वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 81–90
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
७२ शुक्लयजुर्वेदसंहिता [ अ. ४ , मतिं मन्यते हीरकादिरत्नानां वा धारकं पोषकं वा अभि सर्वतो देवानां सर्वजनानां वा प्रीतिविषयं, प्रेमास्पदम् मतीनां हि सविताधि-चिन्त्यते ज्ञानिभिर्योऽसौ मतिस्तम् । यद्वा मतिं व्याप्यावस्थितम् । यद्वा मतिं मननयोग्यम् ग्रध्नातीति कविः, अपरे ष्ठात्री देवता । कविं क्रान्तदर्शिनमतीतानागतवर्तमानानां द्रष्टारम् । केचित्तु — ' कवयति वत्वे कविरिति रूपम्, अन्ये क्राम्यतीति कविः क्रामतेः कवतेश्च औणादिक इनिप्रत्यये क्रामते, रेफलोपे मस्य भा दीप्तिर-क्रान्तमस्यास्तीति कविः, इत्थं रूपं साधयन्ति । यस्यामतिर् भा अदिद्युतत् सवीमनि । देशे यस्यादित्यस्य यत्र नक्षत्रादीनां प्रसवः मतिः केनापि मन्तुमशक्या सती ऊर्ध्वा ऊर्ध्वगमनाभिमुखी सवीमनि प्रसवविशेषवति यस्मिन्नाकाशप्रदेशे स सवीमा, प्रवृत्तस्तत्र अदिद्युतत् सर्वाणि वस्तूनि द्योतितवती । सवः प्रसवः प्रवृत्तिर्नक्षत्रादीनां ४.१४७ ) इतीमनिचि तस्मिन् सवीमनि । ‘ षु प्रसवैश्वर्ययोः ' इति धातोः ' हृभृधृसृस्तृशृभ्य इमनिच् ' ( उ. सू. गुणावादेशौ, ' सवीमा प्रसवोऽनुज्ञा ' इति कोषात् । यद्वा उव्वटाचार्यरीत्या अमतिरात्ममयी मतिरनन्यभूता भा दीप्तिरदिद्युतद् द्योतयते ब्रह्म । ' अकारो ( तै. उ. वासुदेव २.१.१ ), आत्मा वा, तद्रूपा मतिरमतिः । आत्मनो मतिविज्ञानादिरूपत्वं प्रसिद्धमेव । ' सत्यं ज्ञानमनन्तं आत्मवचनः । आत्ममयी ' विज्ञानमानन्दं ब्रह्म ' ( बृ. उ. ३.९.२८ ) इत्यादिश्रुतिभ्यः । महीधराचार्यस्तु — अमाशब्द । अमाततिशब्दस्य अमतिभाव ततिर्मतिर्वा अमृतिः । तन्यत इति ततिर्दीप्तिः । मतिरपि प्रकाशरूपत्वाद् दीप्तिरेव ४.५ ९ ) इत्यमेरति-इति । आत्मप्रकाशमयी ततिर्मतिर्वा यस्य भाः सर्वमदिद्युतत् । अन्ये तु ' अमेरतिः ' ( उ. सू. अमिमीत प्रत्ययः । हिरण्यपाणिः सुवर्णाभरणयुक्तः स्वरादित्यः सुक्रतुः साधुसङ्कल्पः कृपा कृपावान् अत्यन्तदयालुः । न साधारण-पूर्वोक्तविशेषणविशिष्टो देवः सोमं मिमीतवान् । एतावान् सोम इति त्वदीयं परिमाणं निश्चितवान् अमिमीत, सोममिति मनुष्यास्तत्परिमाणमवगन्तुं समर्था इत्यर्थः । यद्वा — कृपा कल्पनं कृप् तया कृपा कल्पनया निश्चितवान्, वस्तुतस्त्व-शेषः । विशिष्टसामर्थ्येन स देवः सोमपरिमाणं निश्चितवानित्यर्थः । यद्वा सोऽपि कल्पनयैव ७.७.१७ ) । परिमेय एव सोम इति सोमस्तुतिः । ' अन्तान् संगृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेति ' ( का. श्रौ. संकलय्योष्णी-अध्वर्युरास्तीर्णस्य प्रक्षिप्तसोमकस्य सोमोपनहनवाससोऽग्रभागानूर्ध्वं समुन्नीय हस्ते गृहीत्वा एकत्र शेषः । प्रजाभ्यः षेण बध्नीयादिति सूत्रार्थः । मन्त्रार्थस्तु – हे सोम, प्रजाभ्यः प्रजानामुपकाराय त्वा त्वां बध्नामीति श्रौ. सदस्येभ्य ऋत्विग्भ्य इति शतपथे सायणाचार्यः । ' अङ्गुल्या मध्ये विवृणोति प्रजाभ्यस्त्वानुप्राणन्त्विति बद्धस्य सोमदेवस्य ' ( का. ७.७.१८ ) । बन्धनानन्तरं सोमोपनहनस्यान्तानां मध्येऽङ्गुल्या छिद्रं करोति । उष्णीषेण सर्वाः श्वासनिरोधो मा भूदिति विवरं करोतीत्यर्थः । हे सोम, त्वा नु प्रथमतः श्वासं कुर्वन्तमनुसृत्य प्राणिहि श्वासं प्रजाः प्राणन्तु श्वासं कुर्वन्तु । तथा हे सोम, त्वमपि प्रजा अनु प्रथमश्वासं कुर्वतीः प्रजा अनुसृत्य विवरणमिति कुरु । प्रजानां तव च कदाचिदपि श्वासनिरोधो मा भूत् । परस्परमनुसृत्य श्वासः प्रवर्ततामित्यभिप्रायेण सायणीयव्याख्यानम् । अध्यात्मपक्षे तु— त्यं तं वेदान्तेषु प्रसिद्धं देवं सृष्टिस्थितिलयलीलाभिः क्रीडमानं स्वप्रकाशं परमात्मान- प्रेरयितारं मभितोऽर्चामि पूजयामि समादरेण चिन्तयामि । कीदृशम्? ओण्योर्द्यावापृथिव्योः सवितारं निर्मातारं सत्यसवं वा । कविः क्रान्तदर्शी ब्रह्मा क्रतुः कर्म यस्य तं ब्रह्मादिक्रान्तदर्शिनां रचयितारं सर्वोत्कृष्टज्ञानक्रियादिमन्तं अध्यात्मपक्ष में यह अर्थ है - वेदान्तों में प्रसिद्ध उस स्वप्रकाश परमात्मा का मैं सर्वतः पूजन करता, विद्वानों हूँ । द्यावापृथिवी द्वारा मननीय के, निर्माता, ब्रह्मादि के भी रचयिता, सत्य संकल्प के प्रेरक, ज्ञानवैराग्यादि सत्त्वमय दीप्त रत्नों के पोषक, सर्वप्रिय
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
म. २५ ] वेदार्थपारिजात भाष्यसहिता ७३ सफलप्रेरणम्, सत्यसङ्कल्पत्वात् । रत्नधां रत्नानि ज्ञानवैराग्यशमदमादीनि सत्त्वमयानि दीप्तिमन्ति धारयति पोषय-तीति तम् । अभिप्रियं सर्वतः प्रियम् ' प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्माच्च सर्वस्मात् ' इति श्रवणात् । निरतिशयप्रेमास्पदं मतिं ब्रह्मविद्भिर्मन्यते चिन्त्यत उपास्यत इति विद्वन्मननीयं परं कविं क्रान्तदर्शिनं सर्वज्ञं यस्य परमात्मनः सवितुः सर्वोत्पादयितुर्भाः स्वरूपभूता नित्यज्ञानलक्षणा दीप्तिरमतिर्मन्तुमशक्या, ' यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ' ( केनो. २.३ ), ' अन्यदेव तद्विदितादथो अविदितादधि ' ( केनो.१.३ ) । सवीमनि सूर्यादिप्रसवप्रदेशेऽप्यूर्ध्वा सर्वोत्कृष्टा सती अदिद्युतद् द्योतते स्वप्रकाश-तया राजते, सर्वप्रकाशनिरपेक्षत्वात् ' यत्साक्षादपरोक्षाद् ब्रह्म ' ( बृ. उ. ३.