वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 101–110

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 101–110

पृष्ठ 101

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १६ ] वेदार्थपारिजातभाष्यसहिता ४७ रिहन्ति स्तुवन्ति स्तोत्रशस्त्ररूपाभिः । कीदृशं सोमम्? सूर्यस्यापां च सङ्गमे गृहीताभिरद्भिरभिषुतमिति शेषः । सोमाभिषवार्थं वसतीवर्य आपोऽपां सूर्यस्य च सङ्गमे गृह्यन्ते, ' ता वै वहन्तीनां स्यन्दमानानां गृह्णीयाद्दिवा गृह्णीयात् ' इति श्रुतेः । परमात्मनः सङ्गमेऽन्योन्याध्यासलक्षणे सम्बन्धे मतिभिर्बुद्धिभिस्तत्साक्षितया शिशुं शंसनीयं शिशुमिव रिहन्ति स्तुवन्ति । हे परमात्मन् त्वमुपयामर्यमैनियमैरनुरागैश्च प्रत्यगात्मतया गृहीतो भवसि । मर्काय जीवनाय त्वां गृह्णामि । मर्चति चेष्टत इति मर्को जीवः । हे सोमरस, त्वमुपयामगृहीतोऽसि । उपयामयतीत्युपयामो ग्रहस्तेन गृहीतोऽसि मर्कः शुक्रपुत्रोऽसुरपुरोहितस्तस्मै त्वां गृह्णामीति शेषः । शतपथे च - ' अथ मन्थिनं गृह्णाति । अयं वेनश्चोद ' ' ' ' ' ( श ० ४।२।१।१० ) । अध्यात्मपक्षे -- अयमपरोक्षः पराभिन्नः प्रत्यगात्मा वेनः कान्तः सर्वाभिलषितः, सर्वप्राणिपर प्रेमास्पदत्वात् । पृश्निगर्भा द्युलोकगर्भा आदित्यगर्भा वा अपो लोकान्, ' आपो वै लोका: ' इति श्रुतेः । चोदयत् प्रेरयति, तस्यैव सर्वान्तर्यामित्वात् । क्वेति जिज्ञासायां रजस उदकस्य निर्माणस्थान आकाशे, तत्रैव सर्वलोकानां सत्त्वात् । कीदृशोऽयं वेनः? ज्योतिषां बाह्यानां सूर्यचन्द्रादीनामान्तराणां मनोबुद्धीन्द्रियादीनां जरायुवदाच्छादकः, तत्र तेषा -प्रकाशत्वात्, ' न तत्र सूर्यो भाति न चन्द्रतारकम् ' ( श्वे ० उ ० ६।१४ ), ' श्रोत्रस्य श्रोत्रं मनसो मनः ' ( केनो ० १२ ) इत्यादिश्रुतिभ्यः । अथवा ज्योतींषि जरायुवदाच्छादकानि यस्य सः । तैरप्रकाश्यत्वादेवेमं तथाविध-मात्मानं विप्रा अपां सूर्यस्य लोकानां तच्छासकस्य परमात्मनः सङ्गमेऽन्योन्याध्यासलक्षणे सम्बन्धे मतिभिर्बुद्धिभि-स्तत्साक्षितया शिशुं शंसनीयं शिशुमिव रिहन्ति स्तुवन्ति । हे परमात्मन् त्वमुपयामैर्यमैर्नियमैरनुरागैश्च प्रत्यगात्मतया गृहीतो भवसि । मर्काय जीवनाय त्वां गृह्णामि । मर्चति चेष्टत इति मर्को जीवः । दयानन्दस्तु - हे ' शिल्पविद्विद्वन्, त्वमुपयामगृहीतोऽसि । अहं रजसो लोकसमूहस्य मध्ये पृश्निगर्भा लोका इव ज्योतिर्जरायुरिवायं वेनवोदयदिमं चन्द्रमपां सूर्यस्य सङ्गमे शिशुं विप्रा मतिभी रिहन्ति, नेव मर्काय दुष्टानां प्रशमनाय श्रेष्ठव्यवहारस्थापनाय च विमाने त्वां गृह्णामि ' इति, हिन्दीभाष्ये तु – ' हे शिल्पविधिज्ञ सभाध्यक्ष, त्वमुपयामगृहीतोऽसि सेनादिभी राज्याङ्गर्युक्तोऽसि । अहं रजसो लोकानां मध्ये पृश्निगर्भा पृश्नि-रन्तरिक्षं गर्भो येषां तान् ज्योतिर्जरायुरिव ज्योतिषां जरायुरिवाच्छादकस्तारागणानाच्छादयन् अयं वेनः श्रौतसूत्र ( ९ ।६।१२ ) में वर्णित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्र- व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अथं इस प्रकार है- यह अपरोक्ष, पराभिन्न, प्रत्यगात्मा समस्त प्राणियों का परम प्रेमास्पद होने के कारण सबके द्वारा अभिलषित, द्युलोकगर्भ अथवा आदित्यगर्भरूपी सर्वान्तर्यामी होने के कारण लोकों को उदक के निर्माणस्थान आकाश में प्रेरित करता है, वही समस्त लोकों में विद्यमान है । यह वेन बाह्य सूर्य, चन्द्र आदि ज्योतियों का तथा आभ्यन्तर मन, बुद्धि, इन्द्रिय आदि का गर्भवेष्टन की भाँति आच्छादन करने वाला है । अथवा ज्योतियाँ हो गर्भवेष्टन की भांति इसको ढक लेती हैं । उनके द्वारा अदृश्य होने के कारण ही इस आत्मा को विद्वान् लोग लोकों के शासक परमात्मा के अन्योन्याभ्यासरूपी सम्बन्ध में बुद्धियों के द्वारा उसकी स्तुति करते हैं । हे परमात्मन्! आप यम, नियम तथा अनुराग के द्वारा प्रत्यगात्मरूप से ग्रहण किये जाते हैं । जीवन के लिये आपका ग्रहण करता हूँ । स्वामी दयानन्द द्वारा वर्णित अर्थ में शिल्पवेत्ता विद्वान् को सम्बोधित करने में कोई प्रमाण न होने के कारण व्यर्थता है | हिन्दी में ' वही सभाध्यक्ष है ' यह भी कहा गया है । सभी अध्यक्ष शिल्पवेत्ता नहीं होते और न ही सभी

पृष्ठ 102

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ शुक्लयजुर्वेदसंहिता [ अ ० ७ कमनीयश्चन्द्रश्चोदयति यथायोग्यं स्वस्वमार्गेऽभियोजयति, इमं चन्द्रमपां सूर्यस्य च सङ्गमे संग्राम आकर्षणा-दिविषयेषु शिशुं न शासनीयशिक्षायोग्यबालकं विप्रा मतिभिः स्वबुद्धिभी रिहन्ति सत्कुर्वन्त इवादरेण गृह्णन्ति । अहं च मय मृत्युनिमित्ताय वायवे दुष्टानां शमनाय सद्व्यवहारस्थापनाय विमाने मानरहितेऽनन्तेऽन्तरिक्षे विविधयाननिर्माणाय त्वां करोमि इति तदपि यत्किञ्चित् शिल्पविद्विदुषः सम्बोध्यत्वे मानाभावात् । हिन्द्यां तु स एव सभाध्यक्षः ' इत्यप्युक्तम् । न च सर्वोऽध्यक्षः शिल्पविद्भवति । न वा शिल्पवित्सर्वः । सभाध्यक्षो ' चन्द्रमसो भवति । न चासौ राज्याङ्गसेनादिभिः संयुक्तो भवति, न वा शिल्पविदचन्द्रवत्कमनीयो भवति नक्षत्राणां स्वस्वमार्गप्रेरकः ' इत्यपि रिक्तं वचः, प्रमाणाभावात् । एवमपां सूर्यस्य सङ्गमे आकर्षणादिषु शिक्षा-योग्यबालकं विप्राः स्वबुद्धिभिः सत्कुर्वन्त इवादरेण गृह्णन्तीत्यस्य किं कर्मेति न स्पष्टम् । तथैव मर्कपदस्य भवति ' दुष्टानां प्रशमनं सद्व्यवहारस्थापनं चेत्यर्थोऽपि निर्मूल एव । यत्तु -- ' वेनो वेनतेः कान्तिकर्मणः । तस्यैषा ( नि ० १० ३८ ), ' अयं वेनवोदयत्पृश्निगर्भा अप इति वा ज्योतिर्जरायुज्र्ज्योतिरस्य जरायुस्थानं भवति जरायु-या गर्भस्य यूयत इति वेममपां सङ्गमने सूर्यस्य च शिशुमिव विप्रा मतिभी रिहन्ति लिहन्ति स्तुवन्ति वा । शिशुः शंसनीयो भवति शिशीतेर्वा स्याद् दानकर्मणश्चिरलब्धो गर्भो भवति ' ( नि ० १० | ३ ९ ) इति निरुक्तोद्धरणम्, तदपि निरर्थकमेव, तदनुक्कलस्यार्थस्यानिरूपणात् ॥ १६ ॥

मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विषि॒ शच्या॑ वन॒यो द्रव॑न्ता । आ यः शर्याभिस्तुविनम्णो अ॒स्याऽश्रणीता॒ऽऽदिश॒ गभ॑स्तावे॒ष ते॒ योनि॑ प्र॒जाः पा॒ह्यप॑सृष्ट॒ सर्वा॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥ १७ ॥

' सक्तभिः श्रीणात्येनं मनो न येष्विति ' ( का ० श्र ० ९ ।६।१४ ) । एनं मन्थिनं ग्रहं सक्तुभिलौकिकैः पवित्रेऽन्तर्धाय मिश्रयेरन्मनो न येष्विति मन्त्रेणेति सूत्रार्थः । त्रिष्टुप् छन्दः । सोमदैवतम् । मनो न मन इव मनोवेगं क्षिप्रं येषु हवनेषु सोमहोमेषु तिग्ममुत्साहयुक्तं यथा स्यात्तथा, तेजतेरुत्साहकर्मणो निष्पन्नत्वात् शच्या । विपो विपश्चितौ मेधाविनावध्वर्युप्रतिप्रस्थातारौ । विपश्चितावित्यत्र छान्दसः प्रातिपदिकैकदेशलोपः । कर्मनिमित्तेन । शचीति कर्मनो । वनुथो वनुतो व्याप्नुवतो युगपत् । वनुथ इति प्रथमपुरुषस्थाने मध्यमपुरुष-शब्द का शिल्पवेत्ता सभाध्यक्ष होते हैं । ' आदर से ग्रहण करते है ' इसका क्या कर्म है, यह स्पष्ट नहीं किया गया । मर्क का जो उद्धरण दिया अर्थं दुष्टों का शमन तथा सद्व्यवहार का स्थापन किया गया है यह भी अप्रामाणिक है । निरुक्त ॥ गया है, वह भी निरर्थक ही है, क्योंकि उसके अनुकूल अर्थ नहीं प्रतिपादित किया गया है ॥ १६ रस के मन्त्रार्थ -- लघुहस्त, क्षिप्रकारी, बुद्धिमान्, कर्म के द्वारा मन के उत्साह को बढ़ाने वाले ऋत्विक् को जिस हाथों सोम में रख कर में मन के समान तीक्ष्ण उत्साह से विशेष मन लगाये हुए हैं, वे बहुत घन वाले ऋत्विक् सोम हवन । इस स्थान में स्थित sant अंगुलियों से सब ओर से सक्तुओं से मिश्रित करते हैं । हे मन्थिग्रह! तुम्हारा यह स्थान है रक्षा करो, मर्कं असुर को अपमार्जित करो । मन्थि ग्रह, मन्थि ग्रह का पान करने वाले रहकर यजमान की प्रजा की daar तुमको यज्ञ स्थान में प्राप्त करें, वेदि श्रोणी अनुपहसित हो । १७ ॥ भाष्यसार - कात्यायन श्रौतसूत्र ( ९ ६ १३, ९ ।१०१४, ६ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' मनो न येषु '

पृष्ठ 103

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १७ ] वेदार्थपारिजातभाष्यसहिता ४ ९ छान्दसः । शुक्रामन्थिनौ होमं द्रवन्तो गच्छन्तौ । तेप्वहोमेषु कर्तव्येषु वनुत इति सम्बन्धः । योऽध्वर्युरश्रीणीत शर्याभिरङ्गुलीभिः । तुविनृम्णः तुबि बहु नृम्णं धनं यस्य स महादक्षिणः । तुवीति बहुनाम । तृम्णमिति धननाम | अस्य मन्िग्रहस्य । कर्मणि षष्ठी । इमं मन्थिग्रहगतं सोमं सक्तुभिर्यवपिष्टै र श्रीणीत आदिशं प्रतिदिशम् आसमन्ताद् मिश्रयेत । क्वावस्थितस्य सतो मन्यिग्रहस्य? गभस्तौ पाणौ स्थितस्य, पाणौ स्थितमित्यर्थः । यद्यप्यत्राध्वर्यु -प्रतिप्रस्थातारौ समानकर्माणों, तथापि यः सक्तभिः श्रपणं करोति स एव प्रधान इत्याशयः । एष ते योनिः प्रजा यजमानसम्बन्धिनीः पाहि गोपाय । ' अपमृष्टो मर्क इति प्रतिप्रस्थातेति ' ( का ० श्र ० ९ ।१० ३ ) । प्रति-प्रस्थाता प्रोक्षितेन शकलेन मन्थिनमाच्छाद्याप्रोक्षितेनोपमष्टि । अपमृष्टो मर्कः, अपमार्जनीकृतो मर्काख्योऽसुर-पुरोहितः । ' देवास्त्वेति निष्क्रामतो यथालिङ्गम् ' ( का ० श्र ० ९ | १०१४ ) । प्रतिप्रस्थाता हविर्धानान्निष्क्रामेत् । मथिदैवतम् । हे मन्थिग्रह, मन्थिनं ग्रहं पिबन्तीति मन्थिपा देवास्त्वां प्रणयन्तु यजतिस्थानं प्रापयन्तु । अनाधृष्टासीति हे वेदिश्रोणे, त्वमनाधर्षितासीति । यद्वा हे विपो विपश्चितः येषु सोमहोमेषु मनो न मन इव क्षिप्रं तिग्ममुत्साहयुक्तं यथा स्यात्तथा द्रवन्तौ शुक्रामन्थिन शच्या कर्मणा निमित्तेन वनुथो वनुतः प्राप्नुतः, व्यत्ययेन मध्यमः पुरुषः । देवांशभूतेषु होमेषु प्राप्तो यः तुविनृम्णो ( निघ ० ३।१।२ ) बहुबलो ( निघण्टु २१ ९ / ९ ) मन्थिग्रहोऽस्ति अस्येमं ग्रहं मस्ती पाणी धृत्वा शर्याभिरङ्गुलीभिरादिशं प्रतिदिशं यवपिष्टैः, अश्रीणीत समन्ताद् मिश्रयत । गभस्तिः पाणिः, ' पाणी वै गभस्ती ' इति श्रुतेः । यद्वा विपश्चितोऽध्वर्यवो येषु सोमयागेषु शच्या वर्मनिमित्तभूतेन मनोबत् तिग्मं तीक्ष्णं क्षिप्रं व्याप्नुवन्ति तथा शुक्रामन्थिनो ग्रहौ द्रवन्तौ गच्छन्तौ युवां वनुथो युष्मदीयं होमं व्याप्नुथः । तेषु होमेषु कर्तव्येषु यस्तुविनृम्णो बहुधनो बहुदक्षिणोपेतोऽस्ति अस्य गभस्तौ पाणौ स्थितस्य मन्थिग्रहस्य आदिशं प्रदिशं शर्याभिः स्वाङ्गुलीभिः, आश्रीणीत आश्रयं कुर्वीत । हे मन्थिग्रह, ते तवैष प्रदेशो योनिः स्थानम् । अत्र शतपथब्राह्मणम् -- ‘ तं सक्तुभिः श्रीणाति । तद्यत् सक्तुभिः श्रीणाति वरुणो ह वै सोमस्य राज्ञोऽ-भोवाक्षि प्रतिपिषेप तदश्वय ततोऽश्वः समभवत्तस्मादश्वो नाम तस्याश्रु प्रास्यन्दत्ततो यवः समभवत्तस्मादाहु-fort यव इति तद्यदेवास्यात्र चक्षुषोऽमीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मात् सक्तुभिः श्रीणाति ' ( श ० ४ | २ | १ | ११ ) । गृहीतस्य सोमरसस्य यवपिष्टैमिश्रणं तस्योपव्याख्याने हेतुं चाह - तं सक्तुभिरिति । सतुभिः श्रीणातीति यत् तत्कारणमुच्यते । बरुणो ह वै सोमस्य सक्तोर् अक्षि अभिपिपेष तेनाभिपेषणेन, तदक्षि अश्वः अश्वयत् प्रवृद्धमभूत्, ' दुओश्वि गतिवृद्वयोः ' । तस्मात् श्वयथात् श्ववथु त्युकारस्य व्यत्ययेनाकारः ' भवे छन्दसि ' समभवत् तस्मादश्वो नाम । तस्याश्रु प्रास्कन्दत् ततो यवः समभवत् । तस्थादाहुर्वरुण्यो यवः । ( पा ० सू ० ४ | ४ | ११० ) इति यत्प्रत्ययः । यद्यस्मादस्य सोमस्य चक्षुषः सकाशाद् देवांशरूपममीयत अपगतमभृत्, देतेन यवपिष्टमिश्रणेन तेनैवांशेन एनं सोमं समर्धयति तेन च कृत्स्नं सम्पूर्णं करोति । तस्मात् सक्तुभिः श्रपणं प्रशस्तम् । स श्रीणातीति विहितं मिश्रणमनूद्य मन्त्रं विधत्ते - मनो न येष्विति । मन्त्रस्तु व्याख्यात एष तइत्यादिना । श्रुतिर्मन्त्रांशं व्याचष्टे - एष ते योनिः प्रजाः पाहीति सादयति । आद्यो भोग्यवर्गश्चन्द्रात्मकस्य मन्थिनोऽवस्थाभेद इत्युक्तम् ( ४/२/१/२ - ३ ) इत्यत्र शतपथे । प्रजाश्च भोग्याः । अतश्चन्द्रात्मकस्य मन्थिनो भोग्यप्रजारक्षकत्वं मन्त्र आहेत्यर्थः । इस कण्डिका के मन्त्रों से मन्थिग्रह में स्थित सोम का सक्तुओं से मिश्रण, ग्रहपात्र का यूपशकल से आच्छादन, हविर्धान म से निष्क्रमण आदि विधियां अनुष्ठित की जाती हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है ।

