वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 121–130

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 121–130

पृष्ठ 121

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 121 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३ ] वेदार्थ पारिजात भाष्य सहिता १७ मि॒त्रावरु॑णाभ्यां॑ त्वा देवा॒व्यं॑ य॒ज्ञस्यायु॑षे गृह्णामन्द्राय त्वा देवा॒व्य॑ य॒ज्ञस्यायु॑षे गृह्णा-मोन्द्राग्नियाँ त्वा देवाव्यं य॒ज्ञस्यायु॑षे गृह्णामन्द्रावरुणाभ्यां त्वा देवाव्यं य॒ज्ञस्यायु॑षे गृह्णामन्द्राबृह॒स्पति॑भ्यां त्वा देवा॒व्यं य॒ज्ञस्यायु॑षे गृह्णामन्द्रा विष्णुभ्यां त्वा देवाव्यं यज्ञस्यायषे गृह्णामि ॥ २३ ॥

14 ‘ मित्रावरुणाभ्यां त्वेति वा प्रशास्त्रे ' ( का ० श्र ० ९ | १४ | १० ) । अथवा मैत्रावरुणकर्तृकशस्त्रवद् ग्रह-यागार्थमुक्थस्थालीस्थसोमतृतीयांशमुक्यपात्रे मित्रावरुणाभ्यां त्वेति गृह्णीयात् । मन्त्रविकल्पार्थोऽयमारम्भः । हे उक्थ्यग्रह, मित्रावरुणाभ्यां सम्मिलितदेवताभ्यामर्थे देवाव्यं देवतर्पकं देवै रक्षणीयं गन्तव्यं वा त्वां यज्ञस्यायुषे गृह्णामि । एवं प्रतिप्रस्थातोत्तराभ्यामिन्द्राय त्वेति ब्राह्मणाच्छ सिन इन्द्राग्निभ्यां त्वेत्यच्छावाकाय ' ( का ० श्री ० ९।१४।१६-१८ ) । एवं प्रथमे उक्थ्यविग्रहेऽध्वर्युगा प्रचारितद्वितीयतृतीयाभ्यां विग्रहाभ्यां प्रतिप्रस्थाता प्रचरेत् । अयं विशेष: -- इन्द्राय त्वेति मन्त्रेण ब्राह्मणाच्छंसिकर्तृकशस्त्रवते यागाभ्यासाय ग्रहं गृह्णीयात् । इन्द्राग्निभ्यां त्वेति मन्त्रेणाच्छावाककर्तृकशस्त्रवते यागाभ्यासाय गृह्णीयात् - इन्द्राय त्वा गृह्णामि इन्द्राग्निभ्यां त्वां गृह्णामि । शेषं पूर्ववत् । ' उत्तरेष्विन्द्रावरुणाभ्यामिन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यामिति ' ( का ० श्री ० १० | ७ | १० ) । उक्थादिसोम संस्थेषु मैत्रावरुणादीनां तृतीयसवने उक्थ्यविग्रहमन्त्राः । मित्रावरुणयोरर्थे त्वां देवाव्यं यज्ञस्यायुषे गृह्णामि । इन्द्राविष्णुभ्यामर्थे त्वां गृह्णामि । इन्द्रावरुणाभ्यामित्यादौ ' देवताद्वन्द्वे च ' ( पा ० सू ० ६।३।२६ ) इति पूर्वपदान्तस्य दीर्घः । -----अत्र शतपथे विशेषः - ' मित्रावरुणाभ्यां त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येव मैत्रावरुणाय मैत्रावरुणीषु हि तस्मै स्तुवते मैत्रावरुणीरनुशसति मैत्रावरुण्या यजति ' ( श ० ४ | २ | ३ | १२ ) । मित्रावरुणाभ्यामिति मन्त्रेणैव मैत्रावरुणयोरुक्थ्यं विगृह्णीयान्न देवेभ्य त्वेत्यनेन । अत्र सायणाचार्यः -- ' न केवलं तस्य मन्त्रस्य ग्रहसाधारण्य -परिहारः प्रयोजनम् अपि त्वेतदुक्थ्यविग्रहसम्बन्धिनां मन्त्रान्तराणां सादृश्यलाभोऽपि ' इत्याह । मैत्रावरुणी-विति । तस्मै मैत्रावरुणसम्बन्धिने उक्थ्यविग्रहाय मित्रावरुणसम्बन्धिनीष्वृक्षु ' आ नो मित्रावरुणा ' ( मा ० सं ० २१८ ) इत्यादिषु स्तुवते उद्गातारः । मैत्रावरुणश्च मैत्रावरुणीरनु मैत्रावरुणीभिर्ऋग्भि आ नो मित्रा इत्यादिभिरेव शंसति स्तौति । अनस्तृतीयार्थे कर्मप्रवचनीयत्वाद् द्वितीया । तथा ' आ नो मित्रावरुणा ' इति मैत्रावरुण्यैवेति सर्वत्र मन्त्रेषु मित्रावरुणसम्बन्धाद् विग्रहणे साधनभूतोऽपि मन्त्र इतरमन्त्रसादृश्यलाभाय मैत्रावरुण एव कर्तव्यः । मन्त्रार्थ - देवगणों का तृप्तिकारक जान कर मित्रावरुण देवताओं की प्रीति के निमित्त यज्ञ की निर्विघ्न समाप्ति के निमित्त तुम्हारे अंश को ग्रहण करता हूँ । देवगणों का तृप्तिकारक जान कर इन्द्रदेवता की प्रीति के लिये यज्ञ की समाप्ति के निमित्त तुम्हारा ग्रहण करता हूँ, देवसमूहों का तृप्तिकारक जान कर इन्द्राग्नी देवता की तृप्ति के निमित्त, इन्द्रवरुण देवता की प्राप्ति के निमित्त इन्द्र और बृहस्पति देवताओं की प्रीति के निमित्त तथा इन्द्र और विष्णु देवताओं की प्रीति के निमित्त तुम्हारे विभिन्न अंशों को ग्रहण करता हूँ ॥ २३ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ९ / १० / ९, १४ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार उक्थ्य स्थाली में

