वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 391–400
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 391–400
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
मं ० २० । दार्थ पारिजात भाष्य सहिता ४३ ३३७ इन उत्पन्न समस्त अथवा व्याप्त नहीं करने में भी समर्थ इसके बाद मन्त्र में नाभूत्, व्याप्तुं वा समर्थो नाभूत्, परिपूर्वस्य भवतेर्व्याप्त्यर्थत्वात् । परिभवः सृष्टेरप्युपलक्षणम् । त्वत्तः सकाशादन्यः स्रष्टुमपि न शक्नोतीत्यर्थः । अतो वयं यत्कामास्ते जुहुमो यः दामो येषां ते यत्कामा येन कामेन जुहुमस्तत्कामरूपं फलमस्तु । यजुर्व्याख्यानं तु - अयममुष्य पिता अयं श्रीरामोऽमुष्य दशरथस्य पितेति वैपरीत्येन गृह्णीयात् । पश्चाद् यथायथं पुत्रे पुत्रनाम पितरि पितृनाम प्रयुञ्जीत । असौ दशरथोऽमुष्य रामस्य पितेति सर्वथा सपुत्रा वयं रयीणां पतयो भवेम | ' आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्धे ' ( का ० श्र ० १५ १६ १२ ) । अध्वर्युराग्नीध्रीयेऽग्नौ ईशान्यां दिशि पालाशेनाभिषेकपात्रेणा-भिषेकशेषान् जुहोति । हे रुद्र! रुतु सांसारिकं दुःखं द्रावयतीति रुद्रः, तत्सम्बद्धौ । ते तव यत् क्रिवि कर्तृ हिंसितृ विरोधिनो हिंसकं वा परमुत्कृष्टं नामास्ति, ' क्रिवि हिंसाकरणयोः ' । एवं रुद्रं सम्बोध्य होमद्रव्यमाह-हे हविः! अभिषेकशेषभूत मुख्यपात्रस्थ जल, त्वं तस्मिन् नाम्नि हुतं भव | अमेष्टमसि ' अमेति गृह्णाम ' ( निघ ० ३ । ४ । ११ ), मम गृहे इष्टं दत्तमसि स्वाहा सुहुतमसि । अत्र ब्राह्मणम् -- ' अथ ब्राह्मणस्य पात्रे । सत्रवान् समवनयति तद् ब्राह्मण राजानमनु यशः करोति तस्माद् ब्राह्मणो राजानमनु यश: ' ( ० ५ | ४ | २७ ) । स्वमित्रवैश्यपात्रत्रयशेषाणां पालाशपात्रे व्यासेचनं विधत्ते - अथेति । तद् ब्राह्मणमिति तत् तेन व्यवनयनेन राजानम् अनु पश्चाद् ब्राह्मणं यशो यशस्विनं कृतवान् भवति । लोके हि राजा कीर्तिमान् ब्राह्मणोऽपि तदनन्तरं कीर्तिमानुच्यते । तद्योऽस्य पुत्रः प्रियतमो भवति । तस्मा एतत्पात्रं प्रयच्छतीदं मेऽयं वीयं पुत्रोऽनुसन्तनवदिति ' ( श ० ५।४।२१८ ) । एतत्संस्रवैः प्रासिक्तं ब्राह्मणस्य पालाशपात्रं राज्ञः प्रियतमाय पुत्राय प्रयच्छेत् । अयं मे पुत्रो मम वीर्यरूपं कर्म अनुसन्तनोतु विस्तारयत्विति । ' अथ प्रतिपरेत्य गार्हपत्यमन्वारब्धे जुहोति । प्रजापते अमुध्य पितेति तद्यः पुत्रस्तं पितरं करोति यः पिता तं पुत्रं तदेनयोर्वीर्ये व्यतिषजत्य सावस्य पितेति तद्यः पिता तं पितरं करोति यः पुत्रस्तं पुत्रं तदेनयोर्वीर्ये व्यतिषज्य पुनरेव यथायथं करोति वयस्याम पतयो रयीणाछ, स्वाहेत्याशी रेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते ' ( श ० ५।