वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 111–120
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 111–120
पृष्ठ 111
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२० ] वेदार्थपारिजातभाष्यसहिता ५७ पाहि रक्ष । यज्ञपति यजमानमुपासकं वा रक्ष । साधकं प्रत्याह-- हे साधक, विष्णुर्यज्ञस्तदधिष्ठातृदेवो नारायणो वा त्वामिन्द्रियेण वीर्येण उपासने काग्र्यादिना पातु रक्षतु । त्वं च विष्णुं परमेश्वरं रङ्काश्चिन्तामणिमिव स्वहृदये रक्ष गोपाय । सवनानि प्रातरादीनि सवनानि परमेश्वराराधनरूपाणि पाहि निर्वर्तय । मन्त्रद्वयस्य दयानन्दीयं व्याख्यानं यथा -- ' ये महिना स्वमहिम्ना दिवि विद्युति एकादश प्राणापानोदान-समानव्याननागकूर्मकृकलदेवदत्तधनञ्जयजीवाः स्थ सन्ति, पृथिव्यां भूमौ अधि उपरि एकादश महिना पृथिव्यप्तेजो- महिम्ना वाय्वाकाशादित्यचन्द्रनक्षत्राहङ्कारमहत्तत्त्वप्रकृतयः सन्ति, अप्सुक्षितः प्राणेषु क्षियन्ति, तद्वद् राजसभा-श्रोत्रत्वक्चक्षूरसनाघ्राणवाक्पाणिपादपायूपस्थमनांसि सन्ति, ते देवासस्ते यथा स्वकर्मसु वर्तन्ते सदो विद्वांसो यज्ञं राजप्रजासम्बद्धव्यवहारमिमं प्रत्यक्षं जुषध्वं सेवध्वम् ' इति, तदपि यत्किञ्चित् वाचकलुप्तो-पमालङ्कारच्छ्लेन स्वेच्छाचारित्वाश्रयणात् । न च राजसभासदां राजप्रजासम्बद्ध व्यवहारस्य दिव्याः वा बोधकाः तेषां शब्दा मन्त्रे सन्ति । न च विद्युति प्राणादयः सन्ति, तस्या जडत्वात् । न वा प्राणादयो ग्लान्यादिदर्शनात् । नहि जीवः प्राणादिषु गणनार्हः, तस्य चेतनत्वात् । न वा भूमी पृथिव्यप्तेजोवाय्वाकाशादीनां कारणत्वेन सम्भवः, पृथिव्यां पृथिव्यन्तरादर्शनात्, आदित्यस्य तेजस्यन्तर्भावाच्च । अहङ्कारमहत्तत्त्वादीनां युक्तः । ते यथा विकारमात्रेषु सत्त्वमिति न तेषामत्र गणना युक्ता, श्रोत्रादीनां प्राणादिषु सत्त्वे तत्रैवान्तर्भावो स्वकर्मसु वर्तन्ते, तथा सभासद्भिरपि स्वस्वकर्मसु वर्तितव्यमिति कथञ्चिद् वक्तुं शक्यत्वेऽपि राजप्रजासम्बद्ध- क्वचित् व्यवहारसेवनाद्युपदेशस्त्वननुरूप एव । न च तस्य यज्ञत्वमपि सम्प्रतिपन्नम् । न च पृथिव्याकाशादयः प्रवर्तन्ते, तेषां जडत्वात्, आकाशादीनां निर्विचेष्टत्वाच्च । द्वितीये मन्त्रे यदुक्तम्- ' हे सभापते राजन् उपदेशक वा, यतस्त्वमुपयामगृहीतोऽसि, अतो तद्वदाग्रयणोऽसि विनयादिराज -, गुणैर्युक्तो यज्ञं राजप्रजापालकं पाहि । स्वाग्रयण इवाग्रयणोऽसि, शोभनश्चासावाग्रयणश्चेति विद्वान् त्वामिन्द्रियेण तस्माद् यज्ञपतिं संगतस्य न्यायस्य पालकं पाहि । अयं विष्णुः सकलशुभगुणकर्मव्यापी पाहि ' । मनसा धनेन वा, ' इन्द्रियमिति धननामसु ' ( निघ ० २।१० ) पातु । त्वं न्यायाधीशोऽभिसवनान्यैश्वर्याणि , तथोत्तर्माविचार-स्वाग्रयण इवाग्रयणोऽसीत्यस्य व्याख्यानं हिन्दीभाष्ये यथा -- ' विज्ञानयुक्तकर्मणां प्रापका भवन्ति । परमेश्वर की कृपा से ही हे परमेश्वर, आप भक्ति अनुराग से वशीकृत हैं, श्रेष्ठता को प्राप्त कराने वाले सोमादि हैं यज्ञ अथवा उपासनात्मक श्रेष्ठत्व को प्राप्ति होती है । आप उत्तम ब्राह्म पद को प्राप्त कराने वाले हैं । आप इस यज्ञ अथवा यज्ञ की रक्षा करें । यजमान अथवा उपासक की भी रक्षा करें । साधक के प्रति कहा जाता है कि हे साधक, द्वारा और उपासना, एकाग्रता आदि रक्षा करें । उसके अधिष्ठाता भगवान् नारायण तुम्हारी इन्द्रियों में बल के आधान जिस प्रकार निर्धन व्यक्ति चिन्तामणि का रक्षण करता है, तुम भी उसी प्रकार अपने हृदय में परमेश्वर विष्णु की रक्षा करो । प्रातः आदि परमेश्वर के आराधनात्मक तीन सवनों का अनुष्ठान करो । दोनों मन्त्रों का स्वामी दयानन्द के द्वारा वर्णित व्याख्यान वाचकलुप्तोपमा अलंकार के बहाने से स्वेच्छाचारिता शब्द मन्त्र से परिपूर्ण होने के कारण अग्राह्य है । राजा के सभासदों तथा राजा प्रजा से सम्बद्ध व्यवहार हैं, के क्योंकि बोधक उनमें ग्लानि में नहीं हैं । विद्युत् में प्राण आदि भी नहीं हैं, क्योंकि वह जड़ है । प्राण आदि दिव्य भी नहीं तेज, आदि भाव प्रत्यक्ष हैं । चेतन होने के कारण जीव की गणना प्राणादि में नहीं हो सकती । भूमि में पृथिवी, जल, में कोई दूसरी पृथिवी नहीं दृष्टिगोचर होती । जड़ होने के कारण वायु, आकाश आदि संभव नहीं हैं, क्योंकि पृथिवी पृथिवी, आकाश आदि कहीं स्वयं प्रवृत्त नहीं होते । ८
पृष्ठ 112
पाठ पढ़ें पाठ छिपाएँ
५८ शुक्लयजुर्वेदसंहिता [ अ ० ७ युक्तकर्मणां ग्राहकस्त्वं भवेति ' इति एतदपि यत्किञ्चित् स्वेच्छयैव तत्र तत्रोपयामशब्दस्य भिन्नभिन्नार्थग्रहणे-नान्यैरन्यथा ग्रहणसम्भवे विनिगमनाविरहात् । अत्र सम्बोध्यः सभापतिरित्यपि निर्मूलम् । राजप्रजापालको यज्ञोऽप्यसम्प्रतिपन्न एव । स्वाग्रयणाग्रयणादिशब्दयोरपि त्वदुक्तार्थबोधकत्वे मूलाभाव एव । सुमनुष्य इव मनुष्योऽसीतिवद् विरुद्धं च तत् सूपसर्गभावाभावाभ्यामाप्रयणशब्दयोः शुभविचारयुक्तकर्मणां प्रापकत्व-ग्राहकत्वभेदासम्भवात् । न च विद्वान् मनुष्यो गुणेषु वेवेष्टीत्यपि युक्तमुक्तम्, गुणानां द्रव्याधि करणत्वा-सम्भवात् ॥ १ ९ -२० ॥ सोम॑ः पवते॒ सोम॑ः पवत॒ऽस्मै॑ ब्रह्मण॒ऽस्मै॑ क्ष॒त्राया॒ऽस्मै॑ सु॑न्व॒ते यज॑मानायँ पवत इ॒ष ऊ॒र्जें प॑वते॒ऽद्भय ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॒ पव॑ते सुभू॒ताय॑ पवते॒ विश्वे॑भ्य॒स्त्वा दे॒वेभ्य॑ः । ए॒ष ते॒ योनि॒विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ॥ २१ ॥
