वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 221–230
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 221–230
पृष्ठ 221
पाठ पढ़ें पाठ छिपाएँ
म ० २४ ] बेदार्थपारिजातभाष्यसहिता १६७ ' प्रास्य समिधं चतुर्गृहीतेनाभिजुहोत्यग्नेरनीकमिति ' ( का ० श्र ० १० ८ २४ ) | अप्सु समिधं प्रक्षिप्य चतुर्गृहीतेनाज्येन तदुपरि जुहुयात् । अग्निदेवत्या त्रिष्टुप् । अग्नेरनीकमिति परोक्षलिङ्गम्, दमे दमे समिधं यक्ष्यग्ने इति प्रत्यक्ष लिङ्गमेकस्मिन् वाक्ये न सङ्गतम्, अतो यच्छब्दाध्याहारेण व्याख्येयम् । यस्य तवाग्नेरङ्गन-शीलस्य अग्रे नयनशीलस्य वा सतोऽपान्नपात्संज्ञकमनीकं मुखमयमुदकमाविवेश प्रविवेश । यद्वा हे अपान्नपात्, तन्नामकाने, स त्वं दमे दमे तत्तद्यज्ञगृहे । अश्वमेधविषया वीप्सा । तत्र हि नानावभृथान्यहानि भवन्ति । असुर्यम् असुराणां स्वभूतं मायादिकमसुरैः कृतं यज्ञविघ्नं वा, प्रतिरक्षन् निवर्तयन् सन् समिधं यक्षि यज, संगतां कुरु, आत्मसात्कुरु । यद्वा समिधं समिन्धनसाधनं घृतं यक्षि यज संगतं कुरु । यजतिरत्र संगतिकरणार्थः । शपो लुकि लटि रूपम् । ततोऽनन्तरं ते जिह्वा ज्वाला घृतं प्रति, उच्चरण्यद् उच्चरतु, समिधः सकाशाद् उद्युक्तास्तु, यद्वा उद्युक्ताः सन्तु स्वाहा सुहुतमस्तु । उत्पूर्वाच्चरतेर्लोडर्थे ण्यत्प्रत्यय औणादिकः । अत्र ब्राह्मणम् -- ' अथ चतुर्गृहीतमाज्यं गृहीत्वा । समिधं प्रास्याभिजुहोत्यग्नेरनीकमप आविवेशापान्नपात् प्रतिरक्षन्नसुर्यं दमे दमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत् स्वाहेति ' ( श ० ४ | ४ | ५ | १२ ) | अवतरणा-नन्तरमेवाज्यग्रहणम् । ' अग्नेर्ह वै देवाः । यावद्वा यावद्वाप्सु प्रवेशयाञ्चक्रुनंदतो नात्रा रक्षा, स्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तमेतया च समिधैतया चाहुत्या समिन्धे, समिद्धे देवेभ्यो जुहवामीति ' ( श ० ४।४।५।१३ ) । समिधं प्रास्य तामेवैतेन चतुर्गृहीतेनापि जुहोति । कुतः? एतमाऽप्स्वग्निर्देवैः प्रवेशितः, तमेतया च समिधैतया चाहुत्या समिन्धे इति मन्त्रवाक्यशेषाभ्याम् । अध्यात्मपक्षे हे अग्ने परमात्मन्, यस्य तवाग्नेः परमात्मनोऽनीकं सैन्यमिव अपः, अबुपलक्षितान् कर्मफलभूतान् लोकान् आविवेश आभिमुख्येन प्रविष्टवान्, हे अपान्नपात्, अपां लोकानां न पतनं यस्मात् सोऽपान्नपात् परमात्मनो धारणशक्त्यैव लोकानां स्थितेः । ' येन द्यावापृथिवी विधृते तिष्ठतः ', ' येन द्यौरुग्रा पृथिवी च दृढा ' ( ऋ ० १०।१२११५ ) इति च श्रुतेः । स त्वं हे अग्ने, दमे दमे जनानां हृदयमेव त्वदीयं गृहम् तस्मिन् प्रतिहृदयम् प्रत्यन्तःकरणमिति यावत् तिष्ठन् असुर्यमसुराणां स्वभूतमज्ञानं तज्जन्यं मोहमदादिकं प्रतिरक्षन् निवर्तयन् समिधं ज्ञानवैराग्योद्दीपनसाधनं श्रवणमननादिकं यक्षि संगतं कुरु त्वत्कृपयैव निर्विघ्नश्रवणाद्युपपत्तेः । ते तव जिह्वा रसग्राहकं सरसं मम इन्द्रियं घृतं प्रति घृतगन्धिसमुत्कृष्टं स्नेहं प्रति उच्चरण्यद् उद् ऊध्वं चरण्यत् सव्यापारं भवतु । भाष्यसार - ' अग्नेरनीकम् ' यह ऋचा जल में समिधा का प्रक्षेप करने के अनन्तर उस पर चतुर्गृहीत घृत क आहुति प्रदान करने हेतु विनियुक्त है । यह याज्ञिक प्रक्रिया कात्यायन श्रौतसूत्र ( १० | ८ | २४ ) में वर्णित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे परमात्मन्, आप परमात्मा की लोकों में प्रविष्ट है, जिससे लोकों का पतन नहीं होता, अतः वह अपान्नपात् है, द्वारा ही लोकों की स्थिति है । ऐसे आप हे अग्निपरमात्मन् प्रत्येक अन्तःकरण में रहते हुए असुरों के स्वभूत अज्ञान तथा वैराग्य आदि उद्दीपनसाधन श्रवण - मनन आदि को संगत करें । आपकी कृपा से मेरी जिह्वास रस, मेरी इन्द्रिय घृतगन्धि समुत्कृष्ट स्नेह के प्रति उन्नत क्रियाशील बने । सेना की भाँति जो जलादि कर्मफलभूत क्योंकि परमात्मा की धारणशक्ति के प्राणियों का हृदय ही आपका आवास है । उस प्रत्येक गृह, उससे उत्पन्न मोहमद आदि को निवृत्त करते हुए, ज्ञान-आपकी कृपा से ही निर्विघ्न श्रवण आदि उपपन्न होते हैं ।
पृष्ठ 222
पाठ पढ़ें पाठ छिपाएँ
