वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 191–200
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 191–200
पृष्ठ 191
पाठ पढ़ें पाठ छिपाएँ
मं ० ७-८ ] वेदार्थ पारिजातभाष्यसहिता १३७ दयादन्दस्तु-- ' हे पुरुष, त्वया यथाहं नियमोपनियमैः संगृहीतास्मि तथा मया त्वमुपयामगृहीतोऽसि सावित्रोऽसि सविता सकलजगदुत्पादको देवता यस्य त्वं सावित्रोऽसि । चनोधा चनांस्यन्नानि दधातीति चनोधाः, अभ्यासेनाधिकार्थो ग्राह्यः सर्वेभ्योऽधिकान्नवान् असि । अतोऽन्नं मयि धेहि । तथाहमस्मि । त्वं मयि चनो हि । अहमपि त्वयि दध्याम् । त्वं यज्ञं जिन्व प्राप्नुहि जानीहि वा । जिन्वतीति गतिकर्मसु पठितम् ( निघ ० २।१४ | ८६ ), जिन्व प्रीणीहि । अहमपि जिन्वेयम् । पुरुषपालिकां स्त्रियं गृहाश्रमपालकं पुरुषं वा भगाय धनाद्याय सेवनीयाय ऐश्वर्याय देवाय दिव्याय कमनीयाय त्वां सवित्रे सन्तानोत्पादकाय सवित्रे देवाय भगाय यज्ञपत्नीं मां जिन्व । एतस्मै यज्ञपतिं त्वामहमपि जिन्वेयम् ' इति, तदपि निर्मूलम् पतिपत्न्योः सम्बोध्य-सम्बोधकयोरत्र सत्त्वे मानाभावात् । ब्राह्मणरीत्या त्वयं मन्त्रः सावित्रग्रहग्रहणे विनियुक्तः । धर्मशास्त्रदृष्ट्या योषितोऽधना भवन्ति तेन पुरुषस्य चनोधात्वेऽपि स्त्रियस्तदयोगात् । स्त्रीधनं च न पुरुषेण धीयते । न च मनुष्यः कश्चन सर्वेभ्योऽधिकधनवान् भवति, लोके धनतारतम्यस्य श्रौव्यात् । न च मनुष्यः सवितृदेवत्यः, तत्र प्रमाणाभावात् । न च यज्ञपतिशब्देन यज्ञपत्नी गृह्यते, न वा पत्नी पुरुषपालिका भवति, तथात्वे प्रमाणानु-पलम्भात् । किञ्च, नहि स्त्रीपुंसादिव्यवहारप्रतिपादने वेदः प्रवर्तते तस्य लोकगम्यत्वेन वेदाविषयत्वात्, प्रत्यक्षानुमानानधिगतार्थबोधकत्वेनैव तत्प्रामाण्यात् ॥ ७ ॥
उपया॒मगृ॑हीतोऽसि सु॒शमी॑सि सुप्रतिष्ठानो बृह॒दु॑क्षाय॒ नम॑ः । विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒ विश्वे॑भ्य॒स्त्वा दे॒वेभ्य॑ः ॥ ८ ॥
' अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतोऽसि सुशर्मासीति ' ( का ० श्रौ ० १०/६/२ ) | अभक्षितेनैव सावित्रात्रेण पूतभृतः सकाशान्महावैश्वदेवग्रहं गृह्णीयादध्वर्युः । हे वैश्वदेव ग्रह, त्वमुपयामेन गृहीतोऽसि । गृहमाश्रयो वा । त्वं सुशर्मासि शोभनं शर्म सुखं यस्य तादृशोऽसि । सुप्रतिष्ठानोऽसि सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्य सोऽसि महत्साधन सम्पन्नः, ' प्राणो वै सुशर्मा सुप्रतिष्ठान: ' इति श्रुतेः । प्राणहेतुत्वात् प्राण इत्युच्यते ।. अन्नं वै ग्रहोऽन्नं प्राणहेतु:, तस्माद् बृहदुक्षाय बृहन् महांश्चासौ उक्षा सेक्ता बृहदुक्ष:, ' प्रजापतिर्वै बृहदुक्ष: ' इति स्वामी दयानन्द द्वारा वर्णित अर्थ में पति - पत्नी की सम्बोध्य तथा सम्बोधक के रूप में कल्पना करने में कोई प्रमाण न होने के कारण अप्रामाणिकता है । ब्राह्मण ग्रन्थों की रीति से तो यह मन्त्र सावित्र ग्रह के ग्रहण में विनियुक्त है । धर्मशास्त्र की दृष्टि से स्त्रियाँ ' अघन ' कही गई हैं । अतः पुरुष के ' चनोधा ' होने पर भी स्त्रियों में यह युक्त नहीं होता । स्त्रीधन भी पुरुष के द्वारा नहीं रखा जाता । मनुष्य सवितृदेवताक नहीं है, क्योंकि ऐसा कोई प्रमाण नहीं है । यज्ञपति शब्द से ' यज्ञपत्नी ' का ग्रहण नहीं होता अथवा पत्नी पुरुष की पालिका भी नहीं होती, क्योंकि इस कथन में कोई प्रमाण नहीं है | फिर वेद स्त्रीपुरुष आदि का व्यवहार प्रतिपादित करने में प्रवृत्त नहीं होता, क्योंकि वह व्यवहार तो लोकगम्य होने के कारण वेद का विषय नहीं है । प्रत्यक्ष तथा अनुमान के द्वारा अज्ञात अर्थ का बोधन कराने के कारण हो वेद का प्रामाण्य है ॥ ७ ॥
मन्त्रार्थ हे महावैश्वदेव ग्रह, तुम उपयाम पात्र में गृहीत हो, श्रेष्ठ कल्याण की खान इस पवित्र पात्र में यह अन्न स्थित है । विश्वेदेव देवताओं की प्रीति के निमित्त तुमको उपयाम पात्र में ग्रहण करता हूँ । हे महावैश्वदेव ग्रह, यह तुम्हारा स्थान है । विश्वेदेव देवताओं की प्रीति के निमित्त तुमको इस स्थान में स्थापित करता हूँ ॥ ८ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( १०/६/२ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' उपयामगृहीतोऽसि १८
पृष्ठ 192
पाठ पढ़ें पाठ छिपाएँ
