वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 201–210
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 201–210
पृष्ठ 201
पाठ पढ़ें पाठ छिपाएँ
म ० १२ ] वेदार्थ पारिजातभाष्यसहिता १४७ तस्य शस्तोक्थस्य । पुनः कीदृशस्य? उपहृतस्य अभ्यनुज्ञातस्य तादृशस्य ते त्वदीयं भक्षमुपहूतोऽनुज्ञातोऽहं भक्षयामीति सम्बन्धः । ' अथ धाना आवपति । हर्योर्धानाः स्थ सहसोमा इन्द्रायेति तद्यदेवात्र मितं च छन्दोऽमितं च तदेवैतत्सर्वं भक्षयति ' ( श ० ४ | ४ | ३ | ७ ) | यदेता धाना आवपति तदेवात्र यज्ञे मितं नियताक्षरपादमृङ्नाम, यद्वाऽनियताक्षरपादं यजुः, तदेवैतत्सर्वं छन्दः सोमं धानावन्तं भक्षयति । ' तस्योन्नेता आश्रावयति ' ( श ० ४ | ४ | ३ | ८ ) इत्यादिना आश्रावणानुवाचनादी होमान्ते सर्वत्रैवोन्नेता नाम विधीयते । भक्षः केवलं निवर्तते । किं कारणम्? यस्मादनुवाचनादिकमेव प्रतियज्ञमुपावर्तते । ' ता न दद्भिः खादेयुः ' । धानारूपाः पशवः । दद्भिर्भक्षणे ते प्रमृद्यन्ते बाध्यन्ते 1 तस्माद्दद्भिर्न खादेयुर्भक्षमृत्विजः । नासिकाभिरेव जिघ्रन्तो भक्षयन्ति, अवाणमेव भक्षणमित्यर्थः । अत्र ब्राह्मणम् – ' पशवो वा एते नेत्पशून् प्रम्रदे करवामहा इति प्राणैरेव भक्षयन्ति यस्ते अश्वसनिर्भक्षो यो गोसनिरिति पशवो ह्येते तस्मादाह यस्ते अश्वसनिर्भक्षो " स्तुतस्तोमस्ये-तानि हि यजूंषि भवन्ति स्तुताः स्तोमाः शस्तोक्यस्येति शस्तानि ह्युक्थानि भवन्त्युपहूतस्योपहूतो भक्षयामी ", ( ० ४ | ४ | ३ | ११ ) | सोमे यानि भक्षसम्बन्धीनि यजूंषि तानीष्टानि । ये स्तोमास्ते स्तुताः, यान्युक्थानि शस्त्राणि तानि शतानि । द्रव्यदेवतारूपमेव यज्ञादिव मं भवति । तत्रैव यजुरादीनामुपयोगः । तेन यजूंषीष्टानि भवन्ति, स्तोमाः स्तुता भवन्ति, शस्त्राणि शस्तानि भवन्ति । ' ता नाग्नौ प्रकिरेयुः । नेदुच्छिष्टमग्नो जुवाम ( श ० ४।४।३।१२ ) । अध्यात्मपक्षे - अत्र भगवत्प्रसादभक्षण मुच्यते । व्याख्यानं पूर्ववदेव । हे भगवन्निवेदित दिव्यद्रव्य, ते त्वदीयो भक्षः, अश्वसनिः अश्वोपलक्षित सकलवाह्यभोगसामग्रीदाता, गोसनिरिति गवादिसकलजीवनोपयोगि-पयोदधिघृतकुर्चान्नपानादिप्रदाता । कीदृशस्य? इष्टानि यजूंषि यस्य, यजुर्वेदेन वा यजनं यस्य तस्येष्टयजुषः, उद्गातृभिः स्तुताः स्तोमा यस्य तस्य उद्गातृगीतस्तोमैः स्तोत्रैः स्तुतस्य होतृभिः शस्तानि उक्थानि यस्य तस्य होतृशस्तशस्त्रैः प्रशंसितस्य तस्य तादृशस्य उपहृतस्य भगवताऽभ्यनुज्ञातस्य तदुक्तशास्त्रसङ्केतेन पूर्वाचार्येण दत्तस्य शास्त्राचार्यैरुपहूतोऽभ्यनुज्ञातोऽहं भक्षयामि । अत्र बयानन्दः - ' हे प्रिय वीरपते, यस्त्वं मयोपहृतोऽश्वसनिर्गोसनिरश्वादिपदार्थानां दाता, गोः संस्कृतवाचो भूमेर्विद्यादिप्रकाशादेर्दाता, तस्य शस्तोक्थस्येष्टयजुषः स्तुतस्तोमस्य उपहूतस्य सत्कारेणोपहूतस्योपस्थितस्य तदनन्तर आघ्रात धानाओं को उत्तरवेदि में रखते हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १० ८ ६-७, ९ ।१२।७ ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुरूप अर्थ उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - इस मन्त्र में भगवान् के प्रसाद का भक्षण निर्दिष्ट है । हे भगवन्निवेदित दिव्य द्रव्य, तुम्हारा भक्षण अश्वादि सम्पूर्ण बाह्य भोग की सामग्रियों को प्रदान करने वाला है । गी आदि सभी जीवनो-पयोगी दुग्ध, दधि, घृत, अन्न, पान आदि का दाता है । यजुर्मन्त्रप्रिय अथवा यजुर्वेद के द्वारा यजनीय, उद्गाताओं के द्वारा गीत, स्तोमों, स्तोत्रों से संस्तुत, होताओं के द्वारा वर्णित उक्थ - शस्त्रों से प्रशंसित, भगवान् के द्वारा अनुज्ञात, शास्त्रा-चार्यों से आज्ञा प्राप्त करके मैं प्रसाद का भक्षण करता हूँ । स्वामी दयानन्द द्वारा वर्णित अर्थ में पति - पत्नी के में न होने के कारण अप्रामाणिकता है । परस्पर आह्वान के परस्पर आह्वान के कथन की इच्छा का कोई हेतु इस मन्त्र द्वारा गौ अथवा अश्व का प्रदान दृष्टिगोचर भी नहीं होता,
पृष्ठ 202
पाठ पढ़ें पाठ छिपाएँ
१४८ शुक्लयजुर्वेद संहिता [ अ ० ८ ते तव यो भक्षोऽस्ति, तमुपहूता सती अहं भक्षयामि । हे प्रिये सखि, या त्वमश्वसनिर्गोसनि रसि, तस्याः शस्तोक्थाया इष्टयजुषः स्तुतस्तोमाया उपहूतायास्ते तव यो भक्षोऽस्ति, तमहमुपहूतोऽहं भक्षयामि ' इति, तदपि निर्मूलमेव पतिपत्न्योः परस्पराह्वानस्यात्र मन्त्रे विवक्षणे हेत्वभावात् । न च परस्पराह्नानेन गोऽश्वदातृत्वं दृश्यते, तथाविधाह्वानस्य दैनन्दिनत्वात् । तस्य स्तुतस्तोमस्य शस्तोक्थस्येति पुल्लिङ्गश्रवणविरोधश्च । तद्वयाख्यानेऽश्वसनिरिति भक्षस्य विशेषणमिति तदपहाय तमित्यध्याहृत्य व्याख्यानं तु सर्वथा विसङ्गतमेव ॥ १२ ॥