' दशापवित्रेणाग्रयणमुपगृह्य त्रिहिङ्कृत्य सोमः पवत इति सकृच्छेषम् ' ( का ० श्र ० ९ ६ । १६ ) । ग्रहसम्मार्जनार्थं दशापवित्रेणाग्रयणमुपगृह्य तेन दशापवित्रेण स्थाल्या मुखदेशं सोमव्यवसेक परिहारार्थं वेष्टयित्वा हिशब्द वारत्रयमुच्चार्य ततः सोमः पवत इति त्रिरुच्चार्य शेषम् अस्मै ब्रह्मण इत्यादिकं सकृज्जपेत् । अत्र वाग्विसर्गोऽध्वर्वादीनाम् । वैश्वदेवदैवत्यम् । सोमः पवते गच्छति । पवतेर्गत्यर्थत्वाद् ग्रहपात्रेषु स्वकीये कर्मणि प्रवर्तत इत्यर्थः । द्विरुक्तिरादरार्था, द्वितीयोच्चारणं भयापगमसूचनार्थं वा । असुरराक्षसभयादेव वाचोऽनुच्चारणस्य ब्राह्मणेनोक्तत्वात् । किमर्थम्? अस्मै प्रत्यक्षसिद्धाय ब्रह्मणे ब्राह्मणजातिप्रीत्यर्थम्, अस्मै क्षत्राय क्षत्रिय जातिप्रीत्यर्थम्, अस्मै सुन्वते सोमाभिषवं कुर्वते यजमानाय तदभीष्टकामप्राप्त्यर्थं पवते सोमः, इषेऽन्नाय, ऊर्जे रसाय तदुपसेचनाय क्षीरादये, तन्निष्पत्त्यर्थं पवते । अद्भूयो वृष्टिभ्य ओषधीभ्यो व्रीहियवादिसस्य-सिद्ध्यर्थं पवते । द्यावापृथिवीभ्यां द्युभूलोकप्रीणनाय पवते । सुभूताय सर्वेषां साधुभवनाथ पवते । हे आग्रयण ग्रह, तादृशं त्वां विश्वेभ्यो देवेभ्यः सर्वदेवप्रीत्यर्थं गृह्णामीति शेषः । एष त इति सादयति - हे ग्रह, एष खरस्ते दूसरे मन्त्र की व्याख्या में ज. कहा गया है, वह भी निरर्थक है, क्योंकि स्वेच्छा से ही स्थान स्थान पर उपयाम शब्द के भिन्न - भिन्न अर्थ ग्रहण करने पर किसी दूसरे के द्वारा कोई अन्य हो अर्थ मानना सम्भव है तथा उसमें कोई निश्चित युक्ति नहीं । इसमें सभापति को सम्बोधित किया जाना चाहिये, यह भी अप्रामाणिक है । राजा प्रजा का पालक यज्ञ है, यह भी असिद्ध ही है | स्वाग्रयण तथा आग्रयण शब्दों के भी इस अर्थ के बोधन में कोई
प्रमाण नहीं है । १ ९ -२० ॥
मन्त्रार्थ - यह सोम इस ब्राह्मण जाति की प्रीति के लिये ग्रहपान में क्षरित होता है, क्षत्रिय जाति को तुष्टि के लियेप्रहपात्र में क्षरित होता है, सोमाभिवव करने वाले यजमान के निमित्त प्रहपात्र में क्षरित होता है, अच्छी वर्षा और औषधियों के लिये क्षरित होता है, आकाश और पृथ्वीलोक की समृद्धि के लिये क्षरित होता है, समस्त चराचर प्राणी और तीनों लोकों के सन्तोष के लिये क्षरित होता है, प्राणीमात्र के आनन्द के लिये यह सोम महपात्र में क्षरित होता है । हे ग्रह! यह तुम्हारा स्थान है । सम्पूर्ण देवताओं की प्रीति के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ २१ ॥
भाष्यसार - ' सोमः पवते ' इस मन्त्र का पाठ आग्रयण ग्रह का ग्रहण करने के अनन्तर किया जाता है ।
पृष्ठ 113
पाठ पढ़ें पाठ छिपाएँ
म • २१ ] वेदार्थपारिजातभाष्यसहिता ५ ९ योनिः स्थानम्, विश्वेभ्यो देवेभ्योऽर्थे त्वां सादयामि । अथ दशापवित्रेणोपगृह्य हिङ्करोतीत्यादिना ग्रहणानन्तरं दशापवित्रेण सह ग्रहं दशापवित्रवन्तं ग्रहं स्वीकृत्य हिकुर्यात् । ' दशापवित्रेणाग्रयणमुपगृह्य त्रिहिङ्कृत्य ' ( का ० ०२१६/१६ ) इति विहितं हिङ्कारं प्राणात्मना स्तौति । हिङ्कारस्य प्राणत्वादेव लोके कश्चिदपि नासिके अपि-गृह्य न हिङ्कर्तुं शक्नोति । नासिकयोः प्राणसञ्चारस्थानत्वात् तेन प्राणेन सा वाक् समजिहीत संगताऽभूत्, अतो लोकेऽपि यदा जनतान्तः क्लान्तः सन् प्राणं लभते तदा वाचा सङ्गच्छते तद्वदेव एषोऽध्वर्युहिङ्कारेण तान्तायां क्लान्तायां वाचि प्राणं दधाति सा च तेन प्राणेन सङ्गच्छते । त्रिष्कृत्वो हिङ्करोति त्रिवृद्धि यज्ञः । त्रिवृत् त्रिगुणो यज्ञेऽग्निपरिधिः, सवनादीनां त्रित्वात् । ' अथाह सोमः पवते ' ( श ० ४।२।२।१२ ) इत्यादिना अध्वर्योर्वाग्विसर्गसाधनमन्त्रमाह । ' अथाह सोमः पवत इति । स यामेवामूं भीषाऽसुररक्षसेभ्यो न निरब्रुवंस्तामेवैतत् सर्वस्मिन् विजितेऽ-भयेनात्र निराह तामाविष्करोति तस्मादाह सोमः पवत इति ' ( श ० ४ । २ । २।१२ ) । हिङ्कारानन्तरमध्वर्यो -र्वाग्विसर्गसाधनं मन्त्रमाह- अथाह सोमं पवते । सोऽध्वर्युः, असुररक्षसेभ्यो भीषा भयेन याममूं वाचं न निरब्रुवन् नावोचत् व्यत्ययेन ( पा ० सू ० ३ | १ | ८५ ) बहुवचनम् । एतद् एतेन सोमः पवत इत्यस्योच्चारणेन सर्वस्मिन् विजिते स्वायत्ते सति तां वाचं निराह । अस्यैव व्याख्यानम् - तामाविष्करोति तस्मादेवोच्चारयेत्, ' आग्रयणं गृहीत्वा कृत्वाचं विसृजते ' इत्यापस्तम्बश्रौतसूत्रवचनात् । सोमः पवत इत्यस्य पुनरुच्चारणं भयापगम-सूचनार्थम् । अत एव कात्यायनोऽपि सोमः पवत इत्यस्य त्रिरुच्चारणं सूत्रितवान् - ' त्रिहिङ्कृत्य सोमः पवत इति सकृच्छेषम् ' ( का ० श्रौ ० ९ ।६ | १६ ) | ' अस्मै ब्रह्मणेऽस्मै क्षत्रायेति । तद् ब्रह्मणे च क्षत्राय चाहास्मै सुन्वते यजमानाय पवत इति तद्यजमानायाह ' ( ० ४।२।२।१३ ) | ब्रह्मक्षत्रयोः समृद्धयै ब्रूत इत्यर्थः । ' तदाहुः । एतावदेवोक्त्वा सादयेदेतावद्वा इदः. सर्वं तस्मादेतावदेवोक्त्वा सादयेदिति ' ( श ० ४।२।२।