वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 261–270
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 261–270
पृष्ठ 261
पाठ पढ़ें पाठ छिपाएँ
म ० ५१–५१ ] दार्थ पारिजातभाष्यसहिता २०७ हे गृहस्था इति सम्बोधनैस्य निर्मूलत्वात् । अपत्यस्य मात्रे इत्यपि निर्मूलमेव, मूलेऽपत्यपदस्याभावात् दीधरद् । न इति च धर्तव्यो गर्भ एव भवति विद्यादीनामपि धर्तव्यत्वाविशेषात् । क इमे येऽस्मासु रायस्पोषं, प्रार्थयन्ते? न च गर्भे पुत्रे वा धनपुष्टेर्धारयितृत्वं सम्भवति, तस्याल्पशक्तित्वात् । उपपूर्वस्य सृजेर्नोत्पादनमर्थः
किन्तु संसर्जनमेवार्थः । श्रुतिसूत्रविरोधोऽपि स्पष्टः ॥ ५१ ॥
स॒नस्य॒ ऋद्भि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ अभूम । दिव॑म्पृथि॒व्या अध्यारु॑हामाविंदाम दे॒वान् स्व॒ज्र्ज्योति॑ः ॥ ५२ ॥
' सत्रस्यद्धि गायन्ति सत्रस्य ऋद्धिरिति ' ( का ० श्रौ ० १२ | ४ | १० ) । सर्वे दीक्षिता धिष्ण्याऽव्यवायेनाग्नी -श्रीयमुत्तरेण गत्वाऽपरेण द्वारेण हविर्धानं प्रविश्योत्तरस्य हविर्धानस्यापरकूबरीम् ( विष्कम्भिकाम् ) आलभ्य । हे सत्रस्य ऋद्धिरित्यस्यामृचि साम गायेयुः । बृहती सप्तैकादशनवार्णपादा | सत्रयजमानानामात्मस्तुतिः प्राप्ताः । ततोऽमृता साम! सत्रस्य ऋद्धिः समृद्धिरसि त्वम् । वयं यजमाना ज्योतिरादित्यलक्षणमगन्म । ततो देवान् इन्द्रादीन् अमरणधर्माणः, अभूम भूताः । पृथिव्याः सकाशाद् दिवं द्युलोकमध्यारुहाम अध्यारूढाः अविदाम जानीमः पश्यामः, ज्योतिर्ज्योतीरूपं स्वः स्वर्गं चाविदाम । अत्र ब्राह्मणम् —'त उत्तरस्य हविर्धानस्य । जघन्यायां कुबर्या सामाभिगायन्ति । क्लबरी सत्रस्य ईषाधारिणी ऋद्धिरिति राद्धिमेवैतदभ्युत्तिष्ठन्त्युत्तरवेदेरुत्तराया ७ श्रोणावितरं तु कृततरम् ' ( श ० ४ | ६ | ९ | ११ ) बहूनामारोहणा-विष्कम्भिका । सा चाग्रतः पृष्ठतश्च भवतीति विशिनष्टि - जघन्यायां कृबर्यामिति इतरं । तस्यां तु कर्म च कृततरमतिशयेन सम्भवात् तामालभ्य गायन्तीत्यर्थः । सत्रस्य ऋद्धिरिति मन्त्रे साम गायन्ति । अभूमेति पूर्वर्वादिभिः कृतमिति तथोक्तम् । ' यदुत्तरस्य हविर्धानस्य । जघन्यायां कूबर्यामगन्म हि ज्योतिरमृता देवान् स्वर्ज्योतिरिति ज्योतिर्वा एते भवन्त्यमृता भवन्ति ये सत्रमासते - अविदाम देवानिति विन्दन्ति भवन्ति ये सत्रमासते ' त्रिनिधनमुपावयन्ति स्वर्ह्येते ज्योतिर्ह्येते भवन्ति तद्यदेवैतस्य साम्नो रूपं तदेवैते ( श ० ४।६।९ ।१२ ) । उक्त ब्राह्मणानुसार्येव पूर्वोक्तं व्याख्यानम् । ? जो प्रार्थित किये केवल गर्भ ही नहीं हो सकता, क्योंकि विद्या आदि में भी धर्तव्यत्व समान ही है! इसमें वे कौन हैं जा रहे हैं । गर्भ में अथवा पुत्र में अल्पशक्तित्व होने के कारण धनपुष्टि का धारयिता होना सम्भव नहीं विरोध है । उप तो उपसर्गपूर्वक सृज धातु का अर्थ उत्पादन नहीं है, अपितु संसर्जन ही अर्थ है | श्रुति तथा सूत्र का स्पष्ट ही है ॥ ५१ ॥
मन्त्रार्थ - हे उत्तर हविर्धान, तुम यज्ञ की समृद्धि हो । तुम्हारे प्रसाद से ही हम यजमान आदित्य लक्षण वाली ज्योति को प्राप्त कर मृत्यु से दूर होने की आशा करते हैं । पृथ्वी से द्युलोक को गये हुए देवगण इन्द्र आदि के पास जाने की, ज्योतीरूप स्वर्ग को देखने की हम आशा करते हैं ॥ ५२ ॥
भाष्यसार - ' सत्रस्य ऋद्धि: ' इस ॠचा पर साम का गायन सभी दीक्षित ब्राह्मणों द्वारा किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १२/४/१० ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल याख्यान उपदिष्ट है ।
पृष्ठ 262
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता २०८ L | अ ० ८ करते हैं कि हे भगवन्, आप हमारे द्वारा क्योंकि आपकी कृपा से ही उसकी समृद्धि तुम दोनों मन्त्रार्थ- युद्ध में सबसे आगे रहने वाले, शत्रुओं को युद्ध में ललकारने वाले हे इन्द्र और कर पर्वत दो,, जो सेना हमारे सभी शत्रुओं का नाश कर दो । वज्र नामक अपने तीक्ष्ण आयुध से उन सभी शत्रुओं का नाश दे, लेकर हमसे युद्ध करने आवें । हे शूरवीर इन्द्र, तुम्हारा वज्र दूर चले गये शत्रु को भी खोज कर उसका आदि नाश देवताओं कर! विदारण करने वाला तुम्हारा वज्र हमारे सभी शत्रुओं को विदीर्ण कर दे । हे अग्नि, वायु और सूर्य आपके प्रसाद से हम अच्छी प्रजा वाले बनें । वीर पुत्रों से सुपुत्रवान् और उत्कृष्ट सम्पत्ति को प्राप्त कर हम आपके प्रसाद से सुसम्पत्तिवान् बनें ॥ ५३ ॥
