वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 171–180
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
म ० ४७ ] darj पारिजातभाष्यसहिता ११७ अ॒ग्नये॑ वा॒ मह्यं वरु॑णो ददात सोऽमृतत्वम॑श॒याय॑व॒त्र ए॑धि॒ मयो मह्यं प्रतिग्रहीत्रे रु॒द्राय॑ त्वा॒ मह्यं वरु॑णो ददातु सोऽमृत॒त्वम॑शीय प्रा॒णो दा॒ात्र ए॑धि॒ वयो॒ मह्यं प्रतिग्रहीत्रे बृहस्पतये स्वा॒ मह्यं वरु॑णो ददातु सा॒ऽमृत॒त्वम॑शीय॒ त्वग्द॒त्र ए॑धि॒मयो॒ मह्यं प्रतिग्रहोत्रे य॒माय॑ त्वा॒ मह्यं वरु॑णो ददातु॒ स॒ऽमृत॒त्वम॑शीय॒ यो॑ दा॒ात्र ए॑धि॒ वयो मह्यं प्रतिग्रहीत्रे ॥ ४७ ॥
' अग्नये त्वेति हिरण्यं प्रतिगृह्णीत ' ( का ० श्री ० १०।२।२७ ) | यजमानेन दत्तं हिरण्यमनेन मह्यं मन्त्रेण वरुणो प्रतिगृह्णीयातामध्वर्युप्रतिप्रस्थातारौ । हिरण्यदैवतम् । हे हिरण्य, हिरण्यरूपं त्वामग्नये अग्निरूपाय यजमानाय आयुः ददातु दद्यात् । स प्रतिगृह्णन्नमृतत्वं विनाशराहित्यमश्यात् प्राप्नुयात् । दक्षिणायाः प्रदात्रे शतसंवत्सरपर्यन्तं दीर्घायुष्यमेधि भव । सुखमेधि भव । प्रतिग्रहीत्रे मह्यम् । मया वरुणेन पूर्वमग्न्यादिभ्यः कनकादिकं दत्तमतस्तद्रूपेण प्रतिगृह्णानो विप्रो न नश्यतीति देवतादेशः । अनेन विधिना गृह्णानः सोऽहममृतत्व-मारोग्यमशीय व्याप्नुयाम् । ' रुद्राय त्वेति गाम् ' ( का ० श्र ० १० १२ २८ ) । गां प्रतिगृह्णीत । हे गौस्त्वां एधि रुद्ररूपाय मह्यं वरुणो ददातु । सोऽहममृतत्वं प्राप्नुयाम् । हे गौस्त्वं दात्रे यजमानाय प्राणः प्राणरूपा सती मह्यं ग्रहीत्रे वयोऽन्नं पशुर्वा एधि भव । दुग्धदध्यादिरूपेणान्नं सन्ततिद्वारा पशुश्च । ' बृहस्पतये त्वेति वासः, ' ( का ० श्र ० १० २ २८ ) । वस्त्रं गृह्णीतः । वासोदैवत्यम् । हे वासः, बृहस्पतिरूपाय मह्यं वरुणस्त्वां ददातु सोऽहममृतत्वमशीय । त्वं च दात्रे त्वगेधि भव त्वगिन्द्रियसुखकारी भव । प्रतिग्रहीत्रे मह्यं मयः सुखं च भव । ' यमाय त्वेत्यश्वम् ' ( का ० श्र ० १० २ २८ ) । हयं गृह्णीत | अश्वदैवत्यम् । हे अश्व, यमरूपाय मह्यं वरुणस्त्वां ददातु । स यमरूपोऽहमश्वं गृह्णानोऽमृतत्वं व्याप्नुयाम् । हे अश्व, त्वं दात्रे हयोऽश्वो भव, मह्यं प्रतिग्रहीत्रे वयोऽन्नं तद्दाता पशुर्वा भव सन्ततिद्वारा । अध्यात्मपक्षे- ' सर्वं खल्विदं ब्रह्म ' इति रीत्या तज्जत्वात्तल्लत्वात्तदनत्वात् सर्वस्य ब्रह्मरूपत्वेन हिरण्य-मचेतनबुद्धया सम्बोध्याह - हे हिरण्य, वरुणोऽग्निरूपापन्नाय मह्यं त्वां ददातु । पूर्व वरुणेन कनकाद्यग्न्यादिभ्यो मन्त्रार्थ हे सुवर्ण! वरुण देवता अग्निरूप को प्राप्त हुए मेरे लिये तुम्हें प्रदान करें । इस प्रकार से गृहीत सुवर्ण से मैं स्वास्थ्यलाभ करूँ, हे सुवणं! तुम दाता की आयु में वृद्धि करो, प्रतिग्रह करने वाले मुझे भी सुख को प्राप्ति हो । हे गौ! वरुण देवता रुद्ररूप को प्राप्त हुए मेरे निमित्त तुम्हें प्रदान करें, मैं स्वास्थ्यलाभ करूं, तुम दाता के बल और प्राण की वृद्धि करो । मुझ प्रतिग्रहीता के अन्न और पशु की वृद्धि करो । हे वस्त्र! वरुण देवता बृहस्पति-मैं तुमको प्राप्त करके अमृतत्व की प्राप्ति करूं । तुम दाता को त्वगिन्द्रिय की शक्ति को करो । हे अध! वरुण देवता यमस्वरूप मेरे निमित्त तुम्हें देते हैं, मैं दाता के यहाँ घोड़ों की वृद्धि करो, प्रतिग्रहीता की पशु सम्पत्ति की भी स्वरूप मेरे निमित्त तुम्हें देता है । बढ़ाओ, प्रतिग्रहीता के सुख को वृद्धि तुमको प्राप्त कर आरोग्य को प्राप्त होऊं, वृद्धि करो ॥ ४७ ॥
भाष्यसार - ' अग्नये त्वा ' इस कण्डिका के मन्त्रों से याज्ञिक विधि के अन्तर्गत स्वर्ण, गौ, वस्त्र, अश्व आदि पदार्थों का ग्रहण किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १०।२।२७ - २८ ) में उल्लिखित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थसंगति इस प्रकार है - ' सर्वं खल्विदं ब्रह्म ' इस सिद्धान्त के अनुसार समस्त पदार्थों के ब्रह्मरूप
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
११८ शुक्लयजुर्वेद संहिता [ अ ० ७ दत्तमतस्तेन तेनात्मना गृह्णानो विप्रो न नश्यतीत्यनेन विधिना गृह्णानः सोऽहममृतत्वमारोग्यमशीय व्याप्नुयाम् । एवं गवि अन्नबुद्धिः, पशुबुद्धिः प्रतिग्रहीतरि रुद्रबुद्धिः, दातरि वरुणबुद्धिरप्यध्यात्मचिन्तैव । तथैव वस्त्रे त्वग्बुद्धिः " प्रतिग्रहीतरि बृहस्पतिबुद्धिः, अश्वे हयबुद्धिः प्रतिग्रहीतरि यमबुद्धि:, दातरि वरुणबुद्धिरप्यध्यात्म-चिन्तैव ॥ ४७ ॥
दात् कस्मा॑ अदात् कार्मोऽदात् कार्मायादात् । - काम दाता कार्मः प्रतिग्रहीता कामै॒तत् ते॑ ॥ ४८ ॥