१६८ -शुक्लयजुर्वेदसंहिता [ अ ० ८ जलानि विवेश । दयानन्दस्तु – ' हे अग्ने गृहस्थ, त्वमग्नेः पावकस्यानीकं सैन्यमिव ज्वालासमूहम् मेघेषु अपो प्राणक्रीडासाधनेषु अपान्नपाद् आप्नुवन्ति याभिस्तासामुदकानां न पान्नाधः पतनशीलः, त्वमसुर्यमसुरेषु तत्त्वमनया क्रियया, भवं द्रव्यं प्रतिरक्षन् दमे दमे दाम्यन्ति जना यस्मिन् तस्मिन् समिधम्, समिध्यते प्रकाश्यते तां यजसि सङ्गच्छसे, ते जिल्ह्वा रसनेन्द्रियं घृतमाज्यम् उत् चरण्यत् चरणमिवाचरेत् ' इति, हिन्द्यां अपामुत्तम- तु - ' हे अग्ने विज्ञानयुक्त, त्वमन्नेवलासमूहरूपमनीकस्य प्रभावं जलानि च सम्यग् प्राणेभ्यश्च ज्ञात्वा जानीहि पदार्थेभ्य उत्पन्नं व्यवहारसाधकगुणान् ज्ञात्वा नपाद् अविनाशिस्वरूप, त्वम् असुयं मेघेभ्यः सम्यक् प्रयोजनं सम्पद्येत, तां सुवर्णादिद्रव्यं प्रतिरक्षन् प्रत्यक्षं रक्षन् दमे दमे गृहे गृहे समिधं यया क्रियया सर्वाणि कार्याणि यक्षि प्रचारय । ते जिह्वा रसनेन्द्रियं घृतं स्वदतु स्वाहा । सत्यव्यवहारेण देवादिसाधनसमूहाः । विवेशेति क्रियापदस्य कुर्वन्तु ' इति, तदुभयमपि न क्षोदक्षमम्, अग्निशब्दस्य गृहस्थार्थत्वे मानाभावात् इत्यर्थः जानीहीत्यपि नार्थः, धात्वर्थविरोधात् । आप्नुवन्ति याभिरिति व्युत्पत्त्याऽप्युत्तमव्यवहारसाधकगुणा प्रत्यक्षं रक्षन्नित्यर्थोऽपि प्रमाणापेक्ष कथम्? असुर्यशब्दस्य सुवर्णद्रव्यमित्यर्थोऽपि कल्पनैव प्रतिरक्षन्नित्यस्य २४ ॥ एव । समिधमित्यस्य यया क्रियया प्रयोजनं सिद्ध्यति सा क्रियेत्यर्थोऽपि मूलमपेक्षते ॥ स॒मद्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑ः । य॒ज्ञस्य॑ त्वा यज्ञपते सूक्तोक्तों नमोव के विधे यत् स्वाहा॑ ॥ २५ ॥
. रू W ' समुद्रेत इति ऋजीषकुम्भं प्लावयतीति ' ( का ० श्र ० १० २ ९ २१ ) । गतसारः सोम | ऋजीषस्तेन यदित्ययं निपातो पूर्ण कुम्भमप्सु क्षिपेत् । यथा जलोपरि कुम्भः प्लवेत्तथा कुर्यात् । सौमी विराड् दशाक्षरचतुष्पादा बहुलोदके-हृदयशब्देन सह सम्बद्ध्यते, समानलिङ्गत्वात् । हे सोम, यत् ते तव हृदयं समुद्रे समुद्रसमानास्वप्सु विशन्तु । वन्तर्मध्ये तिष्ठति वर्तते वा, तत्रैव प्रतितिष्ठत्विति शेषः । तत्रस्थं त्वां ओषधीर् ओषधयः सम्यग् शोभन-उतापि चापो जलानि त्वां विशन्तु । हे यज्ञपते, यज्ञस्य पालक! यज्ञस्य यजनीयं त्वां सूक्तोक्तौ वचनोच्चारणेन नमोवाके नमस्कारवचनेन च विधेम स्थापयामः । यस्मादेवं तस्मात् स्वाहा सुहुतमस्तु । यद्वा शोभनवचनोच्चारणेन नमोवाकेन नमस्कारवचनेन त्वां विधेम परिचरेम । अर्थं स्वामी दयानन्द द्वारा वर्णित संस्कृत तथा हिन्दी दोनों ही अर्थ अग्राह्य हैं, क्योंकि अग्निशब्द का कारण गृहस्थ अनुचित करने में कोई प्रमाण नहीं है । ' विवेश ' इस क्रियापद का ' जानो ' यह अर्थ भी धात्वर्थं से विरुद्ध अर्थ होने ' जिस के क्रिया के द्वारा है । ' असुर्य ' शब्द का ' सुवर्ण द्रव्य ' अर्थ करना भी केवल कल्पना ही है । ' समित् ' शब्द का प्रयोजन सिद्ध होता है, वह क्रिया ' इस प्रकार करने में भी प्रमाण की अपेक्षा है || २४ ॥ जल में छिपा हुआ है, मैं तुम्हें वहाँ प्रेषित करता हूँ । वहाँ औषधियाँ और पवित्र जल प्रवेश करें । हे यज्ञ के पालक मन्त्रार्थ - हे सोम! तुम्हारा हृदय समुद्र के निवास करते समय तुम्हारे भीतर नाना प्रकार की सोम, यज्ञ के निमित्त मंगलमय शब्दों का उच्चारण करते हुए नमस्कार वचन में हम आहुति आपके द्वारा भली प्रकार गृहीत हो ॥ २५ ॥
तुमको स्थापित करते हैं । यह भाष्यसार — कात्यायन श्रौतसूत्र ( १०।९ ।१ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' समुद्रे ते ' इस ऋचा
पृष्ठ 223
पाठ पढ़ें पाठ छिपाएँ
मं ० २५ ] वेदार्थ पारिजातं भाष्यसहिता १६ ९ अत्र ब्राह्मणम् -'अन्यतरत् कृत्वा यस्मिन् कुम्भ ऋजीषं भवति तं प्रप्लावयति समुद्रे ते हृदयमप्स्वन्त-रित्यापो वै समुद्रो रसो वा आपस्तस्मिन्नेत रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव संजनयति संत्वा विशन्त्वोषधीरुताप इति तदस्मिन्नुभय रसं दधाति यश्चौषधिषु यश्चाप्सु यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहेति तद्यदेव यज्ञस्य साधु तदेवास्मिन्नेतद्दधाति ' ( श ० ४।४।५।२० ), ' ता वा एताः । षडाहुतयो भवन्ति षड्वा ऋतवः संवत्सरस्य संवत्सरो वरुणस्तस्मात् षडाहुतयो भवन्ति ' ( श ० ४ | ४ | ५ | १८ ), ' एतदादित्यानामयनम् ' ( श ० ४ | ४ | ५ | १ ९ ) इति षडाहुतिकोऽवभृथपक्ष: । ' आदित्या-नीमानि यजुषीति वा आहुः स यावदस्य वशः स्यादेवमेव चिकीर्षेद्यद्यु एनमितरथा यजमानः कर्तवे ब्रूयादित -रथो तह कुर्यादेतानेव चतुरः प्रयाजानपबर्हिषो यजेद् द्वावाज्यभागी वरुणमग्नीवरुणौ द्वावनुयाजावप बहिष तद्दश दशाक्षरा वै विराड़ विराड् वै यज्ञस्तद्विराजमेवैतद् यज्ञमभिसम्पादयति ' ( ० ४ । ४ । ५ । १ ९ ), ' एतदङ्गिरसा-मयनम् ' ( श ० ४।४।५।