वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 361–370
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ] वेदार्थ पारिजातभाष्यसहिता ३०७ सरस्वतीति । सरस्वत्या वाक्त्वेन वाचो वज्रेण हिंसा मा भूदिति न होतव्यम् । ' अथ यन्मरीचिषु न जुहोति । नेदनद्धेवैतामाहुति जुवानीति तस्मान्मरीचिषु न जुहोति ' ( श ० ५।३।४।२६ ) । मरीचिष्वपि अनद्धा अस्थाने तासां होमाधिकरणत्वासम्भवान्न होतव्यमिति । नेदिति निपातः परिभये ( निरु ० १।३ ) । ' ताः सार्धमोदुम्बरे पात्रे समवनयति । मधुमतीमधुमतीभिः पृच्यन्तामिति रसवती रसवतीभिः पृच्यन्तामित्येवैतदाह महि क्षत्रं क्षत्रियाय वन्वाना इति तत् परोक्षं क्षत्रं यजमानायाशिषमाशास्ते यदाह महि क्षत्रं क्षत्रियाय वन्वाना इति ' ( श ० ५।३।४।२७ ) । पृथक् पृथक् पात्रे गृहीता आपः सार्धं सम्भूयैकस्मिन् पात्रे समवनयति, आसिवेदित्यर्थः । मधुमती: मधुमत्यो मधुररसवत्य आपो मधुमतीभिरद्भिः सम्पृच्यन्ताम् ' पृची सम्पर्के ' | महि महत्, एतत् क्षत्रं बलं क्षत्रियकुलं वा क्षत्रियाय यजमानाय बन्वाना दातुं याचमानाः कामयमाना इति । मन्त्रमनूद्य व्याचष्टे – मधुमतीरिति । महि क्षत्रं क्षत्रियाय वन्वाना इति यदाह तत् तेन यजमानाय परोक्षं क्षत्रमाशासितवान् भवतीति । क्षत्रियायेति तात्स्थाभिधानाद् वन्वाना इति याचनाभिधानाद्वा आशिषः परोक्षत्वम् । ' ता अग्रेण मैत्रावरुणस्य धिष्ण्य, सादयति । अनाधृष्टाः सीदत सहौजस इत्यनाधृष्टाः सीदत रक्षोभिरित्येवैतदाह ' ' ' ' महि क्षत्र क्षत्रियाय दधीरिति तत्प्रत्यक्षं क्षत्रं यजमानायाशिषमाशास्ते यदाह महि क्षत्रं क्षत्रियाय दधतीरिति ' ( श ० ५।३।४।२८ ) संसृष्टानामपां मैत्रावरुणधिष्ण्यस्य पुरोदेशे सादनं समन्त्रकं विधत्ते --ता अग्रेति । हे आप:, अनाधृष्टा रक्षोभिरबाधिताः सहौजस ओजसा बलेन सहिता महि महत् क्षत्रं बलं क्षत्रियत्वं वा क्षत्रियाय दधतीरिति प्रदानस्य साक्षादुक्तेः प्रत्यक्षत्वमाशिषः, सीदतेति मध्यमपुरुषप्रयोगाद्वेति । अध्यात्मपक्षे - आचार्यः शिष्यस्याभिषेकार्थं पूर्वोक्तवद्धमपूर्वकं तास्ता अपो गृह्णाति । ततः पूर्वोक्ता एव मन्त्रार्थाः । स्वामिदयानन्दस्तु १ ' हे राजपुरुषाः, यूयं सूर्यत्वचसः सूर्यस्य त्वचः संवार इव त्वचो येषां ते तथोक्ताः सन्तो न्यायेन राष्ट्रदाः, तस्मान्मे राष्ट्रं दत्त । हे मनुष्याः, यतः सूर्यत्वचसो यूयं राष्ट्रदाः, अतोऽमुष्मै विद्यया सूर्यवत्प्रकाशमानाय राज्यं दत्त । हे विद्वांसः, सूर्यवर्चसः सूर्यप्रकाशवद्विद्याया अध्येतारो यूयं स्वाहा सत्यया वाचा राष्ट्रदा राज्यदातारः, अतो मे मह्यं तेजस्विने राज्यं दत्त, यतः सूर्यवर्चसस्तस्मादमुष्मै प्रकाशमानाय राष्ट्रं दत्त । हे मान्दा मनुष्याणामानन्ददातारः 1 स्वाहा सत्यवाग्भिर्मे राष्ट्रं दत्त । अमुष्मै सुखदात्रे राष्ट्रं दत्त । व्रजक्षितो गोष्ठेषु निवसन्तो यूयं तस्मात् स्वाहा सत्यक्रियाभी राष्ट्रदा मह्यं पशुरक्षकाय राष्ट्रं दत्त । अमुष्मै गवादिपशुरक्षकाय राष्ट्रं दत्त । वाशाः कामयन्तो यूयं स्वाहा सत्यनीत्या राष्ट्रदा मामिच्छायुक्ताय राष्ट्रं दत्त । हे वाशाः, यूयं अमुष्मै तादृशाय राष्ट्रं दत्त । तथैव शविष्ठा बलवन्तः सत्यपुरुषार्थेन राष्ट्रदा मह्यं बलवतेराष्ट्रं दत्त, अमुष्मै च राज्यं दत्त । शक्वरीः सामर्थ्यवत्यः सत्यपुरुषार्थेन राष्ट्रदा मे राष्ट्रं दत्त अमुष्मै च राज्यं दत्त । जनभृतः श्रेष्ठानां मनुष्याणां पोषयित्र्यः स्वाहा सत्यकर्मभी राष्ट्रदाः श्रेष्ठगुणयुक्ताय मह्यं राष्ट्रं दत्त, अमुष्मै सत्यप्रियाय राज्यं दत्त । हे सभाध्यक्षादिराजपुरुषाः, यूयं विश्वभृतः संसारस्य पोषकाः हुई जलधाराओं! आप लोग अपराजित बल से युक्त होकर यजमान के लिये महान् बल देती हुई अवस्थित रहें । अध्यात्मपक्ष में भी गुरु शिष्य के अभिषेक के लिये पूर्वोक्त हवनपूर्वक तत्तद् जलों का ग्रहण करता है । अतः पूर्वोक्त प्रकार का मन्त्रार्थं ही संगत है । स्वामी दयानन्द द्वारा उल्लिखित अर्थं निर्मूल तथा असम्बद्ध होने के कारण असंगत है । तत्तत् जन राष्ट्र देने में कैसे समर्थ होंगे? एक ही राष्ट्र मुझे तथा दूसरे को, दोनों को कैसे दिया जा ' अमुष्मै ' इन शब्दों के विभिन्न अर्थं कैसे सम्भव हैं? यह भी विचारणीय है । श्रुति तथा सूत्र के राजपुरुष तथा दूसरे भी सकता है? ' मे ' तथा वचनों का विरोध तो
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
३०८ शुक्ल यजुर्वेद संहिता [ अ ० ] १० स्वाहा सत्यवाण्या राष्ट्रदा मे सर्वपोषकाय राष्ट्रं दत्त, अमुष्मै तथाविधाय राज्यं दत्त | स्वराज्येनैव प्रकाशमाना यूयं मे दत्त, अमुष्मै दत्त । हे सत्स्त्रियः, क्षत्रियाय महि पूजायोग्यं राज्यं वन्वानाः कामयन्त्यः सहौजसः पराक्रमयुक्तेभ्यो राजन्येभ्यो महि महत् क्षत्रं राज्यं दधतीर्दधत्योऽनाधृष्टाः शत्रुभिरनभिभूता मधुमतीर् मधुररसवती रोषधीर् मधुमतीभिर्मधुरादिगुणयुक्तैर्वसन्तादिभिऋतुसुखः पृच्यन्तां साध्यन्ताम् । हे सज्जनपुरुषाः, यूयं तादृशीर्योषितः सीदत प्राप्नुत ' इति, तदपि यत्किञ्चित् निर्मूलत्वादसम्बद्धत्वाच्च । राजपुरुषा अन्ये च ते ते कथं राष्ट्रं दातुं प्रभवेयुः । एकमेव राष्ट्रं मह्यममुष्मै च कथं दातुं शक्यते? ' मे ' - ' अमुष्मै ' इति पदयोः कथं ते ते विलक्षणा अर्थाः सम्भवन्तीति चिन्त्यम् । श्रुतिसूत्रविरोधस्तु पूर्वोक्तसिद्धान्तव्याख्यानेन स्पष्ट एव । सिद्धान्ते तु ' मे ' अध्यर्यवे, ' अमुष्मै ' ' यजमानाय दत्तेति तत्तच्छक्तिविशिष्टास्तत्तदधिष्ठात्र्यो देवताः प्रार्थ्यन्ते, ऋत्विक्प्रार्थनाऽपि यजमानगा भवति, क्रीतत्वात् ॥ ४ ॥
