वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 131–140

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 131–140

पृष्ठ 131

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 131 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २६ ] वेदार्थपारिजातभाष्यसहिता ७७ यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् । अ॒ध्व॒यो॑र्वा॒ परि॑ वा॒ यः प॒वित्रे॑ात् तं ते॑ जुहोसि॒ मन॑सा॒ वष॑द॒कृत॒ स्वाहा॑ दे॒वाना॑मत्क्रम॑णमसि ॥ २६ ॥

' यस्त इति विप्रुषा १ 9 होमं जुहोति ' ( का ० श्र ० ९ ६ २ ९ ) । अभिषवे होमे च पतितानां सोमबिन्दूनां ग्रहणा शक्यत्वात् स्कन्दन प्रत्यवायपरिहाराय घृतहोमस्य विप्रड्ढोम इति संज्ञा । तमध्वर्य्यादयः षडपि सकृद्गृहीतमाज्यं प्रचरण्या क्रमेण जुहुयुः । होमात् पूर्वमन्वारम्भपक्षे सर्वे सव्येन पाणिना समन्वारब्धा दक्षिणेन जुहुयुः । न चात्र विप्रुषो हूयन्ते तेषां ग्रहणाशक्यत्वात् विप्रुषो जुहोतीत्यश्रवणाच्चेति वृत्तिकारः । प्रतिप्रस्था-त्रुद्गात्रादिसहितोऽध्वर्युः केवलो वा विप्रुषां होमं जुहुयादिति काण्वसंहितायां सायणाचार्य: । ' अध्वर्युर्वा ' ( का ० श्र ० ९ १६ | ३० ) । अथवाध्वर्युरेको विप्रुड्ढोमं कुर्यात्, नेतर इति सूत्रार्थः । सौमी त्रिष्टुप् । स्वाहेति यजुरन्ता देवश्रवष्टा । हे सोम, ते त्वदीयो यो द्रप्सो रसो रसैकदेशः स्कन्दति भूमावन्यत्र वा स्तोकः पतति, ते त्वदीयोंऽशुग्रवच्युतो ग्राव्णः सकाशात् पतितः, योऽधिषवणयोरधिषवणफलकयोरुपस्थाद् उत्सङ्गात् पतितः, योंऽशुरध्वर्योः सकाशात् पाणिभ्यां परिस्कन्दति, परिवायः पवित्रात् यतः कुतश्चित् परिस्कन्दतीति भावः, मनसा वषट्कृतं सङ्कल्पितं तं तादृशं ते तव त्वदीयमंशुं स्वाहा स्वाहाकारेण जुहोमि । ' वेदितृणे अध्वर्युरादत्ते ' ( का ० श्र ० ९ १६ । ३१ ) । स्तीर्णा या वेदेः सकाशाद् द्वे तृणे आददीत । ' अन्यतरत् तृणं चात्वाले प्रास्यतीति ' का ० श्र ० ९ ।६।३२ ) | अध्वर्युणा वेदेस्तृणे गृहीते तयोरेकं चात्वाले क्षिपेत् । चात्वालदैवतम् । हे चात्वाल, त्वं देवानामुत्क्रमणमसि, उत्क्रामन्ति गच्छन्ति स्वर्गं यस्मात् तदुत्क्रमणमसि । देवास्त्वत्तः स्वर्गं गच्छन्ति, ' अतो हि देवा: स्वर्गमुपोदक्रामन् ' ( श ० ४। २ ५५ ) इति श्रुतेः । --अत्र शतपथे विशेषः - ' ग्रहान् गृहीत्वा । उपनिष्क्रम्य विप्रुषा होमं जुहोति तद्यद्विपुषा होमं जुहोति या एवास्यात्र विप्रुषः स्कन्दन्ति ता एवैतदाहवनीये स्वगाकरोत्याहवनीयो ह्याहुतीनां प्रतिष्ठा तस्माद्विषा होमं जुहोति ' ( श ० ४।२।५।१ ) । गतेषु ब्राह्मणेषु प्रातः सवनसम्बन्धिनामुपांश्वादीनां ग्रहाणां ग्रहणं विहितम् । तदनन्तरकर्तव्यं बहिष्पवमानस्तोत्रादिकमत्र वक्ष्यते । तत्र तावदभिषवकाले ग्रहणकाले च स्कन्नानां सोम-बिन्दूनां स्कन्दनप्रत्यवाय परिहाराय विप्रुषां होमं विधत्ते - ग्रहान् गृहीत्वोपनिष्क्रम्य विप्रुषां होमं जुहोति । हविर्धानान्निष्क्रम्य विप्रुषामर्थे तत्र स्कन्दनप्रायश्चित्तत्वेन होमं कुर्यात् । यद्यपि जुहोतीत्यनेनैव होमं कुर्यादित्यर्थो लभ्यते, तथापि होममिति पृथगुपात्तत्वाद् जुहोतिना लक्षणया करोत्यर्थो बोध्यते, वाचमवोचदितिवत् । बिहितस्य होमस्योपयोगमाह आहवनीये स्वगाकरोतीति । अस्य सोमस्य या विप्रुषः स्कन्दन्ति विशीर्णा भवन्ति, ता एतेन विप्रुड्ढोमेन आहवनीये स्वगाकरोति । स्वस्थानमाहवनीयं गच्छन्तीति स्वगाः, तादृशीः कृतवान् भवति । मन्त्रार्थ हे सोम! पात्र में डालते समय तुम्हारे रस की कुछ बूंदें भूमि पर गिर गई हैं, पत्थर से कूटते समय अभिषव काल में तुम्हारे रस की बूँदें प्रावच्युत होकर इधर - उधर उड़ती हैं और जो तुम्हारा रस अधिषवण फलक के मध्य से गिरता है, अध्वर्यु के व्यवहार के समय जो कुछ नष्ट हुआ है, तुम्हारे इन सब अंशों को मन से ग्रहण कर उनकी वषट्कार और स्वाहाकार पूर्वक आहुति देता हूँ । हे चात्वाल! तुम देवताओं के स्वर्गगमन के लिये सोपान ( सीढी ) का काम करते हो ॥ २६ ॥

भाष्यसार - कात्यायन श्रौतसूत्र ( ९ ।६।२८ - ३२ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' यस्ते द्रप्स: ' इस

