वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 311–320
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
म ० २०-२१ ] वेदार्थपारिजातभाष्यसहिता २५७ वाकू प्राप्नुयात्, तथा प्रयतध्वम् ' इति, तदपि न किञ्चित् कल्पनामात्रसारत्वेनाप्रामाणिकत्वात् । तथाहि--आपिरिति धात्वर्थानुसारेण व्याप्तिसामान्योऽर्थो विद्याव्याप्तिर्धनप्राप्तिर्वा व्यापकः प्रजापतिर्वा सम्भवति । तत्र विनिगमनाविरहेण विद्याव्याप्त्यर्थः सम्भवति । सूत्रानुसारेण होमे विनियुक्तानि प्राजापत्यानि यजूंषीति प्रजापतिपरकमेव व्याख्यानं युक्तम् । स्वाहाशब्दस्यापि विविधार्थाः काल्पनिका एव, प्रमाणशून्यत्वात् । सुपसर्गस्य शोभनार्थतैव प्रसिद्धा, सुखार्थता तु प्रमाणापेक्षैव । अहर्पतय इत्यस्य पुरुषार्थो गणितविद्या वा नार्थः, तस्य अन्यत्रैव शक्तिग्रहात् ॥ २० ॥
I आय॑य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पत॒ चक्षु॑र्य॒ज्ञेन॑ कल्पतार्थे श्रोत्रे॑ य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पता॑ य॒ज्ञो य॒ज्ञेन॑ कल्पताम् । प्र॒जाव॑तेः प्र॒जा अ॑भूम॒ स्व॒र्देवा अगन्मामृत अभूम ॥ २१ ॥
' षड् वोत्तराः ' ( का ० श्रौ ० १४।४।२० ) उत्तराः षड् आयुर्यज्ञेनेत्याद्यांश्च शब्दान् जुहोति वाचयति वा । प्राजापत्यानि षड् यजूंषि । आयुर्जीवनं मदीयमनेन यज्ञेन वाजपेयाख्येन कल्पतां क्लृप्तं समर्थं भवतु । प्राणो मुखनासिकाप्रभवो वायुः पञ्चवृत्तिको यज्ञेन कल्पताम् । चक्षुः, Posta चक्षुः, रूपदर्शनसाधनमिन्द्रियं यज्ञेन कल्पताम् । श्रोत्रं शृगोत्यनेनेति श्रोत्रं शब्दज्ञानसाधनमिन्द्रियं यज्ञेन कल्पताम् । पृष्ठं रथन्तरादिकं शरीरस्य पृष्ठं वा यज्ञेन कल्पताम् । यद्वा आयुः प्राणादेराधारभूतो मध्यदेहपृष्ठं यज्ञेन मदीयेन वाजपेयेन यज्ञो यज्ञाधिष्ठाता विष्णुः कल्पताम् । ' प्रजापतेरित्या रोहतः ' ( का ० श्री ० १४।४।२४ ) । प्रजापतेरिति मन्त्रेण पत्नोयजमानौ निःश्रेण्या यूपमा रोहतः । यजमानदेवत्यानि त्रीणि यजूंषि । अस्य यज्ञस्यानुष्ठानाद् वयं प्रजापतेः सम्बन्धिन्यः प्रजा अपत्यानि अभूम जातानि । ' स्वरिति गौधूममालभते ' ( का ० श्र ० १४ । ४ । २५ ) | आरुह्य यजमानो गौधूमं चषालमालभेत । गौधूमश्चषाल:, ' उत्कीर्णसमाग्रो गौधूमचषाल: ' ( का ० श्र ० १४।१।२२ ) | स्वरिति गोधूम-निर्मितं चषालं यजमानः स्पृशेत् । हे देवाः, वयं स्वः स्वर्गम्, अगन्म प्राप्ताः । शिरसा दूपमुज्जिहीतेऽमृता इति ' ( का ० श्री ० १४ । ४ । २६ ) । यूपादूध्वं शिरः करोति वयममृता अमरणधर्माणः, अभूम सम्भूताः । प्रजापतिदेवता वाले मन्त्र होने के कारण इसका प्रजापतिारक अर्थ ही उचित है । स्वाहा शब्द के भी विभिन्न अर्थ प्रमाणरहित होने के कारण काल्पनिक ही हैं । ' सु ' उपसर्ग शोभनार्थक हो प्रसिद्ध है, इसको सुखार्थकता मानना प्रमाण-सापेक्ष है । ' अहर्पतय: ' इस शब्द का पुरुषार्थ अथवा गणितविद्या यह अर्थ नहीं हो सकता, क्योंकि इस पद से दूसरे ही अर्थ में शक्तिग्रह होता है ॥ २० ॥
मन्त्रार्थ - इस वाजपेय याग से हमारी आयु में वृद्धि हो, इस यज्ञ के फल से पाँचों प्राण बलवान् हों, चक्षु इग्रिम और ओत्र इन्द्रिय बल को प्राप्त करें, हमारा पृष्ठ बल वृद्धिगत हो । इस वाजपेय यज्ञ के फल से यज्ञ के अधिष्ठाता विष्णु हमारे ऊपर प्रसन्न हों और हमारी यज्ञ करने की क्षमता बढ़े । इस यज्ञ को करके प्रजापति की सन्तति बनने की क्षमता मैंने प्राप्त कर ली है । हे ऋत्विक् गण! हमें स्वर्ग प्राप्त हो गया है, हम दीर्घायु, अमर और चिरकीर्ति वाले हो गये हैं ॥ २१ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( १४/४/२०, २४-२६ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ३३
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
२५८ शुक्लयजुर्वेद संहिता [ अ ० ९ अत्र ब्राह्मणम् -- ‘ अथ षटक्लृप्तीर्जुहोति वा वाचयति वा ' ( श ० ५ | २ | | ३ ) | क्लृपिधातुर्निष्पन्नशब्द-युक्तमन्त्रकरणिका आहुतीः क्लृप्तीर्जुहुयात् । ' स वाचयति । आयुर्यज्ञेन कललतां " कल्पतामित्येताः पट्क्लृप्ती- तामिवैत-र्वाचयति षड् वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यैवास्य क्लृप्तिर्या अत्र सम्पत् वाचनविवक्षया दुज्जयति तामात्मन् कुरुते ' ( श ० ५ | २ | १ | ४ ) । वाचनमन्त्रान् विधत्ते - स वाचयतीत्यादिना । तामिमां मन्त्रान्ते स्वाहाशब्दो न प्रयुक्तः । वचनबलाद्भवनं वा कार्यम् । तदा स्वाहाशब्दः प्रयोक्तव्यः गायत्रमग्नेश्छन्दो । षट्संख्यां प्रशंसति षड् वा ऋतव इति । ' अष्टाश्रिपो भवति । अष्टाक्षरा वै गायत्री देवलोकमेवैतेनोज्जयति सप्तदशभिर्वासोभिर्यूपी वेष्टितो वा विग्रथितो वा भवति सप्तदशो वै प्रजापतिस्तत्प्रजापति- स्वर्गत्वेन मुज्जयति ' ( श ० ५ | २ | ११५ ) | क्लृप्तिवाचनमन्त्रतदर्थाभिज्ञस्य यजमानस्य यूपारोहणं विवक्षुरादौ प्रशंसति-निरूपयिष्यमाणस्य यूपस्य प्राकृतं गुणमनुवदति -अष्टाश्रिर्यूपो भवतीति । अश्रिगतामष्टसंख्यां अष्टाक्षरा वै गायत्रीति । यतोऽग्नेश्छन्दो गायत्रम्, ततस्तद्रूपत्वाद् देवलोक जय हेतु रष्टाश्रिर्यूप इत्यर्थः । यूपस्य वेष्टनं विधत्ते - सप्तदशभिर्वासोभिरिति । वेष्टितो यूपो यथा न दृश्यते, तथाच्छादनं सप्तदशो कार्यम् वै । प्रजापतिरिति विग्रथितो वेति । यूपस्यैकत्र प्रदेशे वाससां ग्रथनं वा कार्यम् । वासोगतां संख्यां प्रजापत्यात्मना स्तौति ' गोधूमं चषालं भवति । पुरुषो वै प्रजापतेर्नेदिष्ठ सोऽयमत्वगेते वै पुरुषस्यौषधीनां नेदिष्ठतमां यद्गोधूमास्तेषां न त्वगस्ति मनुष्यलोकमेवैतेनोज्जयति ' ( श ० ५।