वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 341–350

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 341–350

पृष्ठ 341

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 341 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३५ ] वैदार्थ पारिजात भाष्यसहिता २८७ नेत्रादयो देवा राजसूयसम्बन्धिनो भगवतः कार्यत्वाद् भगवदभिन्नतयैव संसाधनीया इति तत्तद्रूपेण भगवत एवाराधनं सम्पद्यत इति पूर्वोक्ता एवार्था इहापि ग्राह्याः । 1 दयानन्दस्तु - ' हे निर्ऋते, नितरामृतं सत्याचरणं यस्मिन् तत्सम्बुद्धौ हे राजन्, ते तव य एष भागो भजनीयो न्यायोऽस्ति, तमग्निनेत्रेभ्यो देवेभ्यः, अग्नेः प्रकाश इव नेत्रं नयनं येषां तेभ्यो देवेभ्यो धार्मिकेभ्यो विद्वद्भयः स्वाहा सत्यां वाचम् पुरःसद्भूयो देवेभ्यो ये पुरः पूर्वं सभायां राष्ट्रे वा सीदन्ति तेभ्यः स्वाहा धर्म्या क्रिया, यमनेत्रेभ्यो यमस्य वायोर्तेत्रं नयनमिव नीतिर्येषां तेभ्यः, ये दक्षिणायां सीदन्ति तेभ्यो देवेभ्यो विपश्विद्भयः स्वाहा दानक्रियाम्, विश्वदेवनेत्रेभ्यो विश्वेषां देवानां विदुषां नेत्रं नीतिरिव नीतिर्येषां तेभ्यः पश्चात्सद्भयः पश्चात् सीदन्ति ये तेभ्यो देवेभ्यो दिव्यसुखप्रदेभ्यः स्वाहा उत्साहकारिकां वाचम्, मित्रावरुणयोः प्राणोदानयोर्नयनमिव नीतिर्येषां तेभ्यो वा पक्षान्तरे मरुतामृत्विजां प्रजास्थानानां सज्जनानां वा नेत्रवि नायकत्वं येषां तेभ्यो देवेभ्यो दिव्यन्यायप्रकाशकेभ्य उत्तरासद्भयो य उत्तरस्यां दिशि सीदन्ति तेभ्यः स्वाहा दौत्यकुशलताम्, सोमनेत्रेभ्यः सोमस्य चन्द्रस्य नेत्रं नयनमिव नीतिर्येषां तेभ्य उपरिसद्भयः सर्वोपरि विराज-मानेभ्यो दुवस्यद्भयो विद्याविनयधर्मेश्वरान् सेवमानेभ्यो देवेभ्यः सकलविद्याप्रचारकेभ्यः स्वाहा आप्तवाणी प्राप्य त्वं धर्मेण राज्यं सदा भुङ्क्ष्व ' इति, तदपि यत्किश्चित् कल्पनामात्रसारत्वात् तत्तच्छब्दार्थानां निर्मूलत्वात् । यथा व्याघ्रशब्दस्य कश्चित् शुष्कवैयाकरणो विशेषेण आसमन्ताद् जिघ्रतीति व्याख्याय व्याघ्राभिमुखं प्रवृत्तो विनाशं लेभे, तथैव निर्ऋतिशब्दस्यापि नितरामृताचरणवानर्थः । श्रुतौ सायं पाप्मना गृह्णाति तं नैर्ऋत्या गृह्णातीति तद्यदेवास्य नैर्ऋते रूपं तदेवैतच्छमयतीति पापदेवतायास्तदर्थत्वोक्तेः । अग्नेः प्रकाशस्य कीदृशं नयनं कीदृशी वा नीति:? न च तद्वत् प्रकाशो विवक्षितः, सर्वासामपि तासां प्रकाशस्वाभाव्यादिति विशेषायोगात् । तथैव देवशब्दानामपि ते तेऽर्थाः काल्पनिका एव । स्वाहाशब्दार्था अपि निर्मूला एव । किञ्च विशिष्टदेवानां यद्येकरूपैव नीतिस्तदान्येषामपि नीतिस्तत्रैवान्तर्भूतेति तेषां पृथगुल्लेखो व्यर्थ एव स्यात् । किञ्च, यो राजा नितराम् ऋताचरणशीलस्तस्य तेषां तेषां देवानां स्वाहा धर्म्यादिक्रिया सेवनोपदेशः पिष्टपेषणमेव स्यात् । किच, स्वाहापदवाच्यास्तास्ताः क्रियाः कथं राज्ञ एव भागः, सर्वेषामपि तद्भागत्वाविशेषात् । किञ्च, मन्त्रे पूर्वं तु न्यायं जुषस्वेत्युक्तम्, पश्चात् स्वाहार्थास्तास्ताः क्रियाः प्राप्य राज्यं जुषस्वेत्युक्तम् । प्राप्य राज्यमित्यादिकं तु मूलमन्त्रे नास्त्येव ॥ ३५ ॥

आदि राजसूय सम्बन्धी देवगण भगवान् के कार्य होने के कारण भगवदभिन्न रूप से उपास्य हैं । इस रीति से उन - उन रूपों से भगवान् की ही आराधना सम्पन्न होती है । इस कारण इन मन्त्रों के याज्ञिक प्रक्रिया में वर्णित अर्थ ही अध्यात्म-पक्ष में भी ग्रहण करने चाहिये । स्वामी दयानन्द द्वारा निरूपित अर्थं कल्पनाप्रधान होने के कारण तथा उन शब्दार्थों के प्रमाणरहित होने से ग्राह्य नहीं है । जिस प्रकार कोई शुष्क वैयाकरण व्याघ्र शब्द के अर्थ की व्याख्या ' आ समन्ताद् जिघ्रति ' ( चारों ओर से सूंघता है ), इस प्रकार समझ कर बाघ की ओर जाकर मृत्यु को प्राप्त हो गया, इसी प्रकार निर्ऋति शब्द का ' अत्यन्त सत्याचरण सम्पन्न ' अर्थ करना भी हानिकर है । अग्नि के प्रकाश का नयन कैसा है? तथा किस प्रकार की नीति है? इसी प्रकार देव शब्द के भी विभिन्न अर्थ काल्पनिक ही हैं । ' राज्य प्राप्त करके ' इत्यादि पद तो मन्त्र में हैं ही नहीं ॥ ३५ ॥

पृष्ठ 342

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 342 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८८ शुक्लयजुर्वेदसंहिता [ अ ० ९ ये देवा अग्निनेत्राः पुरः सदस्तेभ्यः स्वाहा ये दे॒वा यमनैत्रा दक्षिणा॒ सद॒स्तेभ्यः स्वाहा ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चात्सद॒स्तेभ्यः स्वाहा ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरासद्स्तेभ्यः स्वाहा ये दे॒वाः सोम॑नेत्रा उपरि॒ सद॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥ ३६ ॥

