वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 371–380
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 371–380
पृष्ठ 371
पाठ पढ़ें पाठ छिपाएँ
म ० ८ ] वेदार्थ पारिजातभाष्यसहिता ३१७ प्रतिमन्त्रमादाय तिस्र इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रम् ' ( का ० श्र ० १५।५।१८ ) । तिस्र इषू: शरानादाय पातनमित्यादिमन्त्रत्रयेण च प्रत्येकं यजमानाय ददात्यध्वर्युः । षड् यजूंषि, इषुदेवत्यानि । हे इषो, त्वं दृवासि ' दृ विदारणे ', दृणाति शत्रून् विदारयतीति वा । हे इषो! त्वं रुजासि, ' रुजो भङ्गे ', रुजति शत्रून् भक्तीति रुजा । हे इषो, त्वं क्षुमासि ' क्ष्मायी विधूनने ', क्ष्मायति शत्रून् कम्पयतीति क्षुमा । यजमानाय प्रयच्छति - हे इषवः, प्राञ्चं प्रागञ्चनं पूर्वदिश्यवस्थितमेनं यजमानं यूयं पात पालयत । प्रत्यचं प्रत्यगञ्चनं पश्चिमदिश्यवस्थितं यजमानं यूयं पात । तिर्यचं तिर्यगवनमितस्ततोऽवस्थितमेनं यजमानं पात । दिग्भ्योऽन्याभ्योऽपि दिग्भ्यः सकाशादेनं यजमानं पात । अत्र ब्राह्मणम् –‘अथैनं वासा ७ सि परिधापयति । तत्तायमिति वासो भवति तस्मिन् सर्वाणि यज्ञरूपाणि निष्यूतानि भवन्ति तदेनं परिधापयति. क्षत्रस्योल्बमसीति तद्यदेव क्षत्रस्योत्वं तत एवैनमेतज्जनयति ' ( श ० ५।३।५।२० ) । वाससां परिधापनं विधत्ते -- एनं वासांसीति । एनं यजमानं वासांसि तार्घ्यपाण्ड्वाधिवासोष्णीषाणि परिधापयेदिति । तत्तात्पर्य कथनपूर्वकमेकैकं विधत्ते -- तत्तेषु प्रथमं तापयमिति । ताप्यं वासो न त्वन्यत् कम्बलादिकम् । त्रिः कृत्वा पायितं त्रिपाणम् । घृतोन्नम्, ' उन्दी क्लेदने ', घृतसिक्तम् । तत्र कचिद्विशेषं विधत्ते-तस्मिन् सर्वाणीति । तस्मिन् सर्वाणि यज्ञरूपाणि स्रुगादीनि स्यूतानि भवेयुः । तत्र मन्त्रं विधत्ते - क्षत्रस्येति । उल्बमावरणमसि । यदुबं तस्मादेवैनं यजमानमेतेन तार्प्यपरिधानेन उत्पादितवान् भवति । ' अथैनं पाण्ड्वं परिधापयति । क्षत्रस्य जराय्वसीति तद्यदेव क्षत्रस्य जरायु तत एवैनमेतज्जनयति ' ( श ० ५ | ३ | ५ | २१ ) | पाण्डवं पाण्डुरं श्वेतं कम्बलमिति सायणाचार्याः । एतेनैनमेतज्जनयति । ' अथाधीवासं प्रतिमुञ्चति । क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तस्या एवैनमेतज्जनयति ' ( श ० ५ | ३ | ५ | २२ ) । अधि उपरि वसनीय माच्छादनीयं वस्त्रमधीवासम् । तत्प्रतिमुचेत् तार्य्यमुपसंव्याय पाण्डुरमुत्तरीयवदाच्छाद्य अधीवासं महाकञ्चुकमुपरि प्रति-मुश्चेत् । ' अथोष्णीष स हृत्य । पुरस्तादवगूहति क्षत्रस्य नाभिरसीति तद्यैव क्षत्रस्य नाभिस्तामेवास्मिन्नेत-द्दधाति ' ( ० ५। ३ ५। २३ ) । उष्णीषवेष्टनं विधत्ते - अथोष्णीषमिति । उष्णीषं संहृत्य निवीतरूपेण कण्ठेऽव-सज्य पुरस्तात् पूर्वभागे नाभिदेशेऽवगूहति, उष्णीषान्तं नीवीस्थाने ग्रथयेदित्यर्थः । क्षत्रस्य नाभिः नाभिस्थानीय-मसि, एतेन तस्या एवैनं जनयति । पूर्वदेशेऽवगूहनं द्रढयितुं पूर्वपक्षं सोपपत्तिकं वदति -- तद्वैक इति । एके शाखिनस्तद् उष्णीषं समन्तं सर्वतो नाभिदेशे परिवेष्टयन्ति । अस्य क्षत्रियस्य एषा उष्णीषरूपा नाभिरपि समन्तं पर्येति परिवेष्टिता भवति । अतः क्षत्रस्य नाभिरसीति मन्त्रे उष्णीषस्य नाभित्ववचनात् तत्साम्याय समन्ताद्वेष्टनमुक्तमिति तत्प्रत्याख्याय स्वमतं निगमयति- पुरस्तादेवावगृहेतेति । एतेन वासः परिधानेन एनं यजमानं जनयति तेषां वाससामुल्ब -जरायुयोनिरूपत्वोक्तेः । किमर्थं जननमित्याह – जातमिति । जातं यजमानमभिषिानीति बुद्धया वासांसि परिधापयेत् । तदेतत्सर्वमाह - ' तर्द्धके समन्तं परिवेष्टयन्ति... ( श ० ५ | ३ | ५ | २४ ) । पूर्वं निहितस्य दीक्षितवसनस्य परित्यागं विधित्सुरेकेषां मतमुपन्यस्यति - तद्वैक इति । यद्वा विहितानां तार्यादीनां परिधापनादिकमेव द्रढयितुं पूर्वपक्षयति - एके शाखिन इति । परिधापितान्येतानि वासांसि विसृज्य निदध्युः । अथ तदानीमेव तार्यादि-वसनकाले निहितं दीक्षितवसनमेतं यजमानं पुनः परिधापयन्ति, तदपि न युक्तम्, यतस्तानि यजमानस्य जनूर् अङ्गानि सहोत्पन्नानि, तार्यादीनां वाससामुल्बजरायुयोनिरूपत्वात् । उल्बादीनां तु गर्भावस्थायां सह निवासा -दङ्गत्वमुपचरितमिति । तदेतदपि ' तर्द्धके निदधात्येतानि... ' ( श ० ५।३।५।२५ ) इत्यत्रोक्तम् । यद्वा वासांसि इस कण्डिका के मन्त्रों से यजमान को क्षौम वस्त्र का परिधापन, श्वेत कम्बल का धारण, महाकंचुक तथा पगड़ी का
पृष्ठ 372
पाठ पढ़ें पाठ छिपाएँ
