वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 151–160
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 151–160
पृष्ठ 151
पाठ पढ़ें पाठ छिपाएँ
म ० ३५-३६ ] वेदार्थ पारिजात भाष्यसहिता दयानन्दस्तु — ' मरुत्वः! मरुतः प्रशस्ता धर्मसम्बद्धाः प्रजा यस्य तत्सम्बुद्धौ । इन्द्रः सम्राट् त्वमिह यथा शार्याते शर्याभिरङ्गुलीभिर्निर्वृत्तानि व र्माणि शार्याणि तान्यतति व्याप्नोतीति शार्यातस्तस्मिन् । ' शर्या इत्यङ्गु-लिनामसु ' ( निघ ० २२५ ) । सुतस्य तव अपिबस्तथा सोमं पाहि । हे शूर, तव शर्मन् न्यायगृहे सुयज्ञा इव कवयस्तव प्रणीती प्रकृष्टां नीतिभाविवसन्ति परिचरन्ति । यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वामिन्द्राय परमैश्वर्याय मरुत्वते प्रजासम्बन्धाय वयं सेवेमहि । ते तवैष विद्याप्रचारयोनिरस्ति । अतस्त्वामिन्द्राय मरुत्वते मन्यामहे ' इति, भाषाभाष्येऽपि - शार्याते इत्यस्य स्वहस्तपादपरिश्रमनिष्पन्ने व्यवहारे सुतस्याभ्यस्तस्य विद्या-सम् अपिब:, तथैव सोमं समस्तोत्तमगुणैश्वर्यकारकं सुखकरं पठनपाठनात्मकं यज्ञं पाहि ' इत्यादिकम्, तदपि मुख्यार्थत्यागात् सुदूरगौणार्थाश्रयणाच्च श्रुतिषु बलात्कार एव, मरुत्पदस्य प्रजाद्यर्थत्वे मानाभावात् । न च विशो मरुत इति श्रुतिः प्रमाणमिति वाच्यम्, तत्र ' क्षत्रं वा इन्द्रो विशो मरुतः ' ( श ० ४ | ३ | ३ | ९ ) इति रीत्या इन्द्रस्य क्षत्ररूपत्वं मरुतां च विरूपत्वमुक्तम् । न तु मरुत्पदस्य प्रजार्थत्वं तत्रोक्तम् । तथैव शर्यापदस्य अङ्गुल्यर्थ-कत्वेऽपि हस्तपादार्थकत्वमभ्युपगम्य तद्वयाप्तस्य तस्य तज्जनितपरिश्रमार्थता ततस्तज्जनितव्यवहारार्थतेति कल्पनं निर्मूलमेव । सुतस्य विद्यारसस्येत्यपि व्याख्यानं निर्मूलमेव । तथैव सोमपदस्य पठनपाठनयज्ञोऽर्थं इत्यपि स्वरित्वमेव । ' प्रणीती ' इत्यस्य प्रकृष्टनीतिमित्यप्यर्थो ( शाब्द ) न्यायविरुद्ध एव । इन्द्रपदस्य परमैश्वर्यवान् अर्थो न परमैश्वर्यम् । मरुत्वदित्यस्यापि मरुत्साहित इन्द्रोऽर्थः न प्रजासम्बन्धः । श्रुतिविरोधोऽपि स्फुटः ॥ ३५ ॥
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वार दि॒व्यः॑ शा॒समिन्द्रम् । विश्वा॒साह॒मव॑से॒ नूत॑नाय॒ग्र सहोदामि॒ह त हुवेम ॥ उप॒यामगृहीतोऽसोन्द्रय त्वा म॒रुत्व॑त एष ते॒ योनि॒रिन्द्रयत्वा म॒रुत्व॑ते । उपयामगृहीतोऽसि म॒रुतां॒ त्वज॑से ॥ ३६ ॥
अर्चना करते हैं । शेष मन्त्रार्थं पूर्व की भांति ही है । स्वामी दयानन्द द्वारा प्रतिपादित संस्कृत एवं हिन्दी व्याख्या मुख्य अर्थ के परित्याग तथा गौण अर्थ के स्वीकरण के कारण श्रुतियों के साथ बलात्कार ही है । मरुत् शब्द के ' प्रजा ' अर्थ में कोई प्रमाण नहीं है । इसी प्रकार ' शर्मा ' शब्द अंगुलि के अर्थ का वाचक होने पर भी उसका हाथ - पैर आदि तात्पर्य मानकर उसके परिश्रम से जनित व्यवहार अर्थ की कल्पना निर्मूल है । सुत की व्याख्या ' विद्यारस ' करना भी अप्रामाणिक है । इसी प्रकार ' सोम ' का अर्थं पठन - पाठनयज्ञ करना भी स्वेच्छाचारिता ही है । ' इन्द्र ' शब्द का अर्थं परमेश्वर्यवान् होता है, परमेश्वर्य नहीं । श्रुतिवाक्यों से विरोध भी स्पष्ट ही है ॥ ३५ ॥
मन्त्रार्थ – महद्दुगणों से युक्त, उचित समय पर जल वर्षाने वाले हे इन्द्र! तुम व्रीहि, धान्य आदि को बढ़ाने वाले, उत्कृष्ट ऐश्वर्यवान्, धुलोक में रहने वाले, दुष्टों के शासक, आलस्य से रहित हो विश्व के पालक, बल देने बाले और नूतन यजमान का रक्षण करने के निमित्त निरन्तर उद्यत बज्र वाले हो । इस यज्ञ की रक्षा के निमित्त हम तुम्हारा आह्वान करते हैं । है द्वितीय ग्रह! तुम उपयाम पात्र में गृहीत हो, मरदेवताओं से युक्त इन्द्र की प्रीति के लिये तुम्हारा ग्रहण करता हूँ । हे तृतीय मरुत्वतीय प्रह! मरुदुदेवताओं के बल सम्पादन के लिये तुम यहाँ ठो ॥ ३६ ॥
१३
पृष्ठ 152
पाठ पढ़ें पाठ छिपाएँ
१८ शुक्लयजुर्वेद संहिता [ अ ० ७ द्वितीयं मरुत्वतीयमाह - ' वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति ' ( का ० श्रौ ० १०/३/७ ) । रिक्तेन ऋतुपात्रेण सशस्त्रं मरुत्वतीय ग्रहणं कुर्यादध्वर्युः । इहास्मदीये यज्ञे तमिन्द्रं वयं हुवेम आह्वयामः । त्रः शपि व्यत्ययेन सम्प्रसारणम् । कीदृशमिन्द्रम्? मरुत्वन्तं मरुद्गणोपेतं वृषभं जलवर्षितारं कामानामभीष्टानां वर्धयितारम् । वावृधानं वर्धते वर्धयति वा कामानभीष्टानिति वावृधानस्तम्, ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७६ ) इति वर्धतेः शाचि जुहोत्यादित्वेन श्लुः, श्लो ' ( पा ० सू ० ६ | १ | १० ) इति द्वित्वम् । अकवारिम्, कुत्सिता अरयो यस्यासौ कवारिः, न कवारिरकवारिस्तम् । यस्य शत्रवो वृत्रादयोऽप्यकुत्सिता महानुभावाः | यहा अकुत्सितमैश्वर्यमियत प्राप्नोतीत्य वारिस्तम् । दिव्यं दिवि भवम् । शासम्, शास्तीति शासस्तं शासितारं दुष्टानां निग्रहीतारम् । यद्वा शासनं शासः, तद्वन्तम् अव्याहतशासनम् । विश्वासाहं