१३८ शुक्लयजुर्वेदसंहिता [ अ ० ८ गृह्णामीति शेषः । नम श्रुतेः । तादृशाय जगदुत्पादयित्रे विश्वेदेवात्मकाय प्रजापतये नमः, सोमांख्यमन्नं इत्यन्ननाम । विश्वेभ्यो देवेभ्योऽर्थाय । ग्रहं गृह्णाति अत्र ब्राह्मणम् – ' अथाभक्षितेन पात्रेण । वैश्वदेवं ग्रहं गृह्णाति तद्यदभक्षितेन वैश्वदेवेनैवानुवषट्कृतो पात्रेग वैश्वदेवं भवति ' न वै सावित्रस्यानुवषट्करोत्येतस्माद्वै वैश्वदेवं ग्रहं ग्रहीष्यन् भवति तदस्य , एवं वैश्वदेवं च शस्त्रं भवति । ' यद्वेव ( श ० ४ | ४ | १ | ८ ) । महावैश्वदेवग्रह उच्यते । यस्यार्भवः पवमानस्तोत्रम् हरमनुवर्त्म करोति " वैश्वदेवं ग्रहं गृह्णाति । मनो ह वा अस्य सविता सर्वमिदं विश्वेदेवा इदमेवैतत्कृतानु विश्वेदेवा इति । ' यद्वेव वैश्वदेवं ग्रहं ( श ० ४ | ४ | १ | ९ ) । सर्वस्य विश्वेदेवात्मकप्रजापतिकार्यत्वात् सर्वमिदं प्राणापानौ दधाति ' ( श ० गृह्णाति । प्राणो ह वा अस्य सविता सर्वमिदं विश्वेदेवा अस्मिन्नेवैतत्सर्वस्मिन् तदुच्यत एव सामतो ४।४।१।१० ) । स्पष्टार्थकं ब्राह्मणम् । ' यद्वेव वैश्वदेवं ग्रहं गृह्णाति । वैश्वदेवं वै तृतीयसवनं ' ( ० ४ । ४ । १।११ ) । यस्माद्वैश्वं तृतीयसवनमुच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं महावैश्वदेवं स्तूयन्ते, ऋक्तो गृह्णति विश्वेदेवाः शस्यन्ते । वैश्वदेवग्रहग्रहणं तृतीयसवनमुच्यते । एवं सामतो विश्वे हि देवा: पुरश्चरणं अथैतेनैव कारणेन यजुष्टो यजुःषु पुरश्चरन्ति प्रचरन्ति प्रथमतरमस्य सामभ्यश्चरन्त्येभिरिति गृह्णाति । ' तं वै पूतभृतो यजूंषि, तत्राप्येतेनैव कारणेन वैश्वदेवं तृतीयसवनं पर्यवस्यति । एतं महावैश्वदेवं ग्रहं पूतभृत् ' ( श ० गृह्णाति । वैश्वदेवो वा पूतभृदतो हि देवेभ्य उन्नयन्त्यतो मनुष्योऽतः पितृभ्यस्तस्माद्वैश्वदेवः । चमसानां पूतभृत ४।४।१।१२ ) । तं वै पूतभृतो गृह्णन्ति । वैश्वदेवो हि वै पूतभृत् । अतो देवेभ्य उन्नयन्ति पूतभृतो दर्शयति, अतः उन्नयनं दर्शयत्यनादिष्टानां च । अतो मनुष्येभ्यो भक्षितानां पुनर्भक्षणार्थमेवायं तदाप्यायनं पितृभ्योऽप्युन्नयन्ति पितृभ्य इति । एवाप्यायितानां शंसिताश्चमसाः पितृदेवत्या भवन्ति । ततश्च पूतभृत इति दर्शयति । यचो यद्यजूंषि ' तं वा अपुरोरुक्कं गृह्णाति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति सर्वं भवति वै विश्वेदेवा तस्मादपुरोरुक्कं गृह्णाति ' यत्सामानि स यदेवैनं विश्वेभ्यो देवेभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्मान् । ततश्च विश्वेभ्यो देवेभ्यो गृह्यमाण-( श ० ४ । ४ । १ । १३ ) । विश्वेषामेव देवानामृगादीनि शब्दमयानि शरीराणि तत्र पुरोरुचेत्यर्थः । ' अथातो गृह्णात्येव । स्तदन्तर्गततया पुरोरुचा युक्त एव भवति । अतः पितृभ्य इत्युक्ते प्रजापतये किं नम इत्येवैतदाह विश्वेभ्यस्त्वा देवेभ्य एष ते उपयामगृहीतोऽसि ' बृहदुक्षाय नम इति प्रजापतिर्वै बृहदुक्षः प्रापविशति ' ( श ० ४ । ४ । १।१४ ) । योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णात्यथेत्य । सु शोभनं प्रतिष्ठानं विश्वेदेवा अस्येति स एष ग्रहः प्राणस्यान्नमिति कृत्वा प्राण इत्युच्यते । स एव सुशर्मा । स यत्रता होता शसति ' ( श ० एतदन्नं हि प्रजानां भवति । अथेत्य प्रापविशति वैश्वदेवशस्त्रप्रतिगरम् शस्यमानायां द्विदेवत्यानि ४ | ४ | १ | १५ ) 1 यत्र काले होता शंसति, तस्मिन्नेव काले एतस्यां वायुदेवत्यायामृचि । ' वायुप्रणेत्रा वै पशवः प्राणो वै वायुः पात्राणि विमुच्यन्ते प्रक्षाल्य खरे निधीयन्ते । एष हि तेषां विमोकः स ह देवेभ्य इति । ' स ह देवेभ्यः प्राणेन हि पशवश्चरन्ति ' ( श ० ४ | ४ | १ | १५ ) | आख्यायिकया प्रशंसति तं माध्यन्दिने सवनेऽन्वमन्त्रयन्त स ह पशुभिरपचक्राम । तं देवाः प्रातः सवनेऽन्वमन्त्रयन्त स नोपाववर्त । यद्व उपावर्तेय किं मे ततः नैवोपाववर्त तं तृतीयसवनेऽन्वमन्त्रयन्त ' ( श ० ४ | ४ | १ | १६ ), ' स होपावर्त्स्यन्नुवाच युज्यन्ते यदैन्द्रवायवाग्रान् प्रातः-स्यादिति त्वयैवैतानि पात्राणि युज्येरंस्त्वया विमुच्येरन्निति तदेनेनैतत्पात्राणि ' ' ' ' ( श ० ४ । ४ । १।१७ ) । सवने गृह्णात्यथैनेनैतत्पात्राणि विमुच्यन्ते यदाह नियुद्भिर्वायविह ता विमुति द्वारा करता है । शतपथ ब्राह्मण में याज्ञिक सुशर्मासि ' इस मन्त्र से अध्वर्यु महावैश्वदेव ग्रह का ग्रहण सावित्र ग्रहपात्र के प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।
पृष्ठ 193
पाठ पढ़ें पाठ छिपाएँ
म ० ८ - ९ ] वेदार्थपारिजातभाष्यसहिता १३ ९ अध्यात्मपक्षे - हे सोम, उपयामगृहीतोऽसि भक्त्या वशीकृतोऽसि । सुशर्मासि भक्तानां शोभनाश्रयभूतोऽसि । सुप्रतिष्ठानोऽसि शोभनं प्रतिष्ठानं कैलासादिकं यस्य स सुप्रतिष्ठानः । तस्मै बृहदुक्षाय प्रजापतिरूपाय तुभ्यं नमः प्रभावोऽस्तु । एष भक्तानां हृदयसमूहस्ते योनिर्गृहम् । विश्वेभ्यो देवेभ्यो हिताय त्वामाश्रयामः । तदर्थमेव त्वामासादयामः स्थापयामः । दयानन्दस्तु – ' हे पते, अहं यस्त्वमुपयामगृहीतोऽसि सुप्रतिष्ठानः सुशर्मासि, तस्मै बृहदुक्षाय तुभ्यं नमोऽस्तु । सुसंस्कृतं हृद्यमन्नमुचितसमये ददामि । यथाहं यस्य ते तवैष योनिः प्रासादोऽस्ति, तं त्वां विश्वेभ्यो देवेभ्यः सेवे, विश्वेभ्यो देवेभ्यो नियुनज्मि, तथा त्वं विश्वेभ्यो देवेभ्यो मां नियुङग्धि ' इति, तदपि यत्किश्चित् निष्प्रमाणत्वात् । विश्वेभ्यो देवेभ्यो नियुनज्मीत्यस्य को वाऽर्थः? कथं हि स्त्री पति विश्वेभ्यो देवेभ्यो नियोक्ष्यति कथं च पतिस्तां नियोक्ष्यति? निमिदं दयानन्दीयनियोगस्य मूलम्? ' त्वं बृहदुक्षा अत्यन्तवीर्य -प्रदाता, तं त्वा दिव्यसुखेभ्यः सेवे ' इति तु त्वदीयं मानसं भावमभिव्यनक्ति, किं त्वदीये वेदे इदमेव वर्णितम् ॥ ८ ॥
