वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 181–190
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
भ ० ३-४ ] वेदार्थपारिजातभाष्यसहिता १२७ प्रवर्तमानं प्राप्स्यमानं च निपासि नितरां रक्षसि । हे आदित्य, विद्यया सूर्य इव प्रकाशमान, ते तव सवनं सर्वात प्रसूयतेऽनेन तत् ते इन्द्रियं मनआदिकार्यसाधकम् आतस्थौ वशीभूतं स्यात्तर्हि दिवि द्योतनात्मके व्यवहारे, अमृतं मरणधर्मरहितं सुखं प्राप्स्यसि । हे तुरीय चतुर्थवन् चतुर्थाश्रमपूरक, आदित्येभ्यः संवत्सरेभ्यः प्रतिमास-सुखाय त्वामहमुपयच्छे स्वीकरोमि ' इति, तदपि निर्मूलम्, पत्युः सम्बोध्यत्वे पत्न्याश्च वक्त्रीत्वे प्रमाणाभावात् । आदित्यपदस्य गौणार्थता च नियुक्तिका । सवनपदस्यापि प्रातः सवनादिप्रसिद्धमर्थमपहाय प्रसवसाधनेन्द्र-यार्थकरणं न सङ्गतम्, विवाहसमये कन्यया तथा वक्तुमयोग्यत्वात् । चतुर्थाश्रमिणः स्त्रीसम्बन्धाभावात्तुरीय-पदस्य तथार्थकरणमपि धाष्टर्यमेव । चतुर्थमात्रबोधकस्य तुरीयशब्दस्य तुरीयाश्रमबोधकत्वे मानाभावात् । किच, हे तुरीय, हे चतुर्थाश्रमिन् प्रतिमाससुखार्थं त्वामहं स्वीकरोमीति तद्रीत्यार्थः सम्पद्यते, स च सर्वथा शास्त्रविरुद्धः । चतुर्थाश्रमिणं प्रति नहि काचित् कन्या एवं वक्तुं शक्नोति । तदेतत्कुभिक्षोरपरं स्वैरित्वम् ॥ ३ ॥
य॒ज्ञो दे॒वानां॒ प्रत्येति सु॒म्नमादित्यासो॒ भव॑ता मृडयन्त॑ः । आ वो॒ऽर्वाच सुम॒तिर्व॑दृत्याद॒द्ध्-होश्चि॒िद्या व॑रिवो॒वित्त॒रास॑दि॒त्येभ्य॑स्त्वा ॥ ४ ॥
' दध्ना श्रीणात्येनं पश्चिमेऽन्ते मध्ये वा यज्ञो देवानामिति ' ( का ० श्र ० १० । ४ । ५ ) । एनमादित्यग्रहं कुशावन्तर्धाय ग्रहस्य पश्चिमे भागे मध्ये वा दध्ना श्रीणीयाद् मिश्रयेत्, यज्ञो देवानामिति मन्त्रेण । त्रिष्टुब -यजुरन्ता, आदित्यदेवत्या, कुत्सदृष्टा । यस्माद् यज्ञः प्रकृतः सोमयागो देवानामादित्यानामदितिपुत्राणां सुम्नं सुखं कर्तुं प्रत्येति, तस्माद्धेतोर् हे आदित्यासः, आदित्याः! यूयं मृडयन्तः सुखयन्तः सुखकर्तारोऽस्माकं भवता भवत, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति संहितायां दीर्घः, तेन ' भवत ' इति स्थाने ' भवता ' इति रूपम् | ' वः ' युष्मत्सम्बन्धिनी सुमतिः शोभना भक्तकल्याणसम्पादयित्री बुद्धि:, अर्वाची अस्मदभिमुखी आवृत्याद् आवर्तताम्, ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७६ ) इति वर्ततेर्लिङि जुहोत्यादित्वात् श्लुः, श्लौ द्वित्वं च । अंहोश्चिद् अंहोर्हननशीलस्य पापिनोऽपि, अंहुरिति पापकारी, चिदित्यप्यर्थः, या सुमतिर्वरिवोवित्तरा, afrat धनं विन्दति लभत इति वरिवोवित्, अतिशयेन वरिवोविदिति वरिवोवित्तरः । अत्र तमबर्थे तरप्-प्रत्ययो बोद्धव्यः । ऐहिकामुष्मिक विविधस्वर्गापवर्गादिलक्षणधनप्रापयित्री, अत एव सुबुद्धिः प्रार्थ्यते - ' स नो बुद्धया शुभया संयुनक्तु ' ( श्वे ० उ ० ४।१, १२ ), ' मतिश्च मे सुमतिश्च मे ' ( वा ० सं ० १८ । ११ ) इत्यादिश्रुतेः । गया है, यह अप्रामाणिक है । आदित्य शब्द का गौण अर्थ करना भी युक्तिसंगत नहीं है । सवन शब्द का भी प्रसिद्ध अर्थ छोड़ कर ' प्रसवसाधन इन्द्रिय ' अर्थ करना उचित नहीं है, क्योंकि विवाह के समय कन्या के द्वारा इस प्रकार कहना अयुक्त है । चतुर्थं संन्यास आश्रम में स्थित पुरुष का स्त्रीसम्बन्ध से विरहित होने के कारण तुरीय शब्द का भी उस प्रकार अर्थ करना धृष्टता ही है । तुरीय शब्द चतुर्थ मात्र का वाचक है, इसके चतुर्थाश्रम का बोधक होने में कोई प्रमाण भी नहीं है । इस प्रकार का अर्थ शास्त्रविरुद्ध है । संन्यासी के प्रति कोई कन्या इस प्रकार नहीं कह सकती । यह स्वेच्छाचारिता ही है ॥ ३ ॥
मन्त्रार्थ-- यज्ञ आदित्य देवताओं के लोग हमारे लिये अवश्य ही सुखकारी हों । पापकारी मनुष्य की भी जो सुमति धन का प्रीति के लिये तुम्हारा ग्रहण करता हूँ ॥ ४ ॥
सुख के निमित्त आगमन करता है । इस कारण हे आदित्यगणों! आप आपकी जो स्वभाषसिद्ध अनुग्रह - बुद्धि है, वह हमारी तरफ प्रवृत्त हो । उपार्जन करने वाली है, वह हमारे संमुख हो । हे सोम, आदित्य ग्रह की भाष्यसार - ' यज्ञो देवानाम् ' इस मन्त्र के द्वारा आदित्य ग्रह को दही से संमिश्रित किया जाता है । कात्यायन M
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
१२८ शुक्लयजुर्वेद संहिता [ अ ० ८ पापिनोऽपि या सुबुद्धिरत्यन्तं धनप्रापयित्री, असद् भवति, हे देवा युष्माकं सम्बन्धिनी सा सुमतिरस्मदभिमुखी आवर्ततां पौनःपुन्येन प्रवाहवती भवतु । यद्वा या वो युष्माकं सुमतिरंहोश्चित् पापिनोऽपि प्रभूतधनसम्पादयित्री भवति, साऽस्माकं त्वदुपासनापराणां सदाचारनिष्ठानामभिमुखी प्रवाहवती स्यात्, तदा सुतरां वरिवोवित्तरा, भविष्यतीत्याशयः । यद्वा पुनरपि सैव सुमतिर्विशेष्यते - अंहोर्हननशीलस्य पापिनोऽपि चित् चेद् पापिष्वपि या सुमतिः सा अतिशयेन धनलब्धी भवेत्, साऽस्मदभिमुखी सती आववृत्याद् दयापरवशानां देवानां कदाचित् दध्ना मिश्रयामि । सुमतिरभिमुखीभूत्वा कल्याणं करोति, किमुत भक्तेषु । हे ग्रह, आदित्येभ्यो देवेभ्यस्त्वां यद्वा शतपथीयसायणभाष्यरीत्याऽयमर्थः -- यस्मादस्मदीयो यज्ञो देवानामादित्यानां सुम्नं सुखं ( निघ ० ३।