सोम॑स्य॒ त्विषि॑र॒सि॒ तवैव मे॒ त्विषि॑र्भूयात् । अ॒ग्नये॒ स्वाहा॒ समा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ बृह॒स्पत॑य॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा अशीय स्वाहा भगा॑य॒ स्वाहा॑र्य॒म्णे स्वाहा॑ ॥ ५ ॥
' मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्मास्तृणाति सोमस्य त्विषिरिति ' ( का ० श्र ० १५ ५ ५ १ ) । मरुत्वतीयग्रहग्रहणान्ते माहेन्द्रग्रहग्रहणात् पूर्वं मैत्रावरुणधिष्ण्याप्रासादितपालाशोदुम्बरनैयग्रोधवाटाश्वत्थानि पात्राणि तूष्णीमासाद्यन्ते । तेषु पालाशादिचतुष्टयस्य पुरस्ताद् व्याघ्रचर्मास्तृणाति सोमस्य त्विषिरित्यादि-मन्त्रेण । चर्मदेवत्यं यजुः । हे व्याघ्रचर्मं, त्वं सोमस्य त्विषिर्दीप्तिरसि, अतस्तवेव त्वत्सदृशी मे मम त्विषिः कान्तिर्भूयात् । ‘ पार्थानामग्नये स्वाहेति षड् जुहोति प्रतिनन्त्रम् ' ( का ० श्री ० १५ । ५। ३ ) । पार्थसंज्ञकानां होमानां मध्ये सकृद्गृहीतेनाज्येन षडाहुतीर्जुहोति । ' अग्नये ' इत्यादीनि षट् पार्थान्यभिषेकादी जुहोति इन्द्रा येत्यादि ष अभिषेकान्ते जुहोति । लिङ्गोक्तानि द्वादश यजूंषि । अङ्गतीत्यग्निस्तस्मै देवाय स्वाहा सुहुतमस्तु । सुनोतीति सोमः, सूते सुवति ( प्रेरयति ) वेति सविता, सरः शब्दः प्रवाहो यस्याः सा सरस्वती, पूष्णातीति पूषा, बृहतां साम्नां पतिर्बृहस्पतिः, इन्दति ईष्टे यः स इन्द्रः, घुष्यति शब्दं करोति यः स घोषः, श्लोक्यते स्पष्ट ही है । हमारे सिद्धान्त में तो ' मे ' का अर्थ अध्वर्यु के लिये तथा ' अमुष्मै ' का अर्थ यजमान के लिये दीजिये, इस प्रकार उन उन शक्तियों से युक्त तत्तत् अधिष्ठातृदेवताओं की प्रार्थना की जाती है । ऋत्विक् की प्रार्थना भी यजमान के लिये ही फलप्रद होती है, क्योंकि वह दक्षिणा द्वारा गृहीत प्रतिनिधि है ॥ ४ । मन्त्रार्थ - हे धर्म! तुम सोमदेव की कान्ति रूप हो, तुम्हारी कान्ति मुझे मिल जाय । अग्नि देवता की प्रीति के लिये यह आहुति दी जा रही है, यह भली प्रकार गृहीत हो । प्रेरक सोम देवता के लिये, सविता देवता के लिये, प्रवाह रूप सरस्वती देवी के लिये, पोषक पूषा देवता के लिये, बृहस्पति के लिये यह आहुति दी जाती है, यह भली प्रकार स्वीकार हो । इन्द्रदेवता की प्रीति के लिये शब्द करने वाले देवता के लिये, जनों से कीर्तित परस्पर आन्दोलित रूप के लिये, पुण्य पाप का विभाग करने वाले के लिये, ऐश्वर्य के लिये और विश्व को व्याप्त करने वाले अर्यमा देवता
के लिये यह आहुति दी जा रही है । यह भली प्रकार गृहीत हो ॥ ५ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( १५ / ५ / १, ३ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' सोमस्य
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
म ० ५ ] वेदार्थ पारिजात भाष्यसहिता ३० ९ विभाजने ' इति धातु:, कीर्त्यते जनैरिति श्लोकः, अंशयति विभाजयति पुण्यपापे तत्तत्फलदानेनेत्यंशः देवेभ्यः सुहुतमस्तु , ' अंश । भज्यते सेव्यते यः स भगः, इयति व्याप्नोति विश्वमित्यर्यमा, एतेभ्यो एष यज्ञस्तायते तदेनं मध्यत अत्र ब्राह्मणम् -'तं वै माध्यन्दिने सवनेऽभिषिति । एष वै प्रजापतिर्य सकालं विधत्ते - तं वा इति । तं एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति ' ( श ० ५ | ३ | ५ | क्रियमाणेनाभिषेकेणैनं १ ) | यजमानाभिषेकं मध्यत एव यज्ञरूपप्रजापतिमध्य प्रशंसति - एष वै प्रजापतिरिति । माध्यन्दिनसवने माहेन्द्रे । एष वा इन्द्रस्य निष्केवल्यो ग्रहो एव निहितवान् भवति । मध्यतो मध्ये सुवति प्रेरयत्यध्वर्युः शस्त्रमिन्द्रो | ' अगृहीते वै यजमानस्तदेन स्व एवायतनेऽभिषिचति ' यन्माहेन्द्रोऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्य १५ ग्रहेऽगृहीते सोमरसेनापूर्णे मरावतीयान्त ( श ० ५।३।५।२ ) । कालविशेषं विधत्ते -अगृहीत इति । इन्द्रो माहेन्द्रे वा इति । ' अग्रेण मैत्रावरुणस्य धिष्ण्यम् । इत्यर्थः । यजमानाभिषेकं स्वायतननिधानरूपेण प्रशंसति स यत्ततः शार्दूलः समभवत्तेन सोमस्य शार्दूलचर्मोपस्तृणाति सोमस्य त्विषिरसीति यत्र वै सोम इन्द्रमत्यपवत शार्दूलत्विषिमेवास्मिन्नेतद्दधाति तस्मादाह विषिस्तस्मादाह सोमस्य त्विषिरसीति तवेव मे त्विषिर्भूयादिति विधित्सुर्व्याघ्रचर्मास्तरणं समन्त्रकं विधत्ते— तवेव मे त्विषिर्भूयादिति ' ( श ० ५।३।५।३ ) । तदिदं क्रमेण - अत्र वै सोम इति । पूर्वमिन्द्रेण पीयमानः अग्रेणेति । शार्दूलस्य सोमत्विषत्वमाख्यायिका मुखेनोपपादयति ततः सोऽतिपवितः सोमः शार्दूलः सम्भूतवान् । सोमस्तमत्यपवत शरीरादधो निरगच्छत् । स सोमो यदा अत्यपवत एतेन मन्त्रभागकृतेन अस्मिन् यजमाने तस्मात् शार्दूलस्य सोमकार्यत्वात् तदीयत्वचः सोमत्विषित्वम् । एतद् शार्दूलदीप्तिमेव निहितवान् भवति । सोऽकामयत सर्वमन्नाद्यमवरुन्धीयेति ' अथ पार्थानि जुहोति । पृथी ह वै वैन्यो मनुष्याणां प्रथमोऽभिषिषिचे पशूनभियन्त्यसावेहि राजा त्वा पक्ष्यत तस्मा एतान्यजुहवुः स इदः सर्वमन्नाद्यमवरुरुधेऽपि ह स्मास्मा आरण्यान् ' ( श ० ५। ३ ५।