अध्यात्मपक्षे - याज्ञिकाः सर्वेश्वरं प्रार्थयन्ते । हे भगवन्, त्वं सत्रस्यास्मत्कृतस्य बहुयजमानकर्तृकस्य यज्ञस्य ऋद्धिः समृद्धिरसि, त्वत्प्रसादादेव तत्समृद्धिसम्भवात् । वयं यजमानास्त्वत्प्रसादाज्ज्योतिर्विशिष्टमादित्य-लक्षणं ज्योतिः प्राप्ताः । ततोऽमृता अमरणधर्माण: सञ्जाताः । पृथिव्याः सकाशाद् दिवमारूढा देवानिन्द्रादीन् स्वर्गं च पश्यामः । यद्वा ब्रह्मज्योतिः प्राप्ताः पृथिव्या मायाभूमेः सकाशाद् दिवं द्योतनात्मकं ब्राह्मं रूपं प्राप्तवन्तः ॥ दयानन्दस्तु - ' हे विद्वन्, त्वं सत्रस्य संगतस्य राजप्रजाव्यवहाररूपस्य यज्ञस्य ऋद्धिः सम्यग् वृद्धिरस्ति त्वत्सङ्गेन वयं ज्योतिरगन्म विज्ञानप्रकाशं प्राप्नुयाम । अमृता अभूम प्राप्तमोक्षा विदुषो भवेम । दिव्यान् दिवं पृथिव्या भोगान् अध्यारुहाम सूर्यादिभूम्यादेर्जंगतोऽधि उपरि आसमन्ताद् अरुहाम प्रादुर्भवेम । देवान् ब्राह्मणेषु सूत्रेषु च वा । ज्योतिर्विज्ञानविषयं सुखमविदाम विन्देमहि ' इति, तदपि यत्किञ्चित् सत्रपदेन? प्रसिद्धं सत्रमनेकयजमानकर्तृकं विशिष्टं यज्ञमतिक्रम्य राजप्रजाव्यवहारग्रहणे मूलाभावात् । कश्चात्र प्रार्थनीयः कश्च प्रार्थयिता? नहीश्वरोऽत्र वक्ता सम्भवति, तस्य नित्यमुक्तत्वेन मोक्षासम्भवात् ॥ ५२ ॥
यु॒त्रं तमि॑न्द्रापर्वता पुरो॒यु॒धा यो नः॑ पृत॒न्यादप॒ तं त॒मछ॑तं॒ वत्रे॑ण॒ तं त॒मिद्ध॑तम् । बु॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदन॑क्षत् । अ॒स्माक॒ शत्रून् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षोष्ट वि॒श्वत॑ः । भूर्भुवः॒ स्व॒ः सुप्र॒जाः प्र॒जाभि॑ः स्याम सुवीरा॑ वी॒रैः सु॒पोषाः पोषैः ॥ ५३ ॥
अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- याज्ञिक सर्वेश्वर से प्रार्थना सम्पादित किये गये, बहुत यजमानों द्वारा अनुष्ठीयमान यज्ञ की समृद्धि हैं, अमृतत्व सम्भव है । हम यजमानों ने भी आपके अनुग्रह से विशिष्ट आदित्यात्मक ज्योति को प्राप्त कर लिया है । तदनन्तर भी अवलोकन धर्म से युक्त हो गये हैं । पृथिवी से द्युलोक की ओर आरूढ हो गये हैं तथा इन्द्रादि देवों एवं स्वर्ग का ब्राह्म स्वरूप को कर रहे हैं अथवा हमने ब्रह्मज्योति को प्राप्त कर लिया है । तदनन्तर मायाभूमि से उठ कर द्योतनात्मक प्राप्त कर लिया है । स्वामी दयानन्द द्वारा वर्णित व्याख्या अग्राह्य है, क्योंकि सत्र शब्द से ब्राह्मण - ग्रन्थों तथा सूत्र - ग्रन्थों में सुप्रथित में कोई, अनेक यजमानों द्वारा किये जाने वाले विशिष्ट यज्ञ को छोड़ कर ' राजा प्रजा का व्यवहार ' इस अर्थ के ग्रहण करने नहीं है, प्रमाण नहीं है । यहाँ प्रार्थनीय कौन है? तथा प्रार्थना करने वाला कौन है? ईश्वर का यहाँ वक्ता होना सम्भव नित्य मुक्त होने के कारण उसका मोक्ष असंगत है ॥ ५२ ॥
पृष्ठ 263
पाठ पढ़ें पाठ छिपाएँ
म ० ५३ ] वेदार्थपारिजातभाष्यसहिता २० ९ ' युवं तमिति दक्षिणस्याधोऽक्षं प्राञ्चो निष्क्रामन्तीति ' ( का ० श्र ० १२ | ४ | १२ ) । सर्वे हविर्धानात् दीक्षिता । यजमाना दक्षिण हविर्धानाक्षाधोमार्गेण चक्रयोरन्तरालेन नीचीभूय प्राङ्मुखा निःसरन्ति । हे इन्द्रापर्वतौ, इन्द्रदेवत्याऽत्यष्टिरवसानत्रयोपेता पट्षष्ट्यक्षरत्वाद् द्वयूना | आयोऽर्धर्च इन्द्रपर्वतदेवत्यः बलेन यो यः युवं युवां तं यत्नमनुतिष्ठतम् येन यत्नेन पुरोयुधा पुरो अग्रे युध्यतीति पुरोयुत् विनाशयतम् , तेन पुरोयुधा । तदो वीप्सा-शत्रुर्नोऽस्मान् पृतन्यात् संग्रामयेद् योधयेत्, अप तं तं शत्रु इद्धतम् अपहतं । वज्रेणेत्यायुधनियमः । इत उत्तरम् इन्द्रः प्रत्यक्षः, श्रवणाद्यदोऽपि वीप्सा कर्तव्या । इच्छन्दोऽनर्थकः छन्दतिः कामार्थः । वज्रस्य तु कर्तृत्वं विवक्षितम् । परोक्षस्य सतो दूरे चत्ताय छन्त्सत् । चततिर्गतिकर्मा चेत्, कथं त्वदीयो वज्रो दूरं गताय शत्रवे विनाशं कामयताम् । कथं परवशो वर्ततामिति इन्द्र आत्मायुधम् ' च वज्रस्य जडस्य शत्रुविनाश कामना सम्भवतीति चेन्न ' आत्मैवां रयो भवत्यात्माव इनक्षत् इति निरुक्तरीत्या वज्रस्थदेवतायाः स्वात्मरूपत्वेन कामोपपत्तेः । गहनं वनमुदकं वा यद् यदि । रूपसादृश्यादुदकं वनं वा व्याप्नोति पलाय्य गच्छति शत्रुरथापि तं विनाशयति परि शूर विश्वतो इनक्षतिर्व्याप्तिकर्मा दर्मा दर्षीष्ट । ग्रहरूपेण तस्यापि विनाशं कामयतां त्वदीयो वज्रः । अस्माकं ये शत्रवस्तान् परिविदारयतु, हे शूर, त्वदीयो वज्रोऽस्माकं ये शत्रवस्तान् विश्वतः सर्वतोऽवस्थितान् शत्रून् परिदर्षीष्ट ' ह विदारणे ' । कीदृशो वज्रः? दर्मा विदारणशीलः । महीधराचार्यस्तु सायणाचार्यरीत्या - हे शत्रूणां पुरतो युद्धस्य कर्तारौ इन्द्रापर्वती शत्रु! युवं विनाशयतम् युवां तं तं । शत्रुमपहतं विनाशयतम् । आदरे वीप्सा । इदेवार्थकः । तमेव तत्तत्समानमेव सर्वमपि सेनां केन? वज्रेण वज्राख्येनायुधेन तं तमित तं तमेव शत्रु विनाशयतम्, यो यः शत्रुर्नोऽस्मान् पृतन्यात् प्रति दूरे पृतनां चत्ताय कुर्याद् योधयेत् । हे शूर इन्द्र त्वदीयो वज्जो यद् यदा ग्रहणमत्यन्तं गम्भीरं वनमुदकं , वनं दूरगतमपीच्छन् दूरं गताय छन्त्सत् शत्रुं प्राप्तुं कामयते, तदा तमपि दूरगतमिनक्षत् प्राप्नुयात् विश्वतः सर्वतः स्थितान् सर्वान् गृह्णात्येवेत्यर्थः । ततो दर्मा विदारणशीलो वज्रोऽस्माकमस्मदीयानां च ० १२।