३१८ शुक्लयजुर्वेदसंहिता [ अ ० १० जनू रङ्गानि सहोत्पन्नानि त्वग्रूपाण्यङ्गानि, ' तस्मिन्नेतां त्वचमदधुः । वास एव तस्मान्नान्यः पुरुषाद्वासो बिभर्ति ’ ( श ० ३ | १ | २ | १३-१६ ) इति श्रुतेः । अतो वासोभिः परिधापनेन जन्वा सहोत्पन्नैः शरीररूपैरङ्गः समधितवान् भवति । अङ्गसमुदाय एव हि तनूः । शरीरेण तदङ्गैश्व संवर्धितवान् भवति । ' वरुण्यं दीक्षितवसनं तदेनं वरुण्याद् दीक्षितवसनात् प्रमुञ्चति ' ( श ० ५।३।५।२५ ) इति दीक्षितवसनस्य परित्यागं दर्शयितुं तस्य दुष्टत्वमाह-वरुण्यमिति । वरुण्यं वरुणगृहीतम् । स यत्रावभृथमभ्यवैति । तदेतदप्यभ्यवहरन्ति यत्सलोम क्रियते स एतेषा -मेवैकं वाससां परिधायोदेति तानि वशायै वा वपाया हुतायां दद्यादुदवसानीयायां वेष्टी ' ( श ० ५ | ३ | ५ | २६ ) । निहितस्य दीक्षितवसनस्य अवभृथे प्रासनं विधत्ते - स यत्रेति । प्रासनं परित्यागः । अवभृथमभ्यवहरन्ति आहरेयुः, अप्सु प्रक्षिपेयुरित्यर्थः । तत् तथा सति सलोम क्रियते प्रकृतिगतमनुसृतं भवति, प्रकृतौ तु दीक्षितवसनस्य अवभृथे परित्याग उक्तः । स एतेषामिति । माहेन्द्रादौ दीक्षितवसनस्य पुनः परिधानं कृतम्, तदा तार्यादीना-मेकैकेनैव परिहितेन वाससा अवभृथावतरणमुत्तरणं च कर्तव्यम् । उदैति उत्तरेत् । तेषां वाससां दानकालं विधत्ते - तानि वशाया इति । अनुबन्ध्याया वपायागकालेऽध्वर्यवे दद्यात्, अवसाने कर्तव्यायामुदवसानीयेष्टी वा दद्यात् । सर्वथापि कात्यायनेन शतपथश्रुत्यनुसारेणैव सूत्रितानि तानि तानि कर्तव्यानीति मुधैवार्धनास्तिकै -स्तान्युपेक्ष्य स्वैरं मन्त्रव्याख्यानं कृतम् । ' अनुबन्ध्यवपाहोमान्ते दद्यादेनानि, उदवसानीयायां वा ' ( का ० श्री ० १५।७।२६-२७ ) । ' अथ धनुरधितनोति । इन्द्रस्य वार्त्रघ्नमसीति वार्त्रघ्नं वै धनुरिन्द्रो वै यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वार्त्रघ्नमसीति ' ( श ० ५।३।५।२७ ) । कथं यजमान -स्येन्द्रत्वमिति तदुपपादयति - द्वयेनेति । क्षत्रिय इति यजमान इति च यत् तेन द्वयेनेत्यर्थः । क्षत्रं नाम बलं तत्सम्बन्धाद्यष्टृत्वाच्च इन्द्रस्य यजमानत्वमुक्तम् । यद्वा क्षत्रियो जातिर्यजमानश्चैतद्वयेनेन्द्रत्वम् । देवेष्विन्द्रस्य क्षत्रियत्वं राजसूयस्य चात एव क्षत्रियकर्तृकत्वमेव । न राज्ञामपि ब्रह्मविशां तत्राधिकारः । ' अथ बाहू विमष्टि | मित्रस्यासि वरुणस्यासीति बाह्वोर्वै धनुर्बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह मित्रस्यासि वरुणस्यासीति तदस्मै प्रयच्छति त्वयाऽयं वृत्रं वधेदिति त्वयायं द्विषन्तं भ्रातृव्यं वधेदित्ये-वैतदाह ' ( श ० ५। ३।५।२८ ) । अत्र सायणरीत्या - हे बाहो, मित्रस्यासि । अपरं बाहुं प्रत्याह - वरुणस्यासीति । मित्रस्य वरुणस्येति मन्त्रद्वयेन यजमानस्य दक्षिणोत्तर बाहुविमार्जनं कुर्यादिति काण्वसंहिताभाष्ये सायणाचार्यः । पाध्याय रीत्या तु बाहुशब्दस्य धनुष्कोटिपरत्वम् । बाहुं प्रशंसति - बाह्वोरिति । बाहुभ्यां खलु मित्रावरुण-सम्बन्धी राजन्यो भवति, बाहुवीर्यसद्भावो राज्ञो लक्षणमित्यर्थः । ' अथास्मै तिस्र इषूः प्रयच्छति । स यया प्रथमया समर्पणेन परा भिनत्ति सैका सेयं पृथिवी सैषा हवा नामाथ यया विद्धः शयित्वा जीवति वा म्रियते वासाद्वितीया तदिदमन्तरिक्ष सैषा रुजा नामाथ ययाऽपैव राध्नोति सा तृतीया साऽसौ द्यौः सैषा क्षुमा नाता हि वै ति इषवस्तस्मादस्मै तिस्र इषूः प्रयच्छति ' ( श ० ५।३।५।२ ९ ) । लोकत्रयात्मकत्वेन शस्ताना-मिषूणां लक्षणं संज्ञां च दर्शयति-- ययेति । यया प्रथमया समर्पणेन परित्यागमात्रेण परा परान् शत्रून् भिनत्ति विदारयति, तस्या एकस्या हवानामधेयायाः पृथिव्यात्मकत्वेन प्राशस्त्यम् । यया विद्धस्य ताडितस्य जीवने सन्देहस्तस्या रुजानाम्न्या अन्तरिक्षात्मकत्वम् । यया राजा शत्रूनपराध्नोति हिनस्त्येव तस्याः क्षुमानामधेयाया-स्तृतीयलोकात्मकत्वेन प्राशस्त्यम् । हवा विदारिकासीति प्रथमेषुग्रहणम् । शत्रूणां भङ्गहेतुरसीति द्वितीयग्रहणम् । ' क्षुप विधूनने ', ' क्ष्मायी विधूनने ', शत्रुकदनकारिण्यसीति तृतीयग्रहणम् । ' ताः प्रयच्छति । पातैनं प्राश्नं पातैनं प्रत्यक्षं पातैनं तिर्यञ्चं दिग्भ्यः पातेति तदस्मै सर्वा एव दिशोऽशरव्याः करोति तद्यदस्मै धनुः प्रयच्छति वीर्यं धारण एवं धनुष का विधिपूर्वक ग्रहण आदि कार्य अनुष्ठित किये जाते हैं । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल
पृष्ठ 373
पाठ पढ़ें पाठ छिपाएँ
म ० ८ ] वेदार्थपारिजात भाष्यसहिता ३१ ९ प्रयच्छति ' ( श ० ५।३।५।३० ) । वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिचानीति तस्माद्वा अस्मा आयुधं पात पालयत । प्रत्यचं प्रत्यग्गन्तारम्, इदानमनुद्य मन्त्रं विधत्ते - ताः प्रयच्छतीति । प्राञ्चं प्रागञ्चनं प्राग्गन्तारं अशरव्या अहिंसकाः । शरव्यं तिर्यखं तिर्यग्गन्तारम् । किं बहुना, दिग्भ्यः सर्वाभ्यः पातेति । तदस्मा निवर्त्यते इति ॥ शरलक्ष्यम्, तद्रहिताः करोति । अनेन सर्वास्वपि दिक्षु परकीयशरलक्ष्यत्वं । त्वमेव क्षत्रस्य जरायुवद् अध्यात्मपक्षे -- हे ब्रह्मन्, त्वं क्षत्रस्य क्षताद्रक्षकस्य उल्बमावरणमिव । रक्षकमसि त्वमेव क्षत्रस्य नाभिः नाभिस्थानीयं गर्भवेष्टनचर्मवत् पालकमसि । त्वमेव क्षत्रस्य योनिरिवोत्पादनस्थानमसि वार्त्रघ्नं शत्रुहनन-सर्वाधारभूतमसि, ब्रह्मण एव सर्वत्र सत्तास्फूर्तिप्रदत्वेन मुख्यपालकत्वात् । इन्द्रस्य प्रसिद्धस्य वा सम्बन्ध्यसि । त्वमेव साधनमायुधमसि, तवैव सर्वसंहारकत्वात् । त्वमेव मित्रस्य सुहृदो देवविशेषस्य त्वया कृत्वा अयं क्षतात् त्राता रक्षकः वरुणस्य सम्बध्न्यसि, तदुपलक्षितानां सर्वदेवानामधिष्ठानत्वात् । हे वधेद् ब्रह्मन् हन्यात् । त्वमेव वा शत्रुविदारकमसि । क्षत्रियो राजा इन्द्र ईश्वरो वा वृत्रमसुरं द्विषन्तं धर्ममार्गबाधकं । तत्तस्मादेनं त्रातारं प्राचं