६।१६ ) सम्पादयितुं प्रत्येति । यज्ञे हविःप्रदानेन देवानां तृप्तिसम्पादनसुखमुत्पद्यते । तस्माद् हे भवता आदित्यास भवत, आदित्याः, ' आज्जसेरसुक् ' ( पा ० सू ० ७ ११५० ) इति जसोऽसुगागमः । मृडयन्तोऽस्मान् सुखयन्तो मतिः संहितायां दीर्घः । स्वर्गापवर्गादिसुखकारिणो भवत । किञ्च, वो युष्माकं सुमतिः शोभना भक्तानुग्रहपरा सा अर्वाची अर्वाग्गमनशीला भवति सा च अस्मदभिमुखी आवर्तताम् अनन्तकालम् अस्मदाभिमुख्येन । अस्मादौणादिक प्रवाहवती भवतु । सैव मतिः पुर्नावशेष्यते -- अंहोश्चिद्या वरिवोत्तराऽसत्, ' अहि गतौ एव ' । भ्वादि चिदिति: निपातोऽप्यर्थः । उत्प्रत्ययः । सर्वे गत्यर्था ज्ञानार्था भवन्तीत्यंहुविद्वानुच्यते । स चात्र यजमान ), विन्दति वेदयति विदुषो यजमानस्यापि वरिवोवित्तरा असद् भवतु । वरिवो धनम् ( निघ ० २ १०१५ स्यात् लम्भयतीति वरिवोवित्, अतिशयेन वरिवोविदिति वरिवोवित्तरा, तादृशी असद् अतिशयेन शेषः धनप्रापयित्री । सासुमतिरस्मदभिमुखी सत्यावर्ततामिति सम्बन्धः । हे दधि, आदित्येभ्यस्त्वां गृह्णामीति अत्र शतपथब्राह्मणम् -- ‘ अथ दधि गृह्णाति । आदित्यानां वै तृतीयसवनमादित्यान् वा पशूनां अनु पशवस्त- पय इति पशुष्वेवैतत् पयो दधाति तदिदं पशुषु पयो हितं मध्यत इव गृह्णीयादित्याहुर्मध्यत सोमरसे इव हीदं दधिग्रहणं सार्थवाद पश्चादिव त्वेष गृह्णीयात् पश्चादिव हीदं पशूनां पय: ' ( श ० ४ | ३ | ५ | १३ ) । गृहीते, ' हीने ' ( पा ० सू ० १।४।८६ ) विधत्ते --अथ दधि गृह्णातीति । आदित्यान् वा अनु पशवः, अनुशब्दो हीनार्थकः २/३/८ ) इति द्वितीया विभक्तिः । इति होनार्थे कर्मप्रवचनीयत्वात् ' कर्मप्रवचनीययुक्ते द्वितीया ' ( पा ० सू ० हीनत्वम् । उपकार्योपकारक-अत्रादित्यानां वृष्टिप्रदानद्वारा पशुपकारित्वात् प्राधान्यम्, पशूनामुपकार्यत्वाद्: ' ( तै ० सं ० ६।५।६।४ ) भावादेव पश्वादित्यानामभेदोऽपि तैत्तिरीयश्रुतौ श्रूयते -- ' पशवो वा एते स्थानविषये आदित्या केषाञ्चिन्मतमुपन्यस्य इति । शुष्वेवैतत् पयो दधाति तदिदं पशुषु पयो हितम् । दधिग्रहणस्य इव मध्यस्थाने, सार्वविभक्तिकस्तसिः, स्वमतमेव निगमयति - मध्यत इति । इवशब्दो वाक्यालङ्कारे । मध्यत । तयोर्मध्ये दधि गृह्णीयात् । एवं ( पा ० सू ० ५।४।४४ वा ० ) इति सप्तम्यर्थे तसिः । कदाचनेति मन्त्रद्वयसाध्ये द्वे ग्रहणे आहुः । एतच्च तैत्तिरीय-च पशूनां मध्यभागे पयसोऽवस्थानान्मध्य एव पयो निहितं भवतीति केचिच्छाखिन ' ( तै ० सं ० ६ । ५ । ६ । ४ ) इत्याम्नातत्वात् । शाखामतम्, तत्र — ' दध्ना मध्यतः श्रीणात्यू जमेव पशूनां मध्यतो दधाति गृह्णीयात् पश्चादिव हीदं पशूनां तच्च नादरणीयमित्याह- मध्यत इव हीदं पशूनां पय इति पयसो पश्चादिव मध्यभागाव त्वेव स्थानमात्रमभिप्रेत्य शाखान्तरीयै-पयः, यतः पशूनां पयः पश्चाद्भाग एवावतिष्ठते । अत्र, अपितु शरीरस्य पश्चाद्भागेऽवतिष्ठते, मध्यतो ग्रहणमभिप्रेतम्, किन्तु पशूनां मध्येशरीरं पयो नावतिष्ठते तत्स्तुत्यर्थमेव मन्तव्यं नान्यपक्षं अतः पश्चादेव ग्रहणं युक्तमिति शतपथब्राह्मणाभिप्रायः । एतत्सर्वं स्वपक्षदाय मीमांसानयात् । निन्दितुम्, नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपितु विधेयं स्तोतुमिति सायणभाष्य आदि में याज्ञिक श्रौतसूत्र ( १० | ४ | ५ ) में यह याज्ञिक विनियोग प्रतिपादित है । शतपथ ब्राह्मण के अनुसार
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ] वेदार्थ पारिजातभाष्यसहिता १२ ९ ' यद्वेव दधि गृह्णाति । हुतोच्छिष्टा वा एते सस्रवा भवन्ति नालमाहृत्यै तानेवैतत् पुनराप्याययति तथालमाहुत्यै भवन्ति तस्मादधि गृह्णाति ' ( श ० ४ | ३ | ५ | १४ ) | दधिग्रहणमादित्यग्रहस्य सम्पूर्णताहेतुत्वेन प्रशंसति यद्वेव दधि गृह्णातीति । एते आदित्यग्रहार्थाः सोमा हुतोच्छिष्टत्वात् संस्रावणीयाः प्रतिपत्त्यः सन्त आहुत्यर्थं न पर्याप्ता भवन्ति । एत इति बहुवचनं द्विदेवत्यग्रहगतसोमापेक्षम् । तस्मात्तानेव सोमान् एतेन दधिग्रहणेन समर्धयति । समद्धिता आहुत्यै पर्याप्ता भवन्तीति दधि गृह्णीयात् । स गृह्णाति । यज्ञो देवानां प्रत्येति ' ' ' ' त्वेति ' ( श ० ४ | ३ | ५ | १५ ) । विहिते दधिग्रहणे मन्त्रं विनियुङ्क्ते यज्ञो देवानामिति । मन्त्रार्थस्तुक्त एव । अध्यात्मपक्षे - देवानां यज्ञो यजनं जनानां सुम्नं सम्पादयितुं प्रत्येति । हे आदित्यास आदित्याः, अदितेः परमेश्वरस्य अपत्यानि पुमांसो जीवाः । यूयं परस्परं मृडयन्तः सुखयन्तो भवता भवत । वो युष्माकम् अर्वाची अवग्गमनशीला सुमतिः शोभना बुद्धिराववृत्याद् आत्माभिमुख्येन आवर्तताम् । या आत्माभिमुखी सुमतिरंहोरपि पापिनोऽपि वरिवोवित्तरा असत् स्वर्गापवर्गादिलक्षणस्य धनस्य अतिशयेन प्रापयित्री भवति, तेभ्य आदित्येभ्यो हिताय हे यज्ञ! त्वामाश्रयामः, यज्ञस्यैव स्वान्तः शुद्धिक्रमेण तत्त्वज्ञान-हेतुत्वेन समाश्रयणीयत्वात् । दयानन्दस्तु -- ' हे आदित्यासः, आदित्यवद्विद्यादिगुणैः प्रकाशमानाः! यूयं देवानां विदुषां वो युष्माकं यो गृहाश्रमाख्यो यज्ञः सुम्नं