२।५।६ ) । चपालनामकस्य यूपशकलस्य दारुमयत्वापवादाय विधत्ते - गौधूमं चषालं भवतीति । गोधूमपिष्टमयं चषालं कुर्यात् । अस्यायमभिप्रायः-- बाह्य-पुरुषो नु प्रजापतेर्नेदिष्ठम् अन्तिकतमं वस्तु, पुरुषसृष्टेः प्रथमभावित्वात् । सोऽयमत्वग् अश्वत्थवृक्ष इव त्वग्रहितः । ओषधीनां मध्ये एते गोधूमा अपि पुरुषस्य सन्निहिततमं वस्तु, बलकारित्वात् । तेषां तु त्वगभावः । प्रसिद्धः । अतो गोधूमचषालकरणेन मनुष्यलोकमेव जितवान् भवतीति । ' गर्तन्वान् यूपोऽतीक्ष्णाग्रो भवति ' पितृदेवत्यो वै गर्तः पितृलोक मे वै तेनोज्जयति सप्तदशारत्निर्भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति गर्तन्वान्, ‘ अनो ( श ० ५ | २ | ११७ ) । तत्र यूपे गुणविशेषं विधत्ते - गर्तन्वानिति । गर्तवान् यूपस्याग्रे निम्नप्रदेशो भवति । अतीक्ष्णाग्रः नुट् ' ( पा ० सू ० ८।२।१६ ) इत्यन्नात्परस्य मतुपो नुडागमो भवति । व्यत्ययेनाकारान्तादपि इति, ' पितॄणां सदनमसि ' अतनुकृताग्रः स्थूलाग्रप्रदेशो भवेत् । गतं पितृलोकात्मना प्रशंसति - पितृदेवत्य यूपावटस्य पितृदेवतास्थानत्वं प्रतीयते । ' पितॄणां निखातं ( तै ० सं ० ६ | ३ | ४ | २ ) इति मन्त्रवर्णाद् मनुष्याणामूध्वं निखातात् ' ( तै ० सं ० ६ | ३ | ४ | ६ ) इति गर्तावच्छिन्नस्य यूपभागस्य पितृदेवत्यत्वम् । तादृशी प्रसिद्धिशब्देन द्योत्यते । आरोहणीययूपस्य चोदकप्राप्तं प्रमाणमपवदितुं परिमाणान्तरं विधत्ते ---सप्तदशेति । चतुर्विंशत्यङ्गुलोऽरत्निः । सप्तदशारत्नयः प्रमाणं यस्य यूपस्य स तथोक्तो यूपो भवति । सप्तदशो वै प्रजापतिः । तेन प्रजापतिमेवोज्जयति । ' अथ नेष्टा पत्नीमुदानेष्यन् । कौशं वासः परिधापयति कौशं वा चण्डातकमन्तरं दीक्षितवसनाज्जघनार्धो नाभेर्मेध्या वा एष यज्ञस्य यत् पत्नी तामेतत् प्राचीं यज्ञं प्रसादयिष्यन् भवत्यस्ति वै पत्न्या अमेध्यं यदवाचीनं वै दर्भास्तद्यदेवास्या अमेध्यं तदेवास्या एतद्दर्भेर्मेध्यं कृत्वाऽथैनां प्राचीं यज्ञं प्रसादयति तस्मान्नेष्टा पत्नीमुदनेप्यन् कौशं वासः परिधापयति कौशं वा चण्डातकमन्तरं दीक्षितवसनात् ' ( श ० ५ | २ | १ | ८ ) । नेष्टा पत्नी यजमान-पत्नीम् उदानेष्यन् यज्ञशालातो निर्गमयिष्यन् कौशं दर्भमयं वासः पत्नी परिधापयेत्, ' क्षत्रस्य योनिरसीति ) इति दर्भमयं पत्नीम् ' ( आश्व ० श्री ० १८/५/७ ) इति सूत्रात्, ' दर्भमयं परिधापयति ' ( तै ० ब्रा ० १1८/५/७ ' आयुर्यज्ञेन ' इस कण्डिका के मन्त्रों से हवन अथवा वाचन, पत्नी तथा यजमान द्वारा यूप पर आरोहण, चषाल का स्पर्शं
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
म ० २१ ] वेदार्थ पारिजातभाष्य सहिता २५ ९ श्रुते । यद्वा कृमिकोशविकारभूतं वासः कौशम्, तेन परित आच्छादयेत् । यद्वा कौशं कुशमयं चण्डातकमर्धोरुकं परिधापयेत् । ' अर्धोरुकं विलासिन्या वासश्चण्डातकं स्मृतम् ' ( अ ० को ० २२६ ११ ९ ) । नृत्तोपयिकत्वेनाच्छादनीय-मुरुकञ्चुकमर्धोरुकं वासः । वसनस्य प्रदेशं विधत्ते -- अन्तरमिति । दीक्षाकाले यद् वस्त्रं परिहितं तस्माद् बहिः-प्रदेश इत्यर्थः । अन्तरशब्दो बहिर्योगे वर्तते । दर्भेरेव वासः क र्तव्यमित्यत्रोपपत्ति दर्शयति- जघनार्धं इत्यादिना । पूर्वदेशस्याहवनीयसाध्यत्वाद् यज्ञः प्राच्यां दिश्यवस्थितः, तस्य यज्ञस्य पश्चिमभागे पत्नीशालायामवस्थानात् पत्नी यज्ञस्य जघनार्ध इति निरूप्यते । तां पत्नीम् एतहि प्राचीं प्राङ्मुखां पूर्वदिगवस्थितं यज्ञं प्रापयिष्यन् भवति । तदुपायत्वेन दर्भमयवासः परिधापनस्य मेध्यत्वाद् मेध्यत्वापादकत्वम् । पत्नीसम्बन्धिनाभेर्यदवा-चीनमङ्गं तद् अमेध्यमपवित्रम्, तत्प्रदेशे मेध्यदर्भमयवासः परिधापनेन तदङ्ग परिशुद्धं कृत्वा एतां प्राचीं यज्ञं प्रापितवान् भवति । दर्भाणां मेध्यत्वं ' पवित्रं वै दर्भाः पुनात्येवैनम् ' ( तै ० ब्रा ० १।३।७ १ ) इति श्रुतिराह । तस्मान्नेष्टा पत्नीमुदनेप्यन् कौशं वासः परिधापयति । ' अथ निःश्रयणीं निःश्रवति । स दक्षिणत उदोहेदुत्तरतो वा दक्षिणा दक्षिणतस्त्वेवोदङ्रोहेत्तथा ह्युदग् भवति ' ( ० ५१२ ११ ९ ) । निःश्रवगी यूपारोहणार्थं सोपानसदृशः काष्ठनिर्मित पदार्थः तं निःश्रयति निदध्यात् । तथा साधनेन यजमानो यूपमारोहेत् । यूपारोहणे कचिद्विशेषं विधत्ते - स दक्षिणत इति । दक्षिण-प्रदेशादुदङ्मुखो ग्रुपमारोहेत्, उदक्प्रदेशाद् दक्षिणमुखो वा आरोहेदिति विकल्पः । तत्रैकं पक्षं सिद्धान्तयति -दक्षिणत इति । तुशब्दः पक्षान्तरव्यावृत्त्यर्थः । तथाहि एवं कृते सति, उदग्भवति कर्मण उदगपवर्गता सिद्ध्यति । तस्मादयमेव पक्षः श्रेयान् । ' स रोक्ष्यायामामन्त्रयते । अर्धो ह वा एष आत्मनो यज्जाया तस्माद्यावज्जायां न विन्दते नैव तावत्प्रजायतेऽसर्वो हि तावद् भवत्यथ यदैव जायां विन्दतेऽथ प्रजायते हि हि सर्वो भवति सर्वं एतां गतिं गच्छानीति तस्माज्जायामामन्त्रयते ' ( श ० ५२२११११० ) । रोहणकाले जायामन्त्रणं विधत्ते - सरोक्ष्यञ्जायामिति । रोक्ष्यन् रोहणं करिष्यन् हे जाये, एहि आगच्छ स्वः स्वगं रोहाव आरोहणं करवाव । जायाया प्रत्युक्ति दर्शयति - रोहावेत्याहेति । अथान्वयव्यतिरेकाभ्यां जायासहितस्य पूर्णावयवत्वं प्रतिपादयन्नाह असर्व इति । असम्पूर्ण इत्यर्थः । ह यस्माद्यजमानस्य अर्ध एष यज्जाया, आत्मनस्तदभावे प्रजोत्पत्त्यभावात् । यदा जायासाहित्यं तदा प्रजोत्पादनक्षमत्वम् । तथा च सर्वः सम्पूर्णावयवः । एतां पारोहणलक्षणां गतिं गच्छानि प्राप्नवानीत्यभिप्रायेण जायामन्त्रणं कार्यम् । ' स रोहति । प्रजापतेः प्रजा अभूमेति प्रजापतेर्ह्यप प्रजा भवति यो वाजपेयेन यजते ' ( श ० ५ | २ | १ | ११ ) । यूपा रोहणमनूद्य मन्त्रं विधत्ते - प्रजापतेः प्रजा अभूमेति । प्रजा अपत्यभूता अभूमेति । ' अथ गोधूमानुपस्पृशति । स्वर्देवा अगन्मेति स्वर्ह्येष गच्छति यो वाजपेयेन यजते ' ( श ० ५ | २ | १ | १२ ) । गोधूममयचषालस्पर्शनं समन्त्रकं विधत्ते -- गोधूमानिति । वयं देवाः सन्तः स्वः स्वर्गमगन्म गतवन्तः । ' तद्यद् गोधूमानुपस्पृशति । अन्नं वै गोधूमा अन्नं वा एष उज्जयति यो वाजपेयेन यजते अन्नपेय ह वै नामैतद् यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवै तदेतां गतिं गत्वा सस्पृशते तदात्मन् कुरुते तस्माद् गोधूमानुपस्पृशति ' ( श ० ५ | २ | १ | १३ ) | गोधूमस्पर्शनेन वाजपेय-जिन्मन्त्रं स्वाधीनं कृतवान् भवतीति । ' अथ शीर्ष्णा यूपमत्युज्जिहीते । अमृता अभूमेति देवलोकमेवैतेनोज्जयति ' ( श ० ५२ १ १ १४ ) । शीर्ष्या शिरसा यूपमत्युज्जिहीते यूपं शिरसा स्पृशन् तमतिक्रम्य स्वशिर उन्नमयेत् । अमृता अमरणधर्माण: । अभूम सम्भूताः । एतेन यूपाग्रात् शिरउन्नमनाद् यूपस्यातिक्रान्तत्वाद् देवलोकजयः । तथा से ऊपर शिर का उन्नयन इत्यादि कार्य सम्पादित किये जाते हैं । शतपथ ब्राह्मण तथा तैत्तिरीय संहिता में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । आश्वलायन श्रौतसूत्र में भी मन्त्रसम्बन्धी याज्ञिक प्रक्रिया निरूपित है ।
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
२६० शुक्लयजुर्वेदसंहिता [ अ ० ९ अध्यात्मपक्षे - यज्ञेन विष्णुनाऽऽयुरादीनां समर्थत्वं स्वकार्यकरणक्षमत्वमिति । यथाग्निनैवायः पिण्डस्य दाहकत्वादिकम् तथैव सर्वसत्तास्फूर्तिप्रदेनाधिष्ठानभूतेन व्यापनशीलेन परमात्मनैवायुः प्राणचक्षुरादीनां स्वकार्यकरणक्षमत्वं सार्थकत्वं वा । यज्ञोऽपि तत्रैव समर्पितस्तेनैव साफल्यमुपगच्छति, तत्फलस्य तदायत्तत्वात् । वयं सर्वेऽपि जीवाः प्रजापतेः परमेश्वरस्य प्रजा अपत्यानि अभूम, ' अमृतस्य पुत्राः ' ऋ ० सं ०१०।१३।१ ) इति मन्त्रवर्णात् । हे देवा इन्द्रियायधिष्ठातारः युष्माकमनुमत्यानुग्रहेण वा वयं स्वो दुःखासम्भिन्नं सुखं ब्रह्मात्मकमगन्म प्राप्ताः । अमृता जरामरणादिदुःखमुक्ता ब्रह्मभावापन्ना जाता इत्यर्थः । दयानन्दस्तु - ' हे मनुष्याः युष्माकमायुः सततं यज्ञेन धर्म्येणैश्वराज्ञापालनेन कल्पतां समर्थ-ताम् । प्राणो जीवनहेतुर्बलारी यज्ञेन धर्म्येण विद्याभ्यासेन कल्पताम् । चक्षुः चप्रेऽनेन तत्, यज्ञेन शिष्ाचरितेन प्रत्यक्षविषयेण कल्पताम् । श्रोत्रं शृणोत्यनेन तत्, यज्ञेन शब्दप्रमाणाभ्यासेन कल्पताम् । पृष्ठं प्रच्छनं यज्ञेन संवादाख्येन कल्पताम् । यज्ञो यजधातोरर्थः, यज्ञेन ब्रह्मचर्यायाचरणेन कल्पताम् । यथा वयं प्रजापतेविश्वम्भ-रस्य जगदीश्वरस्येव धार्मिक स्य राज्ञः प्रजास्तदधीनपालना अभूम भवेम । देवाः सन्तो अमृता प्राप्तमोक्षसुखा भवेम स्वरगन्म सुखं प्राप्नुयाम तथा यूयं निश्चिनुत ' इति, तदपि यत्किञ्चित् यज्ञेन धर्म्येणेश्व राज्ञापालनेनेत्यस्य निर्मूलत्वात् । न च ' यज्ञो वै श्रेष्ठतमं कर्म ' ( तै ० सं ० २१ २ १४ ) इति वचनं प्रमाणम्, तदर्थानववोधात् । तत्र तु प्रसिद्धस्यैव यज्ञस्य श्रेष्ठतमकर्मत्वाभिधानम् । किश्वराज्ञापालनस्य धर्म्येणेति व्यर्थविशेषणता, व्यावर्त्या -भावात् । तस्य धर्मरूपत्वादपि धर्म्यत्वानुपपत्तिः । धर्म्येण विद्याभ्यासेनेत्यपि न युक्तम्, निर्मूलत्वादेव । न च तत्र ' सैषा त्रयी विद्या यज्ञ: ' ( श ० ११११ | ३ ) इति वचनं मूलम्, त्रयीविद्याया यज्ञसाधनत्वेन यज्ञत्वोपचारात् । नच विद्याभ्यास एव त्रयी, तस्या अभ्यासविषयत्वेनाभ्यासरूपत्वाभावात् । यज्ञेन शब्दप्रमाणाभ्यासेनेत्यपि निस्तत्त्वम् । न च ' वाग्वै यज्ञ: ' ( ऐ ० ब्रा ० ५।२४ ) इत्यादि गुलम्, यज्ञस्य वैदिकवाक् साध्यत्वेनोपचारिव्यावृत्त्या वाक्परत्वेन तदभ्यासस्य तद्भिन्नत्वेनानुपपत्तेः । ' ब्रह्म वै यज्ञः ' ( ऐ ० ब्रा ० १२२ ) इति च न ब्रह्मचर्याद्या-चरणस्य यज्ञत्वे मूलम्, तस्य ब्रह्मभिन्नत्वात् । तथैव यज्ञशब्दसंवादार्थतापि प्रत्याख्याता वेदितव्या । भावार्थस्तु सर्वत्रैव निरर्थको मन्त्रासम्बद्ध एवेति न तन्निराकरणायादरः ॥ २१ ॥
अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - यज्ञरूपी विष्णु के द्वारा आयुष्य आदि की समर्थता तथा कार्यक्षमता प्रतिपादित है । जिस प्रकार अग्नि के द्वारा ही लौहपिण्ड में दाहकत्वादि आता है, उसी प्रकार समस्त सत्त्वों को स्फूर्ति देने वाले, अधिष्ठानभूत, व्यापक परमात्मा के द्वारा ही आयु, प्राण, नेत्र आदि की अपने - अपने कार्यों की क्षमता अथवा सार्थकता है । यज्ञ भी उसमें हो समर्पित होने पर उसके द्वारा ही सफलता को प्राप्त करता है, क्योंकि यज्ञ का फल उस परमात्मा के ही अधीन है । हम सभी जीव प्रजापति परमेश्वर की सन्ततियाँ हैं । हे इन्द्रियों के अधिष्ठाता देवगण! आपकी अनुमति अथवा अनुग्रह से हम लोग दुःख से अश्लिष्ट ब्रह्मात्मक सुख को प्राप्त करते हैं, अर्थात् जरामरण आदि दुःखों से रहित हो ब्रह्मभाव से सम्पन्न एवं अमृतत्व से युक्त हो गये हैं । स्वामी दयानन्द द्वारा निरूपित अर्थ विसंगत है । ' यज्ञ ' पद का ' धर्मयुक्त ईश्वराज्ञापालन ' अर्थ करना प्रमाणरहित है । ईश्वराज्ञापालन के साथ ' धर्म्य ' विशेषण लगाना भी व्यर्थ है, क्योंकि ईश्वर के धर्मरूप होने के कारण पुनः धयत्व की संगति नहीं होती । ' धयं विद्याभ्यास के द्वारा ' यह कहना भी प्रमाणरहित होने के कारण उचित नहीं है । यहाँ पर ' सैषा त्रयी विद्या यज्ञः ' यह श्रुतिवाक्य प्रमाण के रूप में उपस्थापित नहीं किया जा सकता, क्योंकि इस वचन में त्रयी विद्या में यज्ञसाधनत्व होने कारण यज्ञत्व का लाक्षणिक कथन है । फिर विद्याभ्यास ही त्रयी नहीं हो सकता | त्रयी तो अभ्यास का विषय है, अतः उसका अभ्यासरूप होना असंगत है । इसी प्रकार यज्ञ शब्द के निरूपित अर्थ की स्थिति ही निरस्त माननी चाहिये । भावार्थं तो सभी स्थलों पर अर्थविहीन तथा मन्त्र से असम्बद्ध है, अतः उसके खण्डन में हमारी विशेष रुचि नहीं है ॥ २१ ॥
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
म ० २२ । वेदार्थपारिजातभाष्यसहिता २६१ अ॒स्मे अस्त्वन्द्रि॒यम॒स्मे न॒म्णम॒त क्रतु॑र॒स्मे वर्चासि सन्तु वः । नमो मात्र पृ॑थि॒व्यै नम मात्रे पृथिव्या इयं ते राड्य॒त्तासि॒ यम॑नो ध्रुवोऽसि धरुणः । कुष्यै त्वा क्षेमोय त्या र॒य्यै त्वा पोषयत्वा ॥ २२ ॥
' अस्मे व इति दिशो वीक्षते ' ( का ० श्र ० १४ । ४ । २७ ) । युवारूढो यजमानो दिशः पश्येत् | दिग्देवत्यं यजुः । हे दिशः 1 अस्मे अस्मासु वो ' युष्मत्सम्बन्धि इन्द्रियं सामर्थ्यमस्तु भवतु । नृम्णं धनं युष्मत्सम्बन्धि अस्मे अस्मासु भवतु । उत अपि च क्रतुः कर्म युष्मताम्बन्धि अस्मास्वस्तु । वो युष्माकं वचसि तेजांसि अस्मे अस्मासु सन्तु, युष्मत्सामर्थ्यमस्मत्सम्बन्ध्यस्त्वित्यर्थः । ' नमो मात्र इति भूमिमवेक्षते ' ( का ० श्र ० १४।४।३० ) । यूपारूढ एव यजमानो भूमि पश्यति नमो मात्र इति मन्त्रेण । पृथिवीदेवत्यं यजुः । नमो मात्रे पृथिव्यै इति द्विरुक्तिरभ्यासेनार्थस्य भूयस्त्वाय । मात्रे सर्वस्य निर्मातृत्वाद मातृरूपाये पृथिव्यै नमः पुनः पुनर्भूयान् प्रह्वी-भावोऽस्तु । ' उत्तरवेदिमपरेणौदुम्बरीमासन्दीं वस्तचर्मणा स्तृणातीयं त इति ' ( का ० श्र ० १४ । ४ । ३१ ) । अध्वर्युमासन्दी निधाय तत्र प्राग्ग्रीवमुत्तरलोम अजचर्मास्तृणीयात् | आसन्दीदेवत्यं यजुः । हे आसन्दि ते तव, इयं राड् इदं राज्यम् राजनं राट् लिङ्गव्यत्ययः, सम्पदादित्वाद् भावे स्त्रियां क्वि । अभिपिक्तासि त्वमित्यर्थः । ‘ सुन्वन्तमस्यामुपवेशयति यन्तासीति ' ( का ० श्र ० १४।४।३२ ) । बाहुगृहीतं यजमानमासन्द्यामुप-वेशयति यन्तासीति मन्त्रेणाध्वर्यः । यजमानदेवत्यं यजुः । हे यजमान, त्वं यन्ता सर्वस्य नियन्तासि । यमनः स्वयं संयमनकर्तासि । अनवच्छिन्नं तव नियमनमिति । तथा ध्रवः स्थिरोऽचलोऽसि । धरुणो धारकोऽसि । कृष्यै कर्षणाय कृषिसिद्ध्यर्थं वा त्वा त्वामुपवेशयामीति शेषः । क्षेमाय प्राप्तस्य रक्षणाय त्वामुपवेशयामि । रय्यै त्वां पोषाय पशुपुत्रादिष्टये त्वामुपवेशयामीति । अत्र ब्राह्मणम् -'अथ दिशोऽनुवीक्षमाणो जपति । अस्मे वो अस्त्विन्द्रियं सन्तु व इति सर्वं वा एप इदमुज्जयति यो वाजपेयेन यजते प्रजापति ज्जयति सर्वमु ह्येवेदं प्रजापतिः सोऽस्य सर्वस्य यश इन्द्रियं वीर्यं संवृज्य तदात्मन् धत्ते तदात्मन् कुरुते ( ० ५ | २ | १ | १५ ) । यूपे तिष्ठन्नेव यजमानो दिशोऽनुक्रमेण पश्येद् अस्मे इति मन्त्रं जपन् । इन्द्रियादीनामाशासनं युक्तमित्याह --सर्वं वा । प्रजापतेः सर्वात्मकत्वाद् वाजपेयेन च प्रजापतिप्राप्तित्वाद् अस्य सर्वस्य जगतो यशआदिकं संवृज्य विभज्य तत्स्वात्मनि धारयति स्वात्मनि कुरुते आत्मसात्कृतवान् भवति । शेषोऽर्थ उक्त एव । ' अथैनमूषपुटैरनुदस्यन्ति । पशवो वा ऊषा अन्नं वै पशवोऽन्नं वा एष 1 उज्जयति ( श ० ५।२।१।१६ ) । ऊषाः क्षेत्रपांसवः, तानश्वत्थपत्रः पुटीकृत्य तैः पुटैर्यूपेऽवस्थितं यजमानमभिलक्ष्य, उदस्यन्ति अध्वनि प्रतिदिशः प्रक्षिपेयुः । ऊषाणां यज्ञद्वारा पशुसाधनत्वात्ताच्छन्द्यम् । पशूनां चान्नत्वं क्षीरादिसाधनत्वेन प्रसिद्धम् । अतः पशुद्वारा ऊषाणामन्नत्वाद् ऊषपुटननेन यजमानेऽन्नमेव निहितवान् मन्त्रार्थ - - है विक्चतुष्टय! तुम्हारा वीर्य हमें प्राप्त हो, तुम्हारा धन और तुम्हारे लिये किया गया यज्ञानुष्ठान का फल तुम्हारे तेज के साथ हमें प्राप्त हो, अर्थात् हम इस जगत् में अग्रगण्य हों । मातारूप पृथ्वी को हमारा बार - बार नमस्कार है । है आसन्दी! यह तुम्हारा राज्य है । हे यजमान! तुम सबके नियामक हो । कृषि कार्य की उन्नति के लिये, राज्य में स्थिरता और शान्ति के लिये, धन - सम्पत्ति की वृद्धि के लिये और प्रजा का पालन करने के लिये तुम्हारे उपवेशनार्थं यह आसन्दी है ॥ २२ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( १४/४/२७ ३२ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' अस्मे