पृष्ठ 104

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० शुक्लयजुर्वेदसंहिता [ अ ० ७ अध्यात्मपक्षे - हे विपः! विपश्चितौ मेधाविनौ श्रीरामलक्ष्मणौ, कृष्णबलरामी वा युवां येषु हवनेषु दुष्ट निर्दलन साधुपरित्राणधर्मस्थापनादिकार्येषु शच्या कर्मणा प्रज्ञया वा मनोवत् क्षिप्रं तिग्मं सोत्साहं यथा स्यात्तथा वनुथो व्याप्नुथः । कीदृशौ युवाम्? द्रवन्ता तेष्वेव कर्मसु प्रचरन्तौ । तेषु कर्तव्येषु वनेषु यस्तुवि-नृम्णो बहुधनः प्रभूतैश्वर्यः प्रभूतबलो वाऽस्ति अस्येमं गभस्तौ मनोरश्मिषु मनोवृत्तिषु धृत्वा शर्याभिः सर्वाभिरङ्गुलीभिरश्रीणीत आश्रयं कुर्वीत । हे साधक, एष ते योनिः कारणमाश्रयो वा । तदाश्रये प्रजाः सर्वमेव संसारं पाहि पालय । मर्को मर्कोपलक्षितः सर्वोऽपि विघ्नकारकः । अपमृष्टो निरस्तः । मन्थिपा देवा मनातीति मन्थि मनः, तत्पान्ति रक्षन्तीति मन्थिपा देवास्त्वां प्रणयन्तु त्वदिष्टसन्निधानं प्रापयन्तु । हे भक्त्युपेते साधकबुद्धे, त्वमनाधृष्टा अनुपहिंसिता असि भवसि त्वदाश्रयेणैव साधक साफल्यमिति यावत् । दयानन्दस्तु ' हे शिल्पविद्याविचक्षण सभापते विद्वन्, एष ते राजधर्मो योनिर्गृहम् । त्वं यथा तुविनृम्णः, तुवीनि बहूनि नृम्णानि धनानि यस्य सः प्रजापतिर्विपो विविधं पातीति विपो मेधावी । ' विप इति मेधाविनामसु पठितम् ' ( निघ ० ३।१५ ) । प्रजाजनश्चतौ द्वौ युवां येषु हवनेषु धर्मेणैवादानेषु शर्याभिर्गतिभि-स्तिग्मं वज्रवत्तीव्रं ' तिग्ममिति वज्रनामसु ' ( निघ ० २।२० ) । मनो विज्ञानं न इव द्रवन्ता गन्तारौ सन्तौ शच्या प्रज्ञया ' शचीति प्रज्ञानामसु ' ( निघ ० ३।९ ) । सह आ वनुथः कामयेथे | वनोतीति कान्तिकर्मसु ( निघ ० २।६ ) । इत्थं प्रत्येकः प्रजाजनोऽस्य गभस्तौ अङ्गुल्या निर्देशे ' गभस्तयोऽङ्गु लिनामसु ' ( निघ ० २।५ ) । आदिशं दिशमभिव्याप्य यथा स्यात्तथा शत्रुनाश्रीणीत श्रीणाति पचति मर्को मरणदुःखदो दुर्नयोऽपमृष्टो दूरीकृतो भवतु । प्रजाः पाहि मन्थिपाः, ये मन्थन्ति शत्रून् तान् वीरान् पान्ति ते मन्थिपा देवा विद्वांसस्त्वां प्रणयन्तु प्रीणयन्तु । हे प्रजे, यतोऽनाधृष्टा अधर्षणीया निर्भया स्वतन्त्रा त्वमसि तं राजानं सततं रक्ष ' इति, तदप्य-विचारितरमणीयम्, सर्वस्याप्येतस्यार्थस्य कल्पनाप्रसूतत्वेन वेदबाह्यत्वात् । तथाहि - ' शिल्पविद्याविचक्षण सभापते हे प्रजे, राजानं सततं रक्षेत्यादिकं निर्मूलमेव, मूले तद्बोधक पदाभावात् । तुविनृम्ण इत्यस्य बहुधनः, far इत्यस्य च मेधावीति च त्वदुक्तोऽर्थः । तौ शब्दौ प्रजापतिप्रजाजनपरौ कथम्? सिद्धान्ते तु श्रुतिसूत्रानु-सारेण ग्रहीतुं शक्येते । संस्कृतव्याख्याने तु - ' येषु हवनेषु धर्मेणैवादानेषु ' इत्युक्तम्, हिन्दीव्याख्याने तु हवनादि -कर्मंस्वित्युक्तम्, तदपि विरुद्धमेव । गभस्तिपदेन निघण्टुरीत्याऽङ्गुलिग्रहणेऽप्यङ्गुलीनिर्देशोऽर्थोसङ्गत एव । ' आदिशं अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है - हे मेघावी श्रीराम एवं लक्ष्मण अथवा श्रीकृष्ण तथा बलराम, आप दोनों जिन दुष्टों के संहार, सज्जनों की रक्षा तथा धर्म की स्थापना आदि कार्यों में, कर्म से अथवा प्रज्ञा से मन के समान शीघ्रता सहित उत्साहपूर्वक उद्युक्त रहते हैं । आप दोनों उन्हीं कर्मों में व्याप्त रहते हैं । उन कर्तव्यों में जो बहुत ऐश्वयं-शाली अथवा अधिक बलवान् हैं, उनको ही मनोवृत्तियों में स्थापित करके सभी अंगुलियों आदि से उनका आश्रय ग्रहण करें | हे साधक! वही तुम्हारा कारण अथवा आश्रय है । उसके आश्रय में सम्पूर्ण संसार का पालन करो । मर्क आदि सम्पूर्ण विघ्नकारी निरस्त हो गये । मन्थनात्मक मन का रक्षण करने वाले देवगण तुमको इष्टदेव का सान्निध्य प्राप्त करावें । भक्ति से युक्त हे साधक की बुद्धि, तुम अहिंसित हो, क्योंकि तुम्हारे आश्रय से ही साधक की सफलता है । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ इस आर्य से गाम्भीर्य - रहित है । हे शिल्पविद्याविचक्षण सभापति, इस अर्थ के बोधक पद नहीं हैं । ' तुविनृम्ण ' शब्द का में कहा गया है । फिर उन्हीं शब्दों को प्रजापति तथा विचारक की कल्पना से ही उत्पन्न होने के कारण वेदबाह्य होने हे प्रजाओं, ये सब संबोधन अप्रामाणिक हैं, क्योंकि मूल मन्त्र में अर्थ बहुत धनवान् तथा ' विपः ' का अर्थ मेघावी भी इसी व्याक्या प्रजाजन का बोधक मानना कैसे संभव है? निघण्टु के अनुसार