पृष्ठ 132

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 132 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८ शुक्ल यजुर्वेदसंहिता यत आहवनीयः सर्वासामाहुतीनां प्रतिष्ठायामाधारो भवति, अत उक्तहोमे [ अ ० ७ स्कन्दनप्रत्यवायो न भवति । ' स जुहोति । यस्ते द्रप्सः स्कन्दति यस्ते अशुरिति विप्रुषामाहवनीयं प्रति प्रापणात् द्रप्सस्तस्मात्तमाह यस्ते अशुरिति तदशुमाह ग्रावच्युतोऽधिषवणयोरुपस्थादिति यो वै स्तोकः स्कन्दति स अधिषवणाभ्या ँ स्कन्दत्यध्वर्योर्वा परि वा यः पवित्रादित्यध्वर्योर्वा हि पाणिभ्या ग्राव्णा हि च्युतो जुहोमि मनसा वषट्कृत हुतमेवमस्यैतद् भवति ' ( श ० ४ २५२ ) । विहितं होममन्त्रं स्कन्दति विदधानो पवित्राद्वा तं ते स जुहोति यस्ते द्रप्स इति । स्तोको लग्नो बिन्दुः द्रप्सपदार्थः । द्रप्सपदं तं स्तोकमाह व्याचष्टे -च्युतः, अधिषवणयोरभिषवफलकयोश्च्युतः, अध्वर्योः पाणिभ्यां च्युतः, अध्वर्योः । अभिषवार्थेन ग्राव्णा कुतश्चिद्वा च्युतस्तं जुहोमि । अत्र वषट्कृतमित्येतदुच्चारणेन सवषट्कारो होम एव पवित्राद्वा च्युतस्तम्, यतः ग्राव्णश्च्युतः, अधिषवणयोरुत्सङ्गाच्च्युतः, अध्वर्योः पाणिभ्यां पवित्राद्वा च्युतः, यस्ते अंशुर्द्रप्सः भवतीत्यर्थः । हे सोम, सम्बन्धिनं तमंशुं द्रप्यं मनसा वषट्कृतं सन्तं जुहोमि -- इदं द्रव्यं स्वाहुतमस्त्विति । स्तोकः, ते तव ' अथ स्तीर्णायै वेदेः । द्वे तृणे अध्वर्युरादत्ते तावध्वर्यू प्रथमौ प्रतिपद्येते प्राणोदानौ वागेव यज्ञस्याथोद्गाताऽऽत्मैव प्रजापतिर्यज्ञस्याथ प्रतिहर्ता भिषग्वा व्यानो वा ' ( श यज्ञस्याथ प्रस्तोता बहिष्पवमानार्थमध्वर्युणा तृणयोरादानं प्रथमं विधत्ते अथेत्यादि । ' वेदितृणे अध्वर्युरादत्ते ० ४ | २ | ५ | ३ ) । वैप होमानन्तरं ( का ० श्र ० ९ / ६ / ३१ ) । स्तीर्णाया वेदेः सकाशाद् द्वे तृणे अध्वर्युराददीत । ते प्रह्वा अध्वय्र्वादयः उदचो गच्छन्ति ' अन्वारब्धा एव नम्रा भूत्वा उदङ्मुखाश्चात्वालस्य दक्षिणतो वेदिमध्ये बहिष्पवमानदेशं षड् प्राणापानात्मकावध्वर्युप्रतिप्रस्थातारौ प्रथमौ प्रतिपद्यते गन्तुमुत्क्रामतः, अथानन्तरं गच्छेयुः । तौ यज्ञस्य अथ यज्ञस्योद्गाता यज्ञा ङ्गत्वात् प्रजापतिः । स च यज्ञस्यात्मा मध्यशरीरम् अथ यज्ञस्य प्रतिकृत्ता वागात्मकः प्रस्तोता, चिकित्सकः, स च व्यानरूपः । अत्राध्वर्युप्रभृतीनां यज्ञसम्बन्धिप्राणाद्यात्मवत्वकथनेन यज्ञस्य भिषक् बहिष्पवमानं प्रति गन्तृत्वे योग्यता प्रदर्शिता । ' तान् वा एतान् । पञ्चत्विजो यजमानोऽन्वारभत यज्ञस्य मुख्याङ्ग सर्वो यज्ञो यावन्त एते पञ्चत्विजो भवन्ति पाङ्क्तो वै यज्ञस्तद् यज्ञमेवैतद्यजमानोऽन्वारभते एतावान् वै यजमानेनाध्वर्युप्रभृतीनां स्पर्शनं विधत्ते - तान् वा एतानिति । एते पञ्चत्विजो यावन्तो यावत्परिमाणयुक्ताः ' ( श ० ४। २ ।५।४ ) । यज्ञ एतावान् तत्परिमाणयुक्तः । एते पञ्चत्विज एव सकलो यज्ञः, तेषां यज्ञसम्बन्धिप्राणाद्यात्मकत्वेनाभिधानात् , सर्वो ' अथान्यतरत् तृणं चात्वालमभिप्रास्यति देवानामत्क्रमणमसीति यत्र वै देवा यज्ञेन स्वर्ग लोक । एतस्माच्चात्वालाद्दूर्ध्वाः स्वर्गं लोकमुपोदक्रामंस्तद् यजमानमेवैतत् स्वग्यं पन्थानं संख्यापयति ' ( १ श ९ समाश्नुवत त सूत्राणि च ब्राह्मणानुसारीण्येव । अध्वर्य्यादिगमनानन्तरमुपात्तयोस्तृणयोरन्यतरत् चात्वालमभिप्रास्यति ० ४।२।५।५ ) । देवानामिति मन्त्रेण । तदर्थस्तु - हे चात्वाल, त्वं देवानामुत्क्रमणमसि स्वर्गं प्रत्युत्क्रमणसमयेऽधिकरणमसि तृणप्रक्षेपस्योपयोगमाह- - यत्र वा इति । तेन देवानामुत्क्रमणसीति मन्त्रमुच्चार्य चात्वाल । स्वयं स्वर्गप्राप्तिहेतुभूतं पन्थानमनु संख्यापयति ज्ञापयति, संख्यातेरत्र ज्ञानार्थत्वात् । तृणप्रक्षेपेण यजमानमेव ' अथान्यतरत् तृणं पुरस्तादुद्गातृणामुपास्यति तूष्णीमेव स्तोमो वा एष प्रजापतिर्यदुद्गातारः सर्वं युत इद ँ सर्व ७ सम्भवति तस्मा एवैतत्तृणमपिदधाति तथो हाध्वर्युं न युते नैन स इद ७ पन्ति त्रोद्गातार: ' ( ० ४।२।५।६ ) । अवशिष्टस्य तृणस्य विनियोगं दर्शयति अथेति सम्भवत्यथ । स्तोमो यदा जपन्ति साधनभूतानामृचां सङ्घः स्तोमः । तेन च यज्ञो निष्पद्यत इति स्तोम एव एष प्रजापतिर्यज्ञः । स्तोमनिष्पादकाना- वेति स्तोत्र-afuser के मन्त्रों से भूमि पर गिरे हुए सोमबिन्दुओं के दोष के निराकरण के लिये 'विप्रुट् ' संज्ञक घृताहुति तथा वेदि-