४ ) । अथाभिषेकस्य पुरस्तात् इति तथेद, सर्वमन्नाद्य मवरुन्धे यस्यैवं विदुष एतानि हूयन्ते पृथिनानुष्ठितानि । एतेषां पृथिसम्बन्धं पश्चाच्च क्रियमाणान् पार्थहोमान् विधत्ते - अथ पार्थानीति । पृथी पार्थानि नाम मनुष्येषु प्रथमोऽभिषिक्तः । सोऽकामयत दर्शयति - पृथी हवा इति । वैन्यो वेनो नाम राजा, तस्य पुत्रः । ततः स राजा इदं सर्वमन्ना-सर्वमन्नाद्यमवरुन्धीय स्वाधीनं कुर्याम् । तस्मै पृथय एतानि पार्थान्यजुहवुरध्वर्यवः । अपि खल्वस्मै आरण्यान् पशूनभि-द्यमवरुरुधे स्वाधीनं कृतवान् । सर्वान्नावरोधकत्वं दर्शयति - सर्वमित्यादि । सोऽपि पशुस्तद्वचः श्रुत्वा तत्समीपं ह्वयन्ति । किमसौ? हे पशो, एहि राजा त्वां पक्ष्यत भोक्तुं पक्वं करिष्यति सर्वस्यावरोधो भवतीत्यनुष्ठानफलमाह-स्वयमेव गच्छति । एवं विदुषोऽद्यतनस्य विदुषो ग्रामारण्यस्य भक्षणस्य भवन्ति ' ( श ० ५। ३।५।५ ), ' षट् ' तानि वै द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य तस्माद् द्वादश मध्यतः सुवति ' ( श ० ५ | ३ | ५६ ), पुरस्तादभिषेकस्य जुहोति । षडुपरिष्टादेनं मध्यत एवैतस्य प्रजापतेर्दधाति यान्युपरिष्टादभिषेकस्य जुहोतीन्द्रस्तेषां प्रथमो ' स यानि पुरस्तादभिषेकस्य जुहोति । बृहस्पतिस्तेषामुत्तमो भवत्यथ परिबृहति ' ( श ० ५।३।५।७ ) । भवति ब्रह्म वै बृहस्पतिरिन्द्रियं वीर्यमिन्द्र एताभ्यामेवैनमेतद्वीर्याभ्यामुभयतः - द्वादश वै मासा इति । एतेषां हवनकालं एतेषां संख्यां विधत्ते --तानि वै द्वादशेति । तां संवत्सरात्मना प्रशंसति बृहस्पतये स्वाहा इति पठ्यते । विधत्ते - षट् पुरस्तादभिषेकस्येति । द्वादशपदार्थानां मध्ये पूर्वषट्कस्यान्ते यजमानं ब्रह्मक्षत्रवीर्याभ्यामुभयतः उत्तरषट्कस्यादी इन्द्राय स्वाहेति । तयोरुभयोर्मध्येऽभिषेकेण संवर्धितवान् भवतीत्यर्थः । की त्विषि: ' इत्यादि कण्डिकागत मन्त्रों के द्वारा व्याघ्र के चमं को बिछाया जाता है तथा पार्थसंज्ञक आहुतियाँ प्रदान
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
३१० शुक्लयजुर्वेदसंहिता [ अ ० १० ' स जुहोति । यानि पुरस्तादभिषेकस्य जुहोत्यग्नये स्वाहेति तेजो वा अग्निस्तेजसैवैनमेतमभिषिञ्चति सोमाय स्वाहेति क्षत्रं वै सोमः क्षत्रेणैवैनमेतमभिषिञ्चति सवित्रे स्वाहेति सविता वै देवानां प्रसविता सवितृप्रसूत एवैनमेत-दभिषिञ्चति सरस्वत्यै स्वाहेति वाग् वै सरस्वती वाचैवैनमेतदभिषिञ्चति बृहस्पतये स्वाहेति ब्रह्म वै बृहस्पति-ब्रह्मणैवैनमेतदभिषिञ्चत्येतानि पुरस्तादभिषेकस्य जुहोति तान्येतान्यग्निनामानीत्याचक्षते ' ( श ० ५।३ ॥८ ) । होममनूद्य मन्त्रान् विधत्ते अग्नये स्वाहेति । तत्रैकैकमनुद्य स्तौति - तेजो वेत्यादि । स्पष्टोऽर्थः । सोमादि-पदानां देवतान्तरवाचकत्वं व्युदस्यति - तान्येतान्यग्निनामानीति । अग्नेः सर्वदेवतात्मकत्वात् । ' अथ जुहोति । यान्युपरिभिषेकस्य जुहोतीन्द्राय स्वाहेति वीर्यं वा इन्द्रो वीर्येणैवैनमेतदभिपिचति घोषाय स्वाहेति वीर्यं वै घोषः श्लोकाय स्वाहेति वीर्यं वै श्लोक: अ९ शाय स्वाहेति वीर्यं वा अ शो T भगाय स्वाहेति वीर्यं वै भगः “ तदेनमस्य सर्वस्यार्यमणं करोत्येतान्युपरिष्टादभिषेकस्य जुहोति तान्येतान्यादित्यनामानीत्याचक्षते ' ( श ० ५। ३ ५। ९ ) । इन्द्रादयः शब्दा आदित्यस्यैव मूर्तिभेदेनावस्थितस्य नामानि । पूर्वमग्निवाचकैर्नामभिर्होमेन भूलोके यजमानं निहितवान् भवति, अन्तत आदित्यवाचकैर्नामभिर्होमेन स्वर्गलोकेऽवस्थापितवान् भवति । " अध्यात्म क्षे शिष्य आहू - हे आचार्य, त्वं सोमस्य साम्बशिवस्य त्विषिः प्रकाशरूपोऽसि । अतस्तवेव त्वत्प्रसादान्ममापि सा त्विषिर्भूयात् । तदर्थमहमग्नये पापदाहायाग्निरूपाय परमात्मने स्वाहा दिव्यं हविरपयामि । सोमाय चन्द्ररूपापन्नाय, सवित्रे सूर्यरूपाय, सरस्वत्यै सरस्वतीरूपाय एवं पूषादिरूपाय परमात्मने स्वाहा दिव्यं हविरर्पयामि । यद्वा अग्नये सर्वस्याग्रे नयनकर्त्रे परमात्मने सोमाय साम्ब सदाशिवाय, सवित्रे जगदुत्पादकाय परमात्मने, सरस्वत्यै सरतीति सरो ज्ञानं तदस्त्यस्यामिति सरस्वती चिद्रूपिणी भगवती तस्यै, पूष्णे पुष्णाति सर्वं जगदिति पूषा तस्मै परमात्मने, बृहस्पतये बृहत्या वेदलक्षणाया वाचः, बृहतां वा पतिर्ब्रहस्पतिस्तस्मै वेदाश्रयाय वेदवेद्याय च परमात्मने, इन्द्राय परमैश्वर्याय परमात्मने, घोषाय शब्दब्रह्मरूपाय, श्लोकाय श्लोक्यते सर्वैरपि स्नूयत इति लोकस्तस्मै, अंशाय अंशयति विभाजयति पुण्यपापे फलदानेनेत्यंशः परमात्मा तस्मै, भगाय भज्यते सेव्यते सर्वैरिति भगस्तस्मै दिव्यं हविरर्पयामि । अर्यमणम् इयति व्याप्नोति विश्वमित्यर्यमा तमिति व्युत्पत्तिरपि परमात्मपक्ष एव घटते । दयानन्दस्तु हे राजन् यथा त्वं सोमस्य ऐश्वर्यस्य त्विषिज्र्ज्योतिरसि तथाहमपि भवेयम्, यतस्तवेव मे त्विषिविज्ञानप्रकाशो भूयात् । यथा भवताग्नये विद्युदादये स्वाहा सत्यवाक् प्रियाचरणयुक्ता, सोमाय औषध-विज्ञानाय स्वाहा वैद्यकपुरुषार्थविद्या, सवित्रे सूर्यविज्ञानाय स्वाहा