सुखं प्रत्येति प्रतीतम् एति प्रापयति, या अंहो: सुखप्रापकस्य गृहाश्रमस्था-नुष्ठानस्यार्वाची सुशिक्षाविद्याभ्यासात् पश्चाद् विज्ञानमति प्राप्नोत्यनया सा वरिवोवित्तरा, वरिवः सत्यं व्यवहारं वेत्त्यनया, सातिशयिता सुमतिः शोभना मतिराववृत्याद् वर्तताम्, या त्वादित्येभ्यः सर्वेभ्यो मासेभ्यः प्राप्तोत्तमविद्या शिक्षा असत् तया चित् युक्ता वां सदा मृडयन्तः सर्वान् सुखयन्तो भवत ' इति । अत-त्सम्प्रदायाभिज्ञो ब्रह्मदत्तो जिज्ञासुः -- ' पदार्थोऽन्वयश्चासम्बद्ध इव प्रतिभाति । एति प्रापयतीत्यत्र प्रापयत्विति युक्तं स्यात् । आदित्येभ्यः सर्वेभ्यो मासेभ्य इत्यत्र आप्तेभ्यो विद्वद्र्य इति स्यात् । वाम् इत्यपि नान्वेति एकवचनान्तसम्बोधनस्याभावात्, आदित्यास इति बहुवचनान्तस्य दर्शनाच्च ' इति । दयानन्दीये भाषाभाष्ये तु - ' हे सूर्यवद् विद्यादिशुभगुणैः प्रकाशमानाः भवतां विदुषां स्त्रीपुरुषाभ्यां वर्तितुं योग्यो गृहाश्रमव्यवहाररूपो यज्ञो निश्चयेन सुखं प्रापयति । या गृहाश्रमसुखसाधयित्री सुशिक्षाविद्याभ्यासानु विज्ञानप्रापयित्री सत्यव्यवहारस्य निरन्तर विज्ञानदात्री भवतां सुमतिः सा श्रेष्ठमार्गे निरन्तरं प्रवर्तताम् । आप्तेभ्यो विद्वद्भस्त्वामुत्तमा विद्या शिक्षा प्राप्नोतु । तया बुद्धया युक्ता आवां स्त्रीपुरुषौ मृडयन्तो भवतः ' इति, सर्वमप्येतद् यत्किञ्चित् यज्ञशब्दस्य गृहाश्रमोऽर्थं इत्यत्र प्रमाण वैधुर्यात् । वरिवः सत्यं व्यवहारम् प्रक्रिया के अनुकूल मन्त्रार्थं वर्णित है । अध्यात्मपक्ष में मन्त्र का यह अर्थ है -- देवताओं का यजन प्राणियों के सुख - सम्पादन के लिये अग्रसर होता है । परमेश्वर की सन्ततिरूप हे जीवों, तुम लोग १ रस्पर सुख देते हुए रहो । तुम्हारी अग्रगामिनी सुबुद्धि आत्माभिमुख होती हुई प्रत्यावर्तित हो । जो आत्माभिमुख सुमति पापी को भी स्वर्ग, अपवर्ग आदि के रूप में धन को प्राप्त कराने वाली होती है, उसके लिये और अदिति के पुत्रों के हित के लिये यज्ञ, हम तुम्हारा आश्रय लेते हैं । यज्ञ ही स्वान्तः शुद्धि के क्रम से तत्त्वज्ञान के कारण के रूप में आश्रयणीय है । स्वामी दयानन्द द्वारा वर्णित संस्कृत अर्थ तथा भाषाभाष्य एवं ब्रह्मदत्त जिज्ञासु द्वारा निरूपित विवरण, यह सभी अनुपादेय हैं । यज्ञ शब्द का अर्थ गृहाश्रम है, इस कथन में कोई प्रमाण नहीं है । ' वरिवः ' का अर्थ ' सत्य व्यवहार ' १७
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
१३० शुक्लयजुर्वेद संहिता [ अ ० ८ इत्यपि निर्मूलमेव । देवानां सुमतिरंहो गृहाश्रमस्य सुखसाधयित्रीत्यपि निर्मूलम् अंहुशब्दस्य तत्राशक्तत्वात् । अर्वाचीत्यस्यापि त्वदुक्तोऽर्थो निर्मूल एव, अर्वागश्चतीत्यस्यैव तदर्थत्वात्, सुशिक्षा विद्याभ्यासात् पश्चाद्भावित्वेन
विज्ञानमुत्कृष्टमेव भवति नार्वाक् । श्रुतिसूत्रविरोधाच्चैतदुपेक्षणीयमेव ॥ ४ ॥
विवस्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मिन् मत्स्व । श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शीर्वा दम्प॑ वा॒मम॑श्नुतः । पुमा॑न् पुत्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहार॒प ऐधते गृहे ॥ ५ ॥
' उपा २ शुसवनेन मिश्रयति विवस्वन्नादित्येति ' ( का ० श्री ० १० | ४ | ६ ) । उपांशुसवनेन तन्नाम-केनाभिषवणसाधनेन ग्राव्णा पाषाणेनादित्यग्रहगतं सोमरसं मिश्रयेत् सोमं दधि च परस्परं मिश्रयेदित्यर्थः । आदित्यदेवत्यं यजुः । हे विवस्वन्नादित्य, तमांसि विवासयति निवारयतीति विवस्वान्, तत्सम्बुद्धौ । विशिष्टधनवान् वा विवस्वान्, विशिष्टं वसु धनमस्येति तथोक्तः । मतौ टिलोपश्छान्दसः । हे आदित्य, एष पात्रस्थस्ते तव सोमपीथः पातव्यः सोमः पातुं योग्य: पीथः, पीथश्चासौ सोमः सोमपीथः, आहिताग्न्या-दित्वात् पीथशब्दस्य परत्वम् । तस्मिन् मत्स्व तृप्तिं कुरु । यद्वा एष ते सोमपीथः, एतत्ते तव सोमपानम्, तस्मिन् मत्स्व | ' मद तृप्ती ', ' बहुलं छन्दसि ' ( पा ० सू ०१४७३ ) इत्यदादित्वात् शपो लुक् । यद्वा- -- ' ' विवस्वान् वा एष आदित्यो निदानेन यदुपांशुसवन: ' ( श ० ४ | ३ | ५ | २६ ) इति शतपथश्रुत्या उपांशुसवनस्यादित्यत्व-विधानात् प्रकृते आदित्यात्मक उपांशुसवनः सम्बोध्यते । हे विवस्वन्नामक आदित्यात्मक उपांशुसवन, ते तव एष सोमपीथः सोमपानम्, अतस्तस्मिन् सोमपाने मत्स्व तृप्तिं प्राप्नुहि । श्रदस्मै नर इत्येनमवेक्षते पत्नीति ' ( का ० श्र ० १० ५। ७ ) | पत्नी एनं पूतभृतं श्रदस्मै इति मन्त्रेण पश्येत् । आशीर्देवत्या जगती नरदेवत्या वा । यद्वा द्वादशाक्षरचतुष्पादा जगती । पत्नी वदति - हे नरः, ' नृ नये ', नेतार ऋत्विग्यजमाना आशीर्दा आशिषोऽभीष्टकामान् ददतीति आशीर्दाः, सुब्लोपश्छान्दसः यूयमस्मं वचसे आशीर्वचनाय श्रद्दधातन । श्रदिति सत्यवचनेषु पठितम् । ' तप्तनप्तनथनाश्च ' ( पा ० सू ० ७ | १ | ४५ ) इति मध्यमबहुवचनस्य तनादेशः । श्रद्धामास्तिक्यबुद्धि कुरुत । यद्वा ' नेत्यनर्थका उपजना भवन्ति ' इति नकारोऽनर्थकः । श्रद्दधात श्रद्धां कुरुतेत्यर्थः । मदुक्तमाशीर्वचनं भवद्भिः श्रद्धया धारितं तथैव स्यात् । किं तदाशीर्वचनमित्यत आह -- यद् दम्पती जायापती पत्नीयजमानौ वामं वननीयं सम्भजनीयं यज्ञफलमश्नुत प्राप्नुत । किञ्च इहैव पुमान् पुंस्त्वधर्मसम्पन्नः पुत्रो जायते उत्पद्यते । दुहितापि पुत्रशब्देनोच्यते, अतः पुमानिति विशेष्यते । स च पुत्रो वसु धनं विन्दते लभते । अधा अथ । अधा- अथेत्येतौ छन्दसि समानार्थी । ' निपातस्य च ' ( पा ० सू ० करना भी निर्मूल है । ' अंहु ' शब्द भी ' गृहाश्रम ' अर्थं बोधित करने में शक्त नहीं है । ' अर्वाची ' शब्द का भी निरूपित किया गया अर्थ अप्रामाणिक है । यह व्याख्यान श्रुति तथा सूत्र वाक्यों से विरुद्ध होने के कारण भी अग्राह्य है ॥ ४ ॥