४।२४ ) | नानाकामेषु शत्रून् परिदर्षीष्ट परितो विदारयतु । ' पृथक्कामेषु भूर्भुवः स्वरिति ' ( का ० श्र, वयं प्रजाभिः सुप्रजाः, दीक्षितेषु भूर्भुवः स्वरिति मन्त्रेण सर्वे वाग्विसर्जनं कुर्युः । हे भूर्भुवस्वः! अग्निवायुसूर्याः वीरैः पुत्रैः सुवीराः स्याम, पोषैः पुष्टिभिः सुपोषाः स्याम भवेम । ७ अत्र ब्राह्मणम् -- ' ते दक्षिणस्य हविर्धानस्य । अधोऽधोऽक्ष ११ सर्पन्ति स यथाहिस्त्वचो पाप्मा निर्मुच्येतैव नान्वत्येति सर्वस्मात् पाप्मनो निर्मुच्यन्तेऽतिच्छन्दसा सर्पन्त्येपा वै सर्वाणि छन्दासि सर्पन्ते यदतिच्छन्दास्तथैनान् दीक्षितास्त्वचोऽहिरिव सर्वस्मात् तस्मादतिच्छन्दसा सर्पन्ति ' ( ० ४।६।२ ९ । १३ ) । अत्यष्टिच्छन्दसा ।१४ ) । पाप्मनो निर्मुच्यन्ते । ' ते सर्पन्ति । युवं तमिन्द्रापर्वता ' ' विश्वत इति ' ( श ० ४।६।९ योद्धारौ अध्यात्मपक्षे -- हे इन्द्रापर्वतौ कृष्णार्जुनौ पुरोयुधौ अग्रे योद्धारौ, कामक्रोधादिभिरत्रे शत्रुमुपहतम् । केन? ज्ञानविज्ञानी! युवं युवां तं कामादिकं शत्रुमपहतं विनाशयतम् । तमेव तं तं सर्वमपि से पूर्वाभिमुख होकर निष्क्रमण करते हैं । यह भाष्यसार - ' ' युवं तम् ' इस मन्त्र से सभी दीक्षित यजमान हविर्धान श्रुति के अनुसार सायण तथा महीधर आदि विनियोग कात्यायन श्रौतसूत्र ( १२।४।१२ ) में प्रतिपादित है । शतपथ आचार्यों ने याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ किया है । शूरों, काम - क्रोध आदि से अग्रतः युद्ध अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - हे श्रीकृष्ण तथा अर्जुन । अग्रणी तत्तत् सम्पूर्ण शत्रुओं को विचाररूपी आयुधों करने वाले ज्ञान - विज्ञान! आप दोनों उन कामादि शत्रुओं को विनष्ट करें २७
पृष्ठ 264
पाठ पढ़ें पाठ छिपाएँ
२१० शुक्लयजुर्वेद संहिता [ अ ०८ वज्रेण, विचाररूपेणायुधेन । यो यः शत्रुर्नः पृतन्याद् अस्मान् जेतुं पृतनां सेनासङ्घटनं कुर्यात्, वनं हे प्रति शूर हे कृष्ण हे प्रत्यक्चैतन्याभिन्नब्रह्मसाक्षात्कार! त्वदीयो विचाराख्यो वज्रः, गहनमत्यन्तगम्भीरं । चत्ताय दूरे गताय छन्त्सत् शत्रुं प्राप्तुं कामयते, तमपि इनक्षद् व्याप्नुयात्, दूरगतमपि इच्छन् गृह्णात्येव दर्मा विदारणशीलः, अज्ञानान्धकारोन्मूलनशीलः, विश्वतः स्थितान् सर्वान् शत्रून् विदारयतु । हे सुप्रजास्तैरेव भूर्भुवःस्वः, उत्पादक - पालक - संहारका विधिहरिरुद्राः युष्माकं कृपया वयं प्रजाभिर्ज्ञानविज्ञानवैराग्यरूपाभिः वीरैः सुवीरास्तेषामेव पोषैः सुपोषा भवेम । दयानन्दस्तु ' हे पुरोयुवेन्द्रपर्वताः सूर्यसोमसदृशौ सेनापतिसेनाजनौ! युवां यो यो नः पृतन्यात् पृतनां सेनामिच्छेत् तं तं वज्रेणैव शस्त्रास्त्रविद्याबलेन अहतमपहन्याताम् । यद्गहनं शत्रुरलमस्माकं सैन्यमिनक्षद् व्याप्नुयात् यच्च छन्त्सद् ऊर्जेत्, तं तं चत्ताय अस्माकमाह्लादाय इतं दूरे प्रापयतम् । हे शूर सभापते, दर्मा शत्रुविदारयिता त्वमस्माकं शत्रून् विश्वतः परिदर्षीष्ट विदारय । यतो वयं भूर्भुवःस्वर्भूमा अन्तरिक्षे सुखे प्रजाभिः सुप्रजाः, वीरैः सुवीराः, पोषैः सुपोषा विश्वतः स्याम ' इति, तदपि मन्दम्, मुख्यार्थ -त्यागाद् गौणार्थाश्रयणाच्च । किञ्च सेनापतिसैनिकजनाभ्यां सुप्रजस्त्वादिकमपि कथं सम्पद्यते? इत्यपि चिन्त्यम् ॥ ५३ ॥
प॒मे॒ष्ठ्यभिधो॑तः प्र॒जाप॑तिर्वो॒चि व्याहृताय॒मध॒ अच्छेतः । सवि॒ता स॒न्या॑ वि॒श्वक॑र्मा दीक्षायां पूषा सम॒क्रय॑याम् ॥ ५४ ॥
Ad ' परमेष्ठ्यादीच चतुस्त्रिशतं जुहोति, घर्मं दुग्ध्वालेमे चादोहे च, उदीच्या दोहस्थानेऽन्यस्याः चके ', शालाया वा पुरस्तात् प्राच्याः पुच्छकाण्डाद् दक्षिणेऽस्थनि हुत्वा दोहयेत् पृथदाज्यस्यन्दने ( का ० श्र ० २५।६।१-६ ) | मृन्मयधर्मपात्रभेदे भिन्नमभिमृश्य परमेष्ठिने स्वाहा प्रजापतये स्वाहेत्यादीन् सलिलाय स्वाहेत्यन्ताद् चतुस्त्रिशद्धोमान् जुहोति । धर्मदुहो गोर्मरणे तत्स्थान उदङ्मुख्याः स्थितायाः से नष्ट करें, जो जो शत्रु हमको जीतने के लिये सेना का संगठन करता है । हे श्रीकृष्ण, हे प्रत्यक्चैतन्य से अभिन्न ब्रह्मसाक्षात्कार! आपका विचार रूपी वज्र अत्यन्त गम्भीर वन में सुदूर जाने वाले शत्रु को प्राप्त करने की इच्छा करता है, उसको भी व्याप्त करे, अधिगत करे । अर्थात् सुदूर जा चुके शत्रु को भी इच्छा होने पर वह निगृहीत कर ही लेता है । अज्ञानान्धकार का उन्मूलन करने वाला, सर्वतः स्थित समस्त शत्रुओं को विनष्ट करे । हे उत्पादक, पालनकर्ता तथा संहृतिकर्ता ब्रह्मा, विष्णु एवं महेश्वर! आप लोगों की कृपा से हम ज्ञान, विज्ञान, वैराग्य - रूपिणी प्रजाओं से सुप्रजावान्, उन्हीं सन्ततियों से सुसन्ततियुक्त तथा उनके ही पोषण से सुपोषित हों । स्वामी दयानन्द द्वारा प्रणीत व्याख्यान मुख्यार्थं के परित्याग तथा गौणार्थ के आश्रयण के कारण अग्राह्य है | सेनापति तथा सैनिक जनों से सुप्रजायुक्त आदि होना कैसे सम्भव होता है? यह भी विचारणीय है ॥ ५३ ॥