४.१ ) इति श्रुतेः । स स्वश्चिदादित्यः परमात्मा हिरण्यपाणिः हिरण्यं ज्योतिर्मयं ब्रह्मात्मज्ञानं पाणौ यस्य स ब्रह्मात्मज्ञानप्रदः । हिरण्मयो ज्योतिर्मयः पाणिर्यस्य स हिरण्यपाणिर्भगवान शिवः ' नमो हिरण्यबाहवे ' ( वा. सं. १६. १७ ) इति मन्त्रवर्णात् । पाणिरुपलक्ष-णम्, ज्योतिर्मयविग्रह इत्यर्थः । सुक्रतुः शुभः कल्याणमयः क्रतुः सङ्कल्पो यस्य सः । कृपा कृपया अमिमीत सर्वं जगत् त्रेधा पट्ट्यां परिमितं कृतवान् । किमर्थम्? प्रजाभ्यः प्रजाहिताय, अन्यथा सर्वमसुरायत्तं स्यात्, ' इदं विष्णुर्विचक्रमे ' ( वा. सं. ५.१५ ) इति मन्त्रवर्णात् । हे सोम साम्बसदाशिव, प्रजाः सर्वास्त्वामनुप्राणन्तु । त्वां प्राणन्तमनुप्राणन्तु, सर्वप्रजाजीवनस्य त्वज्जीवनायत्तत्वात्, सोपाधिकानां जीवानां निरुपाधिकब्रह्मैकजीवनत्वात् । त्वं च प्रजा अनुप्राणिहि प्रजाजनजीवनानुजीवातुर्भव प्रत्यगापरोक्ष्यपरप्रेमास्पदत्वायत्तापरोक्ष्यपरप्रेमास्पदत्ववान् भव, तत्पदार्थस्य त्वंपदार्थात्मनैवापरोक्षत्वपरप्रेमास्पदत्वसम्भवात् । श्रीदयानन्दस्तु – ' हे परमात्मन् समाध्यक्ष प्रजापुरुष वा अहं यस्य सवीमन्यूर्ध्वा मतिर्या अदिद्युतत् कृपा स्वः सुखं करोति, यो हिरण्यपाणिः सुक्रतुः स्वरमिमीत दिव्यं वा निर्मितवान्, ओण्योः सवितारं कविक्रतुं रत्नधां सत्यसवं प्रियं मतिं कविं देवं त्वां प्रजाभ्योऽर्चामि तं त्वा प्रजा अभि अनुप्राणन्तु कृपया त्वं प्रजा अनुप्राणिहि । त्यं जगदीश्वरं राजसभास्थजनसमूहं वा देवं सुखदातारं सवितारं देवानामग्न्यादीनां रसानां वा प्रसवितारमोण्यो-र्द्यावापृथिव्योः कविः सर्वज्ञा सर्वा च विद्या युक्ता । क्रतुः प्रज्ञा क्रमदर्शनं वा यस्य तम्, अर्चामि पूजयामि । सत्यं सवमैश्वर्यं जगद्वा यस्मिन् तम् रत्नधां यो रत्नानि रमणीयानि विज्ञानानि हीरकादीनि भुवनानि वा दधातीति तम्, अभि आभिमुख्येन प्रियं यः प्रीणाति तम् मतिं यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते । कवि वेदविद्याया उपदेष्टारं निमित्तं वा । ऊर्ध्वा उत्कृष्टा यस्य सच्चिदानन्दस्वरूपस्य शुभगुणयुक्तस्य वा अमतिः स्वरूपम् । ' अमतिरिति रूपनामसु पठितम् ' ( निघ. ३. ७.५ ) । भा यो भाति प्रकाशते सः अदिद्युतत् प्रकाशितवान् प्रकाशयति । सवीमनि यः सूयते संसारस्तस्मिन्, हिरण्यपाणिः, हिरण्यानि ज्योतींषि सूर्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः, क्रान्तदर्शी सर्वज्ञ की मैं अर्चना करता हूँ । जिस परमात्मा की नित्यज्ञानलक्षणा दीप्ति अचिन्त्य है तथा सूर्यादि के उद्गम प्रदेश में भी सर्वोत्कृष्ट होकर विद्योतित रहती है, स्वप्रकाशभूता है, वह हिरण्यबाहु परमात्मा शिव कल्याणमय संकल्प वाले अपनी कृपा से समस्त जगत् को प्रजा के हितार्थ परिमित कर चुके हैं । हे साम्ब सदाशिव! समग्र प्रजाएं आपके अधीन संजीवित रहें । आप प्रजाओं को संजीवित करें । स्वामी दयानन्द की व्याख्या मन्त्र से संगत न होने के कारण समीचीन नहीं है । परमेश्वर के साथ धार्मिक सभापति अथवा प्रजाजन का कोई प्रसंग नहीं है । ' अनुप्राणन ' का ' आयुर्भोग ' अर्थ करना भी शोचनीय है । प्रजाओं लिये पूजन क्या है? शतपथ ब्राह्मण के व्याख्यान से भी सायणादि सम्मत अर्थ की ही संगति होती है, स्वामी दयानन्द के अर्थ की नहीं ॥ २५ ॥
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
७४ शुक्लयजुर्वेदसंहिता [ अ. ४ अमिमीत निर्मितवान् निर्मिमीते वा । सुक्रतुः शोभनः क्रतुः प्रज्ञा कर्म वा यस्य । कृपा करुणा । स्वसुखमादित्यं वा प्रजाभ्य उत्पन्नाभ्यः सृष्टिभ्यस्त्वा त्वां प्रजा मनुष्यादिसृष्टयस्त्वा त्वामनुप्राणन्तु आयुर्भुञ्जताम् । प्रजा. जगत्स्था त्वमयं वा अनुप्राणिहि जीवतोऽनुजीवनं धर धरति वा ' इति, तदप्यविचारितरमणीयम्, मन्त्रासङ्गतेः परमेश्वरस्य धार्मिक-सभापतेः प्रजाजनस्य वाऽप्रसङ्गात् । ' सवीमनि उत्पन्नसंसारे ' इत्यसङ्गतिः, उत्पत्तिमतां प्रातिस्विकवस्तूनामपि ग्रहण-सम्भवात् । हिरण्यादीनि पाणौ व्यवहारे यस्येत्यप्यपव्याख्यानम् कार्ष्णायसादीनामपि व्यवहारे सत्त्वाविशेषात् । ' कृपा करुणाऽनाश्रया सुखं करोति यस्य करुणा ' इति व्याख्याने मूलं मृग्यम् मन्त्रे द्वितीयस्य यस्येत्यस्य पाठाभावात् । एकस्य ‘ यस्य पदस्य अमतिरित्यनेन सम्बद्धत्वेन गतार्थत्वात् । ' प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु ' इत्यप्यस्पष्टमेव । अनुप्राणनस्य आयुर्भोगोऽर्थ इत्यपि चिन्त्यम् । प्रजाभ्यः पूजनं किम्? सृष्ट्यापि कथं पूजनम्? ' जीवतोऽनुजीवने धर धरति वा ' इत्यपि यत्किञ्चित् । ' अथ वासः । द्विगुणं वा चतुर्गुणं वा प्राग्दशं वोदग्दशं वोपस्तृणाति तद्राजानं मिमीते स यद्राजानं मिमीते तस्मान्मात्रा मनुष्येषु मात्रो यो चाप्यन्या मात्रा ' ( श. ३.३.२.९ ) । सोमोपनहनार्थं वासो द्विगुणं चतुर्गुणं प्राग्दशमुदग्दर्श वा उपस्तृणाति । आस्तृते वाससि राजानं मिमीते । सोमोन्मानाद्धेतोर्मनुष्येषु मात्रा षण्णवत्यङ्गुल्यादिरूपा इदानीं वर्तते । ' अग्नीषोमात्मकं जगत् ' इत्यादिरीत्या सोमस्य जगत्कारणत्वात् सोम॑स्यैव मात्रा मनुष्यादिषु । न केवलं मनुष्यगतैव मात्रा, अपि तु पक्षिमृगवृक्षादिष्वपि या उ यैव खलु मात्रा सापि सोममात्रात्मिकैव । ' सावित्र्या मिमीते । सविता वै देवानां प्रसविता तथो हास्मा एष सवितृप्रसूत एव क्रयाय भवति ' ( श. ३.