हे अन्धकार को दूर करने वाले आदित्य! इस पात्र में तुम्हारे पीने योग्य सोम स्थित है । इसका पान कर आप प्रसन्न होइये । हे यज्ञीय कर्मचारीगण, आप लोग श्रद्धापूर्वक आशीर्वचन कहिये, जिससे कि यह यजमान और उसकी पत्नी वरण करने योग्य क्रियमाण यज्ञ के फल को पावें । इस फल से यजमान पराक्रमी पुत्र को प्राप्त करे और यह पुत्र धन - सम्पत्ति से सम्पन्न होकर जीवन भर निष्पाप और ऋण आदि से मुक्त रह कर घर में सब प्रकार की वृद्धि को प्राप्त करे ॥ ५ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( १०/४/६, १०/५/७ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' विवस्वन् ' इस
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
म ० ५ ] वेदार्थपारिजातभाष्यसहिता १३१ ६।३।१३६ ) इति संहितायां दीर्घः । अथेत्यनन्तरं विश्वाहा विश्वानि च तान्यहानि चेति विश्वाहा सर्वकालम्, ' कालाध्वनोरत्यन्तसंयोगे ' ( पा ० सू ० २।३।५ ) इति द्वितीया, ' राजाहः सखिभ्यष्टच् ' ( पा ० सू ० ५ / ४१ ९ १ ) इति टच्प्रत्ययस्य वैकल्पिकत्वात् छान्दसो वाडभावः । अनन्तरं धने लब्धे सति स पुत्रो विश्वाहा सर्वदा अरपः पापरहितः सन् गृहे स्वसदने वर्धते । नास्ति रपो यस्यासावरपः, ' रपो रिप्रमिति पापनामनी भवतः ' ( निरु ० ४।२१ ) | यद्वा आशीर्दा आशिषो दातारौ दम्पती इति दम्पतीविशेषणम्, विभक्तेराकारः । दम्पती यज्ञफलं प्राप्नुताम्, तयोः पुत्रो जायताम्, स च धनं लब्ध्वा निष्पापः स्वगृहे वर्धतामित्याशीर्वचने श्रद्धां कुरुत अत्र ' ब्राह्मणम् —– ' तमुपांशुसवनेन मेक्षयति । विवस्वान् वा एष आदित्यो निदानेन यदुपाशुसवन आदित्यग्रहो वा एष भवति तदेन स्व एव भागे प्रीणाति ' ( श ० ४ | ३ | ५ | १६ ) | आदित्यग्रहस्योपांशु-सवनाख्येन ग्राव्णाऽऽलोडनं कुर्यात् । मेक्षयति आलोडयति । उपांशुसवन इति यदेष निदानेन कारणात्मना विवस्वान्नामक आदित्य एव ' एष वै विवस्वानादित्यो यदुपांशुसवनः ' ( तै ० सं ० ६५ ६/५ ) इति श्रुतेः । अतस्तेनादित्यग्रहस्यालोडने स्वकीये भागे आदित्यमेव प्रीणितवान् भवतीत्यर्थः । ' तं न दशाभिर्न पवित्रेणोप-स्पृशति । एते वै शुक्रवती रसवती सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनमथैतन्निर्धीतशुक्रं यत्तृतीयसवन स यन्न दशाभिर्न पवित्रेणोपस्पृशति तेनो हास्यैतच्छुक्रवद्रसवत्तृतीयसवनं भवति तस्मान्न दशाभिर्न पवित्रेणो-पस्पृशति ' ( श ० ४ | ३ | ५ । ९ ७ ) । ग्रहान्तर साधारण्येन ग्रहणानन्तरं प्राप्तं दशापवित्रेण मार्जनं निषेधति - न दशाभिर्न पवित्रेणेति । दशाभिः स्वाश्चलैः पवित्रेण पावनार्थेन वस्त्रेणादित्यग्रहं न परिमृज्यात् । प्रातर्माध्यन्दिन-सवनयो रसवत्त्वेन तृतीयसवनस्य नीरसत्वं शतपथे ( ३ | ३ | ३ | १ ९ ) उक्तम् । ' रसवती वा शुक्रवती ' इत्यस्यैव व्याख्यानम् - निर्धीत शुक्रं निष्पीतरसमिति । पक्षिरूपा गायत्री तृतीयसवनार्थं सोमं मुखेनाहरन्त्यपिदिति प्रसिद्धम् । तेन तृतीयसवनं नीरसम् । तैत्तिरीयके श्रूयते ' पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तमधयत् तस्माद् द्वे सवने शुक्रवती प्रातः सवनं माध्यन्दिनं च तस्मात्तृतीयसवनं ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यते आशिरमवनयति स शुक्रत्वाय ' ( तै ० सं ० ६ १ ६ ४ - ५ ) । तत्तेनैवाभिषवादिसम्पादनेन, तस्मात् शुक्रवतो माध्यन्दिनसवनात् तृतीयसवनं निर्मिमीते उत्पादयति, सवनोत्पादकस्य सोमाभिषवादेरत्र सम्पादनात्, अतो दशापवित्रेण परिमार्जनस्याकरणे तृतीयसवनस्य रसवत्त्वं भवतीति दशाभिः पवित्रेण च न परिमृज्यात् । ' स मेक्षयति । विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन् मत्स्वेत्यथोन्नेत्र उपा ७ शुसवनं प्रयच्छत्यथाहोन्ने-तारमासृज ग्राव्ण इति तानाधवनीवे वा सृजति चमसे वा ' ( श ० ४ | ३ | ५ | १८ ) । उपांशुसवनेन ग्रहस्य यन्मेक्षणं विहितं तदद्य मन्त्रं विधत्ते- - स मेक्षयति विवस्वन्नादित्येत्यादि । मन्त्रार्थस्तूक्त एव । ग्रहणानन्तरं कर्तव्य-माह - अथेत्यादिना । ` उन्नेत्र उपांशुसवनं प्रयच्छति । अथोन्नेता रमाह - आसृज ग्राव्ण इति । उन्नेता तान् आधवनीये चमसे वा आसृजति । ' राजानमुन्नीय | आदित्यानां वै तृतीयसवनमादित्यान् वा अनु ग्रावाणस्तदेनान् स्व एव भागे प्रीणात्यपोर्णुवन्ति द्वारे ' ( श ० ४ | ३।५।१ ९ ) । राजानमुन्नीय सोममापूर्य चमसे वा विसृजति निदध्यात् । अभिषवार्थान् पाषाणान् आदित्यानां वेत्यादिना ग्राव्णा निधानस्य प्रयोजनमाख्यायते-- अनुग्रावाण इति । अनु: ' हीने ' इत्यनेन कर्मप्रवचनीयः । आदित्यानामत्र ग्रावाभिमानित्वात् तेषां प्राधान्यम्, ग्राव्णां च हीनत्वमनुशब्देन द्योत्यते । तस्मादेतान् स्व एव भागे प्रीणाति । अपोर्णुवन्ति द्वारे हविर्धानस्य उभे द्वारे अपिदधातीति हविर्धानस्य द्वारयोरपिधानं विहितम्, तदिदानीमपनयेयुरिति । कण्डिका के मन्त्रों से उपांशुसवन नामक पाषाणखण्ड के द्वारा आदित्य ग्रहपात्र में स्थित सोमरस का दधि से मिश्रण तथा