पृष्ठ 133

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 133 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ०२६ ] वेदार्थ पारिजातभाष्यसहिता ७ ९ मुद्गातृणामपि कार्यकारणाभेदविवक्षया स्तोमत्वम् । प्रजापतिः स इदं सर्वं प्रपञ्चं युते मिश्रयति एकीकरोति, ' यु मिश्रणामिश्रणयोः ' । एकीकृत्य च इदं सर्वं स्वयं सम्भवति । एतत्सर्वमात्मन्येव निधाय कारणात्मनाऽवतिष्ठत इत्यर्थः । तस्मादेतत्तृणप्रक्षेपेण प्रजापत्यात्मकानामुद्गातृणामात्मनश्च मध्ये व्यवधानं सम्पादयति । एवं च प्रजापतिरध्वर्युं न मिश्रयति । तेन तस्य स्वरूपनाशो न भवति । कालविशेषे स्तोत्रोपकरणं समन्त्रकं विधत्ते -अथ यदा जपन्तीति । यदा यस्मिन् काले जपन्ति तदा सोमः पवत इत्यनेन स्तोत्रमुपाकुर्याद् आरम्भयेत् । जपन्ति त्रोद्गातार इत्यनेन बहिष्पवमानप्रदेशे जपः प्रसिद्ध इति दर्शितम् । यतो ब्रह्मक्षत्राद्यर्थं सोमः पवते, अतस्तं पवमानं सोमस्तुत्या समर्धयतुमुपक्रमध्वमित्यर्थः । अत एव - - ' उपास्मै गायता नरः पवमानायेन्दवे ' ( वा ० सं ० ३३।६२ ) इति श्रूयते । अत्रैवानेकाभिः कण्डिकाभिर्बहिष्पवमानस्तोत्रेण स्वर्गलोक प्राप्तिरुक्ता । बहिष्पवमानस्तुतौ नौरूपत्वमुक्तम् । अत्र स्वर्ग्यायां नावि ऋत्विज एव स्फ्याश्चारित्राश्च भवन्ति, स्पया इति स्पयाकाराः केचन तरणसाधनविशेषाः, अरित्रास्तरणसाधनभूता वंशाः, ते च स्वर्गस्य लोवस्य सम्पारणाः स्वर्गलोकप्रापका इति । नौर्वा एषा स्वर्ग्या यद्बहिष्पवमानम् । तस्या ऋत्विज एव स्पया चारित्राश्चेति । तत्र यः कुतश्चित् कारणाद् निन्द्यो जनः सर्व एव तस्याः पवमानात्मिकाया नावो मज्जयिता । यथा लोकेऽनिन्द्यैः पूर्णां नावमारुह्य निन्द्यो मज्जयेत्, तथैव निन्द्यो बहिष्पवमाननावं मज्जयति । स न केवलं बहिप्पवमानात्, किन्तु कृत्स्नाद्यज्ञादेव सर्वथा परिहरणीय: ' ( श ० ४ । २ । ५। ७-१० ) । अध्यात्मपक्षे - हे सोम साम्बसदाशिव, यस्ते स्तोकः, अंशुः खण्डः, खण्ड इवांशभूतो जीवः स्कन्दति कर्मानुसारेण भूमावन्यत्र वा क्षरति पतति गच्छति यश्च त्वदीयोंऽशो भोग्यवर्गगतो ग्रावच्युतो ग्राव्णः सकाशात् च्युतोऽधिषवणफलकयोः पवित्रादुत्सङ्गादध्वर्योर्वा सकाशात् स्कन्दति ग्रावाधिषवणाध्वर्यूपलक्षिताद् यज्ञात् फलरूपेण स्कन्दति, तं भोक्तृवर्गं भोग्यवगं च सङ्कल्पितमिव तुभ्यं स्वाहाकारेण जुहोमि समर्पयामि । भोक्तभोग्यप्रपञ्चस्य सर्वस्यैव भगवति प्रविलापनेन तन्मात्रताभावनमेव हि मुख्यमुपासनम् । तदुपासनमेव सम्बोध्य कथयति - हे उपासने भक्ते वा त्वं देवानामुत्क्रमणमसि देवानां द्योतमानानां भक्तानां भगवन्तं प्रति यदूर्ध्वगमनं तत्प्रति साधनमसि । दयानन्दस्तु - ' हे यज्ञपते, यस्ते द्रप्सो यज्ञपदार्थसमूहः स्कन्दति, अन्यान् प्रति गच्छति वायुना सह सर्वत्र गच्छति, यश्च ते ग्रावच्युतो ग्राव्णो मेघाच्च्युतोऽशुः संविभागः ' ग्रावेति मेघनामसु पठितम् ' ( निघ ० ), तृण के ग्रहण की विधि अनुष्टित की जाती है । शतपथ ब्राह्मण के अनुसार सायणाचार्य आदि ने याज्ञिक विनियोग के अनुकूल मन्त्रार्थ किया है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे साम्ब सदाशिव, जो आपका अंशभूत जीव अपने कर्मों के अनुसार पृथ्वी पर अथवा अन्यत्र लोकों में जाता है तथा आपका जो भोग्य वर्ग के अन्तर्गत अंश अधिषवण फलक के पावन आधार से, अथवा अध्वर्यु से निर्गत होता है, अर्थात् अधिषवण तथा अध्वर्यु से लक्षित यज्ञ से फलरूप से निर्गत होता है, उस भोक्ता समूह तथा भोग्यसमूह को संकल्प की भाँति मैं स्वाहाकार के द्वारा आपके प्रति समर्पित करता हूँ । सम्पूर्ण भोक्तृ-भोग्यसमूह को भगवान् में लीन करने के उपरान्त तन्मात्रताभाव ही मुख्य उपासना होती है । उस उपासना को सम्बोधित की करते हुए भक्त कहता है कि हे उपासना अथवा भक्ति, तुम विद्योतमान भक्तों की भगवान् के प्रति ऊर्ध्वगमन साघनरूपा हो । स्वामी दयानन्द द्वारा वर्णित अर्थ विसंगत तथा अप्रामाणिक ही नहीं, अस्पष्ट भी है । द्रप्स का अर्थ ' यज्ञपदार्थ

पृष्ठ 134

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 134 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० शुक्लयजुर्वेद संहिता [ अ ० ७ धिषणयोः पवित्रादुपस्थाद् द्यावापृथिव्योः । ' धिषणे इति द्यावापृथिव्योर्नामसु पवित्राद् अस्थात् समीपस्थादध्वर्योर्वा होत्रादीनां समुच्चये शुद्धगुणानां वा समुच्चये पठितम्, ' ( निघ ० ३।३० ) । प्रकाशते तस्मात् तमहं स्वाहा सत्यवाचा मनसा सुविचारेण वषट्कृतं सङ्कल्पितमिव जुहोमि सकाशात् , तत्फलदानेन परितो वा तुभ्यं प्रयच्छामि । यतस्त्वं यज्ञानुष्ठाता देवानामाप्तानाम् उत्क्रमण ऊर्ध्वंक्रमणतेज इवासि विसङ्गतमस्पष्टं च, निर्मूलत्वात् । द्रप्सो यज्ञपदार्थसमूहस्त्वयोच्यते, ब्राह्मणे तु द्रप्सः स्तोक इत्युक्तम् ' इति, तदपि वायुना सह सर्वत्र गच्छति ' इत्यपि निर्मूलम् । ' अध्वर्योः सकाशात् परितो वा प्रकाशते ' इत्यत्र प्रकाशत । ' स्कन्दति इति कस्य शब्दस्यार्थः? किञ्च कोऽयं तत्फलप्रदानेन प्रयच्छति? न जीवः, तस्य फलप्रदानेऽसामर्थ्यात् तस्याप्रसङ्गात् । यत्र यज्ञो न भवति तत्रापि मेघच्युतो जलबिन्दुर्दृश्यते, तत्कुतस्तस्य यज्ञहेतुकत्वं सम्भवति । नेश्वरः?, प्रकाशभूम्योरुपस्थाद् उत्सङ्गात् समीपस्थाद्वा यज्ञकर्तृभ्यो वा यः प्रकाशते, तं यज्ञं ते तुभ्यं सत्यवाचा मनसा एव सङ्कल्पितमिव जुहोमि प्रयच्छामीत्यस्य कथं सङ्गतिः? द्यावापृथिवीभ्यां कथं यज्ञः प्रकाशते? भाषाभाष्य उक्तम् – ' - फलदायकत्वात् तुभ्यं तं पदार्थं सङ्कल्पितमिव प्रेषयामि । यदर्थं यज्ञस्यानुष्ठाता त्वं देवानां विदुषा -मूर्ध्वश्रेणी प्राप्तैश्वर्यसमानोऽसि, एतस्मात् तुभ्यं सुखं प्राप्यते ' इत्यादिकम्, तत्सर्वमपि दयानन्दीयं भाष्यं सर्वथाप्यसम्बद्धमेव ॥ २६ ॥