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
२६२ शुक्लयजुर्वेदसंहिता [ अ ० ९ भवति । ' अश्वत्थेषु पलाशेषूपनद्वा भवन्ति । स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मस्त उपामन्त्रयत तस्मादाश्वत्थेषु वै पलाशेषूपा भवन्ति विशोऽनुदस्यन्ति विशो वै मरुतोऽन्नं तस्माद्विशोऽनूदस्यन्ति सप्तदश भवन्ति सप्तदशो प्रजापतिः..... ( ० ५ | २ | १ | १७ ) | अश्वत्यपला शेपूपनद्वान् कुर्यात् । आश्वत्थैरेव करणे हेतुमाह - स यदेवाद इति । अदोऽमुष्मिन् विप्रकृष्टे काले अश्वत्थेऽवस्थितान् मरुत इन्द्र आह्वयत । एवमयमश्वत्थो देवविशां मरुता-माश्रयभूतः, अतस्तदीयेषु पत्रेषु अन्नसंस्तुतानामूषाणामुपनिबन्धनं प्रशस्तमित्यर्थः । ऊषपुटेषु क्षेपणकर्तृन् विधत्ते - विशोऽनूदस्यन्तीति । विशो वैश्या अर्पयेयुः । मरुतां वित्वमिन्द्र प्रजात्वात् । अतो मनुष्यविशामपि तत्साजात्येन तदात्मकत्वम्, तेषां वैश्यानां कृपीवलत्वात् । ऊपपुटानां संख्यां विधत्ते - सप्तदशेति । ' अथेमामुपावेक्षमाणो जपति । नमो मात्रै पृथिव्यै नमो मात्रै पृथिव्या इति बृहस्पतेर्ह वा अभिषिषि-चानात् पृथिवी बिभयाञ्चकार महद्वा अयमभूद्योऽभ्यसेचि यद्वै माऽयं नावदृणीयादिति बृहस्पतिर्ह पृथिव्यै बिभयाञ्चकार यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेय मकुरुत नहि माता पुत्र हिनस्ति न पुत्रो मातरम् ' ( श ० ५ | २ | १ | १८ ) । यजमानस्य भूम्यवेक्षणं समन्त्रकं विधत्ते - अथेमामिति । सर्वस्य निर्मातृत्वान्मातृरूपायै प्रशंसति- पृथिव्यै नमः । मन्त्रगतस्य मातृशब्दस्य जननीवाचकत्वं विवक्षितमिति वदन् भूम्यवेक्षणं बृहस्पतिदृष्टान्तमुखेन बृहस्पतेरिति । पूर्वं वाजपेययज्ञे बृहस्पतेरभिषिक्ताद् भुमिर्विभेति स्म । भयकारणमाह महद्वा न अवहणीयाद् इति । यद् अयमभिषिक्तः पुरुषो महदभूत् । यद् यस्माद् अभिषेकेण महत्त्वगुणवान् अयं बृहस्पतिम भूमि स्म यद् इयं नावदारयेत्, अतो हेतोः, गित्रधेयं कुरुत इति सम्बन्धः । तथा वृहस्पतिरपि भूम्याः सकाशाद्विभेति मित्रधेयं भूमिर्मामभिषिक्तं नावधून्वीत न विचालयेत् । तत् तस्मादनया पृथिव्या सह एव एतद् निरीक्षणरूपं मित्रधेय-मैत्रीकुरुत, भूमिरपि तेन सख्यमकरोदित्यर्थः । यदुपक्रमेतावदुभयोर्भीतिरुक्ता, अवदारणपरिहाराय ' बृहस्पतिव करणमुक्तम्, उपसंहारेऽपि नहि माता पुत्रं हिनस्ति न पुत्रो मातरमिति परस्परहिंसन निषेध माध्यं उक्तः नावहणीयादित्येष । उ वा एव यद्वाजपेयम् । पृथिव्यु हैतस्माद्विभेति महद्वा अयमभूयोऽभ्यषेचि यद्वै हास्यै बिभेति यद्वे मेयं नावधन्वीतेति तदनयैवैतन्मित्रयं कुरुते नहि माता पुत्र हिनस्ति न पुत्रो मातरम् ' ( श ० ५॥१।१ ९ ) । इदानीमनुष्ठानेऽपि भूम्यवेक्षणं मित्रत्वप्रयोजनम् । शिष्टं पूर्ववत् । ' अथ हिरण्यमभ्यव रोहति । अमृतमायुहिरण्यं तदमृत आयुषि प्रतितिष्ठति ' ( श ० ५। ३।१।२० ) । हिरण्य-मभिलक्ष्य यूपादवरोहेत्, यतो हिरण्यं मरणरहितायुरात्मकम् । तत्राव रोहणेन तथाविध आयुषि एव प्रतिष्ठितो |. भवति । ' अथाजर्षभस्याजिनमुपस्तृणाति । तदुपरिष्टाद् रुक्मं निदधाति तमभ्यवरोहति ' ( ० ५२ १ २१ ) हिरण्य । निधानार्थं बस्ताजिनास्तरणं विधत्ते - अथाजर्पभस्येति । तत्रास्यास्तीर्णाजचर्मण उपरिष्टाद् रुक्मं निदध्यात् हिरण्येऽवरोहणं वैकल्पिकमाह - रुक्मे वावरोहेदिति । ' सरुक्मे बस्तचर्मण्यवरोहति भूमौ वा ' ( का ० श्रौ ० १४।४।३० ) । ' अथास्मा आसन्दीमाहरन्ति । उपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं तदेनमुपर्यासीन-मधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति ' ( श ० ५1 1१।२२ ) । अस्मै । यूपादव तदेवोपपादयति- रोहायासन्दी-माहरन्ति । उपरिसद्यं वाजपेयेन यागेनोपरिसदनं जयति भद्रपीठादेरुपर्यवस्थानं प्राप्नोति यो यूपारोहणेनान्तरिक्षसद्यं आकाश उपवेशनं जयति, एष उपरिसद्यं जयति । तदेनमुपर्यासीनमधस्तादिमाः प्रजाः उपासते । ' औदुम्बरी भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जाऽन्नाद्यस्यावरुयै तस्मादोदुम्बरी भवति उदुम्बरो तामग्रेण हविर्धाने जघनेनाहवनीयं निदधाति ' ( ० ५२ ११२३ ) | यदेतद् ऊर्ग् बलकरमन्नं तामग्रेण तदात्मक हविर्धानेन वृक्षः, तज्जन्यत्वात्, ' देवा वा ऊर्ज व्यभजन्त तत उदुम्बर उदतिष्ठत ' इति श्रुतेः । व: ' इस कण्डिका के मन्त्रों से यजमान द्वारा दिशाओं का निरीक्षण, भूमि का निरीक्षण, अध्वर्यु द्वारा चर्मास्तरण तथा
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