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
१३२ शुक्लयजुर्वेद संहिता [ अ ० ८ ' अथापिधायोपनिष्क्रामति । रक्षोभ्यो ह्यबिभयुरथाहादित्येभ्योऽनुब्रूहीत्यत्र संपश्येद्यदि कामयेता-श्राव्य त्वेव सम्पश्येदादित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियत्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्ष-स्याध्यक्षेभ्य इति वषट्कृते जुहोति नानुवषट्करोति नेत्पशूनग्नौ प्रवृणजानीति प्रयच्छति प्रतिप्रस्थात्रे स स्रवौ ' ( श ० ४ | ३ | ५ | २० ) । द्वारपिधानापनयनानन्तरं निष्क्रमणादिकं विधत्ते -- अथेति । अपिधाय ग्रहं स्वकीयेन पाणिना आदित्यस्थात्या वा आच्छाद्य हविर्धानान्निष्क्रमेत्, ' ग्रहमपिधाय पाणिना स्थाल्या वा ' ( का ० श्र ० १० | ४ | ९ ) । हि यस्मात् कारणाद् आदित्या रक्षोभ्योऽविभयुर्भीता बभूवुः तस्मात्तदीयस्य ग्रहस्यापिधानं युक्तमिति भावः । आश्राव्य त्वेवेति । यदि ग्रहं द्रष्टुमिच्छेत्तर्हि आश्रावणानन्तरमेव सम्पश्येत्, न पुनः पूर्वोक्तानुवचनानन्तरमित्यर्थः । सम्पश्येदित्यत्र ' समो गम्युच्छि ' ( पा ० सू ० १।३।२ ९ ) इत्यादिसूत्रस्थलीयेन ' अतिदृशिभ्यश्चेति वक्तव्यम् ' इति वान्तिकेन आत्मनेपदं न भवति, तत्राकर्मकादित्यधिकारात् । अनेनोपरि होमकाले ग्रहो नावेक्षणीय इति दर्शितम् । अत एवापस्तम्बः -- ' अन्यत्रेक्षमाण आदित्यं जुहोति ' । अध्वर्योः प्रेषमुत्पाद्य कालविशिष्टं होमं विधत्ते - आदित्येभ्यः प्रेष्य प्रियेभ्य इत्यादिकं प्रेषमुच्चार्य होत्रा वषटकारे कृते ग्रहमग्नौ जुहुयात् । प्रेषस्यायमर्थः - प्रीतिकरेभ्यः, धाम स्थानं तच्च प्रियं धाम येषां ते प्रियधामानस्तेभ्यः । प्रियव्रतेभ्यः, प्रियं व्रतं कर्म यज्ञरूपं येषां तेभ्यः । महस्वसरस्य पतिभ्यः, स्वसरमित्य हविधीयते ( निघ ० ११ ९ १५ ), महसां विशिष्टं स्वसरमहो महः स्वसरम्, तस्य पतिभ्योऽहपतिभ्यः । उरोविस्तीर्णस्य अन्तरिक्षा-स्याध्यक्षेभ्यः साक्षिभ्यः, तत्रैव सर्वदा वर्तमानत्वात् । एवंविधेभ्य आदित्येभ्यो हविर्दातुं मैत्रावरुणया ज्या पाठार्थं होतारं प्रेरयेदित्यर्थः । ग्रहान्तरसाधारण्येन प्राप्तमनुवषट्कारं निषेधति नानुवषट्करोति । अनुवषट्कारो हि स्विष्टकृदग्न्यर्थं क्रियते, ' स्विष्टकृतो वा एतेऽनुवषट्क्रियन्ते ' इत्युक्तत्वात् । तथा सत्यनुवषट्कारे कृते ' पशवो वा एते यदादित्यः ' ( तै ० सं ० ६।५।६ ) इत्यादित्यग्रहस्य पश्वात्मकत्वात् पशव एवाग्नौ परित्यक्ताः स्युः । तस्मान्नैव पशूनग्नो प्रवृणजानि परित्यजानीति नानुवषट् कुर्यादिति । ' अथ पुनः प्रपद्य । आग्रयणमादत्त उदीचीनदशं पवित्रं वितन्वन्ति प्रस्कन्दयत्यध्वर्युराग्रयणस्य संप्रगृह्णाति प्रतिप्रस्थाता स १७ सवावानयत्युन्नेता चमसेन वोदञ्चनेन वा ' ( श ० ४।३।५।२१ ) | आदित्यग्रहयागानन्तरं हविर्धानगमनपूर्वकमाग्रयणस्य ग्रहणप्रकारं विधत्ते - अथ पुनः प्रपद्येति । तृतीयसवनार्थमभिषवानन्तरं पूतभृत उपरि उदङ्मुखावलं पवित्रं पवनार्थं वितन्वन्ति विस्तार-यन्त्युद्गातारः, तस्मिन् पवित्रेऽध्वर्युराग्रयणस्य, ' कर्मणि षष्ठी ' ( पा ० सू ० २।३।५० ), आग्रयणपात्रस्थं सोमं प्रस्कन्दयत्या सिध्यति । तदा प्रतिप्रस्थातापि पवित्रे आदित्यस्थालीगतो संस्रवौ सम्प्रगृह्णाति, समित्येकीभावे, सह सिञ्चेत्, उन्नेता वा आधवनीयाद् उदचनेन चमसेन वा वितत आग्रयणं गृह्णाति । ' तं चतसृणां धाराणामाग्रयणं गृह्णाति । आदित्यानां वा तृतीयसवनमादित्यान् वा अनु गावस्तस्मादिदं गवां चतुर्धा विहितं पयस्तस्माच्चतसृणां धाराणामाग्रयणं गृह्णाति ' ( श ० ४ | ३ | ५ | २२ ) । धाराचतुष्टयाद् ग्रहणं विधातुं प्रशंसति - तं चतसृणां धाराणामिति । संख्याद्वारा जगती सम्बन्धित्वाज्जागतं तृतीयसवनमुक्तम् । गावश्च वृष्टिप्रदानेनादित्यानुपजीव्य वर्तन्ते तस्मादादित्यसम्बन्धितृतीयसवनगतस्याग्रयणस्य चतसृभ्यो धाराभ्यो गृहीतत्वाद् आदित्यसम्बन्धिनीनां गवां पयश्चतुर्धा विहितं दृश्यते, चतुर्भिः स्तनमुखैः पयस उद्गमात् । अतश्चत-सृभ्यो धाराभ्यो ग्रहणं प्रशस्तम् । ' तद्यत् प्रतिप्रस्थाता सौ सम्प्रगृह्णाति । आदित्यग्रहो वा एष भवति न वादित्यग्रहस्यानुवषट्-करोत्येतस्माद्वै सावित्रं ग्रहं ग्रहीष्यन् भवति तदस्य सावित्रेणैवानुवषट्कृतो भवति ' ( श ० ४ | ३ | ५ | २३ ) । पत्नी द्वारा पूतभृत् का अवलोकन आदि कार्य अनुष्ठित किये जाते हैं । शतपथ एवं तैत्तिरीय श्रुतियों के अनुसार तथा
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