१४ ) । केषाञ्चिन्मतम् - केषाञ्चिद्रीत्या सर्वमिदं दृश्यम् । इन्द्राग्नी हि प्राधान्येन सर्वात्मकौ तौ च ब्रह्मक्षत्रयोरधिदेवते, तयोस्तद्रूपकत्वेन सर्वात्मकत्वात् । अस्मै ब्रह्मणे अस्मै क्षत्राय इत्येतावदेवोक्त्वा सादयेदिति । स्वमतमाह – ' तदु ब्रूयादेव भूयः । इष ऊर्जे पवत इति वृष्टयै तदाह यदाहैष इत्यूर्जं इति यो वृष्टादूर्ग्रसो जायते तस्मै तदाहाद्भय ओषधीभ्यः पवत इति तदद्भय-चौषधीभ्यश्चाह द्यावापृथिवीभ्यां पवत इति तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिद, सर्वमधि सुभूताय पवत इति साधवे पवत इत्येवैतदाह ' ( श ० ४ | २ | २ | १५ ) | यद्यपि ब्रह्मक्षत्रे सर्वात्मके इति तावतैव पर्याप्तम्, तथापि ब्रह्मणे क्षत्राय चेत्युक्तौ तयोरेव समृद्ध्यर्थम्, अत इष ऊर्जे इत्याद्यति ब्रूयादेव इष इति वृष्ट्ये इत्याह, ' इडित्यन्नम् ' ( निघ ० २ | ७ | १५ ) । तत्साधनस्य वृष्टेरपि कार्यकारणभेदविवक्षया इडिति व्यपदेशः । वृष्टाद् वृष्टेः सकाशात्, ' नपुंसके भावे क्तः ' ( पा ० ३।३।११४ ) इति क्तप्रत्ययः । ऊ अन्नरसो जायते, तत्समृद्धये ऊर्ज इति वचनम् । ययोर्द्यावापृथिव्योः सर्वमिदं दृश्यमानं सर्वमप्याश्रितम्, ताभ्यां पवत इत्युक्ते समस्तजगतः समृद्धये भवतीत्यर्थः । साधवे लोके यः कश्चन न्यायवर्ती जनस्तस्मै पवत इत्याह मन्त्रः । ' दु है आहुः । ब्रह्मवर्चसाय पवत इति तदु तथा न ब्रूयाद् यद्वा आहास्मै ब्रह्मण इति तदेव ब्रह्मवर्च-सायाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयत्यात्मा ह्यस्यैष मध्य इव ह्ययमात्मा दक्षिणोक्थ्यस्थाली भवत्युत्तरादित्यस्थाली ' ( श ० ४ | २ | २ | १६ ) । केचिच्छाखिनो ब्रह्मवर्चसायेत्येतत्पदं पठन्ति, तदनवगतमित्यनूद्य निराकरोति -- तदु तथा न ब्रूयादिति । ब्रह्मणे पवत इति यत् तद् ब्रह्मवर्चसाय पवत कात्यायन श्रौतसूत्र ( ९ / ६ / १५ ) में इसकी पूरी याज्ञिक विधि वर्णित है । शतपथ ब्राह्मण में याज्ञिक विनियोग के
पृष्ठ 114
पाठ पढ़ें पाठ छिपाएँ
६० शुक्लयजुर्वेदसंहिता | अ ० ७ इत्युक्तं भवति । वृत्तस्याध्ययनस्य समृद्धिर्ब्रह्मवर्चसं भवति, ' स्याद् ब्रह्मवर्चसं वृत्ताध्ययनद्धि: ' ( २ | ७ | ३८ चेन्न ), इत्यमरकोषात् । ननु पूर्वग्रहेष्वपि मन्त्राम्नानात् कथं तूष्णीं ग्रहणम्, वाग्विसर्गस्याग्रयणग्रह उक्तत्वादिति वाचं यच्छतीत्यनेनोपांशुध्वनिविवक्षितः । ' यान् प्राचीनमाग्रयणाद् ग्रहान् गृह्णीयात् तानुपांशु गृह्णीयात्, यातूस्तानुपद्विमतः ' ( तै ० ब्रा ० ३३११ ९ ) । गृहीतस्य सोमस्य समन्त्रकं सादनं विधत्ते - विश्वेभ्यस्त्वा देवेभ्य इत्यादि । हे आग्रयण, विश्वेभ्यो देवेभ्यस्त्वामासादयामि । एष खरप्रदेशस्तवावस्थानम् । तं वै मध्ये सादयति । तत्कारणमुच्यते --- अस्य यज्ञस्याग्रयणग्रह आत्मा, ' आत्मा ह वा अस्याग्रयणः ' इति श्रुतेः । आत्मा च मध्य इव हि मध्यभाग इत्यर्थः । यथा सादितस्य ग्रहस्य उक्थ्यस्थाली दक्षिणा उत्तरा च आदित्यस्थाली, तथा मध्यशरीररूपमाग्रयणं मध्ये सादयेदित्यर्थः । अध्यात्मपक्षे – सोमः साम्ब सदाशिव:, अस्मै ब्रह्मणे ब्राह्मणजातिहिताय पवते सर्वं वस्तु दृष्टिमात्रेण पवित्रयति । अस्मै क्षत्राय च सर्वं पवित्रयति, सोमं सुन्वते सोमयागकर्त्रे यजमानाय च पवते, इषे अन्नाय ऊर्जे अन्नरसाय अयो वृष्टिभ्य ओषधीभ्यो व्रीहियवादिभ्यस्तत्सिद्धयर्थं पवते चेष्टते क्रियावान् भवति, वस्तुतः कूटस्थोऽविक्रियो निष्क्रियोऽपि सन् मायया व्यापारवानिव भवति । ' त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुद्धयते त्वदाश्रयत्वादुपचर्यते गुणैः ॥ ' ( भा ० पु ० १० | ३ | १ ९ ) इति श्रीमद्भागवतवचनात् । द्यावापृथिवीभ्यां तदुपलक्षितस्य सर्वलोकस्य प्रीणनाय चेष्टते । किं बहुना, सर्वेषां साधुभावनाय चेष्टते । नन्वेवं सति कथं परमेश्वरस्य प्रयत्नेऽपि जना दुर्वृत्ता भवन्तीति चेच्छ्णु, स्वस्वप्राक्तनकर्मतत्संस्कारानुसारेण जनानां विपरीतप्रवृत्तेरपि सम्भवात् । यथा समानायामपि वृष्टौ बीजानुसारेण विचित्रा अकुरा जायन्ते, समानेऽपि विद्युत्संसर्गे स्वस्वसामर्थ्यानुसारेण यन्त्राणि विचित्राणि कार्याणि सम्पादयन्ति तद्वत् । हे साधक, विश्वेभ्यो देवेभ्यो हिताय त्वां परमेश्वरोपासने नियोजयामि । एष परमेश्वरस्ते तव योनिराश्रयो हेतुश्च । तेन तदुपासने विश्वेभ्यो देवेभ्यो हिताय त्वा नियुनज्मि, ' यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुण ' || ' ( भा ० पु ० ५।१८।१२ ) इत्यादिपुराणवचनात् । अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है -- साम्ब सदाशिव इस से पवित्र करते हैं, इस क्षत्रिय जाति के हितार्थं पवित्र करते हैं । अन्नरस के लिये, वृष्टि के लिये, व्रीहियवादि ओषधियों की सिद्धि निष्क्रिय रहते हुए भी माया के द्वारा मानों व्यापारवान् होते हैं । सबकी भलाई के लिये चेष्टावान् होते हैं । परन्तु यदि ऐसा है, कैसे हो जाते हैं? इसका समाधान यह है कि अपने अपने पूर्व जन्म के की विपरीत प्रवृत्ति भी संभव है । जिस प्रकार सर्वत्र वर्षा समान रूप से उत्पन्न होते हैं तथा बिजली का संयोग समान रूप से होने पर भी अपने ब्राह्मण जाति के हितार्थ समस्त पदार्थों को दृष्टिमात्र सोमयाग करने वाले यजमान के लिये, अन्न के लिये, के लिये सक्रिय होते हैं । वस्तुतः कूटस्थ, अविकारी द्यावापृथिवी आदि सम्पूर्ण लोकों के पोषण के लिये, तो परमेश्वर के प्रयत्न करने पर भी पुरुष दुराचारी कर्मों तथा उनके संस्कारों के अनुसार प्राणियों होने पर भी बीज के अनुसार विभिन्न अंकुर अपने सामर्थ्य के अनुसार मशीनें विविध कार्य करती हैं, उसी प्रकार यहां भी है । हे साधक, समस्त देवताओं के हितार्थं तुमको परमेश्वर की उपासना में लगाता हूँ । यह परमेश्वर तुम्हारा आश्रय तथा कारण है । अत: उसकी उपासना में समस्त देवों के हितार्थ तुमको विनियुक्त करता हूँ ।