३.२.१० ) । विधीयमानोन्मानमन्त्रं देवताद्वारा प्रशंसति - सावित्र्या मिमीत इति । देवानां प्रसविता सर्वकर्मविषयानुज्ञाप्रदो देवः सविता, तत्सम्बन्धिन्या सावित्र्या सोमोन्मानमतीव प्रशस्तमिति सर्वथाप्यत्र सोमस्य राज्ञः प्रसङ्गः । नात्र दयानन्दीयस्यार्थस्य लेशोऽपि सङ्गच्छते । ' अति-च्छन्दसा मिमीते । एषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथो हास्यैव सर्वैरेव छन्दोभिर्मितो भवति तस्मादतिच्छन्दसा मिमीते ( श. ३.३.२.११ ) । मन्त्रगतं छन्दः प्रशंसति - अतिच्छन्दसेति । अष्टिरतिच्छन्द एवास्य छन्दोऽतोऽतिच्छन्दस्त्वम् । तस्मिन् छन्दसि चतुर्णां चतुर्णामक्षराणां परित्यागेनाधस्तनानां छन्दसामुत्पत्तेः सर्वछन्दस्त्वम् । ' समिमीते । अभित्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिं कविम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वरिति ' ( श. ३.३.२.१२ ) । उन्मानमन्त्रं विधत्ते - समिमीत इति । तथा च सिद्धान्तानुसार्ययमर्थः सम्पद्यते --- त्यं तं सवितारं देवम् अभ्यर्चामि आभिमुख्येन सर्वतो वा पूजयामि । कथंभूतम्? ओण्योर् अवित्र्योः क्लेशापनयित्र्योर्वा द्यावापृथिव्योर्वर्तमानम् । कविक्रतुं क्रान्त-कर्माणम् । सत्यसवम् अवितथानुज्ञम् । यस्य सवितुरमतिरन्येषामविषया मतिरमतिः । भा दीप्तिः । ऊर्ध्वा उत्कृष्टा । अदिद्युतद् द्योतते । कुत्र द्योतत इत्यत आह-- सवीमनि नक्षत्रादीनां प्रवृत्तिस्थाने आकाशप्रदेशे । अथवा सवीमनि प्रसवे निमित्तभूते सत्यनुज्ञार्थमूर्ध्वा सती तदीया भा द्योतते । स स्वः स्वरणः शोभनगमन आदित्यः कृपा कृपया हिरण्यपाणिः स्वर्णमयहस्तः स्वर्णाभरणपवित्रपाणिर्वा सन् अमिमीत मिमीते सोमोन्मानं करोति, करोत्वित्यर्थः । ' एतया सर्वाभिः । एतया चतसृभिरेतया तिसृभिरेतया द्वाभ्यामेतयैकयैतयैवैकयैतया द्वाभ्यामेतया तिसृभि-रेतया चतसृभिरेतया सर्वाभिः समस्याञ्जलिनाऽध्यावपति ' ( श. ३.३.२.१३ ) । दशकृत्व उन्मानेऽप्ययमेव मन्त्र इत्यादिसमानप्रकारं दर्शयति — एतया सर्वाभिरिति । एतया ' अभि त्यं देवम् ' इत्यनयैवाष्ट्या सर्वाभिरङ्गुलीभिः पञ्चभिर्मिमीते । एतयैव चतसृभिरप्यङ्गुलीभिर्मिमीते । एवमवरोहक्रमेणैकैकाङ्गुल्युत्सर्गेण पञ्चवारं मीत्वा पुनरारोह-
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
म. २५ ] वेदार्थपारिजात भाष्यसहिता ७५ क्रमेणैकैकाङ्गुलिसंयोजनेन पुनरेतयैवर्चा पञ्चवारं मिमीते । एवं दशवारमुन्माय अनन्तरं पाणिद्वयं समस्याञ्जलिं कृत्वा तेनैकवारमभिमतस्य सोमस्योपरि आवपति । तथैव सूत्राणि - ' सर्वाभिः प्रथमम् अङ्गुष्ठप्रभृति चैकोत्सर्गम्, द्विः कनिष्ठिकया, एकोपचयं च, अञ्जलिना दशमम्, अन्यद्वा अध्यावापश्रुतेः ' ( का. श्री. ७. ७.११-१६ ) । अध्यावापश्रुत्या समन्त्रकं दशकृत्वो मानाद्बहिरेकादशं तूष्णीममानरूपमध्यावापं ब्रवीति सूत्रकारः । ' अन्यद्वाऽध्यावापश्रुतेः ' ( का. श्रौ. ७.७-१६ ) इत्यत्र याज्ञिकोऽनन्तदेवः --- ' दशभ्योऽन्यदिदमेकादशं मानमध्यावापोऽञ्जलिना । कुतः? अध्यावापश्रुतेः । अधीत्युपरिभाववचनोऽधिकवचनो वा । न चात्रोपरिभावोऽर्थः सम्भवति, वस्त्वन्तराभावात् । तेन सोमस्यावशिष्टं मानादेकत्र राशीकृत्याञ्जलिना गृहीत्वाऽधिकं मितादावपतीत्यर्थः । तथा चाधिकः स्याद्यदा दशकृत्वो मानादन्यदाव-पनं स्यात् । तस्मादेकादश एवाध्यावापः । यदा चोपरिभावार्थक एवाधीति स्यात्, तदापि नियताच्छास्त्रोदितादधिकं तदुपर्येव वर्तत एक इत्येकादशमेव । नन्वेतया सर्वाभिः समस्याञ्जलिनाध्यावपतीति सामानाधिकरण्येन दशममेव प्रतीयते, तथा च सर्वं मानमभि-धायोच्यते दशकृत्वो मिमीत इति, तेन दशममेव युक्तमिति चेदत्रोच्यते - एतयर्चा सर्वाभिरित्यारभ्य दशमान्तं पुनरेतया सर्वाभिरित्युक्ते मिमीत इत्यनेनैव निराकाङ्क्षीकृतम् । तेन मन्त्रयुक्तानि दश मानानि । तान्येवोपसंहारेऽथ दशकृत्वो मिमीत इति सम्पादनार्थं परामृश्यन्ते । अध्यावापस्य त्वावापरूपत्वेनामानरूपत्वान्न परिगणनम्, तेनाधिकमेव । अपि च, एतयैतस्य सर्वत्र मिमीत इत्यनेनासम्बद्धत्वान्नाध्यावापेन सम्बन्धाकाङ्क्षा । ततोऽप्यावापस्य स्वातन्त्र्यान्न पूर्वेणैक-वाक्यता सूत्रार्थस्तु – प्रथमवारं सोमस्य प्रक्षेपः साङ्गुष्ठाभिः सर्वाभिरङ्गुलीभिः कार्य; द्वितीयादिप्रक्षेपेष्वङ्गुष्ठमारभ्य क्रमश एकैकामङ्गलीमुत्सृजेत्, अर्थाद् द्वितीयोऽङ्गुष्ठवर्जिताभिश्चतसृभिरङ्गुलीभिः तृतीयोऽङ्गुष्ठतर्जनीवर्जिताभिस्तिसृभिः, चतुर्थोऽनामिकाकनिष्ठिकाभ्यामिति, पञ्चमः षष्ठश्च प्रक्षेपः केवलकनिष्ठिकयैव कर्तव्यः, सप्तमादिदशमान्तः प्रक्षेप एकै कस्या अङ्गुल्या उपचयं कृत्वा कर्तव्यः । अर्थात् सप्तमः प्रक्षेपोऽनामिकयोपचितया कनिष्ठिकया, अष्टमः कनिष्ठिका-नामिकामध्यमाभिः नवमः प्रदेशिन्यादिचतसृभिः दशमः प्रक्षेपोऽञ्जलिना कर्तव्यः । प्रसारितो हस्तः प्रसृतिः, प्रसृतिद्वयमञ्जलिः । एवं प्राप्ते सिद्धान्तयति – अन्यद्वाध्यावापश्रुतेः । अत्र वाऽवधारणे । दशमप्रक्षेपादन्यद् एकादशः प्रक्षेपोऽञ्जलिना कार्यो न दशमः । कुतः? अध्यावापश्रुतेः । ' एतया ' ( श. ३.