' उत्तराः समस्य ये देवा इति प्रतिमन्त्रम् ' ( का ० श्र ० १५।१।२१ ) । पञ्चधा विभक्तमाहवनीयमेकी-कृत्य ये देवा इति पञ्चभिर्मन्त्रैः प्रत्येकं जुहुयात् । ये देवा अग्निनेत्राः पुरः सदस्तेभ्यो देवेभ्यः स्वाहा । ये देवा यमनेत्रा दक्षिणास दस्तेभ्यः स्वाहा । ये देवा मित्रावरुणनेत्रा ये देवा मरुन्नेत्रा इति मन्त्रयोरत्रापि विकल्पः । ये देवाः सोमनेत्रा उपरिसदो दुवस्यन्तो हव्यवन्तस्तेभ्यः स्वाहा । अत्र ब्राह्मणम् -'अथ सार्द्ध समुह्य जुहोति । ये देवा अग्निनेत्रा ' स्वाहेति तद्यदेवं जुहोति ' ( श ० ५।२।४।६ ) । इत्थं पञ्चभिर्मन्त्रैः कृतेष्वग्निषु हुत्वा पुनस्तानेकीकृत्य समन्त्रकं तादृशैरेव मन्त्रैर्हवनं विधत्ते-समुह्य जुहोतीति । पञ्चाप्यग्नीन् समुह्य समस्य एकीकृत्य जुहुयादिति । अध्यात्मपक्षे आध्यात्मिकोऽर्थः पूर्ववदेव योज्यः । दयानन्दस्तु – ' हे सभाध्यक्ष राजन् त्वं येऽग्निनेत्रा विद्युदादिविज्ञानवन्तः पुरः सदो देवाः सन्ति, तेभ्यः स्वाहा सत्यां वाचं जुषस्व । ये देवा योगिनो न्यायाधीशा यमनेत्रा यमेष्वहिंसादिषु योगाङ्गेषु नीतिषु वा नेत्र प्रापणं येषां ते दक्षिणा दस्तेभ्यः स्वाहा सत्यां क्रियाम्, ये पश्चात्सदो विश्वेदेवनेत्रा विश्वेषु देवेषु नेत्रं प्रज्ञानं येषां ते देवाः सर्वविद्याविदः, तेभ्यः स्वाहा, आन्वीक्षिकीं विद्यां जुषस्व । ये देवाः सर्वेभ्यः सुखदातारो मित्रावरुण-नेत्राः प्राणोदानवत् सर्वान् धर्मं नयन्तो वा मरुन्नेत्रा मरुति ब्रह्माण्डस्थे वायौ नेत्रं नयनं येषां ते उत्तरासदः मन्त्रार्थ - अग्नि देवता के नेतृत्व में रहने वाले जो देवता पूर्व दिशा में निवास करते हैं, उन देवताओं के निमित्त यह आहुति दी जा रही है । यम के नेतृत्व में जो देवता दक्षिण दिशा में निवास करते हैं, उनके निमित्त यह आहुति दी जा रही है । विश्वदेव देवताओं के नेतृत्व में पश्चिम दिशा में निवास करने वाले देवताओं के निमित्त यह आहुति दी जा रही है । मित्रावरुण अथवा मरुत् देवताओं के नेतृत्व में उत्तर दिशा के निवासी देवताओं के लिये यह आहुति दी जा रही है । सोम के नेतृत्व में हवि को स्वीकार करने वाले द्युलोकवासी देवताओं के निमित्त दी गई यह आहुति उनको भली प्रकार प्राप्त हो ॥ ३६ ॥

भाष्यसार -- ' ये देवा: ' इस कण्डिका के मन्त्रों से भी आहवनीय अग्नि में आहुति दी जाती है । याज्ञिक प्रक्रिया का यह विनियोग कात्यायन श्रौतसूत्र ( १५/१/२१ ) में उल्लिखित है । मन्त्रार्थ इस प्रकार है- अग्निरूपी नेत्रों वाले पूर्व में स्थित देवों के लिये आहुति हो । यमरूपी नेत्रों वाले दक्षिण में स्थित देवों के लिये आहुति हो । विश्वदेवरूपी नेत्रों वाले पश्चिम में स्थित देवों के लिये आहुति हो । मित्रावरुणरूपी नेत्रों वाले अथवा मरुद्गणरूपी नेत्रों वाले उत्तर में स्थित देवों के लिये आहुति हो । सोमरूपी नेत्रों वाले ऊपर स्थित हविष्य ' युक्त देवों के लिये आहुति हो । अध्यात्मपक्ष में भी अर्थ योजना इसी भाँति होगी । स्वामी दयानन्द द्वारा उल्लिखित अर्थ असंगत है, क्योंकि श्रुतिवाक्य द्वारा एकीकृत अग्नि में तत्तद् विशिष्ट देवताओं के लिये हविर्दानात्मक हवन का ही विधान किया गया है । वे सभी गौण अर्थं वेद को चार्वाक मत के रूप में

पृष्ठ 343

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 343 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ३६-३७ ] वेदार्थपारिजात भाष्यसहिता २८ ९ प्रश्नोत्तराणि समादधाना उत्तरस्यां दिशि सीदन्ति तेभ्यः स्वाहा सर्वोपकारिणीं विद्यां जुषस्व । ये देवा आयुर्वेदविदः सोमनेत्राः सोमलतादिष्वोषधीषु नेत्रं नयनं येषां ते उपरिसद उत्कृष्ट आसने व्यवहारे वा सीदन्ति श्रुत्या, दुवो बहुविद्याधर्मपरिचरणं विद्यते येषु तेभ्यः स्वाहा । धर्मोषधिविद्यां जुषस्व ' इति, तदपि यत्किञ्चित् गौणार्था वेदस्य एकीकृताग्नी तेभ्यस्तेभ्यो विशिष्टदेवेभ्यो हविर्दानलक्षणस्य होमस्य विधानात् । सर्वे च ते लोकायतीकरणाय कल्पन्ते, सभाध्यक्षादीनां सम्बोद्ध्यत्वे मानाभावात् । सिद्धान्तोक्ता अर्थास्तु श्रुति - सूत्रसम्मता इतित एव ग्राह्याः । तथैव देवपदानामपि काल्पनिका एवार्थाः, तादृशार्थेषु तेषु तेष्वार्षग्रन्थेष्वप्रयुक्तत्वात् ॥ ३६ ॥

अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑त॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॒धा य॒ज्ञया॑हसि ॥ ३७ ॥