उपयामगृहीतोऽसि॒ बृहस्पतिसुतस्य देव सोम त॒ इन्द्रो॑रिन्द्रि॒याव॑त॒ पत्नी॑वतो ग्रहाँ २ ॥ ऋद्ध्यासम् ॥ अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षि॒ तद॑ मे पि॒ताभ॑त् ॥ अ॒ ं सूर्य॑मु॒भ॒यतो॑ दश॒हिं दे॒वाना॑म्पर॒मं गुहा यत् ॥ ९ ॥
' उपयामगृहीतोऽसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पालीवतं गृह्णाति ' ( का ० श्र ० १० ६ १५ ) । स चोपांशुपात्रेणान्तर्यामपात्रेण वा परिप्लवयाप्रयणात् पात्नीवतं ग्रहं गृह्णाति । उपांशुपात्रेण पात्नीवतमाग्रयणाद् गृह्णाति ' ( सत्या ० श्र ० ९ ४ ) इति सूत्रात् । सोमदेवत्यम् । हे सोमदेव, त्वमुपयामगृहीतोऽसि । इन्दोरिन्द्रियावतो वीर्यवतः पत्नीवतः पत्नीसंयुक्तस्य ते तव सम्बन्धिनो ग्रहानन्यानुपांशुप्रभृतीन् ऋद्धघासं समर्धयेयम् । अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है - हे साम्बसदाशिव, आप भक्ति के द्वारा वशीकृत हैं, भक्तों के सुन्दर, शुभ आश्रय रूप हैं । कैलास आदि शुभ प्रतिष्ठानों से युक्त हैं । ऐसे प्रजापतिरूपी आपके लिये प्रणाम हो । भक्तों का यह हृदयसमूह ही आपका निवास है । समस्त देवों के हितार्थं हम आपकी शरण लेते हैं । एतदर्थं ही आपकी प्रतिष्ठापना करते हैं । स्वामी दयानन्द द्वारा निरूपित अर्थ अप्रामाणिक होने के कारण अग्राह्य है । ' विश्वेदेवों के लिये नियुक्त करता हूँ ' इसका क्या अर्थ है? विश्वेदेवों के लिये स्त्री पति को तथा पति स्त्री को कैसे नियुक्त करेंगे? क्या यह नियोग है? उस मत में ' तुम अत्यन्त वीर्यप्रदाता हो ' इत्यादि ही क्या वेद में वर्णित है? ॥ ८ ॥
मन्त्रार्थ हे दीप्यमान देव सोम, तुम उपयाम पात्र में गृहीत हो, इस कारण यज्ञ करने वाले यजमान से अभि g त तुम्हारे रसयुक्त वीयं से पत्नी संयुक्त मैं तुम्हारे अनुग्रह से अन्यान्य उपांशु आदि ग्रहों को पूर्ण करता हूँ । मैं ही नीचे भूलोक में स्थित हूँ । जो मध्यवर्ती लोक है, वह भी मुझ बेहधारी का पिता के समान पालक है । मैं परम रूप हुआ ऊपर और नीचे स्थित होकर सूर्य को देखता हूँ । देवताओं का अत्यन्त गोप्य हृदय मैं ही हूँ ॥ ९ ॥
-- ' उपयामगृहीतोऽसि ' इस कण्डिका के मन्त्रों से प्रतिप्रस्थाता द्वारा पात्नीवत ग्रह का ग्रहण तथा अध्वर्यु भाष्यसार ---- '
पृष्ठ 194
पाठ पढ़ें पाठ छिपाएँ
१४० शुक्लयजुर्वेदसंहिता [ अ ० ८ कीदृशस्य ते? बृहस्पतिसुतस्य बृहतो महतो यज्ञकर्मणः पतिः पालयिता यजमानस्तेन सुतस्याभिषुतस्य यद्वा बृहस्पतयो ब्राह्मणा ऋत्विजस्तैरभिषुतस्य यद्वा बृहस्पतिसुतस्य ब्रह्मप्रसूतस्येत्यर्थः, ‘ ब्रह्म वै बृहस्पतिः ’ ( ० ११ | ४ | ३ | १३ ) इति ब्राह्मणोक्तेः । इन्दोः, उनत्तीतीन्दुस्तस्य, ' उन्दी क्लेदने ', क्लेदनरूपस्य, रसरूपस्येत्यर्थः । इन्द्रियावतः इन्द्रियं वीर्यमस्यास्तीतीन्द्रियवान्, संहितायां दीर्घः, इन्द्रियावान्, तस्य । ' इन्द्रियावतो वीर्यवत इत्येवैतदाह ' ( श ० ४ | ४ | १ | १२ ) इति हि श्रुतिः । तथा पत्नीवतः पत्नीयुक्तस्य तादृशस्य ते सम्बन्धिनोऽन्यान् ग्रहान् ऋद्ध्यासं समर्धयेयमिति सम्बन्धः । ' प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति ' ( का ० श्र ० १० ६ १६ ) | प्रचरणीशिष्टेनाज्येन पात्नीवतग्रहगतसोमं मिश्रयेद् अहं परस्तादिति मन्त्रेणाध्वर्युः । प्रजापतिरूपात्मदेवत्या त्रिष्टुप् । मन्त्रद्रष्टा स्वस्य सर्वगतब्रह्मरूपत्वाभिप्रायेण वदति - अहं परमात्मरूपः सन् परस्ताद् उपरितनद्युलोकादौ तिष्ठामीति शेषः । यदन्तरिक्षं मध्यवर्तिलोकरूपमस्ति, तदुत तदेव मे देहधारिणः पिता पाता सवितृवत् प्रतिपालको बभूव । अहं ब्रह्मरूपः सन् उभयत उपरिष्टादधस्ताच्च स्थित्वा सूयं ददर्श दृष्टवानस्मि । सूर्यस्य मम शिर इत्यभिप्रायः । यद्वस्तु देवानामिन्द्रादीनां हृदये परमं गुहा अत्यन्त गोप्यमस्ति तदेवाहमस्मि । ' सौम्येन चरुणा प्रचरति ' ( श ० ४ ४ | २ | १ ) इति श्रुतौ सौम्यस्य चरोः सोपपत्तिकं प्रचरणविधानम् । सौम्यस्य चरोर्देवपित्रोरुभयोर्हविष्ट्वमुक्त्वा तन्निमित्तककलहनिवारणाय तस्य वैश्वदेव्यं तृतीयसवनेऽनुवाक्याव प्रचरणविधानं प्राक् पश्चादुभयतोऽन्यतरतो वाज्येन परियजनसहितस्य सघर्मकस्य सौम्यस्य चरो-विधानम् -'अथ प्रचरणीति स्रुग् भवति ' ( श ० ४ ४ २७ ) इत्यादि । तत्र पूर्वं प्रचरण्यां स्रुचा चतुर्गृहीतमाज्यं गृहीत्वाऽध्वर्योः शालाकैर्यथोपकीणं यथापूर्वं धिष्ण्यानां व्याघारणविधानम्, तदैव प्रतिप्रस्थातुः पात्नीवतग्रहस्य ग्रह्णविधानम् । तत्साधनत्वेन यदि सावित्री ग्रह उपांशुग्रहेण गृहीतश्चेदस्यान्तर्यामपात्रेण ग्रहणम् । यदि सावित्रो ग्रहोऽन्तर्यामपात्रेण गृहीतस्तदास्य पात्नीवतो ग्रहस्योपांशुपात्रेण ग्रहणमिति व्यवस्थितविभाषया पात्रस्य विधानम् । तदपि ग्रहणमपुरोरुक्कतया कर्तव्यम् । विहितग्रहणमनूद्य प्रचरणीशेषेणाज्येन पात्नीवत-ग्रहस्य श्रपणकरणम् । प्रसङ्गात् स्त्रीणां पित्र्यस्य धनस्य वा षड्विधस्य स्त्रीधनस्य दायस्यानीश्वरत्वोपवर्णनम् । तद्यथा -- ' तं वा उपाशुपात्रेण