विश्वं पालयितुं सहत इति विश्वाषाट तं विश्वासाहं विश्वपालनेऽनलसं समर्थम् । अभिभवार्थो वा सहिः, स्वधर्मच्युतस्य विश्वस्य सर्वस्याभिभवितारम् । नवीनभूताय इदानीन्तनयजमानपालनाय उग्रम् उद्गूर्णवज्रम् । सहोदां सहो बलं ददातीति सहोदास्तं बलप्रदम् । अवसे अवसानाय स्थित्यै । उपयामेति व्याख्यातमेव । ' ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति ' ( का ० श्रौ ० १० | ३ | ३ ) | प्रतिप्रस्थाता द्वितीयेन ऋतुपात्रेण द्रोणकलशात् पूतभृतो वा कुण्ठमरुत्वतीयस्य ग्रहणं कुर्यात् । मरुद्देवताको ग्रहो मरुत्वतीयः । मरुद्देवत्यं यजुः । हे मरुत्वतीय ग्रह, मरुतां देवानामोजसे बलाय त्वा त्वां सादयामि । ओज इति बलनामसु । स त्वमुपयामेन गृहीतोऽसि । स्वबलं निधायेन्द्रं प्रत्यागता मरुतोऽनेन ग्रहेण गृहीतेन सबला जाता इति भावः । अध्यात्मपक्षे -- अत्र जीवेशानुगतमात्मचैतन्यं दर्शयति । मरुत्वन्तं मरुद्भिः प्राणैः सह वर्तमानं वृषभं श्रेष्ठं वावृधानमुपाधिवृद्ध्या वर्धमानं दिव्यं वस्तुतोऽलौकिकं लोकोत्तरमिन्द्रं दीप्तिमन्तं देहादिभासकं विश्वासाहं विश्वपाल समर्थम्, तपोभिरुपासनाभिश्वोपाधिशुद्धयतिशयादैश्वर्यातिशयदर्शनात् । स्वधर्मच्युतस्य विश्वस्य अभिभवितारम् । नूतनाय अवसे इदानीन्तनजनानां पालनाय उग्रं उद्गूर्णवज्रम् । सहोदां सहो बलं ददातीति सहोदास्तम् । एवंभूतं तं जीवेशानुगतं तत्तदुपाधिविशिष्टमुपाधितद्धर्मवर्जितं च प्रत्यक्चैतन्याभिन्नं परमात्मानं हुवेम, जननमरणाविच्छेदलक्षणायाः संसृतेरपाकरणाय आह्वयामः साक्षात्कुर्मः । हे प्रत्यगात्मन् त्वं यमनियमा-दिभिर्गृहीतोऽसि नियमितोऽसि । मरुद्भिरुपाधिभिरुपलक्षिताय इन्द्राय तत्पदलक्ष्यार्थाय परमात्मने त्वां समर्पयामः, तत्र प्रविलापयामः । एष ते योनिरधिष्ठानम् । इन्द्राय मरुत्वते त्वां तदभेदभावनायै प्रोत्साहयामः । उपयाम-भाष्यसार - कात्यायन श्रौतसूत्र ( १०1३.७ ) में उल्लिखित याज्ञिक विनियोग के अनुसार अध्वर्यु एवं प्रति-प्रस्थाता ऋत्विजों के द्वारा मरुत्वतीय ग्रह का ग्रहण ' मरुत्वन्तम् ' आदि कण्डिकागत मन्त्रों के द्वारा किया जाता है । याज्ञिक प्रक्रिया के अनुरूप मन्त्रार्थं पूर्वाचार्यों के द्वारा वर्णित है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है -- इसमें जीवेश्वर के अनुगत आत्मचैतन्य का प्रकाशन किया गया है । प्राणों के साथ विद्यमान श्रेष्ठ, उपाधि की वृद्धि के द्वारा परिवृद्ध होने वाले, वस्तुतः अलौकिक, लोकोत्तर, दीप्तिमान्, देहादिभासक, विश्व के पालन में समर्थ, स्वधर्म से च्युत विश्व का पराभव करने वाले, अधुनातन प्राणियों के पालन के लिये उग्रवज्र, बलप्रदान करने वाले इस प्रकार के उस जीवेश्वर के अनुगत विभिन्नोपाधिविशिष्ट एवं उपाधि तथा उपाधि धर्मों से विरहित प्रत्यक् चैतन्याभिन्न परमात्मा का हम आह्वान करते हैं । जन्ममृत्युरूपिणी सृष्टि के निराकरण के लिये उनका साक्षात्कार करते हैं । हे प्रत्यगात्मन्, तुम यम, नियम आदि के द्वारा संगृहीत हो, नियमित हो । उपाधियों से उपलक्षित, इन्द्रपद के लक्ष्यार्थं परमात्मा के लिये तुमको हम समर्पित करते हैं, उसमें विलीन करते हैं । यही तुम्हारा
पृष्ठ 153
पाठ पढ़ें पाठ छिपाएँ
म ० ३६-३७ ] वेदार्थ पारिजातभाष्यसहिता ९९ गृहीतोऽसि । तत एव मरुतामोजसे मरुतां प्राणानां तदुपलक्षितानामन्योपाधीनामोजसे सारभूतायाधिष्ठानाय त्वां समर्पयामः, अधिष्ठाने प्रविलाप्याधिष्ठानमात्रतां चिन्तयामः । दयानन्दस्तु - ' कवयो वयं नूतनाय अवसे रक्षणाद्याय मरुत्वन्तं प्रशस्त प्रजावन्तं कवोऽकवोऽधर्मात्मा वृषभं सर्वोत्तमं, वावृधानम्, अतिशयेन शुभकर्मसु वर्धमानम् । अकवारिं कौति धर्ममुपदिशतीति कवो न सहत इति विश्वाषाट् तस्यारिः शत्रुस्तम् । दिव्यं शुद्धं शासं शासितारम् इन्द्रमैश्वर्यवन्तं विश्वासाहं विश्वान् सर्वान् इन्द्राय यतस्ते तवैष तं हुवेम स्वीकुर्वीमहि । हे मुख्यसभासद्, यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वां मरुत्वत हुवेम ' योनिरस्त्यतस्त्वां मरुत्वत इन्द्राय यतस्त्वमुपयामगृहीतोऽसि तस्माद् मरुतामोज से बलाय च त्वा त्वां इति, तदपि यत्किञ्चित् वेदमन्त्राणां धर्मब्रह्मपरत्वेन धर्माङ्गत्वे दिव्यदेवतादिप्रतिपादनमपहाय लौकिक मनुष्य-, शासकेष्विन्द्रादिपदप्रयोगस्यासङ्गतत्वात् । कवो धर्मोपदेष्टा, तद्भिन्नोऽधर्मात्मा तस्यारिरित्यपि न सङ्गतम् तादृशार्थस्य कवपदेनैव सिद्धत्वात् ॥ ३६ ॥
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भः सोमं पिब वृत्र॒हा शूर वि॒द्वान् । जहि शत्रूं २ ॥ रथ॒ मू॒र्धौ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥ उपयाम होतोऽसीद्रय त्वा म॒रुत्व॑त॒ ए॒ष ते॒ योनि॒-रिन्द्रयत्वा म॒रुत्वते ॥ ३७ ॥