४।२२ ९ ) । विधत्ते - अथ प्रतीति । गार्हपत्यं प्रति परेत्य प्रत्यङ्मुखो गत्वा अन्वारब्धे, प्रकृतत्वात् पुत्र इति गम्यते । ब्राह्मणमेतदनुसृत्यैव सूत्रं प्रववृते - ' शालाद्वायें प्रजायत इति ' ( का ० श्री ० १५/६ ११ ) । तद्यः पुत्र इति पुत्रं पितरम्, पितरं पुत्रं कृत्वा पठेदित्यर्थः । तदेतेन पुत्रस्य पितृकरणेन पितुश्च पुत्रकरणेन एनयो: पितापुत्रयोर्वीर्ये व्यतिषजति परस्परं संसृष्टे कृतवान् भवति । असावमुष्य पितेत्यस्यार्थमाह-तद्यः पितेति । अत्र पितुरेव पितृत्वम्, पुत्रस्यैव पुत्रत्वम् । अनेनैतयोर्वीर्ये पूर्वं व्यतिषज्य पश्चाद् यथा पुत्रस्य वीर्यं पुत्र एव पितुर्वीर्यं पितर्येव कृतवान् भवतीत्यर्थः । अन्तिमपादस्याशीः परत्वं दर्शयति - आशीरेवैषेति । ' अथ य एष वोऽतिरिक्तो भवति । तमाग्नीध्रीये जुहोत्यतिरिक्तो वा एष सस्रवो भवत्यतिरिक्त आग्नीधीयो गार्हपत्ये हवी ७ षि श्रपयन्त्याहवनीये जुह्वत्यथैषो ह्येतस्य देवस्य दिक् तस्मादुत्तरार्धे जुहोति स जुहोति रुद्र यत्ते किवि परं नाम तस्मिन् हुतमस्यमेष्ट्रमसि स्वाहेति ' ( श ० ५: ४।२।१० ) | पालाशपात्रशेषस्य आग्नीध्रीये अभिषेकावशिष्ट का हवन किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १५ | ६ | ११-१२ ) में प्रतिपादित है । पथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । afuser की अर्थ योजना इस प्रकार है - हे प्रजापति, आपके अतिरिक्त अन्य कोई भी देवता नानाजातीय वर्तमान, भूत तथा भविष्य काल के विषयों को नियन्त्रित करने में समर्थ नहीं हुआ, कर सका । परिभव शब्द सृष्टि का भी संकेत करता है, अर्थात् आपके अतिरिक्त दूसरा कोई सर्जन नहीं है | अतः हम जिस कामना से युक्त होकर राजन करते हैं, वह कामनात्मक फल हमें प्राप्त हो ।
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
३३८ शुक्ल यजुर्वेदसंहिता [ अ ० १० हवनस्योपपत्ति दर्शयति--ऋचा हवनं विधत्ते अथ य एष सस्रव इति । अतिरिक्तस्य शेषस्य आग्नीध्रीये होम:, अतः श्रपणहवनयोरनु-अतिरिक्त आग्नीध्रीय इति । गार्हपत्ये सर्वेषां हविषां श्रपणम्, आहवनीये इति । अस्य तेषां रुद्रसम्बन्धं दर्शयति-- देवस्य पयुक्तत्वादाग्नीध्रीयोऽतिरिक्त इति । प्रदेशविशेषं विधत्ते - उत्तरार्ध दिगिति । मन्त्रं विधत्ते स जुहोति रुद्र यत्त इति । मन्त्रार्थस्तुक्त एव । त्वत्तोऽन्यः कश्चिदपि न अध्यात्मपक्षे - हे प्रजापते परमेश्वर! एतानि यानि विश्वानि रूपाणि तानि परिबभूव नियन्तुं स्रष्टुं वा समर्थो नाभूत् । अन्यत् पूर्ववदेव । विश्वा रूपाणि इच्छारूपादि-दयानन्दस्तु -- ' हे प्रजापते परमेश्वर, यान्येतानि जीवप्रकृत्यादीनि टिप्पण्यां वस्तूनि तु ( न जानाति ) । ते तव गुणैर्युक्तानि