मन्त्रार्थ - जिस समय यजमान सोमयाग करने को प्रवृत्त होता है, उस समय यह सोम मन में परमेष्ठी के रूप में विराजमान हो जाता है । वाणी के उच्चारण में वह सोम प्रजापति बन कर बैठ जाता है । जिस काल में वह यजमान के संमुख आता है, तब वह अन्ध नाम वाला होता है । सोम के यथाभाग रक्षित होने पर वह सविता कहलाता है । दीक्षा के समय उसका नाम विश्वकर्मा होता है । सोमक्रयणी गाय को लाने में सोम पूषा नाम वाला होता है ॥५४ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( २५/६ । १- ६ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' परमेष्ठ्यभिधीतः '
पृष्ठ 265
पाठ पढ़ें पाठ छिपाएँ
म ० ५४ ] वेदार्थपारिजातभाष्यसहिता २११ पत्नीशालापूर्वभागे प्राङ्मुख्या वा पुच्छाद्दक्षिणेऽस्थनि परमेष्ठिने स्वाहेति चतुस्त्रिशतमाज्याहुतीर्हत्वा तां दोहयेत् । स्थालीस्थस्य स्रुक्स्थस्य वा पृषदाज्यस्य वा भ्रंशे एके आचार्या परमेष्ट्यादीन् जुहोतीत्याहुरिति सूत्राणामर्थः । आध्यायाद्वशिष्ठ ऋषिः यदा सोमो यजमानेनाभिधीतोऽभिध्यातः सङ्कल्पितो भवति, तदा स परमेष्ठी भवति । मनसा ध्यातः सोमो यदि नोपनमेत्, तदा परमेष्ठिने स्वाहेति जुहुयात्, ' स यद्येनं मनसा -भिध्यातः । यज्ञो नोपनमेत् परमेष्ठिने स्वाहेति जुहुयात् परमेष्ठी हि स तर्हि भवत्यप पाप्मान हत उपैनं यज्ञो नमति ' ( श ० १२ ६ । १ ३ ) इति श्रुतेः । वाचि व्याहृतायां सोमेन यक्ष्य इति वचस्युच्चारिते सति सोमः प्रजापतिनामको भवति । तदा प्रायश्चित्तापत्तौ प्रजापतये स्वाहेति जुहुयादित्यर्थः । यदा सोमोऽच्छाभिमुख्येनेतः प्राप्तस्तदाऽन्धो भवति, ' अच्छाभेराप्तुमिति शाकपूणिः ' ( निरु ० ५।२ ९ ) । सोमं प्रति गतौ किञ्चिन्निमित्तं चेत्तदा अन्धसे स्वाहेति जुहुयात् । अन्धोऽन्नमिति । सन्यां सोमस्य सम्भक्तौ सोमः सवितृनामको भवति, तदा प्रायश्चित्तनिमित्ते सति सवित्रे स्वाहेति जुहुयात्, ' अथ यदि सातः । किञ्चिदापद्येत सवित्रे स्वाहेति जुहुयात् ' ( श ० १२ | ६ | | ६ ) इति श्रुतेः । दीक्षायां सत्यां सोमो विश्वकर्मा भवति तदा विश्वकर्म स्वाहेति जुहुयात् । सोमक्रयण्यां सोमः क्रीयतेऽनया सा सोमक्रयणी गौस्तस्यामानीतायां सत्यां सोमः पूषा भवति, तदा निमित्ते सति पूष्णे स्वाहेति जुहुयात् । अत्र ब्राह्मणम् – ' सोमो वै राजा यज्ञः प्रजापतिः । तस्यैतास्तन्वो या एता देवता या एता आहुतीर्जुहोति ' ( श ० १२।६।१।१ ) । सोमप्रायश्चित्तब्राह्मणमेतत् । सोमोऽनन्तोषधीनां राजा देवराजश्चन्द्रमसो न न्यूनभूतः । तेनात्र यज्ञसामानाधिकरण्यान्मत्वर्थो लक्ष्यते । सोमसाधनको यज्ञः प्रजापतिः, तस्यैतास्तन्वः शरीराणि या एता देवता वक्ष्यमाणाः परमेष्ठ्यादयः, सोमद्रव्यात्मकस्य यज्ञस्य परमेष्ठ्याच्या देवतास्तन्वः, क्रियात्मकस्य यज्ञस्याहुतयस्तन्वः । ‘ स यद्यज्ञस्यार्धेत् । यां तत्प्रति देवतां मन्येत तामनुसमीक्ष्य जुहुयाद् यदि दीक्षोपसत्स्वा-हवनीये यदि प्रसुत आग्नीध्रे एतद्यज्ञस्य पर्व सरसते यद् ह्वलति तर्हि तत्र देवता भवति तयैवैतद्देवतया यज्ञं भिषज्यति तया देवतया यज्ञं प्रति सन्दधाति ' ( श ० १२ २६ । १ २ ) । पुनर्नित्या एवैतास्तन्वः? नेत्याह, यतः सोमो यज्ञस्याङ्गमाच्छेद् विनश्येत् तत्प्रति तस्मिन्न यां देवतां परमेष्ठ्यादिकां मन्येत, ' परमेष्ठ्यभिधीतः ' ( वा ० सं ० ८ ५४ ) इत्यादेरागमादवगच्छेत्, तामनु पूर्वं सम्यग् ज्ञात्वा तस्यै देवतायै आज्याहुति जुहुयात् । यदि दीक्षोपसत्सु यज्ञस्य किञ्चिदाच्छेत्तदा आहवनीये जुहुयात् । यदि तु प्रसुत्यायां तत आग्नीध्रीये प्रायणीया-दूध्वं प्राक् सुत्याया होतव्यम् । आहवनीये कुतः? दीक्षोपसत्स्वाहवनीय इत्यनुवादत एव प्राप्तत्वाद् एतदेवानुविधीयते प्रसुत आग्नीध्र जुहोतीति । ततश्च सुत्यायामेव आग्नीघ्रता प्राप्नोति । विस्रंसते वै एतद्यज्ञस्य पर्व अङ्गं यद् ह्वलति स्वभावाद्विगुणं भवतीत्यर्थः । ततश्च या एव पर्व पर्वण्यभिध्यानादौ देवता परमेष्ठ्यादि-भवति, तस्या देवताया एतदेव कुर्वन् यज्ञं भिषज्यति सन्दधाति । स यद्येनं मनसाऽभिध्यातः । यज्ञो नोपनमेत् परमेष्ठिने स्वाहेति जुहुयात् परमेष्ठी हि स तर्हि भवत्यप पाप्मान हत उपनं यज्ञो नमति ' ( श ० १२ | ६ | १ | ३ ) । परमेष्ठी हि स यज्ञस्तदा भवति । अनया वाग्घुत्या प्रतिबन्धकं पाप्मानमपहन्ति । तस्मिन्नपहते एनं यजमान-मुपनमति । ' अथ यद्येनं वाचाभिव्याहृतः । यज्ञो नोपनमेत् प्रजापतये स्वाहेति जुहुयात् प्रजापतिर्हि स तहि भवत्यप पाप्मान ँ हत उपैनं यज्ञो नमति ' ( श ० १२ | ६ | १ | ४ ) । ' अथ यस्य राजानमच्छेत्त्वा । नाहरन्त एयुरन्धसे स्वाहेति जुहुयादन्धो हि स तर्हि भवत्यप पाप्मान ७ हत उपैनं यज्ञो नमति ' ( श ० १२६ । ११५ ) । ' अथ यदि सातः । किञ्चिदापद्येत सवित्रे स्वाहेति..... ( श ० १२।६।१।६ ) | ' अथ यदि दीक्षासु । किञ्चिदापद्येत विश्वकर्मणे स्वाहेति जुहुयात् ' ( श ० १२ ६ । १।७ ) | ' अथ यदि सोमक्रयण्याम् । पूष्णे स्वाहेति जुहुयात् ' ( श ० १२ २६।११८ ) । इत्यादि कण्डिकोपदिष्ट मन्त्रों से मृण्मय धर्मपात्र के टूट जाने आदि निमित्तों में घृताहुतियाँ प्रदान की जाती हैं । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है ।