' अग्ने सहस्वेत्युल्मु कादानम् ' ( का ० श्र ० १५ २ ५ ) । अपामार्गतण्डुलहोमार्थं दक्षिणाग्नेरुल्मुक-मादद्यात् । देवश्रवस आर्षम् । अग्निदेवत्याऽनुष्टुप् । हे अग्ने, त्वं पृतनाः शत्रुसम्बन्धिनीः सेनाः सहस्व, अभिभव अपास्य पराभव । तथा अभिमातीः सपत्नान् सपत्नोऽभिमातिरुच्यते, स्त्रीत्वमार्षम्, कर्मविघ्नकारिणः अपनुद निरासय, ' असु क्षेपणे ' इत्यस्य लोटि रूपम् । यज्ञवाहसि यज्ञं वहति निर्वहतीति यज्ञवाहास्तस्मिन् यज्ञवोढरि यज्ञसम्पादके यजमाने वर्चोऽन्नम्, वर्च इत्यन्ननामसु पठितम् धाः घेहि । यद्वा वर्चसोऽन्नस्य ओजसो वा धाता धारयितासि, दधातेर्लुङि. ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६ । ४ । ७५ ) इत्यडभावः दुर्निवारः । कथम्भूत- । कि स्त्वं दुष्टरः दुस्तरः, तरतेः स्तृणातेर्वा । केनापि ततुं स्तरीतुं वा अशक्य, अशक्य प्रतिक्रियो सहस्व । अभिमातीः कुर्वन्? अरातीः सपत्नान् तरन् विनाशयन् तिरस्कुर्वन् वा । यद्वा हे अग्ने, पृतनाः संग्रामान् अभिमन्यमानान् सपत्नानपास्य अपनुद | अनिष्टनिवृत्ति मुक्त्वेष्टप्राप्ति प्रार्थयते । शेषं पूर्ववत् । अत्र ब्राह्मणम् –‘अथापामार्गहोमं जुहोति । अपामार्गेव देवा दिक्षु नाष्ट्रा रक्षा स्यपामृजत ते व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतदपामार्गे रेव दिक्षु नाट्रा रक्षा स्यपमृष्टे तथो एव विजयते विजितेऽभयेऽनाष्ट्रे तं सूया इति ' ( श ० ५ | २ | ४ | १४ ) । अपामार्गहोमं विधत्ते -- अथापामार्गहोमं जुहोतीति । विजितिसाधनत्वेन प्रशंसति - अपामार्गैर्वै देवा इति । देवा दिक्षु नाष्ट्रा नाशवानि रक्षआदीनि अपामृजत अपमार्जनं कृतवन्तः राजसूयं । तत एव ते व्यजयन्त । इदानीं मनुष्योऽप्यपामार्गहोमैस्तत्सर्वं करोति विजयते च । ततोऽभयेऽनाष्ट्रे निर्वर्तयन्ति । स पालाशे वा स्रुवे वैकङ्कते वा । अपामार्गतण्डुलानादत्तेऽन्वाहार्य पचनादुल्मुकमाददते तेन प्राञ्चो इति । वो वा यन्ति तदग्नि समाधाय जुहोति ' ( श ० ५ | २ | ४ | १५ ) । तस्यानुष्ठानं सविशेषमाह - स पालाश पलाशवैकङ्कतयोरन्यतरवृक्षनिर्मिते स्रुवेऽपामार्गतण्डुलानादाय अन्वाहार्यपचनादुल्मुकमादाय प्राङ्मुखा उदङ्मुखा वा यन्ति । तत्राग्नि प्रतिष्ठाप्य होमः कार्यः । स उल्मुकमादत्ते । अग्ने सहस्व पृतना ' पृतना युधः सहस्वेत्येवै-पक्ष के अर्थ निरूपित करने वाले हैं । सभाध्यक्ष आदि को सम्बोधित करने में कोई प्रमाण नहीं है । हमारे सिद्धान्त किये गये देव आदि शब्दों के अर्थं श्रुति एवं सूत्रवचनों से सम्मत हैं, अतः वे ही ग्राह्य हैं । इसी प्रकार आपके द्वारा भी काल्पनिक हैं, क्योंकि आषं ग्रन्थों में उन अर्थों में वे शब्द प्रयुक्त नहीं मिलते ॥ ३६ ॥

मन्त्रार्थ - हे अग्निदेव! तुम शत्रु की सेनाओं को पराजित करो, शत्रुओं को विदारित करो । हे दुनिवार! तुम शत्रुओं का तिरस्कार करते हुए यज्ञ करने वाले इस यजमान को धन - धान्य से समृद्ध कर दो || ३७ ॥ के अनुसार भाष्यसार -- याज्ञिक प्रक्रिया के अन्तर्गत कात्यायन श्रौतसूत्र ( १५/२/५ ) में उल्लिखित विनियोग ३७

पृष्ठ 344

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 344 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ० शुक्लयजुर्वेद संहिता [ अ ० ९ रातीरिति दुस्तरो ह्येष तदाहाभिमातीरपास्येति सपत्नो वा अभिमातिः सपत्नमपजहीत्येवैतदाह तरन्नरातीरिति दुष्टरस्तरन्न वर्चो धा यज्ञवाहसीति रक्षोभिर्नाड्राभिस्तरन्नरातीरिति सर्व १५ ह्येष पाप्मानं तरति तस्मादाह व्याचष्टे - पृतना युध इति । युधः साधु यजमाने दधदित्येवैतदाह ' ( श ० ५ | २ | ४ | १६ ) | मन्त्रं प्रतिपादमनूद्य । रक्षोभिर्नाष्ट्राभिर्दुष्टरोऽरातीस्तरन् संग्रामान् । सपत्नो वा अभिमातिः । सपत्नानपजय जहीत्येवार्थः पाप्मनस्तरति यज्ञवाहसि साधु यजमाने दधदित्येवाह मन्त्रः । सपत्नान् अध्यात्मपक्षे - हे अग्ने परमेश्वर, कामक्रोधादिपृतनाः सेनाः त्वं सहस्व दुष्टरः विनाशय सर्वैस्तैर्दुर्निवारः । अभिमातीः , अशक्यप्रति-विघ्नरूपान् अपास्य अपनुद । ननु मामेव तेऽभिभविष्यन्तीति चेन्न अरातीः लौकिकानाध्यात्मिकांश्च शत्रून् तरन् क्रियश्च । नहि शीतेनाग्निरन्धकारेण वा सविता प्रधृष्यो भवति मयि । भक्ते वर्चो ज्ञानलक्षणं तेजो भजनीयास्वाद-विनाशयन् यज्ञवाहसि अर्चनोपासनलक्षणस्य यज्ञस्य निर्वाहके लक्षणमन्नं वा, धाः धेहि । ' इत्याह तच्च यज्ञवाहसि साधु दयानन्दस्तु — ' यज्ञान् संगतान् राजधर्मादीन् वहन्ति यस्मिन् ' इत्यपि राज्ये तस्मिन् न युक्तम्, ' सपत्नो वा अभिमातिः ' यजमाने दधदिति श्रुतिविरुद्धमेव । ' अभिमातीरभिमानहर्षयुक्ताः ( श ० ५ | २ | ४ | १६ ) इति श्रुतिविरोधात् ॥ ३७ ॥

जुहोमि दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । उपशोर्वीर्येण वधायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः ॥ ३८ ॥

हत रक्षः स्वाहा ) का ग्रहण किया जाता है । शतपथ ब्राह्मण में ' अग्ने सहस्व ' इस ऋचा के द्वारा अग्नि से उल्मुक ( जलती लकड़ी याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । , क्रोध आदि की सेना को विनष्ट करें, अध्यात्मपक्ष में अर्थ इस प्रकार है - हे अग्नि परमेश्वर! काम सबके लिये अपराजेय तथा अकाट्य हैं । शीत से, शत्रुओं को निवारित करें । वे केवल मुझे ही पीड़ित करेंगे, आप उन आध्यात्मिक शत्रुओं को नष्ट करते हुए पूजा-अग्नि तथा अन्धकार से सूयं दबाये नहीं जा सकते । लौकिक तथा तथा सेव्य के आस्वादनरूपी अन्न को स्थापित करें । उपासनारूपी यज्ञ का सम्पादन करने वाले मुझ भक्त में ज्ञानात्मक तेज अर्थ श्रुतिवाक्यों से विरुद्ध है । स्वामी दयानन्द द्वारा निरूपित ' यज्ञवाहसि ' अर्थात् ' अच्छे यजमान शत्रु में ' ही इत्यादि अभिमाति है ' यह शतपथ श्रुति इससे ‘ अभिमातीः ' का ‘ अभिमान हर्षं से युक्त ' अर्थ करना भी अनुचित है, क्योंकि ' विरुद्ध है ॥ ३७ ॥