३.२.१३ ) इत्यादिना सर्वाभिरङ्गुलीभिः पृथक् पृथग् दशकृत्वः प्रक्षेपं विधाय ततोऽधिकस्यैव एकादशस्य प्रक्षेपस्य ' समस्याञ्जलिनाऽध्यावपति ' ( श. ३.३.२.१३ ) इति विधानादिति टिप्पणीकारेण श्रीधरेण समन्वय उक्तः । ' स वा उदाचं न्याचं मिमीते । स यदुदाचं न्याचं मिमीत इमा एवैतदङ्गुलीर्नानाजानाः करोति तस्मादिमा नाना जायन्तेऽथ यत्सह सर्वाभिर्मिमीते संश्लिष्टा इव हैवैमा जायेरंस्तस्माद्वा उदाचं न्याचं मिमीते ' ( श. ३.३.२.१४ ) । अङ्गुलीनां क्रमेणोत्सर्गे संयोजने च कृते योऽर्थसिद्धो मानविषयः समञ्चनप्रसारणभावस्तमनूद्य बहुधा प्रशंसति — स वा उदाचं न्याचमित्यादिना । उदाचं न्याचमङ्गुलीः समच्य प्रसार्य चेत्यर्थः । तेनोक्तप्रकारमानेन अङ्गुलीर्नानाजानाः पृथक् पृथग् जन्मयुक्ताः करोति, कर्मभोगार्थत्वात् सृष्टेः । व्यतिरेके दोषमाह — अथ यत्सह सर्वाभिर्मिमीत इति । सर्वाभिः संहताभिरङ्गुलीभिर्दशवारमपि मानं यदि कुर्यात्, तथा सति संश्लिष्टाः परस्परसंहता एवाङ्गुलयो जायेरन्, तस्मादुदाचं न्याचं मिमीते । ' यद्वेवोदाचं न्याचं मिमीते । इमा एवैतन्नानावीर्याः करोति तस्मादिमा नानावीर्यास्तस्माद्वा उदाचं न्याचं मिमीते ' ( श. ३.३.२.१५ ) । उक्तरीत्या मानेन नानावीर्याः पृथक् पृथक् कार्यसमर्थाः करोति । ' यद्वेवोदाचं न्याचं मिमीते । विराजमेवैतदर्वाचीं च पराचीं च युनक्ति । पराच्यह देवेभ्यो यज्ञं वहत्यर्वाची मनुष्यानवति तस्माद्वा उदाचं न्याचं
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
७६ शुक्लयजुर्वेदसंहिता [ अ. ४ मिमीते ' ( श. ३.३.२.१६ ) । एतद् एतेन, अर्वाक् पराग्गतेन विराट्छन्दोदेवतामेव संख्याद्वारा अवाक् च पराक् च सोमे योजितवान् भवत्यध्वर्युः । सा सोमयुक्ता विराट् । पराच्यहेति पराची पराग्भूता ऊर्ध्वमुखी सती उदञ्चनसामर्थेन यज्ञं सोमरसं देवेभ्यो वहति । तथैव अर्वाची अवाङ्मुखी सती समञ्चनसामर्थ्येन मनुष्यान् ऋत्विगादीन् अवति । ‘ अह इति विनिग्रहार्थो निपातः ' ( निरु. १.५ ) । ‘ अथ यद्दशकृत्वो मिमीते । दशाक्षरा वै विराट् वैराजः सोमस्तस्माद्दशकृत्वो मिमीते ' ( श. ३.३.२.१७ ) । मान-गतसंख्यां प्रशंसति — अथ यद्दशकृत्व इति । विराजो दशाक्षरत्वं प्रसिद्धम् । सोमोऽपि दशसंख्याकैर्द्रव्यैः क्रीयमाणत्वात् संख्याद्वारा विराट्सम्बन्धाद् वैराजो भवति । ' अथ सोमोपनहनस्य समुत्पार्यान्तान् । उष्णीषेण विग्रथ्नाति प्रजाभ्यस्त्वेति प्रजाभ्यो ह्येनं क्रीणाति स यदेवेदं शिरश्चां सौ चान्तरोपेनितमिव तदेवास्यैतत्करोति ' ( श. ३.३.२.१८ ) । अथेति । अन्तान् समुत्पार्य अधः प्रसारितस्य वस्त्रस्य पर्यन्तप्रदेशानेकत्र उच्च संगृह्य उष्णीषेण ग्रन्थि कुर्यात् । तत्र मन्त्रः-प्रजाभ्यस्त्वेति । प्रजाभ्यः सदस्येभ्य ऋत्विग्भ्यो ह्येनं क्रीणाति । उष्णीषेण ग्रथनं प्रशंसति — स यदेवेदमिति । शिरसोंऽ-सयोश्चान्तरालप्रदेशो यथा विलग्न इव वर्तते, एवं ग्रन्थिकरणेन कृतवान् भवति । ' अथ मध्येऽङ्गुल्याकाशं करोति । प्रजाभ्यस्त्वानुप्राणन्त्विति तमयतीव वा एनमेतत् समायच्छन्नप्राणमिव करोति तत्यैतदत एव मध्यतः प्राणमुत्सृजति तं ततः प्राणन्तं प्रजा अनुप्राणन्ति तस्मादाह प्रजास्त्वानुप्राणन्त्विति तं सोमविक्रयिणे प्रयच्छत्यथातः पणनस्यैव ' ( श. ३.३.२.१ ९ ) । ग्रन्थिमध्ये सुषिरं समन्त्रकं विधत्ते - अथ मध्येऽङ्गुल्यावकाशं करोतीति । मध्ये सोमग्रन्थिमध्ये सुषिर-करणेन प्राणन्तं त्वा सर्वाः प्रजा अपि प्राणन्त्विति समायच्छन् सोमोपहननवाससोऽन्तान् संगृह्णन् तमयतीव ग्लपयतीव, अप्राणं सोमं प्राणरहितमिव करोति । अत एवोपद्रवसम्भवाद्धेतोस्तत्परिहाराय देहमध्ये उच्छ्वासरूपं प्राणमुद्गमयति । तस्मात् प्रजास्त्वेत्यादिमन्त्रं पठेत् । तं सोमोपहननवस्त्रे बद्धं सोमं सोमविक्रयिणे प्रयच्छति । अथातः पणनस्य क्रयस्य विधिरुच्यत इति शेषः । अनेन शतपथीयवृत्तान्तेन सायणादिसम्मतस्यैवार्थस्य सङ्गतिर्भवति, न दयानन्दीयार्थस्य ॥२५ ॥
शुक्रं त्वा॑ शुक्रेणं क्रीणामि च॒न्द्रं च॒न्द्रेणा॒ऽमृत॑म॒मृते॑न । स॒ग्मे ते॒ गौरस्मे ते॑ च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वणः॑ पर॒मेण॑ प॒शूना॑ क्रीयसे सहस्रपि॒ोषं पु॑षेयम् ॥ २६ ॥
' शुक्रं त्वेति हिरण्यमालभ्य वाचयति ' ( का. श्रौ. ७.८.१५ ) । हे सोम, शुक्रमक्लिष्टकर्माणं दीप्यमानं वा त्वा त्वां शुक्रेण दीप्तिमता हिरण्येन क्रीणामि व्यवहारेण गृह्णामि । कीदृशं त्वाम्? चन्द्रं ' चदि आह्लादने ' दिव्यफल-हेतुत्वेनाह्लादकरम्, तथा अमृतम् अमृतत्वफलत्वात् स्वादुत्वेनामृतसमानम् । कीदृशेन शुक्रेण? चन्द्रेण सुवर्णेन मन्त्रार्थ- हे सोम! तुम आह्लादकारक, अमृत के समान स्वादु और दीप्तिमान् हो, मैं तुम्हे दीप्तिमान् विनाशरहित आह्ला-दकारक सुवर्ण से खरीदता हैं । हे सोम बेचने वाले! सोम के मूल्य में दी गई गौ अब तुम्हारी है, वह फिर लौटकर यजमान के घर न आ जाय । हे सोमविक्रेता! तुम्हें दिया हआ सुवर्ण फिर हमारे पास न आ जाय । हे अजा! तुम पुण्य का शरीर, प्रजापति का शरीर हो 1 । हे सोम! उत्तम लक्षण वाले इस अजा रूपी पशु के द्वारा तुम्हें खरीदा जाता है । तुम्हारे अनुग्रह से हमारे घर में पुत्र, पशु आदि की पुष्टि हो, जिससे कि मैं भी पुष्ट हो जाऊँ ॥ इस मन्त्र का उच्चारण सोमविक्रेता को सुवर्ण देकर गाय को वापस लेते समय किया जाता है ।२६ ॥ भाष्यसार - कात्यायन श्रौतसूत्र ( ७.८.१५-१९ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' शुक्रं त्वा ' इस कण्डिका के द्वारा सोम खरीदने के लिये स्वर्ण तथा अजा - द्रव्यों से सोमविक्रेता को मूल्य निर्धारण हेतु प्रलोभन दिया जाता है । इस याज्ञिक विनियोग के अनुसार ही मन्त्रार्थ का निर्देश शतपथ ब्राह्मण में किया गया है ।