सप्तमाध्यायः समाप्तः ॥ ' कोऽदादित्यन्यदिति ( का ० श्र ० १० २ २ ९ ) । अन्यन्मन्थौदनतिलादि गृह्णीत कोऽदादिति मन्त्रेण । कामदैवत्यम् । दातुर्दानाभिमानाभावाय स्वस्य च प्रतिग्रहादिजनितदोषाभावाय देहेन्द्रियात्मसंघाते कामं विविनक्ति । कोऽदाद् दत्तवान्? कस्मै अदाद दत्तवान्? इति प्रश्नद्वयस्योत्तरम् कामोऽदात्, कामायैवादात् । त्वत्कामाभिमानी देवो मत्कामाभिमानिनेऽदात् । तथा च काम एव दाता काम एव प्रतिग्रहीता । हे काम, एतद्रव्यं ते तव । तवैव दातृप्रग्रहीतृत्वात् त्वमेव केनचित्प्रयोजनेन ददासि केनचित्प्रयोजनेन प्रतिगृह्णासि । वयं तु तब सम्बन्धिना सता विद्यमानेन भोगजातेत दानप्रतिग्रहादिकं कुर्मः । अत्र ब्राह्मणम् ~~~ ' अथ यदन्यद् ददाति । कामेनैव तद्ददातीदं मेऽप्यमुत्रासदिति तत्प्रत्येति कोऽदात् कस्मा अदात् कामोऽदात् कामायादात् कामो दाता कामः प्रतिग्रहीता कामैतत्त इति तद्देवताया अतिदिशतीति ' ( ० ४ | ३ | ४ | ३२ ) । हिरण्यादिदानानन्तरं यत्किचिन्मन्थादिदानं विधत्ते - अथ यदन्यद्ददातीति । अथोक्त-दक्षिणादानानन्तरमन्यद् वस्तु यदि दद्यात् तदापि कामेनैव यथैवामुष्मिल्लोके स्वर्गेऽप्यस्त्विति दद्यात् । न पुनरिज्यायाः पूर्वोक्तदक्षिणा द्रव्यवदवश्यं दातव्यम् । इच्छ्या दत्तस्यायं प्रतिग्रहमन्त्रः कोऽदादिति । मन्त्रो व्याख्यात एव । प्रतिग्रहमन्त्रेषु तत्तद्देवतावाचकशब्दोच्चारणस्य प्रयोजनमुच्यते - तद्देवताया अतिदिशतीति । तत् तेन मन्त्रेषु देवतावाचकशब्दोच्चारणेन देवतायै देवतार्थमतिदिशति स्वकीयं प्रतिग्रहीतृत्वमारोपयति, देवतामेव प्रतिग्रहीत्री करोति । प्रतिग्रहीतुरात्मनः प्रतिग्रहीतृत्वे दोषं देवतारूपेण प्रतिग्रहीतृत्वे च गुणं तैत्तिरीय-श्रुतिराह - ' देवा वै वरुणमयाजयन् । स यस्यै यस्यै देवतायै दक्षिणामनयत् तामब्लीनात् । तेऽब्रुवन् व्यावृत्य होने के कारण स्वर्ण को अचेतन रीति से संबोधित किया गया है कि हे हिरण्य, अग्निरूप को प्राप्त हुए मेरे लिए वरुणदेव तुम्हें प्रदान करें । पुराकाल में वरुण ने अग्नि आदि को स्वर्ण आदि प्रदान किया था । अतः उन उनके रूप से पदार्थों को ग्रहण करने वाला विप्र क्षीण नहीं होता । इस प्रकार उपर्युक्त विधि से ग्रहण करने वाला मैं अमृतत्व, आरोग्य को प्राप्त करूँ । इसी भांति गो ही है । इसी प्रकार वस्त्र में में अन्नबुद्धि, पशुबुद्धि तथा ग्रहणकर्ता में रुद्रबुद्धि एवं दाता त्वचा की बुद्धि, प्रतिग्रहीता में बृहस्पति की बुद्धि, अश्त्र में की दृष्टि तथा दाता में वरुण की दृष्टि भी आध्यात्मिक ही है । ४७ ॥ में वरुणबुद्धि भी अध्यात्मचिन्ता घोड़े की बुद्धि, ग्रहीता में यम मन्त्रार्थ - किस महान आत्मा ने दान किया? किसके निमित्त दान किया? यज्ञकल की कामना के निर्मित यजमान ने दान किया, कामना ही देने वाली है, अभिलाषा ही प्रतिग्रह करने वाली है । हे अभिलाष! अभिलाषा करने योग्य यह समस्त वस्तु तुम्हारी ही है ॥ ४८ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( १०।२।२ ९ ) में उल्लिखित याज्ञिक विनियोग के अनुसार ' कोदात् ' इस मन्त्र
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
म ० ४८ ] वेदार्थपारिजातभाष्यसहिता ११ ९ प्रतिगृह्णाम, तथा नो दक्षिणा न ब्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान् दक्षिणा नाब्लीनात् । य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा ब्लीनाति ' ( तै ० सं ० २।२12 ) । तस्माद्देवतायै प्रतिग्रहीतृत्वे निर्दिष्टे स्वात्मनो न कश्चिद् दोषो भवतीत्यर्थः । तदाहु: " ( श ० ४ | ३ | ४ | ३३ ) । केचिदाहुः -न देवताया अतिदिशेत्, किन्तुं स्वयमेव प्रतिगृह्णीयात् । तेषामयमाशयः इदानीं यां देवतां हविर्दानात् समिन्धे दीपयति, सा दीप्यमाना सत्युत्तरोत्तरं श्रेयस्करी भवति । ' इदं वै यस्मिन्नग्नावभ्यादधति स दीप्यमान एव श्वः श्वः श्रेयान् भवति । श्वः श्वो ह वै श्रेयान् भवति य एवं विद्वान् प्रतिगृह्णाति तद्यथा समिद्धे जुहुयादेवमेतां जुहोति यमधीयते ददाति तस्मादधीयन्नातिदिशेत् ' ( श ० ४ | ३ | ४ | ३३ ) । अयमभिप्रायः --दाता यस्मै ददाति तस्मै देवतारूपायैव ददामीति ददाति । तथा च तस्य साद्गुण्यसम्भवादुत्तरोत्तरं श्रेय एव भवति । तस्माद्दातुः साद्गुण्यसम्पादनेन श्रेयोनिमित्तं देवताया अतिदिश्यन् न प्रतिगृह्णीयात् किन्तु स्वयमेव प्रतिगृह्णामीत्येवोच्चार्य गृह्णीयादित्यर्थः । अध्यात्मपक्षे - कोऽदात्, कस्मा अदाद् इति प्रश्नद्वयस्य कामोऽदात् कामः प्रतिग्रहीतेत्युनरम् । एतद् द्रव्यं ते तव, तवैव केनचिद्रूपेण दातृत्वात् केनचिद्रूपेण प्रतिग्रहीतृत्वाच्च । एतावता दातुर्दानाभिमानोऽपसार्यते, प्रतिग्रहीतुश्च प्रतिग्रहजनितदोषोऽपसार्यते, कामाभिमानिनो देवस्यैव दानप्रतिग्रह हेतुत्वात्, ' अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् । यद् यद्धि कुरुते जन्तुस्तत्तत् कामस्य चेष्टितम् ॥ ' ( २४ ) इति मनुक्तेश्च । जानाति, इच्छति अथ करोति । यथा ज्ञानजन्या भवेदिच्छा, तथैव कर्माण्यपि स्थूलानि सूक्ष्माणि चेच्छाजन्यान्येव, इच्छामन्तरा कस्याश्चिदपि चेष्टाया अभावात् । दयानन्दस्तु -'कः अदात् कर्मफलानि ददाति, कस्मै अदात्, एतयोः प्रश्नयोरुत्तरम् -- कामोऽदादिति । काम्यते यः स परमेश्वरः अदाद् ददाति कर्मफलम् । कामाय कामयमानाय जीवाय अदात् । कामः, यः काम्यते सर्वैर्योगिभिः स परमेश्वरो दाता सर्वपदार्थदायकः । कामो जीवः प्रतिग्रहीता । कामयतेऽसौ कामस्तत्सम्बुद्धी हे जीवात्मन्! एतदाज्ञापनं ते त्वदर्थमिति त्वं निश्चिनुहि ' इति, तदपि श्रुतिसूत्रादिविरुद्धमेव । कर्मफलानीत्यध्याहारोऽपि निर्मूल एव यज्ञप्रसङ्गे दक्षिणाया एव प्रसक्तत्वात् । कामः परमेश्वरो दाता इत्यत्र से अन्य पदार्थो का ग्रहण किया जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट हैं । अध्यात्मपक्ष में अर्थ योजना यह है -- किसने दिया? तथा किसके लिये दिया? इन दो प्रश्नों का समाधान कि काम ने दिया है तथा काम ही ग्रहण करने वाला है । यह द्रव्य तुम्हारा ही है, क्योंकि किसी रूप से देने तथा किसी रूप से ग्रहण करने वाले तुम ही! हो । इसके द्वारा प्रदान करने वाले का दानाभिमान निवृत्त किया जाता है तथा प्रतिग्रहीता के प्रतिग्रह से प्राप्त दोष का भी निराकरण किया जाता है । कामाभिमानी देव ही दान तथा प्रतिग्रह का कारण है । यही मनु द्वारा भी ' अकामस्य क्रिया ' आदि वचन में प्रतिपादित है । जिस प्रकार इच्छा ज्ञान से उत्पन्न होती है, उसी प्रकार स्थूल एवं सूक्ष्म कर्म भी इच्छा से उत्पन्न होते हैं । इच्छा के बिना किसी भी चेष्टा का अभाव ही रहता है । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ श्रुति तथा सूत्र के वचनों के विरुद्ध है । कर्मफलों का अध्याहार करना निर्मूल है, क्योंकि यज्ञ के प्रसंग में दक्षिणा का ही औचित्य है । ' काम परमेश्वर दाता है ' इसमें कर्मफल का ही प्रदान मानना होगा । तब कर्मफल अप्रतिग्रहयोग्य होने के कारण ' कामः प्रतिग्रहीता ' यह वचन संगत नहीं होगा । ईश्वर का
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
१२० शुक्लयजुर्वेदसंहिता [ अ ० ७ कर्मफलस्यैव दातृत्वं मन्तव्यम्, तदा कामः प्रतिग्रहीता इत्यसङ्गतं स्यात्, वर्मफलस्याप्रतिग्राह त्वात् । न चात्राज्ञापनमस्ति किञ्चित् वस्तुस्थितिमात्रस्य त्वद्रीत्योक्तत्वात् भावार्थे – ' अकामस्य क्रिया काचित् ' ( म ० स्मृ ० २1४ ) इत्युद्धरणस्य निष्प्रयोजनत्वापत्तेश्च । न चेश्वरस्य सर्वकर्मास्पदत्वं संभवति, तथात्वे तत्र संशयजिज्ञासाद्यनुपपत्तेः । नहि रागास्पदे ज्ञानप्राप्त्युपायादिकं विधीयते । तस्मात् काम्यते यः स परमेश्वर इति व्याख्यानमसंगतमेव । सर्वथापि कुशकाशावलम्बनमात्रमेव दयानन्दीयं व्याख्यानम् । सायणोव्वटमहीधरादिसम्मतं व्याख्यानं तु श्रुति- सूत्र - पद्धति - पारम्पर्यानुकूलमेवेति तत्र तत्र दर्शितमेव ॥ ४८ ॥
॥ इति वेदार्थपारिजातभाष्ये सप्तमोऽध्यायः ॥ सर्वकामास्पद होना भी संभव नहीं है । ऐसा होने पर उसमें संशय, जिज्ञासा आदि संगत नहीं होंगे । अतः ' काम्यते यः स परमेश्वरः ' यह व्याख्यान भो अयुक्त है । यह व्याख्यान सर्वथा सतही है । उव्वट, सायण, महीधर आदि आचार्यों से संमत व्याख्यान ही श्रुति, सूत्र, पद्धति तथा परम्परा के अनुकूल है, यह स्थान - स्थान पर प्रदर्शित कर दिया गया है ॥ ४८ ॥
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
अष्टमोऽध्यायः उपया॒मगृ॑होतोऽस्यादि॒त्येभ्य॑स्त्वा । विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्त र॑क्षस्व॒ मा त्वां भन् ॥ १ ॥