' सजोषा इन्द्रेति ' ( वा ० सं ० ७ | ३७ ), ' मरुत्वाँ २॥ इन्द्रेति ' ( वा ० सं ० ७७३८ ) ऋग्द्वयस्य कात्यायनोक्तेः सोपयामस्य । मरुत्वतीयग्रहणे विनियोगो वाचस्तोमे, ' वाचस्तोमाश्चत्वारः ' ( का ० श्र ० २२/६/२६ ) इति इन्द्र शूरवीर, त्वं सोमं पिब । कीदृशस्त्वम्? सजोषाः, जोषणं जोषः प्रीतिः, ' जुषी प्रीतिसेवनयो: ' असुनुप्रत्ययः । तेन जोषसा सह वर्तमानः सजोषाः । मरुद्भिः कृत्वा सगणः सपरिवार एकोनपञ्चाशन्मरुद्गणैः सह सोमं, पिब ततः | वृत्रहा वृत्रं तन्नामानं दैत्यं हन्तीति वृत्रहा, अनेन सोमपानेन वृत्रं हनिष्यामीति विद्वान् एतमर्थं जानानः अधिष्ठान है । मरुत्वान् इन्द्र के लिये तुमको उसमें अभेद की भावना हेतु हम प्रोत्साहित करते हैं ॥ अधिष्ठान तुम यमादि में के प्रविलीन द्वारा गृहीत हो । प्राण तथा अन्य उपाधियों के सारभूत अधिष्ठान के लिये तुमको समर्पित करते हैं करके अधिष्टानमात्रता का चिन्तन हम करते हैं । स्वामी दयानन्द द्वारा निरूपित मन्त्रार्थं असमीचीन है, क्योंकि धर्मब्रह्मपरक रहने के कारण वेदमन्त्रों का धर्मागत्व होने पर दिव्य देवताओं आदि का प्रतिपादन छोड़कर केवल लौकिक मनुष्य शासकों में इन्द्र आदि शब्दों का प्रयोग असंगत है । ' कव ' का अर्थ धर्मोपदेशक है तथा उससे विपरीत अधर्मात्मा है । उसका शत्रु ( अकवारि ) इत्यादि अर्थ भी संगत नहीं है, क्योंकि इस प्रकार का अर्थ तो केवल ' कव ' शब्द से ही सिद्ध हो जाता है ॥ ३६ ॥
मन्त्रार्थ - हे विक्रान्त इन्द्र! तुम हमारे इस यज्ञ को प्रीति से सेवन करो । वृत्र को मारने वाले, सब कुछ जानने वाले तुम मरुद्गणों के परिवार के साथ सोम का पान करो, शत्रुओं को मारो, संग्राम से शत्रुओं को निवृत्त करो और शत्रुनाश के अनन्तर हमको सब प्रकार का अभय प्रदान करो । हे ग्रह! तुम उपयाम पात्र में गृहीत हो, मरूद् देवताओं से युक्त इन्द्र देवता की प्रीति के निमित्त तुम्हारा ग्रहण करता हूँ । हे ग्रह! यह तुम्हारा स्थान है, देवताओं की प्रीति के निमित्त तुम्हे यहाँ स्थापित करता हूँ ॥ ३७ ॥
भाष्यसार - ' सजोषा इन्द्र ' तथा ' मरुत्त्रा इन्द्र ' इन दो उपयामादि यजुर्मंन्त्र से संयुक्त ऋचाओं का विनियोग
पृष्ठ 154
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता [ अ ० ७ सोमं पीत्वा शत्रून् वृत्रादीन् जहि मारय । मृधः संग्रामान् अपनुदस्व । ' णुद प्रेरणे ' युद्धं निवर्तय । ' दीर्घाटि समानपादे ' ( ८ | ३ | ९ ) इति शत्रूनिति नस्यानुनासिकत्वम् । यद्वा मृध इति पश्वम्येकवचनम् । मृधः संग्रामाद् अपनुदस्व शत्रूनित्यस्यानुषङ्गः । ये हतावशिष्टा अरयस्तान् संग्रामात् पलायनार्थं प्रेरयस्व । एवं शत्रून् पराजित्य विश्वतोऽभयं कृणुहि । अध्यात्मपक्षे - हे इन्द्र परमेश्वरांश, हे शूर सर्वैरनभिभाव्य, त्वं सजोषाः सुप्रसन्नो मरुद्भिः प्राणादिभि -रान्तरैर्बाह्यैश्चोपाधिभिः कृत्वा सगणः सपरिवारः, वृत्रहा वृत्रम पुरमज्ञानं च हतवानिति वृत्रहा, सोमं भक्तिरसं पिब । भक्त्या च विद्वान् कृतात्मसाक्षात्कारः शत्रूनविद्याजनितान् कामादीन् जहि समूलमुन्मूलय । मृधः संग्रामात् पलायनाय अपनुदस्व प्रेरयस्व । नोऽस्मभ्यं विश्वतः सर्वतोऽभयं कृणुधि । तत्त्वज्ञः सर्वं संन्यस्य सर्वेभ्यो भूतेभ्योऽभयं प्रयच्छति । उपयामगृहीतोऽसीति पूर्ववद् व्याख्येयम् । दयानन्दस्तु– ' हे इन्द्र सेनापते शूर, यतस्त्वमुपयामगृहीतोऽसि सेवासु नियमस्वीकृतोऽसि, मरुत्वत इन्द्राय त्वामुपदिशामि । किमित्यपेक्षायामाह - ते तव सम्बन्धी एष व्यवहारः । मरुत्वते प्रशस्तानि मरुदस्त्राणि यस्मिन् तस्मै मरुत्वते इन्द्राय प्रयतमानमङ्गीकरोमि । सजोषाः सगणस्त्वं मरुद्भिर्वायुभिरिव वृत्रहा इव सोमं सकल-पदार्थरसं पिबेति । तं पीत्वा विद्वान् सन् शत्रून् जहि । अथ मृधो s पनुदस्व । नोऽस्मभ्यं विश्वतोऽभयं कृणुहि ' इति, भाषाभाष्ये च - ' ईश्वरो वक्ति ' इति, तदुभयमप्यसङ्गतम्, ईश्वरस्य नित्यनिर्भयत्वेन विश्वतोऽभयं कृणुहीति प्रार्थनायोगात्, इन्द्रपदेन सेनापतिग्रहणे मानाभावात् । तथैव मरुत्पदेन मरुदस्त्रग्रहणमपि निर्मूलमेव । नहीश्वरः
सेनापत्यादिभ्य उपदिशन्नुपलभ्यते । न वा तादृग्वचनं किञ्चिदुपलभ्यते ॥ ३७ ॥
म॒रुत्व २ ॥ इन्द्र वृष॒भो रणा॑य॒ पिबा सोम॑मनु॒ष्व॒धं मय । आसिंश्चस्व जठरे मध्ये ऊ॒र्मिं त्व ँ राजा॑सि॒ प्रति॑पत्सुताना॑म् । उपया॒मगृ ' होतोऽसीत्द्रा॑य॒ त्वा म॒रुत्व॑त एष ते॒ योनि॒-रिन्द्रयत्वा मरुत्वते ॥ ३८ ॥