प्राणायं मे वचो॒दा वर्चसे पवस्व व्या॒नाय॑ मे वच॒दा वर्च॑से पवस्वोदा॒नाय॑ मे वर्चोदा वचैसे पवस्व वा॒चे में वर्चोदा वर्च॑से पवस्व॒ क्रतूदक्षाभ्यां मे वर्चोदा वर्च॑से पवस्व॒ श्रोत्रय मे वर्चोदा वर्च॑से पवस्व॒ चक्षु॑भ्यां॑ मे वचो॑दसि॒ वर्च॑से पवेथाम् ॥ २७ ॥

' ग्रहानवेक्षयति यथागृहीतमवकाशान् वाचयन् प्राणाय म इति प्रतिमन्त्रम् ' ( का ० श्र ० ९ २७२८ ग्रहणक्रमेणाध्वर्युर्यंजमानेन ग्रहानवेक्षयति प्राणाय म इत्यवकाशसंज्ञान् मन्त्रान् प्रतिमन्त्रं यजमानं वाचयन् । समूह ' किया गया है, परन्तु ब्राह्मण में द्रप्स का अर्थ अल्प है । ' स्कन्दति ' का अर्थ ' वायु के साथ सर्वत्र जाता है ' यह भी निर्मूल है । फलप्रदान के द्वारा देने वाला कौन कहा गया है? जीव नहीं है, क्योंकि वह फलप्रदान में असमर्थ है । ईश्वर भी नहीं हो सकता, क्योंकि उसका प्रसंग यहाँ नहीं है । द्यावापृथिवी के द्वारा यज्ञ कैसे प्रकाशित होता है? इस प्रकार सम्पूर्ण व्याख्यान सर्वथा अप्रासंगिक है ॥ २६ ॥

मन्त्रार्थ -- ये ग्रह यज्ञ के प्राण हैं, इस कारण हम इनकी प्राणरूप से स्तुति करते हैं । हे उपांशु स्वभाव से तेज को देने वाले हो, इस कारण मेरे हृदय में स्थित प्राण वायु का तेज बढ़ाओ । हे उपांशु सवन ग्रह!! तुम तुम स्वभाव से कान्ति देने वाले हो, मेरी व्यान बायु की कान्ति बढाओ । हे अन्तर्याम ग्रह! तुम कान्ति देने वाले हो, मेरी उदान वायु की कान्ति को बढाओ । हे वायव ग्रह! तुम स्वभाव से ही कान्तिप्रद हो, मेरी वाणी की कान्ति को बढाओ । हे मैत्रावरुण ग्रह! तुम स्वभाव से ही कान्ति देने वाले हो, मेरी कामना और समृद्धि तथा कार्य करने की निपुणता को बढाओ । हे आश्विन ग्रह! तुम स्वभाव से ही कान्ति देने वाले हो, मेरी श्रवण शक्ति को बढाओ । हे शुक्र और मन्थिग्रह! तुम स्वभाव से ही कान्तिप्रद हो, मेरी नेत्रसम्बन्धी कान्ति को बढाओ ॥ २७ ॥

भाष्यसार — कात्यायन श्रौतसूत्र ( ९ १७१८ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' प्राणाय में ' इस

पृष्ठ 135

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 135 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २७ ] वेदार्थपारिजातभाष्यसहिता ८१ आदावुपांशु ग्रहावेक्षणम् । लिङ्गोक्तदैवतान्येकादश यज्ञस्यैते प्राणास्तान् प्राणरूपेण दर्शयति - प्राणायेति । हे उपांशो, यस्त्वं स्वभावत एव वर्चोदा तेजोदाः, स त्वं मे मम प्राणाय हृदयस्थिताय पवस्व प्रवर्तस्व उपांशुसवनम्, व्यानाय मे सर्वशरीरगाय वायवे पवस्व । अन्तर्याममाह - उदानाय मे कण्ठस्थाय वायवे वर्चोदा वर्चसे पवस्व । ऐन्द्रवायवं वागिन्द्रियाय मैत्रावरुणं क्रतुदक्षाभ्यां मे वर्चोदा वर्चसे पवस्य । क्रतुः कामः, दक्षस्तस्य समृद्धिः, ताभ्यां तद्द्द्वयसाधनरूपाय वर्चसे पवस्व । आश्विनं ग्रहमवेक्षयन्नाह - - श्रोत्राय श्रोत्रेन्द्रियाय हे वर्चोदसौ वर्चः प्रदौ शुक्रामन्थिनो, मे मम चक्षुषोः पाटवाय तद्रूपाय वर्चसे युवां पवेथां प्रवर्तेथाम् । शतपथे तत्स्पष्टम् —— स उपाशुमेव प्रथममवकाशयति । प्राणाय मे वर्चोदा वर्चसे पवस्वे " त्यर्थन्द्रवायवं वाचे मे वर्चोदा वर्चसे पवस्वेत्यथ मैत्रावरुणं क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्वेत्यथाश्विन, ' ' ' ' चक्षुर्भ्यां मे वर्चोदा वर्चसे पवेथामिति ' ( श ० ४ | ५ | ६ | २ ) । अध्वर्युग्रहानवकाशाद् यजमानस्तु सप्राणं कृत्स्नं यज्ञं जनयित्वा येन कुरुते । प्राणाय म इत्यादिभिर्मन्त्रैरात्मानमेव प्रजापति करोति । सोऽध्वर्युराश्विनं ग्रहं गृहीत्वा अवकाशा उपांश्वादयः, तानवकाशयति अवेक्षयति । यजमानोऽवेक्षत इति तत्र सायणाचार्यः । अध्यात्मपक्षे -'हे परमेश्वर, त्वं स्वभावत एव वर्चोदा तेजसो दाता, स त्वं मे प्राणाय हृदयस्थित-वायोर्वर्चसे तेजस्वित्वाय पवस्व अस्मान् प्रवर्तयस्व । हे परमेश्वर, त्वं वर्चोदा असि मे व्यानाय व्यानवायो-बलवत्त्वरूपाय वर्चसे पवस्य प्रवर्तयस्व । तथैव हे परमेश्वर, त्वं वर्चोदा भवसि तस्मान्मे उदानाय उदानस्य विशिष्टशक्तिमत्त्वाय मे वर्चोदा पवस्व । तथैव वाचे वागिन्द्रियाय वाक्समृद्धिसाधनभूताय वर्चसे पवस्व । हे उमामहेश्वरी, युवां वर्चोदसौ विविधतेजसो दातारौ क्रतुदक्षाभ्यां कामतत्समृद्धिसाधनभूताय वर्चसे पवेथां प्रवर्तयेथाम् । तत्तच्छक्तिविशिष्टस्य परमेश्वरस्यैव प्राणादीनां शक्तिमत्त्वरूपेभ्यस्तेभ्यो वर्चोभ्यः प्रवर्तयितृत्वं सम्भवति । अत एवान्ते वर्चोसाविति द्विवचनेन शक्तिशक्तिमन्तो उमामहेश्वरो वर्चोदातृत्वेनोक्ती । दयानन्दस्तु - ' हे वर्चोदा, वर्चो यथायोग्यं प्रकाशं ददातीति वर्चोदाः, अध्येतरध्यापक, त्वं मे मम प्राणाय हृदयस्थवायवे वर्चसे विद्याप्रकाशाय पवस्व पवित्रतया प्राप्नुहि । हे वर्चोदा, मे मम दीप्तिप्रदो जाठराग्नि-efuser के ' अवकाश ' संज्ञक मन्त्रों से अध्वर्यु यजमान को ग्रहपात्रों का अवलोकन कराता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थं उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है - हे परमेश्वर, आप स्वभावतः ही तेज प्रदान करने वाले हैं । आप मेरे हृदयस्थित प्राणवायु की तेजस्विता के लिये मुझे प्रवर्तित करें । हे परमेश्वर, आप तेजोदाता हैं, अतः मेरे व्यानवायु के सबल होने के लिये मुझे प्रवर्तित करें । आप उदानवायु को विशिष्ट शक्तिमान् होने के लिये प्रवृत्त करें । इसी प्रकार वागिन्द्रिय लिये वाक्समृद्धि के साघनभूत तेजहेतु प्रवृत्त करें । हे उमा एवं महेश्वर, आप दोनों विविध तेजों के प्रदाता हैं | आप काम तथा उसकी समृद्धि के साधनभूत तेज के लिये मुझे प्रवृत्त करें । उन उन शक्तियों से विशिष्ट परमेश्वर का ही प्राणादिशक्तिमान् रूपों के उन उन तेजों के लिये प्रवर्तक होना सम्भव है । अतः अन्त में द्विवचन से शक्ति एवं शक्तिमान्, उमा तथा महेश्वर ही तेजोदाता के रूप में उपदिष्ट किये गये हैं । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में निर्मूल कल्पनाओं की अधिकता के कारण अग्राह्यता है । ' वर्चोदा ' शब्द से अध्येता तथा अध्यापक का अर्थ ग्रहण करने में कोई प्रमाण नहीं है । प्राण के लिये वेदविद्या का प्रकाश कैसे ११