पृष्ठ 122

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 122 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ शुक्लयजुर्वेदसंहिता [ अ ०७ ' इन्द्राय त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येव ब्राह्मणाच्छ सिन ऐन्द्रीषु हि तस्मै स्तुवते ऐन्द्रीरनुश ७ सत्यैन्द्रया यजति ' ( श ० ४।२।३।१३ ) । ' इन्द्राग्निभ्यां त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येवाच्छावाकायैन्द्राग्नीषु हि तस्मै स्तुवत ऐन्द्राग्नीरनुश सत्यैन्द्राग्न्या यजतीन्द्राय त्वेत्येव माध्यन्दिने सवन ऐन्द्र हि माध्यन्दिन ७ सवनम् ' ( श ० ४ | २ | ३ | १४ ) | माध्यन्दिनं सवनमैन्द्रम् इन्द्रदेवत्यमेव खलु । तथा च दाशतय्यां मन्त्रः-- ' प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते ' ( ऋ ० सं ० ४।३५।७ ) । उक्यपर्याय त्रयेऽपि इन्द्रायेत्येव विगृह्णीयात् तत्रैव - ' तदु ह चरकाध्वर्यवः ' ( श ० ४।२ ३२ १५-१७ ) इत्यादिना निरसनाय शाखान्तरमतमुपन्यस्यति ॥ तस्मिन् उक्थ्यविग्रहे चरकाध्वर्यवो निम्नोत्तरीतिमनुसरन्ति - मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकसम्बन्धिनामुक्थ्य-विग्रहाणाम् उपयाम गृहीतोऽसीत्यादिना क्रमेण विग्रहणादि प्रार्थ्यते । तृतीये पर्यायें पुनर्हविरसीति स्थाली नाभिमृशेत्, माध्यन्दिनसवनस्यैन्द्रदेवत्यत्वात् । तत्र इन्द्राय इत्येव विगृह्णीयात् । यतोऽध्वर्युः प्रातः सवने प्रथमद्वितीययोद्विः स्थालीमभिमृशति, तृतीयपर्याये तूष्णीं स्थालीमनभिमृश्यैव ग्रहं निदधाति अतो माध्यन्दिनेऽपि तथैव कुर्यादिति तदाशयः । ' तं वै नोपयामेन गृहणीयात् ' ( श ० ४ | २ | ३ | १८ ) इत्यादिना तन्मतं स्वपक्षस्तुत्यै निरस्यति - एतम् उक्थ्यविग्रहम् उपयामगृहीतोऽसीत्युच्चार्य न गृह्णीयात् । एष ते योनिरित्यनेन खरे सादनं योनी सादनं तदपि न कुर्यात्, हि यस्मादग्रे पूर्वग्रहग्रहण समय एव एष ग्रह उपयामशब्दोच्चारणेन गृहीतः, एष ते योनिरित्यादिना खरे सादितः, अतो न तदुच्चारणं कुर्यात् । तथाकरणेऽजामित्वं अजामितायै स्यात् । उपयाम-गृहीतः, एष ते योनिर् - इत्यनयोर्ग्रहणसमये प्रयुक्तत्वात्, अत्रापि पुनस्तयोरुच्चारणे विशेषाभावाद् आलस्याय कल्पते । अध्यात्मपक्षे हे सोम, यज्ञस्य देवाराधनलक्षणस्य आयुषे मित्रावरुणाभ्यां प्रसिद्धाभ्यां देवाभ्यां मित्राय हितकारिणे वरुणाय शान्तिप्रदाय मित्रावरुणाभ्यामिव प्रकाशकवर्षकाभ्यां ज्ञानवैराग्याभ्यां यज्ञस्यायुषे इन्द्राय परमेश्वराय देवाव्यं देवतर्पणशीलं त्वां गृह्णामि । यज्ञस्यायुषे इन्द्रावरुणाभ्यां तन्नामकाभ्यां देवाभ्यां तत्तुल्याभ्या-मैश्वर्यशमाभ्यां देवाव्यं त्वां गृह्णामि । यज्ञस्यायुषे इन्द्राबृहस्पतिभ्यां देवताभ्यामैश्वर्यज्ञानाभ्यामर्थाय त्वां देवाव्यं गृह्णामि । तथैव इन्द्राविष्णुभ्यां देवताभ्यामैश्वर्यपालयितृभ्यां त्वां गृह्णामि । यज्ञस्यायुषे इन्द्राग्निभ्यां देवाभ्यामैश्वर्यतेजोभ्यां त्वां गृह्णामि । स्थित सोम के अंश का उक्थ पात्र में ग्रहण ' मित्रावरुणाभ्यां त्वा ' इत्यादि मन्त्रों के द्वारा किया जाता है । शतपथ ब्राह्मण में या शिकविनियोग के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में मन्त्रायं इस प्रकार है -- हे सोम, देवाराधनरूपी यज्ञ की आयुष्य के लिये हितकारी तथा शान्तिप्रद मित्र एवं वरुण नामक प्रसिद्ध देवों के लिये उनकी भाँति प्रकाशक एवं वर्षणकर्ता ज्ञान तथा वैराग्य के लिये, परमेश्वर के लिये देवतपंणशील तुम्हारा ग्रहण करता हूँ । यज्ञ के आयुष्यार्थ इन्द्र तथा वरुण नामक देवों के लिये, उनके तुल्य ऐश्वयं एवं शम के लिये तुम्हारा ग्रहण करता हूँ । इन्द्र एवं बृहस्पति देवों के लिये, ऐश्वर्यं तथा ज्ञान के लिये तुम्हारा ग्रहण करता हूँ । इसी प्रकार इन्द्र एवं विष्णु देवताओं के लिये, ऐश्वर्यं तथा पालकत्व के लिये तुम्हारा ग्रहण करता हूँ । इन्द्र तथा अग्नि देवों के लिये, ऐश्वर्यं तथा तेज के लिये तुम्हारा ग्रहण करता हूँ ।

पृष्ठ 123

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 123 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३-२४ ] वेदार्थपारिजातभाष्यसहिता ६ ९ दयानन्दस्तु - ' हे सभापते, धर्मादिमोक्षान्तान् पुरुषार्थानिच्छुरहं यज्ञस्य अग्निहोत्रादे राज्यपालनान्तस्य आयुषे उत्पत्त्यै मित्रावरुणाभ्यां सख्युरुत्कृष्टाभ्याम् ' इति, हिन्द्यां तु - मित्राय उत्तमविद्यायुक्त पुरुषेभ्योऽर्थाय देवाव्यं देवरक्षकं त्वां गृह्णामि । हे सेनापते विद्वन्, यज्ञस्य अग्निहोत्रादे राज्यपालनान्तस्य आयुषे उन्नत्यै इन्द्राय परमैश्वर्यंवते त्वा देवाव्यं विद्वद्रक्षकं त्वां गृह्णामि । हे शस्त्रास्त्रविद्यावित्, यज्ञस्य सत्सङ्गतिकरणस्यायुषे इन्द्राग्निभ्यां विद्युत्प्रसिद्धाग्निभ्यां देवाव्यं दिव्यविद्याबोधकं त्वां गृह्णामि, हे शिल्पिन्, यज्ञस्य शिल्पविद्याकार्य-सिद्धिकरस्य आयुषे इन्द्रावरुणाभ्यां विद्युज्जलाभ्यां त्वां देवाव्यम् एतद्दिव्यविद्याव्यापकं त्वां गृह्णामि । हे विद्वन्, यज्ञस्य क्रियाकौशलसंगतस्य आयुषे इन्द्राबृहस्पतिभ्यां राजानूचानाभ्यां विद्वद्भयां त्वा देवाव्यं प्रशस्तयोग -विद्याप्रापकं यज्ञस्य योगविद्याप्रापकस्य विज्ञानस्य आयुषे इन्द्राविष्णुभ्याम् ईश्वरवेदज्ञानाभ्यां त्वा देवाव्यं ब्रह्म-विदां तर्पकं यज्ञस्य ज्ञानमयस्य आयुषे वृद्धये गृह्णामि ' इति, तदपि यत्किञ्चित् त्वदुक्तानां सम्बोध्यानां वेदोक्तत्वे च ' मानाभावात् । तथैव मित्रावरुणाभ्यामित्यनेन मित्रोत्तमविद्याविदोर्ग्रहणमपि निर्मूलम् तेन, मित्रावरुणसंज्ञको ' देवताद्वन्द्वे ( पा ० सू ० ६।३।२६ ) इति सूत्रेण देवताद्वन्द्व एवं पूर्वपदान्तस्य दीर्घत्वविधानात् । देवताविशेषावेवात्र विवक्षितौ । यज्ञपदस्यापि न त्वदुक्ता विविधा अर्थाः, प्रमाणशून्यत्वात् । सत्सङ्गतिरूपस्य यज्ञस्योन्नतये सेनापतेर्ग्रहणे का वाचोयुक्तिः? इन्द्राग्निशब्दाभ्यां विद्युदग्न्योः प्रकाशोऽर्थ इत्यपि यत्किचित् । ' यज्ञस्य क्रियाकौशलस्य आयुषे ज्ञानाय ' इत्यपि स्वातन्त्र्यमेव, निर्मूलत्वात् । एवं राज्ञः, शास्त्रवक्तुश्चार्थायाध्यापकग्रहणमपि तथैव । देवाव्यमित्यस्यापि शब्दस्य यथेष्टार्थग्रहणं स्वातन्त्र्यमूलकमेव श्रुतिसूत्रविरोधात् ॥ २३ ॥