तानि त्वत् त्वत्तोऽन्यः कोऽपि न परिबभूव न गच्छति, कुर्मः ), तव कृपया तन्नोऽस्तु । अयं सकाशाद् यत्कामाः सन्तो वयं जुहुमो गृह्णीमः हिन्द्यां तु ( सेवनं विश्वस्य पितासि, तथा वयं स्वाहा सत्यया भवानमुष्य परोक्षस्य जगतः पिता, असौ भवानस्य समस्तस्य रुद्र दुष्टानां रोदयितः, यत्तॆ तव वाचा रयीणां विद्याचक्रवतराज्योत्पन्नश्रिया पतयः स्वामिनः स्याम । हे । अमायां गृहे इष्टमसि, तं कृवि कृणोति हिनस्ति येन तत् परं प्रकृष्टं नामास्ति तस्मिन् त्वं हुतं स्वीकृतमसि भवतेस्तदर्थत्वे मानाभावात् । अयं वयं स्वाहा सत्यया वाचा गृलीम: ' इति, तदपि यत्किचित् परिपूर्वस्य तस्मिन्नेव वाक्ये परमेश्वरस्य जगतश्च भवानमुष्य परोक्षस्य जगतः पितेत्यादिव्याख्यानस्य नैरर्थक्यापातात् यः पिता तं पुत्रं करोतीति परोक्षत्वापरोक्षत्वविरोधात् श्रुतिविरोधाच्च । तयः पुत्रस्तं पितरं करोति स्पष्ट एव विरोधः ॥ २० ॥
इन्द्र॑स्य॒ वज्र॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशास्त्रोः प्रशिष युनज्मि । अव्य॑थायै त्वा स्व॒धायै॒ त्वारि॑िष्टा॒ अर्जुनो म॒रुता॑ व्र॒स॒देन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ॥ २१ ॥
यह दशरथ इस राम का पिता है, इस प्रकार यथास्थान पुत्र तथा पिता का नामग्रह्ण किया जाता है । उदाहरणार्थ - जो हिसकों का विरोधी परम सर्वथा पुत्र से युक्त हम लोग धन के स्वामी बनें । हे सांसारिक दुःखों के नाशक, आपका जाता है कि हे हविर्द्रव्य, तुम उत्कृष्ट नाम है, इस प्रकार रुद्र की प्रार्थना है । तदनन्तर हविर्द्रव्य को संबोधित । किया उस परम नाम के प्रति समर्पित हो जाओ । मेरे घर में प्रदत्त हो, समर्पित हो भी नियन्त्रित अध्यात्मपक्षीय अर्थ में - हे प्रजापति परमेश्वर, इन समस्त रूपों को आपके अतिरिक्त दूसरा कोई तथा उत्पादित करने में समर्थ नहीं हुआ है, इत्यादि । शेष व्याख्या पूर्ववत् ही है । प्रमाण न स्वामी दयानन्द द्वारा निरूपित व्याख्या में परि उपसर्गयुक्त भू धातु का उस प्रकार अर्थ करने में कोई भी प्राप्त होने के कारण अनौचित्य है । ' ये आप इस परोक्ष जगत् के पिता है ' इस प्रकार की व्याख्या की निरर्थकता श्रुतिवाक्य का भी होती है । इस वाक्य में ही परमेश्वर तथा जगत् के परोक्षत्व तथा अपरोक्षत्व में विरोध हैं तथा विरोध स्पष्ट हो है ॥ २० ॥
मन्त्रार्थ - हे रथ! तुम इन्द्र के वज्र के समान कठोर काष्ठ से बने हुए हो । सब पर शासन करने वाले मित्रावरुण देवता के अनुशासन में मैं इन घोड़ों को रथ में जोतता हूँ । अनुपहसित अर्जुनतुल्य इन्द्ररूपमय देश का भय दूर करने के लिये, उसमें स्थिरता लाने के लिये, देश में सुभिक्ष संपादन के लिये रथ पर चढ़ता हूँ । हे रथ को वहन करने वाले अश्व! मरुद्गणों की आज्ञा से तुम वेगवान् होकर शत्रुओं को जीतो । हमने जो कार्य आरम्भ किया है, उसको मन लगा कर पूरा करो । ऐसा करने से हम पराक्रम से पूर्ण हो जायेंगे ॥ २१ ॥
