वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 351–360
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 351–360
पृष्ठ 351
पाठ पढ़ें पाठ छिपाएँ
दशमोऽध्यायः अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्वचितांनाः । याभि॑मि॒त्रावरु॑णाव॒भ्यषिञ्चन् II याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥ १ ॥
नवमेऽध्याये वाजपेयराजसूयसम्बन्धि कियदपि कर्मोक्तम् । दशमेऽभिषेकार्थं जलादानादिराजसूयशेषः सौत्रामणिविशेषश्चोच्यते । तत्र - ' इडान्तेऽपो गृह्णाति, यूपमुत्तरेण नैमित्तिकीरसम्भवात् गत्वेतराः पृथक्-पात्रेष्वौदुम्बरेषु ' ( का ० श्र ० १५।४।२१-२३ ), ' सरस्वतीगृह्णात्यपो देवा इति ' ( का ० श्रौ ० १५।४ । ३४ ) । इडान्तग्रहणं देवसूहविषां शेषकार्योपलक्षणार्थम् । तेन देवसूहविषां भागपरिहरणान्ते कृते वक्ष्यमाणा अभिषेकार्था अपो वक्ष्यमाणप्रकारेण गृह्णीयात् । या आपो निमित्तेनातपवर्षणादिना प्राप्यन्ते ता नैमित्तिक्यः । तादृशीरपो राजसूयारम्भात् प्रागेव सम्पाद्येदानीं यूपमुत्तरेण गृह्णीयात् । कुतः? इदानीमातपवर्षणादेर्निमित्तस्यासम्भवात् । इतरा अनैमित्तिकीरपः प्रति इदानीमेव गत्वा ता गृह्णामीति । उदुम्बरवृक्षनिर्मितेषु भिन्नभिन्नपात्रेषु ता ग्रहीतव्याः | सरस्वतीनद्युद्भवा अपः प्रथमं गृहीयात् अपो देवा इति मन्त्रेण । वरुणस्यार्षम् । प्राक् चरक-सौत्रामण्या अब्देवत्या त्रिष्टुप् । देवा इन्द्रादयो या अपो मधुमती मधुरस्वादोदकाः, ऊर्जस्वतीविशिष्टान्नरसवतीः, राजस्त्रः, राज्ञः सूयन्ते जनयन्ति यास्ता राजोत्पादिकाः । चितानाः " चेतयमानाः चेतनदेवतायुक्तत्वात् परिदृष्टकारिणीः, अपः अगृभ्णन् गृहीतवन्तः । ता एवापः पुनवशिनष्टि - याभिरद्भिर्देवा मित्रावरुणावभ्यषिञ्चन् तयोरभिषेकं कृतवन्तः, याभिरद्भिर्देवा इन्द्रदेवमरातीः शत्रून् अदनवतीः शत्रुसेना वा अत्यनयन् अतीत्य नीतवन्त इन्द्रशत्रून् अत्यक्रामितवन्तः, ' छन्दसि परेऽपि ' ( पा ० सू ० ११४।८१ ) इत्येतेरुपसर्गस्य क्रियापदात् परत्वम् । ता अपो गृह्णामीति शेषः । अत्र ब्राह्मणम् -'स वा अपः संभरति । तद्यदपः संभरति वीर्यं वा आपो वीर्यमेवैतद्रसमपा ७ संभरति ' ( ० ५ | ३ | ४ १ १ ) | यजमानाभिषेकार्थं सप्तदशसंख्याकानामपां संभरणं चतुर्थब्राह्मणप्रोक्तम् । आतपवर्ण्याद्या-न्युदकानि यूपस्योत्तरप्रदेशे निधाय गृह्णीयात् । इतराः सम्भविनीरपस्तु तत्र तत्र गत्वा गृह्णीयात् । तदिदमप्-संभरणं विधत्ते -- स का अप इति । उदकसंभरणं वीर्यात्मना प्रशंसति - वीर्यं वा आप इति । अपां वीर्यरूपं रसमेव संभृतवान् भवति । ' औदुम्बरे पात्रे | अन्नं वा ऊर्गुदुम्बर ऊर्जाऽन्नाद्यस्यावरुद्धयै तस्मादौदुम्बरे पात्रे ' ( श ० ५ | २ | ४२ ) । पात्रविशेषं विधत्ते - औदुम्बर इति । पात्र इति जातावेकवचनम् । सर्वाणि सप्तदश पात्राण्यौ-दुम्बराणि भवन्ति । औदुम्बरत्वमन्नाव रोधकत्वेन प्रशंसति - अन्नं वा इति । मन्त्रार्थ- - इन्द्र आदि देवताओं ने मधुर स्वाद से युक्त, विशिष्ट अन्नरस से युक्त, राज्याभिषेक करने जल वाले से, विशिष्ट ज्ञान के सम्पादक जिस जल को ग्रहण किया, मित्रावरुण देवताओं ने शत्रुओं का तिरस्कार कर जिस इन्द्र का राज्याभिषेक किया, उस जल को मैं ग्रहण करता हूँ ॥ १ ॥
अध्याय राजसूय भाष्यसार - नवम अध्याय में राजसूय यज्ञ से सम्बद्ध कुछ कमं प्रतिपादित किये गये हैं । दशम यज्ञ के अवशिष्ट कर्म तथा सौत्रामणी यज्ञ के कुछ विशिष्ट कर्म उल्लिखित किये जाते हैं । कात्यायन श्रौतसूत्र ३८
पृष्ठ 352
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ शुक्लयजुर्वेद संहिता [ अ ० १० ' स सारस्वतीरेव प्रथमं गृह्णाति । अपो देवा मधुमती र गृभ्णन्नित्यपो देवा रसवती र गृह्णन्नित्ये-वैतदाहोर्जस्वती राजस्वचिताना इति रसवतीरित्येवैतदाह यदाहोर्जस्वतीरिति राजस्वश्चिताना इति याः प्रज्ञाता राजस्व इत्येवैतदाह याभिर्मित्रावरुणावभ्यषिञ्चन्नित्येताभिहि मित्रावरुणावभ्यषिञ्चन् याभिरिन्द्रमनयन्नत्य-रातोरित्येताभिर्हीन्द्रं नाष्ट्रा रक्षास्यत्यनयंस्ताभिरभिषिञ्चति वाग् वै सरस्वती वाचैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत् सम्भरति ' ( श ० ५ | ३ | ४ | ३ ) | जलसंभरणे क्रमं विधत्ते - सारस्वतीरिति । सरस्वत्यां नद्यां भवा अपः प्रथमं गृह्णीयात् । एवशब्दोऽन्ययोगव्यवच्छेदार्थः । तत्र मन्त्रं विधत्ते - अपो देवा इति । मधुमतीः मधुररसवतीः । ऊर्जस्वती: विशिष्टान्नरसवतीः । राजस्वः राजानं सुवते जनयन्तीति राजसुवः, छान्दस उकारलोपः । चितानाः चेतयन्तेऽनुजानन्तीति चिताना देवतात्वेन चेतयमानाः, अपः उदकानि देवा अगृह्णन्, अत्यनयन् अतिक्रम्य नीतवन्तः । मन्त्रं व्याचष्टे - अपो देवा इति । चिताना इत्यस्य प्रज्ञाता इत्यर्थः । शेषं स्पष्टम् । एतासामभिषेकार्थत्वं प्रशंसति - याभिर्मित्रावरुणाविति । यस्या आपो गृह्यन्ते, तां सरस्वतीं नदीं वागात्मना प्रशंसति वाग् वै सरस्वतीति । सारस्वतीभिरद्भिरभिषेककरणेन वाचैवाभिषेकं कृतवान् भवति । एता वा एक ' सारस्वत्य आप एवं सारस्वतीरपो गृहीत्वा षोडशापो गृह्णीयात् । अध्यात्मपक्षे -- अभिषेकोपयोगिनीरपो विशिनष्टि - अपो देवा इति । याभिर्देवाः पूर्वकाले मित्रावरुणा-वभिषिक्तवन्तः, याभिश्च इन्द्रं शत्रूनतिक्रामितवन्तः ता मधुररसवतीरपोऽभिषेकार्थं गृह्णामीत्येव युक्तम्, पूर्णाभिषेकातासामुपयोगदर्शनात् । शेषं पूर्ववत् । दयानन्दस्तु - ' हे मनुष्याः, यूयं विपश्चितो देवा याभिः क्रियाभिर्मित्रावरुणौ प्राणोदानौ ' प्राणोदानौ वै मित्रावरुणौ ' ( श ० १ | ८ | ३ | १२ ), अभ्यषिञ्चन् अभिषिञ्चन्ति, याभिरिन्द्रं स्तनयित्नुं प्राप्नुवन्ति, अरातीः शत्रूंश्च अनयन् जयन्ति, ताभिर्मधुमतीः प्रशस्तमधुरादिगुणयुक्ताः, ऊर्जस्वतीः बलपराक्रमप्रदाः, राजस्वो राजजनिका अपो जलानि प्राणान् वा अगृभ्णन् गृह्णीत ' इति, तदपि यत्किश्चित् याभिः क्रियाभिः प्राणोदानौ सिचन्ति, याभिश्चेन्द्रं शत्रून् जयन्ति तासामनिरूपणात्, ताभिश्च माधुर्यादिगुणविशिष्टा अपः प्राणांश्च कथङ्कारं गृह्णीयुरित्यस्याप्य निरूपणात् । किञ्च मन्त्रे ताभिरिति पदस्याभावात् ता मधुमतीरपो गृह्णीयाद् याभिरद्भि-रित्येव युक्तम् ॥ १ ॥
( १५०४।२१ - २३, ३४ ) में निर्दिष्ट याज्ञिक विनियोग के अनुसार ' अपो देवा: ' इस ऋचा से नदी के जल का ग्रहण किया जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है । मन्त्रार्थ इस प्रकार है - इन्द्र आदि देवताओं ने जिन मधुर सुस्वादु रसवाली, राजोत्पादक, चेतनात्मिका जलधाराओं को ग्रहण किया था, जिनके द्वारा देवों ने मित्रावरुणों का अभिषेक किया था तथा जिनके द्वारा देवगणों ने इन्द्रदेव को शत्रुसेनाओं से अतिक्रान्त किया था, उन जलधाराओं को मैं ग्रहण करता हूँ । अध्यात्मपक्ष में भी ' जिन जलों के द्वारा पूर्व काल देवों ने मित्रावरुणों को अभिषिक्त किया था और जिनके द्वारा इन्द्र को शत्रुओं से अतिक्रान्त किया था, उन मधुर रसवान् जलों को अभिषेक के लिये ग्रहण करता हूँ ' यह अर्थ ही उपयुक्त है । पूर्णाभिषेक आदि कर्मों में इसका उपयोग दृष्टिगोचर होता है । स्वामी दयानन्द द्वारा निरूपित अर्थ अग्राह्य है, क्योंकि जिन क्रियाओं के द्वारा प्राण तथा उदान दोनों का अभिषेक करते हैं और जिनके द्वारा इन्द्र को शत्रुओं से जिताते हैं, उनका यहाँ कोई निरूपण नहीं किया गया है । उनके द्वारा माधुर्य आदि गुणों से युक्त जल तथा प्राण कैसे ग्रहण करें, इसका भी निरूपण नहीं हो सका है । मन्त्र में ' ताभि: ' पद न होने के कारण ' उन जलधाराओं का ग्रहण करें, जिनके द्वारा इस प्रकार व्याख्या करना ही उचित है ॥ १ ॥
पृष्ठ 353
पाठ पढ़ें पाठ छिपाएँ
म ० २ ] वेदार्थपारिजात भाष्यसहिता २ ९९ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र्दा राष्ट्रं मे देहि स्वाहा॒ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्रदा राष्ट्रम॒मुष्मै देहि वृषसेनोऽसि राष्ट्रदा राष्ट्रं मे॑ देहि स्वाहा॑ वृषसेनोऽसि राष्ट्रदा राष्ट्रममुष्मै देहि ॥ २ ॥
II अनेन मन्त्रेण सारस्वतीरपो गृहीत्वाऽनन्तरं हुत्वा षोडशापो गृह्यन्ते । ' जुहोत्युत्तरासु चतुर्गृहीतानि वृष्ण ऊर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति ' ( का ० श्रौ ० १५।४।३५ ), ' अवगाह्यावगाढात् पशोः पुरुषाद्वा पूर्वापरा ऊर्मी: ' ( का ० श्री ० १५।४।२४ ) । सारस्वतीरप आदाय उत्तरासु षोडशस्वप्सु वृष्णा ऊर्मिरित्यादिभिः स्वाहान्तैः पूर्वपूर्वमन्त्रैश्चतुर्गृहीतान्याज्यानि गृह्यमाणास्वप्सु जुहुयात् । उत्तरैः स्वाहाहीनै-मन्त्रस्ताः क्रमेण गृह्णाति । उत्तरमन्त्रेषु ' अमुष्मै ' इति पदस्थाने यजमानस्य चतुर्थ्यन्तं नाम ग्राह्यम् । वृष्ण ऊर्मिरित्यादयो विश्वसृजः स्थेत्यन्ता मन्त्राः संहितायां द्विशः पठिताः । तेषां पूर्वः पूर्वः स्वाहान्तः, तेनाज्यहोमः । उत्तर उत्तरः स्वाहाहीनः, तेनापामादानम् । अध्वर्युस्तत्र जले प्रविश्य एकं पशुं पुरुषं वा प्रवेश्य तत्र जले प्रविष्टात् पशोः पुरुषाद्वायौ पूर्वापरी कल्लोलौ तौ हुत्वा गृह्णाति । वृष्ण ऊर्मिरसीत्यादीनि आप: स्वराज इत्यन्तानि यजूंषि लिङ्गोक्तदेवत्यानि । हे कल्लोल! त्वं वृष्णो वर्षितुः सेतुः सम्बन्धी ऊर्मिः कल्लोलो भवसि राष्ट्रदा राष्ट्रं जनपदं ददातीति राष्ट्रदाः स्वभावत एव देशप्रदो भवसि अतो राष्ट्रं मे मह्यं देहि स्वाहा तुभ्यमिदं हविर्दत्त-मस्तु | एवं हुत्वाऽथ गृह्णाति वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहीति मन्त्रेण । अमुष्मै इति स्थाने चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । तथैवोपरितना अपि मन्त्रा व्याख्येयाः । अपरोमिं गृह्णाति वृषसेनोऽसि, वृषा सेचनसमर्या सेना जलराशिरूना यस्य स वृषसेनः । यद्वा सेनो नाम संहतिः, वर्षणशीलजलसङ्घो भवसीति । राष्ट्रदा राष्ट्रं मे देहि स्वाहा इत्याज्यहोमः । वृषसेनोऽसीत्यादिनापोग्रहणम् । शेषं पूर्ववत् । सर्वमेतद् ब्राह्मणसम्मतमेव । तथा च ब्राह्मणम् – ' अथाध्वर्युश्चतुर्गृहीतमाज्यं गृहीत्वापोऽभ्यवैति तद्या ऊर्मी व्यर्दतः पशौ वा पुरुषे वाऽभ्यवेते तो गृह्णाति ' ( श ० ५ | ३ | ४ ४ ) । तत्र प्रथममूमिद्वयस्य ग्रहणं विधत्ते - अथाध्वर्युरिति । चतुर्गृहीते-नाज्येनापो वक्ष्यमाणा अभिलक्ष्य अवैति गच्छतीति सर्वशेषः । तत् तत्र नद्यां पशुपुरुषयोरन्यतरस्मिन् अभ्यवेते निमग्ने सति यौ ऊर्मी व्यर्दतो विविधतया पूर्वापरीभावेन गच्छतः, तौ गृह्णीयात् । स यः प्रादर्दति । तं गृह्णाति वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहीति ॥ अथ यः प्रत्यङ्ङ्गदर्दति ' ' ' ' मन्त्रार्थ - हे जलकल्लोल! तुम सेचन करने वाले मनुष्य सम्बन्धी तरंग हो, स्वभाव से ही राष्ट्र - सम्पत्ति को देने वाले हो । मुझे तुम राष्ट्र का अधिपति बनाओ । तुम्हारी प्रसन्नता के लिये यह आहुति में समर्पित करता हूँ । है कल्लोल! तुम अमुक यजमान को राज्य प्रदान करो । हे वृषसेन! तुम सेचनसमर्थ जल की तरंग हो, मुझे राष्ट्र प्रदान करो । यह आहुति तुमको समर्पित है । हे वृषसेन! तुम राष्ट्र के दाता हो, अमुक यजमान को इसका अधिपति बनाओ ॥ २ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( १५/४/३५, २४ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार इस afuser के मन्त्रों से जल का ग्रहण तथा चतुर्गृहीत आज्य का हवन किया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है । मन्त्रार्थ इस प्रकार है - हे जलदेवता, तुम वर्षणकर्ता से सम्बद्ध कल्लोल हो, स्वभावतः ही देश के प्रदानकर्ता हो, अतः मुझे राष्ट्र प्रदान करो । तुम्हारे लिये हवि प्रदान हो । इसी प्रकार इस यजमान के लिये राष्ट्र प्रदान करो । तुम सिचन
पृष्ठ 354
पाठ पढ़ें पाठ छिपाएँ
३०० शुक्लयजुर्वेद संहिता [ अ ० १० राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चति वीर्यं वा एतदपामुदर्दति पशौ वा पुरुषे वाऽभ्यवेते वीर्येणैवैनमेतदभि-नित्येता वा एका आपस्ता एवैतत् सम्भरति ' ( श ० ४ | ३ | ४ | ५-६ ) । तत्रोमिद्वयस्यानियमेन समस्य वा ग्रहणे प्राप्ते क्रमं विधत्ते- - स यः प्राङिति । य ऊर्मिः प्राङ्मुख उद्गच्छेत् तं गृह्णीयात् । हवनमन्त्रं ग्रहणमन्त्रं च विधत्ते— वृष्ण ऊर्मिरसीति । स्वाहान्तो हवनमन्त्रः, द्वितीयो ग्रहणमन्त्रः । मन्त्रस्तु व्याख्यात एव । ऊर्मिद्वयं जलवीर्यात्मना प्रशंसति -- वीर्यं वा इति । उभयोरप्यूयोरेकत्वेन परिगणनमाह एता वा एका आप इति । अध्यात्मपक्षे – राजसूयतदङ्गोपाङ्गरूपेणाविर्भूतस्य ब्रह्मण एवाभिषेकार्थं कल्लोलरूपेण स्तवनं प्रार्थनं चेति पूर्ववदेव व्याख्यानम् । दयानन्दस्तु - ' हे राजन्, यस्त्वं वृष्णः सुखवर्षकस्य विज्ञानस्य ऊर्मिः प्रापको राष्ट्रदा असि, स्वाहानीत्या राज्यं मे मह्यं देहि । वृष्ण ऊर्मिः सुखवर्षकस्य राज्यस्य ऊर्मिर्ज्ञाता राष्ट्रदा चासि, अमुष्मै राज्यपालकाय न्यायेन प्रकाशितं राज्यं देहि । राष्ट्रदा राज्ञां कर्मप्रदो वृषसेनोऽसि हृष्टपुष्टसेनोऽसि मे प्रत्यक्षाय मह्यं स्वाहा सुवाण्या राष्ट्रं देहि । राष्ट्रदा वृषसेनोऽसि त्वममुष्मै राष्ट्रं देहि ' इति, तदेतत् सर्वं बालक्रीडामात्रम्, परोक्षाय प्रत्यक्षाय च जना राज्यदाने सति दाता राज्यहीन एव स्यात् । कथं च याच्ञामात्रेण राज्यप्राप्तिः सम्भवति? दिव्यैश्वर्य-सम्पन्नासु देवतासु राज्यदानसामर्थ्यं सत्यपि मनुष्येषु तदसम्भवात् ॥ २ ॥
अ॒र्थेत॑स्थ राष्ट्रदा राष्ट्रं मे॑ दत्त॒ स्वाहाऽर्थेत॑ स्थ राष्ट्रदा राष्ट्रम॒मुष्मै॑ द॒त्तौज॑स्वती स्थ राष्ट्राराष्ट्र में बत स्वाज॑स्वती स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तापैः परिवाहिणी स्थ राष्ट्रवा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑हा॒प॑ः परिवाहिण स्थ राष्ट्रवा राष्ट्रम॒मुष्मै दत्तापां पति॑िरसि राष्ट्रदा राष्ट्र देह स्वाहापां पतिरसि राष्ट्रदा राष्ट्रम॒मुष्मै देवां गर्भोऽसि राष्ट्रदा राष्ट्रं मे देहि स्वाहापां गर्भोऽसि राष्ट्रदा राष्ट्रममुष्मै देहि ॥ ३ ॥
करने में समर्थ जलराशिरूपी सेना वाले हो । अथवा वर्षणशील जल के संघात ( समूह ) हो, राष्ट्र के प्रदानकर्ता हो । अतः मुझे राष्ट्र प्रदान करो । इसी प्रकार इस यजमान के लिये राष्ट्र प्रदान करो । अध्यात्मपक्ष में भी राजसूय यज्ञ के अंग - उपांग के रूप में आविर्भूत ब्रह्म के ही अभिषेक के लिये कल्लोलरूप से स्तुति तथा प्रार्थना है । अतः पूर्वोक्त प्रकार की ही व्याख्या होगी । स्वामी दयानन्द द्वारा उल्लिखित अर्थ बालकों की क्रीडा की भाँति है । परोक्ष तथा प्रत्यक्ष व्यक्ति के लिये राज्य का दान देने पर तो देने वाला राज्यहीन ही हो जायगा । फिर केवल याचना से राज्य की प्राप्ति कैसे सम्भव है? दिव्य ऐश्वर्य सम्पन्न देवताओं में राज्य प्रदान की शक्ति होने पर भी मनुष्यों में तो यह असम्भव है ॥ २ ॥
मन्त्रार्थ -- नदी आदि के प्रवाह में स्थित है जलदेवता! तुम स्वभाव से ही राज्य को देने वाले हो, उस राज्य को मुझ यजमान के निमित्त प्रदान करो । तुम्हारी प्रीति के निमित्त दी हुई यह आहुति भली प्रकार गृहीत हो । हे जल-देवता, तुम स्वभाव से ही राज्य को देने वाले हो, मुझे राज्य प्रदान करो । हे बलयुक्त जलदेवता, तुम स्वभाव से ही राज्य को देने वाले हो, इस यजमान के निमित्त राज्य प्रदान करो । हे परिवाही जलदेवता! तुम स्वभाव से राज्य को देने वाले हो, इस यजमान के लिये राज्य प्रदान करो । यह आहुति भली प्रकार गृहीत हो । हे सागर स्थित जल-