पृष्ठ 115
पाठ पढ़ें पाठ छिपाएँ
म ० २१-२२ ] वेदार्थपारिजातभाष्यसहिता I दयानन्दस्तु - ' हे विद्वांसः " यथाऽयं सोमो सौम्यगुणसम्पन्नो राजा, अस्मै ब्रह्मणे परमेश्वराय वेदाय वा ad विजानीयात्, अस्मै क्षत्राय राज्याय क्षत्रियाय वा अस्मै सुन्वते सर्वाविद्यासिद्धान्तं निप्पादयते यजमानाय सङ्गच्छमानाय पवत इव, इषे अन्नाय ऊर्जे पराक्रमाय पवते, अद्रयो जलेभ्यः प्राणेभ्यो वा औषधीभ्यः सोमादिभ्यः पवते, द्यावापृथिवीभ्यां सूर्यभूमिभ्यां पवते, सुभूताय सुष्ठु सत्याय व्यवहाराय पवते, तद्वत् सोमः सभ्यजनः प्रजाजनोऽप्येतस्मै सर्वस्मै पवताम् । हे राजन्, यस्य ते तवैष राजधर्मगुणग्रहणं योनिवसति -रस्ति, तं त्वां विश्वेभ्यो देवेभ्यो वयं स्वीकुर्मस्तथा विश्वेभ्यो देवेभ्यो गुणेभ्यश्च त्वामङ्गीकुर्महे ' इति, तदपि परस्परविरुद्धम् । तथाहि-- संस्कृते पवते विजानीयादित्युक्तम्, हिन्दीभाष्ये तु ' पूतो भवति क्षत्राय ज्ञानवान् भवति ' इति चोक्तम् । तथैव यजमानाय निर्मलो भवति, अन्नाय पराक्रमाय व शुद्धं भवति, ओषधीभ्यो जानाति, सत्याय व्यवहाराय अशुभकर्मभ्यो विविक्तो भवति, तथैव सोमः सभ्यजनः प्रजाजनः सर्वं जानीयाद् पूतो भवेत् । हे राजन् हे सभ्यजन, यस्य ते तव राजधर्मो योनिर्गृहमस्ति, तं त्वां विश्वेभ्यो वियो दिव्यगुणेभ्यः स्वीकुर्म इति चोक्तम् तत्सर्वमप्यसम्बद्धमेव । सत्राय ज्ञानवान् भवतीत्यस्य कोऽभिप्रायः? Hunre ङ्कारकल्पनमपि निर्मूलमेव । सोमशब्देन क्वचिद्राज्ञः क्वचित् सभ्यजनस्य, क्वचित् प्रजाजनस्य ग्रहणमपि निर्मूलमेव | राज्ञः सभ्यजनेभ्यः प्रजाजनेभ्योऽन्ये केऽवशिष्यन्ते ये तान् स्वीकुर्वन्ति? कश्च लाभस्तत्कर्तृकया स्वीकृत्या? ॥ २१ ॥
उ॒पामगृ॑होता॒ऽसीन्द्रा॑य॒ त्वा ब॒हद्व॑ते॒ वय॑स्वत उक्थि॒व्य॑ गृह्णामि । यत॑ इन्द्र ब॒ह॒द्वय॒स्तस्मै॑ त्वा विष्णवे वा एष ते योनि॑रु॒क्थेभ्य॑स्त्वा 1 । दे॒वेभ्य॑स्त्वा देवा॒व्यं गृह्णामि य॒ज्ञस्यायु॑षे गृह्णामि ॥ २२ ॥
स्वामी दयानन्द द्वारा प्रतिपादित अर्थ परस्परविरुद्ध है । संस्कृत व्याख्या में ' पवते ' का अर्थ ' जाने ' बताया गया ' ' है | परन्तु हिन्दी भाष्य में ' पवित्र होता है, ज्ञानवान् होता है ' यह कहा गया है । इसी प्रकार अन्यत्र निर्मल होता है, शुद्ध होता है, जानता है, विविक्त होता है, इत्यादि विभिन्न अर्थ दिये गये हैं । " ये सब असम्बद्ध हैं । लुप्तोपमा अलंकार की कल्पना भी अप्रामाणिक है । सोम शब्द से कहीं राजा, कहीं सभ्य जन तथा कहीं प्रजाजन का अर्थ ग्रहण किया गया है । यह भी निर्मूल है ॥ २१ ॥
मन्त्रार्थ -- है उक्थ ग्रह, उक्थ को समस्त बेवताओं का तृप्तिकारक जान कर मैं तुम्हारा बृहत्साम सोमरूप अन्न वाले इन्द्र देवता की प्रीति के निमित्त ग्रहण करता है । हे परम भाग्यवान् इव! जो यह तुम्हारा महान् सोमरूप अन्न है, उसको पाने के लिये मैं तुम्हारो प्रार्थना करता हूँ । हे सोम! यज्ञ के अधिष्ठात्री देवता विष्णु की प्रीति के लिये तुम्हें ग्रहण करता हूँ! हे उक्थ ग्रह! यह तुम्हारा स्थान है, उक्थप्रिय देवताओं की प्रीति के निमित्त तुम्हें इस स्थान में स्थापित करता हूँ । हे सोम! मित्रावरुण आदि देवताओं का प्रीतिकारक जान कर उनको सन्तुष्टि के लिये मैं तुम्हें ग्रहण करता हूँ, यश की सामग्री का फलपर्यंन्त ग्रहण करता हूँ ॥ २२ ॥
पृष्ठ 116
पाठ पढ़ें पाठ छिपाएँ
६२ शुक्ल यजुर्वेद संहिता [ अ ० ७ ' उक्थ्यमुपयामगृहीत इति ' ( का ० श्र ० ९ ।६।२१ ) । धाराया एव उक्थस्थाल्या उपयामगृहीत इति मन्त्रेण । उपयामग्रहदेवतानि यजूंषि । हे सोम, त्वमुपयामेन दारुपात्रेण उक्थ्यसंज्ञं ग्रहं गृह्णीयाद् उक्थ्यग्रह, त्वामिन्द्रार्थं गृह्णामि स्वीकरोमि । कथंभूतायेन्द्राय? बृहद्वते बृहत्संज्ञकसामवते गृहीतोऽसि । है बृहत्सामप्रियाय वा । तथा वयस्वते विशिष्टं यौवनलक्षणवीर्यसमेतं सदा कालं वयोऽस्त्यस्य तस्मै बृहत्सामस्तुताय नित्ययौवनो-चितवीर्यसम्पन्नाय | यद्वा वयः सोमलक्षणमन्नमस्त्यस्येति तस्मै वयस्वते । कीदृशं उक्थाव्यम्, उक्थानि मैत्रावरुण ब्राह्मणाच्छंस्यच्छावाकसम्बन्धीनि शस्त्राण्यवति गोपायतीत्युक्थाव्यम् ग्रहं त्वां गृह्णामि? ग्रहस्य तत्रैव विनियोगात् । एवं सोमं प्रशस्य पुनरिन्द्रमाह-- हे इन्द्र, यत् ते तव बृहद्वयो बृहद् महद्वयोऽन्नं , अस्य सोमलक्षणमस्ति, तस्मै तत्पानार्थं त्वां प्रार्थय इति शेषः । हे सोम, विष्णवे विष्णुदेवताप्रीत्यर्थं त्वां गृह्णामि यद्वा यत्ते तव बृहद् महद् ऊर्जितं वयो विशिष्टं यौवनरूपम्, तस्मै त्वा त्वां सोमं गृह्णामि ॥ उव्वटादिरीत्या - ' ते ' इति, ' इन्द्र ' इति युष्मत्पदसम्बोधनपदाभ्यां प्रत्यक्ष इन्द्र सोम उच्यते । तयोः प्रत्यक्षत: सामथ्यं कथमिति चेत्, यस्येन्द्रस्य बृहद्वयस्तस्मै उच्यते । त्वेति युष्मदा व्यत्ययेनेति ब्रूमः । ' ते ' इत्यस्य यस्य ' इत्यनेन पदेन व्यत्ययः । ' इन्द्र ' इत्यस्य पदस्य त्वां गृह्णामीति पदद्वयस्य यद्वा हे सोम, यस्येन्द्रस्य बृहद्वयस्तस्मै त्वां गृह्णामि । त्वत्पानेनेन्द्रस्य बृहद् ऊर्जितं विशिष्टं इन्द्रस्येत्यनेन व्यत्ययः । वीयं च सिद्ध्यतीति तदर्थं त्वां गृह्णामीत्यर्थः । विष्णवे यज्ञाय त्वां गृह्णामि । एष त यौवनं तदुचितं योनिः स्थानम् । उक्थेभ्योऽर्थाय त्वां सादयामि | ' उक्थ्यं विगृह्णाति त्रैधं देवेभ्यस्त्वेति इति सर्वेभ्य सादनम् । एष ते तव ९।१४।९ ) । उक्थस्थालीस्थं सोमं त्रिधा विभज्योक्थपात्रे गृह्णीयात् । मैत्रावरुणब्राह्मणाच्छंस्यच्छावाककर्तृकशस्त्रं इति ' ( का ० श्री ० यागार्थम् । हे सौम, देवेभ्यो देवानां प्रयोजनाय त्वां गृह्णामि । कीदृशं त्वाम्? देवाव्यं देवानवति देवावीस्तं देवाव्यम्, यज्ञस्यायुषे भ्रमप्रमादादिजनितभ्रेषशून्या निर्विघ्नयज्ञपरिसमाप्तिर्यज्ञस्यायुस्तस्मै तर्पयतीति अदृष्टात्मना फलपर्यन्तावस्थानाय च त्वां गृह्णामि । यज्ञो यजमानस्य शरीरम्, तन्निर्वर्त्यत्वात् तस्यायुषे यज्ञस्यायुषे ष्ट्वाय वा त्वां गृह्णामि । दीर्घायु-शतपथे विशेषः ' अय ह वा अस्यैषोऽनिरुक्त आत्मा यदुक्थ्यः ' ( श ० ४। २ । ३ । विधातुं सूक्ष्मशरीरात्मना तं स्तौति - अयं ह वा इति । अयमुक्थ्यः, यत एषोऽस्य यज्ञस्य १ ) अनिरुक्त इत्यादिनोक्थग्रहं अविस्पष्ट आत्मा सूक्ष्मशरीरम् स एष ग्रहोऽस्य यज्ञस्यात्मा सूक्ष्मशरीरात्मकत्वात् संसारमनुवर्तमानश्च आत्मा देहवत्प्रतिजन्म विनश्वरः । अनिरुक्तः प्राणो लोक आत्मत्वेन प्रसिद्धः । अतः सूक्ष्मशरीरस्थापि न स्थूल-त्वम् । स सूक्ष्मशरीरात्मको ग्रहो यज्ञस्यायुर्जीवनकालः । उक्तमायुष्ट्वमवलम्ब्य प्राणात्मकत्वेनात्म-' तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णाति ' ( श ग्रहस्य पृथिव्या ग्रहणमाह-ग्रहणे कथं हेतुरित्यत आह- अजरा हीयमिति । इयं पृथिवी अजरा | ० आयुश्च ४ | २ | ३ | अक्षरममृतं १ ) | आयुष्ट्वं पृथिव्या यावदायुरस्ति तावदायुषो जरा शैथिल्यं तदभावोऽमृतत्वमनष्टत्वं च भवति । तं वै पूर्णं गृह्णातीति भवति । यस्य वादेन सम्पूर्णतां विधत्ते - ' सर्वं वै तद्यत्पूर्ण सर्वं तद्यदायुस्तस्मात् पूर्णं गृह्णाति ( विहितग्रहणानु-ग्रह आयुरित्यभिधीयते, आत्मेति च पूर्वमुक्तम्, तथा सत्युभयात्मकः स्यादिति तत्राह ० ४।२।३।२ - ' तस्यासावेव ) । नन्वयं आयुः । आत्मैवास्यैतेन सहितः पर्वाणि सन्ततानि तद्वा अगृहीत एवैतस्मादच्छावा कायोत्तमो ग्रहो ध्रुव ( श ० ४।२।३।३ ) | असावित्युत्तरस्मिन् ब्राह्मणे विधास्यमानो ध्रुवग्रह एव यज्ञस्यायुः । एतेनोक्थ्यग्रहणेन भवति आत्मैव ' शाष्यसार - कात्यायन श्रौतसूत्र ( ९ ६ २० ९ १४८, १६, १७ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' उपयाम -
पृष्ठ 117
पाठ पढ़ें पाठ छिपाएँ
म ० २२ ] वेदार्थ पारिजातभाष्यसहिता I सूक्ष्मशरीरः संहितः स्यात् संयोजितः स्वयं यज्ञस्यात्मरूप एव भवति । नापूरुषः आयुरिति व्यवहारस्त्वात्म-सन्धानार्थत्वादुपपद्यत इत्युत्तरत्र वक्ष्यते । ' तद्यस्यैतेनात्मा स हितस्तेनास्यैष आयु: ' ( श ० ४।२।३।५ ) यतोऽयं ग्रहो यज्ञस्यात्मा, अतोऽनेन यज्ञस्य पर्वाणि सवनत्रयरूपाणि संहितानि परस्परं संश्लिष्टानि कार्याणि । प्राणरूपेण ह्यात्मनोऽङ्गानां पर्वाणि सन्धीयन्ते । सन्धानप्रकारं विधत्ते - तद्वा अगृहीत इति । उक्थ्यग्रहस्त्रेधा विभज्य हूयते । तत्र प्रथमे उक्थ्यविग्रहे मैत्रावरुणः शस्त्रं पठति, द्वितीये ब्राह्मणाच्छंसो, तृतीये अच्छावाकः । एवं च सत्येतस्मादुक्थ्यग्रहादच्छावाकसम्बन्धिनि चरम उक्थ्यविग्रहेऽगृहीते सति माध्यन्दिनसवनाथं सोममभिषव-स्थाने स्थापयेत् । वसतीवरीणां च तृतीयं भागमवनयेत् । तत् तथा सति पर्व प्रातः सवनलक्षणं माध्यन्दिनसवन-लक्षणं च समैति परस्परं समेतं भवति । यत उत्तरस्य सवनस्य सोमोपावहरणरूपं प्रथममेवाङ्गं पूर्वं करोति । पूर्वस्य सवनस्य उत्तममङ्गम् अच्छावाकोक्थ्यविग्रहहोमरूपं पश्चात् करोति । अतः परस्परं सन्नद्धं भवति । उत्तरसवनसम्बन्धिनः प्रथमा ङ्गस्य पूर्वमनुष्ठाने पूर्वसवनसम्बन्धिनश्चान्तिमाङ्गस्य पश्चादनुष्ठाने व्यतिषङ्गाल्लोकेऽपि शारीराणि पर्वाणि व्यतिषक्तानि भवन्तीति । इदमुपरितनमङ्ग मित्थमतिहानमतिगमनयुक्तं भवति इदं वा अधस्तनमित्थम् । तदुक्तं ब्राह्मणेन -- ‘ अथ राजानमुपावहरति । तृतीयं वसतीवरीणामवनयति तत्पर्वं समैति प्रथममहोत्तरस्य सवनस्य करोतीत्युत्तमं पूर्वस्य स यदुत्तरस्य सवनस्य तत्पूर्वं करोति यत्पूर्वस्य तदुत्तमं तद् व्यतिषजति तस्मादि-मानि पर्वाणि व्यतिषक्तानी दमित्थमतिहानमिदमित्थम् ' ( श ० ४ | २ | ३ | ४ ) । उक्तः सवनसन्धानप्रकारो माध्यन्दिन-सम्बन्धिन्युक्यविग्रहेऽपि कर्तव्य इत्याह- ' एवमेव माध्यन्दिने सवने । अगृहोत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवत्यथ तृतीयं वसतीवरीणामवनयति प्रथममहोत्तरस्य सवनस्य करोत्युत्तमं पूर्वस्य स यदुत्तरस्य सवनस्य तत्पूर्वं करोति यत्पूर्वस्य तदुत्तमं व्यतिषजति तस्मादिमानि पर्वाणि व्यतिषक्तानि तद्यदस्यैतेनात्मा सहितस्तेनास्यैष आयु: ' ( श ० ४।