पृष्ठ 136

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 136 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ शुक्लयजुर्वेदसंहिता | अ ० ७ रिव व्यानाय सर्वशरीरगतवायवे वर्चसे पवस्व । हे वर्चोदा वर्चो विद्याबलं ददातीति, ममोदानाय वर्चसे अन्नाय पवस्य । हे वर्चोदा, मे वाचे वर्चसे पवस्व । हे वर्चोदा सत्यवक्तृत्वप्रद, मम क्रतुदक्षाभ्यां यज्ञबलाभ्यां वर्चसे यागलभ्याथ पवस्व । हे वर्चोदा विज्ञानप्रद, वर्चसे शब्दार्थसम्बन्धविज्ञानाय श्रोत्राय शब्दज्ञानाय वर्चसे पवस्व उपदिश । हे वर्चोदसौ सूर्याचन्द्रमसौ अतिथ्यध्यापको, युवां मम चक्षुर्भ्यां वर्चसे पवेथाम् ' इति, तदपि यत्किञ्चित्, निर्मूलन ल्पनाबाहुल्यात् । ' वर्चोदा: ' इत्यनेन अध्येत्रध्यापयित्रोर्ग्रहणे मानाभावात् । अध्येत्रध्यापकयोः प्रयत्नेनान्यस्य प्राणवायवे कथं वेदविद्याप्रकाशः? कथं च प्राणाय वेदविद्याप्रकाशः? प्रकाशस्य बुद्धिधर्मत्वात् । तदर्थं च प्रार्थयितुः पवित्रतया वर्तनमपेक्षितम् । तथैव वर्चोदा इत्यनेन सत्यवक्तृत्वप्रदः कथं गृह्यते? तथैव शब्दज्ञानदो वर्चोदा इत्यपि निर्मूलमेव । न वा नेत्राभ्यां शुद्धसिद्धान्तप्रकाशः सम्भवति, तयो रूपमात्रप्रकाश -त्वात् । शतपथश्रुतिव्याख्यानविरोधस्तु पूर्वव्याख्यानेन स्पष्ट एव ॥ २७ ॥

आ॒त्मनं॑ मे वच॒दा वर्च॑से पव॒स्वज॑से मे वच॒दा वर्च॑से पव॒स्वायु॑षे मे वचो॒दा वर्च॑से पवस्व॒ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चोस॒ वर्च॑से पवेथाम् ॥ २८ ॥

आग्रयणं ग्रहं दर्शयन् ममात्मने जीवस्य स्वास्थ्याय वर्चसे पवस्य । उक्थ्यम् ओजः सर्वेन्द्रियपाटवं शारीरं बलं वा तद्रूपाय वर्चसे पवस्व । ध्रुवमवेक्षयन् आयुषे, आयुर्निर्दोषजीवनम्, तद्रूपाय वर्चसे पवस्व । पूतभृदा-हवनीय युग - पूतभृदाहवनीयो, युवां वर्चोदसौ तेजोदातारौ, विश्वाभ्यः सर्वाभ्यो मम प्रजाभ्यः प्रजार्थं यद्वर्चस्तदर्थं पवेथाम् । सर्वत्र ददातेर सुन्प्रत्ययेन वर्चोदा वर्चोदसा इति सिद्धिः । यद्वा प्राणायेत्यादिचतुर्थीनां षष्ठ्या विपरिणामः । तेन प्राणापानादीनां यद्वर्चस्तदर्थं पवस्वेति । यद्वा यो ग्रहस्तं यज्ञं प्राणाय वर्चोदाः स मे वर्चसे ब्रह्मवर्चसाय पवस्वेति । एवं सर्वत्र । शतपथे च -- - ' ' अथाग्रयणम् । आत्मने मे वर्चोदा वर्चसे पवस्वेत्य-थोक्थ्यमोजसे मे वर्चोदा वर्चसे पवस्वेत्यथ ध्रुवमायुषे मे वर्चोदा वर्चसे पवस्वेत्यथाम्भृणौ विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथामिति वैश्वदेवो वा अम्भृणावतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद् वैश्वदेवाव भृणी ' ( श ० ४।५।६।३ ) | अम्भृणौ पूतभृदाहवनीयो, अत आभ्यां देवेभ्य उन्नयन्ति सोमयागार्थमत एव मनुष्येभ्यः पितृभ्यश्च । अत एव वैश्वदेवौ अम्भृणी । हो सकता है? क्योंकि प्रकाश बुद्धि का धर्म है । इसी प्रकार ' वर्चोदा ' इस शब्द से ' सत्यवक्तृत्वप्रद ' यह अर्थ कैसे लिया जा सकता है? इसी प्रकार ' शब्दज्ञानप्रद ' अर्थ करना भी अप्रामाणिक है । नेत्रों से शुद्ध सिद्धान्त का प्रकाश नहीं होता, क्योंकि वे तो केवल रूप के प्रकाशक हैं । शतपथ श्रुति का विरोध तो इस व्याख्या में स्पष्ट ही है || २७ ॥ मन्त्रार्थ - हे आप्रयण प्रह! तुम स्वभाव से ही कान्तिप्रद हो, मेरी आत्मा सम्बन्धी कान्ति को बढाओ । हे उक्थ ग्रह! तुम स्वभाव से ही कान्ति देने वाले हो, मेरे शारीरिक बल की कान्ति को बढाओ । हे ध्रुव ग्रह! तुम स्वभाव से ही कान्ति देने वाले हो, मेरी आयु सम्बन्धी कान्ति को बढाओ । हे पूतभृत् आहवनीय ग्रह! तुम स्वभाव से ही कान्तिप्रद हो, मेरी सम्पूर्ण प्रजा वर्ग की कान्ति को बढाओ ॥ २८ ॥

भाष्यसार - ' आत्मने मे ' इस कण्डिका का याज्ञिक विनियोग भी पूर्वोक्त की भांति है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है ।