ज्योतिर्विद्या, सरस्वत्यै वेदार्थ सुशिक्षा-जाती हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है शिष्य कहता है कि हे आचार्य, आप साम्ब सदाशिव के प्रकाशमान स्वरूप हैं | अतः आपकी कृपा से मुझमें भी आपकी भांति वह प्रकाश हो । एतदर्थ मैं पापों को जलाने में अग्निरूपी परमात्मा के लिये दिव्य हवि समर्पित करता हूँ । चन्द्ररूपी 1 सूर्यरूपी, सरस्वतीरूपी तथा पूषादिरूपी परमात्मा के लिये दिव्य हवि समर्पित करता हूँ । अथवा सबको आगे ले जाने वाले साम्ब सदाशिव जगत् के उत्पादक परमात्मा के लिये, ज्ञानाधिष्ठात्री चिद्रूपिणी भगवती के लिये सबके पोषक, वेदवाणी के पालक, वेदाश्रय, वेदवेद्य, परमैश्वर्यशाली, शब्द-ब्रह्मरूपी, सबके द्वारा संस्तुत, पुण्य तथा पाप के फलों को विभाजित कर प्रदान करने वाले, सबके द्वारा सेवटरीय परमात्मा के लिये दिव्य हवि समर्पित करता हूँ । ' विश्व को व्याप्त करता है ' इस प्रकार की अयंमा शब्द की व्युत्पत्ति भी परमात्मा के पक्ष में घटित होती है । स्वामी दयानन्द का अर्थव्याख्यान मुख्य अर्थ को छोड़कर अत्यन्त दूरवर्ती तथा काल्पनिक अर्थ को ग्रहण करने के
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] वेदार्थ पारिजातभाष्यसहिता ३११ विज्ञापिकायै वाचे स्वाहा व्याकरणाद्यङ्गविद्या, पूष्णे पशुपालनाय स्वाहा योगव्यवहारविद्या, बृहस्पतये प्रकृत्या -दीनां पत्युरीश्वरस्य विज्ञानाय स्वाहा ब्रह्मविद्या, इन्द्राय इन्द्रियाधिष्ठातुर्जीवस्य विज्ञानाय स्वाहा विवेकविद्या, घोषाय सत्यप्रियभाषणादियुक्तायै वाण्यै स्वाहा तथ्योपदेशे वक्तृत्वविद्या, श्लोकाय तत्त्वसंघात्मक काव्य गद्य-पद्यछन्दोनिर्माणादिविज्ञानाय स्वाहा तत्त्वाव्यशास्त्रादिविद्या, अंशाय परमाण्ववगमाय स्वाहा सूक्ष्मपदार्थविद्या, भगाय ऐश्वर्याय स्वाहा पुरुषार्थविद्या, अर्यम्णे न्यायाधीशत्वाय स्वाहा राजनीतिविद्या गृह्यते, तथा मयापि गृह्येत ' इति, तदपि निरर्थकमेव, मुख्यार्थत्यागेनाति विप्रकृष्ट काल्पनिकार्थं ग्रहणे मानाभावात् । सोमायेत्यस्यौ-षधविज्ञानाय स्वाहा वैद्यक पुरुषार्थं विद्येत्यादिकं सर्वमपि व्याख्यानं निर्मूलमेव ॥ ५ ॥
प॒वित्रे॑ स्थो वैष्णव्यो॑ सवि॒तुर्वैः प्रस॒व उत्प॑ना॒म्यच्छिद्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः । अनि॑भृष्टमसि वा॒चो बन्धु॑स्तयो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्व॒ः ॥ ६ ॥
' पवित्रे कृत्वा हिरण्यमेनयोः प्रवयति ' ( का ० श्र ० १५५५४ ) | पवित्रे स्थ इति प्रकृतिवत् पवित्रे कृत्वा तयोर्हिरण्यं बध्नाति । हे पवित्रे कुशद्वयरूपे, युवां वैष्णव्यो वैष्णवी, लिङ्गव्यत्ययः, यद्वा यज्ञसम्बन्धिन्यो कुशनाड्यो, यज्ञरूपस्य विष्णोः सम्बन्धिनौ स्थो भवथः । ' ताभ्यामुत्पुनात्यपः सवितुर्व इति ' ( का ० श्रौ • १५।५।४ ) । मैत्रावरुणधिष्ण्यस्य पुरस्तादासादिता औदुम्बरपात्रस्था अभिषेकार्था अप उत्पुनाति सवितुरित्यादि-मन्त्रेण सहिरण्याभ्यां दर्भपवित्राभ्यामुत्पुनात्यध्वर्युः । अब्देवत्यं यजुः । सवितुः सर्वप्रेरकस्य परमेश्वरस्य प्रसवेऽभ्यनुज्ञायां वर्तमानोऽहमच्छिद्रेण निर्दोषेण समीचीनेन पवित्रेण सूर्यस्य भगवतः सवितू रश्मिभिर्मयूखैश्च आप:, वो युष्मान् उत्पुनामि उत्पवनं शोधनं करोमि । अनिभृष्टमसि । मन्त्रावयवा एकवचनान्ताः शतपथश्रुत्या बहुवचनान्ततया व्याख्याताः, अतः श्रुत्यनुसारेणैव व्याख्यानं युक्तम् । आपोऽत्राभिधेयाः । हे आपः! यूयमनिभृष्टाः स्थ, भ्रस्ज पाके ' इत्ययं धातुर्धृ ष्ट्यर्थे व्याख्यातः । अनिघृष्टा न नितरां धृष्टा अनाधृष्टा अपराभूता रक्षोभिः, मन्त्ररीत्या तु यवादिवद् वह्निसंयोगेऽपि न नितरां भृष्टं न विनश्यतीति यावत् । वाचो बन्धुर्वाण्या बन्धुभूताः, वाग्व्यवहारस्य कारणम् । यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति । आपोमयी वाक् ' इत्यादिश्रुतिभ्यः । तपोजाः तपसः सन्तापवतोऽग्नेर्जातास्तपोजाः । ' अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद् वृष्टिरग्नेर्वा एता जायन्ते ' ( श ० ५। ३ ५। १७ ) इति श्रुतेः, ' अग्नेराप: ' ( तै ० उ ० २।१।१ ) इति श्रुतेश्च | सोमस्य दात्रमसि दात्र्य आपो भवथ, दात्रसाधनं भवसीति वा । ' यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति ' ( श ० ५।३।५।१८ ) । स्वाहा राजस्वः स्वाहाकारेण पूताः सत्यो राजस्वो जनस्य राजानं सुवते जनयन्तीति तथोक्ताः । कारण प्रमाण के अभाव से निरर्थक ही है । ' सोमाय ' का अर्थ ' औषधिविज्ञान के लिये ' करना और वैद्यक पुरुषार्थं विद्या इत्यादि का व्याख्यान द्वारा निरूपित करना अप्रामाणिक हो है ॥ ५ ॥
मन्त्रार्थ - हे पवित्र कुशद्वय! तुम यज्ञ कार्य में नियुक्त हो । जगत् के एकमात्र नियन्ता इस परम देवता की आज्ञा से प्रेरित होकर छित्रशुभ्य पवित्र द्वारा सूर्य की किरणों से तुम्हारा उत्पवन ( सिंचन ) करता है । हे जल देवता! तुम राक्षसों से कभी पराभूत न होने वाले और वाणी के प्रिय बन्धु हो, तेज से समुत्पन्न सोम के उत्पादक हो । स्वाहाकार से पवित्र हुए तुम इस यजमान को राज्यश्री से सुशोभित करो ॥ ६ ॥
भाष्यसार - ' पत्रित्रे स्थः ' इस कण्डिका के मन्त्रों से याज्ञिक प्रक्रिया में कुशपवित्रों का निर्माण, उनमें स्वर्णबन्धन
