वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 231–240

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 231–240

पृष्ठ 231

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 231 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३०-३१ ] वेदार्थपारिजात भाष्यसहिता १७७ पदनीयानि यया ताम् । चतुष्पदीं चत्वारो वेदा: पदनीया यया ताम् । अष्टापदीम् अष्टौ सिद्धयः प्राप्तव्या यया ताम्, अष्टापदम् इत्येवंभूतां गणयित्वा प्रख्यातां कुर्वन्तु । भुवना भुवनानि भूतजातानि । दयानन्दस्तु -- ' पुरुर्ब्रहुर्दस्म उपक्षयो दुःखानां यस्मात् सः, विषूणि व्याप्तानि रूपाणि येन सः, इन्दुः परमैश्वर्यकारी, धीरः सर्वव्यवहारध्यानशीलः, गृहस्थो धर्मेण विवाहितायास्त्रिया अन्तः अभ्यन्तरे महिमानं पूज्यं ब्रह्मचर्यं जितेन्द्रियत्वादिशुभकर्मसंस्कारजन्यम्, ( गर्भम् ) आन अञ्जयेत् कामयेत् ' इति । हिन्दी-भाषायामपि – ' हे गृहस्थाः, यूयं सृष्ट्युन्नति विधाय यामेकपदी एकम् ओमिति पदं यस्यां तामेकपदीम्, द्विपदी अभ्युदयनिःश्रेयसे सुखे पदे यस्यां ताम्, त्रिपदीं त्रीणि वाङ्मनः शरीरस्थानि सुखानि यस्यां सा ताम्, चतुष्पदीं चत्वारि धर्मार्थकाममोक्षाः पदानि यस्यां ताम्, अष्टापदी ब्राह्मणादयश्चत्वारो वर्णा ब्रह्मचर्यादय रचत्वारश्चाश्रमाः पदानि प्राप्तव्यानि यस्यां ताम् । स्वाहा सत्यां सकलविद्यायुतां वाचं विदित्वा भुवनानि गृहाणि प्रथन्तां प्रख्यान्तु तथा सर्वान् मनुष्याननुप्रथन्ताम् ' इति, तत्सर्वमेव यत्किञ्चित् पुरुदस्मादीनि गृहस्थस्य विशेषणानीत्यत्र मानाभावात्, विशेषणानामन्यत्रापि सङ्गतेः । एवमेव एकपदीत्यादीन्यपि वाचो विशेषणानीत्यपि निर्मूलम् । सायणादिव्याख्यानं तु शतपथब्राह्मणं सूत्रं चानुसृत्य प्रवर्तते । तेन पूर्वाणि गर्भस्य विशेषणान्युत्तराणि वशाया इति ॥ ३० ॥

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो व॑महसः । स सु॑गो॒पात॑मो॒ जन॑ः ॥ ३१ ॥

' समिष्टयजुरन्ते शामित्र एव जुहुयात् तिष्ठन् मरुत इत्यस्वाहाकृत्येति ' ( का ० श्र ० २५।१०।१६ ) समिष्टयजुर्होमान्ते शामित्राग्नावेव अस्वाहान्तेन मन्त्रेणोष्णीषवेष्टितं गर्भं जुहोति मन्त्रान्ते स्वाहाकारमनुच्चार्य जुहुयादित्यर्थः । मारुती गायत्री गोतमदृष्टा । हे दिवाविमहसः द्युलोकस्य सम्बन्धिना विशिष्टेन महसा तेजसा युक्ता हे मरुतः, यद्वा विशिष्टं पूजयन्ति ते विमहसः द्युलोकस्य सम्बन्धिनः पूजयितारो हे मरुतः! धातोः शपो लुक्, पिबादेशाभावश्च यूयं यस्य यजमानस्य क्षये यज्ञगृहे पाथा पानं कुरुथ । ' पा पाने ' इति छान्दसः, संहितायां दीर्घः । यस्मादेवं तस्मात् स यजमानाख्यो जनः सुगोपातमः सुगोप्तृतमो भवति । युष्मद्युक्ता-नामकुतोभयत्वेन परमबलवत्त्वात्, यद्वा सुगुप्ततमः शोभनो गोपा रक्षको यस्य सः । तथा उसके साधन के रूप में दम, दया, दान जिसके द्वारा गम्य हैं, त्रिपदी अर्थात् सत्व, रज तथा तम तीन गुण जिसके द्वारा गम्य हैं, चतुष्पदी अर्थात् चार वेद जिसके द्वारा गम्य हैं, अष्टापदी अर्थात् आठों सिद्धियाँ जिसके द्वारा गम्य हैं, इस प्रकार की बुद्धि को संकलित करके सम्पूर्ण भूतप्राणी प्रख्यात करें । स्वामी दयानन्द द्वारा वर्णित व्याख्या में ' पुरुदस्म ' इत्यादि पदों को गृहस्थ के विशेषण के रूप में प्रयोग करने में कोई प्रमाण न होने के कारण असंगति है । इसी प्रकार ' एकपदी ' इत्यादि वाणी के विशेषण हैं, यह मानना भी निर्मूल है । सायणाचार्य आदि की व्याख्या शतपथ ब्राह्मण तथा सूत्र के अनुसार है । तदनुसार पूर्ववर्ती पद गर्भ के विशेषण हैं तथा उत्तरवर्ती वशा के विशेषण हैं ॥ ३० ॥

मन्त्रार्थ - लोक सम्बन्धी विशिष्ट तेज से युक्त हे महत् देवता, आपने जिस यजमान के यज्ञस्थान में सोमपान किया, उसकी आप निश्चय ही बहुत काल तक रक्षा करते रहेंगे ॥ ३१ ॥

भाष्यसार -- कात्यायन श्रौतसूत्र ( २५।१०।१६ ) के अनुसार ' मरुतो यस्य ' इस ऋचा के द्वारा समिष्ट यजुर्होम के २३

पृष्ठ 232

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 232 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७८ शुक्लयजुर्वेदसंहिता [ ० ८ अत्रैव शतपथे— ' स हुत्वैव समिष्टयजुषि । प्रथमावशान्तेष्वङ्गारेष्वैत १७ सोष्णीषं इति गर्भमादत्ते न स्वाहा- तं प्रातिष्ठन् जुहोति मारुत्यर्चा मरुतो यस्य हि क्षये पाथा दिवोविमहसः । स सुगोपातमो मरुत्स्वेव जन प्रतिष्ठापयति ' करोत्यहुतादो वै देवानां मरुतो विडहुतमिवैतद्यदस्वाहाकृतं देवानां वै मरुतस्तदेनं । ( ० ४।५।२।१७ ) | समिष्टयजुर्होमानन्तरमेवोक्तमन्त्रेण हुत्वा मरुत्स्वेव प्रतिष्ठापयति अध्यात्मपक्षे - हे मरुतः, प्राणवन्तो हनुमत्प्रभृतयः, दिवो द्युलोकसम्बन्धिना विशिष्टेन भक्तस्य महसा क्षये यज्ञगृहे युक्ताः, दिवः स्वप्रकाशस्य परमात्मनो विमहसो विशेषेण पूजयितार:, यूयं यस्य यजमानस्यार्चकस्य , हि निश्चयेन, स जनः हृदयभवने वा, पाथा सोमपानं कुरुथ, प्रेमरसपरिप्लुतं पत्रपुष्पफलादिनैवेद्यं स्वीकुरुथ यस्य सः, युष्मद्गुप्तानां पूजकः सुगोपातमः । गोपायतीति गोपा रक्षकः, सुष्ठु अत्यन्तशोभनो गोपातमो रक्षको ( भा ० पु ० १०।२।३३ ) न भयमस्तीति । ' त्वयाऽभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ' इति श्रीमद्भागवतवचनात् । :, यूयं स्वामिदयानन्दस्तु -- हे कृतविवाहा विमहसो विविधतया पूजनीया क्रिया मरुत वा ऋत्विजो पाथा प्राप्नुत गृहस्था, सहि यस्य गृहस्थस्य क्षये गृहे हिरण्यानि सुरूपाणि दिवो दिव्या गुणाः स्वभावाः जनः प्रसिद्धः ' इति, तदपि सुगोपातमो जनः शोभनधर्मेण गां पृथिवीं वाचं च पाति, सोऽतिशयितः सुगोपातमो न, नैरर्थक्यात् ॥ ३१ ॥