गृह्णाति । यदि सावित्रमुपाशुपात्रेण गृह्णीयादन्तर्यामपात्रेणैतं यदि सावित्रमन्तर्यामपात्रेण गृह्णीयादुपाशुपात्रेणैत समान ह्येतद्यदुपांश्वन्तर्यामी प्राणो हि यो वै प्राणः स उदानो वृषा वै प्राणो योषा पत्नी मिथुनमेवैतत् प्रजननं क्रियते ' ( श ० ४ | ४ | १२ | १० ), ' तं वा अपुरोरुक्कं गृह्णाति । वीर्यं वै पुरोरुङ नेत् स्त्रीषु वीर्यं दधानीति तस्मादपुरोरुक्कं गृह्णाति ' ( श ० ४ | ४ | २ | ११ ) । सोमः पत्नीवान्, एवं परोक्षं पत्नीभ्यो गृह्णाति । देवपत्नीषु किल देवैस्तुल्याः सुकृतास्तदनुकरणान्मानुष्योऽपि स्त्रियो वीर्यवत्यः कृताः स्युः तच्चायुक्तम्, व्यवहारस्यानव क्लृप्तेरित्यभिप्रायः । ' अथातो गृह्णात्येव । उपयाम-गृहीतोऽसि बृहस्पतिसुतस्य देव सोम त इति ब्रह्म वै बृहस्पतिर्ब्रह्म प्रसूतस्य देव सोम त इत्येवैतदाहेन्दोरिन्द्रियावत इति वीर्यवत इत्येवैतदाह यदाहेन्दोरिन्द्रियावत इति पत्नीवतो ग्रहाँ २ ॥ ऋद्धासमिति न सम्प्रति पत्नीभ्यो गृह्णाति नेत् स्त्रीषु वीर्यं दधानीति तस्मान्न सम्प्रति पत्नीभ्यो गृह्णाति ' ( श ० ४ | ४ | २ | १२ ) । बृहस्पतिसुतस्य ब्रह्मप्रसूतस्य इन्द्रियावतो वीर्यवतः, न पत्नीभ्यः स्वातन्त्र्येण ग्रहान् गृह्णाति । अन्यथा तास्वपि वीर्यवत्त्वं स्यात्, तस्मान्न ताभ्यो गृह्णाति । ' अथ यः प्रचरण्या सस्रवः परिशिष्टो भवति । तेनैन १७ श्रीणाति समर्धयति वा अन्यान् ग्रहांञ्छन्नथैतं व्यर्धयति वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येनाघ्नन्नेव पत्नीर्निराक्ष्णुवं-द्वारा घृत से सोम के मिश्रण की विधियाँ अनुष्ठित की जाती हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र
पृष्ठ 195
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ] वेदार्थ पारिजात भाष्यसहिता १४१ स्ता हता निरष्टा नात्मनश्च नैशत न दायस्य चनैशत तथो एवैष एतेन वज्रेणाज्येन हन्त्येव पत्नीनिरक्ष्णोति ता हता निरष्टा नात्मनश्चनेशत न दायस्य चनेशते ' ( श ० ४ । ४ । २ । १३ ) । अथ यः प्रचरणीशेषेणैव पात्नीवतं श्रीणाति एतेन चाज्येन देवाः पत्नी हतवन्तस्ताडितवन्तः, ताडयित्वा निराक्ष्णुवन् ऐश्वर्यान्निर्भक्तवन्तः । ' अक्षु व्याप्तौ ' इति भौवादिकस्य व्यत्ययेन श्नुविकरणः | पत्न्यो हता वाग्वज्रेण निरष्टा ऐश्वर्याद् बहिर्भूताः सत्य आत्मनोऽपि स्वशरीरस्यापि न ईशितवत्यः, ' न स्त्री स्वातन्त्र्यमर्हति ' ( मनु ० ९ ३ ) इति स्मृतेः । न दायस्य चन अपि पित्र्यस्य ईशते । स्त्रीधनं वा षड्विधं रायस्तस्यापि नैवेशत इति । तदनुकारेणायमध्वर्युस्तथैव करोति, स्त्रियश्चाद्यापि नेशते । ' स श्रीणाति । अहं परस्तात् देवतानां परमं गुहा यदिति स यदहमहमिति श्रीणाति पुस्वेवैतद्वीयं दधाति ' ( श ० ४।४।२।१४ ) | अध्वर्युः किल पुमांसं वा तमुच्चारयन् पुंस्त्वसामान्यात् सर्वेष्वेव सर्वं दधाति, येन स्वतन्त्रा पुमांसः सर्वस्येशते । अध्यात्मपक्षे - हे सोम, साम्ब सदाशिव! हे देव क्रीडापरायण, त्वमुपयामगृहीतोऽसि भक्त्या वशी-कृतोऽसि । बृहस्पतिसुतस्य ब्रह्मप्रसूतस्य, ' ब्रह्म वै बृहस्पतिः ' इति श्रुतेः । हे ब्रह्मपुत्र, रुद्ररूपेणावतीर्णस्य ते इन्दोः सोमवत्प्रियदर्शनस्य, इन्द्रियावतो वीर्यवतोऽनन्तब्रह्माण्डनिर्माणक्षमस्य, पत्नीवतः पत्नी राजराजेश्वरी उमा प्रशस्ता लोकोत्तरा जाया यस्य तस्य ग्रहान् इन्द्रियलक्षणान्, ' अष्टौ ग्रहा अष्टा अतिग्रहाः ' इति श्रुतेः । प्राप्येति शेषः । त्वदिन्द्रियगोचरतां प्राप्य ऋद्धयासं वर्धिषीय समर्धयेयम् । भगवत्कृपया विगलिततमोरजोमलः कृतात्मसाक्षात्कारः प्रकटयति-- अहं परब्रह्मस्वरूपेण जगतः परस्तात् तथैवाधस्तादहमस्मीति । यदन्तरिक्षं मध्यवर्तिलोकरूपमस्ति, तदु तदेव मे देहधारिणो मम पिता पितृपालकमभूद् भवति । अहं परमात्मरूपः सन्नुपरिष्टादधस्ताच्च स्थित्वा सूर्यं ददर्श पश्यामि । देवानामिन्द्रादीनां यत् परमं गुहा गुहायामत्यन्तं गोप्ये हृदयेऽस्ति तदेवाहमस्मीति पूर्ववदेव व्याख्येयम् । दयानन्दस्तु --- ' हे सोमदेव, यस्त्वं मया कुमार्योपयामगृहीतोऽसि तस्येन्दोरिन्द्रियावतः पत्नीवतः प्रशस्त जायावतः बृहस्पतिसुतस्य बृहत्या देववाण्याः पालकस्य पुत्रस्य ते तव गृहान् प्राप्याहं परस्ताद् उत्तर-स्माद् अहम् अवस्ताद् अर्वाचीनात् समयाद् ऋद्ध्यासं वर्द्धिषीय । यद् देवानां गुहास्थितमन्तरिक्षं विज्ञानम्, ( १०/६/१५ - १६ ) तथा सत्याषाढ श्रौतसूत्र ( ९ १४ ) में प्रतिपादित है । याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थं शतपथ ब्राह्मण में उपदिष्ट है । अध्यात्मपक्ष में असंगति इस प्रकार है है साम्बसदाशिव, हे जगत्त्रीडापरायण, आप भक्ति के द्वारा वशीकृत हैं । ब्रह्मप्रसूत, रुद्ररूप से अवतरित चन्द्रमा की भाँति सुन्दर, मनोहर, बलशाली, अनन्त ब्रह्माण्डों के निर्माण में सक्षम, राजराजेश्वरी भगवती उमारूपिणी प्रशस्त लोकोत्तर पत्नी से संयुक्त आपके इन्द्रियात्मक ग्रहों को प्राप्त करके, अर्थात् आपके इन्द्रियगोचरत्व ( दृष्टिपात के अनुग्रह ) को प्राप्त करके मैं परिवर्धित, समृद्ध होऊँ । भगवान् की कृपा से तमो-रजोल से शून्य होकर आत्मसाक्षात्कार को सम्पन्न करने वाला कहता है कि परब्रह्म स्वरूप से जगत् के ऊर्ध्व भाग तथा उसी प्रकार अघो भाग में भी हूँ । जो अन्तरिक्ष मध्यवर्ती लोक के रूप में है, वही देहधारी मेरा पिता, पालक है । मैं परमात्मस्वरूप होता हुआ ऊर्ध्व तथा अधो भागों में स्थित होकर सूर्य को देखता हूँ । इन्द्र आदि देवों के अत्यन्त गोप्य हृदय में जो है, वह मैं ही हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ प्रकरण से विरुद्ध तथा लिये बृहस्पतिपुत्र आदि विशेषण संगत नहीं है । कुमारियाँ पत्नी से श्रुति एवं सूत्र से विरुद्ध है । सामान्य पति के युक्त पुरुष के घर जाने की अभिलाषा भी नहीं
पृष्ठ 196
पाठ पढ़ें पाठ छिपाएँ
१४२ शुक्लयजुर्वेदसंहिता [ अ ०८ गुह्यन्ते संब्रियन्ते सकला विद्या यया बुद्धद्या तस्याम्, गुहा, ' सुपां सुलुक् ' ( पा ० सू ०७ । १ । ३ ९ ) इति विभक्तेर्लुकि, । स्थितम्, अन्तरिक्षम् अन्तरक्षयम्, अन्तः अन्तःकरणे क्षयरहितं विज्ञानमन्वेमि तत्त्वमपि प्राप्नुहि य उ मे मम पिता पालयिता अध्यापको वा विद्वानभूत्, तत्सकाशात् पूर्णां विद्यां प्राप्याहं यं परमं सूर्यं, चराचरात्मानमीश्वरमुभयतः पूर्वापरभावतो ददर्श तं त्वमपि पश्य ' इति, तदपि प्रकरणविरुद्धमेव । न च पत्नीवतः पुरुषस्य गृहान् श्रुतिसूत्रविरुद्धं च पतिसामान्यस्य बृहस्पतिसुतादिविशेषणानुपपत्तेः गन्तुमिच्छन्ति कुमार्यः । अन्तरिक्षपदस्य विज्ञानार्थकत्वे किं मूलम्? न चान्तःकरणस्य विज्ञानमक्षयं भवति, अन्तःकरणपरिणामभूतस्य ज्ञानस्य कार्यत्वेन क्षयिष्णुत्वात् ॥ ९ ॥
अग्ना ३॥ इ पत्नी॑वन् स॒जूदे॑वेन॒ त्वष्टा॒ सोम॑म्पिब॒ स्वाहा॑ । प्र॒जाप॑ति॒र्वृषा॑सि रेतो॒धा रेतो मयि॑ धेहि प्र॒जाप॑त॒स्ते॒ वृष्ण रेतोधस रेतोवाम॑शीय ॥ १० ॥
' अना ३ || इपत्नीवन्नित्युत्तरार्धे जुहोतीति पात्नीवतं ग्रह्मग्नेस्त्तरभागे जुहोति ' ( का ० श्र ० १०।६।१८ ) । पात्नीवतं ग्रहमाहवनीयस्याग्नेरुत्तरार्धेऽध्वर्युर्जुहुयात्, अग्ना ३ || इ पत्नीवन्निति मन्त्रेण | ' एचोऽप्रगृह स्यादूराद्भूते ' ( पा ० सू ० ८ २ १०७ ) इति ' अग्ने ' इत्येकारस्य ' आइ ' इत्यादेशः, आकारस्य प्लुतत्वम् । हे अग्ने पत्नीवन्, पत्नी अस्त्यस्येति पत्नीवान् तत्सम्बुद्धी, हे पत्नीयुक्त! त्वा देवेन सः समानप्रीतिः सन् सोमं पिब | स्वाहा सुहुतमस्तु | ' पत्नी सदः प्रवेश्यापरेणोत्तरत उपविष्टामुद्गात्रा समीक्षयति प्रजापतिर्वृषासीति ' ( का ० श्रौ ० १०।७।३ ) । नेष्टा पत्नीमपरद्वारेण सदः प्रवेश्य उद्गातृणामुत्तरत उपविष्टामुद्गातारं पश्येति प्रेष्य समीक्षयति, सा च तमुद्गातारं पश्येत् प्रजापतिरिति मन्त्रेण । हे उद्गातः प्रजापतिः प्रजानां पालकस्त्वं वृषासि सेक्ता भवसि । रेतोधा रेतसो वीर्यस्य धारयिता चासि । एवं गुणयुक्तस्त्वं रेतो वीयं मयि धेहि स्थापय ॥ तदनन्तरं वृष्णो वीर्यस्य सेक्तू रेतोधसो शुभसङ्कल्पद्वारा मदीयपतिकर्तृकं रेतोनिधानं सम्पादयेत्यर्थः रेतो धारयितुः प्रजापतेस्तेऽनुग्रहाद् रेतोधां रेतसो धारयितारं प्रजोत्पादनसमर्थं पुत्रमशीय प्राप्नुयाम् । अश्नोतेर्व्यत्ययेनादादित्वं लिङयुत्तमैकवचने रूपम् । अत्रोद्गातरि प्रजापतित्वमारोप्य तथोक्तिः, ' प्रजापतिर्वा उद्गाता ' इति श्रुतेः । प्रजापतिः सर्वप्रजानां पतिः पालकः । तत्तत्पतिद्वारा स एव सर्वासु योनिषु सेक्ता । तस्मात्तदनुग्रहादेव सर्वस्याभीष्टपुत्रलाभः, ' सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ' ( भ ० गी ० १४ । ४ ) इति गीतोक्तेः । अत्र ब्राह्मणम् -'अथाहाग्नीत् पात्नीवतस्य यजेति । वृषा वा अग्नीद् योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते स जुहोत्यग्ना ३ || इ पत्नीवन्निति वृषा वा अग्निर्दोषा पत्नी मिथुनमेवैतत्प्रजननं प्रजननं क्रियते ' करतीं । अन्तरिक्ष शब्द का विज्ञान अर्थ मानने में क्या प्रमाण है? फिर अन्तःकरण का विज्ञान अक्षय नहीं होता, क्योंकि अन्तःकरण का परिणामभूत ज्ञान कार्य होने के कारण क्षयिष्णु है ॥ ९ ॥
मन्त्रार्थ - हे पत्नीवत् अग्ने, आप स्वश देवता के साथ सोम का पान कर इस आहृति को भली प्रकार ग्रहण करें । हे उद्गातः प्रजाओं के पालक, सिंचन में समर्थ, वीर्य को धारण करने वाले प्रजापति! आपके अनुग्रह से प्रजा के उत्पादन में समर्थ वीर्यवान् पुत्र को मैं प्राप्त करूँ ॥ १० ॥
भाष्यसार कात्यायन श्रौतसूत्र ( १ ९ / ६ / १८ - २०, १०।७।३ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार
पृष्ठ 197
पाठ पढ़ें पाठ छिपाएँ