सप्तमे उपांशु ग्रहादिसनद्वयगता मन्त्रा दक्षिणादानान्ता आम्नाताः । अष्टमे तृतीयसवनगता आदित्यादिग्रहा उच्यन्ते । तत्र - ' प्रतिप्रस्थाता आदित्यपात्रेण द्रोणकलशादुपयामगृहीतोऽसीति गृहीत्वा द्विदेवत्याननुजुहोत्युत्तरार्धे ' ( का ० श्र ० ९ १ ९ | १२ ) । प्रतिप्रस्थाता आदित्यपात्रेण द्रोणकलशाद् उपयामगृहीतोऽसीत्येतावतैव मन्त्रेण देवतानिर्देश शून्येन सोमं गृहीत्वा द्विदेवत्य होमानन्तरमुत्तरभागे जुहुयात् । अध्वर्योर्द्विदेवत्य होममनु होमः प्रतिप्रस्थातुः । सोमदेवत्यम् । मन्त्रार्थस्तु - उपयामेन पात्रेण त्वं मया गृहीतोऽसि । ' शेष शेषमादित्यस्थाल्यामासिञ्चत्यादित्येभ्य-स्त्वेति ' ( का ० श्र ० ९ / २ / १७ ) | प्रतिप्रस्थाता द्विदेवत्याननु प्रतिहोममादित्यपात्रस्थं हुतशेषमादित्यस्थाल्या-मासिञ्चेत् । सर्वेषु द्विदेवत्येष्वनुहोतव्यम्, स्थाल्यां चावनेतव्यम् । सोमदेवत्यम् । हे सोम, आदित्येभ्योऽर्थाय त्वां सिवामीति शेषः । ' समासिच्य तेनापिदधाति विष्ण उरु गायेति ' ( का ० श्रौ ९ ९ | १८ ) । तृतीयवार -मादित्यस्थात्यामासिच्य तेनैवादित्यपात्रेणादित्यस्थालीमपिदध्यादिति सूत्रार्थः । विष्णुदैवतम् । हे विष्णो यज्ञपुरुष, हे उरुगाय, उरुभिर्बहुभिर्गीयते स्तूयत इति उरुगायस्तत्सम्बुद्धौ । एष सोमस्ते तवापितः, तं सोमं रक्षस्व गोपायस्व | आत्मनेपदमार्षम् । हे सोम, रक्षणे प्रवृत्तं त्वां मा दभन् मा दभ्नुयुः, मा हन्युः, रक्षांसीति शेषः । यद्वा हे विष्णो, उरुगाय उरुगमनाय वा एष ते तव सोमः समर्पितः तं रक्ष । शेषं पूर्ववत् । यद्वा हे विष्णो यज्ञ, ' यज्ञो वै विष्णु: ' ( ० ४ | ३ | ५ | ८ ) इति श्रुतेः । उरुगाय विस्तीर्णव्याप्ते! एष सोमस्ते तव सम्बन्धी, अतस्त्वं रक्षस्व गोपाय त्वां रक्षांसि मा दभन् मा हिंसिषुः ॥ १ ॥
मन्त्रार्थ - हे सोम! तुम उपयाम पात्र में गृहीत हो । हे सोम! आदित्यगणों की प्रीति के लिये तुमको प्रण करता हूँ । है बड़ी स्तुति को प्राप्त होने वाले यज्ञपुरुष! यह सोम तुम्हारे निमित्त है । इस सोम की रक्षा करो । रक्षा करने में असुरदल तुमको पीड़ा न पहुँचायें ॥ १ ॥
भाष्यसार -- सप्तम अध्याय में उपांशु ग्रह आदि के दो सवनों के अन्तर्गत विनियुक्त दक्षिणादान तक जा के रहे मन्त्र हैं । उपदिष्ट किये गये । अष्टम अध्याय में तृतीय सवन के अन्तर्गत आदित्य आदि ग्रहों के मन्त्र प्रतिपादित किये कात्यायन श्रौतसूत्र ( ९ / ९ । १२, १७, १८ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' उपयामगृहीतः ' इस कण्डिका के मन्त्रों में से आदित्य ग्रह का ग्रहण, हुतशेष का आदित्यस्थाली में आसिंचन आदि विधियाँ अनुष्ठित की जाती हैं । शतपथ ब्राह्मण याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । मन्त्रार्थ इस प्रकार है- हे सोम, तुम उपयाम पात्र के द्वारा ग्रहण किये गये हो । आदित्यों के लिये तुम्हारा । इस सोम की रक्षा करो । सिंचन करता हूँ । हे यज्ञपुरुष विष्णु, हे सबके द्वारा संस्तुत, यह सोम आपके लिये अर्पित है यह सोम तुमसे सम्बद्ध हे सोम, रक्षा में संयुक्त तुमको राक्षसगण हिंसित न करें । अथवा हे विष्णु, विशाल व्याप्तियुक्त यज्ञ! १६
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
१२२ शुक्लयजुर्वेदसंहिता [ अ ०८ क॒दा च॒न स्त॒रीर॑सि॒नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपोपेनु म॑घव॒न्भूय॒ इन्नु ते॒ दान॑न्दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ॥ २ ॥
' आदित्यग्रहं गृह्णाति स स्रवेभ्यः कदाचनेति ' ( वा ० श्र ० १० | ४ | ३ ) । हविर्धानेऽपिहितद्वार आदित्यपात्रमादाय ये पूर्वमादित्यस्थाल्यामासिक्ताः संस्रवास्तान् संस्रवांश्रादित्यस्थाल्या आदाय पूतभृत उपरि तेभ्यः संस्रवेभ्य आदित्यपात्रेणादित्यग्रहं गृह्णीयात् कदाचनेति मन्त्रेण । आदित्यदेवत्ये बृहत्य यजुरन्ते । तृतीयो द्वादशार्णस्त्रयोऽन्येऽष्टवर्णाः सा बृहती । तृतीयेऽध्याये बृहदुपस्थानगता ( ३।३४ ) इन्द्रदेवत्या सा । इह त्वादित्यदेवत्या यजुरन्ता चेति विशेषः । हे इन्द्र, परमैश्वर्यशालिन्नादित्य, त्वं कदाचन कदाचिदपि स्तरी हिंसको न भवसि किन्तु दाशुषे आहुतिं दत्तवते यजमानाय सश्चसि प्रीणयसे । यद्वा षष्ठ्यर्थे चतुर्थी । हविर्दत्तवतो यजमानस्य हविः सवसि सेवसे । यद्वा स्तरीराच्छादकः, स त्वं विस्तृतं वितत्य धनानामाच्छादको न वितरसि, किन्तु दाशुषे यजमानाय फलदानार्थं सवसि गच्छसि -- इति शतपथभाप्ये सायणाचार्यः । उप इन्नु यजमानस्यात्यन्तसमीप एव । यद्वा उपेति पादपूरणे, इन्नु क्षिप्रमेव हे मघवन्, धनसम्पन्न इन्द्र, भूय इन्नु पुनरेव च देवस्य तव दानम् दीयत इति दानम्, देयं हविः पृच्यते त्वया सम्बद्धयते । यजमानेन हविर्दीयत इत्यर्थः । हे ग्रह आदित्येभ्योऽर्थाय त्वां गृह्णामीति काण्वसंहितागतसायणभाष्यानुसारि व्याख्यानम् । अत्र शतपथब्राह्मणम् --- ' त्रयो वै देवाः । वसवो रुद्रा आदित्यास्तेषां विभक्तानि सवनानि वसूनामेव प्रातः सवन ७ रुद्राणां माध्यन्दिन १७ सवनमादित्यानां तृतीयसवनं तद्वा अमिश्रमेव वसूनां प्रातः सवनम मिश्र रुद्राणां माध्यन्दिन " सवनममिश्रमादित्यानां तृतीयं सवनम् ' ( श ० ४ | ३ | ५ | १ ) | दक्षिणादानानन्तरं मरुत्वतीय-माहेन्द्रोक्थ्यग्रहाणां यागे कृते माध्यन्दिनं सवनमनुष्ठीयते । तृतीयसवनस्योपक्रमे आदित्यग्रहयागः क्रियते । तमादित्यग्रहयागं विधातुमयं प्रस्तावः । प्रातः सवनं वसूनाम्, तच्च गायत्रीच्छन्दस्वम् । अष्टाक्षरा गायत्री वसवश्चाष्टौ । तेन संख्यासाम्याद्गायत्री सम्बन्धाद्गायत्रं प्रातः सवनम् । एवं त्रैष्टुभं जागतम् । उक्तप्रकारेणोत्तरयो-द्वितीयतृतीयसवनयोरपि सम्बन्धो ज्ञातव्यः । तद्वा अमिश्रं प्रातः सवनं केवलं गायत्रमतश्छन्दोऽन्तरसम्बन्ध-राहित्यादमिश्रम् | माध्यन्दिनं सवनं केवलमिन्द्रदेवत्यमिति श्रूयते - ' प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते ' ( ऋ ० ४।