म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑िमक्षताम् । पि॒वृता॑ नो॒ भरी॑मभिः ॥ ३२ ॥

द्यावा-' मही द्यौरित्यङ्गारैरभ्यूहतीति ' ( का ० श्र ० २५।१०।१६ ) । शामित्रे क्षिप्तं भूलोकश्च गर्भमङ्गारैश्छादयेत् , नोऽस्माकमिमं । यज्ञं पृथिवीदेवत्या गायत्री, मेधातिथेरार्षम् । मही महती द्यौः पृथिवी च द्युलोको अस्मदीयं गृहं वा स्वैः स्वैः मिमिक्षतां सिश्चतु, सेक्तुमिच्छतां वा । भरीमभिर्भरणैर्हिरण्य पशुधान्यादिभिरस्मान् भागः पितां परिपूरयतु । इत्यग्निष्टोममन्त्राः । ) । शतपथे– ' अथाङ्गारैरभिसमूहति । मही द्यौ: पिपृतां नो भरीमभिरिति ' ( श ० ४।५।२।१८ विनियोग के अनुकूल अनन्तर स्वाहाकाररहित आहुति शामित्र अग्नि में प्रदान की जाती है । शतपथ ब्राह्मण में याज्ञिक म्याख्यान उपदिष्ट है । अथवा हृदय सदन में सोमपान अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - हे प्राणवान् हनुमान् आदि द्युलोक से सम्बद्ध बिशिष्ट बल से युक्त, स्वप्रकाश परमात्मा के विशेष उपासक, आप लोग जिस पूजक यजमान भक्त के यज्ञगृह में ही वह अचंक व्यक्ति अत्यन्त श्रेष्ठ करते हैं, प्रेमरस से परिप्लुत पत्र - पुष्प फल आदि नैवेद्य को स्वीकार करते हैं, निश्चय जनों को कोई भय नहीं होता । रक्षा से युक्त होता है । श्रीमद्भागवत ( १०/२/३३ ) के वचनानुसार आपसे संरक्षित स्वामी दयानन्द द्वारा प्रतिपादित व्याख्यान सार्थकता से रहित होने के कारण अग्राह्य है ॥ ३१ ॥

, कृपारूपी जल की मन्त्रार्थ - यह विस्तृत द्युलोक और भूलोक हमारे इस यज्ञ को अपने - अपने भागों से पूर्ण करें ३२ ॥ वर्षा करें, हिरण्य, धनधान्य, पशु, प्रजा आदि सभी अभीष्ट वस्तुओं से हमारे घर को पूर्ण करें ॥ है । यह याज्ञिक भाष्यसार - ' मही द्यो: ' इस ऋचा के द्वारा पूर्व प्रदत्त हवि को अंगारों से ढका जाता हो गये । शतपथ विनियोग कात्यायन श्रौतसूत्र ( २५।१०।१६ ) में प्रतिपादित है । इस ऋचा तक अग्निष्टोम के मन्त्र पूर्ण ब्राह्मण में याज्ञिक प्रक्रिया के अनुरूप मन्त्रार्थ उपदिष्ट है ।

पृष्ठ 233

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 233 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२-३३ ] वेदार्थपारिजातभाष्यसहिता १७ ९ अध्यात्मपक्षे - मही महीरूपा उमा, ' महीस्वरूपेण यतः स्थितासि ' ( सप्त ० ११।३ ) इति वचनात् द्यौः स्वप्रकाशमानरूपः शिवः, इममुपासनालक्षणं यज्ञमर्चनं मिमिक्षतां कृपासुधावृष्ट्या सेक्तुमिच्छताम् । नोऽस्मान् भक्तान् भरीमभिर्भरणैर्हिरण्यरत्नादिभिलौकिकैः, ज्ञानविज्ञानवैराग्यादिभिश्च पिपृतां परिपूरयताम् । दयानन्दस्तु - हे दम्पती भवन्तौ मही द्यौर्मंहान् प्रकाशः प्रकाशमानः पतिर्मही पृथिवी स्त्री च युवां भरीमभिर्धा रणपोषणादिगुणयुक्तैर्व्यवहारैः पदार्थैव सह नोऽस्माकमन्येषां चेमं यज्ञं विद्वत्पूज्यं गृहाश्रमं मिमिक्षतां सुख: सेक्तुमिच्छताम्, पिपृतां पिपूर्त: ' इति, तदपि यत्किञ्चित् तादृशसम्बोधनस्य स्वाभ्यूहितत्वेन वेदबाह्यत्वात् । मही दिव्याकृतिः पुरुष इत्यपि निर्मूलमेव । पृथिवी विस्तृतशीला क्षमा धारणादिशक्तिमती स्त्री चेत्यपि गौणार्था-श्रयणमेव । यज्ञं विद्वत्पूज्यं गृहाश्रममिति च काल्पनि मेव ॥ ३२ ॥

आति॑ष्ठ वृत्रहन् रथे॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अर्वाचीन॒ सु ते॒ मनो॒ ग्रावा॑ कृ॒णोतु व॒ग्नुना॑ । उपया॒मगृ॑हीतो॒ोऽसोन्द्रा॑य॒ त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ ३३ ॥