पृष्ठ 355
पाठ पढ़ें पाठ छिपाएँ
म ० ३ ] पारिजातभाष्यसहिता ३०१ ' स्यन्दमाना इति नद्यादिप्रवाहस्था अपो गृह्णाति ' ( का ० श्र ० १५।४।२५ ) । अर्थेत, अर्थ तुकि निष्पाद रूपम् - | यितुम अर्थं प्रयोजनमुद्दिश्य वा नद्यादेः सकाशाद् यज्ञदेशं यन्ति गच्छन्तीति अर्थेतः, इणः क्विपि । कुल्यादि-तथाविधा यूयं राष्ट्रदा जनपददात्र्यः स्थ भवथ, मे मह्यं राष्ट्रं दत्तेति बहुवचनम् प्रयच्छतेत्यर्थः । ' प्रतिलोमाः ' रूपेण बहुविधसस्योपकारकत्वादपां राष्ट्रप्रदत्वमस्तीति काण्वसंहिताभाष्ये सायणः । अन्यत् पूर्ववत् प्रतिलोमं वहन्ति ता ( का ० श्र ० १५।४।२६ ) नदीस्था वहन्त्य आपः स्यन्दमाना उच्यन्ते । स्यन्दमानानां ओजस्वतीः याः ओजसा बलेन गृह्णीयात् वहन्तीनां याः प्रतिगच्छन्ति तासु होम आदानं चेत्यर्थः । हे आप:, यूयम् गत्वा तस्मिन् प्रवाहे युक्ता भवथ । ' अपयती: ' ( का ० श्र ० १५ | ४ | २७ ) इति याः प्रवाहादपसृत्य मार्गान्तरेण स्थ । ' नदीपति पुनरपि प्रविशन्ति ता अपयत्यस्ता गृह्णीयात् । हे आपः! यूयं परिवाहिणीः सर्वतो वहनशीलाः सूद्याः, ता सूद्या: ' ( का ० श्र ० ९ ५ | ४ | २८ ) । नदीपतिः समुद्रः, तत्रापि याः सुष्ठु ऊर्ध्वं यन्ति उच्छ्यन्तीति भवसि । ' निवेष्याः ' वीचिस्था आपो ग्रहीतव्याः, तासामपि होमादाने । अपांपतिः जलानां पालक: स्वामी । निवेष्यते आवर्त्यते ( का ० श्रौ • १५।४।३० ) । नद्यादौ यत्र प्रदेशे उदकानां भ्रमिर्भवति, तत्रस्था अपो गृह्णीयात् भवसि । परितः सर्वतो तृणादिकमस्मिन्निति निवेष्य आवर्तस्तद्भवाः । हे जलभ्रम! त्वमपां गर्भो मध्यवर्ती वाह यासा ताः परिवाहण्यस्ताः । . वा एताः तत्र ब्राह्मणम् —'अथ स्यन्दमाना गृह्णाति । अर्थेत स्थ राष्ट्रदा ताभिरभिषिञ्चति एका वीर्येण आपस्ता एवैतत् स्यन्दन्ते तस्मादेनाः स्यन्दमाना न किञ्चन प्रतिधारयते वीर्येणैवैनमेतदभिषिञ्चत्येता वा आपो वीर्येणैव स्यन्दन्ते, सम्भरति ' ( श ० ५।३।४।७ ) | प्रवहन्तीनामपां वीर्यात्मकत्वमाह - वीर्येणेति । यत कश्चिदपि धारयितुं तस्मात् स्यन्दमाना एना अपः किञ्चन वस्त्वपि प्रतिमुखं न धारयते, प्रवहन्तीरपो न राष्ट्रदा राष्ट्र मे शक्नोतीत्यर्थः । ' अथ याः स्यन्दमानानां प्रतीप स्यन्दन्ते । ता गृह्णात्योजस्वती स्थ स्यन्दन्ते ' ' ' ' दत्त स्वाहजस्वती स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति वीर्येण वा एताः प्रतीप प्रतिकूलं स्यन्दन्ते ( श ० ५। ३।४।८ ) । प्रतिलोमं प्रवहन्तीनामपां ग्रहणं विधत्ते - तागृह्णातीति । अपां मध्ये स्थताभिरभिषिञ्चत्येतस्यै प्रतीपं ता गृह्णाति । ओजस्वतीः बलवत्यः स्थ । ' अथापयतीर्गृह्णाति । आपः परिवाहिणी भूमानं वा एषाऽपरिच्छिद्यैषैव पुनर्भवत्यपि ह वा अस्यान्यराष्ट्रीयो राष्ट्र भवत्यन्यराष्ट्रीय मवहरते तथास्मिन् गच्छन्तीना-दधाति भूम्नैवैनमेतदभिषिञ्चत्येता वा एका आपः ( ० ५ | ३ | ४ | ९ ) । नद्याः सकाशादपच्छिद्य स्यन्दन्ते ता अपत्यस्ता मपां ग्रहणं विधत्ते --- अथापयतीगृह्णातीति । नदीप्रवाहं परित्यज्य पृथक् प्रवाहरूपेण याः गृह्णीयात् । परिवाहिणीभिरद्भिरभिषेकं प्रशंसति - एतस्यै वा एषेति । एतस्या महानद्याः सकाशाद् अपच्छिद्य , देवता! तुम मुझे राज्य प्रदान करो, यह आहुति भली प्रकार गृहीत हो । हे अपांपति! तुम स्वभाव को देने से वाले राज्य हो के, मुझे दाता राज्य हो अमुक यजमान के निमित्त राज्य प्रदान करो । है भँवर के जलदेवता! तुम स्वभाव से राज्य राज्य के प्रदान करो । यह आहुति तुम्हारी प्रीति के निमित्त दी जा रही है । हे भँवर के जलदेवता, तुम स्वभाव से दाता हो, अमुक यजमान के निमित्त राज्य प्रदान करो ॥ ३ ॥
अनुसार भाष्यसार -- कात्यायन श्रौतसूत्र ( १५ / ४ / २५-३० ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के ' अर्थेत स्थ ' इत्यादि कण्डिकागत मत्रों से भी पूर्व मन्त्रों की भाँति विभिन्न जलों का ग्रहण तथा हवन किया जाता है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । मन्त्रार्थ इस प्रकार है - हे प्रयोजन की पूर्ति के लिये गमन करने वाली जलराशियों, आप लोग जनपद को देने वाली हैं, अतः मुझे राष्ट्र प्रदान करें । इसी प्रकार इस यजमान के लिये भी राष्ट्र प्रदान करें । हे जलधाराओं, आप लोग बल
पृष्ठ 356
पाठ पढ़ें पाठ छिपाएँ