2 दे॒वकृ॑त॒स्यैन॑सोऽत्र॒यज॑नमसि मनुष्यकृ॑त॒स्यैन॑सोऽत्र॒यज॑नमसि पि॒तृकृ॑त॒स्यै न॑सोऽव॒यज॑नमस्यात्म-कृ॑त॒स्यैन॑सोऽव॒यज॑नम॒स्येन॑स एनसोऽव॒यज॑नमसि । यच्चाहमेन वि॒द्वांश्च॒कार॒ यच्चात्रिंद्व-स्तस्य॒ सर्व॒स्यैन॑सोऽव॒यज॑नमसि ॥ १३ ॥
' शाकलाधानं देवकृतस्येति प्रतिमन्त्रमिति ' ( का ० श्र ० १० ८८ ) । शकलान्येव शाकलानि । षट् षड् पलानि आहवनीये सर्वे सयजमाना ऋत्विज आदध्युर्देवकृतस्येति प्रतिमन्त्रम् । हे शकल, त्वं देवकृतस्य देवविषये सम्पादितस्य एनसो यजनाभावलक्षणस्य पापस्य, अवयजनमसि नाशकं भवसि । उपसर्गवशादत्र यजेर्नाशोऽर्थः । मनुष्यकृतस्य मनुष्येषु सम्पादितस्य निन्दाद्रोहादिरूपस्य एनसोऽवयजनमसि । पितृषु कृतस्यैनसः श्राद्धतर्पणाद्यकरणादेनशिकमसि । आत्मविषये कृतस्य पापस्य आत्मनिन्दादेर्नाशकमसि । एनस एनसो यावन्ति पातकानि सन्ति, तावतां सर्वेषामपि नाशकमसि । किञ्च, विद्वान् जानानः, अविद्वान् अजानानश्च यदेनः पातकमहं चकार कृतवान्, तस्य सर्वस्य ज्ञानपूर्वकस्याज्ञानपूर्वकस्य च पापस्य नाशनमसि । क्योंकि इस प्रकार का आह्वान तो दैनिक व्यवहार है । श्रुत्युक्त पुल्लिंग पदों का भी विरोध अर्थ में है । ' अश्वसनि ' यह भक्ष का विशेषण है, उसको छोड़कर ' तम् ' पद का अध्याहार करते हुए व्याख्या करना तो सर्वथा असंगत है ॥ १२ ॥
मन्त्रार्थ - है कल अग्नि में आहूयमान यजन, तुम देवताओं के अभाव आदि को दूर करने वाले हो, पाप को दूर करने वाले हो । हे काष्ठखण्ड, तुम मनुष्यों के किये हुए द्रोह, निन्दा आदि पापों के निवारक हो, पितरों के निमित्त श्राद्ध न करने से उत्पन्न पापों का नाश करने वाले हो, अपनी आत्मा में किये निन्दा आदि पापों के नाशक हो, सब तरह के संसर्ग से उत्पन्न पापों के नाशक हो । हे हूयमान काष्ठखण्ड जानबूझ कर मैंने जो पाप किया है और बिना जाने जो पाप किया है, उन सम्पूर्ण पापों को नष्ट करने वाले हो, आप हमारे सारे पापों का नाश कीजिये ॥ १३ ॥
भाष्यसार — ' देवकृतस्यैनसः ' इस कण्डिका के मन्त्रों से यजमानसहित सभी ऋत्विक् यूपखण्डों को आहवनीय अति में समर्पित करते हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १०१८१८ ) में उपदिष्ट है । भाष्यकारों ने याज्ञिक प्रक्रिया के अनुरूप मन्त्रार्थं किया है ।
पृष्ठ 203
पाठ पढ़ें पाठ छिपाएँ
म ० १३-१४ ] वेदार्थ पारिजातभाष्यसहिता १४ ९ अध्यात्मपक्षे—– अत्र परमेश्वर एव सम्बोधनीयः । हे परमेश्वर, त्वं देवविषये मया कृतस्यावमाना-सत्कारादिलक्षणस्य, अवयजनमसि नाशको भवेत्यर्थः । तथा पितृषु कृतस्य श्राद्धाकरणादेरेनसोऽवयजनमसि , किं बहुना, एनस एनसो परिहरणमसि, परिहर्ता भव । मनुष्येषु कृतस्य द्रोहादेः, आत्मविषये कृतस्यात्मनिन्दादेः तेषु देवादिपु भवद्विषये च यावन्ति पातकानि सम्भवन्ति तेषां समेषामेवैनसामवयजनमसि । यच्चाहं तेषु नाशनमसि स्वभावतः । ज्ञानपूर्व कमज्ञानपूर्वकं वा एनः कृतवान् करिष्यामि करोमि वा, तेषां सर्वेषामवयजनं पापस्य दयानन्दस्तु – ' हे सर्वोपकारिन् सखे, त्वं देवकृतस्यैन सोऽवयजनमसि । दानशीलकृतस्य परिहरणमसि एनसः । पृथक्करणमसि । मनुष्यकृतस्य पापस्य दूरीकरणमसि । पितृकृतस्यैनसो विरोधाचरणस्य यच्चनश्चवार, अविद्वानहं आत्मकृतस्यैनसोऽवयजनमसि । एनस एनसोऽधर्मस्याधर्मस्य परिहरणमसि । विद्वानहं तदपि यत्किञ्चित्, मनुष्यरय यच्चकार कृतवान् करोमि करिष्यामि वा, तस्य सर्वस्यैनसोऽवयजनमसि ' इति, पातकस्य । शास्त्रोक्तप्रायश्चित्तमन्तरा स्वकृतस्यापि पातकस्य परिहरणसामर्थ्यं नास्ति, किमुतान्यकृतस्य प्रार्थयितुं दानशीलस्य धार्मिकत्वात् कथं पापकारित्वम्? न ह्येको मनुष्यो देवपितृमनुष्य पापानां नोक्तम् दूरीकरणाय । अत्र व्याख्याने
युज्यते, तस्य तथासामर्थ्यात् । एनस एनस इत्यभ्यासस्य किं प्रयोजनमित्यपि ॥ १३ ॥
यत्तेनोक्तं यत् ‘ ४।३।६।१ शतपथेऽयं मन्त्रो व्याख्यातः ' इति, तदशुद्धमेव, तृतीयेऽध्याये पष्ठब्राह्मणाभावात्
संवर्ध॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सधैं शि॒वेन॑ ।