सविता देवता की आज्ञा मन्त्रार्थ - जिस देवता ने इस समस्त जगत् को अपने - अपने कर्म में प्रेरित किया है, उस से तुमको उपांशु नामक प्रथम प्रह के में वर्तमान मैं अश्विनीकुमारों के बाहुयुगल से, पूषा देवता के दोनों हाथों गया है । यह आहुति भली प्रकार पराक्रम से आहुति प्रदान करना हूँ । राक्षसकुल इस आहूति के प्रभाव से नष्ट करता हो हूँ । राक्षसों का और शत्रुओं का गृहीत हो । हे स्रुव! राक्षसों के वध के निमित्त तुमको मैं अग्नि में प्रक्षिप्त वध हो चुका है, ये सभी मारे गये हैं ॥ ३८ ॥

पृष्ठ 345

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 345 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३८ ] वेदार्थपारिजातभाष्यसहिता २ ९ १ ' देवस्य त्वेति जुहोति ' ( का ० श्री ० १५ २२६ ) | देवस्येति मन्त्रेण सुवस्थानपामार्गतण्डुलान् उल्मुक-मुपसमाधाय जुहुयात् प्रागुदग् वा गत्वा । देवस्य द्योतमानस्य सवितुर्जगदुत्पादयितुः परमेश्वरस्य प्रेरणे वर्तमानोऽहं अपामार्गहविः! त्वामश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गृह्णामि । उपांशोस्त्रीणि यजूंषि रक्षोघ्नदैवत्यानि । उपांशुर्नाम प्रथम ग्रहस्तस्य वीर्येण सामर्थ्येनाहं जुहोमि । अत एव रक्षो हतं हिसितं निहतम्, सुहुतं चैतद्धविर्भवतु । ' रक्षसां त्वेति त्रुवमपास्यति तां दिशं यस्यां जुहोति ' ( का ० श्र ० १५ २२७ ) । यस्यां दिशि होमं कुर्यात्, तां दिशं प्रति स्रुवं प्रक्षिपेदिति सूत्रार्थः । रक्षसां राक्षसानां वधाय विनाशाय हे स्रुव, त्वां प्रक्षिपामीति शेषः । ' अवधिष्म इत्यायन्त्यनपेक्षम् ' ( का ० श्री ० १५/२/७ ) । पश्चादनवलोकयन्त इमं मन्त्रमुच्चार्य अध्वर्खादयो देवयजनं प्रत्यागच्छन्ति । रक्षो राक्षसजाति वयमवधिष्म हतवन्तः । अमुमिति शत्रुनामग्रहणम्, असाविति च । यथा अमुं क्रूरकर्माणं हतवन्तो वयम्, असौ क्रूरकर्मा हतोऽस्माभिः । अत्र ब्राह्मणम् -'तदग्नि समाधाय जुहोति । देवस्य त्वा सवितुः प्रसवे उपा शोर्वीर्येण जुहोमीति यज्ञमुखं वा पशुर्यज्ञमुखेनैव तन्नाट्रा रक्षा ७ सि हन्ति हत रक्षः स्वाति तन्नाष्ट्रा रक्षाथ सि हन्ति ' ( श ० ५।२।४।१७ ) । हवनमद्य मन्त्रं विधत्ते -- जुहोति देवस्य त्वेति । उपांशुर्नाम यज्ञमुखं प्रथमो ग्रहः, तस्य वीर्येण जुहोति । तेन हवन रक्षो हतं नष्टं भवतु । स यदि पालाशः स्रुवो भवति । ब्रह्म वै पलाशो ब्रह्मणैवैतन्नाष्ट्रा रक्षा सि हन्ति. तो वो वै विकतो वज्रेणैवैतन्नाट्रा रक्षा सि हन्ति रक्षसां त्वा वधायेति तन्नाष्ट्रा रक्षा सि हन्ति ' ( ० ५ | २ | ४ | १८ ) । पालाशवैकङ्कतयोरन्यतरस्य स्रुवस्य क्षेपणं सार्थवादं विधत्ते - ब्रह्म वै पलाश इति । ' स यदि प्राडित्वा जुहोति । प्राञ्च सुत्रमस्यति यद्युदङित्वा जुहोत्युदञ्च १५ स्रुवमस्यत्यवधिष्म रक्ष इति तन्नाष्ट्रा रक्षासि हन्ति ' ( श ० ५ | २ | ४ | ११ ) । यद्यध्वर्युः प्राङ्मुखः पूर्वस्यां दिशि गत्वा जुहुयात्, तर्हि स्रुवं प्राञ्चं प्राग्दिकसम्बद्धमस्यति क्षिपति । उदङ्गत्वेत्यादावप्येवं योज्यम् । वनप्रदेशात्तन्निवर्तनं विधित्सुरादौ तन्मन्त्रं पठित्वा व्याचष्टे - अवधिष्मेति । अनेनापामार्गहोमेन रक्षोऽवधिमेति । ' अथाप्रतीक्षं पुनरायन्ति । सहैतेनापि प्रतिसरं कुर्वीत स यस्यां दिशि भवति तत्प्रतीत्य जुहोति प्रतीचीनफलो वा अपामार्गः स यो हास्मै तत्र किञ्चित्करोति तमेवैतत् प्रत्यग्धर्वति तस्य नामादिशे-दवधिमा मसौ हत इति तन्नाष्ट्रा रक्षा सि हन्ति ' ( श ० ५ | २ | ४ | २० ) । अप्रतीक्षमनपेक्ष्य प्रतिनिवर्तन्ते, एतेन अपामार्गहोमेनापि । न केवलं पञ्चवातीय होमेन, एतेनापि प्रतिसरं स्वरक्षामभिचार्यमाणोऽपामार्गहोमं कुर्यात् । हवने कचिद्विशेषं विधत्ते - स यस्यामिति । स अभिचारको यस्यां दिशि भवेत्, तां दिशं प्रतीत्य गत्वा जुहुयात् । प्रतीचीनफल इति । यतोऽपामार्गमञ्जर्यः प्रतीचीनफला भवन्ति, स्वात्मानं प्रतिगतैरवाङ्मुखैः फलैर्युक्ताः, अतो योऽभिचारकोऽस्मै यजमानाय पीडादिकं कुर्यात्, तमेवैतेनापामार्गहोमेन प्रतिमुखं धूर्वति हिनस्ति । तत्कृतोऽभिचारस्तमेव प्रतिनिवृत्य हन्तीत्यर्थः । स्पष्टमन्यत् । अध्यात्मपक्षे — हे भगवत्समर्पणीयहविः त्वामहं सवितुर्देवस्य प्रसवे प्रेरणे, अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गृह्णामि । उपांशोस्त्वदीय रश्मिसामीप्यवीर्येणाहं जुहोमि त्वयि स्वात्मसमर्पणं करोमि । तस्मादेव भाव्यसार - कात्यायन श्रौतसूत्र ( १५/२ / ६-७ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' देवस्य त्वा ' afuser के मन्त्र हवन, स्रुवप्रक्षेप तथा अध्वर्यु आदि के पुनरागमन इत्यादि कार्यों में विनियुक्त हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है - हे भगवान् के लिये समर्पित किये जाने वाले हविर्द्रव्य! मैं तुमको सविता देव की प्रेरणा से, अश्विनो देवों की भुजाओं से तथा पूषा देवता के हाथों से ग्रहण करता हूँ । तुम्हारे रश्मि - सामीप्य के