२० ) इति प्रोक्तयोः षडाहुतिकदशाहुतिकपक्षयोः षडाहुतिकं वा दशाहुतिकं वाऽवभृथं कृत्वा ऋजीषकुम्भं जले प्लावयेत् । अध्यात्मपक्षे - हे सोम, उमया सहितो देवः सोमस्तत्सम्बुद्धी, यत्ते तव हृदयं सारतमं रूपं देहस्य वा समुद्रे परमानन्दसुधासिन्धौ अप्सु लोकेष्वन्तः सर्वान्तर्यामितया सर्वाधिष्ठानतया च वर्तमाने स्वस्वरूपे वर्तते, तत्र स्थितं त्वां सर्वा ओषधीरोषधयः संविशन्तु, उतापि च आपो लोकाः संविशन्तु सर्वेषां कार्याणां परम-कारणपर्यवसायित्वात् । हे यज्ञपते, यज्ञस्य फलदातृत्वेन पालक सोम, यज्ञस्य यजनीयस्य तव सूक्तोक्तो शोभनवचनोच्चारे नमोवाके नमस्कारवचने त्वां स्थापयामः, त्वामेव स्तौमि नौमि चेत्यभिप्रायः । दयानन्दस्तु – ' हे यज्ञपते! गृहस्थाश्रमस्य रक्षक, यथा वयं स्वाहा प्रेमोत्पादयित्र्या वाण्या यज्ञस्य गृहाश्रमानुकूलव्यवहारस्य सूक्तोक्तौ सूक्तानां वेदस्थानां प्रामाण्यस्योक्तिर्यस्मिन् गृहाश्रमे नमोवाके वेदस्थस्य नम इत्यन्नस्य सत्कारस्य च चकारवचनानि यस्मिन् तस्मिन् समुद्रे सम्यग् द्रवीभूते व्यवहारे ते तव यद् अप्सु प्राणेषु अन्तः अन्तःकरणं विधेम निष्पादयेम, तथा तेन विदिता ओषधीर्यवाद्यास्त्वां समाविशन्तु, उतापस्तव सुखकारिवाः सन्तु ' इति, हिन्द्यां तु — ' सूक्तोक्तौ तस्मिन् प्रबन्धे यत्र वेदवचनप्रमाणैः शोभना वार्ताः सन्ति, वेदप्रमाणसिद्धान्तानां सत्कारादिपदार्थानां च वादानुवादरूपे आर्द्रव्यवहारे सर्वेषां प्राणेषु च ते तव हृदयस्य मनसश्च सन्तुष्टि विधेम ’ इत्यादिकम्, तत्सर्वमेव निरर्थकम्, अस्पष्टत्वात् श्रुतिसूत्रविरोधाच्च । विरोधश्च पूर्वव्याख्यानेन स्पष्ट एव ॥ २५ ॥
के द्वारा सोमलता के रसविहीन अंश ऋजीष ( खोई ) से भरे हुए कलश को जल में बहाया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल मन्त्रार्थ उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है - हे उमासहित महेश्वर, आपका जो सारभूत स्वरूप है, अथवा देह के परमानन्द सुधासिन्धु में है, समस्त लोकों में सर्वान्तर्यामित्व अथवा सर्वाधिष्ठानत्व के द्वारा विद्यमान स्वस्वरूप में स्थित है, उसमें अवस्थित आपके प्रति सम्पूर्ण ओषधियां निविष्ट हों तथा समस्त लोक निविष्ट हों, क्योंकि सभी कार्य परम कारण में ही पर्यवसित होते हैं । यज्ञ के फलदाता के रूप में हे यज्ञपालक, यजनाहं आपके सुन्दर गुणोच्चारण में तथा नमस्कृति वचनों में हम आपको प्रतिष्ठित करते हैं, अर्थात् आपका ही स्तवन, नमन करते हैं । स्वामी दयानन्द द्वारा निरूपित संस्कृत तथा हिन्दी दोनों ही व्याख्याएँ अस्पष्ट तथा श्रुतिवचनों एवं सूत्रवाक्यों से विरुद्ध होने के कारण असंगत हैं, यह पूर्वोक्त व्याख्या से स्पष्ट ही है ॥ २५ ॥
२२
पृष्ठ 224
पाठ पढ़ें पाठ छिपाएँ
१७० शुक्लयजुर्वेदसंहिता { अ ० ८ देवी॑राप एव वो गर्भस्तथं सुप्रीत सुभृतं बिभृत | देव॑ सोमे॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च वक्ष्त्र परिं च वक्ष्त्र ॥ २६ ॥
' देवीराप इति विसृज्योपतिष्ठत इति ' ( का ० श्र ० १० / ९ / २ ) । आप्लावितमृजीषकुम्भं मुक्त्वोपस्थानं कुर्यात् । पङ्क्तिर्वृहती वा अष्टात्रिंशदक्षरत्वात् । पूर्वार्धमब्दैवतमुत्तराधं सोमदेवत्यम् । हे आपो देव्यः, वो युष्माकमेष सोमो गर्भो गर्भस्थानीयः । तं तादृशं सोमं सुप्रीतं शोभनप्रीतियुक्तं सुभृतं सुपुष्टं बिभृत धारयत । हे देव दीप्यमान सोम, ते तव एष जललक्षणो लोकः स्थानम्, तत्रावस्थितस्त्वं शं सुखं वक्ष्व वह, अस्मान् प्रति प्रापय । परि च वक्ष्व परिवह निवर्तय च, अस्मत्तः सर्वा आर्तीः । तस्मिन्नः शं चैधि, ' सर्वाभ्यश्च न आर्तिभ्यो गोपाय ' ( ० ४।४।२।२१ ) इति श्रुतेः । वहतेर्लोट्, मध्यमैकवचने तङि शपि रूपम् । अत्र ब्राह्मणम् -'अथानुसृज्योपतिष्ठते । देवीराप एप वो गर्भ इत्यपा ४. ह्येष गर्भस्त सुप्रीत, सुभृतं विभृतेति तदेनमद्भयः परिददाति गुप्त्यै देव सोमैष ते लोक इत्यापो ह्येतस्य लोकस्तस्मिञ्छं च वक्ष्व परि च वक्ष्वेति तस्मिन्नः शं चैधि सर्वाभ्यश्च आर्तिभ्यो गोपायेत्येवैतदाह ' ( ० ४ | ४ | ५ | २१ ) । अनुसृज्य विसृज्य एनं सोममद्भयः परिददाति । गुप्त्यै रक्षायै आपः स्तूयन्ते । शेषं स्पष्टम् । अध्यात्मपक्षे -- हे देव्यो द्योतमाना बुद्धयः, आपो दमादिगुणव्यापिन्यः, वो युष्माकमेष सोमो भक्तिज्ञान-रूपः सोमवदाह्लादको गर्भो गर्भस्थानीयः । यूयं तं तादृशं गर्भं बिभृत धारयत । कीदृशं तम्? सुप्रीतं शोभना प्रीतिर्यस्मात्तं सुभृतं सुपुष्टम् । सोमं च वदति - हे सोम देव, एष बुद्धिलक्षणस्ते तव लोकः स्थितिः स्थानम् । तत्रावस्थितः सन् शं कल्याणं मोक्षं वक्ष्व प्रापय । सर्वा आर्तीर्जननमरणाविच्छेदलक्षणाः संसृती निवर्तय । दयानन्दस्तु - ' हे आपो देवीर्देव्यो देदीप्यमाना आपः शुभगुणकर्मविद्याव्यापिन्यः, यूयं वो युष्माकं य एष प्रत्यक्षो गर्भो लोको लोकनीयः पुत्रपत्यादिसम्बन्धसुखकरो गृहाश्रमः, तं सुप्रीतं सुष्ठु प्रीतिनिबद्धं सुभृतं सुष्ठु धारितं यथा स्यात्तथा बिभृत धरत । हे देव सोम दिव्यगुणैः कमनीय सोम, ऐश्वर्याढ्य गृहस्थजन, य एष ते लोकोऽस्ति, मन्त्रार्थ - हे दिव्य गुणयुक्त जल देवता, तुम्हारा यह सोमकुम्भ गर्भस्थानीय है । इसलिये इसको प्रीतिपूर्वक, पुष्टिपूर्वक धारण करो । हे सोम देव, यह जल तुम्हारा स्थान है, इसमें तुम सुखपूर्वक रहो और हमें भी सुख हो । हमारे सभी दुःखों को दूर कर हमारी रक्षा करो ॥ २६ ॥