२।३।५ ) | कात्यायनोऽपि तथैवाह - ' प्रागच्छावाक विग्रहात् सोमोपाहरणं वसतीवर्यधं चासिद्धत्याधवनीये ' ( का ० श्रौ ० ९ | १४ | १ ९ -२० ) । अच्छावाकविग्रहात् प्राक् पूर्ववत् सोमो -पावहरणं वसतीवर्यधं चासिश्चत्याधवनीये । अयमभिप्रायः - - उक्थग्रहस्य त्रयः पर्यायाः । तत्र उक्थ्यस्थालीगतं सोमं त्रेधा विभज्य तृतीयमंशं प्रथमतो मित्रावरुणाभ्यां गृह्णाति स प्रशास्तुरुक्थ्यविग्रहः । द्वितीयं द्वितीयमंशमिन्द्राय गृह्णाति स ब्राह्मणाच्छंसिन उक्थ्यविग्रहः । तृतीयं तृतीयमंशमिन्द्राग्निभ्यां गृह्णाति सोऽच्छावाकस्योक्थ्यविग्रहः । Proof any re ग्रहणानन्तरं दशापि चमसा गृह्यन्ते हूयन्ते भक्ष्यन्ते च । तत्र यत्सम्बन्ध्युक्थ्यविग्रहस्तस्य चमसं प्रथमं गृहीत्वा उन्नीय तत इतरे नव चमसा उन्नेयाः । एवं च प्रथमस्य ग्रहस्य प्रशास्तृसम्बन्धित्वात् तस्यैव चमसः प्रथममुन्नेयः । स एव शंसनकर्तापि । एवं द्वितीये विग्रहे ब्राह्मणाच्छंसिनश्चमसः प्रथमं ग्राह्यः, तदन्वितरे नव चमसाः । ततस्तृतीये च अच्छावाकचमसस्य प्रथमं ग्रहणमितरेषां नवानां तत इति विभज्य विग्रहः । उक्थ्यग्रहस्य यज्ञसम्बंन्ध्यात्मसन्धानार्थत्वाद् आयुरिति व्यवहार इत्यर्थः । ' सैषा कामदुधैवेन्द्रस्योद्वारः । त्रिभ्य एवैनं प्रातःसवन उक्थ्येभ्यो विगृह्णाति त्रिभ्यो माध्यन्दिने सवने तत् षट्कृत्वः षड् वा ऋतव ऋतवो वा इमान् सर्वान् कामान् पचन्त्येतेनो हैषा कामदुधैवेन्द्रस्योद्धार: ' ( श ० ४ | २ | ३ | ६ ) । प्रकृतं ग्रहं प्रशंसति - इन्द्रस्योद्धार इति । साधारणो भागो योऽयमुक्थ्यो ग्रहः, सैषा कामदुधैव कामधेनुरेव । यद्यप्युक्थ्यविग्रहेषु देवतान्तर-सम्बन्धोऽस्ति, तथापीन्द्रस्य प्राधान्याद् माध्यन्दिनसवने तस्यैव देवतात्वाच्चेन्द्रस्य भाग इत्युक्तम् । तत्र हेतुमाह - त्रिभ्य इत्यादिना । उक्थ्यमिति स्तुतशस्त्रविशेषनामधेयम् । प्रातः सवन उक्थ्यत्रयार्थं माध्यन्दिनसवने क्यार्थमिति तद्ग्रहणं षट्कृत्वः सम्पद्यते । षट्संख्याका ऋतवः सर्वान् इमान् कामान् पचन्ति पार्क प्रापयन्ति, उपयोगयोग्यान् कुर्वन्ति, कालस्य सर्वोत्पत्तिनिमित्तकारणत्वादित्यर्थः । अथ संख्यासामान्येन विगृह्यमाणस्योक्थ्यग्रहस्य ऋतुरूपत्वात् कामधेनुत्वम् ।
पृष्ठ 118
पाठ पढ़ें पाठ छिपाएँ
I शुक्लयजुर्वेदसंहिता [ अ ० ७ ' तं वा अपुरोरुक्कं गृह्णाति । उक्थ हि पुरोरुगृग्धि पुरोरुगृध्युक्थ्य ७ साम ग्रहोऽथ यदन्यज्जपति यद्यजुस्ता हैता अभ्यर्ध एवाय ऋग्भ्य आसुरभ्यर्धो यजुर्भ्योऽभ्यर्धः सामभ्यः ' ( श ० ४ | २ | ३ | ७ ) । ननु यथा ऐन्द्रवायवादि-ग्रहाणाम् ' आ वायो ' ( वा ० सं ० ७ ७ ) इत्यादयः पुरोरुचो जातास्तथा अस्य ग्रहस्य का पुरोरुक्? इत्यत आह-तं वा अपुरोरुक्कं गृह्णाति । ग्रहणात् पूर्वो रोचयिता मन्त्रविशेषः पुरोरुक, तद्रहितमेव तम् एतमुक्थ्यग्रहं गृह्णाति । ननु यदि ग्रहणेऽपुरोरुक्त्वं होमे वा का पुरोरुक्? इत्यत आह-- उक्थमिति । उक्थं शस्त्रं हि होमात्पूर्वमेव प्रयुज्यमानं होमदेवतायै हवी रोचयतीति तेन शस्त्रेण होमः सपुरोरुवकः । ननु तर्हि उपयामगृहीतोऽसीन्द्राय त्वा इत्ययमपि मन्त्रो ग्रहणात्पूर्वमेव ग्रहीष्यमाणं हविर्देवतायै रोचयतीत्यस्यापि पुरोरुक्त्वात् कथं ग्रहण-मपुरोरुकुमित्यत आह - ऋग्धि पुरोरुगिति । न पुरोरोचयितृमात्रं पुरोरुकुशब्दस्य प्रवृत्तिनिमित्तम्, किन्तु पादबद्धत्वहेतुकेन ऋगात्मकत्वेन विशिष्टम् । न चेह पादबद्धत्वमस्ति, उक्थ्यशस्त्रस्य तु ऋगात्मकत्वेन युक्तमनन्तरोक्तं पुरोरुक्त्वमित्यत आह- ऋग्ध्युक्थमिति । उक्थशस्त्रस्य ऋगात्मकत्वादस्तु पुरोरुक्त्वम्, उक्थस्तोत्रस्य तु कथम्? नहि तादृगात्मकं तत् किन्तु सामात्मकमित्यत आह सामग्रह इति । गृह्यतेऽभि-व्यज्यतेऽनेनेति ग्रहः । प्रगीतो मन्त्रः सामेत्युच्यते । न च गानमात्रेण तस्य ऋक्त्वं व्यावर्त्यते, पादनिबन्धनं हि तत् । उक्तं हि तल्लक्षणं जैमिनिना - ' तेषामृग् यत्रार्थवशेन पादव्यवस्था ' ( जै ० सू ० २।१।३५ ) | तेनाप्रगीतवत् प्रगीतस्यापि ऋग्लक्षणयोगेन ऋक्त्वात्, ऋग्धि पुरोरुग् इत्यनेनैव प्रगीतोऽपि गृह्यते । प्रगीतमन्त्रात्मकस्य साम्न ऋक्त्वेऽपि ' ऋचः सामानि यजूंषि ऋक्सामे वै देवेभ्यः साम ' ( ताण्ड्य महाब्राह्मणम् ) इत्यत्राभेदव्यवहारः प्रगीताप्रगीतत्ववैलक्षण्य मात्रनिबन्धनो भविष्यतीति । यदपि - गीतिषु सामाख्या ' ( जै ० सू ० २।१।३६ ), तत्रापि गीयत इति गीतिरिति कर्मणि क्तिना मन्त्रोऽभिधीयते । मन्त्राश्च विवक्षितार्था इति मन्त्राधिकरणे ( जै ० सू ० २।१।