३०२ शुक्लयजुर्वेदसंहिता [ अ ० १० पृथक्कृत्य परिवहति एषैव पुनर्भवति संसृष्टा परिणदी पुनरेषैव महानदी भवतीत्यर्थः । यस्मादपच्छिद्य नदी पुनस्तां महानदीं प्राप्नोति, तस्मादस्यैताभिरभिषिक्तस्यान्य राष्ट्रीयः पुरुषः राष्ट्रे स्वराष्ट्रं भवति । अन्यराष्ट्रीयमव-हरते वशयति । यथा महानदी परिणदी संसर्गेण भूयसी भवति, तथा तस्मिन् राजनि अन्यराष्ट्रीय समवधानेन भूयस्त्वं दधाति । ' अथ नदीपतिं गृह्णाति । अपपतिरसिताभिरभिषिञ्चत्यपां वा एष पतिर्यन्नदीपतिर्विशामेवैन-पति करोति तावा एका आप: ' ( श ० ५ | ३ | ४ | १० ) । समुद्रोदकग्रहणं विधत्ते - अथ नदीपति गृह्णातीति । तत्रापि नाविशेषेण ग्रहणम्, किन्तु सूद्यानामुच्छलन्तीनामपां ग्रहणं कर्तव्यमित्याह - एता वा इति । ' अथ निवेष्यं गृह्णाति । अपां गर्भोऽसि ताभिरभिषिञ्चति गर्भं वा एतदाप उपनिवेष्टन्ते विशामेवैनमेतद् गर्भं करोत्येता वा एका ---- ' ( श ० ५।३।४।११ ) | आवर्तोदकग्रहणं विधत्ते - अथ निवेष्यं गृह्णातीति । निवेष्यते आवर्त्यते तृणादिक-मस्मिन्निति निवेष्य आवर्त उदकानां गर्भोऽपत्यं भवति । गर्भं वा एतत् तथैव विशामेवैतद् गर्भं करोति । अध्यात्मपक्षे - स्वान्तः शुद्धिक्रमेण समेषां तत्कर्मबोधकानां मन्त्राणां ब्राह्मणानां च ब्रह्मात्मसाक्षात्कारे पर्यवसानात् कर्मपरा अपि मन्त्रा ब्रह्मपरा भवन्ति । दयानन्दस्तु – ' हे मनुष्याः! ये यूयमर्थेतः, अर्थयन्ति श्रेष्ठपदार्थलब्धारो भवत ते मे राष्ट्रं दत्त स्वाहा सत्यनीत्या राष्ट्रदाः सभासदः स्थ । ये यूयमर्थेतः पदार्थज्ञातारो राष्ट्रदा राज्यदातारः स्थ, तेऽमुष्मै राज्यपालकाय राष्ट्रं दत्त । या यूयं स्वाहा सत्यया वाचा ओजस्वती: विद्याबलपराक्रमयुक्ता राजस्त्रियः सत्यो राष्ट्रदाः स्थ ता अमुष्मै राष्ट्रं दत्त । या यूयं स्वाहा न्याययुक्तया नीत्या परिवाहिणीः स्वसदृशान् पतीन् परिवोढुं शीला राष्ट्रदाः स्थता मे राष्ट्रं दत्त । यूयं परिवाहिणीरापो राष्ट्रदा: स्थ ता अमुष्मै राष्ट्रं दत्त । यस्त्वं राष्ट्रदा अपां पतिरसिस मे स्वाहा विनययुक्तया वाचा अमुष्मै राष्ट्रं देहि । यस्त्वं स्वाहा राष्ट्रदा अपां गर्भोऽसि, सोऽमुष्मै राष्ट्रं देहि ' इति, तदपि निरर्थकमेव श्रुतिसूत्रादिविरुद्धत्वात् । यदपि ' ओजस्वतीः विद्याबलपराक्रमयुक्ता राजस्त्रियः, परिवाहिणीः पतीन् परिवोढुं शीलाः ' इत्यादिकमाह, तदपि कल्पनामात्रमेव, परिपूर्वस्य वहते स्तादृशार्थेऽप्रसिद्ध-त्वात् ब्राह्मणेनाभिषेकोपयोगिनीषु तासु तास्वप्सु तेषां शब्दानां व्याख्यातत्वात् ॥ ३ ॥
सूर्यवचसस्थ राष्ट्रदा राष्ट्र में वत्त॒ स्वाहा सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम॒मुष्मै॑ दत्त॒ सूर्यवर्चस स्थ राष्ट्रदा राष्ट्र में दत्त॒ स्वाहा सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम॒मुष्मै दत्त॒ मान्वा॑ स्थ राष्ट्रदा राष्ट्रं मे॑ दत्त॒ स्वाहा॒ मान्दा स्थ राष्ट्रदा राष्ट्रममुष्मै॑ दत्त॒ व्रज॒क्षित॑ स्थ राष्ट्रदा राष्ट्रं से परिपूर्ण हैं, सर्वत्र प्रवाह करने में समर्थ हैं, जल की स्वामिरूपा हैं, जल के मध्य ( मूल ) में संस्थित हैं, अतः मुझे ' राष्ट्र प्रदान करें । इसी प्रकार इस यजमान के लिये राष्ट्र प्रदान करें । अध्यात्मपक्ष में अपने अन्तःकरण की शुद्धि के क्रम से सभी उन कर्मों के बोधक मन्त्रों तथा ब्राह्मण वाक्यों की ब्रह्मात्मक साक्षात्कार में ही पूर्णता होने के कारण कर्मपरक मन्त्र भी ब्रह्मपरक होते हैं । स्वामी दयानन्द द्वारा निरूपित अर्थं श्रुतिवचनों तथा सूत्रादि से विरुद्ध होने के कारण आधारहीन है । ' ओजस्वतीः ' अर्थात् विद्या पराक्रम से तथा ' परिवाहिणीः ' अर्थात् पतियों का वहन करने वाली, इत्यादि , बल, युक्त राजा की स्त्रियाँ केवल कल्पना ही है, क्योंकि ' परि ' उपसर्गपूर्वक ' वह ' धातु की पूर्व प्रतिपादित अर्थ में ही प्रसिद्धि है । ब्राह्मण ग्रन्थ द्वारा भी अभिषेक में उपयोगी उन उन जलों के विषय में ही तत्तत् शब्दों की व्याख्या की गई है || ३ |
पृष्ठ 357
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ४ ] वेदार्थपारिजातभाष्यसहिता ३०३ दत्त॒ स्वाहा॑ व्रज॒क्षित॑स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त वाशा॑ स्थ राष्ट्रदा राष्ट्रं मै दत्त॒ III स्वाहा॒ वाशा॑ स्थ राष्ट्रदा राष्ट्रम॒मुष्मै दत्त श वि॑ष्ठा स्थ राष्ट्रदा राष्ट्रं में दत्त॒ स्वाहा शविंष्ठा स्थ राष्ट्रदा राष्ट्रम॒मुष्मै दत्त शक्व॑रो स्थ राष्ट्रदा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शक्व॑री स्थ राष्ट्रदा राष्ट्रम॒मुष्मै दत्त जन॒भृत॑ स्थ राष्ट्रदा राष्ट्र में दत्त॒ स्वाहा॑ जन॒भृत॑ स्थ राष्ट्रदा राष्ट्रम॒मुष्मै॑ दत्त विश्व॒भृत॑ स्थ राष्ट्रदा रा॒ष्ट्रं में दत्त॒ स्वाहा॑हो॒ विश्व॒भृत॑ स्थ राष्ट्रदा राष्ट्रम॒मुष्मै॑ द॒ताव॑ः स्व॒राज॑ स्थ राष्ट्रदा राष्ट्रम॒मुष्मै॑ दत्त । मधु॑मती॒र्मधु॑मतीभिः पृच्यन्तो॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒ना अधृष्टाः सीदत स॒हज॑सा॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ॥ ४ ॥
' स्यन्दमानाः स्थावराः प्रत्यातपे ' ( का ० श्र ० वृक्षादिच्छाययाऽवष्टभ्यत इति प्रत्यातपो देशस्तत्र यो अपो गृह्णीयात् । हे आप:, यूयं सूर्यत्वचसो भवथ । विद्यमानत्वात् । ' त्वचस् ' शब्दः सान्तः त्वग्वाची । १५ | ४ | ३१ ) | आदित्येन प्रतिकालमातप्यते न कदाचिद् हृदस्तत्र स्यन्दमानानामपां मध्ये याः स्थिरास्तदात्मिका सूर्यस्येव त्वचस्त्वग् यासां ताः सूर्यत्वचसः, सर्वदैवातपे यद्वा सूर्यस्य त्वचस्त्वग् दीप्तिर्यासां ताः, यद्वा सूर्यस्य त्वक् मन्त्रार्थ - हे सूर्यश्वक रूप जलदेवता! तुम स्वभाव से ही राज्य के दाता हो, मेरे लिये राज्य प्रदान करो । यह आहुति भली प्रकार गृहीत हो । हे जलदेवता, तुम अमुक यजमान को जल प्रदान करो । हे सूर्य की