त्वष्टा॑ सु॒त्र॒विद॑धातु॒ रायोऽनु॑माहु॑ त॒न्वो॒ यद्विलिंष्टम् ॥ १४ ॥
अध्यात्मपक्ष में अर्थ योजना इस प्रकार है. के विषय में मेरे द्वारा किये गये अपमान, असत्कार आदि पाप के आदि पात्रों का परिहार करने वाले हो । मनुष्यों के साथ किये गये द्रोह आदि पापों के जितने भी भेद हो सकते हैं, उन सभी पातकों के विनाशक हो । उन उन विषय में ज्ञानपूर्वक अथवा अज्ञान से जो पाप मैंने किया है, मैं कर रहा हूँ तथा भविष्य में स्वभावतः नाशक हैं । देवताओं - इस मन्त्र में परमेश्वर ही सम्बोध्य हैं । हे परमेश्वर, आप नाशक हो तथा पितरों के सम्बन्ध में श्राद्ध - अकरण आदि तथा स्वयं के सम्बन्ध में किये गये आत्मनिन्दा देवताओं के तथा आपके करूँगा, उन सबके आप स्वामी दयानन्द द्वारा वर्णित अर्थ अग्राह्य है । शास्त्रोक्त प्रायश्चित्त के बिना तो मनुष्य का स्वयं किये गये पाप परिहार का भी सामर्थ्य नहीं है । किसी अन्य के द्वारा किये गये पाप की तो कथा ही क्या है । दानशील व्यक्ति के धार्मिक होने के कारण पापकारित्व कैसे हो सकता है? एक ही मानव की देव, पितृ तथा मनुष्य के पापों के निराकरण-हेतु प्रार्थना युक्तिसंगत नहीं है, क्योंकि उसका इस प्रकार का सामर्थ्यं ही नहीं है । ' एनसः, एनम: ' इस द्विरुक्ति का क्या प्रयोजन है, यह भी स्पष्ट नहीं किया गया । इसकी व्याख्या में कहा गया कि शतपथ ( ४ | ३ | ६ | १ ) में यह मन्त्र व्याख्यात है | परन्तु यह भी अनुचित है, क्योंकि तृतीय अध्याय में षष्ठ ब्राह्मण है ही नहीं ॥ १३ ॥
मन्त्रार्थ- -हम ब्रह्मवर्चस् तेज, क्षीरादि रस, अनुष्ठान के योग्य शरीर के अवयव और शान्त मन – इन सबसे युक्त हुए हैं । उत्तम दान देनेवाले त्वष्टादेव मुझे सम्पत्ति दें और मेरे शरीर में जो न्यूनता हो, उसे दूर करके उसका पोषण करें । यहाँ आहवनीय अग्नि की प्रदक्षिणा करके पूर्णपात्र का ग्रहण और ' सं वर्चसा ' मन्त्र से मुखमार्जन किया जाता है ॥ १४ ॥
पृष्ठ 204
पाठ पढ़ें पाठ छिपाएँ
१५० शुक्लयजुर्वेद संहिता [ अ ० ८ ' आरेण चात्वालं यथास्वं चमसान् पूर्णपात्रानवमृशन्ति हरितकुशानवधाय संवर्चसेति ' ( का ० श्री ० १०१ - १ ९ ) । चात्वाला पश्चिमस्यां दिशि होत्रादीनां क्रमेणोदकसंस्थं स्थापितानामुदकपूर्णानां । दशानां वर्चसा चमसानामुपरि हरितदर्भान् स्थापयित्वा सर्वे चमसिनः स्वं स्वं चमसं स्पृशेयुः । त्वाट्री त्रिष्टुप् ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवामः । पयसा क्षीरादिरसेन च सङ्गता भवामः । तनुभिस्तत्तत्कर्मानुष्ठान-क्षमैरङ्गः समगन्महि । शिवेन समीचीनेन श्रद्वायुक्तेन मनसाऽन्तःकरणेन रामगन्गहि । सुदत्रः शोभनदानस्त्वष्टा न्यूनता-देवो रायो धनानि विदधातु मदर्थं सम्पादयतु । तन्वः शरीरस्य मामकस्य यद्विलिष्टं विच्छिन्नं विशेषेण मापन्नं वा, तद् अनुमार्छु न्यूनतापरिहारेण शोधयतु । अत्र ब्राह्मणम् -- ' अथ पूर्णपात्रान् समवमृशन्ति । यानेकेऽप्सुपोमा इत्याचक्षते यथा क्षण्वते वै वा युक्तो दिवालिशन्ते वहेदेवमेते य आविज्यं कुर्वन्त्युत वै युक्तः क्षणुते वा विवालिशते शान्तिरापो भेषजं समवमृशन्ति तद्यदेवात्र ' ( श ० ४।४।३।१३ ) । शान्तिरापस्तदद्भिः शान्त्या शमयन्ते तदद्भिः सन्दधते तस्मात् पूर्णपात्रान् य आत्विज्यं कुर्वन्तीति वाक्यशेपाद् पूर्णान् पात्रानाम्, शान्तिरानो भेषजमिति वाक्यशेषात् । सर्व ऋत्विजः: ( अवात्मकाः सोमाः ) यजमानस्य युक्तवात् तुल्यन्यायत्वात् । कीदृशान् पूर्णपात्रान्? यानेके उच्यन्ते शाखिनोऽप्पोमा । तान् यथास्वं चमसिनोऽवमृशन्ति । इत्याचक्षते । हरितदर्भवन्त उदकपूर्ण । त्राः सोमचमसा अप्सोमा यदि युक्तः क्षणुते क्षिणुते यथा वै युक्तो गौरवो वा वहेदेवमेते पुरुषं वहन्ति य आविज्यं कुर्वन्ति शान्तिशमन्यो । यद्यन्तर्गतो भेषजमिति प्रसिद्धम्, तद्वदत्र हिनस्ति, विलिशते, ' लिश अल्पीभावे ', विश्लेषयति, तस्य आपः वा तदवमृश्य-यज्ञेऽपि सयजमाना ऋत्विजो यदयज्ञियं नाम किञ्चिदुक्त्वा क्षिण्वते हिंसन्ति विश्लेषयन्ति यद्विलिष्टमिति यद्विवृढं मानाभिरद्भिः शान्त्या शमनीभिः शमयन्ति सन्दधते च । ' ते समवमृशन्ति । सं वर्चसेति द्वयं तद्यस्मान्मुखा-तत्सन्दधते ' ( श ० ४।४।३।