पृष्ठ 346

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 346 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० ९ विघ्नानां वधाय प्रसादलेशं रक्षो विघ्नकारक वस्तुजातं हतम् त्वभि हविरिदं स्वाहा समर्पितमस्तु वा वयं | रक्षसां नाशितवन्तः । असौ कामः क्रोधो शिरसि धारयामि । तेनैव रक्षोऽवधिष्म अनुं शत्रु कामं क्रोधं वा शत्रुर्हतोऽस्माभिः । सेनापतेः प्रसवे उपांशोः समीपस्थसेनायाः दयानन्दस्तु - ' हे राजन्, अहं स्वाहा सत्यक्रियया सवितुर्देवस्य वैद्यस्य हस्ताभ्यां रक्षसां वधाय त्वां सामर्थ्येन अश्विनोः सूर्यचन्द्रतुल्ययोः सभासेनापत्योर्बाहुभ्यां पूष्णो , तदपि श्रुतिविरुद्धमेव, श्रुतावुपांशुपदेन यज्ञ-जुहोमि गृह्णामि । यथा त्वया रक्षो हतम्, तथा वयमप्यवधिष्म ' इति पूर्वादिदिक्षु ग्रत्वा समाधाय तत्रापामार्ग-मुखात्मकस्य प्रथमग्रहस्य ग्रहणात् अन्वाहार्यपचनादुल्मुकमादाय एव नास्ति । अत एव स्वाहेत्यस्य सत्यक्रियेत्यप-तण्डुलहोमस्य विधानात् । तेनात्र सभा - सेनापत्योः प्रसङ्ग व्याख्यानमेव श्रुतिवचनविरोधात् ॥ ३८ ॥

सवि॒ता वा॑ वाना॑ सु॒वताम॒ग्निर्गृ॒हप॑तीनाएं सोम॒ वन॒स्पती॑नाम् । बृह॒स्पति॑र्वाच इन्द्रो ज्यैष्ठया॑य रुद्रः प॒शुभ्यो॑ मि॒त्रः स॒त्यो ८ वरु॑णो॒ धर्म॑पतीनाम् ॥ ३ ९ ॥ , ' उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा नामास्य । अष्टानां गृह्णाति देवसूहविषां मन्त्रे यथास्थानम् मध्येऽ-मातापित्रोश्च यस्याश्च जाते राजा भवति ' ( का ० श्र ० १५।४।१४-१६ पाणी ) कृत्वा यजमानबाहुं दक्षिणं टमेन वरुणाय धर्मपतय इति वारुणेन चरुणा चरित्वाह - स्रुचौ सव्ये यस्मिन् स्थाने अमुमिति सर्वनाम तत्र गृहीत्वा सविता त्वेति मन्त्रमाह । नामास्य यथास्थानं गृह्णीयात् । जातिग्रहणं जनपदोपलक्षणार्थम् । यस्मिन् नामग्रहणम् । यथास्थानं यजमानस्य मातापित्रोश्च नाम गृह्णीयात् । हो गईं । तुम्हारे प्रति यह हविर्द्रव्य बल से मैं तुम्हारे प्रति स्वात्मसमर्पण करता हूँ । इसी से विघ्नकारक वस्तुएँ नष्ट - क्रोधादि करता हूँ । इसी के द्वारा हमने काम समर्पित हो । विघ्नों के नाश के लिये यह प्रसादकण सिर पर धारण गया है । शत्रुओं को नष्ट किया है । यह काम अथवा क्रोधरूपी शत्रु हमारे द्वारा मार दिया यज्ञमुखात्मक स्वामी दयानन्द का अर्थं श्रुतिविरुद्ध होने के कारण अग्राह्य है । श्रुति में उपांशु पद के द्वारा स्थापित लेकर पूर्वादि दिशाओं में जाकर वहाँ उसे प्रथम ग्रह का ही ग्रहण है । अन्वाहार्यपचन अग्नि से प्रज्वलित समिधा सभा, सेनापति आदि का प्रसंग ही नहीं

करके उसमें चिचिडा और तण्डुल के हवन का विधान किया गया है । यहाँ विरुद्ध है ॥ ३८ ॥

है | स्वाहा शब्द का सत्यक्रिया अर्थ अपव्याख्यान ही है, क्योंकि यह श्रुतिवाक्य से के अधिपति बनने के मन्त्रार्थ - हे यजमान! जगत् के नियन्ता परमात्मा की आज्ञा से तुम सब तरह के ऐश्वर्य तुम्हें प्रेरणा दें । वनस्पतियों में लिये प्रेरणा प्राप्त करो । अग्निदेवता गृहस्थगण के उपास्यदेव गृहस्थों के आधिपत्य के के अधिपति लिये बृहस्पति देवता वाणी के प्रधान सोम देवता तुमको वनस्पतिविषयक आधिपत्य प्रदान करें । वाणी रक्षक ) रुद्र देवता पशुसमूह के आधिपत्य के लिये, इन्द्र देवता ज्येष्ठता - सर्वश्रेष्ठता के लिये, पशुपति ( पशुगणों के जीवों के धर्मरक्षक वरुण देवता तुमको धर्म के आधिपत्य के लिये, सत्यस्वरूप मित्र देवता सत्य व्यवहार के आधिपत्य के लिये और आधिपत्य के लिये प्रेरित करें ॥ ३ ९ ॥ अनुसार ' सविता त्वा ' भाष्यसार -- कात्यायन श्रौतसूत्र ( १५।४।१४ - १६ ) में उल्लिखित याज्ञिक विनियोग के