पृष्ठ 137

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 137 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २८-२९ ] वेदार्थ पारिजातभाष्यसहिता ८३ अध्यात्मपक्षे - हे परमेश्वर, त्वं वर्चोदा असि । आत्मने ममात्मने प्रत्यगात्मने, अनात्मतादात्म्यनिवृत्त्या ब्रह्मतादात्म्य प्राप्तिलक्षणाय स्वास्थ्यरूपाय वर्चसे पवस्व ओजसे निष्ठादाढर्यलक्षणाय बलाय पवस्व, आयुषे जमदग्निकश्यपादीनामिव निर्दोषपवित्रजीवनलक्षणाय वर्चसे पवस्व । विश्वाभ्य: सर्वाभ्यो मे प्रजाभ्यो देवमनुष्यादिभ्यो हितार्थं यद्वस्तस्मै, हे भवानीशङ्करी वर्चोदसौ! वर्चोदातारौ पवेथां प्रवृत्ति कुरुतम् । दयानन्दस्तु ' हे वर्चोदा योगब्रह्मविद्याप्रद विद्वन्! त्वं ममात्मने इच्छादिगुणसमवेताय स्वस्वरूपाय मे वर्चसे निजात्मप्रकाशाय पवस्व प्रापय । हे वर्चोदा विद्याप्रद, ओजसे आत्मबलाय पवस्व विज्ञापय । आयुषे जीवनाय मे वर्चोदा बलप्रदवर्चसे रोगापहारकायोषधाय पवस्व गमय । हे वर्चोदसौ न्यायप्रकाशको सर्वा-धिष्ठातारो सभापतिन्यायाधीशाविव योगारूढ जिज्ञासू! युवां मे वर्चसे सद्गुणप्रकाशाय विश्वाभ्यः समस्ताभ्यः प्रजाभ्यः पालनीयाभ्यः पवेथां प्रापयेथाम् ' इति, तदपि यत्किञ्चित्, असङ्गतेः । तथाहि वर्चोदा इति न विशेष्य-वाचकं पदम्, किन्तु विशेषणवाचकम्, तथात्वेऽनेकार्थावबोधकत्वायोगात् । न च न्यायप्रकाशकाभ्यां सभापति -न्यायाधीशाभ्यां योगारूडजिज्ञास्वोः सादृश्यम् । यथाकथञ्चित् तादृशार्थबोधने त्वदभिप्रायविपरीतार्थाव-बोधनमपि सम्भवति त्वदीयमतखण्डनपरायणी कौचन विद्वांसावपि वर्चोदसौ वक्तुं शक्येते । अत्रापि शतपथ विरोधः स्पष्टः ॥ २८ ॥

कोसि कतमोऽसि कस को नामसि । यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा सोमे॒नात-तृपाम । भूर्भुवः स्वः सुप्र॒जाः प्र॒जाभिः स्वाएं सुबीरौ वीरैः सुपोषः पोषः ॥ २ ९ ॥ अत्मपक्ष में अर्थ योजना इस प्रकार है - हे परमेश्वर, आप तेजःप्रद हैं । मेरी प्रत्यगात्मा को अनात्मतादात्म्य की निवृत्ति के द्वारा ब्रह्मतादात्म्य की प्राप्तिरूपी स्वास्थ्यात्मक तेज के लिये प्रवर्तित करें । निष्ठा की दृढतारूपी बल के लिये, जमदग्नि तथा कश्यप आदि महर्षियों की भाँति निर्दोष एवं पवित्र जीवनरूपी तेज के लिये प्रवृत्त करें । हमारी समस्त प्रजाओं, देव- मनुष्य आदि के हित के लिये जो तेज है, उस तेज को प्रदान करने वाले हे उमामहेश्वर! आप दोनों प्रवृत्त करें । स्वामी दयानन्द द्वारा निरूपित अर्थ असंगति के कारण अग्राह्य है । ' वर्चोदा ' यह पद विशेष्यवाचक नहीं है, अपितु विशेषणवाचक है । ऐसा होने पर उसका अनेक अर्थों का बोधक होना असंगत है । न्यायप्रकाशक सभापति एवं न्यायाधीश से योगारूढ तथा जिज्ञासु की समानता भी नहीं है । जिस किसी प्रकार से उस प्रकार के अर्थ का बोघन होने पर तो स्वयं इसी मत के विपरीत अर्थ का भी बोधन सम्भव है । इसमें शतपथ श्रुति का विरोध स्पष्ट ही है ॥ २८ ॥

मन्त्रार्थ - हे द्रोण कलश! तुम कौन् प्रजापति हो, कौन से समूह में तुम रहते हो? किस रजापति के हो? तुम्हारा क्या नाम है? तुम्हारे जिस नाम को लेकर हम तुमको सोम रस से तृप्त कर चुके हैं, क्या तुम वही हो? हमको अपना नाम बता कर कामना से तृप्त करो । हे अग्नि, वायु और सूर्य! आप लोगों केप्रसाद से मैं अच्छी प्रजा से सम्पन्न होऊँ, वीरतायुक्त पुत्र, पौत्र आदि को प्राप्त कर सुपुत्रवान् विख्यात होऊँ, उत्कृष्ट धन - सम्पत्ति से सम्पन्न होकर अच्छी सम्पत्ति वाला विख्यात होऊँ ॥ २ ९ ॥