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
म ० २१ aari पारिजात भाष्यसहिता ३३ ९ ' वाजपेयवद्रथमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुभि: ' ( का ० श्री ० १५।६।१५ ) । वाजपेय इव रथवाहणाद्रथमिन्द्रस्य वज्रोऽसीति मन्त्रेण शालाया दक्षिणतो रथस्योपरि स्थापितं रथं भूमाववतार्य दक्षिणवेदिश्रोणिदेशे वेदिमध्ये समानीय मित्रावरुणयोरिति मन्त्रेण चतुर्भिरश्वैर्वाजपेयवदेव युनक्ति । प्रथमं दक्षिणं तत उत्तरं ततो दक्षिणा प्रष्टिस्ततः सव्या प्रष्टिरिति क्रमो वाजपेये । स एवात्र क्रमः । प्रत्यश्वं मन्त्रावृत्तिः इन्द्रस्य वज्रोऽसीत्येव मन्त्रो वाजपेयसम्बन्धी न सर्वः, तावन्मात्रस्यैव पाठात् । रथदेवत्यम् । हे रथ, इन्द्रस्य वज्रोऽसि वज्रसदृशोऽसि । प्रशास्त्रोराज्ञापयित्रोमित्रावरुणयोर्देवयोः प्रशिषा प्रशासनेन हे रथ, त्वा यज्ञसम्बन्धिनं त्वां युनज्मि अवः संयोजयामि । ' अव्यथायै त्वेति सुन्वन्नारोहति ' ( का ० श्र ० १२।६।१७ ) । अन्यथा त्वेति मन्त्रेण यजमानश्चात्वालदेशस्थ रथमारोहति यन्तापि तदानी -मेवारोहति, अग्रेऽवरोहण विधानात् । हे रथ अरिष्टोऽनुपहसितः, अर्जुनोऽर्जुनतुल्य इन्द्रतुल्यो हि त्वामव्यथायै अभयाय अर्चनाय वा ' व्यध भयचरनयोः ', स्वधायें अन्नरसाय अधितिष्ठामि, ' अर्जुनो ह वै नामेन्द्रः ' ( श ० १५।४।३।७ ) इति श्रुतेः । प्रकृते इन्द्र एवार्जुनोऽभिप्रेतः । ' मरुतामिति दक्षिणधुर्यं प्राजति ' ( का ० श्र ० १५।६।१८ ) । यजमानेन सहारूढो यन्ता दक्षिणावं कराया प्रेरयेद् मरुतामिति मन्त्रेण । मरुतां विद्युद्रूपाणां सम्बन्धिना प्रसवेन अनुज्ञया वर्तमानोऽश्वस्त्वमस्मच्छत्रून् जय सवं स्वाधीनं कुवित्यर्थः । ' गवां मध्ये स्थापयत्यापामेति ' ( का ० श्री ० १५/६ १ ९ ) । आहवनीयस्योत्तरतः स्थापितानां स्वस्य ज्ञातेर्गवां मध्ये रथं स्थापयेत् सारथिः । यजमानदेवत्यं यजुः । वयं मनसा अपाम आप्तवन्तस्तत्कर्म यदुपक्रान्तम् ' मनसा वा इद, सर्वमाप्तं तन्मनसै-वैतत्सर्वमाप्नोति ' ( श ० १५४।३।२ ) इति श्रुतेः । ' धनुरायोपस्पृशति गां यजमानः समिन्द्रियेणेति ' का ० श्र ० १५।६।२० ) । यजमानो धनुष्कोटया गामेकामुपस्पृशेत् । यजमानदेवत्यम् । वयमिन्द्रियेण वीर्येण संगताः स्मः । " अत्र ब्राह्मणम् - ' तद्योऽस्य स्वो भवति । तस्य शतं वा परःशता वा गा उत्तरेणाहवनीय स ७ स्थापयति तद्यदेवं करोति ' ( श ० ५ | ४ | ३ | १ ) । एतदनुसृत्यैव कात्यायनः - ' गवा, शतमधिकं वा स्वस्याहवनीय-स्योत्तरतः स्थापयति ' ( का ० श्र ० १५।