I वाचस्तोम में मरुत्वतीय ग्रह के ग्रहण में किया गया है । यह याज्ञिक प्रक्रिया कात्यायन श्रौतसूत्र ( २२/६/२६ ) में प्रतिपादित है । मन्त्रों का याज्ञिक अर्थ भी पूर्वाचार्यों के द्वारा निरूपित है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे परमेश्वर के अंशभूत, सबके द्वारा न पराभूत होने वाले तुम सुप्रसन्न होकर, प्राणादि आन्तरिक तथा बाह्य उपाधियों से, सपरिवार असुर तथा अज्ञान के विनाशक बनकर भक्तिरस का पान करो । आत्मसाक्षात्कार सम्पन्न करके तुम भक्ति के द्वारा अविद्या से उत्पन्न कामादि शत्रुओं को जड़ से उन्मूलित करो, संग्राम से भागने के लिये उन्हें प्रेरित करो । हमारे लिये सब ओर से अभय करो । तत्त्वज्ञ समस्त संन्यस्त करके सभी जीवों के लिये अभय प्रदान करता है । ' उपयामगृहीतः ' आदि की व्याख्या पूर्वोक्त ही है । स्वामी दयानन्द द्वारा वर्णित अर्थ उचित नहीं है । संस्कृतभाष्य तथा भाषाभाष्य में भी ' ईश्वर कहता है ' ये दोनों ही कथन असंगत हैं, क्योंकि ईश्वर के नित्यनिर्भय होने के कारण ' सब ओर से अभय करो ' इस कामना की कोई संगति नहीं है । इन्द्र शब्द से सेनापति अर्थ ग्रहण करने में भी कोई प्रमाण नहीं है । इसी प्रकार मरुत् शब्द से ' महत् अस्त्र ' अर्थं लेना भी निर्मूल है । सेनापति आदि के लिये उपदेश देता हुआ ईश्वर उपलब्ध नहीं होता, अथवा ऐसा कोई वचन भी उपलब्ध नहीं है ॥ ३७ ॥
पृष्ठ 155
पाठ पढ़ें पाठ छिपाएँ
म ० ३८ ] वेदार्थपारिजातभाष्यसहिता १०१ हे इन्द्र, यतस्त्वं मरुत्वान् मरुद्भिर्युक्तोऽसि, वृषभोऽपां वर्षिता, तं त्वां ब्रवीमि रणाय रणं संग्रामं कर्तुं पिब सोमम्, अनुष्वधं अनु पश्चात् स्वधा अन्नं पुरोडाशधानामन्थदधिपयस्यालक्षणम्, स त्वमनुष्वधं सोमं पिबेत्यर्थः । किमर्थं पातव्यः सोमः? इत्यत आह - मदायेति । मदे हि सति योद्धा भवतीन्द्रः । केन प्रकारेण पिबेत्युच्यते – आसिचस्व जठरे मध्व ऊर्मिम्, अकृपणमुदरे आसिचस्व । मध्वो मधु सोममित्यौपमिकं माद्यतेः, मधुस्वादस्य सोमस्योमिं महासङ्घातम् उदरे आसिवस्व । विशिष्टसोमपानस्य हेतुमाह - हे इन्द्र, त्वं यतो राजा ईश्वरोऽसि । प्रतिपत्सुतानां प्रतिपत्प्रमुखास्वपि तिथिषु सुतानामभिषुतानां सोमानाम् त्वदर्थमेव सर्वासु तिथिषु सोमो ऽभिषूयते, छन्दोगानां सवने प्रतिपदो विद्यमानत्वात् । पिबा ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६।३।१३५ ) इति संहितायां दीर्घः । अध्यात्मपक्षे - ' हे मरुत्वान् मरुदादिदेवगणोपेत इन्द्र परमेश्वर, त्वं वृषभोऽभीष्टवर्षणशीलो दीप्यमानश्चासि । रणाय भक्तानामभयार्थं दुष्टदानवैः साधं युद्धाय मदाय भक्तानां हर्षाय अनुष्वधं सोमं पिब, अनु पश्चात् स्वधा अन्नानि पुरोडाश - धाना - मन्थ - दधि - पयस्यादीनि यस्य तं सोमं तदुपकरणानि विविधान्यन्नानि च पिब भक्षय । मध्वो मधुस्वादस्य सोमस्य ऊर्मि लहरी, उदरे जठरे आसिचस्व । हे इन्द्र त्वमेव प्रतिपत्सुतानां प्रतिपत्प्रमुखासु तिथिषु सुतानामभिषुतानां त्वमेव राजा ईश्वरोऽसि । परमेश्वरस्य पूर्णकामस्य नित्यतृप्तत्वेऽपि भक्तानुग्रहार्थमेव भक्तसमर्पितबल्युपहारसपर्यादिग्राहित्वं पुराणेषु प्रसिद्धम् । ' नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते ' ( भा ० पु ० ७।९ ।११ ) । हे सोमादिनिवेदनीय द्रव्य, त्वमुपयामगृहीतोऽसि, इन्द्राय मरुत्वते गृह्णामि । एष ते योनिः इन्द्राय मरुत्वते त्वां सादयामि । दयानन्दस्तु -- ' हे इन्द्र सभापते, यतस्त्वमुपयामगृहीतोऽसि 1 तस्माद् वयं त्वां मरुत्वते प्रशस्ता मरुतः प्रजाः सेना वा विद्यन्ते यस्य तस्मै इन्द्राय शत्रुजिते नियोजयामः । यतस्ते तवैष योनिः । तस्मात् त्वां मरुत्वते पुरोडाश, धान्य, मम्थ, दधि, इस मधुर रस की कल्लोल का मन्त्रार्थ - मरुद्गणों से संयुक्त हे इन्द्र! जल को वर्षाने वाले तुम स्वधापूर्वक पय लक्षण वाले सोमरस को तृप्ति के निमित्त और दैत्यों से युद्ध करने के लिये पीजिये, उदर में आसिंचन कीजिये । आप प्रतिपत् प्रभृति तिथियों में अभिषुत हुए सोम के राजा हो । पात्र में गृहीत हो, इन्द्र और मरुद्गणों की प्रीति के लिये तुम्हारा ग्रहण करता हूँ । हे ग्रह! इद्र और मरुद्गणों की प्रीति के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ ३८ ॥
हे ग्रह! तुम उपयाम यह तुम्हारा स्थान है, भाष्यसार — ' मरुत्त्राँ इन्द्र ' इस कण्डिका का याज्ञिक विनियोग पूर्वोक्त ही है । यज्ञपरक मन्त्रार्थ भी पूर्वप्रतिपादित है । अध्यात्मपक्ष में अथं संगति इस प्रकार है- मरुत् आदि देवगणों से युक्त हे परमेश्वर, आप अभीष्ट की वर्षा करने वाले तथा दीप्यमान हैं । भक्तों के अभयार्थ दुष्ट दानवों के साथ युद्ध के लिये, भक्तों की प्रसन्नता के लिये पुरोडाश, घाना, मन्थ, दधि, पयस्या आदि अन्न भक्ष्यों से संयुक्त सोम तथा उसके सहवर्ती विविध अन्नद्रव्यों का भक्षण करें । मधु के समान सुस्वादु सोम की तरंगों को उदर में अन्तर्भुक्त करें । हे परमेश्वर, आप ही प्रतिपदा आदि तिथियों में सम्पादित किये गये पदार्थों के स्वामी हैं । पूर्णकाम परमेश्वर के नित्यतृप्त होने पर भी भक्तों पर अनुग्रह के लिये भक्त द्वारा समर्पित नैवेद्य, उपहार, पूजन आदि का ग्रहण करना पुराणों में वर्णित है । हे सोम आदि नैवेद्य द्रव्य, तुम नियमादि से संगृहीत हो । मरुत्वान् परमेश्वर के लिये तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है । मरुत्वान् परमेश्वर के लिये तुमको स्थापित करता हूँ । स्वामी दयानन्द द्वारा वर्णित संस्कृत एवं हिन्दी अर्थ ग्राह्य नहीं है, क्योंकि इस प्रकार के स्थूल अर्थ एवं लोकप्रसिद्ध