म ० ५ ] वेदार्थपारिजातभाष्यसहिता १३३ । एष आग्रयणस्य ग्रहणे प्रतिप्रस्थातृकृतं संस्रवावसेचनमादित्यग्रहस्यानुवषट्कारहेतुत्वेन प्रशंसति तद्यदिति तच्छेषावनयने संस्रवरूपः सोमः खलु तच्छेषत्वात् । आदित्यग्रहस्य त्वनुवषट्कारो निषिद्धः । अत आग्रयणे भवति । सत्येतत्सावित्रग्रहस्य ग्रहीष्यमाणत्वात् सावित्रस्य चानुवषट्कारसम्भवात् तेनैवादित्यग्रहोऽनुवषट्कृतो ' यद्वेव प्रतिप्रस्थाता स ७ स्रवौ सम्प्रगृह्णाति । पुरा वा एभ्य एतन्मिश्राद् ग्रहमहौषुः पुरा तृतीयसवनात्तृतीयसवनाय प्रतिप्रस्थाता वा एष ग्रहो गृह्यते तदादित्यास्तृतीयसवनमपियन्ति तथा न बहिर्धा यज्ञाद् भवन्ति । ' आग्रयणमादाय तस्मात् सिञ्चति स स्रवौ सम्प्रगृह्णाति ' ( श ० ४ | ३ | ५ | २४ ) । प्रकारान्तरेणापि तदेव प्रशंसति गृह्णाति ' पवित्रेऽधिपूतभृतं प्रतिप्रस्थाता च सवावाधवनीयादुन्नेोदश्ञ्चनेन चमसेन वा तत आग्रयणं धृते दशा-( का ० श्र ० १० १५1१- ४ ) । नेष्ट्रा आग्रयणस्थालीस्थं सोमं पात्रान्तरे कृतं हस्तेन गृहीत्वा पूतभृत उपरि पवित्रे आसिञ्चेदध्वर्युः । प्रतिप्रस्थाता आदित्यग्रहादित्यस्थालीशेषावासित् । आधवनीयादुन्नेता उदयनेन चमसेन वा पवित्रे आसिञ्चेत् । एवं चतस्रो धारा भवन्ति । ततस्ताभ्यश्चतसृभ्योऽध्वर्युराग्रयणस्थाल्यामाग्रयणं सायणादिभिर्वेद-गृहणीयादिति विस्तरेण शतपथश्रुत्या च व्याख्यात एवार्थः कात्यायनादिभिः सूत्रकारः भाष्यकार प्रकटीकृत इति तत्सम्मतं व्याख्यानमेव वेदव्याख्यानम् । अध्यात्मपक्षे - हे विवस्वन् अविद्यातमोऽपनोदक, एष ते तव सोमपीथो यज्ञः सोमः पीयते यस्मिन् स सोमादिः समर्पितोऽस्ति, यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ' ( भ ० गी ० ९ ।२७ ) इति गीतोक्तेः । तस्मिन् मत्स्व तृप्तिं प्राप्नुहि । हे नरः, नयन्ति परमात्मनि मनो श्रद्धातन विश्वासं कुरुत । आशीर्दा आशिषो दातारो भवत । ये ते नरो भगवद्भक्ताः, अस्मै वचसे श्रद्दधातन किं च तद्वचनम्? यद्यस्माद् दम्पती जायापती तत्स्थानीयौ बुद्धिजीवी, पुरञ्जनोपाख्याने बुद्धिजीवयोर्जाया-पतित्वारोपदर्शनात् । वामं रमणीयं संभजनीयं भोगं मोक्षं च अश्नुतो व्याप्नुतः । तयोश्च पुमान् पुत्रः सर्वदा प्रबोधचन्द्रो अरपो जायताम् । स च वसु ब्रह्मरूपं धनं लभताम् । स च निष्पापो निरुपप्लवोऽथा अनन्तरं विश्वाहा निष्पापः संशयविपर्ययादिरहितो गृहे स्वस्थाने हृदये एधते वर्धते स्वात्मसाक्षात्कारेण कृतार्थो भवति भवतु । स्वामिदयानन्दस्तु - ' हे विवस्वन् आदित्यगृहिन्, विविधे स्थाने वसतीति विवस्वान्, एष ते तव सोमपीथो गृहाश्रभोऽस्ति । सोमः पीयते यस्मिन् सः सोमपीथः तस्मिन् त्वं विश्वाहा बहूनि अहानि, मत्स्व आनन्दितो भव । हे नरो गृहाश्रमस्था:, यूयमस्मै वचसे गृहाश्रमव्यवहाराय श्रद्दधातन श्रत् सत्यं दधातन धरत । सः यद्, यस्मिन् गृहे दम्पती वामं प्रशस्यं गृहाश्रमं धर्ममश्नुतो व्याप्नुतः, तस्मिन् आशीर्दा आशीरिच्छां ददातीति ने निरूपित किया है । कात्यायन, आपस्तम्ब आदि सूत्रकारों के अनुकूल याज्ञिक अर्थ सायण आदि वेदभाष्यकारों सोमादि नैवेद्य अध्यात्मपक्ष में अर्थ योजना इस प्रकार है- अविद्यारूपी तम के विनाशक हे विवस्वन्, आपको यह विश्वास समर्पित है, इसमें तृप्ति का अनुभव करें । परमात्मा में अपने मन को ले जाने वाले हे भगवद्भक्तों, इस वचन के प्रति होने के कारण करो, आशी: के प्रदाता बनो । पुरंजनोपाख्यान में बुद्धि तथा जीव में पत्नी तथा पति का रूपक उपदिष्ट पुत्र दम्पतीस्थानीय बुद्धि एवं जीव जिससे रमणीय, सेवनीय भोग तथा मोक्ष को प्राप्त करते हैं, उनसे प्रबोधचन्द्ररूपी अपने स्थान उत्पन्न हो, वे ब्रह्मरूपी धन प्राप्त करे । तदनन्तर वे निष्पाप, सर्वदा संशय विपर्यय आदि से विरहित होकर हृदय में स्वात्मसाक्षात्कार के द्वारा कृतकृत्य हों । स्वामी दयानन्द द्वारा निरूपित अर्थ श्रुति तथा सूत्र वचनों से विरुद्ध होने के कारण अग्राह्य है । विवस्वान् का अर्थ में कोई ' गृही ' करना निर्मूल है तथा गृहस्थ नियमतः विविध स्थानों में निवास नहीं करता । रूढ अर्थ के परित्याग
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
१३४ शुक्लयजुर्वेदसंहिता [ अ ० ८ अरपो निष्पापः पुमान् पुत्रो जायते, वसु धनं विन्दते लभते । अधेत्यनन्तरे, पृषोदरादित्वात् थस्य धः । ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ) इति दीर्घः एधते वर्धते ' इति, तदपि यत्किञ्चित् श्रुतिसूत्रविरोधात् । विवस्वन्नित्यस्य गृहिन्नित्यर्थो निर्मूल एव । न च गृहस्थो नियमेन विविधे स्थाने वसति, रूढार्थत्यागे मानाभावाच्च । तमआच्छादकत्वेन योगरूढोऽयं विवस्वानुशब्द आदित्ये वर्तते । आदित्य इत्यस्य अविनाशि-स्वरूप इत्यपि नार्थं, तत्राशक्तत्वात् श्रुतिसूत्रादिषु तथाऽप्रयुक्तत्वात् । अन्यत्तु सायणाद्यनुकरणमेव ॥ ५ ॥
वा॒मम॒द्य संवितर्वा॒मश्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ ü सावः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या प्रि॒या वा॑म॒भाज॑ः स्याम ॥ ६ ॥