प्राग्गतं त्वमेव रुजासि शत्रूणां भञ्जकमसि । त्वमेव क्षुमासि शत्रुप्रकम्पनशीलमसि पात पालयत । प्रत्यचं पश्चिमायां दिशि गतं तिर्यञ्चमन्यासु दिक्षु गतं हवा रुजा क्षुमारूपा भगवन्तः क्षत्रियस्य जरायु वृद्धावस्था-दयानन्दस्तु – ' हे राजन्, यस्त्वं क्षत्रस्य राजकुलस्य उल्बं बलमसि नाभिर्बन्धनमसि , क्षत्रस्य प्रबन्धकर्तासि, इन्द्रस्य प्रापकमसि, क्षत्रस्य राजन्यस्य योनिर्निमित्तमसि क्षत्रस्य राज्यस्य श्रेष्ठस्य वरोऽसि, हवासि सूर्यस्य वार्त्रघ्नं मेघविनाशकमसि तद्वत् कर्मकर्तासि, मित्रस्य सुहृदो मित्रोऽसि वरुणस्य , योऽयं वीरस्त्वया राज्ञा यः शत्रून् दृणाति सोऽसि, रुजा शत्रूणां रोगकारकोऽसि, क्षुमा सत्योपदेशकोऽसि कर्तारमेनं सेनाध्यक्षं सर्वे यूयं पात, दिग्भ्यः सह वृत्रं मेघमिव न्यायावरकं शत्रं वधेत्, तमेनं प्राचं प्राक्प्रबन्धस्य तिरवीनं दिग्भ्यः सर्वाभ्य आशाभ्यः पात, तमेनं प्रत्यञ्च पश्चात्स्थितं सेनापति पात, तमेनं पार्श्वस्थं तिर्यञ्चं । ' जरायु वृद्धा-पात ' इति, तदपि वेदस्य लोकायतीकरणमेव प्रत्यक्षानुमानाभ्यामनधिगतार्थं स्यैव हेतुमन्तरा वेदार्थत्वात् तत्र स्वैरित्वं युक्तम् । वस्थाप्रापकम् ' इत्यपि निर्मूलम् | क्षत्रस्य विविधार्थत्वेऽपि मूलं वक्तव्यम्, नहि । न च तत् सति मुख्यार्थत्वे न च मेघविनाशकत्वं राज्ञः सम्भवति । तद्वत्कार्यकर्तृत्वं तु गौणार्थत्वाश्रयणमेव । रुजा रोगकारकः, क्षुमा सत्योपदेशकः, युक्तम् । मित्रस्य मित्रोऽसि वरुणस्य वरोऽसीति निर्मूल एवाध्याहारः सेनापतिमित्यादि सर्वमपि निर्मूलमेव । प्राञ्चं प्राक्प्रबन्धकर्तारम् एनं सेनाध्यक्षम् प्रत्यञ्च पश्चात्स्थितं श्रुतिसूत्रविरोधस्तु पूर्वव्याख्यानेन स्पष्ट एव ॥ ८ ॥
अर्थ उपदिष्ट भांति रक्षक हो । तुम ही अध्यात्मपक्ष में अर्थ इस प्रकार है- हे ब्रह्मन्, तुम दुःख से रक्षणकर्ता के आवरण की शत्रुहन्ता वज्र हो, गर्भवेष्टन की भाँति पालनकर्ता हो, उत्पत्तिस्थान हो, सबके आधारभूत हो, सर्वसंहारक होने के कारण सर्वसम्बद्ध हो । हे ब्रह्मन्, यह मित्रदेव अथवा सुहृद् से सम्बद्ध हो, वरुण आदि समस्त देवताओं के अधिष्ठान होने के कारण शत्रुओं को कम्पित करने ईश्वर धर्ममार्ग के बाधक शत्रु को विनष्ट करे, अथवा तुम ही शत्रुओं के नाशक, भेदक हो, वाले हो । अतः इसकी पूर्व, पश्चिम तथा अन्य दिशाओं में रक्षा करो । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ वेद को प्रमाणों से अप्राप्त अर्थ का ही वेदत्व है । जरायु का चार्वाक दर्शन कीभाँति बनाता है, क्योंकि प्रत्यक्ष तथा अनुमान अर्थ वृद्धावस्था को प्राप्त कराने वाला, यह भी अप्रामाणिक है । उल्लेख होना चाहिये । कारण न रहने पर स्वेच्छा से विविध अर्थ करना क्षत्र शब्द के विभिन्न अर्थों में भी मूल का वाला ' यह कहना भी गौण अर्थ का अनुचित है । राजा का मेघनाशक होना भी असम्भव है । ' उसके समान कार्य करने आश्रयण है । मुख्यार्थं संभव होने पर गौणार्थं उचित नहीं है ॥ ८ ॥
पृष्ठ 374
पाठ पढ़ें पाठ छिपाएँ
३२० शुक्लयजुर्वेद संहिता [ अ ० १० आ॒विर्म॑यो॒ अव॑तो अ॒ग्निर्गृ॒हप॑ति॒रावि॑त॒ इन्द्रो॑ वृद्धभ॑वा॒ आव॑त्तौ मि॒त्रावरु॑णौ घृ॒तव॑त॒-वाव॑तः पू॒षा वि॒श्ववे॑द॒ आवि॑ते॒ द्यावा॑पृथि॒वो वि॒श्वश॑म्भुव॒त्वावि॒त्तादि॑तिरु॒रुश॑र्मा ॥ ९ ॥
9 ८ ' आविर्मर्या इति वाचयति ' ( का ० श्र ० १५५ | १ ९ ) । इषुसमर्पणानन्तरमाविर्मर्या इत्यादीन् सप्तमन्त्रान् आविःसंज्ञान् आवित्तपदयुक्तान् । आवेदयन्ति ज्ञपयन्ति देवताभ्य एनं यजमानमित्याविदो मन्त्राः, ' अथैनमाविदो वाचयति ' ( श ० ५ | ३ | ५ | ३१ ) इति श्रुतेः, यजमानं वाचयति । प्रजापतिदैवतम् | आविर्मंर्या इत्यनिरुक्तम् प्रकटोऽयं, साक्षाद्देवतावाचकपदरहितमन्त्रत्वात् । हे मर्या मरणयोग्या मनुष्या ऋत्विजः! आविः प्रकाशः यजमानो युष्मत्समक्षं कथ्यते । यद्वा हे मर्या मनुष्या ऋत्विजः! कस्यै देवतायै यजमानमावेदितवन्त इत्याशङ्कय श्रुतिराह - ' आविर्या इत्यनिरुक्तं प्रजापतिर्वा अनिरुक्तस्तदेनं प्रजापतय आवेदयति सोऽस्मै । सवमनुमन्यते तस्मादनेन तेनानुमतः सूयते ' ( श ० ५। ३ ५। ३१ ) । प्रजापतिः खल्वनिरुक्त ईदृश इति वक्तुमर्हः -- सोऽस्मा यजुषाऽनिरुक्तेन अनिरुक्तात्मने प्रजापतये एनं यजमानम् आवेदितवान् भवति । आवेदनस्य फलमाह तेन प्रजापतिना इति । स आवेदितो ज्ञापितः प्रजापतिरस्मै सुन्वते यजमानाय सवमभिषेकमनुमन्यते । ब्रह्मण आवेद अनुमतोऽनुज्ञातः सूयतेऽभिषिच्यते । ' आवित्तो अग्निर्गृहपतिरिति । ब्रह्म वा अग्निस्तदेनं, आवित्त आवेदितो तदस्मै सवमनुमन्यते तेनानुमतः सूयते ' ( श ० ५२३५३२ ) | गृहपतित्वगुणविशिष्टोऽग्निः । यद्वा ज्ञापितः सोऽस्मै सवमभिषेकमनुमन्यते । आवित्तो ज्ञापित इन्द्रो वृद्धश्रवाः, वृद्धं श्रवो यशो यस्य सः ' श्रव इत्यन्ननाम ' ( निरु ० १०1१ ), वृद्धं प्रभूतमन्नं यस्येति । कोऽसावित्याशङ्कयाह - ' क्षत्रं मित्रावरुणौ वा इन्द्र-स्तनं क्षत्राय आवेदयति तदस्मै सवमनुमन्यते तेनानुमतः सूयते ' ( श ० ५।३।५।३३ ), ' आवित्तौ धृतव्रताविति । प्राणोदानौ वै मित्रावरुणौ तदेनं प्राणोदानाभ्यामावेदयति तावस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते ' ( ० ५ | ३ | ५ | ३४ ) | ' व्रतमिति कर्मनाम ' ( निघ ० २।