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
म. २६ ] वेदार्थपारिजात भाष्यसहिता ७७ ' चन्द्रमिति हिरण्यनामसु पठितम् ' ( निघ. १.२.२ ), चन्द्रवदाह्लादकरेण तथाऽमृतेन वह्निसंयोगादिनाप्यनाशिना । ' सम्मे त इति सोमविक्रयिणं हिरण्येनाभिकम्पयति ' ( का. श्रौ. ७.८.१६ ) । सोमविक्रयिहस्ते हिरण्यं दत्तवा स्वीकुर्वंस्तं निराशं कुर्यात् । हे सोमविक्रयिन्, गोः गौः सोममूल्यत्वेन तुभ्यं दत्ता । सा त्वदीया गौः पुनः प्रत्यावृत्त्य सम्मे मदीयसङ्गवति यजमाने तिष्ठतु । ऋत्विग्भिः सह गच्छति तत्तत्कर्मस्विति सम्मो यजमानः, ' सग्मे ते गोरिति यजमाने ते गौरित्येवैतदाह ' ( श.. ३.३.३.७ ) इति श्रुतेः । तयैव श्रुत्या गोरिति गौरिति ज्ञातव्यम् । हिरण्यमेव तवास्तु गौर्मा भूत् । यद्वा ग्मा गौस्तया ग्मया सह वर्तत इति सग्मो यजमानस्तत्र गौस्तिष्ठतु । अनेन सोमविक्रयिणं निराशं करोति, हिरण्येन प्रलोभनमिति वा, ' गौः ग्मा ज्मा क्ष्मा क्षा क्षमा ' ( निघ. १.१ ) इत्युक्तेः । तथा च ते गौः गोरिति मन्त्रशेषः । औकारस्य स्थाने ओकारश्छान्दसः । ' अस्मे त इति यजमानसहितं निदधाति ( का. श्रौ. ७.८.१७ ) । यजमानेन प्रत्यर्पितं यद्गोद्रव्यं तत्पुनर्यजमानसहितं सोमविक्रयिणः पुरतो निदधाति । हे सोमविक्रयिन् ते चन्द्राणि तुभ्यं दत्तानि यानि सुवर्णानि तान्यस्मे अस्मासु प्रत्यावृत्य तिष्ठन्तु । तव गौरेवास्तु सोममूल्यम् हिरण्यानि मा भूवन् । ‘ अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरिति ' ( का. श्रौ. ७.८.१ ९ ) । सोमविक्रयिणे सव्यहस्तेनाजां दत्त्वा दक्षिणहस्तेन स्वयं गृहीत्वाऽध्वर्यौ आगते सति यजमानस्य वैकल्पिकमुत्थानम् । अर्धे अजा देवतास्य यजुषोऽर्धे सोमः । हे अजे, त्वं तपसः पुण्यस्य तनूरसि देहोऽसि, तपोविग्रहोऽसीत्यर्थः । दिवि स्थितस्य यज्ञियस्य यज्ञनिष्पादकस्य सोमस्यानयनायाजां गृहीत्वा गायत्री देवता जगामेति तित्तिरिणा सोमाहरणोपाख्याने गदितत्वा-दजायाः पुण्यशरीरत्वम् । किञ्च, हे अजे, त्वं प्रजापतेर्वर्णोऽसि 1 । वर्णोऽत्र देहः । यथा प्रजापतिः सर्वदेवताप्रियः एवं त्वमपि सा वा एषा सर्वदेवत्या यदजा ' ( तै. सं. ३.४.३.२ ) इति तैत्तिरीयोक्तेः । हे सोम, त्वं परमेणोत्तमेन पशुनाऽजेनानेन क्रीयसे । तपोविग्रहत्वेनाजपशोरुत्तमत्वमुक्तमेव । अतोऽस्य प्रसादात् सहस्रपोषं पुत्रपश्वादिसह-स्त्राणां यथा भवति तथा पुषेयं पुष्टो भूयासमिति सायणाचार्यः । यद्वा हे अजे, त्वं प्रजापतेस्तपसस्तनूरसि, तपस उत्पन्नत्वात् ‘ तपसो ह वा एषा प्रजापतेः सम्भूता यदजा ' ( श. ३.३.३.८ ) इति श्रुतेः । किञ्च त्वं प्रजापतेर्वर्णो रूपमसि । प्रजापतेस्त्रिगुणत्वात् त्रिरूपत्वम् । अजापि प्रतिसंवत्सरं त्रिवारं प्रसूते, तस्मात् प्रजापतेर्वर्णत्वम्, ' सा यत् त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः ' ( श. ३.३.३.८ ) इति श्रुतेः । एवमजां सोमसमक्षमभिष्टुत्य सोममाह -सोम, परमेणोत्कृष्टेन पशुनाऽजया त्वं क्रीयसे । ततोऽहं सहस्रपोषं सहस्रं प्राणिनां पुष्णातीति सहस्रपोषं धनं पुषेयं पुष्णीयाम्, वर्धयेयमित्यर्थः । पुष्णातेर्व्यत्ययेन शेप्रत्यये लिङि पुषेयमिति रूपम् । अध्यात्मपक्षे – हे सोम, उमया सह वर्तत इति सोमस्तत्सम्बुद्धौ शुक्रमक्लिष्टकर्माणं त्वामहं शुक्रेण दीप्तिमता स्वात्मना क्रीणामि, अर्थात् स्वात्मसमर्पणेन त्वामहं स्वायत्तं करोमि । चन्द्रं परमाह्लादकं त्वां चन्द्रेण परमप्रेमास्पदेनात्मना त्वां क्रीणामि । अमृतं सर्वविधभावविकारशून्यं त्वामव्ययमहममृतेन सुखरूपेण क्रीणामि । मा गाव इन्द्रियाणि सन्ति यस्मिन्नसौ सम्मः साधकस्तस्मिन् ते तव गौर्धर्मरूपोऽस्तु । अस्मे अस्मासु ते तव सम्बन्धीनि चन्द्राणि हिरण्यानि तदुपलक्षितान्यैश्वर्याणि सन्तु । त्वं तपसस्तनूरसि शरीरमसि तपसोऽपि तद्विभूति-अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है है साम्ब सदाशिव, उत्तम कार्यों के सम्पादक! आपको मैं दीप्तिमान् स्वात्मतत्त्व समर्पण द्वारा स्वायत्त करता हूँ । हे परमाह्लादक! आपको प्रेमास्पद स्वात्मतत्त्व के समर्पण से स्वायत्त करता हूँ । हे सर्वविकारशून्य अव्यय! आपको मैं अमृतत्व से स्वीकृत करता हूँ । इन्द्रियवान् साधक में आपका धर्मात्मक स्वरूप हो । हम लोगों में आपके
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