पृष्ठ 347

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 347 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३ ९ ] वेदार्थ पारिजातभाष्यसहिता २ ९ ३ जनपदे राजा भवति, तस्य च नाम गृह्णीयात् । यथा एष वः कुरवो राजा । कुतः? देशस्यानवस्थितत्वात् । नहि शास्त्र देशव्यवस्था, कुरुपाञ्चालजातीयैरेव राजसूयः कर्तव्य इति । अतिजगती यजमानदेवत्या । हे यजमान, त्वा त्वां यजमानं सविता प्रसविता सर्वप्रेरकः सवानां प्रसवानामाज्ञानामाधिपत्ये सुवतां प्रसुवतां प्रेरयतु, त्वामभ्यनुज्ञातुं सर्वप्राणिनामान्तरं करोतु वा, सर्वेषामाज्ञादानेऽधिकारी भवेत्यर्थः । अग्निर्देवः, गृहपतीनां गृहस्थानां तदुचितश्रौतस्मार्तकर्मणां चाधिपत्ये त्वां सुवताम् । सोमो देवो वनस्पतीनां वृक्षाणा-धपत्ये त्वां सुताम् । सर्वे गृहस्थाः सर्वे च वनस्पतयो वशंवदास्त्वदनुगुणाश्च भवन्त्वित्यर्थः । बृहस्पतिर्देवगुरुः, वाचे वागर्थं सुवतां पाण्डित्याय प्रेरयतु यद्वा षष्ठ्यर्थे चतुर्थी, वाचे वाचः परा - पश्यन्ती - मध्यमा - वैखरीलक्षणाया नामोपसर्गनिपाताख्यातलक्षणाया वा चतुर्विधाया आधिपत्ये सुवताम् वेदादिविविधवाङ्मयप्रपश्ये तव पूर्णं स्वातन्त्र्यमस्तु | वाग्देवता त्वदीयजिह्वाग्रे नरीनृत्यताम् । इन्द्रो देवो ज्यैष्ठ्याय ज्येष्ठभावाय सर्वोत्कर्षत्वाय त्वां सुवताम् । रुद्रो देवस्त्वां पशुभ्यः पश्वर्थं पश्वाधिपत्ये सुवताम् । मित्रो देवः सत्यः सत्याय सत्यवाक्याय सत्यं वदितुं त्वां सुवताम् । ' सुपां सुलुक् ' ( पा ० सू ० ७ १ / ३ ९ ) इत्यादिना चतुर्थ्याः स्वादेशः । वरुणो धर्मपतीनां धर्मपालकानामाधिपत्ये सुवताम् । सवित्रादयोऽष्टो देवसूहविषां देवतास्त्वां नानाधिपत्यानि ददत्विति समष्ट्यर्थः । सवित्रादयो विशिष्टा देवा ब्राह्मणे यजनीयत्वेनोक्ताः । ' द्वादशकपालं वाऽष्टकपालं वा पुरोडाशं निर्वपति सवित्रे सत्यप्रसवाय ' ( श ० ५।३।३।२ ) इत्यादिना सावित्रहविविधानम् । ' अथाग्नये गृहपतये अष्टाकपालं पुरोडाशं निर्वपति ' ( श ० ५ | ३ | ३ | ३ ), ' अथ सोमाय वनस्पतये श्यामाकं चरुं निर्वपति ' ( श ० ५।३३।४ ), ' अथ बृहस्पतये वाचे नैवारं चरुं निर्वपति ' ( श ० ५ | ३ | ३ | ५ ), ' अथेन्द्राय ज्येष्ठाय हायनानां ( संवत्सरपक्वानां रक्तशालीनाम् ) चरुं निर्वपति ' ( श ० ५ | ३ | ३ | ६ ), ' अथ रुद्राय पशुपतये रौद्रं गवेधुकं चरुं निर्वपति ' ( श ० ५ | ३ | ३ | ७ ) ' अथ मित्राय सत्याय नाम्बानां चरुं निर्वपति ' ( श ० ५।३।३३८ ), ' अथ वरुणाय धर्मप वारुणं यवमयं चरुं निर्वपति ' ( श ० ५ | ३ | ३२ ९ ), ' अथैनं दक्षिणे बाहावभिपद्य जपति । सविता त्वा सवाना, वरुणो धर्मपतीनाम् ' ( श ० ५ | ३ | ३ | ११ ) । एवं देवस्वां हविर्यागानन्तरं स्विष्टकृतः पूर्वमेनं यजमानं दक्षिणे बाहावभिपद्य गृहीत्वा जपत्यध्वर्युः । सर्वत्रैव श्रौतसूत्राणि श्रुतिमूलकान्येव । अध्यात्मपक्षे - आचार्यः साधकं शिष्यमभिषिच्याशीभिर्योजयति-- हे साधक, त्वा त्वां सविता देवः सर्वोत्पादयितृत्व गुणविशिष्टः परमेश्वरः सवानामैश्वर्याणामाधिपत्ये वशीकाराय सुवतां प्रेरयतु | अग्नि-ग्रणीत्वगुणविशिष्टः स गृहपतीनामाधिपत्ये त्वां सुवताम् । सोमः साम्बसदाशिवो वनस्पतीनामाधिपत्ये त्वां सुवताम् । बृहस्पतिः तन्नाम्ना प्रसिद्ध देवः, अथवा बृहत्या वेदलक्षणाया वाचोऽधिपतिः परमेश्वरः, इन्द्रः प्रसिद्धः परमैश्वर्यविशिष्टः परमेश्वरो वा रुद्रः रुतो रोगान् द्रावयतीति रुद्रः, अथवा रुतो द्रवन्ति पलायन्ते इस मन्त्र का पाठ अध्वर्यु करता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है | अध्यात्मपक्ष में अर्थ इस प्रकार है— गुरु अपने साधक शिष्य का अभिषेक करके उसको आशीर्वाद से संयुक्त करता है कि हे साधक, तुमको सर्वोत्पादयिता परमेश्वर ऐश्वर्यों के आधिपत्य, वशीकरण के लिये प्रेरणा दे । अग्रणीत्व आदि गुणों से ' युक्त वह तुमको गृहपतियों के आधिपत्य के लिये प्रेरणा दे । साम्ब सदाशिव तुमको वनस्पतियों के आधिपत्य के लिये प्रेरणा दे । वेदवाणी का पालक परमेश्वर परमैश्वर्ययुक्त, रोगों का नाश करने वाला, सब प्राणियों से स्नेह करने वाला,

पृष्ठ 348

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 348 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ४ शुक्लयजुर्वेद संहिता [ अ ० ९ देवो मोक्षार्थिभिव्रियमाणः यस्मात् सः, मित्रः सूर्यः सर्वभूतेषु मिद्यते स्निह्यते यः स परमेश्वरः, वरुणः प्रसिद्धी विभिराराधनैर्वा तुष्टाः । परमेश्वरो वा, सर्वे चैते देवा: स्वस्वाधिष्ठेयेषु तवाधिपत्यं वशीकारत्वं सम्पादयन्तु दयानन्दस्तु -- ' हे सभेश, यस्त्वं सवानामैश्वर्याणां सविता सूर्य इव प्रेरको गृहपतीनामुपकारकोऽग्निः बृहस्पतिवद् पावकतुल्यः, वनस्पतीनां सोमसदृशः, धर्मपालकानां वरुणः, शुभगुणश्रेष्ठ मित्र इव वाचे वेदवाण्यै तं त्वां धर्मात्मानं महाविद्वानिव ज्येष्ठतायै परमैश्वर्ययुक्ततुल्यो गवादिपशुभ्यो रुद्रतुल्यः शुद्धवायुतुल्योऽसि । सत्यवादिनं धर्मेण प्रजारक्षाया उपदेष्टा प्रेरयेत ' इति, तदपि यत्किचित्, मुख्यार्थत्यागगौणार्थाश्रयणाभ्याम् प्रसिद्धस्य देवस्य त्यागे तुल्यार्थतायोजनेऽपि सूर्यादिवत् प्रसिद्धपदार्थस्यैवोपमानत्वं सम्भवति । वरुणपदेन श्रेष्ठगुणयुक्तस्य कस्योपमानत्वम् । सख्यर्थमित्रशब्दस्य नपुंसकत्वं प्रसिद्धम् । एवं बृहस्पतिर्महाविद्वानित्यपि नोपमानमर्हति, तथैव श्रेष्ठतायै परमैश्वर्ययुक्ततुल्य इत्यपि न प्रसिद्धम् ॥ ३ ९ ॥ इ॒मं देवा असय॒श्न॑ सुव॑ध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठया॑य॒ महि॑ते॒ जन॑रा॒ज्या॒येन्द्र॑स्ये-न्द्रि॒याय॑ इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्ये पत्रम॒स्य॑ वि॒श एष वोऽमी राजा सोमोऽस्माकै ब्राह्मणानाथ राजा ॥ ४० ॥