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वैश्वानरमृत आ जातम॒ग्निम् ।

कवि सम्राज॒मति॑थ॒ जना॑नामासन्ना पात्रं जनयन्त दे॒वाः ॥ २४ ॥

' ध्रुवं मूर्धानं दिव इति ' ( का ० श्र ० ९ ६ २२ ) । उद्गातृणां पश्चिमेन ध्रुवस्थालीमाहृत्य तस्याः स्तूयते स्थाल्या । ध्रुवग्रहं गृह्णाति । वैश्वानरदेवत्या त्रिष्टुप् । भरद्वाजस्यार्षम् । स च वैश्वानरोऽग्निरत्र सर्वात्मना स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में बताये गये संबोधनों के वेदोक्त होने में कोई प्रमाण न रहने के कारण अनौचित्य है । मित्रावरुण शब्द से मित्र तथा उत्तमविद्यावेत्ता अर्थ का ग्रहण करना भी निर्मूल है, क्योंकि ' देवताद्वन्द्वे च ' इस सूत्र से देवताद्वन्द्व में ही पूर्वपद के अन्त का दीर्घविधान किया गया है । अतः यहाँ मित्र एवं वरुण नामक देवताविशेष ही अभीष्ट हैं । मज्ञपद के भी व्याख्योक्त विविध अर्थ प्रमाणाभाव के कारण नहीं हो सकते । ' देवाव्यम् ' इस शब्द का 11 33 11 भी यथेच्छ अर्थ करना स्वैराचारमूलक ही है, क्योंकि इसमें श्रुति तथा सूत्र वचनों का विरोध मन्त्रार्थ - देवताओं ने द्युलोक के मस्तक स्वरूप सूर्य के रूप में प्रकाशित, पृथ्वी के सीमा स्वरूप जाठराग्नि के रूप में समस्त मनुष्य लोक के हितकारी, यज्ञ में दो अरणिकाष्ठों से उत्पन्न, अविचल तथा दीप्तिमान, क्रान्तदर्शी, संमुख आने वाले, नक्षत्र मंडली में सम्राट्, यजमान आदि समस्त जनों के अतिथि, हवि से आदरणीय इस ब्रह्माग्नि को मुख्य पात्र चमस में प्रकट किया था ॥ २४ ॥

भाष्यसार - ' मूर्धानं दिन: ' इस ऋचा से ध्रुव ग्रह का ग्रहण किया जाता है । कात्यायन श्रौतसूत्र ( ९ ।६।२१ ) में

पृष्ठ 124

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 124 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७० शुक्लयजुर्वेद संहिता [ अ ० ७ दिवो द्युलोकस्य मूर्धानं शिरोरूपं सूर्यात्मनाऽवस्थितन् । पृथिव्या अन्तरिक्षस्य पृथिवीशब्दोऽन्तरिक्षवचनः ( निघ ० १ | ३ | ९ ) । अति पर्याप्तमति तदभिमानिनीं देवतां तस्यैव वायुरूपत्वाश्रयणात् ' वायुर्वा अन्तरिक्ष-स्याध्यक्षः ' इति श्रुतौ वायोवान्तरिक्ष लोकाभिमानित्वश्रवणात् । भूमौ च ऋते यज्ञे यज्ञनिमित्ते आजातम् आभिमुख्येन अरणिद्वयादुलन्नं वैश्वानरं विश्वेषां देवानां सम्बन्धिनमग्निमग्रे नेतारं कवि प्रत्यगात्मरूपतया क्रान्तदर्शनं सम्राजं सम्यग्राजमानं जनानां यजमानरूपाणाम्, अतिथिम् अतिथिवत् पूज्यम्, अग्नेरातिथ्यमसि विष्णवे त्वा ' ( श ० ३।४।१।११ ) इत्यतिथिरूपायाग्नये निर्वाणः क्रियते । योऽयमुक्त गुगोऽग्निस्तं देवा इन्द्रादय आसन आसन आस्ये, ' पद्दन्नो... ' ( पा ० सू ० ६ | १/६३ ) इत्यास्य शब्दस्य आसन्नादेशः । पात्र पानसाधनम्, आभिमुख्येन जनयन्त अजनयन्त | ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६ । ४ । ७५ ) इत्यडागमाभावः । अग्निप्रापितः सोमो देवैः पीयत इत्यग्नेः पानसाधनत्वम्, ' अग्निमुखा वै देवाः ' इति श्रुतेः । वयं वैश्वानर-नामकमग्निस्तुम इति शेषः । कीदृशं वैश्वानरम्? विश्वेषां देवानां सम्बन्धिनम् यद्वा देवा इन्द्रादयो यमग्निमित्थंभूतं जनयन्त उत्पादितवन्तः । अडागमाभावश्छान्दसः । कथंभूतमग्निम्? दिवो द्युलोकस्य मूर्धानं शिरोवदूर्ध्वप्रदेशे आदित्यरूपेण स्थित्वा प्रकाशकम्, तथा पृथिव्याः पृथिवोलोकस्याऽरति रतिरुप रतिस्तद्रहितम् । पृथिव्या उपरि कदाचिदपि तदुपरमाभावाद दाहपाकप्रकाशादिभिः सर्वानुग्राहकत्वेन तत्र सर्वदा वर्तमानत्वादिति सायणाभिप्रायः । उब्वटरीत्या तु... आकाशमा । पृथिवीत्यन्तरिक्षनामसु पठितत्वात् पृथिव्या अन्तरिक्षस्य अरतिम् अलं मत पर्याप्तर्मात पूरकम् । तत्र स्थित्वा सूर्यरूपेण यथाकालं वृष्ट्या भूतानि पुष्णाति । तथा वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो जाठराग्निरूपेणाशितपीतादिपाचकत्वाद् हितं वैश्वानरं विश्वान् सर्वान् वा आसमन्ताद् नृणाति नयतीति ( व्यवहारयतीति ) विश्वानरः, विश्वानर एव वैश्वानरस्तम् । तथा ऋते यज्ञे यज्ञनिमित्त-माजातम्, आभिमुख्येनारणिद्वयान्मन्थनेन जातम् । कवि स्वमात्मानमनुग्रहीतुमभिज्ञं क्रान्तदशिनमतीतानागत-वर्तमानद्रष्टारम्, सर्वज्ञमित्यर्थः । सम्राजं सम्यग् दीप्यमानं जनानां यजमानानामतिथिमतिथिवत् सत्कारार्हम् । विज्ञायते ह्यग्निरतिथिरूपेण गृहान् प्रविशति । तस्मात्तस्योदकमाहरन्ति । आसन्नापात्रम्, आस्यशब्दस्य सप्तम्येकवचने ' पद्दन्नो.. ' ( पा ० सू ० ६ १/६३ ) इति सूत्रेण आसन आदेश: । ' सुपां सुलुक् ' ( पा ० सू ० ७। १।३ ९ ) इति सप्तमीलोपः । तेन देवानाम् आसन आसनि आस्ये आपात्रम् आभिमुख्येन पीयतेऽनेनेत्यापात्रं पानसाधनं चमसपात्ररूपम् । विज्ञायते हि चमसो देवपान इति । चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति । तमीदृशमग्नि देवा इन्द्रादयोऽजनयन्तेत्यर्थः । शतपथे विशेषः - ' अय ह वा अस्यैव प्राणः । योऽयं पुरस्तात् स वै वैश्वानर एवाथ योऽयं पश्चात्स ध्रुवस्ती हस्तौ द्वावेवाग्रे ग्रहो गृह्णन्ति ध्र ववैश्वानराविति तयोरयमप्येतर्ह्यन्यतर एव गृह्यते ध्रुव एव स यदि तं चरकेभ्यो वा यतो वाऽनुब्रवीत यजमानस्य तं चमसेऽवनयेदथैतमेव होतृचमसे ' ( श ० ४।२।४।१ ) । उपश्वादीनां ग्रहाणां प्राणाद्यात्मकत्वाद् आग्रयणोक्थयो ः स्थूलसूक्ष्मशरीरद्वयात्मकत्वात् तद्विधानेन कृत्स्नं यज्ञ-शरीरं निष्पादितम् । आयुर्विशेषविशिष्टमेव शरीरं कार्यजनकत्वेन सार्थकं भवति । अतस्तत्सार्थकत्वाय आयुषः सम्पादनीयत्वात् तत्सम्पादनायेदानीमस्मिन् ब्राह्मणे तदात्मकत्वेन ध्रुवं ग्रहं विधातुं प्रस्तौति - अयं हेति । अस्य यज्ञस्य एष वक्ष्यमाणो ध्रुवो ग्रहः, अयं सर्वेषां प्रत्यक्षः प्राणः खलु । प्राणशब्देनात्र आयुर्विवक्ष्यते । आयुषः यह याज्ञिक विनियोग प्रतिपादित है । शतपथ ब्राह्मण के अनुसार सायण तथा उव्वट आदि आचार्यों ने याज्ञिक प्रक्रिया के