१४ ) । विवृढं विश्लिष्टमित्यर्थः । ' अथ मुखान्युपस्पृशन्ते तस्मान्मुखान्युपस्पृशन्ते । ' न्युपस्पृशन्तेऽमृतं वा आपोऽमृतेनैवैतत् सस्पृशन्त एतदु चैवैतत् कर्मात्मन् कुर्वते ( श ० ४ | ४ | ३ | १५ ) | अध्यात्मपक्षे -- हे परमेश्वर, त्वत्प्रसादात् सं वर्चसा ब्रह्मवर्चसेन वयं सङ्गता भवामः । पयसा क्षीराद्यभीष्ट- स्याम । रसेन त्वदुपासनक्षमैः शरीरावयवैः शिवेन समीचीनेन त्वदुपासनादिपरायणेन मनसान्तःकरणेन सङ्गताः वेदप्रसिद्धधनानि सुदत्रो भक्तिज्ञानस्वर्गापवर्गादिशोभनदानशीलस्त्वष्टा विश्वनिर्माणकुशलो भवान् रायोऽभीष्ट लोक विदधातु । तन्वो मामकस्य शरीरस्य यद्विलिष्टं न्यूनमङ्गं तन्माष्टुं न्यूनत्वपरिहारेण शोधयतु । अपने - अपने चमस का भाष्यसार - ' सं वर्चसा ' इस ऋचा के द्वारा सोमयाग में होता आदि सभी चमसी ऋत्विक ब्राह्मण में याज्ञिक प्रक्रिया स्पर्श करते हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १०१८ / ९ ) में वर्णित है । शतपथ के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है-- हे परमेश्वर, आपके अनुग्रह से हम ब्रह्मवर्चस से संयुक्त हों । दुग्ध आदि अभीप्सित रस से आपकी उपासना के योग्य शरीरांगों से तथा आपकी उपासना में निरत शुद्ध अन्तःकरण से संयुक्त हों । भक्ति, ज्ञान, स्वर्ग तथा अपवर्ग आदि विशिष्ट दानों को प्रदान करने वाले, विश्वनिर्माण में कुशल आप लोक एवं वेद में प्रसिद्ध अभीष्ट धन वा सम्पादन करें । मेरे शरीर का जो न्यून अंग है, उसको न्यूनता के निराकरण के द्वारा शुद्ध कीजिये ।
पृष्ठ 205
पाठ पढ़ें पाठ छिपाएँ
म ० १४-१५ ] वेदार्थ पारिजातभाष्यसहिता १५१ दयानन्दस्तु -- ' हे अध्यापक, त्वष्टा सर्वव्यवहाराणां तनुकर्ता सुदत्रः सुदानो विद्वान् भवान् सं शिवेन मनसा सं वर्चसा अध्ययनाध्यापनप्रकाशेन पयसा जलेन अन्नेन वा ' पय इत्युदकनामसु ' ( निघ ० १ | १२ | ३७ ), ' अन्ननामसु च ' ( निघ ० २ | ७ | ३ ), तनूभिः शरीरैः " तन्वः शरीरस्य यद् विलिष्टं विशेषेण न्यूनमङ्गम्, अनुमार्ष्ट पुनः पुनः शुन्धन्तु यो विदधातु । तत् तानि च वयं तनूभिः समगन्महि ब्रह्मचर्यव्रतादिसुनियमैर्बलयुक्तैः शरीरैः प्राप्नुयाम ' इति, तदपि यत्किञ्चित्, अध्यापको विद्यामध्यापयति, जलेनान्नेन शरीरस्य सुतापूर्ति तु न्यूनाङ्ग एव भिषग्वरोपदेशेन कर्तुं शक्नोति । धननिधानमपि धनेप्सुरेव करोति नाध्यापक: । ' पूर्णताया उत्तमधनस्य धारणं ब्रह्मचर्यव्रतादिभिर्बलयुक्तशरीरैः प्राप्नुयाम ' इत्यपि तथैव, ' अनुमाटु ' इत्यस्मात् क्रियापदाद् धारणीयायाः पूर्णताया अनुक्तेः । ब्राह्मणं त्विमं मन्त्रं पूर्णपात्रस्पर्शने विनियुङ्क्ते । सूत्रमपि तदनुगुणमेव ॥ १४ ॥
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ स सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्त॒ सं दे॒वाना॑ सूरिभि॑िर्मघव॒न् सधैं स्व॒स्त्या । सुम॒तौ य॒ज्ञिया॑ना॒ स्वाहा॑ ॥ १५ ॥
' समिन्द्र ण इति नव समिष्टयजूंषि जुहोति प्रतिमन्त्रमिति ' ( का ० श्री ० १०८/११ ) | नवभिर्मन्त्रः समिष्टयजुः संज्ञा नवाहुतीर्जुहुयात् । तत्राद्या विश्वेदेवादेवता त्रिष्टुप, अत्रिदृष्टा । तत्र त्रिभिः परिधीना-प्याययति । त्रिभिर्देवता व्यवसृजति । हे मघवन्निन्द्र, नोऽस्मान् मनसा संनेषि संनयसि सङ्गमयसि । णीञ् प्रापणे ' इत्यस्माद् व्यत्ययेन शपो लुकि रूपम् । समित्युपसर्गो नेषीति क्रियापदेन सम्बद्ध्यते । गोभिर्वाग्भि-वादिभिः पशुभिर्वा सङ्गमयसि । सूरिभिः पण्डितै हौत्रादिभिः स्वस्त्या अविनाशेन क्षेमेण च संनेषि । ' स्वस्ति ' इत्यविनाशनाम | ब्रह्मणा सार्थज्ञानेनाधीतवेदेन संनेषि संगमयसि । देवकृतं देवार्थं कृतं कर्म यदस्ति यज्ञरूपं देवैः कृतं दृष्टं वा यत्कर्म, तेन संनेषि सङ्गमयसि । तथा यज्ञियानां यज्ञसम्बन्धिनां देवानां सुमतौ सुमत्या इति तृतीयया विपरिणामः, अनुग्रहोपेतया बुद्धचा संयोजयसि यस्त्वमस्मानेवं मनआदिभिः संनेषि, तस्मै तुभ्यं स्वाहा एतद्धविः सुहुतमस्तु । यद्वा हे मघवन् विशिष्टधनसम्पन्नेन्द्र, त्वमनुग्रहयुक्तेन मनसा नोऽस्मान् गोभिः स्तुति-लक्षणाभिर्वाग्भिर्गवादिभिर्वा सन्नेषि सन्नय संयोजय । सूरिभिर्होतृप्रमुखः पण्डितैः स्वस्त्या क्षेमेण संयोजय । अन्यत् पूर्ववत् । स्वामी दयानन्द द्वारा वर्णित अर्थ विसंगत है । अध्यापक विद्या का अध्ययन ही करता है । जल तथा अन्न से शरीर की न्यूनतापूर्ति तो अंगहीन ही श्रेष्ठ चिकित्सक के निर्देश से कर सकता है । धन का संगोपन भी धनाभिलाषी ही करता है, अध्यापक नहीं करता । ब्राह्मणोक्ति इस मन्त्रको पूर्णपात्र के स्पर्श में विनियुक्त करती है । सूत्र भी