३५।७ ) । तृतीयसवनं तु छन्दोऽन्तर संगतत्वान्नानादैवत्यत्वाच्च मिश्रमिति । ' ते हादित्या ऊचुः । ' ' ' ' इतरस्मिन् सवने स्मो नेवेतरस्मिन् यद्वै नो रक्षा ७ सि न हि स्युरिति ' ( श ० ४ | ३ | ५ | ३ ), ते ह द्विदेवत्यानूचुः । रक्षोभ्यो बिभीमो हन्त युष्मान् प्रविशामेति ' ( श ० ४ | ३ | ५ | ४ ), ' तेह द्विदेवत्या ऊचुः । किमस्माकं ततः स्यादित्यस्माभिरनुवषट्कृता भविष्यथेत्यु हादित्या ऊचुस्तथेति ते द्विदेवत्यान् प्राविशन् ' ( श ० ४ | ३ | ५ | ५ ), ' स यत्र प्रातः सवने । द्विदेवत्यैः प्रचरति तत्प्रतिप्रस्थातादित्यपात्रेण द्रोणकलशात्
है, अत: तुम इसकी रक्षा करो । तुमको राक्षस हिंसित न करें ।
अध्यात्मपक्षीय मन्त्रार्थं अग्रिम मन्त्र के साथ संयुक्त है ॥ १ ॥
मन्त्रार्थ - हे इन्द्रदेव! तुम कभी भी हिंसक नहीं हो के अत्यन्त समीप जाकर सेवन करते हो । हे मघवन् इन्द्र! सकते और हवि देने वाले यजमान की हवि को यजमान यजमान के द्वारा देवताओं को दिया गया हविरूप बाम भी आपसे ही सम्बद्ध होता है । हे ग्रह आदित्य देवता की प्रीति के लिये मैं तुम्हारा करता हूँ ॥ २ ॥
भाष्यसार -- ' कदाचन ' इस कण्डिका से आदित्य ग्रह का ग्रहण किया जाता है । यह याज्ञिक विनियोग कात्यायन
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
म ० २ ] वेदार्थपारिजातभाष्यसहिता १२३ प्रतिनिगृह्णीत उपयामगृहीतोऽसीत्येतावताध्वर्युरेवाश्रावयत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता आदित्येभ्यस्त्वेति सत्रवमवनयत्येतावतैवमेव सर्वेषु ' ( श ० ४ | ३ | ५/६ ) | आदित्यग्रहोपयोगिनीमाख्यायिकामाह - ते हादिया इति । येनोपायेन रक्षांसि न हिंस्युरिति विचार्य ते द्विदेवत्यानूचुः ( ४ | ३ | ५ । ३-५ )! अस्माभिरनुवषट्कृता भविष्यथेति प्रतिश्रुत्य ते द्विदेवत्यान् प्राविशन् । आख्यायिकायाः फलितार्थं प्रतिश्रुतं द्विदेवत्यानामनुवषट्कारं दर्शयितुं द्विदेवत्ययागकाले तदुपयुक्तं प्रयोगमाह- - स यत्रेति । सोऽध्वर्युर्यत्र प्रातः सवने यदा द्विदेवत्यैः प्रचरति, तदा प्रतिप्रस्थाता आदित्यपात्रेण द्रोणकलशात् प्रतिनिगृह्णीते द्विदेवत्यग्रहस्य द्वितीयत्वेन गृह्णीते । तत्र ' उपयामगृहीतोऽसि ' इत्येतावान् मन्त्रः । अध्वर्युरेवाश्रावयेत् न पुनः प्रतिप्रस्थाता | अध्वर्युणा कृतं होममनुलक्ष्य जुहोति प्रतिप्रस्थाता आदित्येभ्यस्त्वेति संश्रवमवनयति, आदित्यस्थाल्यामासिञ्चति, सर्वेषु ऐन्द्रवायव- मैत्रावरुणाश्विनेष्वेवमेव प्रतिनिग्रहणादिकं कुर्यादित्यर्थः । ‘ तद्यत्प्रतिप्रस्थाता प्रतिनिगृह्णीते । द्विदेवत्यान् वै प्राविशन्नस्माभिरनुवषट्कृता भविष्यथेत्यु हादित्या ऊचुर्यां वा अमुं द्वितीयामाहुति जुहोति स्विष्टकृते वै तां जुहोति स्विष्टकृतो वा एतेऽनुवषट्क्रियन्ते तथो हास्यै-तेऽनुवषट्कृता इष्टस्विकृतो भवन्त्युत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य दिक् तस्मादुत्तरार्धे जुहोति ' ( श ० ४ | ३ | ५ | ७ ) । प्रतिप्रस्थातृकृतया द्वितीयाहुत्या द्विदेवत्थानामनुवषट्कार सिद्धिमाह - यां वा अभूमिति । यां वा अमूं द्वितीयामाहुति जुहोति स्विष्टकृदर्थं हि तां जुहोति । यत एते सर्वेऽपि ग्रहाः स्विष्टकृतोऽर्थेऽनुवषट्-क्रियन्ते । सोमस्याग्रे ' वीही वौषट् ' इत्यनेन क्रियमाणो होमोऽनुवपट्कारः । तथो ह तथैवेतरग्रवदस्य यज्ञस्य सम्बन्धिन एते हि द्विदेवत्या अपि प्रतिप्रस्थातृकृतयाऽऽहुत्या अनुवषट्कृता भवन्ति । उक्तहोमस्य उत्तराधं देशं विधत्ते - एषा ह्येतस्येति । एषा हि एतस्य देवस्य स्विष्टकृतोऽग्नेः सम्बन्धिनी दिक् । रुद्रस्य तुत्तरा दिगिति श्रुतिषु प्रसिद्धेः । ' एषा वै रुद्रस्य दिक् ' ( तै ० सं ० ५ | ४ | ३ ) इति हि सा श्रुतिः । ' यद्वेव प्रतिप्रस्थाता प्रतिनिगृह्णीते । द्विदेवत्यान् वै प्राविशन्त्स यानेव प्राविशंस्तेभ्य एवैतन्निमिमीतेऽथापि -दधाति रक्षोभ्यो भियुर्विष्ण उरु गायैष ते सोमस्त रक्षस्व मा त्वा दभन्निति यज्ञो वै विष्णुस्तद्यज्ञायैवैतत् परिददाति गुप्त्या अथाह स स्थित एव माध्यन्दिने सवने पुरा तृतीयसवनादेहि यजमानेति ' ( श ० ४।