इति माध्यन्विनसंहितायां नवमोऽध्यायः ॥ अत्यष्टिर्यजमानदेवत्या । हे देवाः सवित्रादयः, इमं राजानम् असपत्नं शत्रुकण्टकशून्यं सुवध्वं तच्च प्रेरयध्वम् तद्राज्यं । महते क्षत्राय महत्यै क्षत्रपदव्यं, महते ज्यैष्ठयाय ज्येष्ठभावाय, महते जानराज्याय जनानामिदं जानं च जानराज्यं तस्मै जनानामाधिपत्याय । यद्यपि जनताकर्तृकं राज्यमपि जानराज्यं सम्भवति, इन्द्रियाय परन्तु राजसूय- वीर्याय प्रकरणे राजसूयफलत्वेन क्षत्रत्वजातिविशिष्टस्य व्यक्तिविशेषस्यैव राज्यं प्रकृतम् । आत्मन मोक्षार्थी जनों के द्वारा वांछित परमेश्वर - ये सभी अपने - अपने अधिष्ठानों में तुम्हारा आधिपत्य हविद्रव्यों से अथवा आराधना से सन्तुष्ट होकर सम्पन्न करें । है । तुल्यार्थता स्वामी दयानन्द की व्याख्या मुख्य अर्थ के परित्याग तथा गौण अर्थ के अगीकार । के वरुण कारण शब्द अग्राह्य से प्रसिद्ध देवता का के निरूपण में भी सूर्य आदि के समान प्रसिद्ध पदार्थो की ही उपमानता संभव होती है तो नपुंसक लिंग का ही प्रसिद्ध है । अर्थ छोड़ने पर श्रेष्ठ गुण से युक्त कौन उपमान होगा? सखा अर्थ वाला मित्र शब्द ' परमैश्वर्य युक्त से तुल्य ' यह भी इसी प्रकार बृहस्पति महाविद्वान् है, यह भी उपमान नहीं हो सकता । श्रेष्ठता के लिये प्रसिद्ध नहीं है ॥ ३ ९ ॥ मन्त्रार्थ --- सुन्दर हवि को स्वीकार करने वाले हे देवगणों! तुम अमुक महाशय के पुत्र, अमुक देवी के के सामथ्यं पुत्र इस के यजमान को महान् क्षत्रधर्म के निमित्त महती ज्येष्ठता के निमित्त महान् जनों के आधिपत्य का में राजा आत्मज्ञान बना दो । हे अमुक निमित्त शत्रुशून्य बना कर प्रेरित करो । अपने प्रसाद से इस यजमान को अमुक जाति देवता ही है ॥ ४० ॥

जाति के प्रजागण! यह अमुक नाम का क्षत्रिय तुम्हारा राजा हो, हम ब्राह्मणों का राजा तो सोम ब्राह्मण में भाष्यसार - याज्ञिक प्रक्रिया के अन्तर्गत ' इमं देवाः ' यह मन्त्र भी पाठ के लिये विनियुक्त है । शतपथ

पृष्ठ 349

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 349 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ४० ] वेदार्थ पारिजात भाष्यसहिता २ ९ ५ आत्मज्ञान इमं यजमानं सुवध्वं प्रेरयध्वम् । अमुष्य पुत्रम् अत्र षष्ठ्यन्तम् अमुष्येति षष्ठ्यन्तं पितुर्नाम ग्राह्यम् । तथा अमुष्यं इति षष्ठ्यर्थे चतुर्थी । अमुष्या देव्याः पुत्रम् | अमुष्या इति यजमानमातुर्नाम ग्रहणम् । अस्यै विशः कौरव्या विशः प्रजायाः, अधिपतिरिति शेषः । अस्या इति षष्ठ्यन्तं नाम ग्राह्यम् । अमी इति प्रथमान्तं देशनाम ग्राह्यम् । अमी हे कुरवः पञ्चालाः, वो युष्माकमेष खदिरवर्मा राजाऽस्तु । अस्माकं ब्राह्मणानां सोमश्चन्द्रो वल्लीरूपो वा सोमो राजाऽस्तु । ब्राह्मणेतरेषामेव राजा प्रभुः कश्चिद् भवति । ब्राह्मणानां तु सोमो राजा भवति । यद्वा हे सवित्रादयो देवाः, यूयं यजमानमसपत्नं सुबध्वं निःसपत्नो भूयादित्यभ्यनुजानीत । किमर्थम्? महते प्रभूताय क्षत्रार्यं क्षत्रियधर्माय महते ज्यैष्ठयाय । अतः पूर्वं पश्चाच्च तत्सदृशो नास्तीत्ये-तदर्थम् । शेषं पूर्ववत् । → अत्र ब्राह्मणम् - ‘ इमं देवाः । असपत्न सुवध्वमितीमं देवा अभ्रातृव्य सुवध्वमित्येवैतदाह महते क्षत्राय महते ज्यैष्ठ्यायेति नात्र तिरोहितमिवास्ति महते जानराज्यायेति महते जनानाख् राज्यायेत्येवैतदाहेन्द्रस्येन्द्रियाय वीर्यायेत्येवैतदाह यदाहेन्द्रस्येन्द्रियायेतीमममुष्य पुत्रममुष्यै पुत्रमिति तद्यदेवास्य जन्म तत एवैतदाहास्यै विश इति यस्य विशो राजा भवत्येष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना राजेति तदस्मा इद ७, सर्वमाद्यं करोति ब्राह्मणमेवापोद्धरति तस्माद् ब्राह्मणोऽनाद्यः सोमराजा हि भवति ' ( श ० ५ | ३ | ३ | १२ ) । पूर्वमन्त्रे परोक्षवदुक्तमिह तु प्रत्यक्षवदाह — हे सवित्रादयो देवाः, इमं यजमानं शत्रुरहितं सुवध्वमनुजानीत । तथा महते क्षत्राय अतिप्रभूताय क्षत्रियकुलाय, महते ज्यैष्ठयाय अप्रतिहतनियमन सामर्थ्याय, महते जानराज्याय जनसम्बन्धि यद्राज्यं तत्र सागर-पर्यन्तभूमिविषयत्वाद् महते सार्वभौमत्वाय, इन्द्रसम्बन्धिन इन्द्रियाय वीर्याय एतन्नामानं यजमानम् अमुष्य पितुः पुत्रम् अमुष्या मातुः पुत्रं सुवध्वमित्यनुषज्यते । अस्यै अस्या विशः प्रजाया राजा एष यजमान इत्यर्थः । प्रजा अपि सम्बोध्याः, अमी इति सम्बोधनप्रथमा बहुवचनान्तं गृह्णीयादित्यर्थः । यथा - - ' एष वो भरता राजे-त्येष वः कुरवो राजेति कौरव्यम्, एष वः पञ्चाला राजेति पाञ्चालम्, एष वः कुरुपञ्चाला राजेति कुरुपाञ्चालमेष वो जनता राजेत्यन्यान् राज्ञः ' ( आप ० श्र ० १ | १२ | ७ ) इत्यापस्तम्बः । कात्यायनेन तु -- - ' यस्याश्च जाते राजा भवति, देशस्थानवस्थितत्वात् ' ( का ० श्र ० १५।४।१६-१७ ) । हे प्रजाः, वो युष्माकमेष राजा, एनं स्वामिनं सेवध्वम् । ब्राह्मणानामस्माकं सोमो राजा न क्षत्रिय इति सायणाचार्यः । मन्त्रं भागशोऽनूद्य व्याचष्टे श्रुतिः -इममिति भ्रातृव्यः शत्रुः, ' भ्रातुर्व्यन् सपत्ने ' ( पा ० सू ० ४। १ । १४४ - १४५ ) । अमुष्य अमुष्या इत्यनयोः स्थाने तस्य मातापित्रोर्नामग्रहणं कार्यम् । अस्मै राज्ञे इदं दृश्यमानं सर्वं ब्राह्मणव्यतिरिक्तमाद्यं भोग्यं करोति । ब्राह्मणजातिः सोमस्वामित्वेन पृथक्कृता । तस्माद् ब्राह्मणः क्षत्रियेण नाद्यः, हि यस्माद् ब्राह्मणः सोमराजा सोमो राजा यस्य स सोमराजा, समासान्तविध्यभावः । अध्यात्मपक्षे - आचार्यः शिष्यं स्वाराज्ये ब्रह्मात्मनाऽवस्थानमभिषिच्य वक्ति - हे देवाः! इमं प्रत्यग्ब्रह्मात्म-क्यसाक्षात्कारेण ब्रह्मात्मभावापन्नमसपत्नं सुवध्वमनुजानीत, अद्वितीयात्मबोधेन द्वैतनिवृत्त्या सपत्नासम्भवात् । किमर्थम्? महते क्षत्राय क्षतात् त्राणाय महते प्रभूताय ज्यैष्ठ्याय सर्वज्येष्ठब्रह्मरूपत्वात्, महते जानराज्याय महते या विनियोग के अनुकूल मन्त्रार्थं उपदिष्ट है । बौधायन तथा आपस्तम्ब सूत्रों में मन्त्र के सर्वनाम पदों के स्थान पर स्थानादि का उल्लेख करने का विधान किया गया है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - आचार्य अपने शिष्य को ब्रह्मात्मभाव में प्रतिष्ठित तथा अभिषिक्त करके कहता है कि हे देवगण, इसको प्रत्यग् ब्रह्मात्मतत्त्व के ऐक्य के साक्षात्कार के द्वारा ब्रह्मात्मभाव में अवस्थित अपना ही स्वरूप मानें । अद्वितीय आत्मबोष के द्वारा द्वैतभाव के निवृत्त हो जाने से परत्व की सम्भावना समाप्त हो गई है । महान् हानि से