कान्ति में स्थित जल-देवता! तुम स्वभाव से ही राज्य के दाता हो, मुझे राज्य प्रदान करो, इस यजमान को राज्य प्रदान करो । यह आहुति भली प्रकार गृहीत हो । हे मान्द जलदेवता! तुम स्वभाव से ही राज्य के दाता हो, मेरे निमित्त और इस यजमान के निमित्त राज्य प्रदान करो, यह आहुति भली प्रकार गृहीत हो । हे व्रजक्षित् कूपस्थित जलदेवता! तुम स्वभाव से ही राज्य के दाता हो, इस यजमान के निमित्त राज्य प्रदान करो । यह आहुति भली प्रकार गृहीत हो । हे वाशा स्थित जलदेवता! इस यजमान को राज्य प्रदान करो । हे त्रिदोषशमनकारक जलदेवता! तुम स्वभाव से ही राज्य के दाता हो, मुझे राज्य प्रदान करो, यह आहुति भली प्रकार गृहीत हो । हे शविष्ठ! तुम स्वभाव से ही राज्य के दाता हो, अमुक यजमान को राज्य प्रदान करो । हे जलदेवता! तुम वाह, वोह आदि से जगत् का उद्धार करने वाली गाय के समान स्वभाव वाले हो, मुझे राज्य प्रदान करो, यह आहुति भली प्रकार गृहीत हो । हे शक्वरी जलदेवता । तुम इस यजमान को राज्य प्रदान करो । हे जलदेवता! तुम बालभाव में मनुष्यों को पुष्ट करने वाले हो, मुझे राज्य प्रदान करो, यह आहुति भली प्रकार गृहीत हो । हे जनभृत्! तुम स्वभाव से राज्य के दाता हो, अमुक यजमान को राज्य प्रदान करो । हे जलदेवता, तुम मनुष्य से देवता पर्यन्त सारे जगत् को घृत द्वारा पुष्ट करते हो, तुम मुझे राज्य प्रदान करो, यह आहुति भली प्रकार गृहीत हो । हे घृतरूप विश्वसृत्! तुम अमुक यजमान को राज्य प्रदान करो । हे मरीचिरूप जलदेवता, तुम अपने प्रकाश में किसी दूसरे की अपेक्षा नहीं रखते, तुम स्वभाव से राज्य के दाता हो, अमुक यजमान को राज्य प्रदान करो । हे मधुर रस युक्त जलदेवता, मधुर रस वाले जल से यजमान को बलिष्ठ बना कर अपने रस से उसको सोंचो, असुरों से कभी पराजय न प्राप्त करने वाले बल से इस यजमान को संयुक्त करो । इस क्षत्रिय यजमान को राज्य पक्ष पर स्थापित कर आप स्वयं भी इसी स्थान में निवास करो ॥४ ॥
भाष्यसार --- कात्यायन श्रौतसूत्र ( १५/४/३१ - ३८ ) में उल्लिखित याज्ञिक प्रक्रिया के विनियोग के अनुसार
पृष्ठ 358
पाठ पढ़ें पाठ छिपाएँ
३०४ शुक्लयजुर्वेदसंहिता [ अ ० १० शरीरं प्रतिबिम्बरूपेण यासु तिष्ठति, तास्तथाविधाः स्थ । ' अन्तरिक्षात्प्रतिगृह्या आतपवर्याः ' ( का ० श्र ० १५।४।३२ ) । आतपे वर्षति सति गगनादप आदायादौ सम्पादिताः सन्ति । यूपमुत्तरेण तासु होमादाने आतपवर्ष्या-स्ता अपो भूमिपतनात् प्रागेवाकाशात् पतन्ती रादाय गृह्णीयात् । यूपोत्तरेण तासु होमादाने । सूर्यस्येव वर्चस्तेजो यासां ताः सूर्यवर्चसस्तादृश्यो भवथ । ' सरस्या: ' ( का ० श्रौ ० १५ | ४ | ३३ ) इति सरस्तडागस्तत्र भवा अपो गृह्णीयात् । हे आप! यूयं मान्दाः स्थ, मन्दतेर्मोदनार्थस्यैतद् रूपम् । मन्दन्ते मोदन्ते भूतानि यत्र बहूदकत्वात् ता मान्दा भवथ यद्वा प्रवाहाभावाद् मन्दस्वभावाः स्थ । ' कृप्या: ' ( का ० श्र ० १५/४१३३ ) कृपे भवाः कूप्याः, तागृह्णाति । हे आप! यूयं व्रजक्षितो भवथ । व्रजे कुपे क्षियन्ति निवसन्तीति व्रजक्षितः, " ' क्षै निवासे ', व्रज इति मेघनामसु पठितम् ( निघ १।१०।११ ) । अत्र दकधारणसामर्थ्यात् कूप उच्यते । ' प्रुष्वा: ' ( का ० श्रौ ० १५।४।३३ ) । ' प्रुष सेचने ', प्रुष्णन्ति ओषधीः सिञ्चन्तीति प्रुष्वा अवश्यायरूपास्तृणाग्रजलबिन्दवः, तासु शुद्धवस्त्रक्षेपेण निष्पीड्य या आत्ताः सन्ति, ता यूपमुत्तरेण हुत्वा ग्राह्याः । पुष्वा नीहारा अवश्यायरूपा ओसकणास्तृणाग्र-बिन्दवः । वाशाः स्थ, उश्यन्ते काम्यन्ते जनैरिति वाश्यः कामिता अभिलपिता यूयं भवथ, ' वेश कान्तौ ' । यद्वा प्रवाहवन्मनुष्यादिति न प्रतिबध्नन्तीति वश्या: । ' मधु ' ( का ० श्र ० १५ | ४ | ३५ ) मधुनि होमादाने । हे मधुरूपा आपः! यूयं शविष्ठा बलिष्ठा बलदाभ्यो भवथ, शव इति बलनाम ( निघ ० २२ ९ / ३ ) | बलिष्टं हि मधु त्रिदोष-शमनत्वात्, ' त्रिदोषघ्नं मधु प्रोक्तम् ' इति । ' गौरुल्ब्या: ' ( का ० श्र ० १५ | ४ | ३३ ) उल्ब गर्भवेष्टनम्, तत्र भवा उल्ब्याः प्रसूयमानधेनुगर्भवेष्टनोत्यजलं पूर्वं यद् गृहीतमस्ति तत्र यूपमुत्तरेण होमादाने । शक्वरीः, हे गोगर्भ-वेष्टनोत्या आपः, यूयं शक्त्ररी: शक्वर्यो गोसम्बन्धिन्यः, शक्नुवन्ति वाहदोहादिभिर्जगदुद्धर्तुमिति शक्वर्यो गावः, ' शक्लृ शक्तौ ', ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२।