अथ षोडशी । ' अग्ने पवस्व ' ( वा ० सं ० ८२३८ ) इत्यस्मात् प्राक् तिस्र ऐन्द्रयोऽनुष्टुभः । ' प्रातः सवनेऽति-प्रायान् गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनातिष्ठ युवा हीति वा ' इति ( का ० श्री ० १२५५२ ) | षोडशं स्तोत्रमस्यास्तीति षोडशी, पृष्ठयस्य चतुर्थेऽहनि पोडशिनो ग्रहण कालः । प्रातःसवने आप्रयणग्रहणानन्तरमाग्नेश-मतिग्राह्यमादाय चतुष्कोणेन खादिरोलूखलेनातिष्ठ युवा हीति मन्त्रयोरन्यतरेण सोपयामेन षोडशिग्रहं गृह्णीयात् । अत्रातिग्राह्यस्यैकत्वेऽपि बहुवचनं विश्वजिदर्थम् । विश्वजिति हि त्रयाणां ग्रहणमुक्तम् । इन्द्रदेव-त्यानुष्टुप् गोतमदृष्टा । हे वृत्रहन् वृत्राख्यस्यासुरस्य हन्तः! ते तव हरी हरितवर्णी अश्वौ ब्रह्मणा त्रयीलक्षणेन इन्द्रागच्छेत्यादिमन्त्रेण युक्ता रथे संयुक्तौ, अतस्त्वं रथमातिष्ठ अधितिष्ठ आरोह । तो हीन्द्रस्याह्वानान्युपश्रुत्य प्राप्त आवयोर्नियोजनकाल इति मन्यमानी स्वयमेवात्मानं रथे युञ्जते । अथेदानीं रथारूढस्य ते सु साधु मनः, हे अध्यात्मपक्ष में अर्थसंगति इस प्रकार है - सप्तशती ( ११1३ ) आदि के अनुसार पृथ्वीरूपिणी उमा भगवती तथा स्वप्रकाशमानरूप भगवान् शिव इस उपासनारूपी यज्ञाचंन को कृपामृत की वृष्टि के द्वारा सिंचित करने की इच्छा करें । हम भक्तों को स्वर्ण, रत्न आदि लौकिक तथा ज्ञान, विज्ञान, वैराग्य आदि भरणीय पदार्थों से परिपूर्ण करें । स्वामी दयानन्द द्वारा निरूपित अर्थ इस प्रकार का सम्बोधन स्वेच्छा से कल्पित किये जाने से वेद के शब्दों से बहिर्भूत होने के कारण अग्राह्य है । मही का अर्थ ' दिव्याकृति पुरुष ' करना भी निर्मूल है । ' पृथिवी क्षमा - धारणादि शक्ति से युक्त स्त्री ' यह भी गौण अर्थ का आश्रयण ही है । यज्ञ का ' विद्वत्पूज्य गृहाश्रम ' अर्थ करना भी काल्पनिक ही है ॥ ३२ ॥

मन्त्रार्थ - हे वृत्रघाती इन्द्र, आपके हरित वणं वाले दोनों अश्व तीनों वेदों के ' इन्द्रागच्छ ' आदि मन्त्रों से रथ में जोते गये हैं, अतः आप रथ पर बैठिये । सोमाभिषव में व्यवहार को प्राप्त हुआ यह पाषाण आपके मन को सोमाभिषव को वाणी द्वारा यज्ञाभिमुख करे । हे नवम ग्रह सोम, तुम उपयाम पात्र में गृहीत हो । सोलह स्तोत्र वाले षोडशी याग में आहूत इन्द्र देवता के निमित्त तुमको ग्रहण करता हूँ । हे ग्रह, यह तुम्हारा स्थान है, षोडशी याग में आहूत इन्द्र देवता के निमित्त तुमको पुनः ग्रहण करता हूँ ॥ ३३ ॥

भाष्यसार - ' आतिष्ठ ' इस ऋचा के द्वारा षोड़शी नामक ग्रह का ग्रहण किया जाता है । यह याज्ञिक विनियोग

पृष्ठ 234

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 234 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८० शुक्लयजुर्वेदसंहिता [ अ ० ८ । केन? वग्नुना इन्द्र ग्रावा सोमाभिषवसाधनभूतः पाषाणोऽर्वाचीनमस्मदभिमुखं कृणोतु सुतरां सोम वा कृणोतु त्वमुपयामेन गृहीतोऽसि । सोमाभिषवध्वनिना । वग्नुरिति वाङ्नामसु पठितम् ( निघ ० १।११।२५ योनिः ) । स्थानम् हे । षोडशिन इन्द्राय षोडशस्तोत्रवत इन्द्राय त्वां गृह्णामीति शेषः । एष ते ता हैनेन सदृग्-अत्र ब्राह्मणम् – ' इन्द्रो ह वै षोडशी । तं नु सकृदिन्द्रं भूतान्यत्यरिच्यन्त काम्यो विधीयते प्रजा, वै तदर्थमितिहासोपन्यासः भूतानि । भवमिवासुः ' ( श ० ४।५ । ३ । २ ) । षोडशीति ज्योतिष्टोमो ग्रहः षोडशी । योऽयं षोडशीन्द्रस्तं नु इन्द्रं प्राग् इन्द्रो देवराजः, षोडशावयववशाकर्षणश्चक्षुः षोडशः, सोऽस्यास्तीति वै भूतानि ताः प्रजा एनेन इन्द्रेण सदृग्भवमासुः भूतानि तान्येवेच्छाकामाय अत्यरिच्यन्त ज्ञानैश्वर्यप्रभावैः । प्रजा न्वहमिद सर्वमतितिष्ठेयमर्वागेव मदिद १७ सर्व ७ सदृश्यो भूत्वा आसुः स्थिताः । ' इन्द्रो ह वा ईक्षाञ्चक्रे । कथं ११ सर्वमभवत् सर्व ७ ह वा इदमति-स्यादिति स एतं ग्रह्मपश्यत् तमगृह्णीत स इद सर्वमेवात्यतिष्ठदर्वागेवास्मादिद ) । स एतं ग्रहमपश्यत्तम-तिष्ठत्यर्वागेवास्मादिद ७ सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति ' ( श ० ४।५।३।२ । यस्यैव विदुष एतं ग्रहं गृह्णन्ति स गृह्णीत, यदस्मादिन्द्रात् वविद्याभावनाभिर्निकृष्टं तत्सर्वमतिक्रम्य अतिष्ठत् । न ते महित्वमनुभूध द्यौर्यदन्यया इदं सर्वमतिक्रम्य तिष्ठतीति फलवचनम् । ' तस्मादेतदृषिणाऽभ्यनूक्तम् स्फिगीमनुबभूव तथेद सर्वमेवात्यतिष्ठदर्वा -स्फिग्या क्षामवस्था इति न ह वा अस्यासौ द्यौरन्यतरां च न ४ | ५ | ३ | ३ ) । मन्त्रेणैतदिन्द्रस्याधिष्ठातृत्व-गेवास्मादिद९ ७ सर्वमभवत् यस्यैवं विदुष एतं ग्रहं गृह्णन्ति ' ( श ० मरुदादीनि यस्य तव महित्वं नानुभवति, मभ्यनूक्तम् । इहाप्युच्यते - हे भगवन्निन्द्र, विजानतो बहूनि जातानि , तमपि प्रदेशमुन्नततया द्यौर्न प्राप्तेत्यर्थः । द्यौरधो न ह वा अस्यासौ द्यौरन्यतरां च न स्फिगीमनुबभूव एवमिन्द्रोऽत्यतिष्ठत् । , ' तं वै हरिवर्त्यच गृह्णाति । हरिवतीषु स्तुवते हरिवतीरनुशसन्ति वीर्यं ४।५।३।४ वै हर ) | इन्द्रोऽसुराणा ' तं वा अनुष्टुभा सपत्नाना...... ँ , समवृङ्क्त तथो एवैष एतद्वीर्यं हरः सपत्नाना १७ संवृङ्क्ते.. ' । ( श त्रयो ० वा इमे लोकास्तदिमानेव गृह्णाति ( श ० ४ | ५ | ३ | ५ ) । ' तं वै चतुःस्रक्तिना पात्रेण गृह्णाति पात्रेण गृह्णाति ' ( श ० लोकांस्तिसृभिः स्रक्तिभिराप्नोत्येवैनं चतुर्थ्या स्रक्त्या रेचयति तस्माच्चतुःस्रक्तिना एतस्मात्कालादुपशेते तदेन ४।५।३।६ ) । ‘ तं वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वा स प्रातः सवने गृहीत कात्यायनस्तदनु-सर्वाणि सवनान्यतिरेचयति ' ( श ० ४ | ५ | ३ | ७ ) । इमान्येव श्रौतानि वचनान्यनुरुद्ध्य युक्ता ' ' ' ' षोडशिन सारिणः सायणादयश्च मन्त्रमिमं व्याख्यातवन्तः । ' अथातो गृह्णात्येव । आतिष्ठ वृत्रहन् रथं इति ' ( ० ४ | ५ | ३ | ९ ) । अध्यात्मपक्षे - हे वृत्रहन् वृत्रमावर कमज्ञानं हतवानिति वृत्रहा, तत्सम्बुद्धौ हे वृत्रहन् । रथारूढस्य ते तव हरी ते हरितवर्णी अश्व, ब्रह्मणा वेदेन मन्त्रेणेत्यर्थः, युक्तौ रथे संयुक्तौ, अतस्त्वं तादृशं रथमातिष्ठ सुष्ठु कृणोतु । एतेन तव मनो ग्रावा सोमाभिषवपाषाणो वग्नुना सोमाभिषवध्वनिनाऽर्वाचीनमस्मदभिमुखं कात्यायन तथा उनके कात्यायन श्रौतसूत्र ( १२/५/२ ) में प्रतिपादित है । शतपथ ब्राह्मण के वचनों के अनुसार अनुयायी सायण आदि आचार्यों ने इस मन्त्र की व्याख्या की है । अध्यात्मपक्ष में मन्त्रार्थ यह है- आवरणकर्ता अज्ञानात्मक वृत्र को विनष्ट करने वाले हे वृत्रहन्ता ।, रथारूढ आपके हरित वर्ण के दो अश्व वेद - मन्त्रों से रथ में संयुक्त हैं, अतः इस प्रकार के रथ पर आप प्रतिष्ठित अभिमुख होइये करे । इससे आपके चित्त को सोमकुट्टन का प्रस्तर खण्ड सोमाभिषव की ध्वनि के द्वारा भली - भाँति हमारे