पृष्ठ 125

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 125 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २४ ] वेदार्थ पारिजातभाष्यसहिता ७१ प्राणशरीरात्मसम्बन्धात्मवत्वात् सोऽस्यैष आयुरेवेति द्वितीयकण्डिकायां विवरिष्यमाणत्वात्, ' आयुर्वा एतद्यज्ञस्य यद् ध्रुव इति ' ( तै ० सं ० ६।५ | २ ) इति श्रुतेः । प्राणस्य मूलाधारे निष्पत्तिः । निष्पन्नस्य तस्य मुखनासा-विवरेणाभिव्यक्तिः । ततश्चैकस्यापि निष्पत्त्यभिव्यक्तिस्थानभेदमङ्गीकृत्य तदनुसारेण ग्रहद्वैविध्यमाह- ' योऽयं पुरस्तादिति । मुखनासाविवरेणाभिव्यज्यमानः प्राणः स एव वैश्वानरस्तदात्मको वैश्वानरो ग्रहः, योऽयं प्राणः पश्चाद् मूलाधारे निष्पद्यते स एव ध्रुवग्रहः । तौ एतौ उक्तरीत्या द्विसंख्याको पूर्व गृह्णातीति केषाञ्चित् शाखिनां मतमनुवदति - तौह स्मैताविति । यद्यपि प्राणस्य स्थानभेदनिबन्धनो भेदोऽस्ति, तथापि न स्वरूपनिबन्धनो भेदः, तस्यैकत्वात् । तदात्मकयोस्तयोरन्यतर एव ग्रहो ग्रहीतव्य इति । तत्र स्वमतमाह - तयोरयमिति । अर्थात सामान्येन निर्दिष्टार्थः प्रदर्श्यते - ध्रुव एवेति । मुखनासाविवरेण व्यज्यमानः प्राणो मूलाधारादुत्पन्न एवेति तदात्मक व ग्रहणेन वैश्वानरग्रहणमपि सम्पादितं भवतीति ध्रुव एवेत्युक्तम् । चरकेभ्यो यतो वा अन्येभ्यो यदि इदं प्रतिपादकं वचनमधीयीत, तदा तं वैश्वानरग्रहं होमकाले यजमानस्य चमसेऽवनयेत् । एवं ध्रुवग्रहं तु होतृचमस एव अवनयेत्, तयोरन्यतर एव ध्रुव एवेति स्वेनोपादानात् । ' एतम् ' इति ध्रुवस्य प्रत्यक्षनिर्देशः । तदभावात् तमिति वैश्वानरस्य परोक्षनिर्देशः । ' यद्वा अस्याऽवाचीनं नाभेस्तदस्यैष आत्मनः सोऽस्यैष आयुरेव तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णात्यजरा हीयममृता अजर १७ मृतमायुस्तस्मादनया गृह्णाति ' ( श ० ४ | २ | ४।२ ) । स्थाल्या ग्रहणमुपपादयितुमायुरात्मकत्वमाह - यद्वा अस्येति । अस्य यज्ञस्य नाभेरधस्तनं यच्छरीरं यस्यात्मनस्तच्छरीरमेतस्य । एष ध्रुवग्रहः, तत् तस्य प्राणात्मकत्वात् । अत एवास्य यज्ञस्य सोऽयं ग्रह आयुरात्मकः । प्राणशरीरसम्बन्धात्मकत्वादायुषो यदुक्तप्रकारेण ग्रहस्यायुष्ट्वम्, तस्मादेनं ग्रहम् अनया पृथिव्या गृह्णीयात् । ननु चायं स्थाल्या गृहते, कथमुच्यते पृथिव्या गृह्णीयादिति? अत आह—- अस्यै हि स्थालीति । कार्यकारणयोरभेदात् स्थाल्या ग्रहणेन पृथिव्यैव ग्रहणं मन्तव्यम् । तथापि ग्रहस्य पृथिव्या ग्रहणे कथमायुष्ट्वं हेतुरित्यत आह- अजरा हीति । जरा शैथिल्यम्, मरणं स्वरूपनाशः | आयुषश्च न तदुभयम्, यस्य यावदायुस्तावत्तस्मिन् तदुभयाभावात् । ' तं वै पूर्णं गृह्णाति । सर्वं वै तद्यत्पूर्ण सर्वं तद्यदायुस्तस्मात् पूर्ण गृह्णाति ' ( श ० ४।२।४।३ ) । ' देवा ' ह वै यज्ञं तन्वानास्ते असुररक्षसेभ्य आसङ्गाद्विभयाञ्चक्रुस्तान् दक्षिणतोऽसुररक्षसान्यासेजुस्तेषामेतान् दक्षिणान् ग्रहानुज्जघ्नुरप्येतदक्षिण हविर्धानमुज्जघ्नुरथंतमेव न शेकुरुद्धन्तुं तदुत्तरमेव हविर्धानं दक्षिण १ ९ हविर्धानमा १ हत् तद्यदेतं न शेकुरुद्धन्तुं तस्माद् ध्रुवो नाम ' ( श ० ४।२ | ४ | १ ९ ) । ग्रहस्य ध्रुवनामधेयप्राप्तिमाख्यायिकया दर्शयति- दक्षिणत इति । असुररक्षसानि देवान् आसेजुः, तैः सह युद्धे आसक्ता बभूवुः । देवाश्वासुररक्षसां कृते दक्षिणे हविर्धाने गतान् ग्रहानुज्जघ्नुः । दक्षिणहविर्धानमपि प्रचिक्षिपुः । एतं ग्रहमप्युद्धृत्य प्रक्षेप्तुमुद्युक्तास्तथा कर्तुं न शक्नुवन्तः । अत एवोत्तरं हविर्धानं दक्षिणं हविर्धानमहंहद् दृढं कृतवतो ग्रहस्योद्धर्तुमशक्यत्वाद् ध्रुवनामधेयम् । अध्यात्मपक्षे – अग्निमग्रनेतारं परमात्मानं नोमीति शेषः । कीदृशम्? दिवो द्युलोकस्य मूर्धानम्, मूर्धान-मिवोत्कृष्टं सर्वभासकम्, आदित्यरूपेण वा वर्तमानम्, पृथिव्या अन्तरिक्षस्य अरतिम् अभिमानिनम् । वायुं वायुरूपेण अनुकूल अर्थं निरूपित किया है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - आगे बढ़ाने वाले परमात्मा को मैं प्रणाम करता हूँ । द्युलोक के