' भक्षयित्वेडामुपाश्वन्तुर्यामपात्रयोरन्यतरेण सावित्रग्रहणं वाममद्येति ' ( का ० श्र ० १०।५।१७ ) । सवनीय पुरोडाशेडां भक्षयित्वा इडाहरणोपलक्षितं सवनीयसम्बन्धि प्रतिपत्तिव मंजातं समाप्य उपांश्वन्तर्याम-पात्रयोरन्यतरेण सावित्रग्रहं गृह्णीयात् । कण्डिकाद्वयात्मको मन्त्रः । सवितृदेवत्या त्रिष्टुब् भरद्वाजदृष्टा । हे सवितः, वामं वननीयं संभजनीयं कर्मफलम्, अद्य अस्मिन् दिने, अस्मभ्यम् अस्मदर्थे सावी: प्रेरय, देहीत्यर्थः । ' सु प्रेरणे ' लुङि अडभावश्छान्दसः । वाममु श्वो वामं च उपांशुसवनीये काले सावीः । श्वः उपांशुशंसनीयः काल इति यास्कः । उ अप्यर्थः । श्वोऽपि समनन्तरदिनेऽपि वामं मनोरमं कर्मफलं सावीः । किं बहुनोक्तेन, दिवेदिवे अहन्यहनि प्रतिदिनम्, अस्मभ्यं वामं सम्भजनीयं सुखं सावीः प्रसूयाः । किञ्च वामस्य हि क्षयस्य भूरेविस्तीर्णस्य बहुकालीनस्य धनपूर्णस्य वा क्षयस्य स्वर्गनिवासस्य, सिद्धय इति शेषः, वामभाजः स्याम कर्मानुष्ठातारः स्याम । क्षयशब्दो निवासवचनः, ' क्षयो निवासे ' ( पा ० सू ० ६ | १ | २०१ ) इत्याद्युदात्तस्मरणात् । यद्वा हे देव, वामस्य शोभनस्य क्षयस्य निवासस्य भूरेर्बहुनो धनपूर्णस्य, दाता भवेति शेषः । हि यस्मात् । अया अनया । नलोपश्छान्दसः । धिया कर्मणा । धीरिति कर्मनाम । श्रद्धोपेतया बुद्ध्या वा वामभाजोऽभीष्ट-धनभाजः स्याम सम्भवेम । यद्वा अनया धिया सोमाख्येन वर्मणा अभीष्टफलभागिनः स्याम भवेम । अत्र ब्राह्मणम् -'मनो ह वा अस्य सविता । तस्मात् सावित्रं गृह्णाति प्राणो ह वा अस्य सविता तमेवा-स्मिन् ' ' ' ' दधाति यदुपाश्ं गृह्णाति तमेवास्मिन्नेतत्पश्चात् प्राणं दधाति यत्सावित्रं गृह्णाति ताविमा उभयतः प्राणौ हितो यश्चायमुपरिष्टाद्यश्चाधस्तात् ' ( श ० ४ | ४ | १ | १ ) । सावित्रग्रह उच्यते । प्रकृते मनःशब्देनाध्यवसायात्मिका बुद्धिर्ब्राह्या । सा हि क्रियासु प्रसौतीति सविता । अनध्यवसिते प्राणवृत्त्यभावात् प्राणानुरूपं मनः सविता, तदन्तत्वात् सावित्रो ग्रहोऽस्य यज्ञपुरुषस्य मन एवेत्यवश्यं भावनीयम् । प्राणो ह वास्य सवितेति दर्शनानन्तरं प्राणोऽपि वृत्त्यङ्गत्वात् प्रसौति, तेन सोऽपि सविता । रविमण्डलमपि वायुनैवोद्यमानं जगतः स्वकर्मप्रवृत्तिषु प्रमाण भी नहीं है । अन्धकार का आच्छादन करने से यह योगरूढ विवस्वान् शब्द आदित्य के लिये प्रयुक्त है । आदित्य का अर्थ ' अविनाशी स्वरूप ' भी नहीं है, क्योंकि शब्द उस अर्थ के बोधन में अशक्त है । श्रुति, सूत्र आदि में भी इस प्रकार का प्रयोग नहीं है । अन्य मन्त्रार्थं तो सायण आदि का अनुकरण ही है ॥ ५ ॥
मन्त्रार्थ - हे जगत् को उत्पन्न करने वाले, आज हमारे निमित्त वरणीय यज्ञ - पल को वीजिये, कल भी यज्ञ - फल को दीजियेगा, प्रतिदिन यज्ञफल को दीजिये । हे देव, हम संभजनीय विस्तीर्ण स्वर्ग लोक के निवास की सिद्धि के लिये श्रद्धायुक्त बुद्धि से इस यज्ञ फल के भोगने वाले होवें ॥। ६ ॥ भाष्यसार - ' वाममद्य ' इस कण्डिका तथा अग्रिम कण्डिका के द्वारा सावित्र ग्रह का ग्रहण किया जाता है । इस
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
म ० ६ ] वेदार्थपारिजातभाष्यसहिता १३५ हेतुर्वायुना भवतीति वायुरपि सवितेत्यभिप्रायः । यत्सावित्रं गृह्णाति तमेवास्मिन्नेतत् पुरस्तात् प्राणं दधाति । पुरस्तादिति मुखतः पश्चादिति जघनतः । ताविमौ वायू प्राणौ हितो | कौ तावित्यत आह- यश्चाय-मुपरिष्टाद्यश्चाधस्तादिति । ' ऋतवो वै संवत्सरः ' ( श ० ४ | ४ | १/२ ) इत्यवयवावयविभावेन ऋतवो वा संवत्सरः, स च यज्ञपूर्व-परिणामत्वाद् यज्ञः । संवत्सररूपो यज्ञः प्रतिसवनं दर्शनीयः, अवयवशून्यस्यानुपपत्तेः, अवयवानां च यज्ञाव-यवत्वात् । स च सवनयोर्द्वयोर्दशितः । एष वै सविता य एष तपति ' ( श ० ४ | ४ | १ | ३ ) इत्यादिना तृतीयसवने सावित्रग्रहग्रहणेनैतस्य संवत्सररूपता प्रदर्शिता । ' तं वा उपाशुपात्रेण गृह्णाति । मनो ह वा अस्य सविता प्राण उपाशुस्तस्मादुपाशुपात्रेण गृह्णात्यन्तर्यामपात्रेण वा समान ह्येतद्यदुपाश्वन्तर्याम प्राणोदानौ हि ' ( श ० ४।४।११४ ) । तं सावित्रग्रहमुपांशुपात्रेणान्तर्यामपात्रेण वा गृह्णीयात् । समानमेतद् द्वयम्, प्राणोदानरूपत्वात् प्राण उपांशुः । प्राणमनसोश्चात्यन्ताव्यभिचारः । तस्माद् मनसः । यस्मान्मनः सावित्रः प्राणेना विनाभावादुपांशुपात्रेण गृह्णात्यन्तर्यामिपात्रेण च । ' आग्रयणाद् गृह्णाति । मनो ह वा अस्य सविता आत्मा आग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सविता आत्मा आग्रयण आत्मन्येवैतत्प्राणं दधाति ' ( श ० ४ | ४ | १ | ५ ) । आग्रयणाद् आग्रयणस्यालीस्थिसोमादित्यर्थः । ' अथातो गृह्णात्येव । वाममद्य वामभाजः स्याम ' ( श ० ४ । ४ । १ । ६ ) । मन्त्रार्थस्तुक्त एव । अध्यात्मपक्षे - - हे सवितः, विश्वोत्पादयितः! अद्य अस्मिन् वामं संभजनीयं सुखं सावीः प्रेरय देहि । श्वः परदिन उ अपि वामं सुन्दरमध्यात्मसुखं सावीः । किं बहुना, दिवेदिवे प्रतिदिनमस्मभ्यं वामं ब्रह्मात्म-साक्षात्कारसुखं सावीः, तस्यैव सर्वतोभावेन सम्भजनीयत्वात् । हे देव, दानादिगुणयुक्त! प्रत्यक्चैतन्याभिन्न-परमात्मन् वा । हि यस्मात् अया अनया श्रद्धान्वितया बुद्धघा वयं वामभाजः स्याम, ब्रह्मोपासनलक्षणं ब्रह्मसाक्षात्कारलक्षणं वा वामं भजन्तीति वामभाजः, ब्रह्मोपासनपरायणा ब्रह्मात्मापरोक्षज्ञानवन्तः स्याम भवेम । किमर्थम्? वामस्य सम्भजनीयस्य भूरेर्भूम्नो विस्तीर्णस्य क्षयस्य ब्रह्मनिवासस्य ब्रह्मात्मनाऽवस्थानस्य, सिद्धय इति शेषः । दयानन्दस्तु - ' हे देव सवित ईश्वर, त्वं कृपया स्मभ्यमद्य वामं प्रशस्यसुखम्, उ श्वः परस्मिन् दिने वामं पूर्वोक्तं दिवेदिवे प्रतिदिनं सावीः सव उत्पादय । येन वयमया अनया धिया श्रेष्ठबुद्धया भूरेर्बहुपदार्थान्वितस्य वामस्याऽत्युत्कृष्टस्य क्षयस्य गृहस्य मध्ये वामभाजः प्रशस्यकर्मसेविनः स्याम भवेम ' इति, तदपि मन्दम्, वामस्याऽत्युत्कृष्टस्येति विवरणासङ्गतेः धात्वर्थानुपपत्तेः । अन्यत्तु महीधराद्यनुकरणमेव ॥ ६ ॥