म ० १० ] वेदार्थपारिजात भाष्यसहिता १४३ ( श ० ४।४।२।१५ ) । प्रतिप्रस्थातुर्हस्तादादायाध्वर्युरग्नीश्रमाह । अग्नीत् पात्नीवतस्य यजेत्याश्रावणमप्यत्र द्रव्यम्, प्रैषाङ्गत्वात् । पुरोवाचनप्रभृतिस्तुतशस्त्रं च तस्याप्यङ्गत्वात् । मिथुनसम्पत्या तत्प्रशंसति--वृषा वा इति । ' सजुर्देवेन त्वट्रेति । त्वष्टा वै सिक्त रेतो विकरोति तदेष एवैतत् सिक्त ७ रेतो विकरोति सोमं पिब स्वाहेत्युत्तरार्धे जुहोति या इतरा आहुतयस्ते देवा अथैताः पत्न्य एवमित्र हि मिथुनं क्लृप्तमुत्तरतो हि स्त्री पुमा समुपशेत आहारत्यध्वर्युरग्नीधे भक्ष स आहाध्वर्य उप माह्वयस्वेति तं न प्रत्युपह्वयेत् कोहि तस्य निरष्टस्य प्रत्युपहवस्तं वै प्रत्येवोपह्वयेत ' ( श ० ४ | ४ | २ | १६ ) । जुहोत्यन्तं स्पष्टम् | या इतरा उपांश्वाज्याहुतयस्ते देवाः, देवान्नत्वाद् देवास्तद्वन्तः । अथैताः पत्न्यः, पत्नीदेवत्यत्वात् पात्नीवतस्येति । पत्नीनां चोत्तरतः स्थानमतस्तदन्तर्गताया अप्याहुतेरुत्तरत एवं स्थानं युक्तमित्यर्थः । आहरत्यध्वर्युरिति प्रतिप्रस्थातृशङ्कानिवृत्त्यर्थमध्वर्युग्रहणम् । को हि हतस्येत्यनादरप्रकाशनार्थम् । एवं हि पत्न्यः सुतरामवीर्याः कृता भवन्ति । तत्र प्रत्युपह्वयेत उपह्वय इत्येव नु जानीतेत्यर्थः । किं कारणम्? यस्माज्जुहोति । अस्यैकदेशेऽग्नौ वषट् कुर्वन्ति । ' अथ सम्प्रेष्यति । अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्यापयोन्नेतर्होतुश्चमसमनून्नय सोमं माऽतिरिच इति यद्यग्निष्टोमः स्यात् ' ( श ० ४।४।२।१७ ) । हे अग्नीत्, नेष्टुरुपस्थमासीद । हे नेष्टः, पत्नीमुदानयोद्गात्रा संख्यापय । हे उन्नेतः, होतुश्चमसमनु सर्वाश्चमसाननून्नय । सोमं माइतिरीरिचः सर्वमेव पूतभृतः सोममुन्नयन्ति, यद्यग्निष्टोमसंस्थाक्रतुः स्यात् । ' यद्युक्थ्यः स्यात् । सोमं प्रभावयेति ब्रूयात् स बिनदेवैत-त्पात्रमग्नीनेष्टुरुपस्थमासीदत्यग्निर्वा एष निदानेन यदाग्नीश्रो योषा नेष्टा वृषा वा अग्नीद्योषा नेष्टा मिथुनमेवैतत्प्रजननं क्रियत उदानयति नेष्टा पत्नीं तामुद्गात्रा संख्यापयति प्रजापतिर्वृषासि रेतोधा रेतो मयि धेहीति प्रजापतिर्वा उद्गाता योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते ' ( श ० ४।४।२।१८ ) । एते च तेऽग्निष्टोमचमसाः येषु द्वादशं स्तोत्रं यज्ञायज्ञियमाग्निमारुतं च शस्त्रं शस्यते । यद्युक्थ्यः स्यादिति । उक्थ्यग्रहणमुत्तराणां संस्थानामुपलक्षणार्थम् । उक्थ्यादिषु संस्थासु सोमं प्रभावय प्रभूतं कुरु यथोत्तराण्यपि प्रदानानि सिद्धयन्तीत्यर्थः । सोऽग्नीदेतत्पानी वतपात्रं हस्ते धारयन्नेव नेष्टुरुत्सङ्गमध्यास्ते । योषा नेटा स हि पत्नी भवति वाचयति च । कात्यायनोऽपि तथैवाह -- ' प्रेष्यति चाग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीरुदानयोद्गात्रा संख्यापयोन्नेतर्होतुश्चमसमनुन्नय सोमं माऽतिरीरिच इति ' ( का ० श्र ० १० १६।१ ९ ) । श्रय एते प्रषाः सावसानाः कार्याः । सौमं सावशिष्टं मा कुरु सर्वं सोममुन्नयेत्यर्थः । ' प्रभावयोक्थ्यादिषु ' ( का ० श्र ० १०/६/२० ) । उक्थ्यषोडश्यति रात्र वाजपेयाप्तोर्यामेषु सोमं प्रभावयेति प्रेषः । अध्यात्मपक्षे - हे अग्ने रुद्ररूपाग्ने, त्वष्ट्रा देवेन सजूः समानप्रीतिः सोममस्मत्समर्पितं सोमोपलक्षितं निवेदनीयं हविः पिब भक्षय, स्वाहा सुहुतमस्तु । प्रजापतिः सर्वप्रजानां त्वं पालकोऽसि, वृषासि अभीष्टवर्षण-शीलोऽसि, रेतोधाः सर्वप्राणिनां मूर्तिनिर्माणाय बीजधारकोऽसि । सोऽहं स्वभावत एव त्वां ब्रवीमि रेतः-' अग्ना ३ ई ' इस कण्डिका के मन्त्रों से पास्नीवस ग्रह का हवन तथा पत्नी द्वारा उद्गाता का अवलोकन आदि विधियाँ अनुष्ठिन की जाती हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल मन्त्रार्थं उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - हे रुद्ररूप अग्निदेव, त्वष्टा देव के साथ समान प्रीतियुक्त हमारे द्वारा समर्पित सोम आदि नैवेद्य ( हविर्द्रव्य ) आप भक्षण करें, यह समर्पित है । आप समस्त प्रजाओं के पालनकर्ता हैं, अभीष्ट पदार्थों के वर्षक हैं, समस्त प्राणियों के शरीर के निर्माण के लिये बीज के धारणकर्ता हैं । स्वभावत: ही आपसे प्रार्थना
पृष्ठ 198
पाठ पढ़ें पाठ छिपाएँ
१४४ शुक्लयजुर्वेदसंहिता [ अ ०८ सामर्थ्यं मयि धेहि । वृष्णो वर्षणशीलस्य, रेतोधसः पराक्रमधारयितुस्तवानुग्रहेणैव रेतोधां वीर्यवत्तमविद्या-तत्कार्यात्मकप्रपञ्चापनोदकं परमानन्दलक्षणं मोक्षप्रापकं प्रबोधमशीय प्राप्नुयाम् । दयानन्दस्तु -- ' हे अग्ने स्वामिन् मया सजस्त्वं देवेन त्वष्ट्रा सर्वदुःखविच्छेदकेन गुणेन सोमं स्वाहा सत्यवाग्विशिष्टया क्रियया सोमवल्ल्यादिनिष्पन्नमासवविशेषं पिब । हे पत्नीवन् प्रशस्तयज्ञपत्नीयुक्त, त्वं वृषा रेतोधा प्रजापतिरसि, मयि रेतो धेहि । हे स्वामिन्नहं वृष्णो वीर्यंवतो रेतोधसः पराक्रमधारकस्य रेतोधां वीर्यधारकं पराक्रमवन्तं पुरुषं पुत्रमशीय प्राप्नुयाम् ' इति, तदपि न किञ्चित् श्रुतिसूत्रविरुद्धत्वात्, लौकिकस्य दम्पतीव्यवहारस्य लोकैकगम्यत्वेन श्रुतितात्पर्याविषयत्वात् देवपदस्य दिव्यसुखप्रदार्थकत्वे मानाभावात् । त्वष्ट्रा सर्वदुःखविच्छेदकेन गुणेनेत्यपि कल्पनैव । गुणस्य सोमपानं प्रति कथं करणत्वं च? सत्यवाग्विशिष्टा का सा क्रिया, यया सोमपानं सम्पद्यते? ॥ १० ॥
उपयामगृहीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा । हर्योध॒नाः स्य॑ स॒हसो॑मा॒ इन्द्रा॑य ॥ ११ ॥