पृष्ठ 126

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 126 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२ शुक्लयजुर्वेदसंहिता | अ ० ७ भासमानम् विश्वान् नृणति कर्मफलभोगाय नयतीति वैश्वानरस्तम्, जाठराग्निरूपेण वा वर्तमानम्, ' अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ ' ( भ ० गी ० १५ | १४ ) इति गीतोक्तेः । ऋते यज्ञे आजातम् अरण्योरुत्पन्नं तद्रूपम् । ऋते सूनृतायां वाचि आजातं आभिमुख्येन प्रादुर्भूतम्, कवि क्रान्तदर्शिनं सर्वज्ञं सम्राजं स्वप्रकाशम् । जनानामतिथि तद्वत् पूज्यम् । आसन् मुखे अभिमुखं पात्रम् अमृतपानसाधनरूपम्, तं देवा इन्द्रादयो जनयन्त अजमयन्त प्रादुर्भावयन्ति, मुखाभिमुख ममृतपानसाधनरूपे दैवा भक्त्या ज्ञानेन च तमाविर्भावयन्ति । दयानन्दस्तु --- ' यथा देवा धनुर्वेदविद्वांसो धनुर्वेदशिक्षया दिवो द्योतमानस्य सूर्यस्य मूर्धानं शिरोवद्वर्तमानं पृथिव्या अरति ऋच्छति प्राप्नोतीत्यरतिस्तम् ऋते सत्ये आसमन्ताद् जातं प्रसिद्धं वैश्वानरं यो विश्वान्नराना-नन्दयति तम् | ' वैश्वानरः कस्मात्? विश्वान् नरान् नयति विश्व एनं नरा नयन्तीति वा ' ( निरु ० ७।२१ ) । जनानामतिथि सत्पुरुषाणामतिथिवत्पूज्यम्, आसन् मुखे आपात्रम् आसमन्तात् पाति रक्षति समस्तं शिल्पव्यवहारं यस्तम्, कवि क्रान्तदर्शनम्, अग्नि शुभगुणैः प्रकाशमानम्, सम्राजं चक्रवर्तिनमिव जनयन्त उत्पादयन्तु तथा सर्वैरनुष्ठेयम् ' इति, तदेवद् गौणार्थ काख्यानमप्य स्पष्टमेव । अत एव भाषाभाष्ये संस्कृत-भाष्यादप्यधिकोऽध्याहारः । तथा च - ' धनुर्वेदविद्वांसो धनुर्वेदशिक्षया दिवः सूर्यस्य शिरोवद्वर्तमानम्, पृथिव्या गुणानाम् अरति प्रापकसत्यमार्गे सम्यक् प्रसिद्धं सर्वानन्ददायकं सत्पुरुषाणामतिथिवत् सत्काराहं यज्ञरूपे मुखे पात्रं समस्तशिल्पव्यवहाररक्षकम् कवि दूरदर्शनं शुभगुणप्रकाशितं सभापति सम्राजमिव जनयन्त सम्यक् प्रकाशयन्ति तथैव सर्वैर्मनुष्यैः ऋतुं योग्यम् ' इति, तदेत् सर्वमप्यसंगतमेव । नहि यद्धनुर्वेदशिष्या धनुर्वेदविदः कर्तुं प्रभवन्ति, तदन्यैः कर्तुं योग्यं भवति । अग्निपदस्य शुभगुणैः प्रकाशमानः सभापतिः कथमर्थः? शुभगुणेः प्रकाशमानत्वं विदुष आचार्यस्यापि सम्भवत्येव । देवपदस्य धनुर्वेदविदर्थ इत्यपि निर्मूलम् । कथं च तेऽपि सूर्यस्य शिरोवद्वर्तमानं भूपत निर्यातुं प्रभवन्ति । एतादृशो भूपतिः सम्राडेव भवति तदा सम्राजमिवेत्युक्ति-पार्थैव । आसन्नित्यस्य मुखबोधव त्वेऽपि यज्ञरूपत्वं तस्य निर्मूलमेव । वैश्वानरशब्दस्य आनन्ददायत्वं कथमर्थः? न च निरुक्तमपि तत्पोषकम् ॥ २४ ॥

अधिष्ठाता, वायुरूप से मस्तक की भाँति सर्वोत्कृष्ट अथवा सर्वभासक सूर्य के रूप में विद्यमान पृथिवी और अन्तरिक्ष के भासित होने वाले, समस्त लोकों को कर्मफल के भोग के लिये ले चलने वाले अथवा जठराग्नि के रूप में विद्यमान, सत्य मधुर वाणी में संमुख उत्पन्न होने वाले, क्रान्तदर्शी, सर्वज्ञ, स्वप्रकाश, प्राणियों के द्वारा अतिथि की भांति पूजनीय, अपने संमुख अमृतपान के साघनरूप उस पात्र को इन्द्र आदि देवगण भक्ति एवं ज्ञान से आविर्भूत करते हैं । स्वामी दयानन्द द्वारा निरूपित भाष्य में गौण अर्थ का प्रतिपादन भी स्पष्ट नहीं है । अतः हिन्दी भाष्य में संस्कृत भाष्य से भी अधिक अध्याहार हैं । यह सम्पूर्णतः असंगत है । अग्नि शब्द का ' शुभ गुणों से प्रकाशमान सभापति ' अर्थ कैसे होगा? शुभ गुणों से प्रकाशमान होना तो विद्वान् आचार्य के लिये भी संभव ही है । देव शब्द का धनुर्वेदवेत्ता अर्थ करना भी अप्रामाणिक है वे सूर्य के सिर की भाँति वर्तमान राजा का निर्माण करने में कैसे समर्थ होंगे? ' आसन ' शब्द के मुखबोधक होने पर भी उसका यज्ञरूपत्व प्रतिपादित करना अप्रामाणिक है । वैश्वानर शब्द का अर्थ ' आनन्ददायक ' कैसे होगा? निरुक्त भी इसका पोषण नहीं करता ॥ २४ ॥

पृष्ठ 127

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 127 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २५ ] वेदार्थ पारिजात भाष्यसहिता ७३ उपयामगृ॑होतोऽसि ध्रुवोऽसि ध्रुव क्ष॑तिर्ध्रुवाणां ध्रुवत॒मोऽच्यु॑ताना मच्युत॒क्षित्त॑म ए॒ष ते॒ यो निर्वैश्वान॒राय॑ त्वा । ध्रुवं ध्रुवेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि । अथा॑ न॒ इन्द्र॒ इद्विशोऽ-: सप॒त्नाः सम॑नस॒स्र॑त् ॥ २५ ॥