प्रकार सावित्र ग्रह के ग्रहण में दो कण्डिकाओं का एक मन्त्र है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १०।५।१३ ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है -- हे विश्व के उत्पादयिता, आज आप रमणीय सुख प्रदान करें । अग्रिम दिन, कल भी सुन्दर अध्यात्मसुख प्रदान करें । प्रतिदिन हमारे लिये ब्रह्मात्मसाक्षात्कार के सुख को प्रदान करें, क्योंकि वही सर्वतः सुन्दर है । दान आदि गुणों से युक्त, प्रत्यक् चैतन्य से अभिन्न हे परमात्मन्, हम श्रद्धायुक्त इस बुद्धि के द्वारा सुखभागी हों । ब्रह्मोपासना रूपी अथवा ब्रह्मसाक्षात्कार रूपी सुखभागी, ब्रह्मोपासनपरायण ब्रह्मात्मापरोक्षज्ञानवान् हम लोग अभिलषित विस्तीर्ण ब्रह्मात्मरूप से स्थिति की सिद्धि के लिये हों । स्वामी दयानन्द द्वारा निरूपित अर्थ में ' वाम ' की व्याख्या ' अत्युत्कृष्ट ' के रूप में करने के कारण धात्वर्थ की
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
१३६ शुक्लयजुर्वेदसंहिता [ अ ० ८ उपयामगृहीतोऽसि सावित्रोऽसि चनोधाइचमांधा असि को मयि धेहि । जिन्वं य॒ज्ञं जिन्व॑ य॒ज्ञप॑ति॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे ॥ ७ ॥
सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि । हे ग्रह, त्वं सावित्रः सवितृदेवत्योऽसि । त्वं चनोधा, ' चन इत्यन्ननाम ' ( निरु ० ६ १६ ) । चनोऽन्नं धत्त इति चनोधा, अन्नस्य धारयितासि । ' अभ्यासे भूयांसमर्थं मन्यन्ते ' ( निरु ० १० १४२ ) इति रीत्या अभ्यासात् त्वमतिशयेनान्नस्य धारयितासि, अतश्चनोऽन्नं मयि धेहि स्थापय । जिन्व तर्पय यज्ञम् जिन्व तर्पय यज्ञपतिं यजमानम् जिन्वतेः प्रीतिकर्मत्वात् । भगाय यज्ञफलाय देवाय सवित्रे त्वा त्वां गृह्णामीति शेषः । यद्वा भगाय भगवते, अर्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः, ऐश्वर्यादिषड्भगयुक्ताय सवित्रे प्राणिनां प्रसवकर्त्रे देवाय त्वां गृह्णामि । ' ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः प्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ' ( वि ० पु ० ६।५।७४ ) इति षट्संख्याका भगाः प्रसिद्धाः । तं गृहीत्वा न सादयति ' ( श ० ४ | ४ | २ | ७ ) इति न सादयति नानुवषटकरोति, नेन्मनोऽग्नौ प्रवृणजानि नेत्प्राणमग्नौ प्रवृणजानोति । पूर्वमेतत् स्पष्टम् । अध्यात्मपक्षे हे सोम साम्बसदाशिव, त्वं भक्तैरुपयामगृहीतोऽसि प्रेम्णा वशीकृतोऽसि । सावित्रः सवितुः परमेश्वरस्यायं सावित्रः परमेश्वरस्य सोपाधिकस्य निरुपाधिक स्वरूपोऽसि । त्वं चनोधा अभ्यासेनाति-शयेनान्नं धारयसि, अतो मयि चनोऽन्नं धेहि । हे भगवन् जिन्व यज्ञं प्रीणय | जिन्व यज्ञपतिम् भगवतैव यज्ञस्य साद्गुण्यसम्भवात् । ' यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ' इत्युक्तः, ' यत्पादपद्मस्मरणाद् यस्य नामजपादपि । न्यूनं पूर्णं भवेत् कर्म तं वन्दे साम्बमीश्वरम् ॥ ' ( शि ० म ० पु ० ६ | १२ | ६४ ) इत्युक्तेश्च । यज्ञपतेरपि भगवति यज्ञसमर्पणेनैव सिद्धि:, ' स्वकर्मणा तमभ्यर्च्य सिद्धिविन्दति मानवः ' ( भ ० गो ० १८/४६ ) इति भगवदुक्तः । असंगति होने से अनौचित्य है । शेष व्याख्या तो महीधर आदि भाष्यकारों का अनुकरण ही है ॥ ६ ॥
मन्त्रार्थ - - हे सोम, तुम उपयाम पात्र में गृहीत हो । हे सोमग्रह, तुम सविता देवता से सम्बद्ध हो । हे अन्न को धारण करने वाले, तुम प्रभृत अन्न को धारण करने वाले हो, इस कारण हमें अन्म दीजिये । आप यज्ञ और यजमान से प्रीति रखिये । हे ऐश्वर्यं आदि गुणयुक्त सबके उत्पादक! सविता देवता के निमित्त तुमको ग्रहण करता हूँ ॥ ७ ॥
भाष्यसार - ' उपयामगृहीतोऽसि ' इस कण्डिका का विनियोग पूर्वोक्त है । शतपथ ब्राह्मण के अनुसार याज्ञिक प्रक्रिया के अनुकूल व्याख्या पूर्वतः स्पष्ट है । अयात्मपक्ष में अर्थसंगति इस प्रकार है - हे साम्बसदाशिव, आप भक्तों के द्वारा प्रेम से वशीकृत हैं । सोपाधिक परमेश्वर के निरुपाधिक स्वरूप हैं । आप अतिशय रूप से अन्न को धारण करने वाले हैं, अतः मुझमें अन्न धारण कीजिये । हे भगवन्, यज्ञ को समृद्ध कीजिये तथा यजमान को भी परिपूर्ण कीजिये । पुराणोक्ति के अनुसार भगवान् के द्वारा ही यज्ञ की सद्गुणता सम्भव है । यज्ञपति कर्ता की भी सिद्धि गीता के वचन के अनुसार ( १८ | ४६ ) भगवान् के प्रति यज्ञ के समर्पण से ही होती है ।