पृष्ठ 266
पाठ पढ़ें पाठ छिपाएँ
२१२ शुक्लयजुर्वेद संहिता 1 अ ० ८ अध्यात्मपक्षे - सोमः साम्बपरमेश्वरः, भक्तेनाभिधीतः सङ्कल्पितो मनसा ध्यातः परमेष्ठी भवति परमेष्ठिवत् सर्वकामपूरको भवति । वाचि व्याहृतायां तदीयगुणनामकर्मविषयिण्यां वाचि व्याहृतायां प्रजापति- , अर्थात् भवति, प्रजापतिर्भूत्वा पालयतीत्यर्थः । यदा सोमो भगवान् आप्तुमात्मानमभितः प्राप्तो भवति, तदा अन्धो s नं साक्षादुपभोग्यं भवति, ' अहमन्नमहमन्नमहमन्नमहमन्नादः ' ( तै ० उ ० ३१० ) इति श्रुतेः । सन्यां तद्विषयिण्यां सम्भक्तौ सत्यां सविता भवति सर्वाभीप्रोत्पादको भवति, ज्ञानवैराग्यमोक्षादीनामप्राप्तप्रापकत्वेन प्राप्त रक्षकत्वेन च योगक्षेमनिर्वाहको भवति । दीक्षायां साम्ब सदाशिवसम्बन्धिन्यां दीक्षायां जातायां भवति सर्वाभीष्टसम्पादको भवति । सोमक्रयण्यां सोमः शिवः क्रीयते यया सा सोमक्रयणी विश्वकर्मा रक्तिस्तस्यां सत्यां पूषा भवति । स सोम आधिभौतिकस्याध्यात्मिकस्याधिदैविकस्य सर्वविधधनस्य परमानुरागरूपानु- पोषको भवति, तस्मात् सर्वभावेन स एवोपास्यो भवतीत्यर्थः । दयानन्दस्तु -- ' हे गृहस्थाः युष्माभिर्यदि व्याहृतायां वाचि वेदवाण्यां परमेष्ठी परमानन्दस्वरूपे स्थितः प्रजापतिः, अच्छेतः सम्यक् प्राप्तः, विश्वकर्मा सर्वविद्याकर्मज्ञानश्रेष्ठः सभापतिर्दीक्षायां सकलनियमानां धारणे सोमाद्योषधिग्रहणे च पूषा सर्वपुष्टिकारक उत्तमो वैद्यः, सविता जगदुत्पादकः, सन्यां सन्यं नीयते यया धीतो निश्चितोऽन्ध प्राप्तम्, तहि सततं सुखिनः स्युः ' इति, तदपि यत्किञ्चित् क्लिष्टकल्पनाबाहुल्यात् तस्यामभि-पूर्वोक्तरीत्या श्रुतेरन्यथा व्याख्यातत्वाच्च । गृहस्थानां सम्बोधनमपि निर्मूलमेव, सोमक्रयणीशब्दस्य सोमक्रय-, साधनभूतायां गवि प्रसिद्धत्वात् तद्विरुद्ध ल्पनानां निर्मूलत्वात् ॥ ५४ ॥
इन्द्र॑श्च म॒रुत॑श्च क्र॒याय॒पोत्थि॒तोऽसु॑रः प॒ण्यमा॑नो मित्रः क्रीतो विष्णुः शिपिविष्ट ऊ॒रावास॑नो॒ विष्णु॑न॒रन्धिषः ॥ ५५ ॥
अध्यात्मपक्ष में मन्त्रार्थ यह है --- साम्ब सदाशिव भक्त के द्वारा संकल्पित, मन से अनुध्यात होने पर परमेष्ठी के समान समस्त कामनाओं के पूर्तिकर्ता होते हैं । उनके गुण, नाम, कर्म - विषयक वाणी का उच्चारण करने पर वे बन कर पालन करते हैं । जब भगवान् साम्बशिव प्राप्ति के लिये आत्मा के सम्मुख आते हैं, तब वे साक्षात् उपभोग्य प्रजापति जाते हैं । तद्विषयिणी सद्भक्ति होने पर वे सविता, अर्थात् समस्त अभीष्टों के उत्पादक होते हैं । ज्ञान, वैराग्य, मोक्ष आदि हो के अप्राप्तप्रापक तथा प्राप्त के रक्षक होते हुए योगक्षेम के सम्पादक होते हैं । साम्ब सदाशिव सम्बन्धी दीक्षा के सम्पन्न हो जाने पर वे सम्पूर्ण कामनाओं के पूर्तिकर्ता हो जाते हैं । साम्ब शिव जिसके द्वारा क्रोत हो जाते हैं, इस प्रकार की परमानुरागरूपिणी भक्ति ही सोमक्रयणी है । उसके प्राप्त हो जाने पर वे साम्ब शिव आधिभौतिक, आधिदैविक तथा आध्यात्मिक, सर्वविध धन के पुष्टिकर्ता होते हैं । अतः समस्त भावों के द्वारा वही उपास्य होते हैं, यह तात्पर्य है । स्वामी दयानन्द द्वारा वर्णित अर्थ क्लिष्ट कल्पनाओं की अधिकता के कारण तथा श्रुति की विपरीत के कारण अनुचित है । गृहस्थों को सम्बोधित करना भी अप्रामाणिक है । सोमऋणी शब्द सोमक्रय की साघनभूत व्याख्या गो के लिये प्रसिद्ध है । अतः उससे विरुद्ध कल्पना करना भी अप्रामाणिक है ॥ ५४ ॥
मन्त्रार्थ -- सोम के विक्रय के लिये उपस्थित होने पर वह इन्द्र और महत् नाम वाला होताहै । क्रय करते समय असुरसंज्ञक, खरीद लिये जाने पर मित्रसंज्ञक, यजमान की गोदी में स्थित सोम प्राणियों में प्रविष्ट विष्णु नाम वाला और शकट से वहन करते समय वह जगत् का संहर्ता और जगत् का पालक विष्णु नाम वाला होता है ॥ ५५ ॥
पृष्ठ 267
पाठ पढ़ें पाठ छिपाएँ