१७ ) | ' आवित्तः पूषा विश्ववेदा इति । सर्वधन पशवो वै पूषा तदेनं पशुभ्य आवेदयति ते अस्मै सवमनुमन्यन्ते तैरनुमतः सूयते ' ( श ० ५। ३ ५। ३५ ) | विश्ववेदाः इति । ' आवित्ते द्यावापृथिवी विश्वशम्भुवाविति । तदेनमाभ्यां द्यावापृथिवीभ्यामावेदयति ते अस्मै सवमनुमन्येते - ' ( श ० ५।३।५।३६ ) । विश्वशम्भुवौ सर्वस्य सुखसम्भावयित्र्यो । ' आवित्ताऽदितिरुरुशर्मेति । इयं वै पृथिव्यदिति स्तनमस्यै पृथिव्या आवेदयति साऽस्मै सवमनुमन्यते तयाऽनुमतः सूयते तद्याभ्य एवैनमेतद्देवताभ्य आवेदयति , भूमिरेव ता अस्मै सवमनुमन्यन्ते ताभिरनुमतः सूयते ' ( श ० ५। ३ ५। ३७ ) । अदितिरखण्डनीया देवमाता अदितिः काचिन्मूर्ति कृत्वाऽदितिर्भवति । एता देवताः सम्भूय प्रशंसति । तथा च पूर्वोक्तश्रुत्युक्तविभक्तिव्यत्ययैर्मन्त्रो व्याख्यायते । गृहपतये गृहपालकाय अग्नयेऽयं यजमान आवेदितः । प्रथमान्तपदद्वयं चतुर्थ्यर्थे । वृद्धश्रवा वृद्धश्रवसे धृतं व्रतं वृद्धं श्रवो यशोऽन्नं वा यस्य तस्मै इन्द्राय अयं यजमान आवेदितः । आवित्तौ मित्रावरुणौ धतव्रतौ आवेदितोऽयं कर्म याभ्यां तो धृतव्रतो धृतव्रताभ्यां धारितकर्मभ्यां प्राणोदानरूपाभ्यां मित्रावरुणाभ्यामावित्तं यजमानः । विश्वशम्भुवो विश्वस्य सर्वस्य शं सुखं भवति याभ्यां तौ विश्वशम्भुवौ ताभ्यां द्यावापृथिवीभ्या-मावित्ते, आवित्तः, वचनलिङ्गव्यत्ययः । उरुशर्मा उरु महत् शर्म शरणं सुखं वा यस्याः सा उरुशर्मा, तस्यै इन्द्र, नियम मन्त्रार्थ -- भूमण्डल निवासी सभी मनुष्य इस यजमान को जानें | गृहपालक अग्नि, विख्यातकीर्ति में तत्पर मित्रावरुण और सूर्य - चन्द्र, सब कुछ जानने वाले पूषा देवता, संसार के कल्याण की विधात्री पृथ्वी, युलोक के afrat सभी देवता और सुविस्तीर्ण सुख के आश्रयरूप भगवान् काल इस यजमान को भली भाँति जाने ॥ ९ ॥
भाष्यसार --- ' आविर्मर्याः ' इस कण्डिका के आविः संज्ञक मन्त्रों का वाचन यजमान करता है । यह पाज्ञिक
पृष्ठ 375
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ] वेदार्थ पारिजातभाष्यसहिता ३२१ अदितये वित्ता आवित्तोऽयं यजमानः । यद्वा – यथाश्रुतमेव व्याख्यातव्यम् | गृहपतिरग्निरावेदितो यजमान-मिति । तथैवाग्रेऽपि । उव्वाचार्यरीत्या तु ' सोऽस्मै सवमनुमन्यते ' इत्यत्र सवो जन्म, उत्पत्तिरित्यर्थः । आवित्त आवेदितो ज्ञापितोऽग्नयेगृहपतये यजमान इत्यादिकं पूर्ववदेव । विश्वशम्भुवो विश्वं सर्वं सम्भावयित्रीभ्याम् । उरुशर्मा उरु पृथु महत् शर्म शरणं यस्याः सा तथोक्ता सर्वा एवाविदः श्रुत्या लक्षणया व्याख्याताः । तद्यथा - ' आविर्या इत्यनिरुक्तं प्रजापति रनिरुक्त: ' ' ' ' ' इत्यादिस्तथा मन्त्रा व्याख्येयाः । यथाश्रुतमेव वा व्याख्येयाः, प्रत्यक्षवृत्तित्वात् । यथा – हे मर्या ऋत्विजः! यूयमाविरभूत अभ्यगन्त तिष्ठत । युष्मदनुष्ठितेन कर्मणा अग्निर्गृहपतिर्भूत्वा आवित्त उपलब्धः । इन्द्रो वृद्धश्रवाः प्रवृद्धकीर्तिर्भूत्वा आवित्त उपलब्धः । पूषा देवो विश्ववेदाः सर्वज्ञो भूत्वा आवित्तः । मित्रावरुणौ देवौ धृतव्रतौ अवधारितकर्माणी भूत्वा आवित्तौ । तथा द्यावापृथिवी द्यावापृथिव्यो विश्वस्य शं सुखं याभ्यां तथाविधौ तौ आवित्तौ । उरु महत् शर्मं शरणं सुखं वा यस्याः सा आवित्ता लब्धा । अध्यात्मपक्षे - हे मर्याः, युष्माभिर्नित्यापरोक्षरूपः परमात्मा आवित्तः सम्यगुपलब्धः साक्षात्कृतः । अग्निर्गृहपतिः गृहपालकाग्निरूपेणापि स एवावित्तः । वृद्धश्रवाः प्रवृद्धकीर्तिरिन्द्रः परमेश्वरस्तद्रूपेणापि आवित्तः । विश्ववेदाः सर्वज्ञः पूषा पोषको विष्णुर् आवित्तः । मित्रावरुणौ प्राणोदानौ धतव्रतौ धारितकर्माणा आवित्तो, तद्रूपेणापि स एवोपलब्धः । तथैव द्यावापृथिव्यो विश्वशम्भुवौ सर्वस्य जगतः सुखसम्भावयित्र्यौ आवित्ते । अदितिरदीना अखण्डनीया वा उरुशर्मा उरु महत् शर्म सुखं शरणं वा यस्याः सा चिद्रूपा पराम्बा आवित्ता उपलब्धा । सार्वात्म्यं ब्रह्मणोऽनेन मन्त्रेण द्योत्यते । दयानन्दस्तु - ' हे मर्याः, युष्माभिर्यदि गृहपतिर्गृहाणां पालकः अग्निः पावक इव विद्वान् आविः प्राकटधेन आवित्तः प्राप्तो निश्चितो वा प्राप्तपूर्णभोगो लब्धप्रतीतो वा, वृद्धश्रवाः सर्वशास्त्रश्रवणं यस्य स इन्द्रः शत्रुदारकः सेनापतिः, आविर् आवित्तः प्राप्तो निश्चितो वा धृतव्रतौ सत्यादिव्रतधारकौ मित्रावरुणौ मित्रश्रेष्ठजनो प्राकट आवित्तौ, विश्ववेदाः सर्वोषधिज्ञाता पूषा पोषको वैद्यः आवि: प्रसिद्ध्या आवित्तः, विश्वशम्भुव सर्वं सुखभावयितारौ द्यावापृथिवी विद्युद्भूमी प्राकटयेन आवित्ते प्राप्ते ज्ञाते वा, बहुसुखदात्री अदितिः विदुषी माता प्रसिद्धया आवित्ता स्याच्चेत्तर्हि सर्वाणि सुखानि प्राप्यन्ते ' इति, तदपि यत्किञ्चित्, मुख्यार्थत्याग-गौणार्थाश्रयणाभ्याम्, श्रुतिसूत्रविरोधाच्च ॥ ९ ॥