पृष्ठ 350

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 350 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ६ शुक्लयजुर्वेदसंहिता [ अ ० ९ जनेषु राज्याय स्वात्मरूपेण दीप्यमानाय इन्द्रस्य परमैश्वर्योपेतस्य परमात्मन इन्द्रियाय सामर्थ्यायाऽबाधितचिद्रपाय अमुष्य व्यावहारिकस्य पितुः पुत्राय परमात्मनो वा पुत्राय, ' अमृतस्य पुत्रा: ' ( ऋ ० सं ० १० | १३ | १ ) इति मन्त्रवर्णा । अमुष्या मातुः पुत्राय प्रकृतेर्वा पुत्राय पुत्ररूपेण प्रतायमानाय साम्प्रतं तद्वाधने ब्रह्मभावान्नाय अस्यै विशः सर्वस्यैव दृश्यस्य एष सर्वाधिष्ठानभूतो राजा नियामक: । हे अमी चेतनाचेतनात्मकाः पदार्थाः, वो युष्माकमयं राजा अधिष्ठानभूतत्वान्नियामकः, सर्वस्याधिष्ठानसत्ताधीनसत्ताकत्वात् । अस्माकं ब्राह्मणानां ब्रह्मविदा गुरूणां तु सोमः साम्बशिवो भूत्वा राजा भवति । संन्यासे गुरुरपि ब्रह्मभावापन्नं शिष्यं परमेश्वररूपेण प्रणमति । दयानन्दस्तु ' हे प्रजास्था देवा धार्मिका विद्वांसः, य एष सोमः सोमतुल्यः प्रजासु प्रियो वो युष्माकं क्षत्रियादीनामस्माकं च इमं ब्राह्मणानां राजा ये चामी परोक्षं वर्तमानास्तेषां च राजा तममुष्योत्तमपुरुषस्य पुत्रम् अमुष्यै विद्यादिगुणैः श्रेष्ठाया विदुष्याः पुत्रम् अस्यै विश अस्याः प्रजाया इमं महागुणैर्युक्तं क्षत्रियाणां पालनाय महते ज्येष्ठाय प्रशंसायोग्याय धार्मिकजनानां राज्यकरणाय इन्द्रस्य परमैश्वर्ययुक्तस्य इन्द्रियाय धनाय असपत्नम् ' इति, तच्च श्रुतिविरुद्धत्वादुपेक्ष्यमेव पूर्वोक्ते ब्राह्मणे ' ब्राह्मणः सोमराजा ' इत्यादिभिर्ब्राह्मणातिरिक्तस्यैव तदाद्य-त्वोक्तेः । किन्तु प्रकृते न प्रजास्था विद्वांस एव देवा उक्ताः किन्तु सवित्रे सत्यप्रसवाय, अग्नये गृहपतये, सोमाय वनस्पतये, रुद्राय पशुपतये, मित्राय सत्याय वरुणाय धर्मपतय इति पूर्वोद्धृतेषु ब्राह्मणेषु सवित्रादयो

मनुष्य भिन्ना देवजातीया एव देवा उक्ताः । नास्तिक्यादेव तदनादरः ॥ ४० ॥

इति वेदार्थपारिजात भाष्यमण्डितायां शुक्लयजुर्वेद माध्यन्दिनसंहितायां नवमोऽध्यायः ॥ त्राण के लिये, महान् सर्वज्येष्ठ ब्रह्मरूपता के लिये, महान् जनों में स्वात्मस्वरूप से विद्योतित होने के लिये, परमैश्वर्य से युक्त परमात्मा के सामथ्य के लिये, अबाधित चिद्रूप के लिये इस परमात्मा के पुत्र के लिये, इस प्रकृतिरूपिणी माता के पुत्र के लिये तथा सम्प्रति उसके बाध के द्वारा ब्रह्मभावापन्न हुए इसके लिये अनुमति करे । सभी दृश्य जगत् का यह सर्वाधिष्ठानभूत नियामक है । हे चेतन - अचेतन पदार्थों! तुम्हारा यह नियामक है । हम ब्रह्मविद् गुरुओं का तो शिवात्मक होकर राजा होता है । संन्यासाश्रम में गुरु भी ब्रह्मभाव को प्राप्त शिष्य को प्रणाम करता है । स्वामी दयानन्द का अर्थं श्रुति से विरुद्ध होने के कारण उपेक्षा के योग्य है । इस मन्त्र के प्रसंग में प्रजा में स्थित विद्वान ही देवता नहीं कहे गये हैं, किन्तु सत्यप्रसव सविता, गृहपति अग्नि, वनस्पति सोम, पशुपति रुद्र, सत्यस्वरूप मित्र, धर्मपति वरुण - इत्यादि ब्राह्मण वाक्यों में सविता आदि मनुष्य से भिन्न देवजातीय देवता ही कहे गये हैं । उनका अनादर तो आस्तिकता के विपरीत है ॥ ४० ॥