३०-३१ ) स्पष्टम् । न च गीतिक्रियाऽर्थवती, अथ तु ' ऋच्यध्यूढ साम गायति रेवतीषु वारवन्तीयं कवतीषु रथन्तरम् ' ( ताण्ड्य महाब्राह्मणम् ) इत्यादिषु गीतिक्रियामात्रे सामादिपदं व्यवहृतमिति मन्यसे, तर्हि गीतिक्रियाया अर्थानवबोधकत्वेन पुरोरुक्त्वानङ्गीकारादेव कथं पुरोरुक्त्वमिति प्रश्नानवकाशः । अस्मिन् यज्ञे साम ग्रह इति श्रुतौ ग्रहशब्दो गृह्यते । ऋगक्ष राण्यभिव्यज्यन्तेऽनेनेति करणसाधनो गानक्रियामेव विधत्ते । तदात्मकस्य साम्नोऽर्थानवबोधकत्वादेव पुरोरुत्क्वाभावाद् ऋग्धि पुरोरुगिति न व्याहन्यते । यत्तु प्रगीताप्रगीतरूपाया ऋचोऽन्यद् उपयाम इत्यादि, तत् पुरोरोचयितृत्वेऽपि न पुरोरुक्, किन्तु यजुरेव केवलमिति । प्रकृतग्रहस्यापुरोरुक्त्वेऽपि चोपपत्तिरित्याह- अथ यदन्यदिति । पुरो रोचयितॄणा-मुपयामेत्यादीनामनृक्त्वेन पुरोरुक्त्वाभावे सत्यपरेणापि केनचनासाधारणेन विशेषेण भवितव्यम्, न यजुर्मंत्र-साधारण्येन गणनं युक्तमिति चेत्, तत्राह ता हैता इति । सत्यम्, अत एव ता एता उपयामेत्यादयः पुरोरोचयित्र्यो मन्त्रजातयः, अग्रे पूर्वस्मिन् काले ऋग्यजुःसाममात्रेभ्यो मन्त्रेभ्यः पुरोरोचयितृत्वेनैवा-साधारणेनाभिहिताः समृद्धा आसु । अत एव उपयामेत्यादयः पुरोरोचयित्र्यो मन्त्रजातयः, अग्रे ऋग्भ्योऽभ्यर्ध आसुः, यजुर्भ्यः सामभ्यश्चाभ्यर्धं आसुः । ' ते देवा अब्रुवन् । हन्तेमा यजुःषु दधाम तथेयं बहुलतरेव विद्या भविष्यतीति ता यजुःष्वदधुस्तत एषा बहुलतरेव विद्याऽभवत् ' ( श ० ४। २ । ३८ ) । इत्थं पृथग्भूतानां यजुषां कथं यजुष्ट्वमिति तत्रोच्यते — ते देवा इति । ऋग्यजुः सामाख्याभ्यो मन्त्रजातिभ्योऽपरस्याश्चतुर्थ्या अपि पुरोरोचयित्र्या जातेरङ्गीकारे गौरवादेवैता यजुःष्वेव निहिताः । अत एषां यजुषां पुरोरोचयितृत्वेऽप्यनृक्त्वेन पुरोरुक्त्वाभावात् प्रकृतं गृहीतः ' इस मन्त्र से उक्थ्य ग्रह का ग्रहण किया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल
पृष्ठ 119
पाठ पढ़ें पाठ छिपाएँ
म ० २२ ] वेदार्थपारिजात भाष्यसहिता ६५ ग्रहमपुरोरुक्कं गृह्णातीति युक्तम् । मूलं तु स्पष्टमेव । ' तं यदपुरोरुक्कं गृह्णाति । उक्थ हि पुरोरुग् पुरोरुग्घ्युक्थ ं स यदेवैनमुक्थेभ्यो विगृह्णाति तेनो हास्यैष पुरोरुङ्मान् भवति तस्मादपुरोरुक्कं गृह्णाति ' ( श ० ४ | २ | ३१ ९ ) । मन्त्रस्य पुरोरुक्त्वाभावेऽपि ग्रहस्य पुरोरुक्त्वं समर्थयितुमाह - तं यदित्यादि । यद् यद्यपि ग्रहणसमये तम् अपुरोरुक्कं गृह्णाति तथापि विभज्य ग्रहणानन्तरमुक्थ्यस्तोत्राणि भविष्यन्ति तेषां च पुरोरुक्त्वात्तैर्विगृह्यमाणोऽयं ग्रहः सपुरोरुक्को भविष्यति । विग्रहानन्तरैः स्तोत्रशस्त्रः सपुरोरुक्त्वेऽपि स्वसाधनस्य यजुषोऽपुरोरुक्त्वादपुरोरुक्त्वमित्यपि सिद्धमिति शतपथभाष्ये सायणाचार्य: । ' अथातो गृह्णात्येव । उपयाम-गृहीतोऽसीद्राय वा बृहद्वते वयस्वत इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति बृहद्वते वयस्यत इति वीर्यवत इत्येवैतदाह यदाह बृहद्वते वयस्वत इत्युक्थाव्यं गृह्णामीत्युक्थेभ्यो ह्येनं गृह्णाति यत्त इन्द्र बृहद्वय इति यत्त इन्द्र वीर्यमित्येवैतदाह तस्मै त्वा विष्णवे त्वेति यज्ञस्य ह्येनमायुषे गृह्णाति तस्मादाह तस्मै त्वा विष्णवे त्वेत्येष ते योनिरुक्थेभ्यस्त्वेति सादयत्युक्थेभ्यो ह्येनं गृह्णातीति ' ( श ० ४। २ । ३ । १० ) । ग्रहस्य ग्रहणमनूद्य चतुर्धा विभज्य विनियुञ्जानो विधत्ते -- अथातो गृह्णात्येवेति । इन्द्रो वै उक्थ्यग्रहलक्षणस्य यज्ञस्य देवता खलु । तथा च पूर्वमुक्तम् - सैषा कामदुर्घवेन्द्रस्योद्धारः ' इति । अथवा सोमस्य मानमन्त्रेषु ' इन्द्राय त्वा वृत्रघ्ने ' इत्येवमादिष्विन्द्र एव सर्वत्र देवतात्वेन निर्दिष्टः, अतः प्राधान्यात् स एव यज्ञस्य देवता । तस्मादिन्द्राय वेत मन्त्रपदमुपपन्नम् । वीर्यवत इत्येतेनैवाभिप्रायेण वयस्वत इति बृहद्वत इति पदमध्वर्युराह । अत्र बृहद्वत इति बृहदिति बृहत्साम, यच्च वीर्येण सृष्टत्वाद् वीर्यरूपम् । तथा च तैत्तिरीयकम् - ' उरसो बाहुभ्याम् ' इति प्रक्रम्य ' वीर्याद्ध्यसृज्यन्त ' ( तै ० सं ० ७ | १ | १ ) इति । वयस्वत इत्यत्राप्यतिशायने मतुप् । वयः शब्देना-त्रातिशायि यौवनलक्षणं वयोऽभिधीयते । तच्च वीर्यस्य हेतुः । अतो वीर्यवत इत्येतदभिप्रायेण वयस्वत इत्युक्तम् । द्वितीयं भागं व्याचष्टे - उक्थाव्यमित्यादि । उक्थेभ्यो नमिति । उक्थानि शस्त्रस्तोत्राणि तैः स्तुति सम्पादयितुम् एनं गृह्णाति अत उक्थाव्यमित्युक्तम् । अवतिर्गत्यर्थः ( निघ ० २।१४ । १-२ ) । उक्थान्य-वतीत्युक्थावीः । यद्वा उक्थैराव्यो गन्तव्यः । तृतीयं भागं व्याचष्टे - यत्त इन्द्रेत्यादि । अत्रापि बृहद्वय इत्यनेन वीर्यमभिहितम् । चतुर्थं भागं व्याचष्टे -- यज्ञस्य ह्येनमिति । अत्रायुरित्यनेन लिङ्गशरीरमभिधीयते । लिङ्गशरीर-रूपात्मसन्धानार्थत्वादस्यायुष्ट्वव्यवहार इति पूर्वमुक्तत्वात्, तदर्थमस्य ग्रहणाद विष्णवे त्वा इत्यध्वर्युराह-विष्णुरिति यज्ञ उच्यते । तथा शतपथानुसारी समस्तस्य मन्त्रस्यायमर्थः हे उक्थ्यग्रह, उपयामेन स्थाल्या गृहीतोऽसि । बृहत्साम-युक्ताय यौवनलक्षणवयोयुक्ताय इन्द्रायोक्थ्यशस्त्रगामिनं त्वां गृह्णामि । हे इन्द्र, यद् यस्माद् बृहद् महद्वयो यौवनलक्षणं तस्मादिन्द्राय तुभ्यं त्वां ग्रहं गृह्णामि । इन्द्रार्थे ग्रहे इन्द्रत्वमुपचर्यते । हे ग्रह, त्वां विष्णवे च गृह्णामि । ग्रहस्य समन्त्रकं सादनं विधत्ते - एष त इति । उक्थेभ्यो ह्येनं गृह्णाति । उक्थैः स्तोत्रशस्त्रैः स्तुति सम्पादयितुमस्य