७५ ) इति वनिप् । ' बनो र च ' ( पा ० सू ० ४१११७ ) इति ङीबू रेफश्च | ' पय: ' ( का ० श्री ० १५ | ४ | ३३ ) दुग्धस्य होमो ग्रहणं च । हे आप! यूयं जनभृतो बालभावे जनान् जन्तून् विभ्रति पुष्णन्तीति जनभृतो भवथ । ' घृतम् ' ( का ० श्र ० १५/४/३३ ) घृतस्य होमादाने । हे घृतरूपा आपः, शुयं विश्वभृतो विश्वं सर्वं देवादिजगद् बिभ्रतीति विश्वभृतो युयं भवथ । एवं सरस्वतीप्रभृतयः सप्तदश उक्ताः । ' आपः स्वराज इति मरीचीगृहीत्वा गृहीत्वाऽञ्जलिना सर्वासु स सृजति ' ( का ० श्र ० १५ | ४ | ३६ ) । रविकरतप्ता आपो मरीचयः । ता अञ्जलिनादाय पूर्वगृहीतास्वप्सु योजयेत् । प्रतिग्रहणं मन्त्रेण संसर्जनं तूष्णीम् । नात्र होम:, ' द्वयीषु न जुहोति सारस्वतीषु मरीचिषु ' ( ० ५ / ३ / ४ / २५-२६ ) इति श्रुतेः । हे मरीचिरूपा आप:, यूयं स्वराजः स्थ भवथ । स्वेनैव राजन्ते यास्ताः स्वकीयमेव राज्यं यासां ताँ वा अनन्याश्रितराज्या इत्यर्थः । यूयं राष्ट्रदा अतोऽमुष्मै यजमानाय राष्ट्रं राज्यं दत्त | ' औदुम्बरे पात्रे समासिञ्चत्येना मधुमतीरिति ' ( का ० श्र ० १५ | ४ | ३७ ) । एनाः पूर्वोक्ता अप एकस्मिन् उदुम्बरकाष्ठपात्रे एकीकतुं निनयेत् मधुमतीरिति मन्त्रेण । प्रतिनिनयनं मन्त्रावृत्तिः । अब्देवत्यं यजुः । मधुमती: मधुमत्यो मधुररसवत्य एता आपो मधुमतीभिर्मधुरस्वादवतीभिरद्भिः पृच्यन्तां संसृज्यन्ताम् । महि महत् क्षत्रं बलं क्षत्रियाय राज्ञे यजमानाय वन्वानाः सम्भज्यमाना ददत्य:, ' वन षण सम्भक्तौ ', सम्भजनं दानम् । ' सूर्यस्वचस स्थ ' इत्यादि कण्डिकागत मन्त्रों के द्वारा तत्तद् जलों का ग्रहण आदि कर्म पूर्वोक्त विनियोग की भाँति किया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । मन्त्रार्थ इस प्रकार है- हे जलदेवता, आप लोग सूर्य की भाँति त्वग्दीतियुक्त अथवा सूर्य के शरीर मण्डल का प्रति-बिम्ब धारण करने वाले, सूर्य की भाँति तेजस्वी, प्राणियों को प्रमुदित करने वाले अथवा मन्द स्वभाव से युक्त, कूप में स्थित रहने वाले, जनों के द्वारा अभिलषित अथवा प्रतिबन्धरहित करने वाले, बल प्रदान करने वाले, जगत् का उद्धार करने में समर्थ, जन्तुओं का धारण - पोषण करने वाले, सम्पूर्ण विश्व का पोषण करने वाले, स्वयं प्रकाशमान अथवा स्वयं राज्यकर्ता हैं
पृष्ठ 359
पाठ पढ़ें पाठ छिपाएँ
मं ० ४ ] वेदार्थपारिजातभाष्यसहिता ३०५ ' मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधात्यनाधृष्टा सीदतेति ' ( का ० श्री ० १५ | ४ | ३८ ) । औदुम्बरे पात्रे समवेतास्ता अपो मैत्रावरुणधिष्ण्यस्य पुरस्तात् सदसि सादयति, अनाधृष्टा सीदतेति मन्त्रेण । अदेवत्यं यजुः । हे आप:, यूयं सीदत तिष्ठत । कथंभूताः? अनाधृष्टा अपराभूता असुर राक्षसैः, सहौजस ओजसा बलेन युक्ताः, महि महत् क्षत्रं बलं क्षत्रियाय राज्ञे यजमानाय दधतीः दधत्यः, स्थापयन्त्य इत्यर्थः । अत्र ब्राह्मणं पूर्वोक्तमेवार्थं समर्थयते - ' अथ यः स्यन्दमानाना ११ स्थावरो हृदो भवति । प्रत्यातापे ता गृह्णाति सूर्यत्वचस स्थ राष्ट्रदा दत्तेति ताभिरभिषिचति वर्चसैवैनमेतदभिषिचति सूर्यत्वचसमेवैनमेतत्करोति वरुण्या वा एता आपो भवन्ति याः स्यन्दमानानां न स्यन्दन्ते वरुणसवो वा एष यद् राजसूयं तस्मादेताभिः ' ' ' ' ' ( ० ५।३।४।१२ ) । हे आप:, यूयं सूर्यत्वचसः स्थ । सूर्यस्येव त्वचः त्वग् दीप्तिर्यासां ताः सूर्यस्य त्वचस्त्वक् शरीरं प्रतिबिम्बरूपेण तिष्ठति यासु ताः स्थ । वर्चसैवेति वर्चसा दीप्त्या अभिषिक्तवान् भवति । सूर्यत्वचसं सूर्यसमानतेजस्कं कृतवान् भवति । वरुण्याः स्थावरा आपो वरुणदेवत्याः । राजसूयमिति यदेष वरुणसवो वरुणाभिषेकः, वरुगोऽभिषिच्यते यस्मिन् सः अतो वरुणदेवत्याभिः ह्रदगताभिरद्भिरभिषेकः कर्तव्य इति स्तुतिः । ' अथ या आतपति वर्षन्ति । ता गृह्णाति सूर्यवर्चस स्थ सूर्यवर्चसमेवैनमेतत्करोति मेध्या वा एता आपो भवन्ति या आतपति वर्षन्त्यप्राप्ता हीमां भवन्त्यथैना गृह्णाति मेध्यमेवैनमेतत्करोति ' ( श ० ५ | ३ | ४।१३ ) । अथातपवयग्रहणं विधत्ते - ता गृह्णातीति । सूर्ये आतपति सति या वर्षन्ति ता गृह्णीयात् । सूर्यवर्चस इति सूर्यदीप्तियुक्ताः सूर्यतेजसा युक्तत्वात् । आतपवर्ष्या शुद्धा इत्यर्थः । तासां ग्रहणे विशेषं विधत्ते - अप्राप्ता हीति । इमां भूमिमप्राप्ताः, अर्थाद्भूमौ न पंतिता भवन्ति, अथ तदानीमेव एना अपो गृह्णीयात् । ' अथ वैशन्तीर्गृह्णाति । मान्दा: स्थ राष्ट्रदाविशमेवास्मा एतत्स्थावरामन पक्रमिणीं करोति ' ( श ० ५ | ३ | ४ | १५ ) | सरस्यानामपां ग्रहणं विधत्ते - अथ वैशन्तीरिति । वैशन्तोऽल्पसरस्तत्र भवा अपो गृह्णाति । मान्दा प्रवाहाभावाद् मन्द-स्वभावाः, मान्दाभिरभिषेकेण अस्मै राज्ञे यजमानाय विशं प्रजां स्थावरां स्थिरामन पक्रमिणी स्वाधीनां कृतवान् भवतीत्यर्थः । ‘ अथ कृप्या गृह्णाति । व्रजक्षितः स्थ राष्ट्रदा तद्या इमां परेणापस्ता एवैतत् सम्भरत्यपामु चैव सर्वत्वाय तस्मादेताभिरभिषिञ्चति ' ( श ० ५ | ३ | ४ | १५ ) । कुप्यानामपां ग्रहणं विधत्ते - अथ कृप्या गृह्णातीति । कृपे भवाः कुप्याः । व्रजक्षितः स्थ । व्रज इति मेघनामसु पठितः ( निघ ० १।१०।