३।५।८ ) । विहितं प्रतिनिग्रहणं द्विदेवत्यसंसृष्टादित्योत्पादकत्वेन च प्रशंसति - यद्वेवेति । द्विदेवत्यग्रहयागानन्तरमादित्य-पात्रेणादित्यस्थाल्याच्छादनं समन्त्रकं विधत्ते - अथापिदधातीति । पिधानस्य प्रयोजनमाह - यज्ञो वै विष्णु-रित्यादिना । मन्त्रोच्चारणस्य प्रयोजनमुच्यते - द्विदेवत्येति । द्विदेवत्यग्रहशेषैरादित्यग्रहो गृह्यते । अतः ' ते हादित्या. ' ' इत्यादिनोक्तस्यैवार्थस्य ' अथापिदधाति यज्ञायैवैतत्परिददाति गुप्त्यै ' इत्यन्तेन ब्राह्मणेन तच्छेष-प्राप्तिप्रचारः प्रदर्शितः । अथाह - संस्थित एव माध्यन्दिन इत्यादि । ' ते सम्प्रपद्यन्ते । अध्वर्युश्च यजमानश्चाग्नीश्व प्रतिप्रस्थाता चोन्नेताऽथ योऽन्यः परिचरो भवत्युभे द्वारे अपिदधाति रक्षोभ्यो ह्यबिभयुरध्वर्युरादित्यस्थालीं चादित्यपात्रं चादत्ते स उपर्युपरिपूतभृतं विगृह्णाति नेवश्चोतदिति ' ( श ० ४ | ३ | ५ | ९ ) । विहिते काले ग्रहस्य ग्रहणात् प्राक्कर्तव्यमनुष्ठानविशेषं विधत्ते - ते सम्प्रपद्यन्त इति । अध्वय्र्वादयः, यश्चान्यो जनः परिचरवर्ती भवति, परिचरशब्देनात्र पत्नी विवक्षिता, सा हि हविर्धानं प्रपद्यते, ' हविर्धानं प्रविशन्ति अध्वर्युयजमानप्रतिप्रस्थात्रग्नीदुन्नेतारः, पत्नी चापरेणेति ' श्रौतसूत्र ( १० | ४ | ३ ) में प्रतिपादित है । शतपथ तथा तैत्तिरीय श्रुतियों में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
१२४ शुक्लयजुर्वेदसंहिता [ अ ० ८ ( का ० श्री ० १०।४।१-२ ) इति कात्यायनसूत्राभ्याम् । पूतभृतमुपर्युपरि पूतभृतः समीप उपरि प्रदेशे, तच्च नैव सोमबिन्दुर्भूमौ क्षरत्वित्यभिप्रायेण गृह्णीयादित्यर्थः । अन्यत् स्पष्टमेव । ' अथ गृह्णाति । कदाचन स्तरी ' ' ' ' आदित्ये-भ्यस्त्वेति ' ( श ० ४।३।५ १० ) | मन्त्रार्थस्तुक्त एव । तं वै नोपयामेन गृह्णीयात् । अग्रे ह्येवैषोपयामेन गृहीतो भवत्यजामितायै जामि ह कुर्याद्यदेनमत्राप्युपयामेन गृह्णीयात् ' ( श ० ४ | ३ | ५ | ११ ) | द्विदेवत्यानां यागकाले प्रति-प्रस्थाता उपयामगृहीतोऽसि गृहीतः खलु । तस्मात्तस्यैतन्मन्त्रशेषत्वादत्र तन्न प्रयोक्तव्यम् । स्पष्टमन्यत् । अध्यात्मपक्षे -- - हे विष्णो, व्यापिन् परमेश्वर! हे उरुगाय उरुभिर्बहुभिर्भक्तैः स्तोत्रशस्त्रैर्वाजे गीयमान, त्वमुपयामेन यमनियमादिसमीपस्थेन प्रेम्णा गृहीतोऽसि । आदित्येभ्यः संवत्सरेभ्यः, अनन्तकालाय त्वामहमाश्रये । एषोऽहं ते तव सोमोऽन्नं भोग्योपकरणभूतं त्वत्सेवार्थं त्वयि समर्पितस्तं रक्षस्व गोपाय । कामक्रोधादिभ्यस्त्वत्प्राप्ति-प्रतिबन्धकेभ्यः पालय । तव तु सर्वेश्वरत्वाद् वशीकृतमायत्वात् त्वां ते मा दभन् मा हिंस्युः । कदाचनेति । हे इन्द्र, परमैश्वर्यशालिन्, त्वं कदाचन कदापिदपि स्तरीर्घातको नासि न भवसि किन्तु दाषुशे स्वात्मसमर्पयित्रे भक्ताय सवसि प्रीणय से प्राप्नोषि वा । न त्वं दूरे भवसि विन्तु उपोपेन्नु भक्तानामत्यन्तसमीप एव भवसि वा । हे मघवन्, प्रशस्त षडैश्वर्यरूपधनवन् भूय एव पुनरेव देवस्य जगदुत्पत्तिस्थितिलयलीलस्य ते तव दानं देयं अभीष्टं पृच्यते भक्तैः सम्बध्यते, भक्तेभ्यस्त्वया स्वात्मापि दीयते । हे इन्द्र! आदित्येभ्योऽनन्तसंवत्सरेभ्यस्त्वा-मम । दयानन्देन त्विमौ मन्त्रौ विवाहपरत्वेन व्याख्याती । तथाहि - ' हे कुमार ब्रह्मचारिन्! सेवितचतुर्विंशति-वर्षब्रह्मचर्या ब्रह्मचारिण्यहमादित्येभ्यः कृताष्टचत्वारिंशद्वर्ष ब्रह्मचर्येभ्यः पुम्भ्यस्त्वामङ्गीकरोमि त्वमुपयाम-गृहीतोऽसि । हे विष्णो, सर्वशुभविद्यागुणकर्मस्वभावव्याप्त! उरुगाय, उरूणि बहूनि शास्त्राणि गायति पठतीति तत्सम्बुद्धौ एष गृहाश्रमः, ते तव सोमो मृदुगुणवर्धकः, तं रक्षस्व । मा त्वां कामबाणा दभत् मा हिसन्तु ' इति, तदपि निर्मूलमेव, कुमारादिसम्बोध्यसम्बोधकविवक्षायां मानाभावात् । सेवितचतुर्विंशतिवर्षब्रह्मचर्याहमित्यपि निर्मूलः, कल्पनामात्रम्, निर्मूलत्वात् मनूक्तविवाहवयोनिर्देशविरोधाच्च । सोमशब्दस्य मृदूगुणवर्धकोऽर्थोऽपि अध्यात्मपक्ष में प्रथम मन्त्र की अर्धसंगति इस प्रकार है - हे व्यापक परमेश्वर, हे अनेक भक्तों अथवा स्तोत्र आदि के द्वारा उपवणित! आप यम - नियम आदि के सहकृत प्रेम के द्वारा गृहीत हैं । अनेक संवत्सरों, अनन्त काल के लिये मैं आपका आश्रय ग्रहण करता हूँ । मैं आपका यह भोग्य उपकरणरूपी आपकी सेवा के लिये आपके प्रति समर्पित हूँ । इसकी रक्षा कीजिये । काम, क्रोध आदि आपकी प्राप्ति में प्रतिबन्धक तत्त्वों से सुरक्षा कीजिये । आप तो सर्वेश्वर हैं, माया को वश