उसके अनुकूल है । १४ ॥
मन्त्रार्थ हे धनवान् इन्द्रदेव, मन के अनुग्रह से हमें संयुक्त करो, वाणी प्राप्त कराओ, पण्डितों से संयुक्त करो, उत्कृष्ट कल्याण प्राप्त कराओ, परब्रह्म से संयुक्त करो । देवताओं के निमित्त किया हुआ कर्म हमें यज्ञसम्बन्धी देवताओं की अनुग्रह बुद्धि से संयुक्त करता है । इस प्रकार हम आपके निमित्त श्रेष्ठ आहुति प्रदान करते हैं ॥ १५ ॥
भाष्यसार - ' समिन्द्र ण: ' इस ऋचा से प्रारम्भ करके क्रमशः नौ मन्त्रों से ' समिष्टयजुषु ' नामक नौ आहुतियों
पृष्ठ 206
पाठ पढ़ें पाठ छिपाएँ
१५२ शुक्लयजुर्वेद संहिता [ अ ० ८ स्तोत्रिया अत्र ब्राह्मणम् -'तानि वा एतानि । नव समिष्टयजुषि जुहोति -नव वा अमूर्बहिष्पवमाने ससृजे इतश्चोर्ध्वा भवन्ति सैषोभयतो न्यूना विराट् प्रजननायै तस्माद्वा उभयतो न्यूनात् प्रजननात् प्रजाः सृजत प्रजापतिः इतचोर्ध्वा प्रजाः इतश्चावाचीः ' इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव न्यूनात् प्रजननात् विधीयन्ते । अमू बहिष्पवमाने ( श ० ४ | ४ | ४ | १ ) । अत्र समिष्टयजुर्धर्मका नव होमा ज्योतिष्टोमाङ्गभूता न्यूनात् प्रजननात् प्रजापतिः प्रजाः स्तोत्रिया भवन्ति । सैवा उभयतो न्यूना विराट् प्रजननायै । तस्माद्वा उभयतो समष्टियजुर्नवा -ससृजे इतश्चोर्ध्वा इतश्चावाचीः । इतस्त्रिपवनात्मकान्मुखाद् ऊर्ध्वाः ससृजे तथो, हास्यैषा इतश्चावाचीः न्यूना विराड् दशंदशिनी त्मकादवाचः प्राणान् । ' हिङ्कारः स्तोत्रियाणां दशमः । स्वाहाकार एतेषां दशदशशब्दादिनिप्रत्ययः, पूर्वपदस्य भवति ' ( श ० १४ । ४ । ४ । २ ) । दश दश परिमाणमस्येत्येतस्मिन्नर्थे च नुमागमः । यज्ञस्तायते सर्वा वै ‘ अथ यस्मात् समिष्टयजुषि नाम । या वा एतेन यज्ञेन देवता समिष्टयजुषि ह्वयति याभ्य नाम एष ' ( श ० ४।४ । ४ । ३ ) । तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु समिष्टास्वथैतानि जुहोति तस्मात् तायते ताः सर्वा एतास्वाहुतिषु समिष्टा ज्योतिष्टोमेऽस्मिन् यासां देवतानामाह्वानं भवति, यासां कृते यज्ञ एष ७ षि जुहोति । रिरिचान इव वा एतदी-भवन्ति । तस्मादेतासां समिष्टयजूंषीति नाम । ' अथ यस्मात् समिष्टयजू ' ( ० ४ ४ ४ ४ ) | ‘ अथ जानस्यात्मा भवति यद्व्यस्य भवति तस्य हि ददाति तमेवात स्त्रिभिः याभ्य पुनराप्याययति एप यज्ञस्तायते उप हैव ता आसते यावन्न यान्युत्तराणि त्रीणि जुहोति । या वा एतेन यज्ञेन देवता ह्वयति व्यवसृजति यत्र यत्रासां चरणं तदनु ' समिष्टयजू ७ षि जुह्वतीमानि नु नो जुह्वत्विति ता एवैतद्यथायथं देवताविसर्गार्थानि । ' अथ यान्युत्तमानि त्रीणि जुहोति । ( श ० ४।४।४।५ ) । अत्र यानि मध्यमानि त्रीणि तानि तत्प्रतिष्ठापयति तस्मात् समिष्टयजूंषि यज्ञं वा एतदजीजनत यदेनमतत तं जनयित्वा यत्रास्य प्रतिष्ठा प्रयोजनम् । जुहोति ' ( ० ४ | ४ | ४ | ६ ) | अत्रोत्तमस्य त्रिकस्य यज्ञप्रतिष्ठापनं गोभिरिति ' स जुहोति । समिन्द्र णो मनसा नेपि गोभिरिति मनसेति तन्मनसा सं ब्रह्मणा रिरिचानमाप्याययति देवकृतं यदस्तीति ब्रह्मणेति तद् गोभी रिरिचानमाप्याययति स सूरिभिर्मघवन् सः स्वस्त्या स्वाहा ' ( श ० ४ | ४ | ४ | ७ ) । अत्र मन्त्राणां तद् ब्रह्मणा रिरिचानमाप्याययति सं देवानां सुमतौ यज्ञियाना यथोक्तं प्रयोजनं सामथ्यं त्रिकाणां दर्शयति । अध्यात्मपक्षे - हे इन्द्र परमेश्वर, सं मनसा सानुग्रहेण मनसा त्वं नोऽस्मान् गोभिः पशुभिर्वेदवेदान्त- सङ्गमय । लक्षणाभिः स्तुतिलक्षणाभिर्वाग्भिः सन्नेषि संयोजय । सूरिभिर्ब्रह्मविद्वरिष्ठैर्भगवत्परायणैर्विद्वद्भिर्नः सङ्गमय । देवकृतं स्वस्त्या क्षेमेण प्राप्तरक्षण रूपेणाविनाशेन संयोजय । ब्रह्मणा वेदेन धर्मब्रह्मबोधकेनास्मान् श्रुति में ज्योतिष्टोम की याज्ञिक विधि के का हवन किया जाता है । समिष्टयजुर्होम का यह प्रथम मन्त्र है । शतपथ अनुकूल मन्त्रार्थ उपदिष्ट है । हम लोगों को वेद - वेदान्तादिरूपिणी तथा अध्यात्मपक्ष में अर्थ यह है— हे परमेश्वर, आप कृपापूर्ण अन्तःकरण से विद्वानों से हमको संगत करें, प्राप्त -स्तुति आदिरूपिणी वाणियों से संयुक्त करें, वरिष्ठ ब्रह्मवेत्ताओं, भगवत्परायण करें, देवताओं के लिये अनुष्ठित यज्ञरूपी कर्म से रक्षणात्मक क्षेम, कल्याण से युक्त करें, धर्मब्रह्मबोधक वेद से युक्त
पृष्ठ 207
पाठ पढ़ें पाठ छिपाएँ