११ ) । प्रकृते तूदकधारणसामर्थ्यात् कृपोऽभिधीयते । व्रजे कृपे क्षितो निवसन्त्य इमां भूमिं परेण भूमेरधस्ताद् विप्रकृष्टे देशे कूपे स्थिता अपो गृह्णीयात् । किमर्थं भूमिस्थितानामपां ग्रहणम्? अपां सर्वत्वाय सर्वेषामुदकानां समष्ट्यै इति । ' अथ वा गृह्णाति । वाशा स्थ: ताभिरभिषिञ्चन्त्यन्नाद्येनैवैन न्नेतद्दधातीदं वा असावादित्य उद्यन्नेव यथायमग्निर्निर्दहेदेवमोषधीरन्नाद्यं निर्दहति तदेता आपोऽभ्यवयत्यः शमयन्ति न ह वा इहान्नाद्यं परिशिष्येत यदेता आपो नाभ्यवेयुरन्नाद्येनैवैनमेतदभिषिञ्चति ( श ० ५ | ३ | ४ | १६ ) | नीहारोदकानां ग्रहणं विधत्ते - अथ प्रुष्वा इति । वा अवश्यायणाः । हे आपः, वाशाः स्थ सर्वैः काम्यमाना भवथ । वश्या मनुष्यादिगतिं नदीप्रवाहवन्न प्रतिबध्नातीत वश्यत्वम् । प्रुष्वाणामन्नाद्यात्मकत्वमुपपादयति - अन्नाद्यमेवेति । उद्यन् अन्तरिक्षे दृश्यमान आदित्य इदमोषधिरूपमन्नाद्यं निर्दहति । अन्नं च तदाद्यं चेत्यन्नाद्यम् । तत्र दृष्टान्तः - यथायमग्निर्निर्दहे देव-मिति । तत् तदा सस्यानामातपजातम्लानिसमयेऽवश्यायकणा अभ्यवयत्यः सिञ्चन्त्यः शमयन्त्याप्याययन्ति । यदेता आपो नीहाररूपा नाभ्यवेयुः, तदा न ह वा अन्नाद्यं परिशिष्येत । तस्मादोषधिवर्धन हेतुभूताभिः प्रुष्वाभि-रद्भिरभिषेकेण यजमानेऽन्नाद्यं निहितवान् भवति । ' अथ मधु गृह्णाणि । शविष्ठा स्थ ** ताभिरभिषिञ्चत्यपां तथा राष्ट्र को प्रदान करने वाले हैं, अतः मुझे राष्ट्र प्रदान करें । इसी प्रकार इस यज्ञकर्ता के लिये भी राष्ट्र प्रदान करें । ३ ९
पृष्ठ 360
पाठ पढ़ें पाठ छिपाएँ
३०६ शुक्लयजुर्वेदसंहिता [ अ ० १० चैवैनमेतदोषधीनां च रसेनाभिषिञ्चति ' ( श ० ५ | ३ | ४ | १७ ) । हे मधु द्रवरूपा आपः शविष्ठा बलवत्तमाः स्थ । एताभिर्मधुद्रवरूपाभिरद्भिरभिषेकेण अपां च ओषधीनां च रसेनाभिषिक्तवान् भवति मधुनो द्वयात्मकत्वा-दित्यर्थः । ' अथ गोर्विजायमानाया उल्ब्या गृह्णाति । शक्वरी स्थताभिरभिषिति पशुभिरेवैनमेतदभिषिचति ' ( श ० ५ | ३ | ४ | १८ ) । विजायमानाया: प्रसूयमानाया गोरुल्बे गर्भवेष्टने भवा अपो गृह्णीयात् । हे तादृशा आपः, शक्वरीः गर्भरक्षणे शक्ताः, वाहदोहादिभिर्जगद्रक्षणे वा शक्ताः समर्थाः स्थ । पशुसम्बन्धिनीभिरेताभिरद्भि-रभिषेकेण पशुभिरेनमभिषिञ्चति । अथ पयसां ग्रहणं विधत्ते -- जनभृत इति । हे क्षीरात्मका आप:, जनभृतो जनान् बिभ्रतीति जनभृतः स्थ, क्षीरेण प्राणिमात्रस्य पुष्यमाणत्वात् । ' अथ घृतं गृह्णाति । विश्वभृत स्थ पशूनामेवैनमेतद्रसेनाभिषिञ्चति ' ( श ० ५।३।४।२० ) । घृतस्य ग्रहणं विधत्ते - अथ घृतं गृह्णातीति । घृतस्य पशुरसत्वं क्षीरादिद्वारा प्रसिद्धमेव । ' अथ मरीचीः । अञ्जलिना संगृह्यापिसृजत्यापः स्वराजः स्थ ' एता वा आपः स्वराजो यन्मरीचयस्ता यत्स्यन्दन्त इवान्योन्यस्या एवैतच्छ्यिा अतिष्ठमाना उत्तराधरा इव भवन्त्यो यन्ति स्वाराज्यमेवास्मिन्नेत-द्दधाति.. ' ' ( श ० ५।३।४।२१ ) । एतदेव सारस्वतवर्जं चतुर्गृहीतेनाज्येन पूर्वं हुत्वा हुत्वा पञ्चदशानामपां ग्रहणं विहितम्, अथान्तिमस्य जलस्य ग्रहणे विशेषं विधत्ते - अथ मरीचीरिति । मरीचीः रविकरतप्ता अपः । अञ्जलि-पात्रेण संगृह्य गृहीत्वा अपिसृजति सर्वासु गृहीतास्वप्सु संसृजेदित्यर्थः । अत्र होमाभावात् स्वाहान्तः पूर्वो मन्त्रो न पठितः । ननु कथं मरीचीनामप्त्वेन परिगणनमिति तत्राह - ता यत्स्यन्दन्त इवेति । यद् यस्मात् ता मरीचयः स्यन्दन्त इव प्रवहन्तीव । इवशब्द उपमार्थः, साक्षात्प्रवहणाभावात् । यथा जलसङ्घा उपर्युपरिभावेन वर्तन्ते, तद्वदेता मरीचयोऽन्योन्यस्या मरीचेः श्रियै शोभायै अतिष्ठमानाः स्थातुमसहिष्णव उत्तराधरा इव भवन्त्यो यन्ति गच्छन्ति, अतो जलसाम्यादप्त्वेन परिगणनं युक्तमेव । मरीचीनां ग्रहणं स्वाराज्यहेतुत्वेन प्रशंसति --- स्वाराज्यमिति । ' ता वा एताः । सप्तदशापः सम्भरति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञस्तस्मात् सप्तदशापः सम्भरति ' ( श ० ५।३।४।२२ ) । सम्भृतानामपां सप्तदशसंख्यां प्रजापत्यात्मना स्तौति-- सप्तदशो वै प्रजापतिरिति । प्रजापतेः सप्तदशत्वं प्रागुक्तम् । ' षोडश ता आपो या अभिजुहोति । षोडशाहुतीर्जुहोति ता द्वात्रिंशद् द्वयीषु न जुहोति सारस्वतीषु मरीचिषु च ताश्चतुस्त्रि ७ शत् त्रयस्त्रि शद्वै देवाः प्रजापतिश्चतुस्त्रि शस्तदेनं प्रजापति करोति ' ( श ० ५।३।४।२३ ) । अथोक्तानां सारस्वतीप्रभृतिमरीच्यन्तानामपामाहुतीनां च संख्यां समस्य प्रजापत्यात्मना प्रशंसति षोडश ता इति । ता ऊर्मिद्वयस्य विवेके षोडशसंख्याका भवन्ति । अन्यथा सारस्वतीमरीचिसंज्ञका अपोऽपहाय पञ्चदशैवावशिष्यन्ते । अभिद्वयविवेके तु आहुतयः षोडश । आहुतिभी रहिता सारस्वत्यो मरीचय इति द्वय्यः षोडश आहुतयः षोडशापश्च । ताः सम्भूय चतुस्त्रिंशत् सम्पद्यन्ते । अथ चतुस्त्रिशत्सम्पत्त्या चतुस्त्रिशद्देवतात्मकं प्रजापतिमेव कृतवान् भवतीति तत्करणं प्रशस्तमित्यर्थः । ' अथ यद्भुत्वा हुत्वा गृह्णाति । वज्रो वा आज्यं वज्रेणैवैतदाज्येन स्पृत्वा स्मृत्वा स्वीकृत्य गृह्णाति ' ( ० ५ | ३ | ४ | २४ ) | आज्यस्य वज्यात्मकत्वम् ( श ० १ | ५ | ३ | ४ ) इत्यस्यां कण्डिकायामुक्तम् । वज्ररूपेणाज्येन स्पृत्वा स्पृत्वा हिंसित्वा हिंसित्वा ततः स्वीकृत्य स्वाधीनं कृत्वा गृह्णानो भवति । यथा लोके राजादिः प्रबलं शत्रुप्रभृति जनं प्रथमं बाधित्वा पश्चात् स्वाधीनं करोति, तद्वद् हुत्वा हुत्वाऽपां ग्रहणं युक्तमेव । ' अथ यत्सारस्वतीषु न जुहोति । वाग् वै सरस्वती वज्र आज्यं नेद् वज्रेणाज्येन वाच, हिनसानीति तस्मात् सारस्वतीषु न जुहोति ' ( श ० ५। ३।४।२५ ) । सारस्वतीषु मरीचिषु च होमाभावे कारणमाह-- वाग् वै मधुर रस से युक्त ये जलधाराएँ अन्य मधुर जलधाराओं से संयुक्त हों । हे क्षत्रिय राजा के लिये महान् बल को प्रदान करती