में करने वाले हैं, अतः वे आपको अभिभूत नहीं करेंगे । द्वितीय मन्त्र का आध्यात्मिक अर्थ इस प्रकार है - हे परमैश्वर्यशाली! आप कभी भी हानिकारक नहीं होते, अपितु स्वात्मसमर्पण करने वाले भक्त के लिये पूर्णता करते हैं, भथवा प्राप्त होते हैं । आप दूर नहीं होते, अपितु भक्तों के अत्यन्त समीप ही रहते हैं । हे प्रशस्त छः ऐश्वर्यादि रूपी धनों से युक्त, पुनः जगत् की सृष्टि, स्थिति तथा संहृति की लीला करने वाले आपका देय अथवा इच्छित भक्तों से सम्बन्ध होता है । भक्तों के लिये आप स्वात्मा को भी प्रदान करते हैं । हे परमेश्वर, अनन्त वर्षों के लिये मैं आपका आश्रय लेता हूँ । स्वामी दयानन्द द्वारा ये दोनों मन्त्र विवाहपरक दृष्टि से व्याख्यात हैं । परन्तु वह भी निर्मूल ही है, क्योंकि कुमार आदि के सम्बोध्य तथा सम्बोधनकर्ता की कल्पना में कोई प्रमाण नहीं है । ' चौबीस वर्षों तक ब्रह्मचर्य का सेवन करने वाली मैं ' इत्यादि व्याख्या अप्रामाणिक तथा मनु द्वारा निर्दिष्ट विवाह की अवस्था से विरुद्ध होने के कारण केवल कल्पना
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
म ० २-३ ] वेदार्थ पारिजातभाष्यसहिता १२५ तस्य तत्राशक्तत्वात् । दर्भान्नित्यस्य कर्तृत्वेन कामबाणानामध्याहारोऽपि निर्मूल एव, शतपथे रक्षसां प्रसङ्गस्योक्त-त्वात् | कदाचनेत्यत्र तु हे इन्द्र परमैश्वर्ययुक्त पते, यतस्त्वं कदाचन स्तरीर्नासि स्वग्रीवाच्छादकः विदुषो यद्दानं संकुचितो तदेव न भवसि तस्माद् दाशुषे इन्तूपोप सवसि दानशीलस्य समीपं प्राप्नोषि । हे मघवन्, देवस्य इन्नु भूयः पृच्यते सम्बध्यते मह्यं प्राप्यतां प्रतिमासेभ्यः प्रतिमासम् । अतोऽहं स्त्रीत्वेनादित्येभ्यः सदा सुखप्रापकं त्वामाश्रये ' इत्यपि काल्पनिकमेव व्याख्यानम्, अन्यथापि क्लिष्टकल्पनया व्याख्यातुं शक्यत्वात् श्रुतिसूत्रादि-विरोधाच्च । स्तरीरित्यस्याच्छादकार्थकत्वेऽपि स्वग्रीवाच्छादकः संकुचितो न भवसीत्यर्थस्य निर्मूलत्वात् । न च साधारणे मनुष्ये पत्यौ इन्द्रपदप्रयोगः सम्भवति, तत्र परमैश्वर्यायोगात् ॥ २ ॥
क॒दा च॒न प्रय॑च्छस्य॒भे निपा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्थाव॒मृते॑ दि॒व्या-दि॒त्येभ्य॑स्त्वा ॥ ३ ॥
' अपगृह्य पुनः कदाचनेति ' ( का ० श्र ० १० | ४ | ४ ) | धारातो विच्छिद्य पूतभृतः सकाशादात्मसमीपं कदाचन नीत्वा पुनस्तथैवादित्यग्रहं गृह्णीयात् । नात्रोपयाम इति पूर्वं शतपथवचनेनोक्तमेव । हे आदित्य, त्वं प्राणिनो-कस्मिन् काले वा प्रयुच्छसि प्रमाद्यसि, अर्थात् कदाचिदपि न प्रमाद्यसीति वाकुः । उदय - ताप- पाक- प्रकाशैः ऽनुगृह्णन् कदाचिदप्यालस्यं न करोषि । तुरीय, तुरीयं चतुर्थं मायातीतं शुद्धम् आदित्यसवनम् सुवति स्वकार्ये जगत्प्रेरयतीति सवनम्, ते त्वदीयं जगत्प्रवर्तकममृतमविनश्वरं विज्ञानानन्दस्वभावं यदिन्द्रियं वीर्यम्, तद्दिवि द्युलोके सूर्यमण्डलान्तरे आतस्थौ आभिमुख्येन स्थितम् ' पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ' ( ३१।३ ) इति मन्त्रवर्णात् । अथवा ' कदा, च, न ' इति पदत्रयम् । चकारोऽप्यर्थः । कदापि न प्रयुच्छसि न प्रमाद्यसि स्वकर्मणि । किञ्च, वर्तमानं भावि चेत्युभे जन्मनी देवमनुष्यजन्मनी वा निपासि नितरां पालयसि । एवमत्र परापररूपेणादित्यः स्तुतः । तुरीयेत्यविभक्तिको निर्देशः । काण्वसंहितासायणभाष्यरीत्या तु तृतीयमित्यर्थे व्यत्ययेन तुरीयशब्दः प्रयुक्तः । तथा च हे आदित्य, ते तव यत् तृतीयं सवनं तस्मिन् दिवि द्युलोकसमाने वितते इन्द्रियमिन्द्रियवृद्धिकरणममृतं सुधासमं हविर् आतस्थौ समन्तात् स्थितम् । हे आदित्यग्रह, आदित्येभ्योऽर्थाय त्वां गृह्णामीति शेषः । अत्र शतपथब्राह्मणम्-| सोम शब्द का अर्थ ' मृदुगुणवर्धक ' करना भी निर्मूल है, क्योंकि इस अर्थ में पद की शक्ति नहीं हैं । ' दभन् ' इस क्रिया के कर्ता के रूप में कामबाणों का अध्याहार करना भी अप्रामाणिक है, क्योंकि शतपथ श्रुति में राक्षसों का प्रसंग । ' कदाचन ' इत्यादि मन्त्र का व्याख्यान भी काल्पनिक है । क्लिष्ट कल्पना से तो अन्य प्रकार से भी व्याख्या हो ग्रीवा सकती है | यहाँ श्रुति, सूत्र आदि से विरोध भी है । ' स्तरी: ' शब्द आच्छादकार्थंक होने पर भी उसका ' अपनी प्रयोग को आच्छादित करने वाले संकुचित नहीं होते हो ' यह अर्थ निर्मूल है । साधारण मनुष्य स्वामी में इन्द्र शब्द का सम्भव नहीं है, क्योंकि वह परमैश्वर्यं युक्त नहीं होता ॥ २ ॥