मं ० २२ ] वेदार्थ पारिजातभाष्यसहिता २६३ taract आहवनीयं जघनेन आहवनीयाग्रे पश्चिमप्रदेशे हविर्धानयोरग्रप्रदेशे । हविर्धान इति द्वितीयाद्विवचनान्तम् । तामासन्दीं निदध्यात् । ' अथाजर्षभस्याजिनमास्तृणाति । प्रजापतिर्वा एष यदजर्षभ एता वै प्रजापतेः प्रत्यक्षतमां यदजास्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति तत्प्रजापति-मेवैतत्करोति तस्मादजर्षभस्याजिनमास्तृणाति ' ( ० ५ | २ | १ | २४ ) | आसन्द्या अजा जिनेनाच्छादनं विधत्ते -अजभस्याजिनमास्तृगातीति । बस्तप्रजापत्योर्बहुप्रजोत्पादकत्वेनैकरूप्यं समर्थयते - एता वा इत्यादि । एता अजाः प्रजापतेरतिशयेन प्रत्यक्षं रूपम् । यस्मादेवं तस्मात् संवत्सरमध्ये त्रिवारं द्वौ त्रीन् वा पुत्रान् विजायमानाः सुवाना भवन्ति । ' स आस्तृणाति । इयं ते राडिति राज्यमेवास्मिन्नेतद्दधात्यथैनमासादयति यन्तासि यमन इति यन्तार-वैद्यमासां प्रजानां करोति ध्रुवोऽसि धरुण इति ध्रुवमेवैनमेतद्वरुणमस्मल्लोके करोति कृष्यै त्वा क्षेमाय त्वरय्यत्वा पोषायत्वेति साधवे त्वेत्येवैतदाह ' ( श ० ५ | २ | १ | २५ ) | आस्तरणमनूद्य मन्त्रं विधत्ते - इयं ते राडिति । हे अभिषिच्यमान वाजपेययाजिन्, ते तव इयमासन्दी, राट् राज्यसाधनम् । पीठादेरुपरि सदनमेव राज्यम् । तस्याभिप्रायमाह - राज्यमेवास्मिन्नेतद्दधातीति । यदेतेनास्तरणेन यजमाने राज्यमेव निहितवान् भवति | आसन्द्यामुपवेशनं विधत्ते - अथैनमासादयतीति । एनं यजमानमस्यामासन्द्यामुपवेशयेत् । यन्तासि सर्वस्य नियन्तासि । यमनः प्रजानां नियमिता । ध्रुवः स्थिरः । धरुणो धारकः । कृष्यै कर्षणाय, त्वामुपवेशयामि । कृष्यादिपदानामर्थं सङ्कलय्याह - साधवे श्रेयसे त्वामुपवेशयामि । अध्यात्मपक्षे - हे विरादिरण्यगर्भेश्वराः, वो युष्मा । मिन्द्रियं सामर्थ्यम्, अस्मे अस्माकमस्तु । युष्माकं नृणं धनं भौतिकमधिदैवं ज्ञानविज्ञानलक्षणं यदस्ति तदप्यस्माकमस्तु । वो युष्माकं वर्चासि तेजांसि अस्मासु सन्तु । मात्रे सर्व निर्मात्र्यै पृथिव्यं विस्तृतायै परमेशशक्त्यै नमोऽस्तु । हे परमेश्वर, इयं महाशक्तिस्ते राज्यं राज्यवत् सुखप्रापयित्री । तत्प्रसादादेव त्वं यन्तासि सर्वस्य नियन्तासि, स्वतो निर्विशेषत्वात् । यमनः स्वयं कर्तासि | स्वयं तु ध्रुवोऽसि अचलोऽसि । धरुणोऽसि सर्वस्य धारकोऽसि । त्वा कृष्यं कर्षणाय अभीष्टा -कर्षणाय, क्षेमाय प्राप्तरक्षणाय, रय्यै दैवीसम्पत्तये, पोषाय ज्ञानविज्ञानपुष्टयै त्वामाश्रये । दयानन्दस्तु - ' हे मनुष्याः, अहमीश्वरः कृष्यै त्वा क्षेत्राय त्वा रय्यै सम्पत्तये त्वा पोषाय त्वा नियुनज्मि । यस्त्वं ध्रुवो निश्चल:, यन्ता नियन्ता, यमन उपयन्ता, धरुणो धर्तासि । यस्य ते इयं राट् शोभायुक्ता नीतिरस्ति, अस्यै मात्रे मान्यनिमित्तायै पृथिव्यै विस्तृतायै भूम्यं नमो विधेहि । अस्याः सकाशादन्नादिपदार्थाः प्राप्नुवन्तु उस पर यजमान का उपवेशन आदि कर्म किये जाते हैं । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अपक्ष में अर्थ इस प्रकार है - हे विराट् ', हिरण्यगर्भ तथा ईश्वर! आप लोगों का सामर्थ्य हममें हो, आपका भौतिक तथा आधिदैविक ज्ञानविज्ञान रूपी धन भी हमारा हो, आपका तेज हममें हो । सबकी निर्मात्री, विस्तीर्ण परमेश्वर की शक्ति के लिये नमस्कार है । हे परमेश्वर! यह महाशक्ति आपके राज्य के समान सुखकारिणी है । उसके प्रसाद से ही आप सबके नियन्ता हैं, क्योंकि आप स्वयं निर्विशेष हैं । स्वयं आप शास्ता हैं, स्वयं अचल हैं तथा सबके धारणकर्ता हैं । अभीप्सित की प्राप्ति के लिये, प्राप्त के रक्षण के लिये, दैवी सम्पत्ति के लिये तथा ज्ञानविज्ञान की पुष्टि के लिये आपका आश्रय ग्रहण करता हूँ । स्वामी दयानन्द का अर्थ शतपथ श्रुति आदि के वचनों से विरुद्ध होने के कारण कल्पनामात्र ही है । मनुष्यों की मन आदि इन्द्रियां परस्पर बदली नहीं जा सकतीं । मानवों में इस प्रकार की शक्ति प्रसिद्ध नहीं है । देवताओं में तो
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
२६४ शुक्लयजुर्वेदसंहिता [ अ ० ९ वा भूगर्भविद्यां ज्ञात्वा नृम्णम् अन्नजलादिपदार्थान् प्राप्य सर्वे यूयम् एवं वदत वर्तध्वम् उतापि, यदस्मे योऽस्मै अस्माकमस्मभ्यं क्रतुः प्रज्ञा कर्म वा इन्द्रियं मनआदीनि तद्वो युष्माकं युष्मभ्यं वास्तु यदस्मे नृणं धनं तट्टोऽस्तु तानि वः सन्तु । यदेतत्सर्वं वोऽस्ति स वोऽस्तु । यान्यस्माकं वर्चासि प्रकाशमानान्यध्ययनाध्यापनान्यन्नानि च, पूर्वोक्तशतपथादिवचनविरोधात् । सोऽस्माकमप्यस्तु --- इत्येवं परस्परं यूयमाचरत ' इति, तदपि कल्पनामात्रम् न च मनुष्येषु तादृशी शक्तिः प्रसिद्धा । न च मनुष्याणां मनआदीनि इन्द्रियाणि परस्परं परिवर्तयितुं शक्यानि । नाभ्युपगम्यते । ननु युष्मभ्यं सन्त्विति देवतासु तु तादृशं सामर्थ्यं भवत्येव । युष्माभिस्तु विशिष्टैश्वर्यवद् देवतात्वं तु स्पष्टमेव सिद्धान्त-पक्षे नोक्तदोष इति चेन्न, मनआदीनामात्मशेषत्वादन्यशेषत्वानुपपत्तेः ॥ २२ । ॥ शतपथश्रुतिषु पक्षपोषकाणि वचनानि दृश्यन्ते । तस्मात्तद्विरुद्धा कल्पना असंगतैव वाज॑स्ये॒मं प्र॑स॒वः स॑ष॒वेऽने॒ सोम॒ राजा॑न॒मोष॑धीष्वप् । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य राष्ट्रे जोग्याम पुरोहिताः स्वाहा॑ ॥ २३ ॥