भाष्यसार - ' देवीरापः ' इस ऋचा के द्वारा बहाये गये ऋजीषकुम्भ को विसर्जित करके उपस्थान किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १० / ९ / २ ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थं उपदिष्ट है । अध्यात्मपक्ष में अथंयोजना इस प्रकार है --विद्योतमान तथा दमादिगुणव्यापिनी हे बुद्धियों, तुम लोगों का यह भक्तिज्ञानरूपी एवं सोम की भाँति आह्लादकारी रूप गर्भ की भाँति है । तुम लोग इस प्रकार के गर्भ को धारण करो । वह सुन्दर प्रीतियुक्त तथा सुपुष्ट है । उस सोम के प्रति उक्ति है कि हे सोमदेव! यह बुद्धिरूपी आपका लोक, स्थान है । उसमें अवस्थित होते हुए आप कल्याण, मोक्ष को प्राप्त करावें । जन्ममरण की निरन्तरता रूपी समस्त संसृतियों को निवृत्त करें । स्वामी दयानन्द द्वारा वर्णित व्याख्या में गर्भ शब्द का अर्थ न होने के कारण न्यूनता है । पुत्र, पति आदि सम्बन्धों
पृष्ठ 225
पाठ पढ़ें पाठ छिपाएँ
म ० २६-२७ ] वेदार्थ पारिजातभाष्यसहिता १७१ तस्मिन् शं कल्याणकारकं • ज्ञानं च शिक्षां वक्ष्व प्रापय, चाद्रक्ष परिवक्ष्व वह ' इति, तदपि यत्किञ्चित्, गर्भशब्दार्था-नुक्तेः । नहि पुत्रपत्यादिसम्बन्धसुखकरो गृहाश्रम एव लोकनीयः, धर्मब्रह्मणोरपि लोकनीयत्वाविशेषात् । सोमशब्दस्य ऐश्वर्याढ्यो गृहस्थजनः कथमर्थ इत्यस्याप्यनुक्तेः ॥ २६ ॥
अव॑भूथ निचुम्पुण निचे॒रुर॑सि निचुम्प॒णः । अव॑ दे॒वैदे॑वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यैर्मर्त्यष्वृतं
रावण देव रिषस्पाहि । दे॒वाना॑ स॒मद॑सि ॥ २७ ॥
' अवभृथेति मज्जयतीति ' ( का ० श्र ० १० ९ ३ ) । ऋजीषकुम्भं जले प्रवेशयेत् । यज्ञदैवतम् । अवाची-नानि पात्राणि जलमध्ये श्रियन्ते यस्मिन् यज्ञविशेषे सोऽवभृथ इति काण्वभाप्ये सायणाचार्यः । तत्सम्बुद्धौ हे अवभृथ त्वं निचुम्पुण नितरां मन्दं गच्छ । ' चुपि मन्दायां गतौ ' इति धातो रूपम् । यद्यपि त्वं निचेरुनितरां चरणशीलोऽसि, तथाप्यत्र निचुम्पुण मन्दं गच्छ । किं प्रयोजनमित्युच्यते देवैद्यतनात्मकै रस्मदीयैरिन्द्रियैः, देवकृतं हविः, स्वामिषु देवेषु कृतमेनः पापं यदस्ति, तदवायासिषम् अस्मिन् जलेऽपनीतवानस्मि । अथ मयैर्मनुष्यै-रस्मत्सहायभूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु मनुष्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञादिरूपं यदेनोऽस्ति तदप्यहमवा-यासिषमित्यनुवर्तनीयम् । अस्माभिः परित्यक्तमेनो यथा त्वां नावाप्नोति तथा हे यज्ञ! त्वं मन्दं गच्छ । देव अवभृथाख्य यज्ञ, त्वं पुरुराणो बहुविधविरुद्ध फलदायिनो रिपो वधात् पाहि पालय । ' रा दाने ', रिष वधे ', विरुद्धफलदायी वधस्त्वत्प्रसादादस्माकं मा भूदित्यर्थः । ' देवः गुरे धने राज्ञि देवमाख्यातमिन्द्रियम् ' इति कोषाद् देवपदेनेन्द्रियाणि देवाश्च गृह्यन्ते । ' आहवनीये समिदाधानं देवाना समिदसीति ( का ० श्र ० ५।५।३४ ) । स्नानानन्तरमाहवनीयमेत्य तस्मिन् समिधं दध्यात् । अग्निदैवतं यजुः । हे अग्ने, त्वं देवानां सम्बन्धिनी समिदसि इन्धनमसि यद्वा देवभूतानामस्माकं समित् समिन्धनम् असि भवसि । अत्र ब्राह्मणम्- ' अथोपमारयति । अवभृथ निचुम्पुण निचेरुरसि निचुम्पुण: । अव देवैर्देवकृतमेनोऽयासिष-मव मयैर्मर्त्यकृतमित्यव ह्येतद्देवैर्देवकृतमेनोऽयासीत् सोमेन राज्ञाऽव मयैर्मर्त्य कृतमित्यव ह्येतन्मयैर्मर्त्यकृतमेनोऽ-यासीत् पशुना पुरोडाशेन पुरुराव्णो देव रिपस्पाहीति सर्वाभ्यो मातिभ्यो गोपायेत्येवैतदाह ' ( श ० ४।४।५।२२ ) । उपमारयति ऋजीषकुम्भं मज्जयति सोमेन राज्ञा देवैर्देवकृतमेनोऽयासीत्, पशुना पुरोडाशेन च मयैर्मर्त्यकृत-मेनोऽयासीदिति पुरुराव्णो पाहीत्यनेन सर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाह । ' अथाभ्यवेत्य स्नातः । से सुखकर होने के कारण केवल गृहस्थाश्रम ही अभीष्ट नहीं हो सकता, क्योंकि धर्म तथा ब्रह्म में भी लोकनीयता समान ही है । सोम शब्द का अर्थ ' ऐश्वर्यसम्पन्न गृहस्य ' कैसे होगा, यह भी स्पष्ट नहीं किया गया है । २६ ॥ मन्त्रार्थ - हे अवथ यज्ञ, तुम धीरे - धीरे चलो । तुम अत्यन्त तीव्र गति से चलने वाले हो, तो भी हमारे यहाँ अतिमन्द गति से चलो । हमारी इन्द्रियों के द्वारा अज्ञानवश हवि के स्वामी देवताओं के प्रति जो अनजाने में पाप हो गये हैं, उन्हें हमने जल में छोड़ दिया है । हमारे सहायक ऋत्विजों ने यज्ञदर्शन के लिये आये हुए मनुष्यों के प्रति जो अवज्ञारूप पाप किया है, उसे भी हमने जल में छोड़ दिया है । हे अवभृथ यज्ञ, विपरीत फल देने वाले अनिष्ट से हमारी रक्षा करो । तुम्हारे प्रसाद से कोई दोष हमें न लगे । देवताओं के निमित्त दी गई समिधा दीप्तिमान् हो ॥ २७ ॥
भाष्यसार - ' अवभृथ निचुम्पुण ' इस कण्डिका के मन्त्रों से ऋजीष कुम्भ को जल में डुबाया जाता है तथा आहवनीय
पृष्ठ 226
पाठ पढ़ें पाठ छिपाएँ