पृष्ठ 235

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 235 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३३-३४ ] वेदार्थपारिजातभाष्यसहिता १८१ सर्वेश्वरो भक्तानामाह्वानेन भक्तकृतार्चाग्रहणाय विग्रहवान् भूत्वा भक्तपूजास्थानं मायामयाभ्यां कल्पिताभ्या-मश्वाभ्यां युक्तं मायामयं रथमारुयागच्छति । भगवतः समर्चनसाधनदिव्य नैवेद्यनिर्माणव्यापृतपाषाणादिध्वनिना तन्मनोऽर्चकाभिमुखं च भवति । हे सोम, निवेदनीयद्रव्य! त्वमुपयामगृहीतोऽसि | षोडशिने षोडशकलायुक्ता- । येन्द्राय परमेश्वराय त्वां गृह्णामि । एष पूजाप्रदेशस्ते योनिरासादनस्थानम्, षोडशिने त्वां समर्पयामि रमणीयं अत्र दयानन्दः – ' हे वृत्रहन् ग्रावा मेघ इव सुखवर्षिता गृहस्थोऽसि । ते तव यत्र रथं रथे, विद्याप्रकाशमयं गृहाश्रमं यानं वा ब्रह्मणा जलेन धनेन वा हरी हरणशीलौ धारणाकर्षण गुणाविवाश्वौ युक्ता युक्ती तं श्वमातिष्ठ । अस्मिन् गृहाश्रमे ते तव यन्मनोऽर्वाचीनमधोगामि अनुकृष्टगति जायते, तद् वग्नुना ऐश्वर्यप्रदाय वेदवाचा भवान् शान्तः सुकृगोतु । यस्त्वमुपयामगृहीतोऽसि षोडशिने षोडश कला विद्यन्ते यस्मिन् तस्मै इन्द्राय इन्द्राय त्वां गृहाय त्वामुपदिशामि । हे गृहाश्रममभीप्सो! ते तव एष गृहाश्रमो योनिर्गृहमस्ति, षोडशिन नियुनज्मि ' इति, तदपि यत्किञ्चित् वृत्रहन्निति पदेन गृहस्थार्थबोधने प्रमाणाभावात् शत्रुहन्तृत्वस्य सिंहादि-पशूनामपि सम्भवात्, योद्धृणामपि सम्बोधनसम्भवाच्च । रथपदस्य रमणीयगृहाश्रमपरत्वकल्पनमपि बलात्कार एव । तथैव षोडशिपदं गृहाश्रमपरमित्यपि निर्मूलम्, कलानां व्यक्तिनिष्ठत्वात् ॥ ३३ ॥

युक्ष्वा हि केशिना हरी वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमवा गरामुप॑श्रुतिं चर । उपयामगृहीतोऽसोन्द्रयस्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रय त्वा षोड॒शिनें ॥ ३४ ॥

द्वितीयोऽयं षोडशिग्रहग्रहणमन्त्रः । इन्द्रदेवत्याऽनुष्टुव मधुच्छन्दोदृष्टा । हे इन्द्र, हि निश्चयेन, केशिना केशिनौ प्रलम्बकेसरौ हरी हरितवर्णो अश्वो वृषणा सेक्तारौ तरुणी कक्ष्या कक्ष्यप्रौ स्थूलावयवो युक्ष्वा युधि रथेन योजय, कक्षे भवा कक्ष्याऽश्वसन्नाहरज्जुः । कक्ष्यां प्रातः पूरयत इति कक्ष्यप्रौ । अथ समनन्तरमेव रथारोहणानन्तरं हे इन्द्र, सोमपाः सोमपानशील, गिरामुपश्रुतिं चर, स्तुतिलक्षणां गिरं वाचमुपश्रुत्य चर सर्वेश्वर प्रभु भक्तों के आह्वान के द्वारा भक्तों द्वारा की गई अर्चना को भक्त की पूजास्थली में मायामय कल्पित अश्वों से युक्त मायामय रथ पर पूजा के साधन दिव्य नैवेद्य के निर्माण में लगे हुए पाषाण आदि की ध्वनि से होता है । हे निवेदनीय द्रव्य, तुम प्रेम से संगृहीत हो । षोडश कलाओं से करता हूँ | यह पूजास्थान तुम्हारा स्थापन- प्रदेश है, सोलह कलाओं से मण्डित होने स्वीकार करने के लिये मूर्तिमान् होकर आरूढ होकर आते हैं । भगवान् की उनका मन उपासक की ओर अभिमुख युक्त परमेश्वर के लिये तुम्हारा ग्रहण के लिये तुमको समर्पित करता हूँ । स्वामी दयानन्द द्वारा वर्णित अर्थ में ' वृत्रहन् ' शब्द से गृहस्थ अर्थं बोधित करने में भी सम्भव है तथा योद्धाओं का भी कारण असंगति है । शत्रुहन्तृत्व तो सिंह आदि पशुओं में कोई प्रमाण न होने के यह सम्बोधन हो सकता बलात्कार है । इसी प्रकार षोडशी पद गृहस्थाश्रमपरक है | रथ शब्द का अर्थं ' रमणीय गृहाश्रम ' करना भी शब्दों से है, यह कहना भी निर्मूल है, क्योंकि कलाएँ व्यक्तिनिष्ठ होती हैं ॥ ३३ ॥