पृष्ठ 156
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्लयजुर्वेदसंहिता 1 अ ० ७ इन्द्राय ब्रूमः । किं तत्तदाह -- त्वं प्रतिपद्राजा, पद्यते विचार्यते योऽर्थविषयः स पत् पदं पदं प्रतीति प्रतिपत्, प्रतिपद्राजा प्रत्येककर्मणि प्रकाशमानो मरुत्वान् वृषभोऽसि, अतो रणाय अनुष्वधं सर्वेषु पक्वान्नेष्वनुकूलं मदाय सोमं सोमाद्योषधिसमूहं पिब । सुतानां सुसंस्कारेण निष्पादितानामन्नानां मध्वो मधुरस्य ऊर्मि लहरीं जठरे आसिञ्चस्व ' इति, भाषाभाष्ये तु - ' हे इन्द्र शत्रुजित्सभापते, यतस्त्वमुपयामगृहीतोऽसि राजनियमै स्वीकृतोऽसि, अतो वयं त्वां मरुत्वते यत्रोत्तमान्यस्त्राणि शस्त्राणि च प्रयुज्यन्ते, तस्मै परमैश्वर्यप्रापकाय युद्धाय नियोजयामः । तव एष युद्धपरमैश्वर्यं योनिः कारणमस्ति । अतस्त्वां तस्मै युद्धाय कथयामि । त्वं प्रत्येकस्मै महते विचार-कार्येषु प्रकामयमानः प्रतिपद्राजा प्रशंसनीयप्रजायुक्तः श्रेष्टोऽसि, अतो रणाय युद्धाय मदाय हर्षाय च प्रत्येक-भोजनानुक्कुलं सोमं सोमलतादिपोषकरसं सुतानामुत्तमसंस्कारैनिप्पन्नानां भोजनानां मधुररसस्य लहरीजठरे स्थापय ' इति, तदतीव मन्दम् तादृशस्थूलार्थस्य लोकसिद्धस्यार्थस्य वाक्यस्यापौरुषेये वेदेऽसम्भवात् । ' मरुत्वते इन्द्राय ' इत्यस्य परमैश्वर्यप्रापकं शस्त्रास्त्रादिप्रयोगमयं युद्धमर्थं इत्यत्र मानाभावात् । तथैव प्रतिप-पदस्य प्रतिविचारार्थत्वं राजपदस्य प्रकाशमानत्वं चार्थश्चिन्त्य एव ॥ ३८ ॥
म॒हाँ २ ॥ इन्द्रो॑ नृ॒वदाच॑र्षण॒प्रा उ॒त वि॒बर्ही अमि॒नः सहभिः । अ॒स्मद्रयग् वावृधे वीर्यायोरुः पृथुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ उपयामगृहीतोऽसि महेन्द्राय॑ त्वे॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥ ३ ९ ॥ ' माहेन्द्रं गृह्णाति वैश्वदेववन्महाँ इन्द्र इति ' ( का ० श्र ० १० | ३ | ११ ) । ' वैश्वदेवं गृह्णाति । वौमास इति ' ( का ० श्री ० ९ ।१४ । १-२ ) इति वैश्वदेवग्रहग्रहणे ये धर्मा उक्तास्तेऽत्रातिदिश्यन्ते वैश्वदेववद् महाँ इन्द्र इति मन्त्रेण शुक्रपात्रेण द्रोणकलशान्माहेन्द्रं ग्रहं गृह्णीयादिति सूत्रार्थः । माहेन्द्री त्रिष्टुब् भरद्वाजस्यार्षम् । तृतीयपादो नवाक्षरः । इन्द्रः परमैश्वर्यसम्पन्नो देवो वीर्याय वीरकर्मणे वावृधे वर्धते । ' छन्दसि लुललिट. ' ( पा ० सू ० ३।४।६ ) इति वर्तमाने संहितायामभ्यासदीर्घः । कीदृश इन्द्रः? महान् महत्त्वगुणविशिष्टः, महाप्रभवो वा । नृवद् मनुष्यवद् आहूयमान आगच्छति । एतेन तस्य सौशील्यवैशिष्ट्यं सूच्यते । चर्षणयो मनुष्यास्ताना-. समन्तात् प्राति तदभीष्टभोगैः पूरयतीत्याचर्षणिप्राः । यथा राजामात्यादिमनुष्य सेवकानभीष्टभोगैरापूरयतीति, ' प्रा पूरणे ' । उतापि चायं द्विबर्हा ' बृहि वृद्धी ' बर्हणं बर्हो वृद्धिः, द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो वृद्धिर्यस्येति सः । यद्वा द्वयोर्मध्यमोत्तमस्थानयोर्बर्हाः वृद्धः परिवृढः प्रभुद्विबर्हाः । अमिनः सहोभिर्बलैः, अमिनः पदार्थ से युक्त वाक्य अपौरुषेय वेद में सम्भव नहीं हो सकते । ' मरुत्वते इन्द्राय ' इसका अर्थ परमैश्वयंप्रापक शस्त्रास्त्रादि के प्रयोग से युक्त युद्ध है, इसमें कोई प्रमाण नहीं है । इसी प्रकार प्रतिपत् शब्द का प्रतिविचारार्थत्व तथा राजा शब्द का ' प्रकाशमानव ' अर्थ भी विचारणीय है ॥ ३८ ॥
मन्त्रार्थ -- राजा जिस प्रकार प्रजा की अभिलाषा पूरी करता है, उसी प्रकार मनुष्य के अभीष्ट को पूरा करने वाले, प्रकृति - विकृति रूप सोम याग को बढ़ाने वाले, उपमा से रहित, बलशाली, हमारे प्रति अनुकूल भाव वाले, महाप्रभावशाली इन्द्र वीरतापूर्ण कार्यों को सम्पन्न करने के लिये वृद्धि को प्राप्त होते हैं तथा यज्ञ से विस्तीर्ण महान् बलशाली इन्द्र यजमानों द्वारा सस्कृत हो उनके बलवीर्य को वृद्धि करते हैं । हे चतुर्थ ग्रह! तुम उपयाम पात्र में गृहीत हो, महेन्द्र देवता की प्रीति के लिये तुमको ग्रहण करता हूँ । हे माहेन्द्र ग्रह! यह तुम्हारा स्थान है, महेन्द्र देवता की प्रीति के लिये तुम्हें यहाँ स्थापित करता ॥ ३ ९ ॥ भाष्यसार - ' महाँ इन्द्र: ' इस मन्त्र के द्वारा द्रोणकलश से माहेन्द्र ग्रह का ग्रहण किया जाता है । यह याज्ञिक
पृष्ठ 157
पाठ पढ़ें पाठ छिपाएँ