' स्रुवेण सम्भृताज्जुहोति वाजस्येममिति प्रतिमन्त्रम् ' ( का ० श्र ० १४ | ४ | ३२ ) प्रजापतिदेवत्याः । प्रत्यौदुम्बरपात्रे । अग्ने एकत्र कृतादुदकदुग्धसर्वान्नादेः सकाशात् स्रुवेणाहवनीये सप्त मन्त्रैर्जुहोति । तिस्रस्त्रिष्टुभः उत्पादकः प्रजापतिः, ओषधीषु पूर्वं सृष्ट्यादौ वाजस्येमं प्रसवः सुषुवे । वाजस्यान्नस्य सम्बन्धी प्रसव ईश्वर ' पूङ् प्राणिप्रसवे ', ता अप्सु सारभूतं वर्तमानमिमं सोमवल्लीरूपं राजानं दीप्तिमन्तं पदार्थ सुषुवे उत्पादयामास, रसवत्यो माधुर्योपेता भवन्तु भोगयोग्या इत्थंभूताः सोमस्य जनयित्र्य ओषधय आपश्च अस्मभ्यं मधुमतीमधुमत्यो जागृयाम भवन्तु । वयं च ताभिरभिषिक्ता राष्ट्रे स्वकीये देशे पुरोहिता यागानुष्ठानादौ पुरोगामिनः प्रधाना जागरूका अप्रमत्ता भवाम । स्वाहा सुहुतमस्तु । सर्वत्र स्वाहाशब्दो हवनलिङ्गम् । अत्र ब्राह्मणम् - ' बार्हस्पत्येन चरुगा प्रचरति । तस्यानिष्ट एव स्विष्टकृद् भवत्यथास्मा अन्नथ् सम्भरन्त्यन्नं वा एष उज्जयति यो वाजपेयेन यजते ' ( श ० २ २ १ ) । प्रधाननैवाराहुतेरनन्तरं अनिष्टोऽनिष्टकृद् कर्तव्यं वाजप्रसवीयं होमं विधातुं कालं विधत्ते तस्यानिष्ट एवेति । तस्य नैवारस्य अन्नं स्विष्टकृद् सम्भरन्तीति । अथास् भवति । प्रधानयागादूर्ध्वं स्विष्टकृतः प्रागित्यर्थः । होमार्थमन्नसम्भरणं विधत्ते -यजमानाय अभिषेकार्थमन्नं सम्भरेत् । ' औदुम्बरे पात्रे | अन्नं वा ऊर्गुदुम्बर ' ऊर्जोऽन्नाद्यस्यावरुद्धयै ( श ० ५२२२ ) । तस्मादौदुम्बरे पात्रे सोऽप एव प्रथमाः सम्भरन्त्यथ पयो अथ यथोपस्मारमन्नानि सोऽप एवेति । अपो अन्नसम्भरणार्थं पात्रविशेषं विधत्ते - औदुम्बर इति । तत्र प्रथममपां संभरणं विधत्ते में तो हमारे ऐसा सामर्थ्य होता ही है, किन्तु आपके मत में विशिष्ट ऐश्वर्य से युक्त देवत्व नहीं माना जाता । शतपथ श्रुति सिद्धान्त पक्ष के पोषक वचन दृष्टिगोचर होते हैं, अतः उनके विरुद्ध कल्पना असंगत हो है ॥ २२ ॥
बीच में सबसे मन्त्रार्थ – अन्न को उत्पन्न करने वाले प्रजापति ने सबसे पहले आदि सृष्टि में औषधि और जल के और जल हमारे लिये उत्तम इस सोमवल्ली रूप दीप्तिमान् पदार्थ को उत्पन्न किया था । वे सोम के उत्पादक अभिषिक्त औषधि होकर, अपने राज्य में माधुर्य रस से भरे हों । याग, अनुष्ठान आदि में इनकी प्रधानता रहती है । हम इनसे सर्वसाधारण के हित के लिये अप्रमत्त होकर काल यापन करें ॥ २३ । भाष्यसार--- ' वाजस्येमम् ' इस मन्त्र से आहवनीय अग्नि में स्रुव द्वारा आहुति दी जाती है । याज्ञिक प्रक्रिया का
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
म ० २३ ] वेदार्थ पारिजातभाष्यसहिता २६५ जलानि सम्भरेत्, अथ क्षीरम्, तदनन्तरं यथोपस्मारम् उपस्मृतिमनतिक्रम्य यानि तदा स्मृतिपथमवतरन्ति मर्कटका विज्ञेया तानि ' तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिला व गवेधुका अरण्यजा गार्मुतसप्तमाः कुलत्थसप्तमा वा ' इत्यापस्तम्बेन सूत्रितानि सम्भरेत् । ‘ तद्धैके । सप्तदशान्नानि सम्भरन्ति सप्तदशः प्रजापतिरिति वदन्तस्तदु तथा न कुर्यात् सम्भरन्नेकमन्नं प्रजापतेर्देव न सर्वमनवरुद्धं क उ तस्मै मनुष्यो यः सर्वमन्नमवरुन्धीत तस्मादु सर्वमेवान्नं यथोपस्मार १७ स्मर्यमाणानि सम्भरेत् ' ( श ० ५।२।२।३ ) । यथोपस्मारमन्नानि संबिभृयाद् इत्यत्र संख्याया अनुक्तेर्यावन्ति , तन्निराकरोति-तावन्ति सम्भरेत् । पूर्वपक्षे सप्तदेशसंख्याकान्यन्नानि सम्भरेत्, प्रजापतेः सप्तदशत्वात्? प्रजापतेरिति । पूर्वं प्रजापतेरपि सकलमन्नं न वशीकृतम् । इदानीं तस्मै प्रजापत्यर्थं मनुष्यः कः समर्थः तस्माद्यथोपस्मारं सम्भरन्नेकमन्नं न सम्भरेत् । सप्तदशान्नानि तु - ( १ ) ब्रीह्यः, ( २ ) यवाः, ( ३ प्रियङ्गवः ) मसूराः,, ( ४ ) गोधूमाः, ( ५ ) मुद्गाः, ( ६ ) माषाः, ( ७ ) तिला:, ( ८ ) चणका:, ( ९ ) अणवः, (, १० ( १७ ) ) अतस्यः । ( ११ ) कोद्रवाः, ( १२ ) मकुष्ठका:, ( १३ ) कलाया:, ( १४ ) कुलित्था:, ( १५ ) मठा:, ( १६ ) सर्षपाः खलकुलाश्चेति पातञ्जलभाष्ये सप्तदश शणाः । तत्र व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमा मसूराश्च खल्वाश्च तथा नान्तमेति दश ग्राम्याणि, शेषाण्यारण्यानि । स यन्न सम्भरति । तस्योद्भुवीत तस्य नाश्नीयाद्यावज्जीवं एवैत-तथा ज्योग्जीवति स एतस्य सर्वस्यान्नाद्यस्य सम्भृतस्य स्रुवेणोपघातं वाजप्रसवीयानि जुहोति ' ( श ० तद्याभ्य ५ | २ | २।४ ) । द्देवताभ्यो जुहोति ता अस्मै प्रसुवन्ति ताभिः प्रसूत उज्जयति तस्माद्वाजप्रसवीयानि जुहोति यावज्जीव-यद् अन्नं न सम्भरेत् तस्य उद्द्वीत न संभृतमित्युच्चैस्तन्नाम ब्रूयात् यथाऽसम्भृतस्यान्नस्य सति विनाशो भवति, मभोजनेन अन्तं विनाशं न एति, ज्योक चिरकालं जीवति, भोक्तव्यस्थ सर्वस्य भोगे उपहत्योपहृत्य अतस्तदेकमवशिष्य भुञ्जीतेति तात्पर्यम् । मिलितस्य एतस्य सर्वस्थान्नस्यैकदेशं स्रुवेण याभ्य इति । गृहीत्वा वाजप्रसवीयानि जुहोति वाजप्रसवशब्दयुक्तमन्त्रकरणकहोमान् कुर्यादित्यर्थः । तद् प्रसुवन्ति, मान्त्रवर्गिकीभ्यो याभ्योऽष्टादिदेवताभ्यो हूयते, तदैव ता अस्मै यजमानाय एतद्यागफलभूतमन्नमवरोद्धुं प्रसवः ' ' स्वाहा ' ( श ० ताभिरनुज्ञातः पश्चात् स्वाधीनं करोतीत्यर्थं इति सायण: । ' स जुहोति । वाजस्येमं ५।२।२।५ ) । मन्त्रार्थस्तुक्त एव । अध्यात्मपक्षे - वाजस्यान्नस्य प्रसव उत्पादक ईश्वर अग्रे सृष्टिकाले ओषधीष्वप्सु अग्नीषोमयोः च वर्तमानं स्थिति-सोमं राजानं सुषुवे जनितवान्, ' अग्नीषोमात्मकं जगत् ' इति सिद्धान्तेन यद्यपि सर्वत्रैव सोमस्य राज्ञः तथापि कठोरेषु तीक्ष्णेषु पदार्थेष्वग्नेः कोमलेषु सोमस्य स्थितिर्भवति । तस्मादोषधीषु जलेषु च भवन्तु । सत्ता मन्तव्या । सोमस्याधारभूतास्ता आप ओषधयश्च मधुमत्यो रसवत्यो यागाद्युपयोग्या तदाप्यायिताश्च वयं पुरोहिता यागाद्यनुष्ठानप्रधाना राष्ट्र जागृयाम अनलसाः पुरुषार्थसाधने जागरूवा भवेम । यह विनियोग कात्यायन श्रौत्रसूत्र ( १४।