वीयत्वमापाद्यमानः एकं वै खलु प्रयोजनमभिलक्ष्य वा क्रीयते एष विक्रीयते, अभिषवादिना रसात्मना संस्क्रियते । कि तदेकम्? तदुच्यते --- छन्दसां राज्याय तत्प्राप्तये, न केवलाय राज्याय, किन्तु साम्राज्याय । प्रोत्साहनस्यार्थवत्तायै बाधप्रसक्तिं दर्शयति-- घ्नन्ति वा एनमेतद्यदभिषुण्वन्तीति । यथा पशूनामालम्भनादिना हननं भवति, तथैवाभिषवादिना रसनिष्पादनेन सोमस्यापि हननमेव भवति । यथा तत्र —– ' वाउ एतन्प्रियसे न रिष्यसि देवाँ २॥ इदेषि पथिभिः सुगेभिः । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता न दधातु ॥ ' ( वा. सं: २३.१६ ) । हे अश्व, अस्माभिर्यत् त्वं संज्ञप्यसे एतत् त्वं न म्रियसे न च रिष्यसि विनश्यसि विशस्यमानः सुगेभिः सुगैः साधुगमनैः पथिभिर्देवयानैर्देवान् इत् प्रति एषि गच्छसि । सुकृतः साधुकारिणो । लोक आसते तिष्ठति, यत्र च ते सुकृतो ययुः तत्र लोके सविता देवस्त्वा त्वां दधातु स्थापयत्विति । नरा यत्र प्रत्याह- हे सोम, छन्दसां साम्राज्याय तत्प्राप्तये त्वां क्रीणामि न वधाय । नैष तव वधः परिणामे तथैव सोमं हिंसनीयाननुग्राहकत्वविशिष्टप्राणवियोगानुकूलव्यापारस्यैव हिंसापदार्थत्वात् । नात्राऽननुग्राहको व्यापारः हितकारित्वात् ग्राहक एव, छन्दसां साम्राज्यप्राप्तिहेतुत्वात् । वस्तुत एवं सत्यपि भीत्यपगमाय तं सोमं प्रति छन्दसां साम्राज्याय किन्त्वनु-न वधायेत्याद्युक्तिः ।

पृष्ठ 80

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २४-२५ ] वेदार्थपारिजातभाष्यसहिता ७१ अथ सोमं प्रत्येत्य प्राङ् प्राङ्मुख उपविशति ऋत्विग्भिः सहितो यजमानः । सोऽभिमृशति — आस्माकोऽसीति मन्त्रेण । हे सोम, त्वमास्माकोऽसि अस्माकं सम्बन्ध्यसि । एतेन पाठेन स्व इव भवति सोमो भवत्यस्य यजमानस्येति । य एव भवति शुक्रः शुक्राख्यस्ते ग्रह्यो ग्रहीतव्यः । ' प्रत्यपिभ्यां ग्रहेश्छन्दसि ' ( पा. सू. ३.१.११८ ) इत्यनुपसृष्टादपि ग्रहेश्छान्दसः क्यप् ग्राह्य इत्यर्थः । ' अमात्योऽसि शुक्रस्ते ग्रहः ' ( तै. सं. १.२.६.१ ) इति श्रुतेः । विचितो विचयनस्य शोधनस्य कर्तारस्त्वां विचिन्वन्तु शोधयन्तु विचिन्वद्भिरेव विवेके सति वैगुण्यास-म्भवात् सर्वत्वं कार्यं भवति । एतेन सिद्धान्तानुसार्येव व्याख्यानं समर्थयते शातपथी श्रुतिर्न दयानन्दोक्तमर्थम् । ' अत्र हैके । तृणं वा काष्ठं वा वित्वाऽपास्यन्ति तदु तथा न कुर्यात् क्षत्रं वै सोमो विडया ओषधयोऽन्नं वै क्षत्रियस्य विट् स यथा ग्रसितमनुहायाच्छिद्य परास्येदेवं तत्तस्मादभ्येव मृशेद्विचितस्त्वा विचिन्वन्त्विति तद्य एवास्य विचेतारस्त एनं विचिन्वन्ति ' ( श. ३.३.२.८ ) इति प्रशंसार्थं पक्षान्तरनिरासः ॥ २४ ॥