म ० ५५ ] वेदार्थपारिजात भाष्यसहिता २१३ भवति । तदा इन्द्राय क्रयाय द्रव्यादिदानेनात्मसात्करणायोपोत्थित उपस्थापितः सोम इन्द्रामरुन्नामको भवति । तदानीमसुराय मरुद्भयश्च स्वाहेति जुहुयात् । क्रीयमाणः सोमोऽसुरो भवति, असुरः प्राणवान् । तदा बलवान् मित्राय स्वाहेति जुहुयात् । स्वाहेति जुहुयात् । यजमानेन क्रीतः सन् मित्रो भवति, मित्रो देवविशेषः प्राणेषु यज्ञेषु वा विष्टः प्रविष्टः, ऊरौ यजमानोत्सङ्गे आसन्न स्थितः सोमः शिपिविष्टो विष्णुर्भवति, शिपिषु । प्रोह्यमाणः शक् टेनोद्यमानः सोमो एतद्गुणको विष्णुरित्यर्थः । तदा विष्णवे शिपिविष्टाय स्वाहेति जुहुयात् संसारः तं स्यति नाशयतीति नरन्धिषो विष्णुर्नरन्धिषो भवति, नरो धीयन्ते आरोप्यन्ते यस्मिन् स नरन्धिः रन्धिषो हन्ता, न रन्धिष इति नरन्धिषः, जगत्संहर्तृत्वविशिष्टो विष्णुः, ' षोऽन्तकर्मणि ', यद्वा रध्यति हिनस्तीति ' रध हिंसायाम् ' । तदा विष्णवे नरन्धिषाय नत्रो नकारस्यालुग् नलोपाभावश्छान्दसः, जगत्पालको वा विष्णुः, स्वाहेति जुहुयात् । ' अत्र ब्राह्मणम् -'अथ यदि क्रयायोत्थितः । किञ्चिदापद्येतेन्द्राय च मरुद्रयश्च १० ), ' अथ स्वाहेति यदि क्रीतः जुहुयात् । ( श ० १ २ ६ ११ ९ ), ' अथ यदि पण्यमानः । असुराय स्वाहेति जुहुयात् ' ( १२ | शिपिविष्टाय ६ | १ | स्वाहेति जुहुयात् ' मित्राय स्वाहेति ' ( श ० १ २ । ६ । १ । ११ ), ' अथ यद्यूरावसन्नः । विष्णवे पर्युह्यमाणः । किञ्चिदापद्येत विष्णवे नरन्धिवाय स्वाहेति जुहुयात् ' ( श ० १२ | ६ | १ | १२ ), ' अथ यदि ( श ० १२।६।१।१३ ) । इन्द्रो अध्यात्मपक्षे - स एव सोमः साम्बशिवः सर्वात्मा सन् सोमयज्ञे सोमरूपेण क्रयाय भवति उपस्थापित । ऊरौ आसन्नः मरुतश्च भवति । स एव पण्यमानः क्रीयमाणः सोमोऽसुरो भवति । क्रीतः सन् मित्रो भवति, नरो धीयन्ते स्थितः शिपिविष्ट विष्णुर्भवति । प्रोह्यमाणः शकटेनो ह्यमानः सोमो विष्णुर्नरन्धिषो विष्णुर्भवति । यद्वा ' रध आरोप्यन्ते यस्मिन् स नरन्धिः संसारः, तं स्यतीति नरन्धिषो जगत्संहर्तृत्वविशिष्टो । यद्वा सोमो दिव्यो हिंसायाम् ', रध्यति हिनस्तीति रन्धिषो हन्ता, न रन्धिषो जगत्पालको वा विष्णुर्भवति निवेदनीयः पदार्थः, तत्तदुक्तदशायां तत्तद्रूपो भवतीति । विद्युद् वायवश्च दयानन्दस्तु – ' हे मनुष्याः, यूयं विद्वद्भिर्यः क्रयाय व्यवहारसिद्धये इन्द्रो विष्णुर्धनञ्जयो मरुतश्च नरन्धिषो नरान् असुरो मेघः पण्यमानः स्तूयमानो मित्रः सुहृत् शिपिविष्टः पदार्थेषु प्रविष्टो सर्वेषां निकट उपोत्थितः समीपे दिवेष्टि शब्दयतीति न रन्धिषो विष्णुश्च व्याप्तः साक्षी, ऊरौ आच्छादने आसन्नः, असम्बद्ध-प्रकाशित इव क्रीतो व्यवहृतोऽस्ति तं विजानीत ' इति, तदपि यत्किञ्चित् सर्वत्र गौणार्थाश्रयणात् में विनियुक्त है । शतपथश्रुति में भाष्यसार - ' इन्द्रश्च मरुतश्च ' यह कण्डिका भी पूर्व की भाँति याज्ञिक प्रक्रिया याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है । के द्वारा कृपा से अध्यात्मपक्ष में मन्त्रार्थं इस प्रकार है- वही साम्ब शिव सर्वात्मा होते हुए सोमयज्ञ में सोमरूप ) होते हैं । क्रीत उपस्थापित होकर इन्द्र एवं मरुद्गण होते हैं । वही खरीदे जाते हुए सोम असुर ( प्राणवान्, बलवान् वहन किये जाने होकर मित्र हो जाते हैं । यजमान की गोद में अवस्थित होकर विष्णुस्वरूप होते हैं । शकट के द्वारा अर्थात् दिव्य नैवेद्य पर सोम नरन्धिष, अर्थात् जगत्संहर्तृत्वविशिष्ट विष्णु अथवा जगत् - पालक विष्णु होते हैं । अथवा सोम, पदार्थ उपर्युक्त तत्तद् अवस्थाओं में तत्तद् रूपों वाले हो जाते हैं, यह भाव है । है । ' ऊरु ’ स्वामी दयानन्द द्वारा वर्णित व्याख्या सर्वत्र गोण अर्थ के ग्रहण तथा असम्बद्ध होने के कारण असंगत
पृष्ठ 268
पाठ पढ़ें पाठ छिपाएँ
२१४ शुक्लयजुर्वेदसंहिता [ अ ०८ त्वाच्च । ऊरावित्यस्याच्छादनमर्थो निर्मूल एव । एवं च क्रीत इत्यादीनामर्थोऽपि निर्मूल एव श्रुति-विरोधश्च ॥ ५५ ॥
प्रा॒ह्यमा॑ण॒: सोम॒ आग॑ति॒ वरु॑ण आस॒न्द्यामास॑न्नोऽग्निराग्नय॒ इन्द्रो॑ हविर्धानेऽर्थों-पावक्रि॒यमा॑णः ॥ ५६ ॥
शकटादागतोऽवरूढः सोमनामको भवति, तदा सोमाय स्वाहेति जुहुयात् । आसन्द्यां मचिकायामुपविष्टः सोमो वरुणो भवति, तदा वरुणाय स्वाहेति जुहुयात् । हविर्धाने वर्तमानः सोम इन्द्रो भवति, तदेन्द्राय स्वाहेति जुहुयात् । ' ह्रदे त्वा मनसे त्वा ' इति मन्त्रेण कण्डनार्थमुपावह्रियमाण आनीयमानः सोमोऽथर्वनामको भवति, तदाथर्वणे स्वाहेति जुहुयात् । अत्र ब्राह्मणम् -'अथ यदि पर्युद्धमाण । किञ्चिदापद्येत विष्णवे नरन्धिपाय स्वाहेति जुहुयात् ' ( ० १२ | ६ | १ | १३ ) । ' अथ यद्यागतः । किञ्चिदापद्येत सोमाय स्वाहेति जुहुयात् ' ( श ० १२ ६ | १।१४ ) । ' अथ यद्यासन्द्यामासन्नः । किञ्चिदापद्येत वरुणाय स्वाहेति ' ( श ० १० । ६ । १।१५ ) । ' अथ यद्याग्नीध्रगतः ।... अग्नये स्वाहेति ' ( श ० १२ | ६ | १ | १६ ) । ' अथ यदि हविर्धानगतः । इन्द्राय स्वाहेति जुहुयात् ' ( श ० १२।६।१।१७ ) । अध्यात्मपक्षे तु - प्रोद्यमाणो रथेन नन्दिगणेन वा प्रमाण आगतोऽवरूढः सोमो भवति सोमपदा-भिप्यो भवति | आसन्द्यां मञ्चिकायां सिंहासने वा उपविष्टः सोमो वरुणः सर्वरोगदोषवारको भवति । आग्नीध्रे वर्तमानोऽग्नीत्सम्बन्धिनि कर्मणि इज्यमानोऽग्निर्भवति, अग्निवत् सर्वपापदाहको ज्ञानाग्निवद्वा अविद्यातत्कार्या-त्मकप्रपञ्चनिवर्तको भवति । हविर्धाने वर्तमानः शिव इन्द्रो भवति । परमैश्वर्यपूर्णः परमैश्वर्यप्रदो भवति । उपावह्रियमाणो हृदये सर्वोपसंहारेण चिन्त्यमानोऽथर्वा सन्नहिंसाप्रतिष्ठां सम्पादयति भक्तेषु । का अर्थ ' आच्छादन ' अप्रामाणिक है । इसी प्रकार ' क्रीतः ' आदि पदों का अर्थ भी निर्मूल ही है । श्रुतिवचनों का विरोध भी इसमें है ॥ ५५ ॥