विनियोग कात्यायन श्रौतसूत्र ( १५ / ५ / १ ९ ) में प्रतिपादित है । याज्ञिक प्रक्रिया के अनुकूल अर्थं शतपथ ब्राह्मण में उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे मनुष्यों, आप लोगों के द्वारा नित्य अपरोक्षस्वरूप परमात्मा अच्छी तरह प्राप्त कर लिया गया है, अर्थात् साक्षात्कृत है । गृह के पालक अग्नि के रूप में भी वही प्राप्त है । महान् कीर्ति वाले इन्द्र परमेश्वर के रूप में भी उपलब्ध है, सर्वज्ञ तथा पोषण करने वाले विष्णु के रूप में भी प्राप्त है । प्राण उदान के रूप में कर्मों को धारण करने वाला वही है । इसी प्रकार द्यावापृथिवी सम्पूर्ण जगत् के सुखकर्ता के रूप में प्राप्त हैं, अदीना अथवा अखण्डनीया महान् सुख एवं शरण की प्रदात्री पराम्बा के रूप में उपलब्ध है । इस प्रकार यहाँ ब्रह्म की सर्वात्मता प्रतिपादित की जा रही है । स्वामी दयानन्द द्वारा निरूपित अर्थं मुख्यार्थं के परित्याग तथा गौण अर्थ के आश्रयण के कारण विसंगत है । श्रुति वाक्यों तथा सूत्र का भी विरोध है ॥ ९ ॥
४१
पृष्ठ 376
पाठ पढ़ें पाठ छिपाएँ
३२२ शुक्लयजुर्वेदसंहिता [ अ ० १० अर्वेष्टा दन्दशूकाः प्राचीमारो॑ह गाय॒त्री त्वा॑वतु रथन्त॒रथ॒ साम॑ त्रवत् स्तोमो॑ वस॒न्त ॠतुर्ब्रह्म द्रविणम् ॥ १० ॥
' अवेष्टा ' इति लोहाय समाविध्यति केशवास्ये सदोऽन्त उपविष्टाय ' ( का ० श्री ० १५।५।२० ) । अध्वर्युः सदोमध्य उपविष्टस्य क्लीबस्य बहुदीर्घकेशस्य पुरुषस्य मुखे ताम्रपरिष्कृतमयः प्रक्षिपेत् । मृत्युनाशनं यजुः । दन्दशूका अत्यर्थदशनशीला मृत्युहेतवः सर्पसदृशा यज्ञविघ्नकारिणो राक्षसादयः, अवेष्टा नाशिता भवन्तु, अवपूर्वस्य यजतेर्नाशार्थवत्वात्, ' तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति ' इति श्रुतेः । ' सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गम् ' ( का ० श्र ० १५।५।२१ ) । बाहुगृहीतं यजमानं यथालिङ्ग प्रतिमन्त्रं प्रतिदिशं दिश आक्रमयन् वाचयत्यध्वर्युः । पञ्च यजूंषि यजमानदेवत्यानि । अत्र सायणा-चार्यरीत्या हे यजमान, त्वं प्राचीं दिशमारोह आक्रमस्व । तादृशं त्वां छन्दसां मध्ये गायत्री छन्दोऽवतु पातु । तथैव साम्नां मध्ये रथन्तरं साम त्वामवतु । ' अभि त्वा शूर नोनुमः ' ( ऋ ० सं ० ७।३२।२२ ) इत्यस्यामृचि गीतं रथन्तरं साम । सोमानां मध्ये त्रिवृद् ऋङ्नवात्मकः स्तोमस्त्वामवतु । ऋतूनां मध्ये वसन्त ऋतुस्त्वावतु | ब्रह्म ब्राह्मणजातिर्द्रविणं त्वदीयं धनमवतु । यद्वा धनरूपा ब्राह्मणजातिस्त्वावतु | ब्राह्मणादीनां धनसाधनत्वात् कर्मद्वारा धनत्वव्यपदेशः । अत्र काण्वसंहितायां सायणाचार्याः- त्रिवृस्तोमस्य रूपं सामब्राह्मणे ( २५ | २ | १ ) इत्यत्र समाम्नातम् - ' तिसृभ्यो हिङ्करोतीति स प्रथमया तिसृभ्यो हिङ्करोतीति स मध्यमया तिसृभ्यो हिङ्करोतीति उत्तमयो त्रिवृतौ विष्टुतिः ' इति । अस्यायमर्थः - ' उपास्मै गायता नरः ( ऋ ० सं ० ९ | ११ | १ ) इत्यादीनि तृचात्मकानि त्रीणि सूक्तानि तेषु तिसृभिर्ऋग्भिर्गायेत् । काभिस्तिसृभिस्तत्राह - प्रथमयेति । त्रिष्वपि सूक्तेषु या प्रथमा तयास उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति, सोऽयं प्रथमपर्यायः । द्वितीये पर्याये सूक्तत्रयगतया मध्यमया गायेत् । तृतीये पर्याये सूक्तत्रयगतयोत्तमया गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसम्बन्धिनी विशिष्टा स्तुतिः सम्पद्यते । सेयं स्तुतिरुद्यतीत्याख्यां लभते । अत्र ब्राह्मणम् --- ' केशवस्य पुरुषस्य । लोहायसमास्य आविध्यत्यवेष्टा दन्दशूका इति सर्वान् वा एष मृत्यूनतमुच्यते सर्वान् वधान् यो राजसूयेन यजते तस्य जरैव मृत्युर्भवति तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति यद्दन्दशूकान् ' ( श ० ५ | ४ | १ | १ ) | सदोमध्य उपविष्टस्य क्लीबस्य वदने ' अवेष्टा ' इति मन्त्रेण लोहायसक्षेपः । सर्वान् मृत्यून् सर्वान् वधान् अतिमुच्यते, यो राजसूयेन यजते । तस्य जरैव मृत्युर्भवति । इह दन्दशूका इति दंशन-शीला मृत्यवो विवक्षिताः । केशववदने ताम्रपरिष्कृतायससन्निधानेन ते विनाशिता भवन्तीत्यर्थः । ' अथ यत्केशवस्य पुरुषस्य । न वा एष स्त्री न पुमान् यत्केशवः पुरुषो यदह पुमान् तेन न स्त्री यदु केशवस्तेनो न पुमान् नैतदयो न हिरण्यं यल्लोहायसं नैते क्रिमयो नाक्रिमयो यद्दन्दशूका अथ यल्लोहायसं भवति लोहिता वह दन्दशूकास्तस्मात् केशवस्य पुरुषस्य ' ( श ० ५ | ४ | १ | २ ) । केशव - लोहायस - दन्दशूकानामन्तरालवर्तित्वं सम्यगुपपादयति - अथ यत् केशवस्येति । केशवः क्लीबो यथा स्त्रीपुरुषयोरन्तरालवर्ती, तथैव नायो न हिरण्यं मन्त्रार्थ -- मनुष्यों को काट खाने के स्वभाव वाले, मृत्यु के कारणभूत सर्प आदि का विनाश हो । हे यजमान, तुम पूर्व दिशा की तरफ बढो, गायत्री छन्द तुम्हारी रक्षा करे । साम के मध्य में रथन्तर साम, स्तोम के मध्य में त्रिवृत् स्तोम और ऋतुओं में वसन्त ऋतु ब्राह्मण की विभूतियाँ हैं । ये सब तुम्हारी रक्षा करें ॥ १० ॥
भाष्यसार — कात्यायन श्रौतसूत्र ( १५/२/२० - २१ ) में उल्लिखित याज्ञिक विनियोग के अनुसार ' अवेष्टा दन्दशूका: ' इस कण्डिका के मन्त्रों से अध्वर्यु द्वारा लौहप्रक्षेप तथा यजमान के लिये इनका वाचन किया जाता है । शतपथ
पृष्ठ 377
पाठ पढ़ें पाठ छिपाएँ