अ॒भि त्य॑ दे॒वं स॑वि॒तार॑म॒ण्यो॒ः क॒विक्र॑तु॒मचा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒य॑ म॒ति॑ि क॒विम् । ऊ॒र्ध्वा यस्या॒ऽमति॒र्भा अदि॑द्युत॒त् सर्वा॑मसि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑ कृ॒पा स्वः॑ | प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वानु॒प्राण॑न्तु॒ प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥२५ ॥

सोमोपननं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग् वा, तस्मिन् सोमं मिमीते दशकृत्वोऽभि त्यमिति ' ( का. श्रौ. ७.७.९ -१० ) । सोमोपनहनं वासो द्विगुणं चतुर्गुणं वा कृत्वा यथा तस्य वाससो दशा वस्त्राग्रं प्राच्यामुदीच्यां वा भवेत्, तथा तत् चर्मणि स्तृणीयात् । सोमोपनहने वाससि दशकृत्वः सोमं प्रक्षिपेदध्वर्युः । दशसु ' अभि त्यम् ' इति मन्त्रेण तूष्णीमेकादशम् । सावित्र्यष्टिः, ' अभि त्यं सावित्र्यष्टिः ' इति कात्यायनसर्वानुक्रमात् । चतुःषष्ट्यक्षरा अष्टिः । अष्टेरेव नामान्तरमतिच्छन्द इति । त्यं तं देवं सोमाख्यं मिमीते तमभ्यर्चामि आभिमुख्येन पूजयामि । कीदृशं देवम्? ओण्योः द्यावापृथिव्योः सवितारम् ' ओण्याविति द्यावापृथिवीनामसु पठितम् ' ( निघ. ३.३०.१५ ), द्यावापृथिव्योरुत्पादयितारम् । ' ओणृ अपनपने ' उणादिप्रत्ययेन सिद्धिः । ये द्यावापृथिव्यौ स्वाश्रितानां क्लेशानपनयतस्ते । यद्वा त्यं तं देवं सवितारमभ्यर्चामि आभिमुख्येन सर्वतो वा पूजयामि । कीदृशम्? ओण्योर्द्यावापृथिव्योरन्तरा, वर्तमानमिति शेषः । तथा कविक्रतुं कविर्मेधावी क्रतुः कर्म यस्य तं मेधाविकर्माणम् । सत्यसवं सत्योऽवितथः सवः प्रेरणं यस्य तमवितथप्रेरणम् । रत्नधां रमणीयानां गोभूहिरण्यादिधनानां दातारं मन्त्रार्थ - उस द्यावापृथिवी के प्रकाशक, ब्रह्म - संकल्प से प्रकट, सत्य प्रेरणा वाले, रत्नों के धारक, समस्त चराचर के प्रिय, अनुपम कल्पना शक्ति वाले सूर्य देव की सब तरह से पूजा करता हैं । इन्हीं की अनन्त आकाशाभिमुखी दीप्ति आकाश अथवा परा प्रकृति रूप ब्रह्माण्ड को प्रकाशित करती है । ज्योतिःस्वरूप हाथ वाले सत्यसंकल्प भगवान् सूर्य की मैं पूजा करता हैं, जिनकी कृपा से स्वर्ग रचा गया है । हे सोम! प्रजा के उपकार के लिये मैं तुम्हें बांधता हैं । हे सोम! प्रजा श्वास लेते हए तुम्हारा अनुकरण कर जीवित रहे, तुम श्वास लेने वाली प्रजा का अनुसरण करो । इस मन्त्र से सोम को बांधने वाले कपड़े को दुहरा- तिहरा कर उसमें सोम डाला जाता है ॥ २५ ॥

भाष्यसार —— अभि त्यं देवम् ' इत्यादि मन्त्रों द्वारा सोमग्रहण के लिये फैलाये गये वस्त्र पर अध्वर्यु दस बार सोम रखे । तदनन्तर बस्त्र के कोनों को इकट्ठा करके ' प्रजाभ्यस्त्वा ' इस मन्त्र से ऊपर से बाँधे । ' प्रजाभ्यस्त्वानु ' मन्त्र से ऊपर की ओर अंगुलि से विवर प्रदेश बनावे | यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ७७ ९ १०, १७-१८ ) में निर्दिष्ट है ।