पृष्ठ 138

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 138 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ शुक्लयजुर्वेदसंहिता [ अ ० ७ ' कोऽसीति द्रोणकलशम् ' ( का ० श्र ० ९ ७ ११ ) । कोऽसीति वाचयन् द्रोणकलशमवेक्षयेत् । प्राजापत्या वर्धमानोष्णिक् । यस्याः प्रथमः पादः षडक्षरो द्वितीयः सप्ताक्षरस्तृतीयोऽष्टाक्षरश्चतुर्थो नवाक्षरः, सा त्रिंशद्वर्णा वर्धमानोष्णिक्, अध्यस्तप्रजापतिद्रोणकलशदेवत्या । हे द्रोणकलश, त्वं कः अनिरुक्तः प्रजापतिरसि । कतमोऽसि अतिशयेन कः प्रजापतिरिति कतमः असि अनन्यभृतः प्रजापतिना । कस्यासि प्रजापतेरनन्यभूतोऽसि । को नामासि प्रजापतिनामासि । वयं यस्य तव नाम अभिधानम् अमन्महि विजानीमः । ज्ञानार्थंको मनधातुः । यं च त्वां सोमेन अतीतृपामस्तर्पितवन्तः सोऽस्मान् विदितनाम्नः प्रख्याताभिधानान् कुरु तर्पय चाभीष्टकामैः । ' भूर्भुवः स्वरिति जपतीति ' ( का ० श्र ० ९ २७११२ ) । यजमानो भूर्भुवः स्वरिति जपति । हे भूर्भुवः स्वः, व्याहृतित्र देवा अग्निवायुसूर्याः प्रजाभिरहं सुप्रजाः शोभनप्रजायुक्तो भवेयम् । वीरैः पुत्रैः सुवीरः स्याम् । पोषैर्धनादिपुष्टिभिः सुपोषः शोभनधनपोषो भवेयम् । शतपथे च - ' अथ द्रोणकलशम् । कोऽसि कतमोऽसीति प्रजापतिर्वै कः कस्यासि को नामासीति प्रजापति को नाम यस्य ते नामामन्महीति मनुते ह्यस्य नाम यं त्वा सोमेनातीतृपामेति तर्पयति ह्येन सोमेन स आश्विनं ग्रहं गृहीत्वाऽन्वङ्गमाशिषमाशास्ते तर्पयति सुप्रजाः प्रजाभिः स्यामिति तत्प्रजामाशास्ते सुवीरो वीरैरिति तद्वी रानाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते ' ( श ० ४ | ५ | ६ | ४ । सोमेनेत्यन्तं स्पष्टम् । स आश्विनं ग्रहं गृहीत्वा समर्थाचरणेन यजमानोऽन्वङ्गं प्राणतां प्राणादीनां पश्चादङ्गेषु कल्पितेषु स लब्धात्मकः सन् आशिष -माशास्ते भूर्भुव: स्वरिति । ' तान् वै न सर्वमिवावकाशयेत् । यो न्वेव ज्ञातस्तमवकाशयेद्यो वास्य प्रियः स्याद्यो वानूचानोऽनुक्तेनैनान् प्राप्नुयात् स आश्विनं ग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति तं कृत्स्नं यज्ञं जनयित्वा तमात्मन् धत्ते तमात्मन् कुरुते ' ( श ० ४।५।६।५ ) । उपांश्वादिभि: सम्बन्धादवकाशानां सर्वप्रयोगविषये प्राप्ते ज्ञातादिप्रयोग एव व्यवस्थाप्यते । यो न्वेव ज्ञातः शुच्याभिजनतया यो वाऽध्वर्योः प्रियोऽतिशयेन यो वानूचानो वेदार्थानुवचनसमर्थोऽनुक्तेनानुवचनेन विद्ययैव एनान् उपांश्वादिरूपान् प्राणान् प्राप्नुयात् । अन्यस्त्वनवकाशित एव यजमान आश्विनं ग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति । तदा हि प्राणैर्ग्रहैर्योजितो भवतीत्यभिप्रायः । अध्यात्मपक्षे – लोके यस्य वस्तुनः कश्चन विशिष्टोऽधिकारी न भवति, तद्वस्तु देशाधिपतेः शासकस्य भवति यथा तथैव यानि नामानि तैस्तैर्व्यक्तिविशेषः गृहीतसङ्गतिकानि तानि विशिष्टव्यक्तिसम्बन्धीनि यानि न तथा तानि परमेश्वरस्यैव नामानि । सर्वनामानि च सर्वैः सम्बद्धानि । सर्वं च कार्यकारणाभेदेन ब्रह्मात्मकमेव भवति । तस्मादेव ' प्रजापतिर्वै कः प्रजापतिर्वै को नाम ' ( श ० ४ | ५ | ६ | ४ ) प्रजापतिरत्र परमेश्वर एव । भाष्यसार-- - ' को s सि ' इस कण्डिका के मन्त्रों से द्रोणकलश का अवलोकन तथा यजमान द्वारा मन्त्रजप आदि विधियां अनुष्ठित की जाती हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ९।७।१३-१४ ) में निरूपित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । जिस वस्तु का कोई विशेष अधिकारी नहीं होता, नाम व्यक्तिविशेषों के द्वारा संगृहीत हैं, वे विशिष्ट ही नाम हैं । सर्वनाम सबके साथ सम्बद्ध हैं । ' सर्व ' सोम, तुम प्रजापति हो, परमेश्वर हो । अन्यत्र ग्रहों का तथा अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है - जिस प्रकार संसार में वह वस्तु उस देश के स्वामी, शासक की होती है । उसी प्रकार जो व्यक्तियों से सम्बद्ध हैं । जो इस प्रकार के नहीं हैं, वे परमेश्वर के कारण के अभेद से ब्रह्मात्मक ही होता है । अतः हे

पृष्ठ 139

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 139 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २ ९ ] वेदार्थ पारिजातभाष्यसहिता ८५ तस्माद् हे सोम, त्वं कोऽसि प्रजापतिरसि परमेश्वरोऽसि, कतमोऽसि औपचारिकमपि प्रजापतित्वं ग्रहाणां यजमानानामपि तत्र तत्रोक्तमस्ति तद्वयावृत्तये कतमोऽसि अतिशयेन प्रजापतिरसीति प्रोक्तम् । एतत्प्रयोगेण निरुपचरितप्रजापतित्वं त्वय्येव विद्यत इत्यर्थः सम्पन्नः । कस्यासि प्रजापतेरेव स्वरूपभूतोऽसि । राहोः शिर इतिवदभेदेऽपि भेदोपचारात् षष्ठी । को नामासि प्रजापतिनामासि । यस्य प्रजापतेः परमेश्वरस्य ते तव नाम अमन्महि निरन्तरं चिन्तयामः । यं त्वा त्वां सोमेन अमृतात्मकेन सोमरसेन अतीतृपामस्तर्पयामः । हे भूर्भुवः स्वः सर्वस्वरूप! ( अर्थाद् भूरादयो लोकास्तत्रत्यानि वस्तूनि तदधिष्ठातारश्च त्वमेवासि ), अहं साधकस्त्व-त्प्रसादात् त्वदीयाभिः प्रजाभिः सुप्रजाः, त्वदीयैर्वीरैः सुवीरः त्वदीयैः पोषैः सुपोषः स्याम् । प्रजापत्यभेद-साक्षात्कारेण त्वदीयानि वस्तूनि सर्वाणि मदीयानि सम्पद्यन्तामित्यर्थः । यद्वा भवन्तं सोमं साम्बसदाशिवं प्रति प्रश्नः - हे देव! त्वं कोऽसि? ' को भवानुग्ररूप: ' ( भ ० गी ० ११।३१ ) इति विश्वरूपं प्रति धनञ्जय प्रश्नवत् । कतमोऽसि जीवेश्वरजगतां मध्ये कतमोऽसि । को नामासि, यस्य ते नाम वयममन्महि विजानीमश्चिन्तयामः, यं च त्वामतीतृपामस्तर्पयामः । एवं पृष्टो भगवानाह - भूर्भुवः स्वः, लोकत्रयोपलक्षितसर्वस्वरूपोऽहमित्यर्थः । भवति सर्वं जगदस्मादिति भू: सर्वोत्पादकोऽस्मि, भूत्वा वसति सर्वं जगदस्मिन्निति भुवविश्वस्थितिहेतुरहम्, स्वः स्वरति लयं गच्छति सर्वं यस्मिन् स विश्वप्रलयाधारश्वाहमेवेत्यर्थः । अहमेव सर्वाभिः प्रजाभिः सुप्रजाः, सर्वैर्वीरैः सुवीरः, सर्वैः पोषः सुपोषः । अहं सर्वस्वरूपः परमात्मा । भूर्भुवः स्वरिति व्याहृतयो मम नामानि । जीवेश्वरजगतां मध्ये परमेश्वर एवाहम् । अहमेव च सर्वस्य धाता माता संहर्ता सर्वाभीष्टपूरक इत्युत्तरम् । दयानन्दस्तु — ' सभ्यसेनास्थप्रजाजना वयम्! त्वं कोऽसि, कतमोऽसि, कस्यासि, को नामासि, प्रसिद्धोऽसि! यस्य ते नाम वयममन्महि यं त्वा सोमेनातीतृपामेति पृच्छामो ब्रूहि । तान् प्रति सभापतिराह-भूर्भुवः स्वर्लोकसुखमिवात्मसुखमभीप्सुरहं युष्माभिः प्रजाभिः सुप्रजाः, वीरैः सुवीरः, पोषः सुपोषश्च स्यामिति यजमानों का भी औपचारिक प्रजापतित्व कहा गया है । उसकी निवृत्ति के लिये कहा गया है- तुम अतिशयरूप से प्रजापति हो । इस शब्द के प्रयोग से ' निरुपचरित प्रजापतित्व तुममें ही है ' यह अर्थं निष्पन्न होता है । तुम प्रजापति वाले के भी स्वरूपभूत हो । यहाँ ' राहु के सिर ' की भाँति अभेद होने पर भी भेदोपचार में षष्ठी है । तुम ' प्रजापति ' नाम हो । जिस परमेश्वर के नाम का हम निरन्तर मनन करते हैं, जिसको हम अमृतात्मक सोमरस से सन्तृप्त करते हैं, हे सर्वस्वरूप! मैं साघक आपकी कृपा से आपकी प्रजाओं के द्वारा सुप्रजावान्, वीरों से सुवीरवान्, पोषण से सुपुष्ट होऊँ । अथवा भगवान् साम्ब सदाशिव के प्रति प्रश्न है कि हे देव! आप कौन हैं? जीव, ईश्वर तथा जगत् के मध्य आप कौन हैं? किस नाम के हैं? आपके जिस नाम को हम जानते हैं, जिसका मनन करते हैं और आपको सन्तृप्त करते हैं । इस प्रकार प्रश्न करने पर भगवान् उत्तर देते हैं कि मैं भूः लोक आदि सर्वस्वरूप हूँ । भूः, अर्थात् सर्वोत्पादक प्रजाओं से हूँ । भुवः, अर्थात् विश्व की स्थिति का कारण हूं | स्वः, अर्थात् विश्वप्रलय का आधार हूँ । मैं ही समस्त प्रजावान्, समस्त वीरों से सुवीर तथा समस्त पोषणों से सुपुष्ट हूँ । मैं सर्वस्वरूप परमात्मा हूँ । भूः भुवः स्वः– ये तीनों व्याहृतियाँ मेरे नाम हैं । जीव, ईश्वर तथा जगत् में मैं परमेश्वर ही हूँ । मैं ही सबका विधाता, निर्माता, संहरणकर्ता, सर्वाभीष्ट पूरक हैं । स्वामी दयानन्द के द्वारा वर्णित अर्थ में प्रश्नकर्ता कौन है? तथा उत्तरदाता कौन है? इसका समाधान न होने के कारण विसंगति है । नाम आदि से संबद्ध प्रश्नों के तदनुरूप ही उत्तर होने चाहिये । आम के सम्बन्ध में पूछे जाने पर