म ० १०-१४ ] दार्थपारिजात भाष्यसहिता ३२३ यल्लोहायसं ताम्रम् । नैते क्रिमयो नाक्रिमयोऽतो दन्दशूका अप्यन्तरालवर्तिनः । दन्दशूकानां लोहितत्वाद् लोहितायसेन भाव्यमित्यर्थः । ' अथैनं दिशः समारोहयति । प्राचीमारोह द्रविणम् ' ( श ० ५ | ४ | १ | ३ ) । अध्वर्युः प्राच्यादिकाः पञ्च दिशो यजमानमाक्रमयन् प्राचीमारोहेत्यादिकान् मन्त्रान् वाचयेदित्यर्थः । अध्यात्मपक्षे - आचार्यः शिष्य मनुशास्ति - हे वत्स, भगवत्स्मरणेन दन्दशूकाः सर्पा इव विघ्नकारिणो भूतप्रेतासुरराक्षसादयो अवेष्टा नाशिता भवन्तीति शेषः । त्वं प्राचीं पूर्वाम्नायमन्त्रसमुद्भवां सिद्धिमारोह आक्रमस्व स्वायत्तां कुरु । तामारूढं त्वां गायत्रीछन्दोऽधिष्ठितो देवो रक्षतु । रथन्तराख्यं साम, त्रिवृत् स्तोमः, वसन्त ऋतुः, तत्तदधिष्ठातारो देवाः, ब्रह्मात्मकं द्रविणं च त्वा अवन्तु । दयानन्दस्तु - ' हे राजन्, यस्त्वं ये अवेष्टा विरुद्धस्य गन्तारो दन्दशूकाः परस्मै दुःखप्रदानाय दंशनशीलाः सन्ति, तान् जित्वा प्राचीं दिशमारोह प्रसिद्धो भव । तं त्वा गायत्री पठितगायत्रीच्छन्दः, अवतु प्राप्नोतु । रथन्तरं रथैस्तरन्ति येन तत्साम सामवेदः, त्रिवृत् त्रयाणां मनोवाक्शरीरबलानां बोधकारकः स्तोमः स्तूयमानः,, वसन्त ऋतु:, ब्रह्म वेदो जगदीश्वरो ब्रह्मवित्कुलं वा, द्रविणं विद्या द्रव्यं चावतु प्राप्नोतु ' इति, तदपि तरन्तीत्यस्या- यत्किञ्चित् ' तान् जित्वा ' इत्यध्याहारस्य निर्मूलत्वात्, गायत्री छन्दः प्राप्नोत्वित्यस्यासङ्गतेः, रथैः केन बलबोधकं स्पष्टत्वात् । हिन्द्यां तु रथैर्यस्य तरणं तस्य सामवेदत्वमुक्तम् 1 । तत्तु प्रलापमात्रम् । मनोवाक्शरीराणां त्रिवृत्, स्तोमः स्तूयमान इत्यादिकं न मूर्खजनप्रतारणं केवलम्, किन्तु स्वात्मप्रतारणं च तत् ॥ १० ॥
दक्षिणमारोह त्रिष्टुप् वतु बृहत्सामं पञ्चदशस्तोम ग्रीष्म ऋतुः क्ष॒त्रं द्रविणम् ॥११ ॥
प्र॒तीची॒मारो॑ह॒ जग॑ती त्वावतु वैरूपं साम॑ सप्तद॒शस्तोमो॑ व॒र्षा ऋतुविड् द्रवि॑ण॒म् ॥१२ ॥
उदी॑च॒मारो॑हानुष्टुप् त्वा॑वतु वैराज सामै + वि॒शस्तोम॑ः श॒रदृतुः फलं॒ द्रवि॑णम् ॥१३ ॥
ऊ॒र्ध्वामारो॑ह प॒ङ्क्तस्त्वा॑तु॒ शाक्यररे॑व॒ते॒ साम॑नी विणवत्रयस्त्रिंशौ स्तोमो हेमन्त-शिश॒राव॒त वच॒ द्रवि॑ण॒ प्रत्य॑स्य॒ नम॑च॒ शर॑ः ॥ १४ ॥
ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष के अर्थ में गुरु शिष्य को उपदेश देता है कि हे वत्स, भगवान् के स्मरण से सर्पों के समान विघ्न-कारक भूत, प्रेत, असुर, राक्षस आदि विनष्ट हो जाते हैं । तुम पूर्वाम्नायोक्त मन्त्र से उपलब्ध सिद्धि को स्वायत्त करो । सिद्धि पर आरूढ़ हुए तुमको गायत्री छन्द का अधिष्ठाता देव रक्षित करे । रथन्तर नामक साम, त्रिवृत् स्तोम तथा वसन्त के अधिष्ठाता देवता तथा ब्रह्मात्मक घन तुम्हारी रक्षा करें । ऋतु स्वामी दयानन्द द्वारा निरूपित अर्थ में ' उनको जीत कर यह अध्याहार मूलरहित होने के कारण अग्राह्य है । ' गायत्री छन्द प्राप्त करे ' यह भी असंगत है । रथों से किसके द्वारा पार किया जाता है, यह भी अस्पष्ट है । हिन्दी अर्थ में रथ के द्वारा जिसका तरण होता है, उसको सामवेद कहा गया है । यह भी प्रलाप ही है । ' मन, वाणी तथा शरीर का बलबोधक त्रिवृत् है ' इत्यादि कथन केवल अज्ञ जनों को ही भ्रान्त करने वाला नहीं है, अपितु स्वयं के लिये भी भ्रान्तिकारक है ॥ १० ॥
दक्षिण दिशा की ओर आक्रमण करो । त्रिष्टुप् छन्द, बृहत् साम, पंचदश स्तोम, मन्त्रार्थ - हे यजमान! तुम प्रीष्म ऋतु और क्षत्रिय जाति सम्बन्धी ऐश्वर्यं तुम्हारी रक्षा करें ॥ ११ ॥
पृष्ठ 378
पाठ पढ़ें पाठ छिपाएँ
३२४ शुक्लयजुर्वेद संहिता [ अ ० १० द्वितीयो मन्त्रः । हे यजमान, त्वं दक्षिणां दिशमारोह आक्रमस्व । तथाविधं त्वा त्वां छन्दसां मध्ये त्रिष्टुप् छन्दः, अवतु । ' त्वामिद्धि हवामहे ' ( ऋ ० सं ० ६ | ४६ | १ ) इत्यस्यामृचि उत्पन्नं साम बृहत्साम, पञ्चदश स्तोमाः, ग्रीष्म ऋतुः क्षत्रं द्रविणं त्वावतु तत्तदधिष्ठातारो देवास्त्वां पान्तु । पञ्चदश: स्तोमः साम-ब्राह्मण एवमाम्नातः पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः पञ्चपचिनी पञ्चदशस्य विष्टुतिः ' इति । पूर्वोक्त-स्त्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः 1 अन्ये तु स्तोमा एकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः-प्रथमपर्याये आवृत्तिः पञ्चभिः तत्रादौ तिसृभिर्ऋभिर्गायत इतरे द्वे सकृद् गायेत । द्वितीयपर्याये प्रथमां सकृद् मध्यमां तिसृभिस्तृतीयां सकृत् । तृतीयपर्याय - आधे हे सकृत् तृतीयां तिसृभिरिति पञ्चदशस्तोमसम्बधिनी विष्टुतिः पञ्चपचिनीत्यभिधीयते । शतपथीयसायणभाष्ये तु ताण्ड्य ब्राह्मणानुसारेण स्तोमा दर्शिताः ॥ ११ ॥
तृतीयो मन्त्रः - हे यजमान, त्वं प्रतीचीं दिशमारोह । जगती छन्दस्त्वामवतु । ' यद् याव इन्द्र ते शतम् ' ( ऋ ० सं ० ८२७०१५ ) इत्यस्यामृच्युत्पन्नं वैरूपं साम । सप्तदशः स्तोमः । वर्षा ऋतुः । विड् वैश्यो जातिलक्षणं द्रविण । यद्वा वैश्य जातिस्ते द्रविणमवतु । सप्तदशः स्तोमस्तु सामब्राह्मणे ( २५।२।२७ ) - ' पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिः ' इति । प्रथमपर्याये प्रथमोत्तमे सकृन्मध्यमां त्रिर्गायेत् । तृतीयपर्याये प्रथमां सकृद् गायेद् मध्यमोत्तमे त्रिरिति सप्तदश-स्तोमस्य विविधस्तुतिर्दशसतेत्यभिधीयत इत्यर्थः ॥ १२ ॥