ग्रहस्य ग्रह्णान्मन्त्रे उक्थेभ्य इत्यस्य शब्दस्य प्रयोगो युज्यते । ' तं विगृह्णाति । देवेभ्यस्त्वा देवाव्यं यज्ञस्यायुषे गृह्णामति प्रशासन स कुर्याद्य एवं कुर्याद्यथादेवतं त्वेव विगृह्णीयात् ' ( श ० ४। २ | ३ | ११ ) । इत्थं ग्रहस्य ग्रहणादिकं विधाय तस्यैव समन्त्रकं विभज्य ग्रहणं विधत्ते - तमिति । उक्थग्रहस्त्रेधा विभज्य हूयते । पर्यायत्रयेऽपि देवेभ्यस्त्वा इत्यनेनैव मन्त्रेण विभज्य गृह्णीयात् । उक्तमन्त्रसाधने विग्रहणे ग्रहस्य साधारणलक्षणं दोषमुद्भावयति - प्रशासनं स इत्यादि । योऽध्वर्युरुक्तमन्त्रसाधनकं विग्रहणं कुर्यात्, स ग्रहस्य प्रकर्षेण शासनं विनियोजनं कुर्यात्, मन्त्रे देवेभ्य इति सर्वदेवतासाधारणस्य शब्दस्य प्रयोगादिति भावः । यत एवमतस्तद्देवतानुसारेण ग्रहं विगृह्णीयादित्यादि । यथादेवतमित्यादि । मन्त्रार्थ उपदिष्ट है । ९
पृष्ठ 120
पाठ पढ़ें पाठ छिपाएँ
६६ शुक्लयजुर्वेद संहिता [ अ ० ७ अध्यात्मपक्षे तु —- हे सोम निवेदनीय द्रव्य, त्वमुपयामेन यमसहसमीपवर्तिना नियमेन प्रेम्णा गृहीतोऽसि । बृहत्सामप्रियाय वयस्वतेऽतिप्राचीनाय नित्याय इन्द्राय परमैश्वर्यवते परमेश्वराय त्वां गृह्णामि । कीदृशं त्वाम्? उक्थाव्यम्, उक्थैः स्तोत्रशस्त्रादिभिरवनीयं रक्षणीयं स्तुत्यं वा, भगवते समर्पणीयं चरुपुरोडाशादिकं स्तोत्रैः प्रगीतैरुक्थ्यसमूहैः शस्त्रैर्ऋक् समूहैर प्रगीतैरेव भगवते निवेदनीयं स्तूयते रक्ष्यते च । यद् यस्माद् महद् वयो नित्ययौवनलक्षणं वयो भक्तः प्राप्यते तस्मै इन्द्राय परमेश्वराय हे सोम, त्वां गृह्णामि । कीदृशाय इन्द्राय? विष्णवे व्यापनशीलाय । हे सोम, एष ते योनिः स्थानम् । उक्थेभ्य उक्थसम्बन्धिभ्यो देवेभ्यस्त्वां देवाव्यं देवानां पालकं यज्ञस्योपासनालक्षणस्यायुषे दीर्घजीवनाय त्वां गृह्णामि । भगवदाराधनेन तदुपहारेण सर्वे देवास्तृप्यन्ति 2 यथा तरोर्मूलनिषेचनेन शाखोपशाखादयः सर्वे तृप्यन्तीति तद्वद् । दयानन्दस्तु ' धर्मार्थकाममोक्षानिच्छुर हम् । हे इन्द्र सेनापते, त्वमुपयामगृहीतोऽसि सुनियमैरधीत विद्योऽसि, तो बृहद्व प्रशस्तानि बृहन्ति कर्माणि यस्य तस्मै, वयस्वते बहुजीवनाय इन्द्राय परमैश्वर्यवते उक्थाब्यं प्रशंसार्हाणि स्तोत्राणि शस्त्रविशेषाणि वा यस्य तं त्वां गृह्णामि । यत् ते तव बृहद्वयो जीवनं तस्मै तत्पालनाय विष्णवे परमेश्वराय यज्ञाय वा त्वां गृह्णामि । एष सेनाधिकारस्ते योनिः स्थित्यर्थं स्थानविशेषः । उक्थेभ्यः प्रशंसनीयेभ्यो वेदोक्तेभ्यः कर्मभ्यः, देवेभ्यो विद्वयो दिव्यगुणेभ्यो वा त्वां देवाव्यम् उक्तानां देवानां पालकम्, यज्ञस्य राज्यपालनादेः, आयुषे जीवनाय गृह्णामि ' इति, हिन्द्यां तु - ' परमैश्वर्यवते सभापतये तथैव उक्थाव्यं शस्त्रविद्यावन्तं त्वाम् ' इत्युक्तम् । संस्कृते ' सेनाधिकारः ', हिन्द्याम् ' अधिकारी ' इत्यादिवैरूप्यपूर्णोऽर्थ उक्तः । तत्सर्वमप्येतद्विसङ्गतम्, मुख्यार्थ परित्यागात्, गौणार्थस्वीकाराच्च । तथाहि-- इन्द्रपदेन सेनापतिरर्थः कथं गृह्यते? यथा बृहन्तिकर्माणि तथा बृहन्तो गुणाः, बृहत्सामापि च भवन्ति तेषु त्वदर्थग्रहणे विनिगमना वाच्या । उक्थपदेन स्तोत्राणि शस्त्राणि च वैदिक प्रसिद्धयनुसारेण गृहन्ते । सेनापतेस्तैः कः सम्बन्धः? उक्थपदेन शस्त्रविद्याग्रहणेन किमपि बीजमस्ति । किञ्च वयस्वद् - बृहच्छब्दौ सभापतेर्विशेषणे इत्यत्र किं बीजम्? नहि तत्र किमपि विशेष्यपदं निर्दिष्टम् । तत्रापि तादृशसभापतिपालनं कस्य शब्दस्यार्थः? न चतुर्थीमात्रस्य सोऽर्थः सम्भवति । श्रुतिसूत्रादिविरोधस्तु स्फुट एव ॥ २२ ॥
अध्यात्मपक्ष में अर्थ इस प्रकार है- हे निवेदनीय द्रव्य सोम, तुम नियमपूर्वक प्रेम के साथ ग्रहण किये गये हो । बृहत्साम के प्रेमी, चिरन्तन, नित्य, परमैश्वर्यशाली परमेश्वर के लिये स्तोत्र, शस्त्र आदि के द्वारा रक्षणीय अथवा स्तुत्य तुम्हारा ग्रहण करता हूँ । जिससे नित्ययोवनात्मक आयु भक्तों को प्राप्त होती है, उस व्यापक परमेश्वर के लिये तुम्हारा ग्रहण करता हूँ । हे सोम, यही तुम्हारा स्थान है । उनथ सम्बन्धी देवों के लिये, उपासनात्मक दीर्घजीवन के लिये, हे देवताओं के पालक, तुम्हारा ग्रहण करता हूँ । भगवदाराधन के द्वारा उसके उपहार से समस्त देवगण उसी प्रकार तृप्त होते हैं, जैसे वृक्ष की जड़ का सिंचन करने से शाखा तथा उपशाखा आदि सभी संतृप्त हो जाते हैं । स्वामी दयानन्द द्वारा प्रतिपादित व्याख्या में संस्कृत में ' सेनाधिकार ' तथा हिन्दी में ' अधिकारी ' इस प्रकार द्विविध विभिन्नता से पूर्ण अर्थ किया गया है । यह पूरा ही मुख्यार्थं के परित्याग तथा गौण अर्थ के स्वीकार के कारण विसंगतियुक्त है । इन्द्र शब्द के द्वारा सेनापति अर्थ वैसे ग्रहण किया जा सकता है? उवथ शब्द से ' शस्त्रविद्या ' का ग्रहण करने में भी कोई प्रमाण नहीं है । वयस्वत् तथा बृहस्वत् शब्द सभापति के विशेषण हैं, इसमें भी कोई प्रमाण नहीं है । यहाँ कोई विशेष्य पद भी निर्दिष्ट नहीं किया गया है । उस प्रकार के ' सभापति का पालन ' किस शब्द का अर्थ हैं? केवलचतुर्थी का वह अर्थ नहीं हो सकता । श्रति एवं सूत्र वाक्यों आदि का विरोध तो स्पष्ट ही है ॥ २२ ॥