७८ शुक्लयजुर्वेदसंहिता [ अ. ४ त्वात् । प्रजापतेः सर्वेश्वरस्य वर्णं रूपमसि, तवैव सर्वेश्वरत्वात् । हे सोम, त्वं परमेण उत्कृष्टेन पशुना मनोरूपेण क्रीयसे । सहस्रपोषं सहस्रं प्राणिनां यत्पुष्णाति तव प्रसादात्तदहं तादृशं धनं पुषेयं वर्धयेयम् । दयानन्दस्तु — ' शुक्रं शुद्धिकारकं त्वा तं क्रियामयं यज्ञं शुक्रेण शुक्रभावेन क्रीणामि गृह्णामि चन्द्रं सुवर्णं चन्द्रेण सुवर्णेन अमृतं मोक्षसुखममृतेन नाशरहितेन विज्ञानेन सग्मे गच्छतीति ग्मा पृथिवी, तया सह वर्तत इति समस्तस्मिन् यज्ञे । ' ग्मेति पृथिवीनामसु पठितम् ' ( निघ. १.१.२ ) । ते तव गोः पृथिव्याः सकाशाद् अस्मे अस्मभ्यं ते तव सकाशाच्चन्द्राणि काञ्चनादयो धातवस्तपसो धर्मानुष्ठानस्याग्नेस्तापसस्य वा तनूः शरीरमसि अस्ति । अत्र सर्वत्र व्यत्ययः । प्रजापतेः प्रजानां पतिः पालनहेतुः सूर्यस्तस्य वर्णो वरीतुं योग्यः परमेण प्रकृष्टेन पशुना व्यवहृते विक्रीतेन गवादिना क्रीयसे क्रीयते । सहस्रपोषम् असंख्यातपुष्टिं पुषेयं पुष्टो भवेयम् ' इति । हिन्दी भाष्येऽस्यार्थो यथा —— ' यः पृथिव्या सह वर्तमाने यज्ञे तपसः प्रतापयुक्तस्याग्नेर्विदुषस्तपस्विनो वा तनूः शरीरमस्ति, तथा शिल्पविद्यायाः सत्योपदेशस्य च सिद्धये पशुना विक्रीतेन गवादिना प्रजापतेः सूर्यस्य वर्णः स्वीकारयोग्यं तेजः क्रीयते, तेन सहस्रपोषम् असंख्यातपुष्टिं प्राप्य पुष्टः स्यामहम्! हे विद्वन्, यत्ते तव गोः पृथिवीराज्यात् सुवर्णादिधातवः प्राप्यन्ते, ते अस्मे अस्मभ्यमपि सन्तु । यथाहं ते तव परमेण उत्तमेन शुक्रेण शुद्धभावेन शुक्रं शुद्धिकारकं यज्ञं चन्द्रेण सुवर्णेन चन्द्रं सुवर्णं तथा अमृतेन नाशरहितेन विज्ञानेन अमृतं मोक्षसुखं क्रीणामि गृह्णामि, तथैव त्वमपि तं गृहाण ' इत्यादि, तदपि सर्वथा निःसारं निरर्थकमक्षरासम्बद्धं च क्रीणामीत्यस्य ग्रहणार्थकत्वे मानाभावात्, चन्द्रेण चन्द्रमित्यस्य सुवर्णेन सुवर्णमित्यर्थकरणस्य निरर्थकत्वात् । अमृतेन नाशरहितेन विज्ञानेनेत्यपि निर्मूलम्, विज्ञानस्य नित्यत्वादर्शनात् । त्वद्रीत्या मोक्षस्यापि नाशरहितत्वं नास्ति, मुक्तेरावृत्त्यभ्युप-गमात् । गम्यत्वादपि पृथिव्या ग्मात्वं सिद्ध्यतीति न तस्या गमनशीलत्वम्, ' ध्रुवा द्यौः ' ( अथर्व ६.८८.१ ) इत्यादिमन्त्रविरोधात् । न वान्यस्य धातवोऽन्यस्य सम्भवन्ति, व्यवहारविरोधात् । पशुना विक्रीतेन गवादिनेत्यपि निरर्थकम्, अक्रीतस्यापि गवादेः पशुत्वाविशेषात् । तेन च कथं प्रजापतेर्वरीतुमर्हं तेजः क्रीयत इत्युपपादनीयमेव । कोऽत्र वक्ता? न परमेश्वरः, तस्यान्योपार्जितसुवर्णादिनिरपेक्षत्वात् । श्रुतिसूत्रविरोधाच्चानादेयोऽयमर्थः । शतपथे सोमयज्ञप्रसङ्गे सोमक्रयः प्रकृतः । ' स वै राजानं पणते । स यद्राजानं पणते तस्मादिदं सकृत्सर्वं पण्यं स आह सोमविक्रयिन् क्रय्यस्ते सोमो राजा ३ इति क्रय्य इत्याह सोमविक्रयी तं वै ते क्रीणानीति क्रीणीहीत्याह सोमविक्रयी कलया ते क्रीणानीति भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युः ' ( श. ३.३.३.१ ) । अत्र सोमक्रयार्थं व्यवहारं विधत्ते श्रुतिः - पणत इति । पणते व्यवहरते । तस्मात् सोमस्य व्यवहार भूतत्वादिदमिदानीमपि सर्वं दधिमधुघृतादिवस्तु सकृत् पण्यं पणितव्यं भवति । व्यवहारप्रकारं दर्शयति — स आहेति । सोऽध्वर्युः क्रय्यस्ते सोमो राजेति पृच्छेत् । क्रय्य इति प्रदत्त ऐश्वर्य हों । आप तपोविग्रह हैं, सर्वेश्वर प्रजापति की मूर्ति हैं, हे साम्बशिव! आप सर्वोत्तम मनोरूप पशु से उपलब्ध होते हैं । आपकी कृपा से मैं सहस्रों प्राणियों के पोषणयोग्य धन से वर्धित होऊँ । स्वामी दयानन्द का अर्थ मन्त्राक्षरों से असम्बद्ध है । ' चन्द्रेण चन्द्रम् ' का ' सुवर्णेन सुवर्णम् ' इस प्रकार अर्थ करना निष्प्रयोजन है । अमृत का अर्थ ' नाशरहित विज्ञान ' करना भी निर्मूल है, क्योंकि उनके मत में तो मोक्ष भी नाशरहित नहीं है । शतपथ श्रुति तथा सूत्र - ग्रन्थों के विरोध के कारण यह अर्थ ग्राह्य नहीं है ॥२६ ॥
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
म. २६ ] वेदार्थपारिजात भाष्यसहिता ७ ९ सोमविक्रयी प्रतिब्रूयात् । क्रय्यः क्रयार्थं प्रसारितः क्रय्यस्तदर्थे ' ( पा. सू. ६.१.८२ ) प्रश्नार्थे प्लुतिः । तत् तर्हि ते स्वभूतं सोमं क्रीणानीत्यध्वर्युर्ब्रूयात् । अथ तेन विक्रयिणा क्रीणीहीत्युक्तोऽध्वर्युर्ब्रयात् कलया गोरेकदेशेन तव सोमं क्रीणानीति । स विक्रेता अतोऽस्मात् कलालक्षणान्मूल्यात् प्रभूतमधिकमूल्यमर्हति सोमो राजेति ब्रूयात् । अथ तेन तथोक्तोऽध्वर्युर्गोर्महत्त्वमाविष्करोति — महांस्त्वेवेति । यदि सोमो बहुमूल्यमर्हति तर्हि कृत्स्ना गौर्दातव्या भवति । तथा सति गोर्महिमा महानिति ब्रूयात् । ' गौर्वै प्रतिधुक् । तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम् ' ( श. ३.३.३.२ ) । गोर्महत्त्वमेव दर्शयति — गोर्वा इति । गोः सकाशात् प्रतिधुगादिक-मुपलभ्यते । प्रतिधुक् सद्योदुग्धम् । इदमेकं वीर्यम् । तस्याः शृतं पक्वं पयः । शरः पक्वक्षीरस्योपरि सारभूतं मलायीपदवाच्यम् । तस्यै दधि घनीभूतमम्लास्वादं वस्तु । मस्तु दधिभवं सारभूतमुदकम् । आतञ्चनं दधिभाव-कारणं दध्येव । आमिक्षा तप्ते पयसि दध्यानयने सति यद् घनीभूतं वस्तु जायते सा आमिक्षा । द्रवात्मकं वस्तु वाजिनम् । एवंविधानि गोर्वीर्याणि प्रख्यापयेत् । ' शफेन ते क्रीणानीति । भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युरेतान्येव दश वीर्याण्युदाख्यायाह पदा तेऽर्धेन ते गवा ते क्रीणानीति क्रीतः सोमो राजेत्याह सोमविक्रयी वयांसि प्रब्रूहीति ( श. ३.