मन्त्रार्थ शकट पर आरूढ़ सोम नाम वाला, सोम रखने के मंच पर रक्षित सोम वरुण संज्ञक, आग्मीध में विद्यमान सोम अग्निसंज्ञक, हविर्धान में विद्यमान सोम इन्द्रसंज्ञक और कूटने को लाया हुआ सोम अथर्वा नाम वाला होता है ॥ ५६ ॥
भाष्यसार - ' प्रोह्यमाण: ' इस कण्डिका का विनियोग भी पूर्व की भांति याज्ञिक प्रक्रिया के अन्तर्गत प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थं संगति इस प्रकार है- रथ से अथवा नन्दिगणों से वहन किये जाते हुए आगत वे सोम शब्द से अभिहित होते हैं । मंचिका अथवा सिंहासन पर आसीन होकर सोम समस्त रोग - दोष के निवारक होते हैं । अग्नीत्-सम्बन्धी कर्म में यज्ञिय अग्नि हैं । अग्नि के समान समस्त पापों को दग्ध करने वाले अथवा ज्ञानाग्नि की भाँति अविद्या तथा तत्कार्यात्मक प्रपंच के निवर्तक होते हैं, यह भाव है । हविर्धान में विद्यमान शिव इन्द्र, अर्थात् परमैश्वर्य से परिपूर्ण अथवा परमैश्वर्यप्रदाता होते हैं । हृदयप्रदेश में सबके चरम के रूप में ध्यान किये जाने पर वे अथर्वा होकर भक्तों में अहिंसा की प्रतिष्ठा करते हैं ।
पृष्ठ 269
पाठ पढ़ें पाठ छिपाएँ
वैदार्थ पारिजात भाष्यसहिता म ० ५६-५७ ] -७ L २१५ विश्वेदेव नाम वाला और वृद्धि को प्राप्त सोम का अभिषव करते समय इसका सोम वायु नाम का पवित्र हुआ सोम शुक्र नाम का होता है । पूत सोम दूध से मिलाये जाने पर शुक्र नाम वाला और सत्तू से मिश्रित सोम मन्थी कहलाता है ॥ ५७ ॥
दयानन्दस्तु – ' हे गृहस्थाः, युष्माभिरस्यामीश्वरस्य सृष्टौवासन्द्यां यानासनविशेषे आसन्नः समीपस्थ इव प्रोमाणः प्रकृष्टतर्फे गानुष्ठितः सोम ऐश्वर्यसमूहः, वरुणो जलसमुह, आग्नीध्रे प्रदीपनसाधन इन्धनादावग्निः, उपावह्रियमाणः क्रियाकौशलेनोपयुज्यमानः, अथर्वा अहिंसनीयः, हविर्धाने हविषां ग्रहीतुं योज्यानां पदार्थानां धारणे इन्द्रो विद्युत् सततमुपयोजनीयः ' इति, तदपि यत्किञ्चित्, ' वह प्रापणे, ऊह वितर्के ' इत्युभयोरपि तथा प्रयोगसम्भवेन वितर्थिस्योहते हर्वा ग्रहणे विनिगमनाविरहात् । आगत इवेत्यध्याहारोऽपि निर्मूल एव आगतः समन्तात् प्राप्तः सहायकारी पुरुष इवेत्येतादृशस्यार्थस्य ग्रहणे किं मूलमित्यनुक्तेश्च । अत्र मन्त्रे भाष्यं वितन्वन् दयानन्दः प्राह - ' प्रमाण इति पदं महीधरेण भ्रान्त्या पूर्वस्मिन् मन्त्रे पठितम् ' इति, तत्तु तदज्ञानविजृम्भितमेव, बुद्धिवैक्लव्यात् । तथाहि नहि महीधरेण स्वकीये भाष्ये प्रमाण इति पदं पञ्चपञ्चाशमन्त्रांशतया पठितम्, किन्तु शातपथी श्रुतिरेव तेन व्याख्याता - प्रोह्यमाणः शकटेनोमानः सोमो विष्णुर्नरन्धिषो भवतीति । श्रुतिश्च - ' अथ यदि पर्युह्यमाणः । किञ्चिदापद्येत विष्णवे नरन्धिषाय स्वाहेति जुहुयाद् विष्णुहि स तर्हि नरन्धिषो भवत्यप पाप्मान हत उपैनं यज्ञो नमति ' ( श ० १२ ६ | १ | १३ ) । तदेतां श्रुति यत्किञ्चित् प्रलपति स्वामी दयानन्दः । किञ्च पर्युह्यमाण इत्यस्याभावे तु विष्णुर्नरन्धिष इति मन्त्रेण कदा किं कुर्यादित्यनिश्चितमेव स्यात् । यथा ऊरौ ' आसन्नः सोमो विष्णुः शिपिविष्टो भवति, तथैव पर्युह्यमाणः शकटेनो ह्यमानः सोमो विष्णुर्नरन्धिषो भवति । अत एव प्रोह्यमाण इति व्याख्यानावसरे प्रोद्यमाणः शकटादागतोऽवरूढः सोमनाम को भवतीति व्याख्यातं महीधराचार्येण ॥ ५६ ॥
विश्वे॑दे॒वा अ॒शुषु न्यु॒प्तो॒ विष्णु॑राप्रोत॒वा ओप्याय्यमा॑नो य॒मः सूयमा॑नो॒ विष्णुः सम्भ्र्यमा॑णो वा॒युः पू॒यमा॑तः शुक्रः पूतः शुक्रः शी॑र॒श्रीर्म॒न्थी सक्तुश्रीः ॥ ५७ ॥
स्वामी दयानन्द द्वारा निरूपित अर्थ में विसंगति है । प्रापणार्थक ' वह ' धातु तथा वितर्कार्थक ' ऊह ' धातु — इन दोनों से ही ' प्रमाण ' शब्द का प्रयोग सम्भव होने पर ' ऊह ' धातु अथवा ' वह ' धातु की वितर्कार्थता के ग्रहण में कोई निश्चिततकं नहीं है । ' आगत इत्र ' इस प्रकार अध्याहार करना भी निर्मूल है । ' आगतः पुरुष इव ' इस प्रकार का अर्थ ग्रहण करने में क्या प्रमाण है? यह भी नहीं बताया गया है । इस मन्त्र में भाष्य का विस्तार करते हुए स्वामी दयानन्द ने कहा है कि महीधराचार्य ने भ्रान्ति से ' प्रमाण ' शब्द को पूर्ववर्ती मन्त्र में पढ़ा है । परन्तु यह कथन अज्ञानमूलक ही है, क्योंकि आचार्य महोधर ने अपने भाष्य में ' प्रोह्यमाण ' पद को पचपनवें मन्त्र के अंश के रूप में नहीं पढ़ा है, अपितु उन्होंने शतपथश्रुति की व्याख्या की है । इस श्रुति को न देखकर स्वामी दयानन्द ने अकारण सन्देह किया है । ' पर्युह्यमाण ' इस पद के अभाव में तो ' विष्णुर्नरन्धिष ' इस मन्त्र से कब क्या करें? यह अनिश्चित ही रह जायगा । अत: ' महीधराचार्य ने उचित व्याख्या की है ॥ ५६ ॥