पृष्ठ 105

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०१७-१८ ] वेदार्थपारिजातभाष्यसहिता ५१ अश्रीणीत ' इत्यत्रापि शत्रुशब्दः कस्य शब्दस्यार्थं इति नोक्तम्, अतस्तदपि निर्मूलमेव । मर्कशब्दस्य मरण-शत्रून् इति दुःखद इत्यर्थोऽपि निर्मूल एव । दुर्नयस्तु ततोऽपि दूरतरः । श्रुतिसूत्रानुसारी त्वर्थ उक्त एव । ' विप मेधाविनासु ' इति निघण्टुवचनं तु विपश्चित्प्रातिपदिकै देशलोपमूलक मेवेति मन्तव्यम् ॥ १७ ॥

सुप्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्यभि रायस्पोषैण॒ यज॑मानम् । सञ्जग्मानो दिवा पृथिव्या म॒न्थो म॒न्थशो॑षा॒ निर॑स्ति॒ मनो॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ॥ १८ ॥

' सुप्रजा इति प्रतिप्रस्थातोत्तरमिति ' ( का ० श्र ० ९ | १०१६ ) । सुप्रजा इति मन्त्रेण प्रतिप्रस्थाता उत्तरं यूपप्रदेशं गच्छेत् । मन्थिदैवतम् । हे मन्थिग्रहः सुप्रजाः शोभनप्रजास्त्वं यजमानसम्बन्धिनीः प्रजाः प्रजनयन् रायस्पोषेण धनस्य पोषेण पुष्ट्या सह यजमानमभि यजमानसम्मुखं परीहि परिगच्छ । ' अपरेण यूपमरत्नी सन्वत्तः संजग्मान इति ' ( का ० श्र ० ९ | १० | ७ ) । यूपस्य पश्चात् पुनररत्नी सन्धत्तः शुक्रलिङ्गेनाध्वर्युर्मन्थि-लिङ्गेन प्रतिप्रस्थातेति । दिवा पृथिव्या द्युलोकभूलोकाभ्यां सञ्जग्मानः सङ्गच्छमानः सन् मन्थी मन्थिशोचिषा मन्थिनः स्वस्यैव शोचिषा दीप्त्या, यूयं बिभर्तीति शेषः । ' निरस्तो मर्क इति प्रतिप्रस्थाता ' ( का ० श्र ० ९ / १० / ९ ) । प्रतिप्रस्थाता अप्रोक्षितं यूपशकलं निरस्येद् आभिचारिकम् । मर्कनामासुरपुरोहितो निरस्तो निराकृतः । ' मन्थिन इति प्रतिप्रस्थाति ' ( का ० श्र ० ९ ।१०।१० ) । प्रतिप्रस्थाता प्रोक्षितयूपशकलमाहवनीये प्रक्षिपेत् । शकल-दैवतम् । हे यूगशकल, त्वं मन्थिग्रहस्याधिष्ठानमधिकरणमति । अत्र शतपथब्राह्मणम् -'अथ प्रतिप्रस्थाता पर्येति । सुप्रजाः प्रजाः प्रजनयन् परीहीत्याद्यो तद्यजमानायाशिष- ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाह सुप्रजाः प्रजाः प्रजनयन् परीहीत्यभि रायस्पोषेण यजमानमिति माशास्ते यदाहाभि रायस्पोषेण यजमानमिति ' ( श ० ४ | २ | | १७ ) । प्रतिप्रस्थाता सुप्रजाः प्रजाः प्रजनयन् परीहीत्याद्यो भोग्यवर्गश्च चन्द्रात्मवस्य मन्थिनोऽवस्थाभेदः । प्रजायमानाः प्रजा भोग्याः सुवीरो । तिर वीरानिति एवैना-तु शुक्रग्रहात्मकस्य सुवीरस्य वीरान् भोक्तृन् प्रत्युत्पादकत्वमुक्तम् । ' तावपिधाय निष्क्रामतः वेतत्कुरुतस्तस्मादिम सूर्याचन्द्रमसौ प्राञ्च यन्तौ न कश्चन पश्यति तौ पुरस्तात् परीत्यापोर्णुतः पुरस्तात्तिष्ठन्तो सिच्यमानं जुहुत आविरेवैनावेतत् कुरुतस्तस्मादिमों सूर्याचन्द्रमसौ प्रत्यञ्च यन्तौ सर्व एव पश्यति तस्मात्परातः पश्चाद्भागे न च पश्यति तदु पचात् प्रजायमानः सर्व एव पश्यति ' ( श ० ४। २ १।१८ इति ) ॥ आहवनीयस्य अत्रानन्तरमेवोपात्तत्वेन ग्रहयोराच्छादनं पुरस्ताद् गत्वा तदपनयनं च विधत्ते - तावपिधाय निष्क्रामत ग्रहयोः प्राग्गमनसमये प्रकृतत्वात् प्रोक्षिताभ्यां शकलाभ्यामपि दध्यातामिति तद्विधानम् । पिधानस्य प्रयोजनं करना गभस्ति शब्द का अंगुली अर्थ मानने पर भी ' अंगुलिनिर्देश ' अर्थं तो असंगत ही है । मकं शब्द का अर्थ ' मरणदुःखद ' भी अप्रामाणिक है । श्रुति तथा सूत्र के अनुसार अर्थ हमारे सिद्धान्त पक्ष में बता दिया गया है ॥ १७ ॥

मन्त्रार्थ हे ग्रह! तुम सुप्रजा हो, यजमान सम्बन्धिनी प्रजा को उत्पन्न करते हुए धन की होकर पुष्टि के यूप साथ को यजमान के संमुख आओ । यह मन्थि नामक ग्रह अपनी दीप्ति से द्युलोक और भूलोक के साथ संयुक्त के अधिकरण हो ॥ १८ ॥

रक्षा करता है । मर्क असुर दूर चला गया है । हे यूपकाष्ठखण्ड! तुम मन्थि ग्रह भाष्यसार -- कात्यायन श्रौतसूत्र ( ९ / १० / ७ - १३ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' सुप्रजाः प्रजा ' इस