३.३.३ ) । द्वितीयवारक्रये शफेन ते क्रीणामीति ब्रूयात् । शफः पादाग्रस्यार्धभागः । भूयो वाऽत इत्यादिकं स्पष्टम् । अध्वर्युरेतानि पूर्वोक्तान्येव प्रतिधुगादीनि दश वीर्याणि पुनर्ब्रूयात् । तृतीयवारक्रये पदा त इति ब्रूयात् । चतुर्थवारेऽर्धेन त इति ब्रूयात् । भूयो वेत्यादि पूर्ववत् । पञ्चमवारे गवा ते क्रीणामीति ब्रूयादध्वर्युः । एवमुक्ते सोमो राजा त्वया क्रीत उचितमूल्यस्य दत्तत्वादथ वयांसि ब्रूहीति सोमविक्रयी ब्रूयात् । ' स आह । चन्द्रं ते वस्त्रं ते छागा ते धेनुस्ते मिथुनौ ते गावौ तिस्रस्ते अन्या इति स यदार्वाक् पणन्ते परः सम्पादयन्ति अथ यदध्वर्युरेव गोर्वीर्याण्युदाचष्टे न सोमस्य सोमविक्रयी महितो वै सोमो देवो हि सोमोऽथैतदध्वर्युर्गां महयति तस्यै पश्यन् वीर्याणि क्रीणादिति तस्मादध्वर्युरेव गोर्वीर्याण्युदाचष्टे न सोमस्य सोमविक्रयी ' ( श. ३.३.३.४ ) । वयःशब्दार्थं स्वयमेवाह श्रुतिः - चन्द्रं त इत्यादिना । कात्यायनोऽपि तथैवाह—— क्रीतः सोमो राजेत्यन्ते वयांसि प्रब्रूहीत्याह सोमविक्रयी ' ( का. श्रौ. ७.८.१३ ), ‘ पञ्चकृत्वः सोमं पणते ’ ( का. श्री. ७.८.१ ), ' स आह सोमविक्रयिन् क्रय्यस्ते सोमो राजा ३ इति ' ( का. श्रौ. ७.८.२ ), ' क्रय्य इत्याह सोमविक्रयी ' ( का. श्रौ. ७.८.३ ), ' तं वै ते क्रीणानीति ' ( का. श्रौ. ७.८.४ ), ' क्रीणीहीत्याह सोमविक्रयी ' ( का. श्री. ७.८.५ ), ' कलया ते क्रीणानीति ' ( का. श्रौ. ७.८.६ ), ' भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी ' ( का. श्रौ. ७.८.७ ), ' भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युगर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनमिति ' ( का. श्रौ. ७.८.८ ), ' भूय एवेत्यतः प्रभृति चतुरावर्तयति ' ( का. श्रौ. ७.८.९ ), ' एकैकेनान्ते पणते शफेन पदार्धेन गवा ' ( का श्रौ. ७.८.१० ), ‘ ते क्रीणामीत्यन्ततः ' ( का. श्रौ. ७.८.११ ), ' प्रश्नान्ते प्रश्नान्ते ' ( का. श्रौ. ७.८.१२ ) । भूय एवेत्यादीनामयमर्थः - शफेन ते क्रीणामि, पदा ते क्रीणामि, अर्धेन ते क्रीणामि । सोमक्रयिणा च भूयोऽत इत्याद्युक्ते भूय एवेत्यादिकमध्वर्युः पठति । एवमेकैकस्य प्रश्नस्यान्ते उक्त्वा ततोऽन्त्यपणनं गवा ते
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
८० शुक्लयजुर्वेदसंहिता [ अ. ४ क्रीणानीति कुर्यात् । एवं च ' भूयो वा ' इत्यस्य विक्रेत्रा वारचतुष्टयं पठनं तत्प्रश्नस्यान्ते प्रब्रूहीत्याह भूय एवेत्यध्वर्युणापि सोमविक्रयी ' वारचतुष्टयं गवा ते क्रीणानीत्यतः पूर्वमिति फलितम् । ' क्रीतः सोमो राजेत्यन्ते वयांसि ते धेनुस्ते मिथुनौ ते ( का. श्रौ. ७.८.१३ ) । वयांसि अन्यान् पशून् प्रब्रूहीति । ' स आह चन्द्रं ते वस्त्रं ते छागा शतपथश्रुतिः । गावौ तिस्रस्ते अन्या इति ' ( का. श्रौ. ७.८.१४ ) । व्यवहारपूर्वकक्रय्यं प्रशंसति — स यदर्वागित्यादि अल्पमेव व्यवहारकाले अर्वाक् सम्पादनात् प्राग् व्यवहारं कृत्वा परः परस्तात् सम्पादयन्ति, अथवा अर्वाग् व्यवहरन्ति, सम्पादनकाले तु परः देयं मूल्यमधिकं कृत्वा । तस्मादिदानीमपि सर्वं पुण्यं वस्तु सकृद् एकवारम् अर्वाक् पणन्ते परः परस्तात् सम्पादयन्ति । तस्मात् पणनपूर्वक एव क्रयो युक्तः । गोर्वीर्याणामुदाख्यानवत् सोमस्य वीर्याणि सोमवीर्याण्यप्युदाख्यातव्यानि । तथाऽकरणे कारणमाह - अथ यदध्वर्युरेव गोवींर्याण्याचष्टे न सोमविक्रयी आचष्टे, तस्येदं कारणं यत्सोमो राजा महितो महत्त्वोपेतः । तत्कथमित्याह – दिवि खलु दिवि वर्तमानस्य चन्द्रस्य सोमवल्लीरूपेण परिणामात्, ' दिवि वै सोम आसीत् ' ( श. ३.२.४.१ ) इत्युक्तत्वात् । अतो हेतोः सोमस्य ं महत्त्वोपेतत्वं प्रसिद्धेन तद्वीर्योदाख्यानेन युक्तमपेक्षितम् । अध्वर्युर्गां महयति तां पश्यन् तस्या वीर्याणि प्रतिधुगादीनि वर्णयति । तत्तु सोममनया क्रीणामीत्यभिप्रायेणेति । तस्मादध्वर्युरेव गोर्वीर्याण्युदाचष्टे न तं पञ्चभि- सोमस्य सोमविक्रयीति । ' अथ यत् पञ्चकृत्वः पणते 1 । संवत्सरसंमितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य शुक्रेण राप्नोति । तस्मात् पश्चकृत्वः पणते ' ( श. ३.३.३.५ ) । स्पष्टम् । ' अथ हिरण्ये वाचयति ह्येतच्चन्द्रेण । शुक्रं त्वा क्रीणाति क्रीणामीति शुक्रं ह्येतच्छुक्रेण क्रीणाति यत्सोमं हिरण्येन चन्द्रं चन्द्रेणेति चन्द्रं गवा यत्सोमं हिरण्येनामृतममृतेनेत्यमृतं ह्येतदमृतेन क्रीणाति यत्सोमं हिरण्येन ' ( श. ३.३.३.६ ) । एकहायन्या सह देयेषु हिरण्यवस्त्रछागादिदशसु द्रव्येषु मध्ये हिरण्ये दीयमाने सति यजमानं वाचयति शुक्रं ह्येतच्छुक्रेणेति त्वेति मन्त्रम् ॥ अत्र मन्त्रे शुक्रचन्द्रामृतपदानि तृतीयान्तानि हिरण्यनामानि द्वितीयान्तानि सोमस्येति व्याचष्टे - शुक्रं ' अथ सोमविक्रयिणमभिप्रकम्पयति । सग्मे ते गोरिति यजमाने ते गौरित्येवैतदाह तद्यजमानमभ्याहृत्य न्यस्यत्यस्मे ते चन्द्राणीति स आत्मन्येव वीर्यं धत्ते शरीरमेव सोमविक्रयी हरते तत्ततः सोमविक्रय्यादत्ते ' ( श. नाम ३.३.३.