मन्त्रार्थ - हे इन्द्र, तुम बहुत लम्बी केशर वाले, तरुण, सेचन में समर्थ, स्थूल अवयव वाले, कक्षा बन्धन से संयुक्त दोनों अश्वों को दृढ़तापूर्वक निश्चय ही रथ में जोत लो । तदनन्तर सोमपान करते हुए हमारी ऋक् आदि वेद-वाणी को कर्णगोचर करो ॥ ३४ ॥

( -- ' युवा हि ' यह ऋचा भी षोडशी ग्रह के ग्रहण में विनियुक्त है । शतपथ ब्राह्मण में याज्ञिक भाष्यसार -- '

पृष्ठ 236

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 236 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८२ शुक्लयजुर्वेदसंहिता [ अ ०८ अस्मद् गृहमागच्छ । यद्वा गिरामस्मदीयानामृग्यजुः सामलक्षणानां वाचामुपश्रुतिमुपश्रवणं चर गच्छ प्राप्नुहि, श्रुत्वा चास्मद्गृहमागच्छेत्यर्थः । अन्यत् पूर्ववत् । ' अनया वा । युक्ष्वाहि षोडशिन ' ( श ० ४ | ५ | ३ | १० ) । अत्रया वेति स्पष्टतया विकल्प उक्तः । अध्यात्मपक्षे - हे इन्द्र परमेश्वर, हि निश्चयेनात्रागमनाय हरी हरितवर्णावश्व युक्ष्व रथेन योजय । कीदृशौ तौ? केशिना प्रलम्बकेसरी, वृषणा वर्षितारी कामपूरको, कक्ष्यत्रा स्थूलावयवी । अथानन्तरं सोमपाः सोमपानशीलः सन् गिरामस्मदीयां स्तुतिलक्षणां वाचमुपश्रुतिं वर वाचमुपश्रुत्य चर आगच्छ । श्रीरामं श्रीकृष्णं विष्णुं वा भक्तः प्रार्थयते । देवतानां माहाभाग्यात्तद्रूपा एवाश्वरथादयः परिकल्प्यन्ते । ----दयानन्दस्तु - - ' हे सोमपा! ऐश्वर्यरक्षक इन्द्र, शत्रुविदारक सेनाध्यक्ष, त्वं केशिना प्रशस्त केशवन्तौ, वृषणा वृषवद्वलिष्ठी कक्ष्यप्रा अभीष्टदेशप्रापकौ, हरी यानस्य हरणशीलौ हरी, रथे युक्ष्व । अथेत्यनन्तरं नोऽस्माकं गिरां वाचमुपश्रुतिमुपगतां श्रूयमाणां चर विजानीहि । अन्यत् पूर्ववत् ' इति, तदपि विसङ्गतमेव, इन्द्रपदस्य सेनाध्यक्षार्थत्वे मानाभावात् । हिन्दी भाष्ये ' षोडशिने षोडशकला परिपूर्णाय इन्द्राय परमैश्वर्यप्रदाय गृहाश्रमाय त्वामाज्ञापयामि ' इत्युक्तम्, तत्तु निरर्थकमेव, सेनाध्यक्षाय कस्तादृशीमाज्ञां ददाति? कश्च कस्य तेन लाभः? कथं च सङ्गतिरित्यादिकं चिन्त्यमेव ॥ ३४ ॥

इन्द्रमिद्धरीं वहतोऽप्र॑तिधृष्टशवसम् । ऋषणां च स्त॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् । उपयाम-गृहीतोऽसीन्द्रयत्वा षोडशिनं एष ते योनिरिन्द्रयत्वा षोडशिने ॥ ३५ ॥

षोडशिग्रहणे तृतीयो मन्त्रविकल्पः । इन्द्रदेवत्याऽनुष्टुप् । हरी हरितवर्णी अवौ, ऋषीणां वशिष्ठादीनां स्तुतीरुप समीप इन्द्रमेव वहतः प्रापयतः । मानुषाणां च यजमानानां यज्ञमुप यज्ञसमीपे हरी इन्द्रं वहतः । किं भूतमिन्द्रम्? अप्रतिधृष्टशवसम्, प्रतिधर्षयितुं पराभवितुं शक्यं प्रतिधृष्टम्, न प्रतिधृष्टमप्रतिधृष्टम्, अप्रतिधृष्टं प्रक्रिया के अन्तर्गत षोडशी ग्रह के ग्रहण में स्पष्टतः विकल्प से इसका विनियोग निरूपित है । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- हे परमेश्वर, निश्चय ही यहाँ आने के लिये हरित वर्ण के अश्त्रों को रथ में संयुक्त कीजिये । वे अश्व दीर्घं केशों वाले, कामनाओं को पूर्णं करने वाले तथा पुष्ट अंगों से युक्त हैं । तदनन्तर आप सोमपानशील होते हुए हमारी स्तुत्यात्मिका बाणी को सुन कर आगमन करें । इस प्रकार भक्त श्रीराम, श्रीकृष्ण अथवा विष्णु से प्रार्थना करता है । देवताओं के महान् ऐश्वर्य के कारण अश्व, रथ आदि भी तद्रूप ही परिकल्पित किये जाते हैं । स्वामी दयानन्द द्वारा निरूपित व्याख्या में इन्द्र शब्द के ' सेनाध्यक्ष ' अर्थ में कोई प्रमाण न होने के कारण विसंगति है | हिन्दी भाष्य में भी सेनाध्यक्ष को उस प्रकार की आज्ञा कौन देता है? उससे उसका क्या लाभ है? इसकी संगति कैसे होगी? यह सब चिन्ता के योग्य हैं ॥ ३४ ॥

मन्त्रार्थ - हरित वर्णं के दोनों अश्व अप्रतिहत बल वाले इन्द्र देवता को ऋषियों के द्वारा की गई स्तुति । सुनाने के लिये उनके समीप ले जाते हैं और यजमानों के यज्ञ के समीप भी इन्द्र को पहुँचाते हैं ॥ ३५ ॥

भाष्यसार - ' इन्द्रमिद् ' यह ऋचा भी याज्ञिक प्रक्रिया के अन्तर्गत षोडशी ग्रह के ग्रहण में तृतीय विकल्प के