पृष्ठ 106

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ शुक्लयजुर्वेदसंहिता [ अ ० ७ लोकैरनुपलम्भाय तिरोधानम् । शुक्रामन्थिनौ सूर्यचन्द्रात्मकौ । तयोश्च प्राग्गतिर्न केनचिदुपलभ्यते । अतस्तदात्म-कयोरनयोर्ग्रहयोरपि प्राग्गत्या लोकैरनुपलब्धयैव भाव्यम् । पुरस्तात् स्थित्वा आच्छादनमपोर्णुतोऽपनयतः । तस्य प्रयोजनं ग्रहोराविष्करणम् । सूर्याचन्द्रमसौ च प्राग्गतौ सर्वैरेव दृश्येते, अतस्तदात्मकयोर्ग्रहयोरपि प्राग्भागे प्रकाशनमुपपद्यत इत्यर्थः । शाखान्तरेऽपि तथैवाम्नायते - ' असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्राखौ निष्क्रामतस्तस्मात् प्राची सन्तौ न पश्यन्ति प्रत्यचावावृत्य जुहुतस्तस्मात् प्रत्यवो यन्तौ पश्यन्ति ' ( तै ० सं ० ६ | ४ | १० ) । ननु सर्वेषां ग्रहाणां प्रत्यग्गतिरेव प्रसिद्धा न प्राग्गतिरिति चेदुच्यते यदा सूर्यश्चन्द्रमाश्च यस्मिन्नक्षत्रे तिष्ठति तदा तेनैव सह प्रत्यग्गच्छति । तत्र प्रवहणवायुवशेन तस्मिन्नक्षत्रे पुरतः शीघ्रं नीयमाने सति स्वयं पश्चाद्धीयते । स तथाविधः सन् ततः प्राचीनेन नक्षत्रान्तरेण युज्यते । सैव प्राग्गतिः । सा तु न केनचिदुपलभ्यते । तदुक्तं ज्योतिः सिद्धान्ते ' पश्चाद् व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः । नीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ॥ ' ( सूर्यसिद्धान्त म ० प्र ० ) । अथ च प्रागुदितौ सूर्याचन्द्रमसौ प्रत्यगस्तं गत्वा पुनः प्रागुदयाय प्रत्यक्तः सकाशात् पाताले प्राग्गच्छतः । तथा गच्छन्तौ तै न हरयेते, भूभागव्यवधानात् । तावेव तु प्रागुदयं गतौ दृश्येते प्राक्तस्तु प्रत्यग्गच्छन्ती अव्यवहितत्वात् सर्वैरेव दृश्येते, अतस्तदात्मनोर्ग्रहयोरपि प्राग्गतिसमये सबलाभ्यां पिधानम् । प्रत्यग्गतिसमये तदपनयनम् । यस्मात् प्राग्गमनसमये ग्रहयोराच्छादनं पुरतो गत्वा तदपनयनं कृतम्, तस्माल्लोकेऽपि पराक् पराचीनं सिच्यमानं रेतो न कश्चिदपि पश्यति पश्चात् प्रत्यगभिमुखं जायमानं तत् सर्व एव पश्यति । ' तौ जघनेन यूपमरत्नी सन्धत्तः । यद्यग्निर्नोद्वावेत यद्यु अग्निरुद्वाधेताप्यग्रेणैव यूपमरत्नी सन्दध्याता सञ्जग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषेत्येवाध्वर्युः संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषेति प्रतिप्रस्थाता चक्षुषोरेवैते आरमणे कुरुतश्चक्षुषी एवैतत्सन्धत्तस्तस्मादिमेऽभितोऽस्थिनी चक्षुषी स ११ हिते ' ( श ० ४।२।१।१ ९ ) । यूपस्य पश्चात् पुरतो वा तयोः पुनरभिसन्धानं समन्त्र माह-- तौ जघनेनेत्यादि । उद्वाधेत दहेदित्यर्थः । दिवा पृथिव्या च सङ्गच्छमानः शुक्रग्रहः शुक्रदेवतासम्बन्धिना तेजसा रक्षसामपघातं करोत्विति शेष इति सन्धान-मन्त्रार्थः । तथैव दिवा पृथिव्या च सङ्गच्छमानो मन्थिग्रहो मन्थिशोचिषा रक्षसामपघातं करोत्विति । एतेन सन्धानेन चक्षुषोरेव आरमणे सारस्थाने कुरुतः, एतस्मिन् स्थाने चक्षुषी अपि संहिते कुरुतः । यत एवं तस्माल्लौकिकानां चक्षुषी उभयतोऽस्थिमती संहिते भवतः । सोऽध्वर्युः । अप्रोक्षितं युपशकलं निरस्यति निरस्तः शण्ड इत्येवमेव प्रतिप्रस्थाता निरनो मर्क इति तत्पुराहुतिभ्योऽसुररक्षसे अपहृत: ' ( ० ४ | २ | १ | २० ) । तेन निरसनेन आहुतिकालात् प्रागेवासु रक्षसे अपहतः, अपगमय्य हिस्तः । एते चक्षुरात्मनयोर्ग्रहयोः सम्बन्धिन्यौ समिधौ यतोऽतश्चक्षुषी एताभ्यां समिन्धे उज्ज्लयत्यध्वर्युः प्रतिप्रस्थाता च । तस्माल्लौकिकानामि चक्षुषी प्रकाशमाने भवतः । ---अध्यात्मपक्षे - हे परमेश्वर, त्वं सुप्रजाः सु शोभना ब्रह्मादयः प्रजा यस्य स त्वं प्रजाः पुत्रपौत्रादिरूपा ज्ञानवैराग्यादिरूपा वा प्रजाः प्रजनयन् रायस्पोषेण धनपुष्ट्या सह यजमानं परीहि प्राप्नुहि । कीदृशस्त्वम्? कण्डिका के मन्त्रों से प्रतिप्रस्थाता द्वारा गमन, यूपखण्डों का प्रक्षेपण आदि कर्म अनुष्ठित किये जाते हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल मन्त्रार्थ उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है रूपी अथवा ज्ञान, वैराग्य आदि प्रजाओं को है परमेश्वर, आप ब्रह्मादिरूपी श्रेष्ठ प्रजाओं वाले हैं । आप पुत्रपौत्रादि उत्पन्न करते हुए घनपुष्टि के साथ यजमान को प्राप्त करें । द्युलोक

पृष्ठ 107

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १८-२० ] वेदार्थपारिजातभाष्यसहिता ५३ दिवा पृथिव्या तदुपलक्षितैः सर्वैर्लोकैः सङ्गच्छमानो महाविरारूपः सन् मन्थी मन्मथस्यापि मन्थी मन्थनशीलो मन्थिनस्तव शोचिषा दिव्यदीप्त्या मर्क: कामादिनिरस्तः, श्रीकृष्णस्य साक्षान्मन्मथमन्मथस्य शोचिषा कोटिकोटिमन्मथानां निरस्तत्वात् । हे भगवन्, त्वं मन्थिनोऽधिदैवस्याध्यात्मिकस्य मन्थिनः कामस्याधिष्ठानमसि, त्वय्येव तस्य कल्पितत्वात् । यथा सूर्ये प्रकाशकत्वाप्यायकत्वादिगुणसमर्पकस्य परमात्मनः सूर्यस्यापि सूर्यत्वम् ।, यथा वाऽयःपिण्डे दाहकत्वप्रकाशकत्मसमर्पकस्याग्नेर्दग्धुर्दग्धृत्वम्, तथैव श्रीकृष्णस्य मन्मथमन्मथत्वमुपपद्यते दयानन्दस्तु - ' भो न्यायाधीश, सुप्रजास्त्वं प्रजाः प्रजनयन् रायस्पोषेण यजमानमभिपरीहि सर्वथा तस्य धनवृद्धिमिच्छ, मन्थी त्वं दिवा पृथिव्या संजग्मानो भव, तद्गुणो भवेति भावः । यतस्त्वं मन्थिनोऽ-धिष्ठानमसि । मन्थिशोचिषा मर्को निरस्तो भवतु ' इति, तदपि न किचित्, न्यायाधीशस्य सुप्रजस्त्वस्य प्रजाप्रजनकत्वस्यानिरूपणात् । तस्य च यजमानस्य धनवृद्धिकरत्वं च नोपपद्यते । मन्थी वादविवादमन्थनशीलस्य । न च न्यायाधीशत्वम्, तस्य च धीरतादिशुभगुणेष्वासक्तत्वमपि काल्पनिकमेव । तस्य च गौणार्थकत्वमेव न्यायकारी न्यायकारिणोऽधिष्ठानं सम्भवति, आत्माश्रयदोषात् ॥ १८ ॥