मन्त्रार्थ -- हे आदित्य! तुम कभी भी प्रमाद नहीं करते, देव और मनुष्यों की तुम रक्षा करते हो । तुम्हारा चौथा भाग माया से परे है । अविनश्वर शुद्ध जगत्प्रवर्तक विज्ञानानन्द स्वभाव जो इन्द्रियरूप पराक्रम है, वह द्युलोक में मण्डलान्तर में प्रमुखता से स्थित है । हे ग्रह! आदित्य देवों की प्रीति के लिये तुम्हारा ग्रहण करता हूँ ॥ ३ ॥
भाष्यसार - ' कदाचन प्रयुच्छसि ' इस मन्त्र का विनियोग भी आदित्य ग्रह के ग्रहण में किया गया है । कात्यायन
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
१२६ शुक्लयजुर्वेद संहिता [ अ ० ८ ' अथापगृह्य पुनरानयति | कदाचन प्रयुच्छ्स्युभे निपासि त्वेति ' । तत्रत्यसायणभाष्यरीत्या तु - हे ग्रह, कदाचन कदाचिदपि । चनशब्दोऽप्यर्थः । प्रयुच्छसि न प्रमाद्यसि । प्रणब्दो धात्वर्थनिवृत्तिपरः । यागनिष्पादनरूपं स्वकार्यं प्रति न कदाचिदपि प्रमादं गच्छसि । तदेवावधानं दर्शयितुमाह - उभे निपासि जन्मनी, यजमानस्य वर्तमानभविष्यल्लक्षणे उभे जन्मनी नियमेन पासि पुरुषार्थसम्पन्ने कुरु । अधुना आदित्यमेव चतुर्थसवनत्वेन रूपयन्नामन्त्रयते – हे आदित्यग्रह, तुरीय चतुर्थसवनात्मक! स एकोऽप्येतर्हि तथैव ग्रहो हूयते । संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनात् पूर्वकालस्य विहितत्वादादित्यग्रहस्य चतुर्थसवनात्मव त्वम् । ते तव सम्बन्धि चतुर्थसवनमिन्द्रियमिन्द्रस्य आदित्यस्य प्रीतिकरम् । दिवि द्युलोके अमृतम् नास्मिन् मृतमस्तीत्यमृतम् अमरण-हेतु, आतस्थौ आस्थितम् । हे सोम, त्वामादित्येभ्यो गृह्णामि । अध्यात्मपक्षे तु – हे इन्द्र, अवस्थात्रयदीपन, ' ञिइन्धी दीप्तौ ' जीवात्मन् त्वं कदाचिन्न प्रयुच्छसि न प्रमाद्यसि प्रमादं न कुरु । उगे ऐहिकमामुष्मिकं च जन्मनी पाहि रक्ष सफलय । स्वधर्मानुष्ठानपूर्वक भगवदाराधनेन हे आदित्य, आदित्यवत् सर्वक्षेत्रभासक क्षेत्रज्ञ, ' यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत || ' ( भ ० गी ० १३ | ३३ ) इति गीतोक्त: । ते तुरीयं चतुर्थं विश्व - तैजस - प्राज्ञापेक्षया विराड्ढरण्यगर्भाव्याकृतापेक्षया वा तुरीयं चतुर्थसंख्यापूरकं प्रपञ्चातीतं निर्विशेषविज्ञानानन्दस्वभावं सवनं निर्विकारतया सत्तामात्रेण सर्वप्रवर्तकम्, यथा सवितुः सत्तामात्रेण लोको व्यवहरति, पद्मानि विकासमुपयान्ति । सवादुत्थापयति स्वापयति वा न वा कमलिनीकुलं विकासयति मुकुलयति वा तत्सत्त्वासत्त्वाभ्यां तु सर्वं स्वयमेव सम्पद्यत इति तद्वत् । तच्च इन्द्रियमिन्द्रस्यावस्थात्रयभासकस्य क्षेत्रज्ञस्य हितकरम्, तत्प्राप्त्यैव तत्कृतार्थताश्रवणात् । तच्च तुरीयममृतं जन्ममरणादिभयवर्जितं दिवि द्युलोके, आतस्थौ आसमन्तात् स्थितम्, दिवि द्योतनात्मके स्वस्वरूपे वा आस्थितम्, ' त्रिपादस्यामृतं दिवि ' ( वा ० सं ० ३१ ३ ) इति मन्त्रवर्णात् । हे तुरीय, आदित्येभ्यः क्षेत्रज्ञेभ्यो हिताय त्वामाश्रयामः । यद्वा आदित्येभ्योऽनन्तकालेभ्यः, सर्वदेत्यर्थः, त्वामाश्रयामः । दयानन्दस्तु --- नेत्यध्याहृत्य - - ' हे पते, त्वं यदि कदाचन न प्रयुच्छसि तहि स्वकीये उभे जन्मनी श्रौतसूत्र ( १०।४।४ ) में यह याज्ञिक प्रक्रिया वर्णित है । शतपथ ब्राह्मण के अनुसार सायणाचार्य ने याज्ञिक विनियोग के अनुकूल व्याख्यान किया है । अध्यात्मपक्ष में मन्त्रार्थ यह है-- तीन अवस्थाओं में प्रकाशित होने वाले हे जीवात्मा! तुम कभी भी प्रमाद मत करो । ऐहिक तथा आमुष्मिक दोनों जन्मों को स्वघमं के अनुष्ठानपूर्वक भगवदाराधन के द्वारा सुरक्षित, सफल बनाओ । आदित्य की भाँति सर्वक्षेत्रभासक हे क्षेत्रज्ञ! विश्व, तेजस तथा प्राज्ञ की अपेक्षा अथवा विराट् हिरण्यगर्भं तथा अव्याकृत की अपेक्षा तुम्हारा जो चतुर्थ संख्यात्मक, प्रपञ्चातीत, निर्विशेप विज्ञानानन्द स्वभाव निर्विकारिता के कारण सत्तामात्र से सबका उसी प्रकार प्रवर्तक है, जैसे कि सूर्य की केवल सत्ता से समस्त लोक व्यवहार करता है, कमल विकसित होते हैं । सूर्य किसी को जगाता अथवा सुलाता नहीं है, या कमलिनीसमूह को विकसित अथवा संकुचित नहीं करता, परन्तु उसके दर्शन तथा अदर्शन मात्र से स्वयमेव यह सब क्रियाएँ सम्पन्न हो जाती हैं । उसी प्रकार ईश्वर भी इन्द्रियों की तीन अवस्थाओं को प्रतिभासित करने वाले क्षेत्रज्ञ का हितकर है, क्योंकि उसकी प्राप्ति से ही कृतार्थता श्रुत है । वह तुरीय रूप जन्म, मरण आदि भयों से रहित द्युलोक में स्थित है, अथवा द्योतनात्मक स्वरूप में अवस्थित है । हे तुरीय, क्षेत्रज्ञों के हित के लिये हम तुम्हारा आश्रय ग्रहण करते हैं । अथवा अनन्त काल के लिये, अर्थात् सदा सर्वदा तुम्हारा आश्रय लेते हैं । स्वामी दयानन्द द्वारा वर्णित अर्थ में ' न ' का अध्याहार करके पति को सम्बोधनीय तथा पत्नी को सम्बोधक कहा