ध्रुवदेवतं यजुः । ध्रुवग्रहण एव विनियुक्तम् । हे सोम, त्वमुपयामेन दारुपात्रेण गृहीतोऽसि ध्रुवोऽसि ध्रुवनामासि, पूर्वोक्तरीत्या प्रक्षेप्तुमशक्यत्वात् । कथंभूतस्त्वम्? ध्रुवा स्थिरा क्षितिर्निवासो यस्य स ध्रुवक्षितिः, ' क्षिति निवासगत्योः ', स्थिर निवासः, आ वैश्वदेवीशंसनमवस्थानात् । ध्रु वाणामादित्यस्थाल्यादीनां मध्ये ध्रुवतमोऽ तिशयेन स्थिरः । अच्युतानां च्युतिरहितानां क्षरणशून्यानामच्युतक्षितीनां मध्येऽच्युतक्षित्तमः । अच्युते च्युतिर हिते पात्रे क्षियति निवसतीत्यच्युतक्षित् । अतिशयेनाच्युतक्षिद् अच्युतक्षित्तमः । अच्युतक्षितां श्रेष्ठोऽसीति सायणाचार्यः । उव्वरीत्या तु - श्रवाणां त्वं ध्रुवक्षितिध्रुवनिवासः, ध्रुवतमोऽच्युतानाम् । अच्युतानामपि त्वमेव ध्रुवतमः, च्युतिरहितानामपि त्वमेव स्थिरतमः | अच्युते क्षियतीत्यच्युतक्षिद् अतिशयेनाच्युतक्षिद् अच्युतक्षित्तमः । हे ध्रुवग्रह, एष ते योनिः स्थानम् । वैश्वानराय अग्नये त्वां सादयामि | ' ध्रुव होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति ' ध्रुवपात्रस्थं सर्वसोमं होतृचमसे सिखेत् । बृहती । पूर्वार्धर्चः ध्रुवदैवतः । उत्तरार्धर्च ऐन्द्रः । प्रथमतृतीयो पादावष्टाक्षरौ, द्वितीयतृतीयो दशाक्षरी यस्याः सा बृहती, वैराजो गायत्री चेति पिङ्गलोक्तेः । अष्टाक्षरा गायत्री । दशाक्षरा विराट् । ध्रुवेण निश्चलेन मनसा वाचा तन्मन्त्रोच्चारणप्रवणया होतृचमसेऽवनयामि । यद्वा ध्रुवग्रहं सोमं होतृचमसं प्रत्यवनयामि । स हि होतृचमसेऽवसिच्यते । द्वादशे शस्त्रेऽथा अनन्तरम् इन्द्र इद् इन्द्र एव । विशो मनुष्यान् असपत्नान् सपत्नरहितान् शत्रुहीनान् समनसः समनस्कान् सङ्कल्पाध्यवसायादिवृत्तिभिर्युक्तान् करत् करोतु । यद्वा समानं मनो यासां ता विश: सावधान स्थिर मनस्का धृतियुक्ताः शत्रुरहिताश्च विशः, करत् करोतु । शतपथे- ' तं वै गोपायन्ति ( ० ४।२।२।२० ) इत्यादिना ग्रहणमारभ्य होमपर्यन्तं रक्षेयुः । कुतः? इत्यत आह- शिरो वा एष एतस्य । शिरश्च श्रीस्तस्मात् शिरसः श्रीरूपत्वाद् यो यस्यार्धस्य भागः श्रेष्ठः श्रिया प्रशस्यतरो भवति, असावमुष्यार्धस्य शिर इति वा लोका वदन्ति । लोके श्रेष्ठस्य समृद्धिमन्ये न सहन्त इति ततो बिभेति । अतोऽत्र श्रेष्ठत्वाद् ग्रहो व्यथेत । एतेन लोके श्रेष्ठ एव व्यथते । तथा च सत्यत्र यजमानस्य श्रेष्ठत्वात् तस्यापि व्यथा स्यात्, अतो नैव यजमानो व्यथतामिति तदर्थं सोमग्रहं गोपायेयुरित्यर्थः । ' वत्सो वा एषः । एतस्यै गायत्र्यै यज्ञो वा गायत्री द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विं‍शत्यक्षरा वै गायत्री तस्या एष वत्सस्तं यद् गोपायन्ति गोपायन्ति वा इमान् वत्सान दोहाय यदिदं पयो दुह्र एवमियं गायत्री मन्त्रार्थ हे सोम! तुम उपयाम पात्र में गृहीत हो, स्थिर निवास वाले समस्त ग्रह - नक्षत्र मंडल की अपेक्षा अत्यन्त अचल, च्युतिरहित पात्र में निवास करने से ध्रुव नाम से प्रसिद्ध हो, ध्रुव देवता की प्रीति के लिये तुम्हारा ग्रहण करता हूँ । हे ध्रुव ग्रह! यह तेरा स्थान है, समस्त मनुष्य लोक के हितकारी देवता की प्रीति के निमित्त तुम्हें इस स्थान में स्थापित करता हूँ । स्थिर मन और वाणी से इस ध्रुव ग्रह में स्थित सोम को होतृचमस पात्रान्तर में सिंचित करता हूँ । इसके अनन्तर इन्द्र देवता हमारी प्रजा को शत्रुशून्य और स्थिरप्रज्ञ करें ॥ २५ ॥

भाष्यसार-( - ' उपयामगृहीतः इस कण्डिका काविनियोग भी ध्रुव ग्रह के ग्रहण में ही किया गया है । सायणाचार्य

पृष्ठ 128

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 128 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४ शुक्लयजुर्वेद संहिता यजमानाय सर्वान् कामान् दोहाता इति तस्माद् वै गोपायन्ति ' ( ० ४ | २/२/४ ) | वत्सानां रक्षणेन यथा गौरिदं पयो दुह्रे दुग्धे । तकारलोपः, बहुलं रुडागमः । एवमियं यज्ञरूपा गायत्री वत्सरूपस्य ध्रुवग्रहस्य रक्षणेन यजमानाय सर्वान् कामान् दोहाता इति तदर्थं ध्रुवग्रहं रक्षेयुः । उपांश्वाद्या ग्रहाः प्रातःसवन एव गृह्यन्ते, तत्रैव च हूयन्ते । अयं तु ध्रुवग्रहो न तथा, किन्त्वेतस्मात् कालादग्निमारुतशस्त्रकालं यावदुपशेते स्थिरो भवति । तथा-वस्थानेन तस्य सर्वाणि सवनान्यतिनीतत्वात् तस्यायरूपत्वमुपपद्यन्ते । तदेतत् स्पष्टम् -- स प्रातः सवने गृहीतः । एतस्मात् कालादुपशेते तदेन सर्वाणि सवनान्यतिनयति ' ( श ० ४।२।२।२ ) । अग्निष्टोमस्तोत्रावसरे स्वल्पस्यापि सोमस्यानवस्थापनात् तदास्यावनयनप्रसक्तौ निषेधति - - ' तं न स्तूयमानेऽवनयेत् ' ( श ० ४ २ २ ६ ) । वदा तनमवनयेदिति तत्राह ' त २७ शस्यमानेऽवनयति । तदेनं द्वादश स्तोत्रमतिनयति तथा परम्परमायुः समश्नुते तथो ह यजमानो ज्योग् जीवति तस्माद् ब्राह्मणोऽग्निष्टोमसत् स्यादेतस्य होमान्न सर्पेन्न प्रस्रावयेत तथा सर्वमायुः समश्नुत आयुर्वा अस्यैष तथा सर्वमायुरेति ' ( श ० ४ २ २७ ) | अग्निमारुतशस्त्रशंसनकाले द्वादशानामपि स्तोत्राणां समापितत्वेन द्वादशमासात्मकस्य संवत्सरस्य साकल्येन तदात्मकस्योत्तरोत्तरस्यायुषः प्राप्त्या यजमान-श्चिरं जीवेदित्यर्थः । यतोऽग्निष्टोमस्तोत्रे समापिते द्वादशात्मकः संवत्सरः साकल्येन प्रथत इति तदैव ध्रुवग्रहो हूयते । अतस्तद्धोमपर्यन्तं तत्रैव तिष्ठेत् । तेनापि तस्य ध्रुवत्वमुक्तमेव । तस्माद् ब्राह्मणोऽग्निष्टोमसत् स्यात् अग्निष्टोमस्तोत्रपर्यन्तं तत्रैव तिष्ठेत् तस्य होमान्न सर्पेन्न प्रस्रावयेत न मूत्रयेत तस्मात् सर्वमायुः समश्नुते । अत्र ब्राह्मणशब्देन दीक्षितास्त्रैवर्णिका उच्यन्ते - ब्राह्मणो वा एष जायते यो दीक्षते ततोऽस्माद्राजन्यवैश्यावपि ब्राह्मणा इत्येवावेदयति । ' यद्वा अस्यावाचीनं नाभेः ' ( श ० ४।२।२।८ ) इत्यादिषु ध्रुवग्रहो यज्ञस्य नाभेरधस्तनशरीरतयोक्तः । अत एव तस्य होमात् पूर्वमन्यत्र गमने मूत्रावसेचने वा ध्रुवमेवावसित् । तस्मात् तावत्पर्यन्तं तत्रैव तिष्ठेत् । अग्निष्टोमस्तोत्रपर्यन्तं सदनं चावश्यकर्तव्यत्वाय प्रशंसति - ' स वा अग्निष्टोमसद् भवति ' ( श ० ४ । २ । २२ ९ ) । स वै यजमानोऽग्निष्टोमस्तोत्रपर्यन्तं तत्रैव स्थिति -मान् भवेदित्यत्रोपपत्तिमाह - यशो वै सोमः । य एवं विद्वान् सोममागच्छति यश एवैनमृच्छति तस्मादाहु-चैव वृतो यश्च न तावुभौ सोममागच्छतः । सोमयागे दक्षिणां लभते दक्षिणावान् तद्वयतिरिक्तश्च यशोरूपं सोमं द्रष्टुमागच्छति । अदक्षिणतोऽप्यागमनात् सोमस्य यशस्त्वं समर्थितं भवति । ' ब्राह्मणाः संप्रसृप्यात्मन् सन्दधते यद्भक्षयन्ति देवाश्चैवासुराश्व उभये प्राजापत्याः पस्पृधिरे एतस्मिन् यज्ञे प्रजापतौ पितरि संवत्सरे अस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति ' ( श ० ४।२।२।९ -११ ) । संवत्सरावयवी भूतमासगतद्वादशसंख्याविशिष्टैः स्तोत्रैः शस्त्रैश्च यज्ञस्य समाप्यत्वात् संवत्सरात्मक प्रजापतिरूपत्वमपि यज्ञस्य । तत्प्राप्त्यर्थं स्पर्धां कृतवन्तः । ' ततो देवाः । अर्चन्तः श्राम्यन्तवेरुस्त एतदग्निष्टोमसद्यं ददृशुस्त एतेनाग्निष्टोमसद्येन सर्वं यज्ञ ७ समवृञ्जन्तान्त-रायन्नसुरान् यज्ञात् तथो एवैष एतेनाग्निष्टोमसद्येन सर्वं यज्ञ संवृङ्क्तेऽन्तरेति सपत्नान् यज्ञात् तस्माद्वा अग्निष्टोमसद् भवति ' ( श ० ४ | २ | २ | १२ ) | स्पर्धानन्तरं ते देवा अर्चन्तः पूजयन्तः श्राम्यन्तस्तपस्यन्तश्च चेरुः । ततः स्वकीयतपःप्रभावेण यज्ञप्राप्तौ अग्निष्टोमसद्यं साधनं ददृशुः । ततस्तेन समस्तं यज्ञं समवृखन्त, असुरेभ्योऽपच्छिद्य स्वायत्तं कृतवन्तः । अतोऽसुरान् यज्ञाद् अन्तरायन् अन्तरितान् यज्ञहीनानकुर्वन् । तस्मात् तथैवाग्निष्टोमसद्येन यजमानोऽपि सर्वं यज्ञं स्वायत्तं कुरुते । सपत्नान् यज्ञहीनान् कुरुते । ' तं गृहीत्वोत्तरे हविर्धाने सादयति ' ( श ० ४।२।२।१३ ) । उपांश्वादीन् ग्रहान् उपकीर्णे पांसुभिन्युंप्तखरप्रदेशे सादयेत् । ध्रुवं ग्रहं तु व्युह्य सादनस्थानगतं यत्किञ्चिदपसार्य तृणमात्रमप्यव्यवहितं कृत्वा सादयेत् । नाभेरूर्ध्वभागस्य पुरुषस्योपरिभागत्वात् तद्भागत्वा-चक्षुरादिरूपाणां ग्रहाणामुच्छ्रिते खरे सादनं युज्यते । नाभ्यधोभागरूपस्य तु ध्रुवग्रहस्याऽव्यवहितायां पृथिव्यामेव सादनम् । एवं बहुधा प्रशस्य -- ' अथ यदध्वर्युश्च प्रतिप्रस्थाता च । निश्चक्रामतः प्रतिपद्यते यथा बद्धवत्सोपाचरेदेव-