देवासो दिव्येोदशस्थ पृ॑थि॒व्यामध्ये दश॒ स्थ । अ॒प्सुक्षितॊ महिनैकश॒ स्थ ते दे॒वासो य॒ज्ञमि॒मं ज॑षध्वम् ॥ १ ९ ॥ ८ उपयामगृहीतोऽस्याग्रय॒णोऽसि॒ स्वाग्रयणः पाहि यज्ञं पाहि य॒ज्ञप॑तिं विष्णुस्त्वामि॑न्द्रि॒येण॑ पातु विष्णुं त्वं पोह्यभिसव॑नानि पाहि ॥ २० ॥

कर देने वाले, एवं पृथिवीलोक आदि समस्त लोकों से समन्वित होते हुए महाविराड् रूपी होकर, कामदेव को का भी मन्थन उन्मथित करने वाले श्रीकृष्ण मनशील आपकी दिव्य दीप्ति से कामादि सब निरस्त हो जाते हैं, क्योंकि साक्षात् कामदेव काम के आश्रय हैं, की प्रभा से करोडों कामदेवों का निरास हो गया है । हे भगवन्, आप आधिदैविक, आध्यात्मिक करनेवाले परमात्मा क्योंकि आपमें ही उसकी कल्पना है । जिस प्रकार सूर्य में प्रकाशकत्व, पोषकत्व आदि गुणों को प्रदान गुणों को प्रदान करने वाली अग्नि सूर्य के भी प्रकाशक हैं, अथवा जिस प्रकार लोहपिण्ड में दाहकत्व, प्रकाशकत्व अर्द में ही मुख्य दाहकत्व है, उसी प्रकार श्रीकृष्ण का भी काम को मथित करना संगत हांथा है । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में होना निरूपित न किये जाने के कारण व्यर्थता है । न्यायाधीश का सुप्रजाओं से युक्त होना तथा प्रजा का उत्पत्तिकर्ता वह यजमान को धनवृद्धि करता है, यह भी असंगत है । न्यायकर्ता न्यायकर्ता का अधिष्ठान नहीं हो सकता, क्योंकि इसमें आत्माश्रय दोष हैं ॥ १८ ॥

मन्त्रार्थ - हे देवताओं! तुम अपनी महिमा के प्रभाव से द्युलोक में ग्यारह प्रकार के हो । महाभाग्यवान् आप सब लोग होने से पृथ्वी के ऊपर भी ग्यारह प्रकार के हो और अन्तरिक्ष में भी ग्यारह प्रकार से स्थित हो । मिल कर इस यज्ञ का आनन्द लें ॥ १ ९ ॥ आप्रयण नाम वाली श्रेष्ठता को प्राप्त करने वाले हो । मन्त्रार्थ - हे ग्रह! तुम उपयाम पात्र द्वारा गृहीत हो, सामर्थ्य से तुम्हारी अतः इस यज्ञ की रक्षा करो, यज्ञपति यजमान की रक्षा करो । यज्ञ के अधिपति विष्णुदेव अपनी ॥ २० ॥

रक्षा करें । तुम भी यज्ञदेव की रक्षा कर प्रातःसवन आदि तीनों सवत्रों की सब ओर से रक्षा करो

पृष्ठ 108

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ शुक्लयजुर्वेदसंहिता [ अ ० ७ आग्रयणं द्वयोर्धारयोर्ये देवास इति ' ( का ० श्र ० ९ २ ६ । माग्रयणसोमं गृह्णीयात् । तत्र यजमानो निग्राभ्या आग्रयणपात्रे पृथगासिवति १५ ) । धाराद्वयेन आग्रयणस्थाल्या-काऽपरा । एवं धाराद्वयं सम्पाद्यमिति कर्काचार्य: । आग्रयणस्थाल्यां सोमस्तस्यैका सा प्रथमा धारा । उन्नतृकर्तृ-होतृचमसस्था । तत्र पृथक्पृथग् धाराकरणम् । उन्नेतृयजमानयोर्धाराद्वये धारा, द्वितीया तु प्राकृती वैश्वदेवी त्रिष्टुप् परुच्छेपदृष्टा । हे देवासो देवाः, ये यूयं दिवि द्युलोके महिना क्षरति आग्रयणनामकं ग्रहं गृह्णीयात् । माहात्म्येन वा एकादश स्थ एकादशसंख्याका भवथ, तथा पृथिव्यामधि उपरि महाभाग्येन महिम्ना स्वस्व-स्थ एकादशसंख्याका भवत, एकादशेन्द्रियभेदेन श्रोतृद्राघ्रात्रादिभेदेनैकादशत्वसम्भवात् महिना स्वमाहात्म्येन एकादश ' अप्सु इत्यन्तरिक्षनामसु पठितम् ' ( निघ ० ११३८ ) । क्षियतिर्निवासार्थः । अप्सु अन्तरिक्षे । क्षियन्ति तथा अप्सुक्षितः, त्यप्सुक्षितोऽन्तरिक्षे निवसत महिना एकादश भवत । महिनेति पदं त्रिष्वपि स्थानेषु सम्बद्धयते निवसन्ती-भेदेन ते सर्वे देवा यूयं यज्ञं यजमानीयमिममाग्रयणग्रहं जुषध्वं प्रीत्या सेवध्वम् । उपयामेत्याग्रयणदैवतं । एकादशेन्द्रिय-यजुराणग्रहणे विनियुक्तम् । हे स्वाग्रयण अग्रस्य भाव आग्रम् सुष्ठु आग्रं स्वाग्रं श्रेष्ठ्यम्, तस्य अयनः स्वाग्रयणः, तत्सम्बुद्धौ हे स्वाग्रयण हे वाक्य, यज्ञं पाहि यज्ञपति यजमानं च रक्ष । विष्णुर्यज्ञरूपी देव इन्द्रियेण प्रापकः स्वसामर्थ्येन त्वां पातु, त्वमपि तादृशं विष्णुं पालय, अभितः प्रातरादीनि सवनानि पालय त्वम्, आग्रयणेति नाम्ना सम्बोधनं स्तुत्यर्थमित्युव्वटः, नामधेय लाभोऽस्य साधुक्रियायोगात् । हे आग्रयणग्रह, त्वयि गृहीतेऽग्रे प्रथमे वाचोऽयनं गमनमुत्सर्गोऽध्वर्योः सञ्जातः, यस्य त्वमेवंविधः साधुकारी स्वाग्रयणः, यस्मिन् यज्ञमित्यादि । शेषं पूर्ववत् ।, तं त्वां वमि, पाहि तत्र शतपथे विशेषः - ' आत्मा ह वा अस्याग्रयणः । सोऽस्यैष सर्वमेव सर्व ह्ययमात्मा गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णाति सर्वं वा इय सर्वमेष ग्रहस्तस्मादनया गृह्णाति तस्मादनया ४।२।२।१ ) । उपांश्वादयो ग्रहाः प्रागाद्यात्मकत्वेन विहिताः 1 अत्र तेषां प्रागादीनामाश्रयो यो मध्यदेहस्तदात्मना ' ( श ० विधास्यमानमाग्रयणग्रहं स्तौति । अस्य प्रजापतेरात्मा मध्यदेह आग्रयणस्तदुत्पत्तिस्थानत्वात्, ' आत्मन आग्रयणम् ( तै ० ब्रा ० ११५०४ ) इति श्रुतेः । प्रजापतिरपि यज्ञ एव, ' यज्ञो वै प्रजापति: ' ( तै ० ब्रा ० १ | ३ | १० ) इति श्रुतेः ' अतोऽस्य यज्ञस्याग्रयण आत्मा मध्यदेह इति प्रसिद्धः । उक्तेनात्मना अस्य ग्रहस्य प्राप्तं सर्वत्वमाह - सोऽस्यैष । इति । यस्मादयं दृश्यमानो लौकिकानां मध्यदेह आत्मा सर्वं शरीरम् । उक्तं सर्वत्वमुपजीव्य पृथिव्या ग्रहणं विधत्ते । ननु पृथिव्या ग्रहस्य ग्रहणं न सम्भवति, अशक्यत्वादेवेति तत्राह - अस्यै हीति । अस्या पृथिव्याः ग्रहस्य सकाशात् स्थाली भवति उत्पने, अतस्तादृश्या स्थाल्या ग्रहस्य ग्रहणे पृथिव्यैव ग्रहणं सम्पद्यते । ग्रहस्य पृथिव्या ग्रहणे तदीयं सर्वत्वं कारणमुक्तम्, तत्कथमिति तदाह सर्वं वा इयमिति । इयं पृथिवी सर्वं सर्वाश्रय-भूता, एष आग्रयणग्रहश्च मध्यदेहात्मत्वेन सर्वेषामङ्गानामाश्रयः, अतस्तस्य तया ग्रहणमुपपद्यत इत्यर्थः । ' पूर्ण गृह्णाति । सर्वं वै पूर्ण सर्वमेष ग्रहस्तस्मात् पूर्णं गृह्णाति ' ( श ० ४।२।२ ) । ' विश्वेभ्यो देवेभ्यो गृह्णाति । सर्वं वै विश्वे देवाः सर्वमेष ग्रहस्तस्माद्विश्वेभ्यो देवेभ्यो गृह्णाति ' ( श ० ४।२।२ ३ ) | विहितं ग्रहणस्य भूयिष्ठत्वं सोपपत्तिकं विधत्ते पूर्णं गृह्णातीति । ग्रहं पूर्णं पात्रान्तराले यथा किञ्चिदप्यवकाशो ग्रहणमनूद्य तस्य न स्यात्तथा गृह्णीयात् । लोके यत्किञ्चित्पूर्णं तत्कृत्स्नं भवति यतः, अतोऽस्य सर्वशरीरत्वादिमं ग्रहं पूर्णं गृह्णीयात् विहिते ग्रहणे देवतासम्बन्धं दर्शयति-- विश्वेभ्यो देवेभ्य इति । सवं वै विश्वे देवाः, विश्वे देवा । देवताः, ताः सर्वदेवताः, तासां सर्वदेवतात्मकत्वं विश्वे देवा इत्येतन्नाधेयत्वेनावगम्यते । तत्र सर्वशब्दार्थस्य इति काश्चन भाष्यसार - ' ये देवासः ' इत्यादि मन्त्रों से आग्रयण पात्र में आग्रयण ग्रह का ग्रहण किया जाता है । यह याज्ञिक