हे यजमान, त्वमुदीचीं दिशमारोह । अनुष्टुप् छन्दस्त्वामवतु । ' पिबा सोममिन्द्र मन्दतु त्वा ' ( ऋ ० सं ० ७ | २२ | १ ) एतस्यामृच्युत्पन्नं वैराजं साम । एकविंशः स्तोमः । शरदृतुः । फलं यज्ञफललक्षणं द्रविणम् । सायणस्तदुम्बरादिफलमित्याह । एकविंशः स्तोमश्च सामब्राह्मणे ( २५।२।१४ ) - ' सप्तभ्यो हिङ्करोति । स एकया मन्त्रार्थ - हे यजमान! तुम पश्चिम दिशा की ओर आक्रमण करो । जगती छन्द, वैरूप साम, सप्तदश स्तोम, वर्षा ऋतु और वैश्य सम्बन्धी ऐश्वयं तुम्हारी रक्षा करें ॥ १२ ॥
मन्त्रार्थ - हे यजमान! तुम उत्तर दिशा की ओर आक्रमण करो । अनुष्टुप् छन्द, वैराज साम, एकविंश स्तोम, शरद् ऋतु और यज्ञफलरूप ऐश्वयं तुम्हारी रक्षा करे ॥ १३ ॥
मन्त्रार्थ - हे यजमान! तुम ऊर्ध्वं दिशा की ओर आक्रमण करो । पंक्ति छन्द, शक्वर और रंवत साम, त्रिणव और त्रयस्त्रिश स्तोम, हेमन्त और शिशिर ऋतु तथा तेजोभिमानी देवता का ऐश्वर्यं तुम्हारी रक्षा करें । नमुचि असुर का सिर बहुत दूर फेंका गया है ॥ १४ ॥
भाष्यसार - यहाँ चार कण्डिकाओं की व्याख्या एक साथ की गई है । कात्यायन श्रौतसूत्र ( १५ / ५ / २२ ) में प्रतिपादित याज्ञिक प्रक्रिया के विनियोग के अनुसार ' प्रत्यस्तम् ' इत्यादि अन्तिम मन्त्र से व्याघ्रचर्म के पश्चिम भाग में रखे गये तीस द्रव्य को पैर से फेंका जाता है । शेष मन्त्रों का विनियोग पूर्व प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया केअनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में इन कण्डिकाओं का अर्थ क्रमश: इस प्रकार है ---हे साधक, तुम दक्षिणाम्नाय के मन्त्रसाधन द्वारा समुपलब्ध सिद्धि को अधिगत करो । उस पर आरूढ़ तुम्हारा रक्षण त्रिष्टुप् छन्द आदि करें । हे साधक, पश्चिमाम्नाय की मन्त्रोपदिष्ट सिद्धि पर आरोहण करो । ऐसे तुमको जगती छन्द आदि रक्षित करें । हे साधक, उत्तराम्नाय के मन्त्र से साधन करने योग्य सिद्धि पर आरूढ़ होओ । उसमें अनुष्टुप् छन्द आदि तुम्हारी रक्षा करें ।
पृष्ठ 379
पाठ पढ़ें पाठ छिपाएँ
म ० ११-१४ ] वेदार्थपारिजातभाष्यसहिता ३२५ सतिसृभिः स एकया स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्टुतिः ' इति । प्रथमपर्याये प्रथममध्यमे त्रियेद् उत्तमां सकृत् प्रथमोत्तमे त्रिर्गादित्येकविशस्तोमस्य विष्टुतिः सप्तसप्तिनीत्युच्यत इत्यर्थः ॥ १३ ॥
हे यजमान, त्वमूर्ध्वा दिशमाक्रमस्व । पङ्क्तिश्छन्दः । ' प्रो ध्वस्मै पुरोरथम् ' ( ऋ ० सं ० १०।१३३।१ ) इत्यस्यामृच्यध्यूढं शाक्वरं साम, ' रेवतीर्नः सधमाद ' ( ऋ ० सं ० १1३०1१३ ) इत्येतस्यामृच्यध्यूढं रैवतं साम । त्रिणवस्त्र स्तोमौ । हेमन्त शिशिरावृतू । वर्चस्तेजो ब्रह्मवर्चसं वा द्रविणम् । एते त्वामवन्तु । यद्वा वर्चस्तेजोऽभिमानी देवस्ते धनं रक्षतु । अत्र पञ्चसु मन्त्रेषु मध्ये त्रिषु मन्त्रेषु ब्राह्मणक्षत्रियवैश्या धनरक्षकत्वेन धनरूपत्वेन च कथिताः । चतुर्थे यज्ञफलस्योदुम्बरादिफलस्य वा तद्रूपत्वं तद्रक्षकत्वम् । पञ्चमे च वर्चसः प्रख्यातशूरताकृतस्य तेजसो रक्षकत्वं तद्रूपत्वं चोक्तम् । त्रिणवः स्तोम एवमाम्नातः ( प ० ब्रा ० ३।१ ) - ' नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिङ्करोति स एकयास तिसृभिः स पञ्चभिर्नवभ्यो हिङ्करोति स पश्चभिः स एकया स तिसृभिर्वो वैत्रिणवः ' इति । प्रथमपर्याये प्रथमां त्रिर्गायेत्, मध्यमां पञ्चकृत्वः, उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृत्, मध्यमां त्रिरुत्तमां पञ्चकृत्वो गायेत् । तृतीयपर्याये प्रथमां पञ्चकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् । सोऽयं त्रिरावृत्तनवसंख्योपेतत्वात् त्रिणवनामको वज्रसमानः स्तोमः । त्रयस्त्रिशः स्तोम एवमाम्नातः ( १० ब्रा ० ६।३ ) -' एकादशभ्यो हिङ्करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिरन्तो वै त्रयस्त्रशः ' इति । प्रथमपर्याये प्रथमां त्रिर्गायेद् मध्यमां सप्तकृत्व उत्तमां सकृत्, द्वितीयपर्याये प्रथमां सकृन्मध्यमां त्रिरुत्तमां सप्तकृत्वः तृतीयपर्याये प्रथमां सप्तकृत्वो मध्यमां सकदुत्तमां त्रिर्गायेत् । सोऽयं त्रयस्त्रिशः स्तोमः सर्वेषां स्तोमानामन्तः । ' आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति ' ( का ० श्र ० १५।५।