पृष्ठ 129

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 129 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २५ ] वेदार्थ पारिजातभाष्यसहिता ७५ मेतं ग्रहमुपाचरतस्तमवनयति ' ( श ० ४।२।४।२२ ) | अध्वर्युप्रतिप्रस्थात्रोर्निर्गमनागमनाभ्यां ग्रहस्य वत्सरूपतां प्रतिपादयति । तो ग्रहणानन्तरं निष्क्रामतः । ततो होमकाले ग्रहं प्रपद्येते । यथा बद्धवत्सा गौर्गत्वा पश्चाद् वत्समुपाचरेद् वत्ससमीपमागच्छेत्, एवं तौ वत्सरूपग्रहमुपचरितवन्तौ । ग्रहस्यावनयनं विधत्ते --तमवनयतीत्यादि । ' तर ' शस्यमानेऽवनयति ' ( श ० ४ | २ | ४ | ७ ) इति, ' अथैतमेव होतृचमसेऽवनयति ' ( श ० ४ | २ | ४ | १ ) इति कालस्य होतृचमसस्य च विहित्वादग्निमारुतशस्त्रशंसनकाले होतृचमसे ध्रुवग्रहमासिश्वेद् गायत्रीमेवैतत् प्रस्रावयति प्रस्रुतं करोति । दोहार्थं पयः पूरितस्तनाग्रतः पयः क्षरणात् क्षारयन्ती प्रत्ता प्रदातुमुपक्रान्ता यजमानाय सर्वान् कामान् दोहाता इति । ' सोऽवनयति । ध्रुवं ध्रुवेण मनसा वाचा सोममवनयामीति गृह्णामीति वाथा न इन्द्र इद्विशोऽसपत्ना: समनसस्करदिति यथा न इन्द्र इमाः प्रजा विशः श्रियै यशसेऽन्नाद्यायासपत्नाः संमनसस्क रवदित्येवैतदाह ' ( श ० ४।२।२।२३ ) । विहितमवनयनमनूद्य मन्त्रं विदधानो व्याचष्टे - अवनयामीति । गृह्णामीति वा प्रयोक्तव्यः । तदुक्तं कात्यायनसूत्रभाष्ये - ' अवनयामिस्थाने गृह्णामति च ' इति । अथात इत्यस्य मन्त्रभागस्योच्चारणेऽयमभिप्रायः - नोऽस्माकं विशः प्रजाः, श्रियै यशसे अन्नाद्याय, असपत्नाः शत्रुरहिताः समनस इन्द्र एवं करोत्विति । हे ग्रह, ध्रुवेण एकाग्रेण मनसा वाचा मन्त्रोच्चारणेन च होतृचमसगतं सोमं प्रति त्वां ध्रुवम् अवनयामि । अथ इन्द्र एव नोऽस्माकं विशोऽसपत्नाः समनसः करोत्विति समस्तमन्त्रार्थः । ‘ अथातो गृह्णात्येव । मूर्धानं दिवो अरति जनयन्त देवा उपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षिति-वाणां वतमोऽच्युतानामच्युतक्षित्तम एष ते योनिर्वैश्वानराय त्वेति सादयति व्युह्य न तृणं चनान्तर्धाय वैश्वानराय ह्येनं गृह्णाति ' ( श ० ४।२।२।२४ ) | ग्रहस्य ग्रहणमनूद्य मन्त्रं विधत्ते अथातो गृह्णात्येवेति । दिवो द्युलोकस्य मूर्धानं पृथिव्या अन्तरिक्षस्य अरति पर्याप्तर्मात तदभिमानिनीं देवताम् ऋते यज्ञे तन्निमित्तेन आजात मरण्यो-रुत्पन्नं वैश्वानरमग्नि कवि सम्राजं जनानामतिथि देवा आसन आस्ये आपात्रं पानसाधनत्वेन अजनयन्त । हे ध्रुवपात्रगत सोमरस, त्वमुपयामगृहीतोऽसि त्वां वैश्वानरायाग्नये गृह्णामि त्वं ध्रुवोऽसि, ध्रुवक्षितिः स्थिर-निवासोऽसि वाणां मध्ये ध्रुवतमोऽसि । तस्यैव व्याख्यानम् - अच्युतानामच्युतक्षित्तम इति । अथ एनं व्युह्य न तृणं चान्तर्धायाव्यवहितायां पृथिव्यां सादयति वैश्वानराय ह्येनं गृह्णाति । अध्यात्मपक्षे तु - हे सोम, उमया महाशक्त्या सहितः सोमः, तत्सम्बुद्धौ हे सोम, त्वम् उपयामेन यमसमूहसमीपवर्तिना प्रेम्गानुरागेण गृहीतोऽसि वशीकृतोऽसि । ध्रुवोऽसि क्कूटवन्निविकारोऽसि । ध्रुवक्षितिरसि ध्रुवाणामाशिकालादीनां क्षितिर्निवासभूतोऽसि । ध्रुवाणामात्माकाशादीनां स्थिराणां मध्ये ध्रुवतमः स्थिरतमः, कूटस्थ नित्यत्वात् । अनात्मोपाधिसंसृष्टानां परिणामिनित्यत्वेन निरपेक्षध्रौव्यायोगादच्युतानां क्षरणरहितानामात्मा-काशादीनामच्युतक्षित्तमोऽच्युतेष्वात्मात्राशादिषु क्षियन्ति निवसन्तीत्यच्युतक्षितो द्रव्यत्व- सत्तासामान्य - अन्त-आदि ने शतपथ ब्राह्मण के अनुसार याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ निर्दिष्ट किया है । अध्यात्म में अर्थ इस प्रकार है महाशक्ति उमा के सहित हे शिव, आप यमादि समूह के निकटवर्ती प्रेम, अनुराग के द्वारा वशीकृत हैं, कूटवत् निर्विकार हैं, आकाश, काल आदि ध्रुव पदार्थों के निवासभूत हैं । आत्मा, आकाश आदि स्थिर पदार्थों के मध्य कूटस्थ नित्य होने के कारण स्थिरतम हैं । अनात्मोपाधिसंसृष्ट पदार्थों में परिणामिनित्यता के होने से, उनमें निरपेक्ष स्थिरता के न रहने से क्षरणरहित आत्मा, आकाश आदि के मध्य, अच्युत आत्मकाशादि में रहने