पृष्ठ 109

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १ ९ -२० ] वेदार्थपारिजातभाष्यसहिता ५५ , तस्माद्विश्वे देवाः विश्वशब्दस्य सद्भावेन साधारण्यावगमात् । नह्यग्न्यादयः शब्दास्तथा साधारणानि नामधेयानि सवनेषु गृह्णाति ' सर्वदेवात्मकाः । ' सर्वेषु सवनेषु गृह्णाति । सर्वं वै सवनानि सर्वमेष ग्रहस्तस्मात् सर्वेषु । तमत एव तन्वीरन्नतः ( श ० ४।२।२।४ ) । प्रातः सवनादीनि त्रीणि सर्वं यस्य शरीरम् । स यदि राजोपदस्येत् हारियोजनं ग्रहं गृह्णाति प्रभावयेयुरात्मा वा आग्रयण आत्मनो वा इमानि सर्वाण्यङ्गानि प्रभवन्त्येतस्मादन्ततो ) । पात्रान्तरगतस्य सोमरसस्य तस्मादात्मन्येवास्यां प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति ' ( श ० ४ । २ । २।५ । विस्तारयेयुरध्वर्यवः । यथा आत्मनो मध्यदेहे क्षयेऽस्मादेव ग्रहात्तं समर्धयेदित्याह तन्वीरन्निति पश्चमी । करचरणादीन्यङ्गानि प्रभवन्ति । ' भुव प्रभवः ' ( पा ० सू ० १ | ४ | ३१ ) इत्यपादानसंज्ञायामपादाने गृह्णीयात् । अतस्तदात्मकानां सोमानामुत्पादनं युक्तम् । सवनत्रयपरिसमाप्त्यनन्तरमस्माद् ग्रहाद्धारियोजनं प्रतिष्ठितो तदात्मन्येवेति । तत् तेन ग्रहणेन आत्मनि स्वकीयमध्यदेहलक्षणायां प्रतिष्ठायां यज्ञ उपांशुग्रहादिरूपः भवति । मध्यशरीरं हि सर्वेषामङ्गानां प्रतिष्ठा । ' अथ यस्मादाग्रयणो नाम । यां वा अमूं ग्रावाणमाददानो वाचं यच्छत्यत्र वै साग्रेऽवदत्तद्यत् ग्रहस्य सात्राऽग्रेऽवदत्तस्मादाग्रयणो नाम ' ( श ० ४।२।२२६ ) । यस्माच्छब्दप्रवृत्तिनिमित्तादाग्रयणशब्दो नामधेयं ततोऽथ किमित्यर्थः । अथशब्दः प्रश्ने ( अ ० को ० ३।३।२४६ ) । यं ग्रावाणमुपांशुसवनाख्यमाददानो वाचः अयनम् यां वाचमयच्छत्, सा वागत्र समयेऽग्रे पुरस्तादवदत् । अत्र वदतेर्गत्यर्थे पर्यवसानम् । तस्मादग्रे आग्रयण इति ग्रहस्य अग्रयणम्, ' शकन्ध्वादित्वात् पररूपम् ' ( पा ० सू ० वा ० १ | १ | ६४ ), अग्रयणस्य सम्बन्धी आमनन्ति - ' साऽमन्यत नामधेयम् । आग्रयणशब्दस्य अग्रे वाच आगमनं प्रवृत्तिनिमित्तमिति प्रत्यक्षं तित्तिरय वै तां भीषा वागन्तर्यन्ति वै मेति साग्रयणं प्रत्यागच्छत्तदाग्रयणस्याग्रयणत्वम् ' ( तै ० सं ० ६ । ४ । ११ ) ' रक्षोभ्यो सर्वं वै संवत्सरः ' बाचमयच्छत् । षड्वा अतः प्राचो ग्रहान् गृह्णात्यथैष सप्तमः षड् वा ऋतवः संवत्सरस्य अत्र वै साग्रेऽवददिति, ( श ० ४।२।२ | ७ ) । यतो ग्रहस्याग्रयणनामव्युत्पादने वाचो वचनं सिद्धवत्कृत्याभिहितम् - एवैष अतस्तेनैवाध्वर्योराग्रयणे वाग्वदनं प्राप्तम् । ' तां देवाः । सर्वस्मिन् विजितेऽभयेऽनाष्ट्रेऽत्राग्रे वाचमवदंस्तथो विजिते एता सर्वस्मिन् विजितेऽना त्राग्रे याचं वदति ' ( श ० ४।२।२८ ) । सर्वे देवाः सर्वस्मिन् संवत्सरे स्वायत्तेऽभयेऽनाष्ट्रे नाशयितृ रक्षः प्रभृतिरहिते, अग्रे पुरस्तात् तां वाचमवदन्, अत ऋतुषट्करूपसंवत्सरात्मके ग्रहषट्के गृहीते सति सर्वं विजितमभयमनाष्ट्रं भवतीति तदनन्तरमाग्रयणग्रहे देवानुसारेणाध्वर्युरेतां वाचमुदितवान् भवति । तस्मादाग्रयणग्रहेऽध्वर्योर्वाग्वदनमुपपन्नमिति भावः । ' अथातो गृह्णात्ये ॥ ये देवासो यज्ञमिमं सद्विपर्यासं जुषध्व-मुपयामगृहीतोऽस्याग्रयणोऽसि स्वाग्रयण इति वाचमेवैतदयातयाम्नीं करोति तस्मादनया समान यदत्यजामितायै जामिह कुर्याद्यदाग्रयणोऽस्याग्रयणोऽसीति गृह्णीयात्तस्मादाहाग्रयणोऽसि स्वाग्रयण इति ' ( श ० ४।२।२।९ ) । मन्त्रस्तु व्याख्यातः । ग्रहस्य विहितं ग्रहणमनूद्य मन्त्रं चतुर्धा विभज्य व्याचष्टे श्रुतिः- आग्रयणोऽसि स्वाग्रयणोऽसीति । एतद्वाक्याभिप्रायमाह -- अथात इत्यादिना । एतद् एतेन आग्रयणोऽसि स्वाग्रयण इत्येवमुच्चारणे-नोक्तरूपां वाचमयातयाम्नी करोत्यनपगतसारा करोति, यद्याग्रयणोऽसि स्वाग्रयणोऽसीत्युक्त्वा गृह्णीयादाग्रयणाख्यं ग्रहम्, तर्हि जामि नैरस्यं हि कुर्यात्, वाक्यद्वयेनाप्येकार्थस्य प्रतीतेर्विशेषानवगमाद् वैरस्यं वाचः, तस्मादनया आग्रयणोऽसि स्वाग्रयण इत्येवंविधया वाचा समानमेकरूपं सदपि सोमद्रव्यं विपर्यासं विपर्यस्यान्यथा कृत्वाऽध्वर्यु-वंदति । विपर्यासमिति बहुलग्रहणादनाभीक्ष्ण्येऽपि ( पा ० सू ० ३।१।८५ ) णमुल्प्रत्ययः । तथा च स्वाग्रयण इत्यत्र ' सु ' इत्यस्य शब्दस्य प्रयोगादर्थविशेषावगतेनेंरस्यं न भवतीत्यर्थः । विनियोग कात्यायन श्रौतसूत्र ( ९ ।१० / १४, ९ । ३।११ ) में वर्णित है । शतपथ ब्राह्मण आदि के अनुकूल सायणाचार्य ने