म ० १५-१६ ] वेदार्थपारिजातभाष्यसहिता १५३ देवार्थं कृतं कर्म यज्ञाख्यं देवैः कृतं दृष्टं वा यत् कर्मास्ति, तेनास्मान् संयोजय । तथा यज्ञियानां यज्ञसम्बन्धिनां देवानां सुमतौ सुमत्याऽनुग्रहोपेतया बुद्ध्या नः सङ्गमय । तथा सर्वाभीष्टसम्पादयित्रे तुभ्यं स्वाहा सुहुतमस्तु । दयानन्दस्तु -- ' हे मघवन्निन्द्र, विद्यादिपरमैश्वर्ययुक्ताध्यापकपदेशक, यतस्त्वं सं मनसा सन्मार्गेण गोभिर्धेनुभिर्वाग्भिर्वा सं स्वस्त्या सुष्ठुवचनयुक्तैः सुखमयैः पुरुषार्थव्यवहारैः " सूरिभिः विद्वद्भिः सह ब्रह्मणा बृहता ज्ञानेन धनेन वा विद्यां प्रापयसि यद् यज्ञियानां देवानामाप्तानां स्वाहा सुमतौ सत्यवाग्युक्तायां शोभनायां बुद्धदेवकृतमिन्द्रियकृतं कर्म यज्ञकृतमस्ति, नोऽस्मान् सन्नेषि, तस्मात्त्वमस्माभिः सत्कर्तव्योऽसि ' इति, तत्तु सर्वमप्यस्पष्टमेव । तद्भाषाभाष्ये तु – ' हे मघवन् सत्यविद्याद्यैश्वर्ययुक्त गृहपते अध्यापक उपदेशक, यतस्त्व-मुत्तमान्तःकरणेन सं सन्मार्गं गोभिः सं स्वस्त्या सुष्टुवचनयुक्तैः सुखमयैर्व्यवहारैः सूरिभिर्विद्वद्भिः सह ब्रह्मणा वेदविज्ञानेन धनेन यज्ञपालनकर्तॄणां कर्तुं योग्यं विदुषां सत्यवाग्युक्तायां बुद्धौ देवकृतं विदुषां क्रिया कर्मास्ति, तत् सत्यवाचा नोऽस्मभ्यं सन्नेषि सम्यक् प्रापयसि । अत एवास्माभिः पूज्योऽसि ' इति, तदपि परस्परमसम्बद्ध-मस्पष्टार्थमेव । ' यतस्त्वं नोऽस्मभ्यं मनसा सन्मार्ग प्रापयसि गोभिर्धेनुभिः सुवाग्युक्तैर्व्यवहारैः पुरुषार्थं प्रापयसि ब्रह्मणा वेदेन धनेन वा विद्यां प्रापयसि यज्ञपालयितृणामाप्तानां सत्यवाचा युक्तायां शोभनायां बुद्धौ यत् क्रिया कर्मास्ति तत्प्रापयसि, तस्मात्त्वं पूजनीयोऽसीति तु युक्तम् ' इति कश्चिदाह, तदप्ययुक्तम्, अध्याहार बाहुल्यात् । ' न ' इत्यव्ययेन ' सम् ' इत्युपसर्गेण च ते तेऽर्था ग्रहीतुं शक्याः, किन्तु न तथात्वे किमपि प्रमाणम्, श्रुतिसूत्रविरोधश्च स्पष्टः ॥ १५ ॥
सं वर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रम॑न्महि॒ मन॑सा॒ त्वष्टसुद विद॑धातु॒ रायोऽनु॑माहु॑ त॒न्वो॒
सधैं शि॒देन॑ ।
WW यद्विलिंष्टम् ॥ १६ ॥
अथवा देवों के द्वारा दृष्ट अथवा अनुष्ठित जो कर्म हैं, उनसे हमें संयुक्त करें तथा यज्ञसम्बन्धी देवताओं की सुमति, अनुग्रहयुक्त बुद्धि से हमें संगत करें । इस प्रकार समस्त अभीष्टों का सम्पादन करने वाले आपके लिये सर्वस्व समर्पित है । स्वामी दयानन्द द्वारा वर्णित समस्त मन्त्रार्थ अस्पष्ट है । भाषा - भाष्य भी परस्पर असम्बद्ध तथा अस्पष्टार्थ है । अध्याहार की बहुलता के कारण यह अर्थ ग्राह्य नहीं है । ' न ' इस अव्यय पद के द्वारा तथा ' सम् ' इस उपसर्ग से वे अर्थ ग्रहण किये जा सकते हैं, किन्तु ऐसा करने में कोई प्रमाण नहीं है । श्रुति तथा सूत्र के वचनों का विरोध तो स्पष्ट ही है ॥ १५ ॥
मन्त्रार्थ -- हम ब्रह्मवर्चस् तेज, क्षीरादि रस, अनुष्ठान के योग्य शरीर के अवयव और युक्त हुए हैं । उत्तम दान देने वाले त्वष्टादेव मुझे सम्पत्ति वें और मेरे शरीर में जो न्यूनता हो, पोषण करें । यहाँ आहवनीय अग्नि की प्रदक्षिणा करके पूर्णपात्र का ग्रहण और ' सं वर्चसा ' किया जाता है ॥ १६ ॥
२० शान्त मन - इन सबसे उसे दूर करके उसका मन्त्र से मुखमार्जन
पृष्ठ 208
पाठ पढ़ें पाठ छिपाएँ
१५४ शुक्लयजुर्वेदसंहिता [ अ ० ८ च अथ द्वितीयः । प्रजापतिदृष्टा त्वाष्ट्री त्रिष्टुप् । ( ८1१४ ) स्थले व्याख्यातोऽयं पयसेति रसो मन्त्रः वै । पयस्तत्पयसा अत्रत्यं ब्राह्मणम् -'सं वर्चसा । पयसा सन्तनुभिरिति वर्चसेति तद्वर्चसा रिरिचानमाप्याययति तन्वो यद्विलिप्टमिति रिरिचानमाप्याययत्यगन्महि मनसा स शिवेन त्वष्टा सुदत्रो विदधातु रायोऽनुमाटु द्विवृढं तत्सन्दधाति ' ( श ० ४ । ४ । ४ । ८ ) इति । अध्यात्मपक्षे – हे परमेश्वर, त्वदीयेन सं मनसा सानुग्रहेण सङ्कल्पेन वयं वर्चसा ब्रह्मज्ञानेन शरीराख्यैः समगन्महि सङ्गता भवेम । पयसा रसेन क्षीरादिरसेन भक्तिरसेन वा सङ्गताः स्वाम । तनुभिर्ज्ञानध्यानसक्षमैः सं शिवेन कल्याणमयेन मोक्षेण संगताः स्याम । भवान् सुदत्रो लोकोत्तरो दाता त्वष्टा अविद्याकामकर्मादिच्छेत्ता- यद्विलिष्टं S स्मभ्यं रायो शमदमादिलक्षणा देवी: सम्पत्तीर्विदधातु सम्पादयतु । तन्वः शरीरस्य मामकस्य रोगदोषादिना न्यूनत्वं तदनुमा तदपाकरणेन शोधयित्वा ज्ञानध्यानानुगुण्येनाप्याययतु । ---दयानन्दस्तु - ' हे आप्ता विद्वांसः युष्माकं सुमतौ प्रवृत्ता वयं यो युष्माकं मध्ये श्रेष्ठः सुदत्रस्त्वष्टा विद्वानस्मभ्यं सं वर्चसा पयसा सं शिवेन मनसा यान् रायो विदधातु यत्तन्वो विलिष्टमनुमाटु, तैस्तांस्तच्च । तनूभिः समगन्महि ' इति, तदपि यत्किञ्चित् निर्मूलत्वात् । ' आप्ता: ' इति सम्बोधनमसङ्गतम्, मन्त्रबाह्यत्वात् मध्ये ' इत्यपि तथैव ' प्रवृत्ता वयम् ' इत्यपि निर्मूलम्, वेदबाह्यत्वादेव, अध्याहारे मानाभावात् । ' युष्माकं, सं वर्चसा स्वकपोलकल्पितमेव । ‘ सुदत्रः सं वर्चसा पयसा यान् रायो विदधातु ' इत्यपि न सङ्गतम्, सावशेषत्वात् कर्मतया पयसा विद्वान् वथं स्वस्य वान्यस्य वा रायः सम्पादयतीत्यस्य वक्तव्यत्वात् । अगन्महीत्यस्य ' तांस्तच्च ' ' तांस्तच्च ' इत्यस्य योजनमपि निर्मूलमेव । ' सं वर्चसा अगन्महि ' इति सरलमुपस्थितं चान्वयं ॥ परित्यज्य इत्यध्याहृत्य कर्मयोजने श्रुतत्यागाश्रुत कल्पनादिदोषबाहुल्यात् सर्वमप्येतन्निर्मूलमेव ॥ १६ भाष्यसार - ' सं वर्चसा ' यह ऋचा भी ज्योतिष्टोम के अन्तर्गत समिष्टयजुर्होम की द्वितीय आहुति के लिये विनियुक्त है । पूर्व में ( ८1१४ ) इसकी व्याख्या की जा चुकी है । अध्यात्मपक्ष में ऋचा का अर्थ यह है - हे परमेश्वर, आपके कृपापूर्ण संकल्प से हम लोग ब्रह्मज्ञान से संयुक्त हों । दुग्ध आदि रसों से अथवा भक्तिरस से युक्त हों । ज्ञान एवं ध्यान में समर्थ शरीर तथा कल्याणमय मोक्ष से संगत हों । लोकोत्तर आप हमारे लिये शम, दम आदि देवी सम्पत्तियों का सम्पादन दाता, अविद्या, काम, कर्म आदि के विनाशक करें । मेरे शरीर की जो रोग - दोष आदि के द्वारा न्यूनता है, उसका निराकरण कर उसे शुद्ध करके ज्ञान - ध्यान के गुणों से परिपूर्ण करें | स्वामी दयानन्द द्वारा वर्णित अर्थ में ' हे आप्तों ' यह सम्बोधन पद मन्त्र से बहिर्भूत होने के कारण असंगत है । अन्य अध्याहारों में भी प्रमाण नहीं है । अन्य भी वाक्य सावशेष ( अपूर्ण ) होने के कारण असंगत हैं । ' अगन्महि ' इस क्रिया के कर्म के रूप में ' तांस्तच्च ' इस प्रकार जोड़ना भी अप्रामाणिक है । फिर सरल तथा उपस्थित अन्वय का परित्याग करके अध्याहार से कर्म को संयुक्त करने में श्रुतत्याम तथा अश्रुतकल्पना आदि दोषों की अधिकता के कारण भी यह समस्त व्याख्यान निर्मूल है ॥ १६ ॥
पृष्ठ 209
पाठ पढ़ें पाठ छिपाएँ
म ० १७ ] वेदार्थ पारिजातभाष्यसहिता १५५ धा॒ता रा॒तिः स॑वि॒तेव॑ जुषन्तां प्र॒जाप॑तिनिधि॒पा देवो अ॒ग्निः । त्वष्टा॒ विष्णुः प्र॒जया॑ सर्ाणा यज॑मानाय॒ द्रवि॑णं दधात॒ स्वाहा॑ ॥ १७ ॥
अथ तृतीय: । धातृसवितृप्रजापतिदेवाग्नित्वष्टृविष्णुदेवत्या त्रिष्टुप् । धाता, सविता, प्रजापतिः, अग्निः, त्वष्टा, विष्णुः - एते षड्देवा इदमस्मद्धविर्जुषन्तां प्रीत्या सेवन्ताम् । कीदृशो धाता? रातिः, राति प्रयच्छतीति रातिर्दानशीलः, ' क्तिच्क्तौ च संज्ञायाम् ' ( पा ० सू ० ३ | ३ | १७४ ) इति क्तिच्प्रत्ययः । निधिरा निधीन् पातीति निधिपाः, शङ्खपद्ममहापद्मादिनिधीनां नवानां पालयिता | अग्निश्च कीदृश:? देवो दीप्यमानः । त एते देवाः प्रजया यजमानसम्बन्धिन्या सन्तत्या सह संरराणाः सम्यग् रममाणाः सन्तो यजमानाय द्रविणं दधात दधतु स्थापयन्तु । व्यत्ययेन मध्यमपुरुषः । अत्र ब्राह्मणम् -'धाता रातिः । सवितेदं द्रविणं दधात स्वाहेति तद्वेव रिरिचानं पुनराप्याययति यदाह यजमानाय द्रविणं दधात स्वाहेति ' ( श ० ४ ४ ४ ।९ ) । अध्यात्मपक्षे - स एकधा बहुधा भवतीति रीत्या परमेश्वर एवानेकरूपेण प्रार्थ्यते । धाता सर्वजगद्धारकः, रातिर्दानशीलः " परमात्मन एव सर्वजगदुत्पादकत्वेन धारकत्वात् तस्यैव सर्वेश्वरत्वेन सर्वदातृत्वात् । सविता सर्वप्रेरकः, सर्वान्तर्यामित्वात् । प्रजापतिः सर्व प्रजापालकः, निधिपा निधीनां नवानामान्तराणां ज्ञानविज्ञान-निधीनां पालकः अग्निः सर्वाग्रणीः सर्वनेता, देवो दीव्यति जगन्निर्मागादिना क्रीडत इति देवः - इत्याद्यनेन रूपेण संस्तूयमाना भगवदादिप्रादुर्भावाः प्रजया पुत्रपौत्रादितुल्यया भक्तप्रजया संरराणाः सम्यग्रममाणा इदमस्मत्समर्पितं हविर्जुषन्तां प्रीत्या सेवन्ताम् । यजमानाय उपासकाय द्रविणमभीष्टं भौतिक माध्यात्मिकं वा दधतु ददतु । मन्त्रार्थ - दानशील धाता देवता, सविता देवता, पद्म, महाशंख आदि निधियों का पालन करने वाले प्रजापति दीप्यमान अग्नि देवता, त्वष्टा देवता भगवान् विष्णु – ये सब हमारी दी हुई आहुति को ग्रहण करें और ये सब देवता यजमान की सन्तति के साथ भली प्रकार रमण करते हुए यजमान के निमित्त धन और पुष्टि को प्रदान करें । यह आहुति भली प्रकार गृहीत हो ॥ १७ ॥