म ० ३ ९ ] वेदार्थ पारिजातभाष्यसहिता १०३ अमितः अमितबलः, ‘ अमिनोऽमितमात्रो महान् भवत्यभ्यमितो वा ' ( निरु ० ६ १६ ) इति यास्कोक्तेः । यद्वा सहोभिः शतबलैरमितोऽप्रक्षिप्तः, शत्रुसम्बन्धिबलैरनुर्पाहंसित इत्यर्थ: । ' डुमित्र प्रक्षेपणे ', ' मी हिंसायाम् ' इति वा, निष्ठत्वाम् । यद्वा अमितः उपमारहितः । अस्मद्रक् अस्मान् प्रत्यचतीति अस्मद्रयक् अस्मदभिमुख-मुपागन्ता, अस्मच्छब्दे उपपदे अते: क्विप् । ' विश्वग्देवयोश्च " ( पा ० सू ० ६।३।९ २ ) इत्यादिना क्विन्तेऽवतो परेऽस्मच्छब्दस्य टेरद्रयादेशः । ' उगिदचां.. ' ( पा ० सू ० ७ | १ | ७० ) इति प्राप्तस्य नमोऽभावश्छान्दसः । लोडर्थे लुङ् । अडभावश्छान्दसः । अस्मत्सदृशो ववृधे वृद्धि प्राप्तः । यथा वयमेतदनुग्रहाद् वृद्धि प्राप्तास्तथैवा-स्मदीयैर्हविर्भिरस्य विवृद्धिः । तदेव प्रपञ्च्यते-- वीर्याय सामर्थ्यसिद्धये कर्तृभिर्यजमानैरयं सुकृतोऽभूत् सुष्ठु वर्धितोऽभूत् । सुकृतः साधुकृतः सत्कृतः पूजितो वा । कीदृशी तस्य विवृद्धि:? उरुर्यशसा विपुल: पृथुर्बलेन विस्तृतः । शतपथे च --- ‘ अथ माहेन्द्रं ग्रहं गृह्णाति । पाप्मना वा एतदिन्द्रः स ११ संष्टोऽभूद्यद्विशा मरुद्भिः स यथा विजयस्य कामाय विशा समाने पात्रेऽश्नीयादेवं तद्यदस्मा एतं मरुद्भिः समानं ग्रहमगृह्णन् ' ( श ० ४ | ३ | ३ | १५ ) । मरुत्वतीय ग्रहानन्तरं माहेन्द्र ग्रहं विधत्ते - अथ माहेन्द्रमिति । विहितं माहेन्द्रग्रहं पापनिरसनहेतुत्वेन प्रशंसति-विशा मरुद्भिरिति । मरुद्देवतारूपया विशा, एतेनेन्द्रः पाप्मना पापेन संसृष्टोऽभूत् यतोऽस्मा इन्द्राय मरुद्भिः समानं साधारणमेतं ग्रहम् अगृह्णन् इति यत् तद् एवंप्रकारो भवति, यथा विजयकामार्थं विशा सह समाने पात्रे भोजनम् । तस्मात् पापसंसृष्टोऽभूत् । ' तं देवाः । सर्वस्मिन् विजितेऽभयेऽनाष्ट्रे यथेषीकां मुञ्जाद्विवृहेदेव सर्वस्मात् पाप्मनो व्यबृहन् यन्माहेन्द्रं ग्रहमगृहणंस्तथो एवैष एतद्यथेषीका विमुञ्जा स्यादेव २७ सर्वस्मात् पाप्मनो निर्मुच्यते यन्माहेन्द्रं गृह्णाति ' ( श ० ४ | ३ | ३ | १६ ) । ते देवाः सर्वस्मिन् विजितेऽभयेऽनाष्ट्रे सति तमिन्द्रं मुखाद्यथेषीकां तद्गताग्रं विवृहेद् उद्धरेत्, एवं माहेन्द्रग्रहग्रहणेन सर्वस्मात् पाप्मनो व्यबृहन्, तस्मात्तथैव एष यजमानो मुञ्जादुद्धृतेषीकेव माहेन्द्रग्रहणेन सर्वस्मात् पापान्मुच्यते । ' यद्वेव माहेन्द्रं ग्रहं गृह्णाति । इन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्माहेन्द्रं ग्रहं गृह्णाति महान्तमु चैवैनमेतत्करोति वृत्रस्य वधाय तस्मादेव माहेन्द्रं ग्रहं गृह्णाति शुक्रपात्रेण गृह्णात्येष वै शुक्रो य एष तपत्येष उ एव महांस्तस्माच्छुक्रपात्रेण गृह्णाति ' ( श ० ४ | ३ | ३ | १७ ) | यजमानस्य महत्त्व हेतुत्वेन पुनरपि माहेन्द्रं ग्रहं प्रशंसति - महान्तं चैवैनमिति । लोके विजिग्यानो विजितवान् राजा यथा महाराजो भवति, एवमिन्द्र एव वृत्रं हत्वा महेन्द्रोऽभवत् । तस्मान्माहेन्द्रग्रहणेन वृत्रस्य पापरूपस्य वधार्थमेनं यजमानं महान्तं करोति । विहित-ग्रहणमनूद्य शुक्रपात्रं विधत्ते - शुक्रपात्रेण गृह्णातीति । शुक्रस्य सूर्यरूपस्य सर्वात्मकत्वेन महत्त्वात् तत्पात्रेण माहेन्द्रग्रहस्य ग्रहणं युक्तमित्यर्थः । मन्त्रार्थस्तूक्त एव । अध्यात्मपक्षे – इन्द्रः परमेश्वरो महान् प्रभावतस्तथापि भक्तैराहूतो नृवत् मनुष्यवत् प्रेम्णाकृष्ट इवा-गच्छति । आचर्षणिप्रा चर्षणीनां मनुष्याणां पूरयिता कामैः उत किञ्च द्विबर्हा द्वयोरिहलोकपरलोक्योः परिवृढः प्रभुः, अमिनः सहोभिः 1 सहोभिर्बलैः, अमिनोऽनुपमः । यद्वा सहोभी रावणादिशत्रुबलैः, अमिनोऽनुपहसितः । प्रक्रिया कात्यायन श्रौतसूत्र ( १० | ३ | ११ ) में निरूपित है । याज्ञिक विनियोग के अनुकूल अर्थ शतपथ ब्राह्मण में उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थं यह है - परमेश्वर महान् प्रभावशाली हैं, तथापि भक्तों के द्वारा आहूत होने पर मनुष्य के समान प्रेम से मानों आकृष्ट होकर आते हैं । मनुष्यों को अभिलषित पदार्थों से परिपूर्ण करने वाले लोक एवं परलोक
पृष्ठ 158
पाठ पढ़ें पाठ छिपाएँ
१०४ शुक्लयजुर्वेदसंहिता [ अ ० ७ अस्मद्रथक् अस्मद्दर्शनोत्सुकः सन् वावृधे वर्धते वीर्याय वीरकर्मणे, यथा गौः स्ववत्सदर्शनोत्सुका भवति, तथैव भगवाननुग्रहार्थं भक्तदर्शनोत्सुको भवति । भक्तरक्षणार्थमेव वीरकर्मणे रावणादिवधाय वावृधे वर्धते । सोऽस्माभिः क्रतुभिर्यजनार्चनादिकारकैः स्तूयमानः, उरुः प्रमाणतः पृथुच विस्तारेण सुकृतः शोभनं भक्तानां कल्याणं कृतं येन स तथाभूतो भूयात् । यद्वा कर्तृभिरर्चकैः सुकृतः साधुकृतः सत्कृतः पूजितोऽभूत्, भवत्वित्यर्थः । हे सोम, त्वमुपयामेन गृहीतोऽसि महेन्द्राय अनुत्तमैश्वर्यवते परमेश्वराय त्वां स्वीकरोमि । एष उपासनाप्रदेशस्ते योनिः स्थानम् । महेन्द्राय त्वा सादयामि । दयानन्दस्तु - ' हे भगवन् जगदीश्वर, यतस्त्वमुपयामगृहीतोऽसि योगाभ्यासेन स्वीकर्तुं योग्योऽसि, तस्माद् महेन्द्राय अनुत्तमैश्वर्याय त्वा वयमुपास्महे । उतापि यतस्तवैष योगो योनिः कल्याणकारणम्, यो महान् सर्वोत्कृष्टः पूज्यतमश्च नृवद् न्यायशीलैर्मनुष्यैस्तुल्यः, आचर्षणिप्रा आचर्षणीन् मनुष्यान् प्राति पूरयति सः, द्विबर्हा द्वे बर्हसी व्यावहारिकपारमार्थिक वृद्धिकरे विज्ञाने यस्य सः । अस्मद्रयक् अस्मानवति सर्वज्ञतया जानातीति । अमिन: अनुपमोऽतुलपराक्रमः, उरुबहुः ", पृथुविस्तीर्णः, कर्तृभिः सुकर्मकारिभिर्जीवैः सह सुकृत् शोभनं कृतं क्रियते येन सः इन्द्रोऽभूद् भवति । तमेवाश्रितः सर्वो जनः सहोभिः सह वीर्याय वावृधे ' इति, तद्यद्यपि भगवदाश्रयणं नानुचितम्, तथापि श्रुतिसूत्रविरुद्धत्वान्नायं मन्त्रार्थः । उपयामेति पदस्य योगाभ्यासोऽर्थो निर्मूल एव । महेन्द्रशब्दस्य महैश्वर्ययुक्तो देवोऽर्थो न महैश्वर्यम्, व्युत्पत्तिविरोधात् । वयमुपास्मह इत्यपि वेदाक्षर -बाह्यमेव । नृवदित्यत्र नृपदेन न्यायशीलमनुष्योऽर्थो ग्राह्य इत्यत्र न किञ्चिद् बीजम् । नृधातोर्नयार्थत्वेऽपि न्यायशीलो मनुष्य इति कथमर्थः? परमेश्वरस्य एकत्वात् तत्र बहुत्वं न युक्तम् । अमितस्य पृथुत्वमपि न युक्तम् । सर्वो जन इत्यपि निर्मूलोऽध्याहारः ॥ ३ ९ ॥ म॒हाँ २ ॥ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ २ ॥ इ॑व । स्तोमे॑र्व॒त्सस्य॑ वावृधे । उपयाम-गृहीतोऽसि महेन्द्राय॑ त्व॒ष ते॒ योनि॑ह॒न्द्राय॑ त्वा ॥ ४० ॥
दोनों के प्रभु, बलों के द्वारा अनुपम, अथवा रावण आदि शत्रु बलों से अनुपर्हिसित हम लोगों को देखने के लिये समुत्सुक होते हुए वे वीरतापूर्ण कार्यों के लिये परिवृद्ध होते हैं । जिस प्रकार गौ अपने बछड़े को देखने हेतु उत्कण्ठित होती है, उसी प्रकार भगवान् भी अनुग्रह के लिये भक्तों को देखने के इच्छुक होते हैं । भक्तों की रक्षा के लिये ही रावणवध आदि वीरतापूर्ण कार्यों के लिये अभिवृद्ध होते हैं । हमारे द्वारा यजन, अर्चन आदि कृत कर्मों से स्तुत होते हुए वे भक्तों के लिये गुरुतर तथा अतिविशाल कल्याणकर्ता हों । अथवा पूजकों के द्वारा अत्यधिक सम्मानित, पूजित हों । हे सोम, तुम नियमादि के द्वारा गृहीत हो । अनुत्तम ऐश्वयं से युक्त परमेश्वर के लिये तुमको स्वीकार करता हूँ । यह उपासना स्थल ही तुम्हारा स्थान है । परमेश्वर के लिये तुमको रखता हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में भगवदाश्रयण अनुचित नहीं है, तथापि श्रुति एव सूत्र वचनों से विरुद्ध होने के कारण यह मन्त्रार्थ नहीं है । उपयाम शब्द का ' योगाभ्यास ' अर्थं निर्मूल ही है । महेन्द्र शब्द का ' महैश्वर्ययुक्त देव ' यह अर्थ है, केवल महेश्वर्य नहीं है, क्योंकि इसमें व्युत्पत्ति से विरोध है । ' नृ ' पद से न्यायशील मनुष्य अर्थं लेना चाहिये, इसमें भी कोई प्रमाण नहीं है । ' नृ ' धातु के नयनार्थक होने पर भी ' न्यायशील मनुष्य ' यह अर्थ कैसे होगा? परमेश्वर के एक होने के कारण उसमें बहुत्व जोड़ना उचित नहीं है । ' सर्वो जनः ' यह अध्याहार करना भी अप्रामाणिक है ॥ ३ ९ ॥
पृष्ठ 159
पाठ पढ़ें पाठ छिपाएँ
म ० ४०-४१ ] वेदार्थपारिजात भाष्यसहिता १०५ माहेन्द्री गायत्री वत्सदृष्टा । माहेन्द्रग्रहग्रहण एव विकल्पेन विनियुक्ता । य इन्द्रो वत्सस्य वसनशीलस्य वत्स स्थानीयस्य वा यजमानस्य स्तोमैः स्तोत्रैर्वावृधे वर्धते । कीदृशः इन्द्रः? ओजसा बलेन तेजसा या महान् महत्वपेतः । क इव? वृष्टिमान् वृष्टियुक्तः पर्जन्य इव । यथा वर्षणशीलो मेघस्तापापनोदकत्वेनान्नादिप्रदत्वेन दारिद्र्यनाशकत्वेन वर्धते तथैव पाप - ताप - दारिद्रयादिनाशकत्वेनेन्द्र वर्धते । यद्वा महान् महाप्रभाव इन्द्र ओजसा बलेन यथा वृष्टिमान् पर्जन्यो धाराभिरसंख्याभिरपरिच्छिन्नसंख्यः, एवमोजसाऽसंख्यातमहाभाग्येना-परिच्छिन्नमहावैभवो वत्सस्य वात्सल्यास्पदस्य यजमानस्य स्तोमैः स्तूयमानो वर्धते । अध्यात्मपक्षे - इन्द्रः परमेश्वरो महान् स्वरूपतः, प्रभावतस्तु महाप्रभाव:, य ओजसा तेजसा वृष्टिमान् वर्षणशीलः पर्जन्य इव, स भगवान् वत्सस्य वात्सल्य प्रेमास्पदस्य भक्तस्य स्तोमः स्तोत्रः स्तूयमानो वावृधे वर्धते । सोम, त्वमुपागृहीतोऽसीति पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' अनादिसिद्धमहायोगिन् यतस्त्वं योगिभिरुपयामगृहीतोऽसि तस्मात् त्वां महेन्द्रायोपास्महे | यतस्तवैष योगो योनिरस्त्यतस्त्वां महेन्द्राय वयं ध्यायेम | महान् वृष्टिमान् पर्जन्य इव वत्सस्य स्तोमैरोजसेन्द्रः सुखवर्षको भवति । तं विदित्वा योगी वावृधे ' इति, तदपि यत्किचित् सम्बोधनस्य स्वाभ्युहितत्वात् । इन्द्रः सुखवर्ष क इत्यादिकं सर्वं पूर्ववदेव निर्मूलम् ॥ ४० ॥
उद् त्यं जा॒तवे॑दसं वे॒वं व॑ह॒न्ति कृ॒तवः॑ । द॒शे विश्वा॑य॒ सूर्य॒ स्वाहा॑ ॥ ४१ ॥
' इडां भक्षयित्वा शालाद्वार्ये दक्षिणाहोमो वासः प्रबद्ध ११ हिरण्य १ ९ हवन्यामवधाय चतुर्गृहीतमुदु यमिति ' ( का ० श्र ० १० २४ ) | सवनीयपुरोडाशेडां भक्षयित्वा शालाद्वार्ये दक्षिणासम्बद्धो होमः स्यात् । दक्षिणाप्रयोजको होमो दक्षिणाहोमः । तत्र वस्त्रेण प्रवर्षेण बद्धं हिरण्यं जुह्वां निधाय चतुर्गृहीतमाज्यमुदु त्यमिति शालाद्वार्ये प्रथमामाहुति जुहुयात् । सोरी गायत्री प्रस्कण्वदृष्टा । तृतीयपादः सप्तार्णः । उ निपातः पादपूरणः । मन्त्रार्थ - जो महाप्रभावशाली इन्द्र तेज से महान्, वर्षा वाले मेघ के समान, मन से की हुई स्तुतियों से वृद्धि को प्राप्त होता है, उसकी प्रीति के लिये हे ग्रह! तुम उपयाम पात्र में गृहीत हो, तुम्हे यहाँ स्थापित करता हूँ ॥ ४ ॥