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
३१२ शुक्लयजुर्वेद संहिता [ अ ० १० ' अण मैत्रावरुणस्य धिष्ण्यम् । अभिषेचनीयानि पात्राणि भवन्ति यत्रैता आपोऽभिषेचनीया भवन्ति ' ( श ० ५।३।५।१० ) । अभिषेचनीयानां पात्राणामासादन प्रदेशं विधत्ते - अग्रेणेति । अभिषेचनीयशब्दं निर्वक्ति - यत्रेति । यत्र तेषु विहिताः सप्तदश आपोऽभिषेचनीया अभिषेक्तव्या आसिच्यमाना भवन्ति, तान्यभिषेचनीयानि । ' पालाशं भवति । तेन ब्राह्मणोऽभिषिञ्चति ब्रह्मवै पलाशो ब्रह्मणैवैनमेतदभिषिञ्चति ' ( श ० ५।३।५।११ ) । तानि पात्राण्य-भिषेक्तविशेषसहितानि क्रमेण विधत्ते - पालाशमिति । पालाशं पलाशशाखानिर्मितमेकं पात्रम्, तेन पात्रेण ब्राह्मणो यजमानमभिषिचेत् । पालाशेन ब्राह्मणकर्तृकयजमानाभिषेककरणे कारणमाह - ब्रह्म वै पलाश इति । वृक्षेषु ब्राह्मणजातिः पलाशः, पालाशपात्रेणाभिषेके ब्रह्मणैवाभिषेकं कृतवान् भवति । ' औदुम्बरं भवति । तेन स्वोऽभिषिचत्यन्नं वा ऊर्गुदुम्बर ऊर्वे स्वं यावद्वै पुरुषस्य स्वं भवति नैव तावदशनायति तेनोक् स्वं तस्मादौ-दुम्बरेण स्वोऽभिषिञ्चति ' ( श ० ५। ३ ५। १२ ) । उदुम्बरनिर्मितं पात्रं द्वितीयम् । तेन पात्रेण स्वो ज्ञातिताऽभिषेकं कुर्यात् । तत्रोपपत्तिः - अन्नं वा ऊगिति उदुम्बरस्यान्न साधनत्वात् । अन्नमेव पुरुषस्य स्वं धनं यतोऽतोऽस्य पुरुषस्य यावत् स्वं भवति, तावन्नाशनायति क्षुधितो न भवति, धनस्य विद्यमानत्वात् । अतोऽन्नस्य स्वत्वादन्न-साधनेनौदुम्बरपात्रेण स्वो ज्ञातिर्भ्राता एवाभिपिचेत् । ' नैयग्रोधपादं भवति । तेन मित्रयो राजन्योऽभिषिञ्चति पद्भिर्वे न्यग्रोधः प्रतिष्ठितो मित्रेण वै राजन्यः प्रतिष्ठितस्तस्मान्नैयग्रोधपादेन मित्रयो राजन्योऽभिषिचति ' ( ० ५। ३ ५। १३ ) । तृतीयं नैयग्रोधपादम् । न्यग्रोधो वटः, तस्य पादः शाखावरोहः " तेन निर्मितं नैयग्रोधपादं पात्रम् । तेन मियः सखिकर्मणि साधुः सखा राजन्योऽभिषिचेत् । तत्र हेतुमाह - पद्भिर्वै न्यग्रोध इति । न्यस्य पादैरेव प्रतिष्ठा दृश्यते । राजापि हितोपदेशकैराप्तः सखिभिरेव प्रतिष्ठितो भवति नान्यथा । तस्मात्तेन पात्रेण मित्रकर्तृकमभिषेककरणं युक्तमेव । ' आश्वत्थं भवति । तेन वैश्योऽभिषिञ्चति स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेन वैश्योऽभिषिञ्चत्येतान्यभिषेचनीयानि पात्राणि भवन्ति ' ( श ० ५।३।५।१४ ) । आश्वत्थमिति चतुर्थम् । अश्वत्थमश्वत्थनिर्मितम् तेन वैश्योऽभिषिचेत् । विरूपाणां मरुता-मश्वत्थेऽवस्थानाद् वैश्यस्य तत्सम्बन्धः । --' अथ पवित्रे करोति । पवित्रे स्थो वैष्णव्याविति सोऽसावेव बन्धुस्तयोहिरण्यं प्रवयति ताभ्यामेता अभिषेचनीया अप उत्पुनाति तद्यद्धिरण्यं प्रवयत्यमृतमायुर्हिरण्यं तदास्वमृतमायुर्दधाति तस्माद्धिरण्यं प्रवयति ' ( श ० ५।३।५।१५ ) | पवित्रकरणं विधते - अथ पवित्रे इति । वैष्णव्यौ विष्णुर्यज्ञस्तत्सम्बन्धिन्यौ दर्भनाड्यौ स्थो भवथः । दर्भनाड्योर्विष्णुसम्बन्धप्रतिपादकमर्थवादमतिदिशति - सोऽसावेव बन्धुरिति । असौ विप्रकृष्ट-देशस्थः ( श ० १।१।३।१ ) इत्यत्र प्रथमकाण्डे समाम्नातः । तत्र ह्येवमाम्नातम् - ' पवित्रे स्थो वैष्णव्याविति । यज्ञो वै विष्णुर्यज्ञिये स्थ इत्येवैतदाह ' इति । तत्प्रशंसति अमृतमिति । अमुम् अप्सु दधाति । तयोर्दर्भयोहिरण्य-ग्रथनं विधत्ते तयोर्हिरण्यं प्रवयतीति । दर्भयोरिति सप्तमी । प्रवयति, ' वेञ् तन्तुसन्ताने ', संग्रथ्नीयादित्यर्थः । ताभ्यामेता उक्ता अप उत्पुनीयात् । ' स उत्पुनाति । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण इत्यनाधृष्टा स्थ रक्षोभि-रित्येवैतदाह यदाहानिभृष्टमसीति वाचो बन्धुरिति यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति तस्मादाह वाचो बन्धुरिति ' ( श ० ५। ३।५।१६ ) । उत्पवनमनूद्य मन्त्रं विधत्ते -- स उत्पुनातीति । हे उदक, अनिभृष्टम्, भ्रस्ज पाके ' यवादिवद् वह्निसंयोगेऽपि न नितरां भृष्टम्, न विनश्यतीति यावत्, रक्षोभिर्वा न बाधितं भवति । सोमस्य दात्रमसि दाने साधनं भवति । उदकसम्बन्धादेव सोमरसनिष्पत्तिः तादृशो रस एव हूयते, अतः सोमस्य दान-साधनभूता भवत । स्वाहाशब्दो न होमार्थः, मन्त्रान्ते पाठाभावात् । तथा च स्वाहाकारेण पूताः सन्तो राजानं तथा उनके द्वारा उत्पवन किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १५/५/४ ) में प्रतिपादित है |
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