पृष्ठ 140

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 140 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ शुक्लयजुर्वेद संहिता [ अ ० ७ प्रतिजाने ' इति, तदपि विसङ्गतमेव, के प्रष्टारः के च प्रतिवक्तार इत्यनिर्णयात् । विश्व नामादिविषयाणां प्रश्नानां तदनुगुणैरेव प्रतिवचनैर्भाव्यम् । नाम्रान् पृष्टः कोविदारान्निवेदयन्नवधेयवचनो भवति । नहि भूर्भुवः स्वर्लोकसुखमभीप्सुरहं युष्माभिः प्रजाभिः सुप्रजाः स्यामित्यादिभिरुत्तरैः प्रश्नः समाधीयते । भावार्थस्तु सर्वथा मन्त्राक्षरासम्बद्ध एवेति सर्वत्रोपेक्ष्यते । तस्मात् शतपथादिसम्मतं पूर्वोक्तं व्याख्यान-मेवादरणीयमिति ॥ २ ९ ॥ उपया॒मगृ॑होतोऽसि॒ मध॑वे त्वोपया॒मगृहीतोऽसि॒ माध॑वाय त्वोपया॒ मनु॑होतोऽसि॒ शुक्र य स्वोष॑या॒मगृ॑होतोऽसि॒ शुच॑ये स्वांग्यामगृहीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑होतोऽसि॒ नम॒स्याय त्वोष॑या॒मगृ॑हीतोऽस॒षे त्वपया॒मगृहीतोऽस्य॒र्जे त्वापया॒मगृ॑हीतोऽसि॒ सह॑से त्वोष॑या॒मग॑हीतोऽसि॒ सहस्याय॑त्या॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृहीतोऽसि॒ तप॒स्या॒य त्वोपयामगृहीतोऽस्य-हसस्प॒तये॑ त्वा ॥ ३० ॥

' ऋतु ग्रहैश्वरतो द्रोणकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रमध्वर्योः पूर्वः पूर्वो मन्त्र उत्तर उत्तरः प्रतिप्रस्थातु: ' ( का ० श्र ० ९ ।१३।१ - ३ ) | अध्वर्युप्रतिप्रस्थातारी उपयामगृहीतोऽसि मधवे कचनार से सम्बद्ध उत्तर देने वाला समझदार नहीं होता ।

भावार्थं तो सर्वथा मन्त्र के शब्दों से असम्बद्ध है ।

समुचित है ॥ २ ९ ॥

भूर्भुवः आदि उत्तरों से यहाँ प्रश्न का समाधान नहीं होता । अतः शतपथब्राह्मण आदि से संगत पूर्वोक्त व्याख्या ही मन्त्रार्थ – हे प्रथम ऋतुग्रह! तुम उपयाम पात्र में गृहीत हुए हो, मधु ( चैत्र ) मास की प्रीति के लिये तुमको ग्रहण करता हूँ । हे द्वितीय ऋतुग्रह! तुम उपयाम पात्र में गृहीत हुए हो, वैशाख मास की संतुष्टि के लिये तुमको प्रहण करता हूँ । है तृतीय ऋतुग्रह! तुम उपयाम पात्र में गृहीत हुए हो, ज्येष्ठ मास की सन्तुष्टि के लिये तुमको ग्रहण करता हूँ । है चतुर्थं ऋतुग्रह! तुम उपयाम पात्र में गृहीत हुए हो, आषाढ़ मास की सन्तुष्टि के लिये तुमको ग्रहण करता हूँ । है पंचम ऋतुग्रह! तुम उपयाम पात्र में गृहीत हो, भावण मास की प्रीति के लिये तुमको गृहीत करता हूँ । है षष्ठ ऋतुग्रह! तुम उपयाम पात्र में गृहीत हो, भाद्रपद मास की प्रीति के निमित्त तुमको ग्रहण करता हूँ । है सप्तम ग्रह! तुम उपयाम पात्र में गृहीत हो, आश्विन मास की सन्तुष्टि के लिये तुमको ग्रहण करता हूँ । है अष्टम ग्रह! तुम उपयाम पात्र में गृहीत हो, कार्तिक मास की प्रीति के लिये तुमको ग्रहण करता हूँ । हे नवम ग्रह! तुम उपयाम पात्र में गृहीत हो, मार्गशीर्ष मास की सन्तुष्टि के लिये तुमको ग्रहण करता हूँ । हे वशम ग्रह! तुम उपयाम पात्र द्वारा गृहीत हो, पौष मास की प्रीति के निमित्त तुमको ग्रहण करता हूँ । हे एकादश ग्रह! तुम उपयाम पात्र में गृहीत हो, माघ मास की सन्तुष्टि के लिये तुमको ग्रहण करता हूँ । है द्वादश ऋतु ग्रह! तुम उपयाम पात्र में गृहीत हो, फाल्गुन मास की प्रीति के लिये तुमको ग्रहण करता हूँ । हे त्रयोदश ग्रह! तुम उपयाम पात्र में गृहीत हो, पाप के अधिपति मलमास की सन्तुष्टि के लिये तुमको ग्रहण करता हूँ ॥ ३० ॥

भाष्यसार - ' उपयामगृहीतोऽसि मघवे त्वा ' इत्यादि कण्डिका के अन्तर्गत तेरह मन्त्रों के द्वारा अध्वर्यु तथा