७ ) । समन्त्रकं सोमविक्रयिणो हिरण्येनाभिप्रकम्पनं विधत्ते - अथ सोमविक्रयिणमिति । अभिप्रकम्पनं प्रलोभनम् । मन्त्रगतं सम्मपदं व्याचष्टे – सम्मे ते गोरिति यजमाने ते गौरित्येवैतदाह । तद्यजमानमभ्याहृत्य न्यस्यति । एतेन गोरिति न पञ्चम्यन्तं षष्ठ्यन्तं वा, किन्तु प्रथमान्तमेव ज्ञातव्यम् । तच्चौकारस्योकारादेशेन वा विपरिणामेन वा । सग्मपदमपि यजमानपरम्, न दयानन्दोक्तरीत्या पृथिवीसहितयज्ञपरम् प्रकृतशतपथश्रुतिविरोधात् । तथा च सायणाचार्यरीत्या ऋत्विग्भिः सह गच्छति तत्तत्कर्मस्विति सग्मो यजमान इत्येव युक्तम् । तथा च सम्मे यजमाने ते गौरस्तु इति सोमविक्रयिणं हिरण्येन प्रलोभयति । तत्प्रलोभनसाधनं हिरण्यं यजमानं प्रत्यानीय ' अस्मे ते ' इति मन्त्रेण स्थापयेत् अस्मे अस्मदीये यजमान इत्यर्थः । हिरण्यस्य वीर्यरूपत्वात् तत्स्वीकारेणात्मनि वीर्यधारणं कृतं भवति । मन्त्रसामर्थ्येन वीर्यस्य स्वीकारमुक्त्वा हिरण्यशरीरमात्रमेव सोमविक्रयी हरते, ततो यजमानसमर्पणानन्तरं तद्यजमानसमीपे न्यस्तं सोमविक्रयी स्वीकुर्यात् । ' सोमविक्रय्येतदादत्ते ' ( का. श्रौ. ७.८.१८ ), ' अस्मे त इति यजमान्सहितं निदधाति ' ( का. श्रौ. ७.८.१७ ) अस्मे त इति मन्त्रेण यजमानसमीपे निदधाति । तेन यजमाने हिरण्यगतं वीर्यं निदधाति । ततो यजमानसमीपे स्थितं हिरण्यं हिरण्यमात्रं वीर्यरहितं सोमविक्रयी आदत्ते ।
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
म. २६-२७ ] वेदार्थपारिजातभाष्यसहिता ८१ ' अथाजायां प्रतीचीनमुख्यां वाचयति । तपसस्तनूरसीति तपसो ह वा एषा प्रजापतेः सम्भूता यदजा तस्मादाह तपसस्तनूरसीति प्रजापतेर्वर्ण इति सा यत्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः परमेण पशुना क्रीयस इति सा यत् त्रिः संवत्सरस्य विजायते तेन परमः पशुः सहस्रपोषं पुषेयमित्याशिषमेवैतदाशास्ते भूमा वै सहस्रं भूमानं गच्छानीत्येवैतदाह ' ( श. ३.३.३.८ ) । अथाजायामिति । क्रयाय दत्तामजां प्रतीचीनमुखीं कृत्वाऽध्वर्यु-स्तामालभ्य स्थितं यजमानं तपसस्तनूरिति मन्त्रं वाचयेत् । तथैव सूत्रमप्याह । मन्त्रार्थस्तु – हे अजे, त्वं प्रजा-पतेस्तपसस्तनूः शरीरमसि, तत्परिणामरूपत्वात् । ' संवत्सरो वै प्रजापतिः ' ( ऐ. बा. १.१ ) इति श्रुत्या संवत्सररूपः प्रजापतिः संवत्सरसम्बन्धिनि काले त्रिर्जायमानत्वेन संवत्सरद्वारा त्रिगुणात्मकसंवत्सररूपप्रजापतिशरीरसारूप्यात् प्रजापतिवर्णात्मकत्वम् । संवत्सरे त्रिर्जायमानत्वादेवेतरपशोरप्यजाया उत्कर्षः । अजा परमः पशुः तेन क्रीयसे । हे सोम! अतोऽहं तवानुग्रहात् सहस्रपोषं पुत्रपौत्रादिरूपेण बहुविधपुष्टिं प्राप्नवानीति ॥२६ ॥
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्य॒रुमावि॑श॒ दक्षि॑ण॒मु॒शन्नु॒शन्त॑ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजाङ्गा॑रि॒ बम्भरि॒ हस्त॒ सुह॑स्त॒ कृशा॑नव॒ते वः॑ सोम॒क्रय॑णा॒स्तान् र॑क्षध्वं॒ मा व दभन् ॥ २७ ॥
' सव्येनाजां प्रयच्छन् मित्रो न इति दक्षिणेन सोममादायागत उत्तिष्ठति वा ' ( का. श्रौ. ७. ८. २० ) । सोमविक्रयिणे सव्यहस्तेनाजां मित्रो न इति प्रयच्छन् दक्षिणेन सोममादायागतेऽध्वर्यौ यजमान उत्तिष्ठति न वेति विकल्पः । मन्त्रार्थस्तु – हे सोम, त्वं नोऽस्माकं मित्रः प्रीतियुक्तो भूत्वा सुमित्रध शोभनानां मित्राणां धारकः सन् एहि आगच्छ । शोभनानि मित्राणि दधाति पुष्यतीति सुमित्रधः । यद्वा नोऽस्मान् प्रति एहि । उव्वटाचार्यरीत्या पुंल्लिङ्गत्त्वात् मित्रोऽत्र सूर्यरूपः । वाससा बद्धस्य क्रीतस्य सोमस्य वरुणदेवताकत्वेन क्रूरत्वात् तच्छान्त्यर्थं मित्रत्वादिना प्रार्थनम् । तदुक्तं तित्तिरिणा - ' वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रध इत्याह शान्त्या ’ ( तै. सं. ६.१.११.१ ) । ‘ दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्रस्योरुमिति ' ( का. श्रौ. ७.८.२१ ) । अध्वर्युर्दीक्षि-तस्य दक्षिण उरौ तत्रस्थं वासोऽपसार्य सोमं निदध्यादिति सूत्रार्थः । सायणाचार्यरीत्या तु उपवस्त्रमुपरि स्थाप्य सोमं निदध्यात् । यजनरूपेण परमैश्वर्येणोपेतत्वादत्रेन्द्रशब्देन यजमानो विवक्षितः, ' एष वा अत्रेन्द्रो भवति यद् यजमानः ’ ( श. ३.३.३.१० ) इति श्रुतेः । मन्त्रार्थ - हे सोमसखा! - प्रीतियुक्त मित्रों के पोषक हमारे पास आओ । हे सोम! ऊरु की इच्छा करने वाले सुखरूप तुम ऐश्वर्यवान् सोम के इच्छुक यजमान की सुखकारी दाहिनी जंघा पर विश्राम करो । हे सोम के रक्षक देवताओं! आप सब शास्त्र का उपदेश करने वाले, प्रकाशवान् पाप के शत्रु, विश्व के पोषक, सर्वदा प्रसन्नचित, सुन्दर हाथ वाले और दुर्बल की रक्षा करने वाले हो । यहां स्थापित सभी पदार्थों की आप लोग रक्षा करें, शत्रु आप लोगों को किसी प्रकार की हानि न पहचावे | इस मन्त्र से बांये हाथ से सोमविक्रेता को अजा देकर दाहिने हाथ से सोम लिया जाता है और इस सोम द्रव्य की रक्षा के लिये देवताओं से प्रार्थना की जाती है ॥२७ ॥
भाष्यसार www. - कात्यायन श्रौतसूत्र ( ७.८.२०-२२ ) के याज्ञिक विनियोग के अनुसार ' मित्रो नः ' मन्त्र से क्रीत सोम का ग्रहण, ' इन्द्रस्योरुम् ' मन्त्र से यजमान की गोद में सोम का संस्थापन तथा ' स्वान भ्राज ' मन्त्र से सोमविक्रेता का ईक्षण किया जाता है । शतपथ ब्राह्मण तथा तैत्तिरीय श्रुति में इस विनियोग के अनुसार अर्थ उपदिष्ट है ।