पृष्ठ 237

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 237 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३५-३६ ] वेदार्थपारिजात भाष्यसहिता १८३ शवो बलं यस्य तं तथोक्तम् । ' ऋक्सामे व हरी ' ( श ० ४ | ४ | ३ | ६ ) इति श्रुत्या द्विवचनान्त हरिशब्दस्य ० ऋक्सामवाचकत्वात् सर्वत्र नानावर्णछन्दोमये ऋक्सामे वा ग्राह्ये, ' पशवो वै देवानां छन्दासि ' ( श ४ । ४ । ३ । १ ) इति श्रुतेः । हरितवर्णी शक्राश्वौ । अध्यात्मपक्षे - हरी, हरत इति हरी, हरणशीलावश्वाषिव भक्तानां भगवदाकर्षकौ श्रद्धाविश्वासौ, उत्साहानुरागी वा ऋषीणां स्तुतीरुप ऋषिकल्पानां भक्तानां स्तुतिसमीपे इन्द्रमित भगवन्तमेव वहतः प्रापयतः । मानुषाणामुपासकानां यज्ञमुप यज्ञसमीपे च तमेव वहतः । कीदृशमिन्द्रम्? अप्रतिधृष्टशवसम् अप्रतिधृष्टबलम्, तामपि तो वह इत्यभिप्रायः । दयानन्दस्तु - ' हे सोमपाः! ऐश्वर्यरक्षक इन्द्र, शत्रुनाशकसभाध्यक्ष, त्वं षोडशिन इन्द्राय यो हरी सुशिक्षितावश्वा अप्रतिधृष्टशवसं प्रतिधृष्टं प्रगल्भं शवो बलं येन तद्रहितमिन्द्रमित इन्द्रमेव वहतः । ताभ्यामृषीणां चाद वीराणां स्तुतीर्मानुषाणां च यज्ञसंगमनीयं व्यवहारं चात् पालनमुपचर ' इति, हिन्दीभाष्ये तु हे इन्द्र सोमपाः, षोडशकलायुक्तायोत्तमैश्वर्याय यौ सुशिक्षितावश्वौ, येन सम्यक् स्वबलं वर्धितं तमिन्द्रं परमैश्वर्यवृद्धये सेनारक्षकं सेनाध्यक्षं च वहतः, ताभ्यां युक्तो वेदमन्त्रज्ञानां विदुषां वीराणां च स्तुतीर्गुणज्ञानं साधारणजनानां सङ्गमयोग्यं व्यवहारं तत्पालनं च कुरु समीपं च प्राप्नुहि । यस्य ते एष योनिर्निमित्तं राज्यधर्मः, यस्त्व-मुपयामगृहीतोऽसि सर्वसामग्रीयुक्तोऽसि त्वा षोडशिन इन्द्राय प्रजा आश्रयेरन् वयं चाश्रयेम ' इति, तत्सर्वं यत्किश्चित् सङ्गतिवैधुर्यात् । व्यक्तिविशेषाणां व्यवहारवर्णने वेदानामनित्यत्वापत्तेः । कोऽयमीदृशः सभाध्यक्षः क्वासीत्? कश्चैनं सम्बोधयति? कौ च तावश्वौ सुशिक्षितो? तं च क्व नयतः? तयोश्च विदुषां वीराणां च गुणज्ञाने साधारणजनव्यवहारे तत्पालने च क उपयोगः? इत्यादिप्रश्नानामशक्यनिरूपणत्वात्, विप्रकृष्ट-गौणार्थाश्रयणस्य दूषणत्वाच्च ॥ ३५ ॥

यस्मा॒न्न जातः परी॑ अ॒भ्यो अस्ति॒ य आ॑वि॒वेश भुव॑नानि॒ विश्वा॑ प्र॒जाप॑तिः प्रजय सराणस्त्रीणि॒ि ज्योतषि सचते॒ स षड॒शी ॥ ३६ ॥

रूप में विनियुक्त है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल मन्त्रार्थं उपदिष्ट है । अध्यात्मपक्ष में मन्त्र को अर्थ संगति इस प्रकार है - हरणशील अश्वों की श्रद्धा तथा विश्वास अथवा उत्साह एवं अनुराग दोनों ऋषिकल्प भक्तों की स्तुति के हैं । उपासकों के यज्ञ के समीप भी उनको ही लाते हैं । ऐसे अघर्षणीय बलशाली अभिप्राय है । भाँति भगवान् के आकर्षक समीप भगवान् को ही पहुँचाते उनको भी वे ले आते हैं, यह स्वामी दयानन्द द्वारा वर्णित संस्कृत तथा हिन्दी अर्थ संगतिविहीन होने के कारण आदि का व्यवहार वर्णित होने पर वेदों की अनित्यता भी संभावित हो जाती है । इस सभाध्यक्ष कहाँ था? इसको कौन सम्बोधित करता है? वे कौन से सुशिक्षित घोड़े हैं विद्वानों तथा वीरों के गुणज्ञान में, जनसामान्य के व्यवहार में तथा उसके पालन में अग्राह्य है । व्यक्तिविशेष प्रकार का वर्णित कौन और उसको कहाँ ले जाते हैं? उन दोनों का क्या उपयोग है? इत्यादि अनेक प्रश्नों का समाधान असम्भव है । दूरवर्ती गौण अर्थ के आश्रयण का दोष भी इसमें है ॥ ३५ ॥

पृष्ठ 238

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 238 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८४ शुक्लयजुर्वेद संहिता [ अ ० ८ ' उपस्थायैनं यस्मान्न जात इति ' ( का ० श्र ० १२।५।२० ) । यस्मान्न जात इति षोडशिग्रहमुपतिष्ठेत् । इन्द्रदेवत्या त्रिष्टुप् । अत्र षोडशी परब्रह्मरूपेण स्तूयते । यस्मादन्यः पर उत्कृष्टो देवादिर्न जातो नोत्पन्न, अस्ति विद्यते । यो विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि आविवेश अन्तर्यामिरूपेण प्रवेशं कृतवान्, ' यः सर्वभूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो य सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि प्रजया भूतान्यन्तरो यमयति ' ( वृ ० उ ० ३ | ७ | १४ ), स प्रजापतिः स्वस्मादुत्पन्न समस्त प्रजानां पतिः पालकः संरराणः स्त्रोत्पन्नप्रजाभिः सम्यग् रममाणः क्रीडन् त्रीणि ज्योतींष्यग्निवायुर्यलक्षणानि तेजांसि स्वस्वविषय-प्रकाशकानि सचते सेवते, स्वतेजसा तेषामुज्जीवनं करोति, ' येन सूर्यस्तपति तेजसेद्ध: ' ( तै ० ब्रा ० ३।१२।९ ।७ ), ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' ( मु ० उ ० २ २ १० ) इत्यादिश्रुतिभ्यः । तथा षोडशी षोडशकलात्मकलिङ्गशरीरोपहितः । यद्वा प्रश्नोपनिषदुक्ताः षोडशकलाः सन्त्यस्मिन्निति षोडशी । ताश्च- ( ७ ), प्राण: ( १ ), श्रद्धा ( २ ), आकाश: ( ३ ), वायु: ( ४ ), ज्योतिः ( ५ ), आप: ( ६ ),, पृथिवी कर्म ( १४ ), इन्द्रियम् ( ८ ), मनः ( ९ ), अन्नम् ( १० ), वीर्यम् ( ११ ), तप: ( १२ ), मन्त्राः ( १३ ) लोका: ( १५ ), नाम ( १६ ) चेति । अध्यात्मपक्षे - यस्मात् परमेश्वरादन्यः कश्चिदपि देवादिरन्यो वा न जातो विद्यते, यश्च विश्वानि सर्वाणि भुवनानि भूतजातानि चेतनाचेतनात्मकान्याविवेश, ' तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै ० उ ० २।६ ) इति श्रुतेः, यश्च प्रजापतिः सर्वप्रपन्नस्वामी प्रजया संरराणः प्रजारूपेण क्रीडमानः, ' सर्वं खल्विदं ब्रह्म ' ( छा ० उ ० ३ | १४ | १ ) इति श्रुतेः त्रीण्यग्निवाय्वादित्यात्मकानि सचते तेषु शक्तिप्रदातृत्वेन समवैति, ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' ( मु ० उ ० २ २ १० ) इति श्रुतेः । दयानन्दस्तु - ' यस्मात् परोऽन्यो न जातोऽस्ति, यो विश्वा भुवनानि आविवेश, स प्रजापतिः ' इति, प्रजया तदपि संरराणः सम्यग्दानशीलः षोडशी, त्रीणि ज्योतींषि सूर्यविद्युदग्न्याख्यानि सचते सर्वेषु समवैति न युक्तम्, समवायस्य नित्यत्वेनान्यकर्तृकत्वायोगात् ॥ ३६ ॥