१७२ शुक्लयजुर्वेद संहिता [ अ ० ८ अन्योऽन्यस्य पृष्ठे प्रधावतस्तावन्ये वाससी परिधायोदेतः स यथाहिस्त्वचो निर्मुच्येतैव सर्वस्मात् पाप्मनो निर्मुच्यते तस्मिन्न तावच्च नैनो भवति यावत्कुमारेऽदति स येनैव निष्क्रामन्ति तेन पुनरायन्ति पुनरेत्याहवनीये समिधमभ्यादधाति देवाना समिदसीति यजमानमेवैतया समिन्धे देवाना हि समिद्धिमनु यजमानः समिद्धयते ' ( श ० ४।४।५।२३ ) । अथाभ्यवेत्य ऋजीषकुम्भं मज्जयति । ततो यजमानपत्न्यौ स्नातः, अन्योऽन्यस्य पृष्ठतो धावतः । तौ चान्ये वाससी परिधाय उदेतः । तेन यथाहिस्त्वचो निर्मुच्यते, तथैव सर्वस्मात् पाप्मनो निर्मुच्यते । तस्मिन्न तावच्चनो भवति यावददति कुमारे न भवति । स येनैव पथा निष्क्रामन्ति तेन पुनरायन्ति । पुनरेत्या-हवनीये समिदमादधाति देवानां समिदसीति मन्त्रेण । तत्प्रयोजनं मन्त्रार्थं चाह - यजमानमेवैतयेति । एतया समिधा यजमानमेव समिन्धयति दीपयति । देवानां समिद्धिमनु यजमानः समिद्धघते दीप्तो भवतीति । अध्यात्मपक्षे - हे अवभृथ, अवाचीनानि सर्वाणि महदादीनि कार्याणि त्रियन्ते यस्मिन्नधिष्टानभूते परमात्मनि सोऽवभृथस्तत्सम्बुद्धौ त्वं यद्यपि निचेरुनितरां चरणशीलोऽसि, ' मनसो जवीय: ' ( वा ० सं ० ४० ४ ) इति श्रुतेः तथापि निचुम्पुण नितरां मन्दं गच्छ । स्वानुगान् भक्तान् नयन् नितरां मन्दं गमनशीलो भव । वने गच्छन्तं रामं जनकनन्दिनी प्राह । अथवा वृन्दावनं गच्छन्तं श्रीकृष्णं गोपाङ्गनाः प्राहुः -- हे भगवन्! यद्यपि त्वं निचेरुरसि, तथाप्यस्माभिः सार्धं मन्दं गच्छ । देवैरस्मदीयैरिन्द्रियैर्देवेषु हविः स्वामिषु कृतं मरस्मत्सहायभूतैर्ऋत्विग्भिमंर्त्येषु दर्शनार्थमागतेषु मनुष्येषु कृतमवज्ञादिकमेनस्त्वन्नामोच्चारणात् त्वत्स्मरणाच्चावायासिषम् अपनीतवानस्मि । हे देव जगदुत्पत्तिस्थितिलयलील क्रीडापरायण, त्वं पुरुराग्गो बहुविरुद्धफलदायिनो रिषो वधात् पाहि । त्वत्प्रसादाद्विरुद्ध फलदायी वधो मा भूदित्यर्थः । त्वं देवानामिन्द्रादीनां समिदसि समिन्धनसाधनभूतोऽसि त्वदनुग्रहेणैव देवानां दीप्तिमत्त्वात् । दयानन्दस्तु – ' हे अवभृथ, यो निषेकेण गर्भ बिर्भात तत्सम्बुद्धी, निचुम्पुण नितरां मन्दगामिन् पते, त्वं निचुम्पुणो नित्यं कमनीयो निचेरुर्यो धर्मेण द्रव्याणि नित्यं चिनोति सोऽसि, देवानां समिदसि देवानां विदुषां मध्ये समित् सम्यग् दीप्तोऽसि । हे देव विजिगीषो देवैर्विद्वद्भिर्मत्यैर्मृत्युधः सह वर्तमानस्त्वं यद् अग्नि में समिदाधान किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १० / ९ / ३, ५/५/३४ ) में वर्णित है । शतपथ ब्राह्मण के अनुसार सायणाचार्य आदि ने याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थं किया है । अध्यात्मपक्ष में अर्थ संगति इस प्रकार है - अवाचीन सभी महदादि कार्य जिस अधिष्ठानभूत परमात्मा में अवस्थित होते हैं, वही अवभृथ है । उसको सम्बोधित किया गया है कि हे अवभृथ, आप यद्यपि अतिशय विचरणशील हैं, यह ' मनसो जवीय: ' ० सं ० ४० १४ ) आदि श्रुतियों से भी स्पष्ट है, तथापि आप अत्यन्त मन्द गति से चलें । अपने अनुगत भक्तों को ले चलते हुए बहुत धीमी गति से गमनशील हों, यह वन में जाते हुए श्रीराम के प्रति जनकात्मजा भगवती यद्यपि सीता के वचन हैं, अथवा वृन्दावन में संचरण करते हुए श्रीकृष्ण के प्रति गोपांगनाएँ कहती हैं कि हे भगवन्, आप अतिशय गतिवान् हैं, तथापि हमारे साथ धीरे चलिये । हमारी इन्द्रियों के द्वारा हविःस्वामी देवों के विषय में किये गये तथा हमारे सहायक ऋत्विजों के द्वारा दर्शनार्थं समागत मनुष्यों के सम्बन्ध में किये गये अवज्ञा आदि पाप को आपके नामोच्चारण तथा आपके स्मरण से हमने निराकृत कर दिया है । जगत् की उत्पत्ति, स्थिति एवं संहृति की लीला में निरत हे देव, आप अतिशय विरुद्ध फल देने वाले वध से हमारी रक्षा करें । आपके अनुग्रह से विरुद्धफलदायी वघ ( हिमा ) न हो । आप इन्द्रादि देवों की भी प्रदीप्ति के साधन हैं, क्योंकि आपकी कृपा से ही देवगण दीप्तिमान् हैं । स्वामी दयानन्द द्वारा वर्णित संस्कृत एवं हिन्दी दोनों व्याख्याएँ अस्पष्ट हैं । अवभृथ शब्द यज्ञविशेष के अर्थ में प्रसिद्ध है. यह शतपथ आदि श्रुतियों से प्रमाणित है । ऐसे अर्थ को छोड़ कर गर्भधारण पोषक - परक अर्थंकल्पना निर्मूल हो
पृष्ठ 227
पाठ पढ़ें पाठ छिपाएँ