५।२१ ) में उल्लिखित है । शतपथ श्रुति के द्वारा याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है -- अन्न को प्रादुर्भूत करने वाले ईश्वर ने सृष्टि के प्रारम्भ में ओषधियों में तथा जल में विद्यमान सोम राजा को उत्पन्न किया । ' अग्नीषोमात्मकं जगत् ' इस सिद्धान्त के अनुसार यद्यपि सर्वत्र ही अग्नि तथा सोम का अस्तित्व है, तथापि कठोर, तीक्ष्ण पदार्थों में अग्नि तथा कोमल पदार्थों में सोम की स्थिति होती है । अत एव ओषधियों में तथा जल में राजा सोम की सत्ता समझनी चाहिये । सोम की आधारभूत ओषधियाँ तथा जल रसयुक्त यागादि के लिये उपयोगी हों । उनके द्वारा आप्यायित होकर हम पुरोहित यागादि अनुष्ठानों के कर्ता, राष्ट्र में आलस्यरहित तथा पुरुषार्थं के साधन में जागरूक हों । ३४
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
२६६ शुक्लयजुर्वेदसंहिता [ अ ० ९ दयानन्दस्तु - ' हे मनुष्याः यथाहमग्रे प्रसव ऐश्वर्यवान् वाजस्य वैद्यकशास्त्रबोधस्य इमं सोमं सोममिव सर्वदुःखप्रणाशकं राजानं विद्यान्यायविनयैः प्रकाशमानं स्वामिनं सुषुवे प्रसुवे उत्पादये । यथा तद्रक्षणेन या ओषधीष्वप्सु पृथिवीस्थासु यवादिषु अप्सु जलेषु वर्तमाना ओषधयः सन्ति, ता अस्मभ्यं मधुमत्यो भवन्तु, यथा स्वाहा सत्यक्रियया सह पुरोहिताः सर्वेषां हितकारिणो वयं सभापत्यादयोरा सततं जागृयाम सचेतना अलसाः सन्तो वर्तेमहि, तथा यूयमपि वर्तध्वम् ' इति, तदपि यतिचित् तादृशार्थबोधनाय शास्त्राप्रवृत्तेः । अज्ञातज्ञापकत्वेन खलु प्रमागानां प्रामाण्यम्, प्रत्यक्षानुमानाभ्यामज्ञातार्थ बोधनेनैव वेदानां वेदत्वात् । नीतिशास्त्रे सम्भवन्ति चैतानि प्रजोपदेशवचनानि । वाजशब्दस्य वैद्यकशास्त्रसम्बन्धिबोधोऽर्थ इति सर्वथैव निर्मूलम् | सोमसमभिव्याहृतस्य राजशब्दस्य वेदे सोमलताया एव बोधः प्रायेण । ओषधीष्वप्सु ता इत्यस्यांशस्य व्याख्याने यदुक्तम् - ' पृथिवीस्थासु यवादिषु जलेष्वोषधयः सन्ति ' इति कथमयमर्थः? मन्त्रे ओषधय इति पदस्याभावात् । न चौषधीष्वोषधयः सम्भवन्ति, आत्माश्रयत्वापातात् । यत्तु ' वाजस्येमं प्रसवः ' ( वा ० सं ० ९ । २३ ) इति मन्त्रे व्याकरणप्रक्रियां प्रदर्शयन्नसूयकः पुरोभागी सनातनधर्मे दृढद्वेषो देवतासु तीर्थेषु शास्त्रेषु च असूयाकषायान्तःकरणत्वाद् गालिदाने दृढबद्धादरः कश्चनाह— ' सायणेनर्वेदभाष्ये ( ऋ ० सं ० १ | १ | १ ) पक्षान्तरे गतिसंज्ञामकृत्वैव तत्पुरुषे तुल्यार्थं ' ( पा ० सू ० ६।२।२ ) इति पूर्वपदप्रकृतिस्वरः प्रदर्शितः, सोऽयुक्तः, गतिसंज्ञामन्तरेण समास एव न प्राप्नोति, कुतोऽव्ययस्वर इति सायणस्य स्वभाष्यारम्भ एव प्रथमे ग्रासे मक्षिकापातो विभावनीयः स्वरशास्त्रज्ञः ' इति, तदतिमन्दम्, पुरोहितमित्यत्र ' सह सुपा ' ( पा ० सू ० २1१1४ ) इति योगविभागात् ' अव्ययं विभक्ति ' ( पा ० सू ० २।११६ ) इति सूत्रेऽव्ययमित्यस्य योगविभागाच्चोभयथा समासस्य साधुत्वात्, अव्ययीभाव तत्पुरुष कर्मधारय द्विगु-बहुव्रीहि द्वन्द्वेति षट्समासाभिमानिनां तत्पुरुषेत रपञ्चसमासानाक्रान्तः सर्वोऽपि प्रयोगस्तत्पुरुषसमासान्तर्गत इति हृदयमभिलक्ष्य सायणेन ' तत्पुरुषे तुल्यार्थं ' ( पा ० सू ० ६ २२ ) इत्यादिना पूर्वपदप्रकृतिस्वरसमर्थनात् । स्वमनीषितं तु सायणेन यद्वेति कृत्वाभिहितम् । तदेव त्वयाऽप्यनुसृतम् । तथापि सायणभाष्योपरि कटुकोल्बण-मुमन्न जिषीति ' किमाश्वर्यमतः परम् '? ॥ २३ ॥
स्वामी दयानन्द का अर्थ इस कारण से अग्राह्य है कि इस प्रकार के अर्थबोधन के लिये शास्त्र का प्रयोजन नहीं है । प्रमाणों का प्रामाण्य अज्ञातार्थ के बोधन से ही होता है, क्योंकि प्रत्यक्ष तथा अनुमान प्रमाणों से अज्ञात अर्थ का बोधन कराने से ही वेद का वेदत्व है । प्रजा के प्रति उपदेश के ये वाक्य नीतिशास्त्र में सम्भव है । वाज शब्द का ' वैद्यकशास्त्र -सम्बन्धी बोध अर्थ है ' यह कथन सर्वथा अप्रमाण है । सोम पद के साथ कथित ' राजा ' शब्द से सोमलता का ही बोध वेद में प्रायः होता है । ओषधियों में ओषधियों का होना भी आत्माश्रयत्व दोष प्राप्त होने के कारण संभव नहीं है । ' वाजस्येमं प्रसव: ' इस मन्त्र में व्याकरण प्रक्रिया का प्रदर्शन करते हुए किसी दोषद्रष्टा ने सायण की आलोचना की है, वह अत्यन्त निरर्थक है । ' पुरोहितम् ' पद में ' सह सुपा ' इस सूत्र द्वारा योगविभाग से और ' अव्ययं विभक्ति ' इस सूत्र में ' अव्ययम् ' इस योगविभाग से, दोनों ही प्रकार से समास ठीक हैं । जो व्यक्ति अव्ययीभाव तत्पुरुष कर्मधारय, द्विगु, बहुव्रीहि तथा द्वन्द्व ६ समास मानते हैं, उनके लिये तत्पुरुष से अतिरिक्त पांचों समासों में जो प्रयोग अन्तर्भुक्त नहीं होते, वे सभी त्पुरुष के अन्तर्गत आते हैं । इस विचार को दृष्टिगत रखते हुए सायणाचार्य ने ' तत्पुरुषे तुल्यार्थं ' इस सूत्र के द्वारा पूर्वपद प्रकृतिस्वर का समर्थन किया है । अपना अभिमत तो सायणाचार्य ने ' यद्वा ' इत्यादि के द्वारा निरूपित किया है । दोषद्रष्टा ने भी उसी का अनुसरण किया है, फिर भी सायणभाष्य पर कटु आक्षेप करना आश्चर्यजनक ही है ॥ २३ ॥