' विमुच्य सुचौ द्रोणकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति ' ( का ० श्री ० १०/८/१ ) । यूनादिस्रुग्विमोकान्तं कृत्वा द्रोणकलशे आश्रयणान्निःशेषं सोमं गृह्णीयात् । द्रोणकलशे आग्रयणाद्यो रसो गृहीतः स एव हारियोजनसंज्ञको भवतीति वृत्तिकारः । हे सोम, त्वं हरिर्हरितवर्णोऽसि, ' हरी रश्मिर्हरिः सोमो हरिर्हरितवर्णवान् ' इति कोषात् । हरी हरितवर्णों इन्द्राश्वौ येन युज्येते प्रयुज्येते, स हरियोजन इन्द्रः, तस्यायं हारियोजनः इन्द्रसम्बन्ध्यसि । तं त्वां हरिभ्यामृक्सामाभ्यां गृह्णामीति शेष:, ' ऋक्सामे वै हरी ऋक्सामाभ्या ११ ह्येनं गृह्णाति ' ( श ० ४ | ४ | ३ | ६ ) इति श्रुतेः । ' धानाश्चावपति हर्योधना इति ' ( का ० श्र ० १० ८२ ) । अत्र हारियोजने बह्वीभिर्धानाभिर्भृष्टयवैः श्रपणं ( मिश्रणं ) कार्यम्, ' तं बह्वीभिर्धानाभिः श्रीत्वा ' ( सत्या ० श्र ० ९ ४ ) इति सूत्रात् । धानादेवत्यम् । सह सोमाः सोमेन सहिता धाना भृष्टयवा यूयमिन्द्राय इन्द्रस्य हर्योर्हरितवर्णयोरश्वयोः स्थ भवथ, इन्द्रतदश्वसम्बन्धिनो यूयमित्यर्थः । करता हूँ, मुझमें सामर्थ्य का आधान करें । वर्षण करने वाले, पराक्रम के धारक आपके अनुग्रह से ही अत्यन्त बलवान् अविद्या तथा उसके कार्यरूपी प्रपंच का निराकरण करने वाले, परमानन्दरूपी, मोक्षप्राप्त कराने वाले ज्ञान को मैं प्राप्त करूं । स्वामी दयानन्द द्वारा प्रतिपादित व्याख्या श्रुति तथा सूत्रवाक्यों से विरुद्ध होने के कारण अग्राह्य है । लौकिक दम्पती का व्यवहार केवल लोक से ही ज्ञात होने के कारण वेद के तात्पर्य का विषय नहीं है । देव शब्द का अर्थ दिव्यसुखप्रद करने में कोई प्रमाण नहीं है । त्वष्टा का अर्थ सर्वदुःखविच्छेदक गुण है, यह भी केवल कल्पना ही है । सोमपान के प्रति गुण का करणत्व भी कैसे हो सकता? सत्यवाणी से विशिष्ट वह क्रिया कौन - सी है, जिसके द्वारा सोमपान सम्पन्न होता है ॥ १० ॥
मन्त्रार्थ - हे पंचम ग्रह, तुम उपयाम पात्र द्वारा गृहीत हो, हारियोजन नाम वाले और हरित वर्ण की रश्मियों वाले हो । ऋक् और सामवेद की प्रीति के लिये तुम्हें ग्रहण करता हूँ । सोम के सहित हे धान्यसमूह, तुम इन्द्र देवता के दोनों हरित अश्वों की प्रीति के निमित्त इस हारियोजन नामक ग्रह स्थित सोम से मिश्रित हो जाओ ॥। ११ ॥ भाष्यसार —— कात्यायन श्रौतसूत्र ( १०1८1१-२ ) तथा सत्याषाढ श्रौत्रसूत्र ( ९ १४ ) में वर्णित याज्ञिक विनियोग
पृष्ठ 199
पाठ पढ़ें पाठ छिपाएँ
म ० ११ ] वेदार्थपारिजातभाष्यसहिता १४५ अत्र ब्राह्मणम् -- ' पंशवो वै देवानां छन्दासि । देवान् समतर्पयन्नथ च्छन्दासि देवाः समतर्पयंस्तद-तस्तत्प्रागभूद्यच्छन्दा ७ सि युक्तानि देवेभ्यो यज्ञमवाक्षुर्यदेनान् समतीतृपन् ' ( श ० ४ ४ | ३ | १ ) | हारियोजनग्रहण-ब्राह्मणमेतत् कतिचित्कण्डिका वर्जयित्वा । यत्र काले अग्निष्टोमसंस्थे तुक्थ्यादिसंस्थे वा क्रतौ समाप्ते सति छन्दांसि देवान् स्तोत्रशस्त्रैः सन्तपितवन्ति, अथ कृतोपकाराणि छन्दांसि देवाः सन्तर्पितवन्त इतीतिहासः । अतो हारियोजनात् प्राक्स्रोतसि छन्दोभिर्देवास्तर्पिताः । तदेतदाह- पशवो वा देवानां छन्दसीत्यादिना । छन्दांसि देवेभ्यो यज्ञं वहन्ति । ' अथ हारियोजनं गृह्णाति । छन्दा ७ सि वै हारियोजनश्छन्दा ७ स्येवैतत् सन्तर्पयति तस्माद्धारियोजनं गृह्णाति ' ( श ० ४ | ४ | ३ | २ ) । यथा संकलितयज्ञे छन्दोऽधिरूढे देवेषु तर्पितेषु अश्वौ च पाशुकेऽपि देवता वानुयाजादौ स्रुग्विमोकान्ते कृतेऽथ हारियोजनं गृह्णाति । हरियोजन इन्द्रस्तदीयौ हरी अस्येति हारियोजनो ग्रहः । ' छन्दा ७ सि वै हारियोजनः ' तेन हारियोजनग्रहणेन छन्दांस्येव तर्पयति । ' तं वा अतिरिक्तं गृह्णाति । यदा हि शंयोराहाथैनं गृह्णातीदं वै देवा अथ छन्दास्यतिरिक्तान्यथ मनुष्या अथ पशवोऽतिरिक्तास्तस्मादतिरिक्तं गृह्णातीति ' ( श ० ४ | ४ || ३ | ३ ) | देवदेवत्येभ्यो ग्रहेभ्यो देवयज्ञाद्वा अतिरिक्तं गृह्णाति यदा हि शंयोराह होता । अथोत्तरकालक्रतौ विमुच्य तं गृह्णाति तदा च देवानां यज्ञः सम्पन्नः समाप्तो भवति । किं कारणम्? यज्ञ एतदतिरिक्तं गृह्णाति यस्मादस्याधि- । दैवाधिभूते अतिरिक्ते । इदं वै देवाः सन्ति । छन्दांसि तेषामतिरिक्तानि । पशव उपकारकाणि । उपकार्यास्तु देवता एवमधिदैवतमतिरिक्ता दर्शिताः । अधिभूतमाह - अथ मनुष्याः । ते च देवानामान्तराः मूर्धोद्ववर्त अथ पशवोऽतिरिक्ताः । ' द्रोणकलशे गृह्णाति । वृत्रो वै सोम आसीत्तं यत्र देवा अध्नंस्तस्य आसीदतिरिक्त एष स द्रोणकलशोऽभवत् तस्मिन् यावान् वा यावान् वा रसः समस्रवदतिरिक्तो वै | ४ स | ३ | ४ ) ऊर्ध्वच्छिन्नो ग्रहस्तदतिरिक्त एवैतदतिरिक्तं दधाति तस्माद् द्रोणकलशे गृह्णाति ' ( श ० ४ समस्रवद् अतिरिक्तो वृत्रस्य मूर्धा ऊर्ध्वमुद्धृतो गत उद्ववर्त, तस्मिन् यावान् वा यावान् वा द्रोणकलशे यो रसः यो द्रोणकलशे वै रसः स आसीत्, अधः स्पृष्टः शरीरे यस्तं देवाः पात्रे विगृह्णाना यत्र तेनातिरिक्तो । छन्दोभ्यो गृह्णाति तदतिरिक्तेनास्मिन् द्रोणकलशेऽतिरिक्तमिमं ग्रहं गृह्णाति । ' तं वा अपुरोरुक्कं गृह्णाति गृह्णाति ॥ ह्येनं गृह्णाति स यदेवैनं छन्दोभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्मान् भवति तस्मादपुरोस्कं अथातो गृह्णात्येव । उपयामगृहीतोऽसि हरिरसि हारियोजनो हरिभ्यां त्वेत्युक्सामे वै हरी ऋक्सामाभ्या ह्येनं गृह्णाति ' ( ० ४।४।३।५-६ ) । अध्यात्मपक्षे - हे सोम साम्ब सदाशिव, त्वमुपयामगृहीतोऽसि । हरिरसि विष्णुरसि, युवयोरभिन्नत्वात् सह त्वा । हारियोजनः इन्द्रस्य पालकत्वेनेष्टदेवत्वेन वा सम्बन्ध्यसि । हरिभ्यामिन्द्रविष्णुभ्यां त्वत्पादाभ्यां इन्द्रस्य परमेश्वरस्य त्वामहमाश्रये । हे सोमेन सहिता धानाः श्रद्धया युक्ताः पुष्पफलादयः! यूयमिन्द्राय श्रद्धामयान् साम्बसदाशिवस्य सम्बन्धिनोर्हर्योरिन्द्रविष्ण्वोः स्थ शिवेन्द्रविष्णुसम्बन्धिनो भवथ । सोमः उसमें धाना का मिश्रण किया के अनुसार ' उपयामगृहीतः ' इस कण्डिका के मन्त्रों से हारियोजन नामक ग्रह का ग्रहण तथा । जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है द्वारा वशीकृत हैं, विष्णुस्वरूप हैं, क्योंकि आप सम्बद्ध हैं । आपके पार्षदों, इन्द्र तथा विष्णु के अध्यात्मपक्ष में मन्त्रार्थं यह है -- हे साम्ब सदाशिव, आप प्रेम के दोनों की अभिन्नता है । इन्द्र के पालनकर्ता अथवा इष्टदेव के रूप से द्रव्य! तुम सव परमेश्वर साम्ब-साथ मैं आपकी शरण लेता हूँ । सोमसहित श्रद्धा से युक्त हे धाना, पुष्प, फल आदि १ ९
पृष्ठ 200
पाठ पढ़ें पाठ छिपाएँ
१४६ शुक्लयजुर्वेदसंहिता [ अ ० ८ भक्तिपरिप्लुतपदार्थानेव भगवान् गृह्णातीति प्रसिद्धमेव गीतादौ - ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ' ( भ ० गी ० ९ ।२६ ) इति । दयानन्दस्तु -- ' हे पते, त्वमुपयामगृहीतोऽसि हारियोजन इव सारथिरिव हरिर्यथायोग्यं गृहाश्रम-व्यवहार निर्वाहकोऽसि, अतो हरिभ्यां युक्तेन स्यन्दनेन विराजमानं त्वामहं सेवे । यूयं गृहाश्रमिणः सन्त इन्द्राय परमैश्वर्यप्राप्तये सहसोमाः सन्तो हर्योधनाः स्थ हर्योरश्वयोर्धाना धारकाः स्थ । सोमेन श्रेष्ठगुणेन वर्तमाना: ' इति, तदपि न किञ्चित्, ' पते ' इति सम्बोधनस्य निर्मूलत्वात् । सारथिरिवेति दृष्टान्तोऽपि न सम्भवति, सादृश्याभावात् । यत्किञ्चित् साधर्म्यं तु विसदृशेष्वपि भवत्येव । सोमपदस्य उत्तमगुणा इति न शक्यार्थः, निष्प्रमाणत्वात् । लक्षणयापि न सोऽर्थः सम्भवति, लक्षणाबीजाभावात् ॥ ११ ॥
यस्तै अश्व॒सनि॑र्य॒ यो ग॒सन॒स्तस्य॑ त इ॒ष्टय॑जुषः स्तु॒तस्तमस्य श॒स्तोक्य॒स्योप॑हूत॒-स्योप॑हूतो भक्षयामि ॥ १२ ॥
' उत्तरवेदी वा निधाय विलाभम् यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदी निवपन्तीति ' ( का ० श्र ० १० ८ ६-७ ) । होमानन्तरं पात्राणां हविर्धानमण्डपे निधानं पूर्वमुक्तम् ( का ० श्र ० ९ ।१२।७ ) । तेन सहोत्तरवेदिनिधानं विकल्प्यते । अथवा उत्तरवेदी सदसि वा द्रोणकलशं निधाय धाना विलभ्य गृहीत्वा यस्ते अश्वसनिरिति मन्त्रेण सर्वे सयजमाना ऋत्विजः सदसि प्राणभक्षं भक्षयित्वा अवघ्राय कृतावघ्राणा धाना उत्तरवेदौ निवपेयुः । तिस्रस्तिस्रो धानाः | अत्रावघ्राणमेव भक्षणम्, तथैव ब्राह्मण उक्तत्वात् । भक्षद्रव्यदेवत्यं यजुः । हे धानासहितसोमरूपभक्षद्रव्य, यस्ते तव भक्षः, अश्वसनिः अश्वानां दाता, यो भक्षो गोसनिः गवां दाता, ' षणु दाने ', अश्वान् सनोति ददातीत्यश्वसनिः 3 गाः सनोतीति गोसनिः, तस्य तादृशस्य ते त्वदीयं तादृशं भक्षम्, उपहृतोऽनुज्ञातोऽहं भक्षयामि । कीदृशस्य ते? इष्टयजुषः, इष्टानि यजूंषि यस्य स तस्य, तथा स्तुतस्तोमस्य उद्गातृभिः स्तुताः स्तोमाः स्तोत्राणि यस्य स तस्य, तथा होतृभिः शस्तानि उक्थानि शस्त्राणि यस्य स सदाशिव, इन्द्र तथा विष्णु सम्बद्ध बनो । साम्बशिव भगवान् श्रद्धा से संयुक्त, भक्ति से ओतप्रोत पदार्थों का ही ग्रहण करते हैं, यह गीता आदि ग्रन्थों में प्रसिद्ध ही है । स्वामी दयानन्द द्वारा प्रणीत अर्थ में ' हे पति ' इस सम्बोधन पद के लिये कोई प्रमाण न होने के कारण व्यर्थता है । ' सारथि के समान ' यह उदाहरण भी सादृश्य न होने के कारण सम्भव नहीं है । थोड़ी बहुत सघर्मता तो असदृश पदार्थों में भी होती ही है । सोम शब्द का शक्यार्थ ' उत्तम गुण ' नहीं है, क्योंकि इसमें कोई प्रमाण नहीं । लक्षणा के द्वारा भी ऐसा अर्थ संभव नहीं है, क्योंकि लक्षणा का कोई कारण यहाँ नहीं है ॥ ११ ॥
मन्त्रार्थ - हे सोम, सिक्त धान्यरूप उत्कृष्ट खाद्य यजुमंत्रों से इष्ट उद्गाता द्वारा, ऋक् मन्त्रों से स्तुत होताओं द्वारा साम के उपथ मन्त्रों से शस्त इस समय उपहृत हो । तुम्हारा जो भक्ष्य कल घोड़ों को देने वाला है, जो भक्ष्य गायों का दाता है, उस तुम्हारे भक्ष्यफल को आपकी अनुज्ञा प्राप्त कर मैं भक्षण करता हूँ ॥ १२ ॥
भाष्यसार --- ' यस्ते अश्वसनि: ' इस यजुर्मंन्त्र के द्वारा यजमान सहित सभी ऋत्विक् धाना का अवघ्राण करते हैं,