२७-२८ ] दार्थ पारिजात भाष्यसहिता १७३ , देवकृतं कामिभिरनुष्ठितम् एनो दुष्टाचरणम्, मर्त्यकृतमसाधारणमनुप्याचरितमपराधमयासिषं प्राप्तवती रिषो तस्मात् पुरुराव्णो रिषो मां पाहि दूरे रक्ष । पुरवो बहवो रावाणोऽपराधदानशीला यरिमन् तस्माद् मनो हरसि । धर्मस्य हिंसनाद् मां पाहि ' इति, हिन्द्यां तु - ' हे अवभृथ गर्भधारक तत्पोषक, मन्दगतिर सि नित्यं धर्मेण नित्यं धनसञ्जयशीलोऽसि, विदुषां मध्ये सम्यग् दीप्तोऽसि । हे देव विजिगीषो, देवैविद्वद्भिर्मत्यैः साधारणजनैः सह वर्तमानस्त्वं कामिभिरनुष्ठितं साधारणमनुष्यैः कृतमेनोऽपराधम् अवायासिषम् अहं । प्राप्तवती, हिन्द्यां प्राप्तुमिच्छेयम् तस्माद् बहूनामपराधानां दातुर्धर्महिंसनान्मां पाहि ' इति, तत्सर्वमप्यस्पष्टमेव अवभृयशब्दो यज्ञविशेषार्थे प्रसिद्धः शतपथादिश्रुतिप्रमाणकश्च । तादृशमर्थमपहाय गर्भधारकपोषकपरत्व-कल्पनं निर्मूलमेव । न च धात्वर्थानुरोधेन तथा कल्पनं युक्तम्, तथात्वे गोशब्देन गमनशीलानां मनुष्यादीनामपि बोधप्रसङ्गात्, घटशब्दाच्चेष्टावतो मनुष्यपश्वादेश्व ग्रहणात् । किश्व कामिभिरनुष्ठितमपराधं प्राप्तुमिच्छेय-मित्यस्य कोऽर्थः? तस्मात् तथात्वे कथं पुरुराव्णो रिषः कामना? कथं च पत्युः सकाशात् तन्मुक्तिः? एवं भक्षितेऽपि लशुने न शान्तो व्याधिः । यथाकथञ्चिद् यथेच्छमर्थाङ्गीकारेऽपि न चेष्टसिद्धिः । ॥ नहि वेदे प्राकृत दैनन्दिनस्त्रीपुरुषव्यवहारवर्णनं सप्रयोजनम् । निचुम्पुणो नित्यं कमनीय इत्यपि चिन्त्यम् ॥ २७ एज॑तु॒ दश॑मास्यो॒ गर्भो ज॒रायु॑णा स॒ह । यथाऽयं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एजेति । 2 एवायं दश॑मास्यो॒ अन॑ज्ज॒राय॒णा सह ॥ २८ ॥
' निरुह्यमाणमभिमन्त्रयत एजतु दशमास्य इति ' ( का ० श्र ० २५। १० । ५ ) । यद्यनुवन्ध्याऽन्तर्वत्नी स्यात्, तत्र प्रायश्चित्तिरुच्यते -- यथा येन प्रकारेणायं वायुरेजति चलति, यथा समुद्रश्चलति एवमयं दशमास्यः दशमास्यो सम्पूर्णावयवो नापि गर्भो जरायुणा सह असद् निर्गच्छतु । दश मासा जाता यस्य स दशमास्यः । यद्यपि स्यात्, तथापि सम्पूर्णस्यैव निर्गमनमाशास्यते । शतपथे— ' अथ मैत्रावरुणीं वशामनुबन्ध्यामालभते " ( श ० ४।५।११५ ) इत्युपक्रम्य..... ' यद्वा ईजानस्य स्विष्टं भवति मित्रोऽस्य तद् गृह्णाति यद्वस्य दुरिष्टं भवति वरुणोऽस्य तद् गृह्णाति ' ( श ० ४।५।१।६ ) । वशाऽनुबन्ध्या । सा का इत्याह- ' यत्र वै देवा रेतः सिक्तं प्राजनयंस्ततोऽङ्गाराः समभवन्नङ्गारेभ्योऽङ्गिरसस्त -कल्पना करना उचित नहीं है, क्योंकि ऐसा होने पर गो शब्द से जायगा, घट शब्द से चेष्टा से युक्त मनुष्य, पशु आदि का अर्थ ग्रहण को प्राप्त करने की इच्छा करूँ ' इसका क्या अर्थ है? तथा ऐसा होने पति से उसकी कैसे मुक्ति संभव होगी? यह उसी प्रकार है, जिस अर्थ स्वीकार करने पर भी अभीप्सित की सिद्धि वर्णन मानना निरुद्देश्य है । ' निचुम्पुण ' का ' नित्य है । केवल धात्वर्थं की सहायता से इस प्रकार की गमनशील मनुष्य आदि का बोधन भी आपतित हो होने लगेगा । ' कामियों के द्वारा अनुष्ठित अपराध पद हिंसा से रक्षा की कामना किस प्रकार होगी? प्रकार लहसुन खाने पर भी रोग शान्त नहीं हुआ । स्वेच्छाचार से नहीं हो सकी । वेद में सामान्य प्रति दिन के स्त्री - पुरुष व्यवहार का कमनीय ' अर्थ भी विचारणीय है ॥ २७ ॥
मन्त्रार्थ - दस महीने का पूरा गर्भ गर्भवेष्टन जरायु के साथ अब अपने स्थान से चलायमान हो । जिस प्रकार यह पवन कम्पित होता है, जैसे समुद्र अपनी लहरों से कम्पित होता है, उसी तरह यह इस मास का पूर्ण गर्भ जरायु के साथ उदर से बाहर हो ॥ २८ ॥
भाष्यसार -- अनुवन्ध्या गौ यदि गर्भयुक्त हो, तो उसके प्रायश्चित्त कर्म में ' एजतु ' यह मन्त्र विनियुक्त है । शतपथ
पृष्ठ 228
पाठ पढ़ें पाठ छिपाएँ
१७४ शुक्लयजुर्वेद संहिता [ अ ० ८ दन्वन्ये पशवः ' ( श ० ४ | ५ | १ | ८ ) । यत्र काले प्रजापतिना स्वस्यां दुहितरि सन्ध्यायां रेतः सिक्तम्, तस्मिन् काले रेतसः प्रजन्यमानाबङ्गाराः सम्भूतास्तेभ्यश्चाङ्गिरसः, तदन्वन्ये पशवः अन्ये वत्सा गर्दभादयः । ' अथ यदासाः पासवः पर्यशिष्यन्त । ततो गर्दभः समभवत्तस्माद्यत्र पाछसुलं भवति गर्दभस्थानमिव बतेत्याहुरथ यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी वशा समभवत् तस्मादेषा न प्रजापते रसाद्धि रेतः सम्भवति रेतसः पशवस्तद्यदन्ततः समभवत्तस्मादन्तं यज्ञस्यानुवर्तते तस्माद्वा एषाऽत्र मैत्रावरुणी ' ( ० ४।५।११ ९ ) । यस्मिन् काले आसाः अस्याः पांसवः परिशिष्टास्तदा ततः पांसुभ्यो गर्दभः सम्भूतः । तस्मादेव यत्र पांसुलं स्थानं भवति तद् गर्दभस्थानमाहुः । अथ यदा न कश्चिदपि रससारो रेतसोऽवशिष्टः, तत एषा वशा सम्भूता । सा च मैत्रावरुणी । यस्माच्च क्षीणे रसे सूता, तस्मादेवा न प्रजायते । ' तं निरूह्यमाणमभिमन्त्रयते । एजतु दशमास्यो गर्भो जरायुणा सहेति स यदाहैजत्विति प्राणमेवास्मिन्नेतद्द्धाति दशमास्य इति यदा वै गर्भः समृद्धो भवत्यथ दशमास्यस्तमेतदप्यदशमास्य ७ सन्तं ब्रह्मणैव यजुषा दशमास्यं करोति ' ( श ० ४।५।२।४ ) । ' जरायुगा सहेति । तद्यथा दशमास्यो जरायुणा सहेयादेवमेतदाह यथाऽयं वायुरेजति यथा समुद्र एजतीति प्राणमेवास्मिन्नेतद्दधात्येवायं दशमास्यो अस्रज्जरायुगा सहेति तद्यथा दशमास्यो जरायुणा सह स्रसेतैवमेतदाह ' ( श ० ४।५।२।