भाष्यसार - ' महाँ इन्द्र: ' यह ऋचा भी माहेन्द्र ग्रह के ग्रहण में विकल्प से विनियुक्त की गई है । इसका याज्ञिक पूर्वप्रतिपादित ही है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - परमेश्वर स्वरूपतः तथा प्रभाव से महान् है, जो तेज से अभिवर्षण करने वाले पर्जन्य की भाँति है । भगवान् वात्सल्यप्रेमास्पद भक्त की स्तुतियों से अभिवृद्ध होते हैं । हे सोम, तुम नियमादि के द्वारा गृहीत हो, इत्यादि व्याख्या पूर्व की भांति ही है । स्वामी दयानन्द द्वारा वर्णित अर्थ में सम्बोधन पद स्वयं के द्वारा ही कल्पित होने के कारण अप्रामाणिक है । इन्द्र का अर्थ सुखवर्षक है, इत्यादि समस्त व्याख्यान भी पूर्व की भांति ही निर्मूल है ॥ ४० ॥
मन्त्रार्थ -- सब पदार्थों को प्रकाश फैलाने के लिये विचार के इस प्रसिद्ध सूर्यदेव के निमित्त दी गई यह हवि भली प्रकार गृहीत हो ॥ ४१ ॥
जानने वाले प्रकाशात्मक सूर्यदेव को उसकी प्रकाशात्मक किरणें समस्त विश्व में साथ निश्चित दिशाओं में सब तरफ वहन करती हैं । वे स्वर्ग में भी पहुँचती हैं । भाष्यसार - ' उदुत्यम् ' इस ऋचा का विनियोग दक्षिणाहोम नामक आज्याहुति प्रदान करने के लिये किया गया है । १४
पृष्ठ 160
पाठ पढ़ें पाठ छिपाएँ
१०६ शुक्लयजुर्वेदसंहिता [ अ ० ७ त्यमिति त्यच्छद छान्दसस्तच्छब्दार्थे इति महीधराचार्यः । केतवो मयूखाः, त्यं तं प्रसिद्ध सूर्य मुद्वहन्ति । कीदृशं सूर्यम्? जातवेदसम्, जातो वेद ऋग्वेदो ज्ञानं धनं वा यस्मात्तम्, ' ऋग्वेदोऽग्नेरजायत ' इति श्रुतेः । ' जातवेदाः कस्मात्? जातानि वेद, जातानि वैनं विदुः जाते जाते विद्यत इति वा जातवित्तो वा जातधनः, जातविद्यो जातप्रज्ञानः, यत्तज्जातः पशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वम् ' ( निरु ० ७ १ ९ ) इति यास्कोक्तः । देवो दानाद् द्योतनाद्वा । तं देवं दातारं द्युस्थानं वा उद्वन्ति ऊर्ध्वं नयन्ति । किमर्थम्? विश्वाय विश्वस्य षष्ठयर्थे चतुर्थी, दृशे दर्शनाय जगद् द्रष्टुं जगतः प्रकाशनाय जगत्कर्तृकदर्शनाय वा । ' दृशे विख्ये च ' ( पा ० सू ० ३ | ४ | ११ ) तुमर्थे निपातः । तस्मै स्वाहा सुहुतमस्तु । यद्वा केतवो रश्मयस्त्वां जातवेदसं तमग्निसदृशं सूर्यम्, उद्वहन्ति ऊर्ध्वसदृश एव नयन्ति । किमर्थम्? विश्वस्य कृत्स्नस्य जगतः सूर्यं दृशे द्रष्टुम् । आध्यात्मिकोऽर्थः अत्यन्तं प्रसिद्धं परमात्मानं केतवो भगवद्यशः ख्यापका आचार्या भक्त्या उद्वहन्ति हृदयेनोच्चैर्महत्या भक्त्या धारयन्ति । कीदृशं तम्? जातवेदसम्, जाता वेदा यस्मात्तम्, देवं दानादिगुणयुक्तम् । किमर्थम्? विश्वाय विश्वस्य दृशे दर्शनाय विश्वकर्तृकभगवद्दर्शनाय । यथा मेघानीतमेव जलं सर्वसुलभं भवति, तथा भक्ताचार्यप्रत्त एव भगवान् सर्वसुलभो भवति, तस्मै स्वाहा सुहुतमस्तु । दयानन्दस्तु – ' यथा किरणा विश्वाय सर्वार्थाय दृशे द्रष्टुं जातवेदसं त्यममुं सूर्यं य. स्त्रियते विज्ञायते विज्ञाप्यते वा तं देवमुद्वहन्ति एवं विदुषः केतवो ज्ञानानि स्वाहा वाणी अन्यान् मनुष्यान् परं ब्रह्म प्रापयन्ति ' इति, तदपि न किञ्चित् विदुष इत्याद्यध्याहारस्य निर्मूलत्वात् । कैश्वित्तु ' मयूखपदेन सूर्यगताकर्षण शक्तिरभि-धीयते, आकर्षणशक्तिभिरेव सूर्यस्य धार्यमाणत्वात् ' इति, तदपि तुच्छम् तादृशशक्तेरसिद्धत्वात्, केतुपदस्य रश्मिषु प्रसिद्धत्वाच्च ॥ ४१ ॥
चि॒त्रं दे॒वाना॒मुद॑गा॒वनी॑कं॒ चक्ष॑मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वो अ॒न्तरि॑क्ष॒॑ सूर्य आ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ । ४२ ॥ यह याज्ञिक प्रक्रिया कात्यायन श्रौतसूत्र ( १०/२/४ ) में प्रतिपादित है । याज्ञिक दृष्टि से मन्त्रार्थं महीधराचार्य आदि द्वारा किया गया है । आध्यात्मिक दृष्टि से मन्त्रार्थं इस प्रकार है उस सुप्रथित परमात्मा को भगवान् के यश का स्थापन करने वाले आचार्य एवं भक्तगण हृदय से उच्च महान् भक्ति के द्वारा धारण करते हैं । जिससे वेद प्रादुर्भूत हुए हैं, उस दानादि गुणों से युक्त भगवान् को सम्पूर्ण विश्व के द्वारा दर्शनार्थ धारण करते हैं । जिस प्रकार मेघों के द्वारा लाया गया जल ही सबके लिये ' सुलभ होता है, उसी प्रकार भक्तों, आचार्यों द्वारा निरूपित भगवान् ही सर्वसुलभ होते हैं । उस परमात्मा के लिये हम आत्मसमर्पण करते हैं । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ ' विदुषः ' इत्यादि अध्याहारों को निर्मूलता के कारण अग्राह्य है । कुछ लोग मयूस्त्र शब्द से सूर्य की आकर्षण शक्ति का ग्रहण करते हैं । यह भी अनुचित है, क्योंकि उस प्रकार को शक्ति सिद्ध नहीं है । केतु शब्द की प्रसिद्धि भी रश्मियों के अर्थ में ही है ॥ ४१ ॥
मन्त्रार्थ - यह कैसा आश्चर्य है कि देवताओं के जीवनाधार, ब्रह्मा, विष्णु और महेश रूपधारी परमेश्वर के नेत्रों के समान प्रकाशमान्, जंगम और स्थावर जगत् के अन्तर्यामी भगवान् सूर्य उदयाचल को प्राप्त हो रहे हैं,