के रूप मन्त्रार्थ - जिस पुरुष से बढ़ कर दूसरा कोई उत्कृष्ट नहीं है, जो सम्पूर्ण विश्व के प्राणियों में अन्तर्यामी हुआ में प्रविष्ट है, वह सोलह कला वाले लिंग शरीर से उपहित, जगत् का स्वामी, प्रजा के रूप में सम्यक् रमण करता तेजों को अपने तेज से भर देता ॥ ३६ ॥

प्रजा के पालन के लिये अग्नि, वायु और सूर्य नामक भाष्यसार-- - ' यस्मान्न ' इस ऋचा के द्वारा षोडशी ग्रह का उपस्थान किया जाता है । यह याज्ञिक विनियोग ) में निरूपित । याज्ञिक प्रक्रिया के अन्तर्गत इस मन्त्र में षोडशी की ही परब्रह्म के कात्यायन श्रौतसूत्र ( १२/५/२० रूप में स्तुति है । अध्यात्मपक्ष में मन्त्रार्थ यह है- जिस परमेश्वर से अतिरिक्त कोई भी देव आदि उत्पन्न नहीं हुआ है और जो सम्पूर्ण जडचेतनात्मक भूतसमूह में प्रविष्ट है, वह प्रजापति समस्त सृष्टिप्रपञ्च का स्वामी प्रजा के रूप से क्रीडा करता है । अग्नि, वायु तथा आदित्य रूपी तीनों ज्योतियों में शक्तिप्रदाता के रूप से वह समन्वित रहता है । स्वामी दयानन्द द्वारा निरूपित अर्थ उचित नहीं है, क्योंकि समवाय नित्य होने के कारण उसका अन्यकर्तृक होना असंगत है ॥ ३६ ॥

पृष्ठ 239

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 239 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३७ ] वेदार्थपारिजात भाष्यसहिता १८५ इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रत॒रप्र॑ ए॒तम् ॥ तयो॑र॒ह॒मनु॒ न॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्राणेन॒ स्वाहा॑ ॥ ३७ ॥

इन्द्रश्च समाडिति भक्षणम्, षोडशिग्रहगतं सोमं भक्षयेत् । इन्द्रवरुणदेवत्या षोडशिदेवत्या वा त्रिष्टु यजुरन्ता । अन्त्यपादौ द्वादशाणौं । सह प्राणेनेति यजुः । विवस्वत आर्षम् । हे षोडशिग्रह! इन्द्रश्व सम्राड् यो वाजपेययाजी, वरुणश्च राजा यो राजसूययाजी, ' राजा वै राजसूयेनेष्ट्वा भवति सम्राड् वाजपेयेन ' ( श ० ५ | १ | १ | १३ ) इति श्रुतेः । ताविन्द्रवरुणौ द्वौ देवौ ते तवैतं सोमं भक्षं चक्रतुः कृतवन्तौ, अग्रे प्रथमम् । तयोः सम्बन्धिनं भक्षमनुकुर्वन्नहं भक्षयामि सोमं पिबामि । मदीयेन भक्षेण जुषाणा सेवमाना वाग्देवी सरस्वती प्राणेन प्राणदेवतया सह सोमस्य सोमेन तृप्यतु तृप्ता भवतु । अध्यात्मपक्षे - हे भगवत्प्रसादभूतद्रव्य, इन्द्रश्च सम्राट्, वरुणश्च राजा, तौ प्रसिद्धो विशिष्टौ देवौ ते तव सम्बन्धि भक्षं प्रसादग्रहणं चक्रतुः । एतं तं भक्षमनुकुर्वन्नहमपि भक्षयामि । मदीयेन भक्षेण वाग्देवी सरस्वती प्राणेन प्राणदेवतया सह सोमस्य सोमेन सोमात्मकेन प्रसादेन तृप्ता भवतु । दयानन्दस्तु – ' हे प्रजाजन य इन्द्रश्च परमैश्वर्ययुतः सम्राट् सम्यग् राजते स चक्रवर्ती वरुणः श्रेष्ठो माण्डलक: प्रतिमाण्डलिकश्च राजा न्यायादिगुणैः प्रकाशमानः, ते तव प्रजाजनस्य भक्षं भजनं सेवनं चक्रतुः कुर्याताम्, एतं तयो रक्षकयो राज्ञोरहमनु पश्चाद् भक्षं सेवनं भक्षयामि पालयामि, या सोमस्य विद्येश्वर्यस्य प्राप्तये जुषाणा देवी दिव्या वागस्ति तथा स्वाहा सत्यया वाचा प्राणेन बलेन सह सर्वो जनस्तृप्यतु ' इति, तदपि विसङ्गतमेव विरुद्धत्वात् । तथाहि राजा न्यायादिगुणैः प्रकाशमान इत्युक्तेः स्वारस्यासङ्गतिः, सम्राजोऽपि न्यायादिगुणैः प्रकाशमानत्वाविशेषात् । न च ताभ्यां प्रजासेवनं क्रियते, तयोः पालकत्वात् । नच पालनमेव सेवनम् तथात्वे सेवकस्यापि राजत्वव्यपदेशापत्तेः । कश्चायं यस्ताभ्यां कृतस्य सेवनस्य पश्चात् कृतेन सेवनेन पिष्टपेषणं करोति? श्रुतिविरोधश्च दुर्निवारः, तत्र वाजपेयराजसूययाजिनोरेव सम्राट्त्वराजत्वोक्तेः ॥ ३७ ॥

मन्त्रार्थ - हे षोडशी प्रह, सम्यक् प्रकार से प्रकाशमान इन्द्र और वरुण राजा इन दोनों ने ही तुम्हारे इस सोम का प्रथम भोजन किया था । उस इन्द्र और वरुण सम्बन्धी भक्ष को अब मैं भक्षण करता हूँ । मेरे सेवन से सरस्वती

प्राण के साथ सोम द्वारा तृप्त हो । यह आहुति सम्यक् गृहीत हो ॥ ३७ ॥

भाष्यसार - ' इन्द्रश्च सम्राट् ' इस मन्त्र से षोडशी ग्रहपात्र में स्थित सोम का भक्षण किया जाता है । शतपथ ब्राह्मण के अनुसार इस याज्ञिक विनियोग के अनुकूल अन्य आचार्यों ने मन्त्र की व्याख्या की है । अध्यात्मपक्ष में मन्त्रार्थं यह है - भगवान् के प्रसादभूत हे द्रव्य, सम्राट् इन्द्र तथा राजा वरुण इन दोनों विशिष्ट मेरे देवताओं ने तुम्हारा प्रसाद ग्रहण किया है । उस भक्षण का अनुकरण करते हुए मैं भी प्रसाद भक्षण करता हूँ । भक्षण के द्वारा वाग्देवी सरस्वती प्राण देवता के साथ सोमात्मक प्रसाद से तृप्त हो । स्वामी दयानन्द का अर्थ विरुद्ध होने के कारण अग्राह्य है । राजा, अर्थात् ' न्यायादि गुणों से प्रकाशमान ' इस प्रकार कथन में कोई तात्पर्यं संगत नहीं होता, क्योंकि सम्राट् में भी उसके समान ही न्यायादि गुणों से प्रकाशमानत्व है । उन दोनों के द्वारा प्रजासेवन भी नहीं किया जाता, क्योंकि वे दोनों पालक हैं । पालन हो सेवन है, यह भी अनुचित है । ऐसा मानने पर तो सेवक की भी संज्ञा राजा हो सकती है । वह कौन है, जो उनके द्वारा किये गये सेवन के बाद सेवन के द्वारा पिष्टपेषण करता है? इस अर्थ में श्रुतिवाक्यों का विरोध तो अपरिहार्य है, क्योंकि श्रुति में वाजपेय तथा राजसूय यागों का अनुष्ठान सम्पन्न करने वाले के लिये ही सम्राट् तथा राजा विशेषण निर्दिष्ट हैं ॥ ३७ ॥