म ० ६ ] dari पारिजात भाष्यसहिता ३१३ सुवते जनयन्तीति राजस्वः । मन्त्रं भागशोऽनूद्य व्याख्यास्यन् सवितुर्वं इति मन्त्रभागस्य प्रथमकाण्डे उत्पवनसमये समाम्नातमर्थवाद ब्राह्मणमतिदिशति - सोऽसावेव बन्धुरिति । तत्र ह्येवमाम्नातम् - ' सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतदुत्पुनात्यच्छिद्रेण पवित्रेणेति यो वा अयं पवत एषोऽच्छिद्रं पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरिति एते वा उत्पवितारो यत्सूर्यस्य रश्मयस्तस्मादाह सूर्यस्य रश्मिभिः ' ( श ० १ | १ | ३ | ६ ) इति । सामान्यविवक्षयैकवचनान्तत्वेन प्रयुक्तम् । अपां बहुत्वेन बहुवचनान्ततया व्याचष्टे - अनाधृष्टा स्थेति । अपां वाग्बन्धुत्वमुपपादयति यावद्वा इति । यावद्वै प्राणेषु मुखनासिकादिष्वपां सद्भावस्तावत् पुरुषो वाचं वदति, तद्विरहे शुष्का जिह्वा शब्दानुच्चारथितुं न शक्नोतीत्यर्थः । ' तपोजा इति । अग्नेर्वे धूमो जायते धूमादभ्रमभ्राद् वृष्टिग्नेर्वा एता जायन्ते तस्मादाह तपोजा इति ' ( श ० ५।३।५।१७ ) । अपां परम्परयाऽग्निजन्यत्वं दर्शयति-अग्नेर्वा इति । ' सोमस्य दात्रमसीति । यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति तस्मादाह सोमस्य दात्रमसीति स्वाहा राजस्व इति तदेताः स्वाहाकारेणैवोत्पुनाति ' ( श ० ५ | ३ | ५ | १८ ) । यदा एनं सोममेताभिरद्भिरभिषुण्वन्ति अभिषवं कुर्वन्त्यध्वर्यवः, अथ आहुतिर्भवति । अन्यन्मन्त्रव्याख्यानेन व्याख्यातप्रायम् । अध्यात्मपक्षे आचार्यो वक्ति - हे सांख्ययोगसाधको, युवां वैष्णव्यो वैष्णवो विष्णोः परमेश्वरस्य सम्बन्धिनी स्थो भवथः, लिङ्गव्यत्ययः । सवितुः परमेश्वरस्याभ्यनुज्ञायां वर्तमानोऽहं युवामच्छिद्रेण छिद्ररहितेन समीचीनेन पवित्रेण ज्ञानेन सूर्यस्य भगवतः शमदमादिरूपं रश्मिभिः, उत्पुनामि उत्कृष्टतया शोधयामि । tant सम्प्रोत्साहयति - भो जीवजात, त्वमनिभृष्टमसि त्वं वह्निसंयोगेन यवादिवदविद्यादोषसंयोगेऽपि नितरां न भृष्टमसि नित्यचैतन्यरूपत्वात् । वाचो वागुपलक्षितस्यान्तर्बाह्यसर्वकरणजातस्य बन्धुः बन्धुवत्पा-लकोऽसि । सोमस्य सोमोपलक्षितस्य सोमादियागसमूहस्य दात्रं निवर्तनशीलोऽसि । हे जीवात्मानः, यूयं तपोजाः परमेश्वरस्य तपसा सङ्कल्पेन प्रादुर्भूताः स्थ, स्वाहाकारेण सर्वस्यात्मनिवेदनेन राजमानाः स्वा आत्मानो येषां ते तथाभूताः स्य, सर्वस्वत्य ( नाविर्भूत स्वप्रकाशब्रह्मरूपा भवथ । कर्माङ्गदर्भनाडीद्वयरूपेण तत्तदपां रूपेण च विवर्तमानस्य परमात्मन एव वा तत्तद्रूपेण स्तवनं तत्र सिद्धान्तपक्षीयव्याख्याने मन्तव्यम् । -दयानन्दस्तु – ' हे सभेश राजपुरुष, यतस्त्वं वाचो वेदवाण्या अनिभृष्टं भ्रष्टतारहिताचरणशीलस्य बन्धुर्भ्रातास, सोमस्यौषधीनां दात्रमसि छेत्तासि, तपोजा ब्रह्मचर्यतपसा प्रसिद्धोऽसि, अतस्तवाज्ञया सवितुः प्रसूते शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है - गुरु कहता है कि हे सांख्ययोग के साधकों, आप दोनों परमेश्वर विष्णु से सम्बद्ध हैं । सविता परमेश्वर की आज्ञा में अवस्थित में आप दोनों को छिद्रविहीन श्रेष्ठ पवित्र ज्ञान से भगवान् सूर्य की शम, दम आदिरूपी रश्मियों से परिशुद्ध करता हूँ । गुरु समस्त जीवों को सम्बोधित करते हैं कि --- हे जीवगण, जो आदि अन जिस प्रकार अग्नि से सम्पृक्त होकर भुन जाते हैं, उसी प्रकार अविद्या दोष से सम्पृक्त होकर भी तुम भृष्ट नहीं होते हो, क्योंकि तुम नित्य चैतन्यस्वरूप हो, दाणी आदि सभी अन्तःकरण तथा बाह्य करणों के तुम बन्धु की भांति पालक हो, सोम आदि समस्त यागों के सम्पादक हो । हे जीवात्मगण, तुम लोग परमेश्वर के संकल्प से उत्पन्न हो, सर्वस्व समर्पण के द्वारा सुशोभित स्वान्तरात्मा से युक्त हो, सर्वस्व त्याग के द्वारा स्वप्रकाश ब्रह्मरूपी हो । यज्ञकर्म की अंगभूत कुशा के दो पत्रों तथा उनमें स्थित जल के रूप में प्रतिभासित परमात्मा की ही उन उन रूपों में स्तुति की गई है, यह याज्ञिक भाव सिद्धान्त पक्ष की व्याख्या में समझना चाहिये । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ में मुख्यार्थ का बाघ तथा दूरवर्ती गौण अर्थ का ग्रहण होने के कारण ४०
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
३१४ शुक्लयजुर्वेदसंहिता [ अ ० १० युवां द्वे परीक्षणा-जगति वैष्णव्यौ सर्वविद्यासुशिक्षाशुभगुणकर्मस्वभावव्यापिन्यो पवित्र शुभकर्माचरणशालिन्यौ सवितुः प्रसवे सूर्यस्य रश्मिभिः ध्ययनकारियो स्थः । हे अध्यापिकाः परीक्षिका अध्येत्र्यश्च स्त्रियः! यथाहं पवित्रीकारकेण किरणैरिवाच्छिद्रेण अविच्छिन्नेन निरन्तरेण पवित्रेण विद्यासुशिक्षाजितेन्द्रियब्रह्मचर्यादिभिः यूयं स्वाहा राजस्वो भवत सत्क्रियया व्यवहारेण वो युष्मान् उत्पुनाभि उत्कृष्टतया पुनामि पवित्रीकरोमि, तथा स्वीकाराभ्याम् । राजवीरप्रसविका भवत ' इति, तदपि निरर्थकमाडम्बरमात्रम्, मुख्यार्थबाधविप्रकृष्टगौणार्थ । व्यापकत्वं चात्र कीदृशम्? वैष्णव्याविति सर्व विद्यादिव्यापिन्यौ केचित् स्त्रियो ग्राह्ये इति विचित्रैव बुद्धिः जीवस्य त्वद्रीत्यापि कथं च विद्यादिगुणेषु द्रव्यस्य जीवस्य व्यापकत्वमित्यपि चिन्त्यम् । न चाणुपरिमाणस्य
व्यापकत्वं सम्भवति । श्रुतिसूत्रविरोधस्तु स्पष्ट एव ॥ ६ ॥