भाष्यसार - ' धाता रातिः ' ऋचा से समिष्टयजुर्होम की तृतीय आहुति प्रदान की जाती है । शतपथ श्रुति याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । अध्यात्मरक्ष में ऋचा का अर्थ यह है वह एक ही बहुत रूपों में अभिव्यक्त होता है, इस रीति से परमेश्वर ही अनेक रूप से प्रार्थित किया जाता है । सम्पूर्ण जगत् का धारणकर्ता, दानशील, परमात्मा ही समग्र जगत् का उत्पादक होने के कारण धारक है । वही सर्वेश्वर होने के कारण सर्वदाता है । सर्वान्तर्यामी होने के कारण सबका प्रेरक है । समस्त प्रजाओं का पालनकर्ता, नव निधियों तथा आन्तरिक ज्ञान - विज्ञान निधियों का पालक, सबसे अग्रणी, सबका नेता, जगत् के निर्माण आदि के द्वारा क्रीडाशील -- इत्यादि अनेक रूप से संस्तुत भगवान् के आदि अवतार, पुत्र - पौत्रादि के समान भक्त प्रजा के द्वारा भली भाँति प्रसन्न होते हुए हमारे द्वारा समर्पित इस हविष्य का प्रीतिपूर्वक सेवन करें । उपासक को अभीष्ट भौतिक, आध्यात्मिक धन प्रदान करें ।
पृष्ठ 210
पाठ पढ़ें पाठ छिपाएँ
१५६ शुक्लयजुर्वेदसंहिता [ अ ०८ , सविता सर्वेश्वर्धो-दयानन्दस्तु - ' हे गृहस्थाः भवन्तो धाता गृहाश्रमधर्ता, रातिः सर्वेभ्यः सुखदायकः अविद्यान्धकारदाहकः, त्वष्टा तादकः प्रजापतिः सन्तानादिपालकः, निधिपा विद्यावृद्धिरक्षकः, देवोऽग्निः प्रजया स्वसन्तानादिना सह संरराणाः सुखविस्तारकः, विष्णुः सर्वशुभगुणकर्मसु व्याप्त इवैतत्स्वभावा स्वाहा भूत्वा द्रविणं दधात ' इति, तदपि न किञ्चित्, सम्यग्दातारः सन्तः स्वाहेदं जुषन्तां बलवन्तो भूत्वा यजमानाय च ॥ १७ ॥
गौणार्थाश्रयणस्यायुक्तत्वात् । गृहस्था इति सम्बोधनमपि निर्मूलमेव, श्रुतिसूत्रविरुद्धं स॒गा वो॑ दे॒वाः सव॑ना अकर्म् य आ॑ज॒ग्मे सव॑नं जुषा॒णाः । भर॑माणा॒ वह॑माना हवी-व्य॒स्मे ध॑त्त वसवो॒ वसू॑ति॒ स्वाहा॑ ॥ १८ ॥
अथ चतुर्थः । देवदेवत्या त्रिष्टुप् । तुर्यः पादो दशार्णः । हे देवाः, ये यूयमिदं यज्ञे सवनमिमं सुगाः सुगमनीयानि यज्ञं जुषाणाः, सेवमाना आजग्म आजग्मुः, गमेलिटि मध्यमबहुचनम्, तेषां वो युष्माकम् अस्मिन् स्थानानि अकर्म वयमका, सुपूर्वाद् गमेर्डप्रत्यये सुगेति रूपम्, विभक्तेराकारः सदना सदनानि हवींषि भरमाणा जोषयन्तो करोतेश्च्लिलोपे लुङि उत्तमबहुवचने अकर्मेति रूपम् । हे वसवः, निवासहेतवो स्थापयत । समाप्ते यज्ञे भरमाणा वहमाना रथादिभिश्च नयन्तो यूयमस्मे अस्मासु वसूनि धनानि धत्त हवींषि वमाना वहमाना ये रथिनस्ते रथेषु भरमाणा वहमाना हवींषि, ये तु अरथिनस्ते, स्कन्धावसक्तिमासु । अस्मासु धत्त दत्त | यद्वा भरमाणाः पुष्णन्तो वहमाना रथादिभिर्नमन्तस्तेभ्यो युष्मभ्यं स्वाहा देवाः अत्र ब्राह्मणम् -- ' सुगावो देवाः । सदना अकर्म य आजग्मेदः सवनं जुषाणा इति सुगानि व्यवसृजति वो सदनान्यकर्म य आगन्तेद सवनं जुषाणा इत्येवैतदाह भरमाणा वहमाना हवी षीति तद्देवता भरमाणा भरमाणा अह ते यन्तु येऽवाहना वहमाना उ ते यन्तु ये वाहनवन्त इत्येवैतदाह व्यवसृजति विमुञ्चति तस्मादाह । भरमाणा वहमाना हवीष्यस्मे धत्त वसवो वसूनि स्वाहा ' ( श ० ४ | ४ | ४ | १० ) । ये वाहनवन्तस्ते तै अह एव ते यन्तु । येऽवाहना रथादिरहितास्ते वहमानाः स्कन्धावसित्तिकासु, वहमाना रथादिभिर्नयन्तो यन्तु । स्वामी दयानन्द द्वारा वर्णित अर्थ में गौण अर्थ का आश्रयण अनुचित होने के कारण अग्राह्यता है । ' हे गृहस्थों ' एवं सूत्र के निर्देश विरुद्ध है ॥ १७ ॥
यह सम्बोधन भी अप्रामाणिक तथा श्रुति मन्त्रार्थ - हे देवताओं! आप लोग इस यज्ञ में आहुति ग्रहण करने के लिये यहाँ आये हो । आपके यज्ञ की समाप्ति पर स्थान को हमने सुख से प्राप्त होने योग्य बना दिया है । हे सबमें निवास करने वाले देवताओं, लिये धन-हवियों का भरण करने वाले रथ में बैठें और जिनके पास रथ नहीं है, वे स्वयं वहन करते हुए हमारे सम्पत्ति को धारण करें । आप लोगों के द्वारा यह आहुति भली प्रकार गृहीत हो ॥ १८ ॥
भाष्यसार - ' सुगावो देवा इस ऋचा का विनियोग भी पूर्ववत् समष्टियजुर्होम की चतुर्थं आहुति के प्रदान में किया गया है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।