२४

पृष्ठ 240

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 240 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II [ अ ०८ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वचः सुवीर्यम् । दध॑द्रय मा॑य॒ पोष॑म् ॥ उपया॒मगृ॑हीतोऽस्य॒ -ग्नये॑ त्वा॒ वर्च॑स एष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से 1 । अग्ने वर्चस्व॒न् वर्च॑स्व॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्येषु भूयासम् ॥ ३८ ॥

इतरे, तत्रातिग्राह्यग्रहणं अथ द्वादशाहमन्त्राः । पृष्ठ्यः षडहः प्रथमोऽग्निष्टोमश्चतुर्थः ० १२ | ३ | षोडश्युक्थ्या १-२ ) । - ' अग्ने वर्चस्वन्निन्द्रौजिष्ठ त्र्यहे पूर्वेऽग्ने पवस्वोत्तिष्ठन्नदृश्रमित्यन्वहमेकैकम् ' ( का ० श्र षडहः पृष्ठ्यसंज्ञको भवति । सूर्य भ्राजिष्ठेति भक्षणं यजमानैः ' ( का ० श्री ० १२।३।६ ) इति । अतिरात्रादनन्तरं , चतुर्थः क्रतुः षोडशिसंस्थः । षण्णामह्नां समाहारः षडहः । तत्र षडहे प्रथमः क्रतुरग्निष्टोमसंस्थः पृष्ठ्ये षडहे प्रथमद्वितीयतृतीयेष्वहस्सु वैकङ्कतैः द्वितीयतृतीयपञ्चमषष्ठाः क्रतव उक्थसंस्थाः कार्याः । प्रथमे, उत्तिष्ठन्निति द्वितीये, अदृश्रमिति पात्रैरतिग्राह्यसंज्ञकान् ग्रहान् गृह्णीयात् । अग्ने पवस्वेति गृह्यत एभिरित्यतिग्राह्याः । अग्ने तृतीयेऽहन्येकैकं ग्रहं गृह्णाति । इतरग्रहानतिक्रम्य दुष्प्रापं फलं वैखानसदृष्टा । हे अग्ने, त्वमस्मे अस्मासु वर्चस्विन्नित्यादिमन्त्रैस्तद्ग्रहशेषं भक्षयेत् । अग्निदेवत्या गायत्री पवस्व प्रवर्तयस्व, पवतिः प्रवृत्त्यर्थोऽन्त-सुवीर्यं शोभनं वीर्यं यस्मिन् तद् वर्चः शोभनसामर्थ्योपेतं ब्रह्मवर्चसं ० ७।१।३ ९ ) इति विभक्तेः शे आदेशे र्भावितण्यर्थः । ' सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल: ' ( पा ० सू पाठात् शोभनान्यपांसि कर्माणि अस्मे इति रूपम् । कीदृशस्त्वम्? स्वपा: सुकर्मा । अप इत्यस्य कर्मनामसु । मयि यजमाने रयिं दधद् धारयन् यस्य स तथोक्तः । एवमृत्विग्भिः प्रार्थयित्वा स्वयं प्रार्थयते । यजमानः हे सोम, तेन त्वं गृहीतोऽसि । वर्चसे वर्चस्विने पोषं पुष्ठि पुत्रपश्वादिवृद्धि पवस्व प्रवर्तयस्वेति । उपयामो ग्रहः । तादृशायाग्नये त्वां सादयामीति तेजस्विनेऽग्नये त्वां गृह्णामीति शेषः । एष खरप्रदेशस्ते तव योनिः स्थानम् मध्ये वर्चस्वानतिदीप्तिमान् भवसि । शेषः । हे अग्ने! वर्चस्विन् विशिष्टतेजोयुक्त, त्वं सर्वदेवेष्विन्द्रादिषु । ' ते माहेन्द्रस्यैवानु होम हूयन्ते । त्वत्प्रसादादहमपि मनुष्येषु मध्ये वर्चस्वान् ब्रह्मवर्चस सम्पन्नो भूयासम् ( श ० ४।५।४।८ - ९ ) । एष वा इन्द्रस्य निष्केवल्यो ग्रहः ॥ अथातो गृह्णात्येव । अग्ने पवस्व ' ' ' ' वर्चसे ' को धारण करो । मन्त्रार्थ - हे अग्निदेव, अच्छे कर्म करने वाले आप मुझ यजमान के लिये धन और पुष्टि पात्र में गृहीत मुझे और सभी ऋत्विजों को सुभ्वर सामथ्यं से युक्त ब्रह्मतेज दो । हे प्रथम अतिग्राह्य ग्रह, तुम उपयाम स्थान है । हो, कान्तिप्रद अग्नि देवता की प्रीति के लिये तुम्हें ग्रहण करता हूँ । है प्रथम अतिप्राह्य ग्रह, तेजोयुक्त यह तुम्हारा अग्निदेव, आप तेजःप्रद अग्निदेवता की प्रीति के निमित्त तुम्हें इस स्थान में स्थापित करता हूँ । हे विशिष्ट हो जाऊँ ॥ ३८ ॥

देवताओं में अतिदीप्तिमान् हैं, इस कारण आपके प्रसाद से मैं मनुष्यों में कान्तियुक्त अतितेजस्वी मन्त्र उपदिष्ट हैं । अतिरात्र के बाद भाष्यसार - ' अग्ने पवस्थ ' इस कण्डिका से प्रारम्भ कर द्वादशाह के संस्था वाला तथा चौथा याग ६ दिनों का समुदाय ' पृष्ठ्य षडह ' कहा जाता है । उस षडह में पहला याग अग्निष्टोम । पृष्ठ्य षडह में प्रथम, षोडशी संस्था का होता है । द्वितीय, तृतीय, पञ्चम तथा षष्ठ याग उक्थ संस्था वाले करने चाहिये किया जाता है । उनमें प्रथम द्वितीय तथा तृतीय दिनों में विकंकत काष्ठ के पात्रों से अतिग्राह्य नामक ग्रहों ' का इस ग्रहण मन्त्र से ग्रहशेष का भक्षण किया दिन ' अग्ने पवस्व ' इस मन्त्र से अतिग्राह्य ग्रह का ग्रहण तथा ' अग्ने वर्चस्विन् है । शतपथ ब्राह्मण में याज्ञिक जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १२ । ३ । १ - २, ६ ) में निर्दिष्ट प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।