सध॒माद द्युम्निन॒राप॑ एता अना॑धृष्टा अप॒स्यो वसा॑नाः । - W ॥ प॒स्त्यासु चक्रे वरु॑णः स॒वस्य॑म॒पा ँ शिश॑म॒तृत॑मास्व॒न्तः ॥ ७ आपोऽभि-' अभिषेचनीयेष्वेना व्यानयति सधमाद इति ' ( का ० श्र ० १५ १५ ५ ) । उत्पूता वरुणदेवत्याऽनुष्टुप् अभिषेकार्था । सधमादः षेकार्थेषु पालाशौदुम्बरवाटाश्वत्थेषु पात्रेषु पूर्वासादितेषु चतुर्धा विभज्य निनयति सध॒मादः । सह मादनशीलाः, यद्वा सह सह एकस्मिन् पात्रे माद्यन्ति हृष्यन्ति, माद्यन्ते प्रीणयन्ति वा यास्ताः, ' सध मादस्थयोश्छन्दसि ' ( पा ० सू ० माद्यन्तीति सधमादः परस्परमनतिमानिन्यः, राजसूयाख्यं कर्म इच्छन्त्यो वा ताः, तेजोवत्यः, पूर्वसवर्णदीर्घः, ६।३।९ ६ ) इति सहस्य सधादेशः । द्युम्निनीः द्युम्निन्यो द्युम्नं वीर्यमस्ति यासां सिञ्चन्ति तास्वन्तर्मध्ये वरुणः सधस्थं वीर्यवत्यः । ' द्युम्नं द्योततेर्यशो वाऽन्नं वा ' ( निरु ० ५। ५ ) । एता या आपः? अनाधृष्टाः केनाप्यनभिभूताः, सह स्थीयते यस्मिन् तत् सधस्थं सहस्थानं प्रतिष्ठां वा कृतवान् । कीदृश्य आपः अपस्यः, ताभिरेव कर्मसम्पत्तेः । अपस्यः कर्मयोग्याः, सोमदुग्धदध्याद्यप्समवेतत्वादापः कर्माणि तत्र योग्या पात्राणीति वसाना अपस कर्मणि साध्व्यः अपस्य:, ' अप इति कर्मनाम ' ( निघ ० २ | १ | १ ) । वसते आच्छादयन्ति । कीदृशो वरुणः? अपां आच्छादयन्त्यः, सोमात्मना कर्मात्मना तत्फलभूतलोकात्मना च सर्वमाच्छादयन्त्यः , ' अपां वा एष शिशुर्भवति यो मातृस्थानीयानां शिशुः पुत्रः । राजसूयेऽद्भिरभिषिक्तत्वात् तज्जन्यत्वेन पुत्रत्वम् गृहस्थानीयासु । पत्यमिति राजसूयेन यजते ' ( श ० ५। ३ ५।१ ९ ) इति श्रुतेः । कीदृशीषु तासु? पस्त्यासु, ' विशो वै पस्त्याः ' ( श ० गृहनामसु, सर्वेषामाधारभूतत्वात् । यद्वा पस्त्यासु गृहावस्थितासु विक्षु प्रजास्विति कीदृशीषु? मातृतमासु अतिशयेन ५।३।५।१ ९ ) । तासु विक्षु प्रजासु वरुणः सधस्थं प्रतिष्ठां चक्रे कृतवान् । पुनः जगतो निर्मात्रीषु । चाहिये ' यह विचित्र कल्पना वह निरर्थक आडम्बर ही है । ' वैष्णव्यौ ' शब्द से सर्वविद्याव्यापिनी दो स्त्रियाँ समझनी विचारणीय ही है । है । इसमें व्यापकत्व कैसा होगा? विद्यादि गुणों में द्रव्यरूप जीव का व्यापकत्व कैसे होगा? यह भी ॥ ६ ॥
उनके मत में अणु परिमाण वाले जीव का व्यापकत्व सम्भव नहीं है । श्रुति तथा सूत्रवाक्यों का विरोध तो स्पष्ट है मन्त्रार्थ- - एक साथ चार पात्रों में स्थित, प्रसन्नता से भरे हुए, वीर्यवान्, अपराभूत, पात्रों का आच्छादन करने वाले ये जल देवता इस समय अभिषेक कार्य में नियुक्त हुए हैं । इस प्रकार सबको धारण करने में गृहरूप जगत् के निर्माता मातृरूप इन जलदेवियों के भीतर शिशुरूप में वरुण ने यजमान में सादर स्थिति की है ॥ ७ ॥
किया भाष्यसार -- ' सधमाद: ' इस ऋचा से अभिषेक के लिये जल को पलाश आदि के विभिन्न पात्रों में ग्रहण
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
भ ० ७ ] वैदार्थ पारिजातं भाष्यसहिता ३१५ अत्र ब्राह्मणम् – ' ता एतेषु पात्रेषु व्यानयति । सधमादो द्युम्निनीराप एता इत्यनतिमानिन्य इत्यनाधृष्टा इत्येवैतदाह स्थ यदाह सधमाद इति द्युम्निनीराप इत्येता इति वीर्यवत्य इत्येवैतदाहानाधृष्टा अपस्यो वसाना विशो वै पस्त्या रक्षोभिरित्येवैतदाह यदाहाऽनाधृष्टा अपस्यो वसाना इति पस्त्यासु चक्रे वरुणः सधस्थमिति विक्षु चक्रे वरुणः प्रतिष्ठामित्येवैतदाहापा शिशुर्मातृतमास्वन्तरित्यपां वा एव शिशुर्भवति यो राजसूयेन ' ( श ० ५।३।५।१ ९ ) । एतेष्वभिषेचनीयेषु पात्रेषु, यजते तस्मादाहापा, शिशुर्मातृतमास्वन्तरिति इति । एता उक्ता अपो व्यानयति, आसिञ्चेदित्यर्थः । मन्त्रमनूद्य तात्पर्यपुरःसरं व्याचष्टे - अनतिमानिन्य स्पष्टं ब्राह्मणम् । तदनुसार्येव पूर्वं व्याख्यानम् । माद्यन्ति अध्यात्मपक्षे- तत्तदपांरूपेण विद्यमानस्य परमात्मनः स्तवः । सधमादः सह जीवैः सार्धं द्योतिन्यो हृष्यन्ति मादयन्ते च तानिति ताः द्युम्निन्यो वीर्यवत्यः प्रपञ्च निर्माणसामर्थ्यस्य , अनाधृष्टाः कैश्चित् तन्मूलत्वाद् नित्यमुक्तस्वभाव-यशस्विन्यो वा, आपो व्याप्नुवन्त्य एता अभिषेचनीयास्तद्रूपेणोपस्थिताः वासो दधानाः, मायावृतत्वात्, त्वात्, अपस्यः अपस्सु कर्मसु साध्व्यः समर्हणीया अपस्यः, वसाना प्रपञ्च मायामयं निर्माणेऽतिशयितासु, अन्तर्मध्ये अपां एता या अभिषेचनीया आपस्तासु पस्त्यासु गृहरूपासु मातृतमासु वरुणः, वृणोतीति वरुणः, शिशुः, अद्भिरभिषिक्तत्वात् तच्छिशुरूपो वरुणः, सधस्थं सहस्थानं प्रतिष्ठां कृतवान् । १३ । १ ) इति मन्त्रवर्णात् । भगवद्वरणपरायणो भगवत्कृपाभिषिक्तः शिशुरूप:, ' अमृतस्य पुत्राः ' ( ऋ ० सं ० १० स परमेश्वरः कृपया परमेश्वर एव प्रतिष्ठितो भवति । याः सह माद्यन्ति दयानन्दस्तु – ' यो वरुणो वरो राजा भवेत् स या एताः प्राप्तविद्यासुशिक्षाः सधमादो आपो जलानीव हृष्यन्ति ता द्युम्निनी: प्रशस्तं द्युम्नं धनं यशो वा विद्यते यासां ताः, अनाधृष्टा अपस्सु साध्व्यः धर्षितुमयोग्या स्त्रियो विदुष्यो भवेयुः, शान्ता वसाना वस्त्राभूषणैराच्छादिताः पस्त्यासु गृहशालासु अपस्यः मानकर्त्रीषु अन्तः तासामपां व्याप्त विद्यानां स्त्रीणां यः शिशुः बालकस्तं मातृतमासु अतिशयेन शास्त्रोक्तशिक्षया , वरुणस्य वरपरत्वेऽपि राजार्थ-समीपे सधस्थं सहस्थानं समीपस्थं शिक्षार्थं चक्रे रक्षेत् ' इति, तदपि निर्मूलमेव यत्किञ्चित् । अपां विद्याव्याप्तानां स्त्रीणामित्यपि कत्वे मानाभावात् । ‘ अध्यापिका धात्र्यो वा सधमादः ' इत्याद्यपि विशो वै पस्त्या निर्मूलमेव, मानाभावात् । श्रुतौ तु सधमादोऽनतिमानिन्यो द्युम्निनीर्वीर्यवत्यो रक्षोभिरनाधृष्टा इत्यादिकं तद्विपरीतमेव व्याख्यातम्, सूत्रविरोधश्च ॥ ७ ॥