मन्त्रार्थ सोम के खण्डों में कण्डन करके आरोपित किया हुआ सोम हुआ सोम सब प्रकार से अपने भक्तों की रक्षा करने वाला विष्णुसंज्ञक होता है । नाम यम और पुष्यमाण अभिषुत सोम विष्णुरूप है । पवित्र द्वारा छाना हुआ
पृष्ठ 270
पाठ पढ़ें पाठ छिपाएँ
२१६ शुक्लयजुर्वेदसंहिता [ अ ० ८ अंशुषु सोमखण्डेषु न्युप्तः कण्डनं कृत्वा रोपितः सोमो विश्वेदेवनामको भवति, तदा विश्वेभ्यो देवेभ्यः स्वाहेति जुहुयात् । ' अ ७२७ शुष्टे ' ( वा ० सं ० ५/७ ) इत्यादिमन्त्रेण आप्याय्यमानो वर्ध्यमानः सोम आप्रीता आसमन्तात् प्रीतान् स्वस्मिन् प्रीतिमतो भक्तान् पाति रक्षतीत्याप्रीतपास्तादृशगुणविशिष्टो विष्णुर्भवति, तदा विष्णवे आप्रीतपाय ( आप्रीतये ) स्वाहेति जुहुयात् । अभिषूयमाणः सोमो यमो भवति, तदा यमाय स्वाहेति जुहुयात् । सम्भ्रियमाणः पुष्यमाणः सोमो विष्णुर्भवति, तदा विष्णवे स्वाहेति जुहुयात् । दशापवित्रेण पूयमानः सोमो वायुर्भवति, तदा वायवे स्वाहेति जुहुयात् । पूतः सोमः शुक्रो भवति, तदा शुक्राय स्वाहेति जुहुयात् । सक्तुभिमिश्रितः सोमो मन्थी भवति, तदा मन्थिने स्वाहेति जुहुयात् । अत्र ब्राह्मणम् -'अथ यद्यंशुषु न्युप्तः । किञ्चिदापयेत विश्वेभ्यो देवेभ्यः स्वाहेति जुहुयात् ' ( श ० १२ | ६ | १ | १ ९ ), ' अथ यद्याप्यायमान: विष्णवे आप्रीतपाय स्वाहेति जुहुयात् ' ( १२ | ६ | १ | २० ), ' अथ यद्यभिषूय-माण: यमाय स्वाहेति ' ( १२ | ६ | १ | २१ ), ' अथ यदि सम्भ्रियमाणः विष्णवे स्वाहेति जुहुयात् ' ( १२/६/१/२२ ), ' अथ यदि पूयमानः वायवे स्वाहेति जुहुयात् ' ( १२/६/११२३ ), ' अथ यदि पूतः शक्राय स्वाहेति जुहुयात् ' ( श ० १५ १६ ११२४ ), ' अथ यदि क्षीरश्री: शक्राय स्वाहेति जुहुयात् ' ( श ० १२२६ २५ ), ' अथ यदि सक्तुश्री: ' ' मन्थने स्वाहेति जुहुयात् ' ( श ० १२२६ ११२६ ) | अध्यात्मपक्षे - एष सोमः साम्बशिवः सर्वात्मा सन् सोमलतारूपेण सोमयज्ञेऽशुषु सोमखण्डेषु न्युप्तः कण्डनं कृत्वा रोपितो विश्वेदेवनामको भवति । शेषं पूर्ववत् । 1 दयानन्दस्तु -- ' हे विश्वेदेवाः, युष्माभिरंशुषु विभक्तेषु सांसारिकेषु पदार्थेषु न्युप्तो नित्यं स्थापितो व्यवहार आप्रीता विष्णुर्व्यापि विद्युद् आप्याय्यमानो वृद्ध इव यमो यच्छति सोमं सूर्यः सूयमान उत्पद्यमानो विष्णुर्व्यापकः, सम्भ्रियमाणः सम्यकुपोषितो वायुः प्राणः पूयमानः पवित्रीकृतः शुक्रो वीर्यसमूहः, पूतः शुद्धः शुक्र आशुकर्ता, मन्थी मनातीति सेवमानः सन् क्षीरश्रीर्यः क्षीरादीनि शृणाति, सक्तुश्रीर्यः सक्तूनि समवेतानि द्रव्याणि श्रयते जायते ' इति, तदपि यत्किञ्चित्, अस्पष्टत्वात् । एतदीयं हिन्दीभाष्यमप्य-व्यक्तमेव । ' है विद्वांसः युष्माभिः सांसारिकेषु विभक्तेषु पदार्थेषु नित्यं स्थापितो व्यवहारः ' इत्यस्यार्थस्या-ङ्गीकारेऽपि न सङ्गतिः, मनुष्यैः स्थापितस्य व्यवहारस्य नित्यत्वायोगात् । अंशुपदस्य विभक्ताः पदार्था इत्यर्थस्तु निर्मूल एव । तथैव न्युप्त इत्यस्य स्थापितो नित्यो व्यवहार इत्यपि कल्पनाप्रसूत एवार्थः । शुक्रः ' पराक्रमसमूहः, शुक्रः शीघ्रवेष्टावान्, तथैव क्षीरश्रीः सक्तुश्रीरित्यनयोरपि व्याख्यानमनर्गलमसङ्गतं च ॥। ५७ ॥ भाष्यसार - ' विश्वेदेवाः ' इत्यादि कण्डिका भी याज्ञिक प्रक्रिया में पूर्व मन्त्रों की भाँति नैमित्तिक कर्म में विनियुक्त है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट हैं । अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है - ये साम्बशिव सर्वात्मा होते हुए सोमलता के रूप से सोमयाग में सोम-खण्डों में कुट्टन के अनन्तर स्थापित होकर विश्वेदेव नाम के होते हैं । शेष अर्थ पूर्वोक्त याज्ञिक पक्ष की भाँति ही है । स्वामी दयानन्द द्वारा प्रदर्शित संस्कृत अर्थ अस्पष्ट होने के कारण ग्राह्य नहीं है । हिन्दी भाष्य भी स्पष्ट नहीं है । मनुष्यों के द्वारा स्थापित व्यवहार में नित्यत्व अयुक्त होने के कारण अर्थसंगति नहीं है । अंशु शब्द का अर्थ ' विभक्त ' पदार्थ ' करना तो अप्रामाणिक हो है । इसी प्रकार ' न्युप्त ' पद का ' स्थापित नित्य व्यवहार ' यह अर्थ भी कल्पनाप्रसूत है । शक का अर्थ पराक्रमसमूह, शुक्र का अर्थ शीघ्र चेष्टावान् तथा इसी प्रकार क्षीरश्रीः, सक्तश्रीः - इन पदों की व्याख्या भी अनर्गल तथा संगतिविहीन है ॥ ५७ ॥