२२ ) । व्याघ्रचर्म -पश्चाद्भागे निहितं सीसमाक्रम्य पादेन क्षिपेत् । असुर देवत्यम् । नमुचेरसुरस्य शिरो मस्तकं प्रत्यस्तम्, प्रतिगृह्य सीसरूपे क्षिप्तमित्यर्थः । अत्र ब्राह्मणम् - ' दक्षिणामारोह ( श ० ५ | ४ | १ | ४ ), ' प्रतीचीमारोह । जगती ' ( श ० ५ | ४ | १ | ५ ), ' उदीचीमारोह " ( श ० ५ | ४ | ११६ ), ' ऊर्ध्वामारोह | पङ्क्तिस्त्वा.. ' ( श ० ५ | ४ | १ | ७ ), ' तद्यदेनं दिशः समारोह्यति । ऋतूनामेवैतद्रूपमृतूने वैनमेतत्संवत्सर " समारोहयति स ॠतून संवत्सर १७ समारुह्य सर्वमेवेद-मुपर्युपरि भवत्यर्वागेवास्मादिद ७ सर्वं भवति ' ( श ० ५ | ४ | १ | ८ ) । दिशां समारोहणं समस्य ( समुच्चित्य ) संवत्सरारोहात्मना प्रशंसति - संवत्सरं समारोहयतीति । हेमन्तशिशिरयोः समासेन ऋतूनामपि पञ्च-संख्यात्मकत्वात् संवत्सरारोहणेन यजमानः सर्वमेवेदं जगद् उपर्युपरि भवति, सर्वस्योपरि वर्तमानो भवतीत्यर्थः । कालस्य सर्वेषामुपरिभावाद् अस्मात् सुन्वतो यजमानात् सकाशाद् इदं सर्वम् अग् अर्वाचीनमधस्तनं भवति । ' शार्दूलचर्मणो जघनार्धे । सीसं निहितं भवति तत्पदा प्रत्यस्यति प्रत्यस्तं नमुचेः शिर इति नमुचिर्ह वै नामासुर आस तमिन्द्रो निविव्याध तस्य पदा शिरोऽभितष्ठौ स यदभिष्ठित उदबाधत स उच्छ्वङ्कस्तस्य पदा शिरः प्रचिच्छेद ततो रक्षः समभवत् तद्ध स्मैनमनुभाषते क्व गमिष्यसि क्व मे मोक्ष्यस इति ' ( श ० ५ | ४ | ११ ९ ) । पूर्वं मैत्रावरुणधिष्ण्यस्य पुरस्तादभिनिहितानामभिषेचनीयपात्राणामग्रे आस्तृतस्य शार्दूलचर्मणोऽपरेऽन्ते निहितस्य सीसस्य प्रासनमिदानीं विधत्ते - शार्दूलचर्मण इति । शार्दूलचर्मणो जघनार्धेऽ-हे साधक, ऊर्ध्वाम्नाय के मन्त्र से साधनीय सिद्धि पर आरोहण करो । उसमें पंक्ति छन्द आदि तुम्हारी रक्षा कर । तुम्हारी सिद्धि में बाधक नमुचि नामक असुरविशेष का सिर प्रक्षिप्त हो जाय ।
पृष्ठ 380
पाठ पढ़ें पाठ छिपाएँ
३२६ शुक्लयजुर्वेद संहिता [ अ ० १० परभागे निहितं पूर्वं चर्मास्तरणसमय एव निहितम्, ' अपरेऽन्ते सीसं निदधाति ' ( का ० श्री ० १५।५।२ ), अत्र तु ' आक्रम्य पादेन निरस्यति प्रत्यस्तमिति ' ( का ० श्र ० १५।५।२२ ) इति तत्सीसं पदाक्रम्य प्रत्यस्तमिति मन्त्रेण निरस्येत् । मन्त्रस्तु व्याख्यात एव । नमुचिशिरसः सीसेन निरसनमाख्यायिकयोपपादयति-नमुचिर्हति । पूर्वमिन्द्रो नमुचिनाम्नोऽसुरस्य शिरः स्वेन पादेनाभितष्ठौ आचक्रमे । स आक्रान्त उदबाधत इन्द्रं बाधितवान् | उच्छ्वङ्क उद्गतः श्वङ्कः कचिद्धिकः श्वाकारः, प्राणिविशेषरूपेणेति शेषः । इन्द्रोऽपि तस्य शिरः पादेन स्वीयेन प्रचिच्छेद । ततः स च्छिन्नशिरा राक्षसोऽभवत् । स चैनं घातकमिन्द्रमनुभाषते हे इन्द्र व गमिष्यसि मे मत्तः सकाशान्न मोक्ष्यसे । तस्मात्तथावदनात् स नमुचिरित्युक्तः । ' तत्सीसेनापजघान । तस्मात्सीसं मृदु मृतजव हि सर्वेण हि वीर्येणापजघान तस्माद्धिरण्यरूप १७ सन्न कियच्चनार्हति सृतजव हि सर्वेण हि वीर्येणापजघान तद्वै स तन्नाष्ट्रा रक्षा १७ स्यपजघान तथो एवैष एतन्नाष्ट्रा रक्षास्यतोऽपहन्ति ' ( श ० ५ | ४ | १ | १० ) । तदेतद्वदन्तं राक्षसमिन्द्रः सीसेनापजघान । तस्मात्सीसं मृदु जातम् । हि यस्मात् सृतजवं गतवेगं हि यस्मात् सर्वेण वीर्येणापजघान तस्माद् गतसारमेतत्सीसं हिरण्यरूपं रजतरूपं सद् अपि कियच्चिद् मूल्यं नार्हति न लभते । इदानीं तु विशेषपरिष्कारेण दूरवीक्षणादिषु प्रयुक्तं सद् यन्मूल्यवद् भवति, तत्तु परिष्कार-माहात्म्यम् । रजतस्यापि कृते हिरण्यशब्दव्यवहारो भवति, ' यदशीर्यत्तद्रजत हिरण्यमभवत् ' ( तै ० सं ० १५ | १ ) इति श्रुतेः । अतः पूर्वं रक्षसः सीसेन हतत्वादिदानीमपि सीसप्रासनेन रक्षांसि हतानि भवन्तीत्यर्थः । अध्यात्मपक्षेमूषां कण्डिकानामर्थः क्रमशो यथा - हे साधक, त्वं दक्षिणां दिशं दक्षिणाम्नायमन्त्र-साधनोत्थां सिद्धिमारोह स्वायत्तां कुरु । तामारूढं त्वा त्रिष्टुबादयः पान्तु ( १०/११ ) । हे साधक, पश्चिमा-म्नायमन्त्रोक्तां सिद्धिमारोह । तादृशं त्वां जगत्यादयः पान्तु ( १०।१२ ) । हे साधक, उदीचीमुत्तराम्नाय -मन्त्रसाध्यां सिद्धिमारोह । तत्रानुष्टुबादयस्त्वां पान्तु ( १० | १३ ) | हे साधक, ऊर्ध्वाम्नायमन्त्रसाध्यां सिद्धिमारोह । तत्र त्वां पङ्क्त्यादयः पान्तु । नमुचेरसुरविशेषस्य तव सिद्धिबाधकस्य शिरः प्रत्यस्तं प्रक्षिप्तमस्तु, मदाशीर्वचनेनेति शेष: ( १०।१४ ) । अमूषां चतसृणां कण्डिकानां विषये दयानन्दस्तु -- ' हे विद्वन् राजन्, यं त्वां त्रिष्टुब् एतच्छन्दोऽभिहित-विज्ञानं त्वाम् अवतु प्राप्नोतु, बृहद् महत् साम सामवेदः, पञ्चदशः प्राणेन्द्रियभूतानां पञ्चदशानां पूरक: स्तोमः स्तोतुं योग्यः, ग्रीष्म ऋतुः क्षत्रियधर्मरक्षकं त्वामवन्तु स त्वं दक्षिणां दिशमारोह शत्रून् विजयस्व ' इति, तदपि यत्किञ्चित्, तदुक्तार्थस्य रथन्तर बृहदादिसाम्नां त्रिवृत्स्तोमपञ्चदशस्तोमादिस्तोमानां चाज्ञानविजृम्भित-त्वात् । त्रिष्टुप्छन्दोऽभिहितं विज्ञानमित्यपि निर्मूलमेव तदनिरूपणात् ( १०/११ ) । हे राजन् यं त्वां जगतीच्छन्दोऽभिहितमथं वैरूपं विविधानि रूपाणि यस्मिन् तत्साम सामवेदांशः, सप्तदश: पञ्चकर्मेन्द्रियाणि पश्वविषयाः पञ्च भूतानि कार्यं कारणं चेति सप्तदशानां पूरक: स्तोमः स्तुतिसमूहः, ऋतुर्वर्षा, विड् वणिग्जनः इन चार कण्डिकाओं के विषय में स्वामी दयानन्द का अर्थं असंगत है । उसमें कथित रथन्तर बृहत् आदि सामों तथा त्रिवृत्, पञ्चदश आदि स्तोमों का अज्ञानपूर्ण अर्थ है । त्रिष्टुप् छन्द से उपदिष्ट विज्ञान का व्याख्यान भी उसका निरूपण न होने के कारण निर्मूल है । इसी प्रकार ' जगती ' इस पद के छन्दः परक होने के कारण विशिष्ट अर्थ का अभाव है । जगती छन्द के अनेक मन्त्र हैं, उनका एक ही अर्थ असम्भव है । बृहद् रथन्तर आदि की भांति वैरूप नामक भी एक साम ही है, सप्तदश का पूरक स्तुतिसमूह नहीं है । ये इन्द्रियादि भी नहीं हैं, क्योंकि वे अर्थात्मक हैं ।