पृष्ठ 130

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 130 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६ शुक्लयजुर्वेद संहिता [ अ ० ७ र्याम्यादय:, तेषु श्रेष्ठतमोऽन्तर्यामी अच्युतक्षित्तमः । यद्वा - अच्युता आत्माकाशादयः क्षियन्ति निवसन्ति येषु देशकालाधिष्ठान परमात्मसु, तेषां मध्ये श्रेष्ठः । एष भोग्यभोक्तृवर्गसमूहस्ते तव योनिरभिव्यक्तिस्थानं गृहमिव निवासस्थानं वा । वैश्वानराय विश्वेषां नराणां हिताय त्वा त्वां ध्रुवं स्थिरं सोमं साम्बसदाशिवं ध्रुवेण निश्चलेन मनसाऽन्तःकरणेन त्वत्स्तोत्रशस्त्रप्रवणया वाचा अवनयामि अनुकूलयामि । अथानन्तरं नोऽस्माकम् इन्द्रः परमैश्वर्यवान् सोम एव विशः प्रजा असपत्नाः शत्रुरहिताः समनसः सहृदयाः करत् करोतु । अत्र दयानन्दः -- ' हे परमेश्वर, त्वमुपयामगृहीतोऽसि । यमानां समूहो यामम्, उपगतं च तद् याममुपयामम्, तेन गृहीतः ( शास्त्रप्राप्तनियमसमूहैरिति भाषायाम् ), ध्रुवः स्थिरः, ध्रुवक्षितिर्भुवाः क्षितयो भूमयो यस्मिन्, ध्रुवाणामाकाशादीनां ध्रुवतमोऽतिशयेन ध्रुवः । अच्युतानां वारणजीवानाम् अच्युतक्षित्तमः, अच्युतं क्षिि निवासयति सोऽतिशयितः, एष ते सत्यमार्गप्रकाशस्तव योनिः स्थानमिव, अस्मै वैश्वानराय विश्वेषां नराणां नायकाय सत्यप्रकाश काय निश्चयं ध्रुवेण निष्कम्पेन मनसा अन्तःकरणेन ध्रुवया वाचा सोमं सकलजगतः प्रसवितारं त्वामवनयामि स्वीकरोमि । अथानन्तरमिन्द्रः सर्वदुःखविदारक इद् एव नोऽस्माकं विशः प्रजा असपत्ना अजातशत्रवः समानं मनः स्वान्तं यासां ताः करत् करोतु ' इति, तदसङ्गतमेव, उपयामपदेन यमानां समूहस्य ग्राह्यत्वेऽपि नियमानां ततो भिन्नत्वेन ग्रहीतुमशक्यत्वात् । नहि यमा एव नियमाः, योगशास्त्रेऽहिंसा-सत्य - अस्तेय - ब्रह्मचर्य - अपरिग्रहाणां यमत्वम्, शौच - सन्तोष- तपः - स्वाध्याय - ईश्वरप्रणिधानानां नियमत्वमुक्तम् । तथा च संक्षेपशारीरकम् - ' यमस्वरूपा सकला निवृत्तिस्तथा प्रवृत्तिनियमस्वरूपा ' इति । अच्युतानां कारणजीवाना-मित्यप्यसङ्गतम्, जीवेषु कारणविशेषणानुपपत्तेः । ते च स्वत एवाविनाशिनः, तत्रातिशयिताविनाशित्वा-निरूपणात् । असपत्ना इत्यस्य अजातशत्रव इत्यर्थोऽप्यसङ्गत एव, अजातशत्रोरपि युधिष्ठिरस्यासपत्नत्वाभावात् । वैश्वानरशब्दस्य विश्वेषां नराणां नायक इत्यर्थोऽपि चिन्त्यः, ' नृ नये ' इति निष्पन्नस्य नरशब्दस्य नायकार्थत्वे इतरनरशब्दस्यापेक्षणात् । ध्रु वाः क्षितयो यस्मिन्नित्यप्यशुद्धम् त्वया पृथिव्याश्चलत्वाभ्युपगमात् ॥ २५ ॥

वाले द्रव्यत्व, सत्तासामान्य अन्तर्यामिता आदि में सर्वश्रेष्ठ अन्तर्यामी हैं । अथवा आकाशादि अच्युत पदार्थ, देश, काल, अधिष्ठान, परमात्मा में रहते हैं, उनमें सर्वश्रेष्ठ हैं । यह भोग्य - भोक्ताओं का समूह आपका अभिव्यक्तिस्थल है अथवा घर की भाँति निवासस्थान है । समस्त प्राणियों के हितार्थं स्थिर आप साम्ब सदाशिव को मैं निश्चल अन्तःकरण से स्तोत्र, गुणवर्णन से परिपूर्णं वाणी के द्वारा अनुकूल करता हूँ । इसके अनन्तर हमारे परमैश्वशाली भगवान् साम्ब सदाशिव ही प्रजाओं को शत्रुरहित तथा सहृदय बनावें । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में असंगति है, क्योंकि उपग्राम शब्द से यमसमूह का ग्रहण हो सकने पर भी यम ही नियम नहीं हो सकते । योगशास्त्र में अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य तथा अपरिग्रह को यम एवं शौच, सन्तोष, तप, स्वाध्याय तथा ईश्वरप्रणिधान को नियम बताया गया है । इसी प्रकार संक्षेपशारीरक में भी समस्त निवृत्ति यमस्वरूपा तथा प्रवृत्ति नियमस्वरूपा कही गई | ' अच्युत ' का अर्थ ' कारणजीव ' करना भी असंगत है, क्योंकि जीवों में ' कारण ' विशेषण नहीं लग सकता । वे तो स्वभावतः ही अविनाशी हैं । ' असपत्न ' शब्द का ' अजातशत्रु ' यह अर्थ भी असंगत है । अजातशत्रु युधिष्ठिर भी असपत्न नहीं थे । ' जिसमें पृथिवी स्थिर हैं ' यह अर्थ भी अनुचित है, क्योंकि स्वामी दयानन्द के मत में पृथिवी चल मानी गई है ॥ २५ ॥