में याज्ञिक प्रक्रिया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १५/५/५ ) में प्रतिपादित है । शतपथ ब्राह्मण के अनुरूप अर्थ उपदिष्ट है । जलों के रूप में विद्यमान परमात्मा की स्तुति गई है । जीवों अध्यात्मपक्ष में अर्थ योजना इस प्रकार है- उन के कारण बल-के साथ हर्षित होने वालीं, अथवा जीवों को हर्षित करने वालीं जगत्प्रपञ्च का निर्माणसामर्थ्य तन्मूलक होने अर्धर्षित, युक्त, द्योतनात्मिका अथवा यशस्विनी, व्यापनशीला, नित्यमुक्त स्वभाव वाली होने के कारण किसी गृहरूपिणी के भी द्वारा , निर्माण में कर्मों में सुयोग्य, मायामय आच्छादन को धारण करने वाली ये जो अभिषेक की जलराशियाँ हैं, उन शिशुरूपी अतिशय श्रेष्ठ धाराओं के मध्य में शिशुरूपी वरुण, अर्थात् भगवान् के वरण में परायण भगवत्कृपा से अभिषिक्त जीव ने प्रतिष्ठा प्राप्त की है । स्वामी दयानन्द का अर्थ असंगत है, क्योंकि वरुण शब्द वरणपरक होते हुए भी राजा के अर्थ में प्रमाणरहित है । का इस प्रकार अर्थ asarfar एँ अथवा घायी सघमाद हैं, यह भी अप्रामाणिक है । ' अपाम् ' ' का ' विद्याव्याप्त स्त्रियों विरुद्ध है ॥ ७ ॥
करना भी प्रमाणाभाव के कारण निर्मूल है । श्रुति के विपरीत ही यह व्याख्या की गई है तथा सूत्र के भी
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
३१६ शुक्लयजुर्वेद संहिता क्ष॒त्रस्यो॑मसि क्ष॒त्रस्य॑ न॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्षत्रस्य [ अ ० १० नाभि॑र॒सीन्द्र॑स्य॒ २ वात्र॒ध्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒यं वृ॒त्रं व॑धेत् । दे॒वा मे॑ रु॒जासि क्षमासि । पात॑नं॒ प्राञ्च॑ पा॒तेन॑ प्र॒त्यञ्च॑ पा॒तेन॑ ति॒र्यञ्च॑ दि॒ग्भ्यः पा॑ति ॥ ८ ॥
' ताप्यं परिधापयति ' ( का ० श्री ० १५/५/६ ) | यजमानं ताप्यं परिधापयति । यजमानो दीक्षितवस्त्रं परित्यज्य ताप्यं परिदधीत । तृपा नामौषधिविशेषः, अतसीति प्रसिद्धः । तत्तन्तुनिर्मितं क्षौमं वस्त्रम्, वल्कलमिति केचित् । ' घृतोन्नमेके ' ( का ० श्र ० १५५४ ९ ) ' उन्दी क्लेदने ' घृताक्तं वस्त्रं तार्प्यमित्येके । यज्ञरूपाणि स्रुक्स्रुवचमसाद्याकाराणि सूचीव णोत्पादितानि यत्र तत्तथाविधं विकल्पं ताप्यं परिधापयेत् । तत्सर्वं संक्षिप्याह -- ' ताप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम् ' ( का ० श्र ० १५ | ५ | १३ ) मन्त्रार्थस्तु हे ताय, त्वं क्षत्रस्य राजस्थानीयस्य यजमानस्योत्बं गर्भाधारभूतमुदकमसि । यद्वा क्षत्रस्य राजस्थानीयस्य यजमानस्य गर्भत्वेनोपचर्यमाणस्य उल्बमावरणभूतमसि ' उल्बावृतो गर्भः ' ( छा ० ) इति छान्दोग्यश्रुतेः । ' पाण्ड्वं च निवस्ते ' ( का ० श्री ० १५/५ | ११ ) । तार्यस्योपरि रक्तश्वेतकम्बलं द्वितीयं परिधत्ते यजमानः । पाण्डवदैवतम् । हे पाण्डव, त्वं क्षत्रस्य गर्भस्थानीयस्य यजमानस्य जरायुः गर्भवेष्ट्रनचर्मासि । ‘ अधीवासं प्रतिमुच्य ' ( का ० श्र ० १५।५।१२ ) । महाकचुकं गले बध्नात्यधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य योनिरस गर्भसम्भवस्थानमसि । ' उष्णीष संवेष्ट्य निवीतेऽवगूहते नाभिदेशे परिहरते वा ' ( का ० श्र ० १५।५।१२ ) । शिरोवेष्टनं शिरसि संवेष्ट्य तत्प्रान्तो परिहितवासो नीव्यामुपगूहते गोपायति नाभिदेशे वेष्टयति वा । उष्णीषदैवतम् । हे उष्णीष, त्वं क्षत्रस्य नाभिरसि, नाभिर्गर्भबन्धनस्थानमसि । नाभ्यां सन्नद्धा गर्भा जायन्त इत्याहुः । ' इन्द्रस्य वार्त्रघ्नमिति धनुरातनोति ' ( का ० श्र ० १५ ।५ । १५ ) | अध्वर्युर्धनुरधिज्यं करोति इन्द्रस्येति मन्त्रेण । धनुर्दैवतम् । हे धनुः, त्वमिन्द्रस्य यजमानस्य सम्बन्धि वार्त्रघ्नं वृत्रोऽनेन हन्यत इति वार्त्रघ्नं वृत्रनाशकमायुधमसि तत्तादृशं त्वामातनोमीति शेषः । ' मित्रस्य वरुणस्येत्यस्य बाहू निर्माष्टि ' ( का ० ० १५५/१६ ) । मित्रस्य वरुणस्येति मन्त्राभ्यां धनुषो बाहू प्रान्तों करेण प्रत्येकं निमष्टि | धनुर्बाहुदेवत्ये यजुषी । हे दक्षिणधनुष्कोटे, त्वं मित्रस्य देवविशेषस्य सम्बन्धी असि । हे धनुषो वामकोटे, त्वं वरुणस्य सम्बन्धी असि । यजमानबाहू निमष्टि सायणरीत्या | ' धनुः प्रयच्छति त्वयायमिति ' ( का ० श्री ० १५।५।१७ ) । अध्वर्युर्यजमानाय धनुः प्रयच्छति । धनुर्दैवतम् । हे धनुः, अयं यजमानः, त्वया धनुषा कृत्वा वृत्रं शत्रुं वधेद् हन्यात्, ' द्विषन्तं भ्रातृव्यं वधेत् ' ( श ० ५।३।५।२८ ) इति वक्ष्यमाणश्रुतेः । ' हवासीति मन्त्रार्थ - हे ताप्यं वस्त्र! तुम क्षत्रधर्मावलम्बी इस यजमान के गर्भ के आधारभूत जल हो । हे पाण्डुरक्त कंबल, तुम क्षत्रिय यजमान के गर्भवेष्टन चर्म हो । हे अधीवास, तुम क्षत्रधर्मावलम्बी यजमान की योनि हो । हे उष्णीष, तुम इस यजमान के गर्भबन्धन स्थान हो । हे धनुष, तुम इस इन्द्ररूप यजमान के वृत्र के सदृश शत्रुओं का नाश करने वाले हो । हे दक्षिण कोटि! तुम मित्रसम्बन्धिनी हो और हे वाम कोटि! तुम वरुण सम्बन्धिनी हो । हे धनुष यह यजमान तुम्हारी सहायता से सम्पूर्ण शत्रुओं का नाश करे । हे बाणों, तुम शत्रुओं को विदीर्ण करने वाले हो, शत्रुओं का अंग भंग करने वाले हो, शत्रुओं को कम्पित करने वाले हो । हे बाणों, तुम इस यजमान की पूर्व दिशा से, पश्चिम दिशा से और उत्तर - दक्षिण दिशा से भी रक्षा करो ॥ ८ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( १५/५/६ - १८ ) में उल्लिखित याज्ञिक विनियोग के अनुसार ' क्षत्रस्योल्बम् '