५ ) । अध्यात्मपक्षे हे बुद्धे, यथायं वायुः पवन एजति चलति यथा चायं समुद्र एजति, तथा ते दशमास्यः सम्पूर्णावयवः प्रबोधचन्द्ररूपो गर्भः, जरायुणा जरायुवदावरकेण रक्षकेण दृढतर्केण मननाख्येन सह, अनत् संस्तु निर्गच्छतु प्रकटो भवत्वित्यर्थः । अथवा सम्पूर्णावयवो गर्भः प्रबोधाख्यो जरायुणा गर्भवेष्टनेनेव दृढतर्करूपेण कवचेन सह एजतु सकामाया अविद्याया उन्मूलने व्यापृतो भवतु । दयानन्दस्तु – ' हे दम्पती, यथायं वायुरेजति 1 यथा समुद्र एजति तथा जरायुणा सह दशमास्यो गर्भ एजतु, क्रमेण वर्धताम्, एवं वर्धमानोऽयं जरायुणा सह दशमास्य एव अत्रत् स्रंसताम् ' इति, तदपि यत्किञ्चित् हे दम्पती! इति सम्बोधने मानाभावात् । ' क्रमेण वर्धताम्, एवं वर्धमानोऽयम् ' इत्याद्यपि निर्मूलम्, कम्पनार्थस्यैजतेर्वर्धमानार्थत्वायोगात् ॥ २८ ॥
यस्यै ते य॒ज्ञियो गर्भो यस्य॒ योनि॑हि॑र॒ण्ययो॑ अङ्गान्यहु॑ता॒ यस्य॒ तं मात्रा सम॑जीगम॒ स्वाहा॑ ॥ २ ९ ॥ ब्राह्मण में विनियोग के अनुकूल मन्त्रार्थ उपदिष्ट है । अध्यात्मरक्ष में अर्थ योजना इस प्रकार है - हे बुद्धि, जिस प्रकार यह वायु संचरणशील है तथा जिस प्रकार यह समुद्र गति करता है, उसी प्रकार तुम्हारा यह सम्पूर्ण अंगों से युक्त प्रबोधचन्द्ररूपी शिशु जरायु की भाँति आवरणकर्ता रक्षक मननसंज्ञक दृढ तर्क के साथ निर्गत हो, अर्थात् प्रकट हो । अथवा सम्पूर्ण अवयवों से युक्त प्रबोधरूपी गर्भ दृढ तर्क रूपी गर्भावरण कवच के साथ सकाम अविद्या के उन्मूलन में व्यापृत हो । स्वामी दयानन्द द्वारा वर्णित अर्थ में ' हे दम्पती ' इस प्रकार सम्बोधित करने में कोई प्रमाण न होने के कारण अग्राह्यता है । ' क्रम से वर्धित हो ' इत्यादि अर्थ करना भी अप्रामाणिक है, क्योंकि ' एज़ ' धातु केवल कम्पनार्थंक होने के कारण वर्धन अर्थ में प्रयुक्त नहीं होती ॥ २८ ॥
पृष्ठ 229
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ ] वेदार्थ पारिजातभाष्यसहिता १७५ ' अवदानान्यनुजुहोति यस्यै त इति ' ( का ० श्रौ ० २५।१०।९ ) । वशावदानानि हुत्वा प्रतिप्रस्थाता मेधं जुहुयात् । वशादेवत्यानुष्टुप् । हे वशे यस्यास्ते तव गर्भो यज्ञियो यज्ञार्हः, यस्यै यस्याश्च तव योनिर्हिरण्ययी सुवर्णमयी, ' ऋत्व्यवास्त्व्य ' ( पा ० सू ० ६ | ४ | १७५ ) इति निपातनान्मकारलोपः, ब्रह्मणा मन्त्रेण क्रियत इत्यर्थः, तादृशीं त्वां गर्भेण सङ्गमयामीति शेषः । यस्य गर्भस्याङ्गान्यहृता अकुटिलानि, ' ह्वृ कौटिल्ये ', अखण्डितानि तं गर्भं मात्रा अनुवन्ध्यालक्षणया समजीगमं सङ्गमयामि स्वाहा । ' हु ह्वरेश्छन्दसि ' ( पा ० सू ० ७२ ३१ ) इति ह्ररादेशो निष्ठायाम् । अत्र ब्राह्मणम् – ' यस्यै ते यज्ञियो गर्भः । अयज्ञिया वै गर्भास्तमेद् ब्रह्मणैव यजुषा यज्ञियं करोति यस्यै योनिर्हिरण्ययीत्यदो वा एतस्यै योनि विच्छिन्दन्ति यददो निष्कर्षन्त्यमृतमायुहिरण्यं तामेवास्या एतदमृतां योनिं करोत्यङ्गान्यहृता यस्य तं मात्रा समजीगम ११, स्वाहेति यदि पुमान् स्याद्यद्यु स्त्री स्यादङ्गान्यहुता यस्यै तां मात्रा समजीगम स्वाहेति यद्यु अविज्ञातो गर्भो भवति पुस्कृत्यैव जुहुयात् पुमा सो हि गर्भा अङ्गान्यता यस्य तं मात्रा समजीगम स्वाहेत्यदो वा एतं मात्रा विष्वचं कुर्वन्ति यददो निष्कर्षन्ति तमेतद् ब्रह्मणैव यजुषा समर्ध्य मध्यतो यज्ञस्य पुनर्मात्रा सङ्गमयन्ति ' ( श ० ४ | ५ | २ | १० ), अयज्ञिया वै गर्भाः । ब्रह्मणैव यजुषा यजुर्मन्त्रेण ते यज्ञिया भवन्ति । अध्यात्मपक्षे - हे बुद्धे, यस्यास्ते यज्ञियो यज्ञार्हो विष्णुपदप्राप्तियोग्यो गर्भः प्रबोधाख्यः यस्यास्ते योनि-रुत्पत्तिस्थानं हिरण्ययी ज्योतिर्मयी चित्प्रतिबिम्बोपेतत्वेन चित्सारत्वात् यस्य गर्भस्य प्रबोधाख्यस्याङ्गानि साधनानि, अद्भुता अहृतानि अकुटिलानि सरलानि शमदमादीनि तं प्रबोधाख्यं गर्भं मात्रा बुद्धया सह अहं समजीगमं सङ्गमयामि, वेदान्तश्रवणादिना बुद्धि ब्रह्मप्रबोधवतीं सम्पादयामीत्यर्थः । दयानन्दस्तु - ' हे विवाहिते सुभगे, अहं ते पतिः । यस्यै यस्यास्ते तव हिरण्ययी रोगरहिता शुद्धा योनिरस्ति, यस्यास्ते यज्ञियो यज्ञयोग्यो गर्भोऽस्ति, तस्यां त्वयि यस्य गर्भस्य अहतान्यकुटिलानि सरला-न्यङ्गानि स्युस्तं मात्रा गर्भकर्त्या त्वया सह समागम्य स्वाहा धर्मयुक्तया क्रियया समजीगमं सम्यक् प्राप्नुयाम् ' इति, तदपि यत्किञ्चित्, गर्भकामिन्या त्वया समागम्येत्यर्थस्य मूलबाह्यत्वात् । गर्भः कथं यज्ञियो भवतीत्यपि नोक्तम् । श्रुतिसूत्रविरोधस्तु स्फुट एव ॥ २ ९ ॥ मन्त्रार्थ - जिस श्रेष्ठ लक्षण वाले गर्भ का अधिपति यज्ञ देवता है, जिसका जन्मस्थान सुवर्ण के समान शुद्ध है, जिस गर्भ के अंग अकुटिल, अखण्डित और सरल हैं, उस गर्भ को मैं इस मन्त्र से माता के साथ संमानित करता हूँ । यह आहुति भली प्रकार गृहीत हो ॥ २ ९ ॥ भाष्यसार - कात्यायन श्रौतसूत्र ( २५ / १० / ९ ) में निरूपित याज्ञिक विनियोग के अनुसार ' यस्यै ते ' इस ऋचा से हवन किया जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थं उपदिष्ट है । अध्यात्मपक्ष में असंगति यह है - हे बुद्धि, तुम्हारा जो यज्ञार्ह, विष्णुपद की प्राप्ति के योग्य प्रबोधसंज्ञक गर्भस्थ शिशु है, तुम्हारी उत्पत्तिस्थली चित्प्रतिबिम्ब से युक्त होने के कारण चित्सारत्य होने से ज्योतिर्मयी है, जिस प्रबोधरूपी शिशु के अंगरूपी साधन अकुटिल सरल शम - दम आदि हैं, उस प्रबोधशिशु की माता बुद्धि के साथ मैं संगत होता हूँ, अर्थात् वेदान्त - श्रवण आदि के द्वारा बुद्धि को ब्रह्मप्रबोध से युक्त करता हूँ । स्वामी दयानन्द द्वारा निरूपित व्याख्या में ' गर्भ कामिनी, तुम्हारे साथ संगत होकर के ' हर्भूत होने के कारण असंगत है । गर्भ किस प्रकार यज्ञिय होता है, यह भी स्पष्ट नहीं सूत्र से विरोध तो स्पष्ट ही है ॥ २ ९ ॥ इत्यादि अर्थ मूल शब्दों से किया गया है । श्रुति तथा
पृष्ठ 230
पाठ पढ़ें पाठ छिपाएँ
१७६ शुक्लयजुर्वेद संहिता [ अ ० ८ पु॒रुद॒स्मो विषि॒रूप॒ इन्दु॑र॒न्तमे॑हि॒मान॑मान॒ज्ज॒ धीरः॑ । एक॑पदों द्वि॒पदो॑ त्रि॒पद॒ चतु॑ष्पदी-म॒ष्टाप॑द॒ भुव॒ना॒ प्रथन्ता॒ स्वाहा॑ ॥ ३० ॥
स्विष्टकृतमनुजुहोति पुरुदस्म इति ' ( का ० श्रौ ० २५ | १० | १३ ) । स्विकृष्टद्यागात् पूर्वं प्रतिप्रस्थाता यजुः । दक्षिणदेशे प्रत्यागत्य सर्वगर्भरसमवद्यति । अध्वर्युणा स्विष्टकृद्धोमे कृते प्रचरण्या जुहुयात् । गर्भदैवत्यं, इन्दुः क्लेदनरूपः सोमसदृशो गर्भो महिमानं महत्त्वम् आनञ्ज व्यक्तीकरोतु । कीदृश इत्थंरूपं :? महिमानमानञ्जेत्यर्थः पुरुदस्मो बहुदानयुक्तः । विषुरूपो बहुरूपः, अन्तरुदरेऽवस्थितो बहुरूपो हि गर्भो भवति, धीरो मेधावी सू, ० ६ । १।७० ) इति शेर्लुकि भुवना महिमवतो गर्भस्य मातरं वशां तादृशा भुवना, ' शेश्छन्दसि बहुलम् ' ( पा ० वा प्रख्यातं कुर्वन्तु । इयं वशा इति रूपम्, भुवनानि भूतजातानि, अनुप्रथन्तां प्रख्यातां कुर्वन्तु, वशां परगर्भं जुहुयात् तदा एकपदी । चतुष्पदी सती कथमेकपद्यादिभिरुच्यत इति, तत्राह - यदा वशासम्बन्धिन्यां वपायां । यदोपयद्धोमः कृतस्तदा त्रिपदी । यदा पत्नीसंयाजैर्जुहुयात्तदा चतुष्पदी, यद् यदागस्तदा द्विपदी सम्बन्धः । चतुभिः पदैर्युक्ता वा । एवं स्वपादैर्गर्भपादैश्चापादयुतामेवंभूतां वशां गणयित्वाऽनुप्रथन्तामिति स्वाहा सुहुतमस्तु । तत्रैव ब्राह्मणम् -'पुरुदस्मो विषुरूप इन्दुरिति । बहुदान इति हैतद्यदाह पुरुदस्म इति द्विपदी विषुरूप त्रिपदीं इति विषुरूपा इव हि गर्भा इन्दुरन्तमहिमानमानञ्ज धीर इत्यन्तर्ह्येष मातर्यक्तो जयत्यष्टापद्येष्ट्वा भवत्येकपदी यदु चानष्टापद्या ' चतुष्पदीमष्टापदीं भुवनानु प्रथन्ता स्वाहेति प्रथयत्येवैनामेतत्सुभूयो व्याचष्टे ह । ( श ० ४।५।२।१२ ) । पुरुदस्म इत्यस्य बहुरूप इत्यादिना मन्त्रपदानि अध्यात्मपक्षे -- प्रबोधाख्यो गर्भः पुरुदस्मो बहुदानः, ब्रह्मप्रापयितृत्वात् । विषुरूपो बहुरूपः, बहूनि तत्त्वं-पदवाच्यलक्ष्यादीनि रूपाणि यस्य सः । इन्दुः सोमवत् परमाह्लादकारी । तत्त्वान्वेषणायेति अन्तर्बुद्धेरुदरेऽवस्थितः धीरः, । येन महिमानं एनां महाभाग्यम् । आनञ्ज व्यक्तीकरोति । धीरो धियं बुद्धिमीरयति प्रेरयति द्वौ जीवेश्वरौ वाच्यार्थी पदनीयो बुद्धिम् एकपदीम् एकमेव परं ब्रह्म पदनीयं यया सा तामेकपदीम्, द्विपदी त्रयो गुणाः सत्त्वरजस्तमांसि यया ताम् । तत्साधनत्वेन दमदयादानानि पदनीयानि यया ताम् । त्रिपदीं मन्त्रार्थ - बहुत दान से युक्त, बहुत रूप वाले, उदर में स्थित, बुद्धिशाली सोमसदृश हे से तुम गर्भ की महिमा को भुवनसमूह एक ब्रह्मवाचक अक्षर वाली, वो पद युक्त कर्म और चार उपासना आश्रम के तीनों वेदों से प्राप्त होने वाली, चारों आश्रमों से प्राप्त होने वाली, चार वर्ण और आठ पदों से युक्त कर विख्यात करो । उसको पाने के लिये यह श्रेष्ठ आहुति दी गई है ॥ ३० ॥
क्लेदन रूप गर्भ, प्राप्त होने वाली, अष्टांग योगरूप यह याज्ञिक विनियोग भाष्यसार - ' पुरुदस्म: ' इस मन्त्र से स्विष्टकृद् याग के अनन्तर आहुति प्रदान की जाती है । के अनुकूल व्याख्यान कात्यायन श्रौतसूत्र ( २५।१०।१३ ) में उल्लिखित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है - प्रबोधात्मक शिशु ब्रह्मप्रापक होने के कारण बहुप्रद है, बहुरूप है, अर्थात् है । बुद्धि के गर्भ में इसके ' तत् त्वम् ' पदों के वाच्य, लक्ष्य आदि अनेक रूप हैं । चन्द्रमा की भांति अत्यन्त आह्लादकारी करता है । इस एकपदी, अवस्थित है । महान् सौभाग्य को अभिव्यक्त करता है तथा बुद्धि को तत्त्वान्वेषण के लिये प्रेरित जिसके द्वारा गम्य हैं अर्थात् एकमात्र परब्रह्म ही जिसके द्वारा गम्य है, द्विपदी अर्थात् जीव एवं ईश्वर दो वाच्यार्थं