पृष्ठ 110

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ [ अ ० ७ ' पाहि यज्ञं पाहि यज्ञपतिमिति । वाचमेवैतदुपसृष्टामाह गोपाय यज्ञमिति पाहि यज्ञपतिमिति वाचमेव-तदुपसृष्टामाह गोपाय यजमानमिति यजमानो हि यज्ञपतिर्विष्णुस्त्वामिन्द्रियेण पातु विष्णुं त्वं पाहीति वाचमेवैतदुपसृष्टामाह यज्ञो वै विष्णुर्यज्ञस्त्वां वीर्येण गोपायत्विति विष्णुं त्वं पाहीति वाचमेवैतदुपसृष्टामाह यज्ञं त्वं गोपायेत्यभि सवनानि पाहीति तदेतं ग्रहमाह सर्वाणि येष सवनानि प्रति ' ( श ० ४ | २ || १० ) | पाहि यज्ञपतिमिति द्वितीयभागं व्याचष्टे -- वाचमेवैतदिति । यद्वाक्यं गोपाय यज्ञमित्युपसृष्टां वाचमेव सम्बोध्याह, न त्वाग्रयणमिति भावः । प्रथमभागस्य व्याख्यानेन व्यवधानात् पाहि यज्ञपतिमिति पुनरवयवस्योपादानम् । एवं सर्वत्र । तृतीयभागं विवृणोति -- यज्ञो वै विष्णुरिति । वेवेष्टि व्याप्नोतीति विष्णुः । यज्ञश्च व्यापकत्वाद्विष्णुरिति व्यपदिश्यते । वैशब्दोऽत्र यज्ञस्य व्याप्तेः प्रत्यक्षप्रसिद्धि द्योतयति । अथवा तेनापशीष्ण यज्ञेन यजमान इति क्वचिद् ब्रुवता पूर्वं तेषां मखं वैष्णवं यज्ञमृच्छतीत्यादि महतोपाख्यानेन विष्णुविषय एवार्थो बर्णितः । अतस्तस्य प्रकृतत्वादपशीर्णा यज्ञेन विष्णुरेवाभिहितः, वैशब्दस्तां द्योतयति । चतुथं भागं व्याचष्टे - अभि सबनानीति । तत् तेनोक्तेन वाक्येनाध्वर्युरेतं प्रकृतमाग्रयणं ग्रहमाह, न तुत्सृष्टां वाचमित्यर्थः । कुत इत्याह- सर्वाणि ह्येष सवनानि प्रतीति । एष चाग्रयणग्रहः सर्वाणि सवनानि प्रति प्रातरादीनि त्रीणि सवनानि प्रतिलक्ष्य दृश्यते यतः, अतोऽभिसवनानीत्यादिवाक्यमाग्रयणं प्रत्येव प्रयुक्तम् । तस्मादयं निर्गलितो मन्त्रार्थ: --- हे देवाः, ये यूयं द्युलोके स्वमहिम्ना एकादश स्थ, पृथिव्या उपरि महा-भाग्येन एकादश स्थ, ये चाप्सुक्षितोऽन्तरिक्षे निवसन्तो महिम्ना एकादश स्थ, ते सर्वे यूयं यज्ञम् आग्रयणग्रहलक्षणं जुषध्वम् । हे ग्रह, त्वमुपयामेन स्वीकृतोऽसि आग्रयणनामासि, अतः स्वाग्रयणः शोभनमग्रे वाचोऽयनमागमनं यस्य स तादृशोऽसि । हे वाक्, त्वं यज्ञं पाहि । यज्ञपति याज्ञिकं पाहि । विष्णुर्यज्ञस्त्वामिन्द्रियेण बीर्येण पातु, त्वं च विष्णुं पाहि । हे आग्रयणग्रह, त्वं सवनान्यभितः पाहि । यद्यप्यन्ये ग्रहमेव सम्बोध्य व्याचक्षते, तथापि बाचमेवैतदुपसृष्टामाहेति ब्राह्मणानुसारेणैव व्याख्यानं युक्तमिति सायणाचार्यः । ' सा हैषा वागनुद्यमाना तताम तस्यां देवा वाचि तान्ताया " हिङ्कारेणैव प्राणमदधुः प्राणो वै हिङ्कारः प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कतुं शक्नोति सैतेन प्राणेन समजिहीत यदा वै तान्तः प्राणं लभतेऽय संजिहीते तथो एवैष एतद्वाचि तान्ताया. हिङ्कारेणैव प्राणं दधाति सैतेन प्राणेन संजिहीते त्रिष्कृत्वो हिङ्करोति त्रिवृद्धि यज्ञः ' ( श ० ४।२।२।११ ) । अनुद्यमाना अनुच्चार्यमाणा सती तताम ग्लानि प्राप्तवती, उच्चारणस्यैव तज्जीवनत्वात्, तमु क्लान्तौ । अध्यात्मपक्षे -- ये यूयं देव सो देवा दिवि द्युलोके महिना महाभाग्याद् एकादशसंख्याका भवथ, ये पृथिव्यामुपरि ये चाप्सुक्षितोऽन्तरिक्षनिवासिन एकादशसंख्याकाः सन्ति, पश्च कर्मेन्द्रियाणां पञ्चज्ञानेन्द्रियाणामन्तः-करणस्य चाधिष्ठातारस्ते इमं यज्ञं भगवदाराधनलक्षणं यज्ञं प्रीत्या सेबध्वम् । हे परमेश्वर, उपयामगृहीतोऽसि भक्त्याऽनुरक्त्या वशीकृतोऽसि, आग्रयणोऽसि आग्रं श्रेष्ठ्यमयति प्रापयतीत्याग्रयणोऽसि, परमेश्वरानुग्रहेणैब श्रेष्ठ्या बाप्तेः । सुष्ठु आग्रं ब्राह्मपदम् अयति प्रापयतीति स्वाग्रयणो यज्ञः सोमादिलक्षण उपासनालक्षणो वा, तं याज्ञिक प्रक्रिया के अनुसार मन्त्रव्याख्यान किया है । महान् ऐश्वर्य प्रभाव के कारण युलोक में ग्यारह एकादश संख्यात्मक होते हैं, वे पांच कर्मेन्द्रियों, अध्यात्मपक्ष में अर्थ इस प्रकार है- हे देवगण, आप लोग जो संख्या वाले हैं, जो पृथिवी पर तथा जो अन्तरिक्ष में निवास करने वाले पांच ज्ञानेन्द्रियों तथा अन्तःकरण के अधिष्ठाता इस भगवदाराधनात्मक यज्ञ का प्रीतिपूर्वक सेवन करें ।