६ । १३ ) । स्वस्थ ज्ञातेर्भ्रातुर्दक्षिणार्थं माहवनीयस्योत्तरप्रदेशे शतसंख्या अधिका वा गाः स्थापयेत् । परःशताः शताधिका इत्यर्थः । एतत् पशुसंस्थापनरूपं कर्म करोति, तथा तथैव वरुणेन कृतत्वादित्युत्तरेण सम्बन्धः । ' वरुणाद्ध वा अभिषिषिचानात् । इन्द्रियं वीर्यमपचक्राम शश्वद्य एषोऽपा रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति सोऽस्येन्द्रियं वीर्यं निर्जघान तत्पशुधन्वविन्दत्तस्मात्पशवो यशो यदेष्वन्वविन्दत्तत्पशुष्वनुविद्येन्द्रियं वीर्यं पुनरात्मन्नधत्त तथो एवैष एतन्ना हैवास्मान्न्विन्द्रियं वीर्यमक्रामति वरुणसवो वा एष यद्राजसूयमिति वरुणोऽकरोदिति त्वेवैष एत्करोति ' ( श ० ५ | ४ | ३ | २ ) । पूर्वं राजसूयेऽ-भिषिच्यमानाद्वरुणाद् इन्द्रियं वीर्यमपचक्राम अपसृतम् । वीर्यापसरणकारणमाह-- शश्वद्य इति । शश्वद् निश्चितं सम्भृतोऽपां रसः येन सम्भृतेन रसेन इदानीमध्वर्युरभिषिचति । स रसोऽस्य वरुणस्य वीर्यं निर्जघान हृतवान् । वरुणः पशुष्वन्वविन्दद् अलभत । तस्मात् पशूनां यशोरूपत्वम्, पशुत एव यशः सम्भवात् । लब्धं वीर्यं वरुणः पुनरात्मनि स्थापितवान् । तथो तेनैव प्रकारेण एष यजमानोऽपि एतत् पशुसंस्थापनेन इन्द्रियं वीर्यमात्मनि धत्ते । तस्मात् पशुषु रथनिधानरूपं कर्म कुर्वतः सुन्वतः सकाशाद् वीर्यं नापक्रामति । राजसूयमिति यत्तद्वरुगसवः । राजसूये वरुण एवमकरोदिति बुद्धया एष यजमानोऽप्येतत्करोतीति यावत् ' अथ रथमुपावहरति । यद्वै राजन्यात्पराङ्भवति रथेन वै तदनुयुङ्क्ते तस्माद्रथमुपावहति ' ( श ० ५ | ४ | ३।३ ) । भाष्यसार - कात्यायन श्रौतसूत्र ( २५/६ । १५-२० ) में उल्लिखित याज्ञिक प्रक्रिया के विनियोग के अनुसार
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
३४० शुक्ल यजुर्वेदसंहिता [ अ ० १० रथोपाहरणं विधत्ते - अथेति । तत्प्रशंसति यद्वै राजन्यादिति । यद्वस्तु राजन्यात् पराक् पराचीनमवशमस्ति, तदेतदनेन रथेन अनुयुङ्क्ते अनुकूलं स्वाधीनं करोति । तस्माद्रथ उपावहर्तव्यः । भवति ' स उपावहरति । इन्द्रस्य वज्रोऽसीति वज्रो वै रथ इन्द्रो वै यजमानो द्वयेन वा एष वाजपेयप्रसङ्गे इन्द्रो यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वज्रोऽसीति ' ( श ० २ | ४ | ३ | ४ ) | स्पष्टं व्याख्यातं च । ‘ तमन्तर्वेद्यभ्यववर्त्य युनक्ति । मित्रावरुणयोस्त्वा ( श ० ५ | ४ | ३ | ५ - ), रथस्य तमन्तर्वेदीति वज्रात्मकत्वमुक्तम् | अभ्यावर्त्य ( श ॰ ५।१।४।३ ) इत्यत्र । तस्य प्रदेशविधानपूर्वकमश्वयोर्नियोजनं समन्त्रकं विधत्ते स जघनेन सदोऽग्रेण शालां अभिमुखमानीय दक्षिणस्यां वेदिश्रो गौ युज्यादित्यर्थः । ' तं चतुर्युजं युनक्ति । दक्षिण यन्ति तेन प्रतिपद्यते तं जघमेन चात्वालमग्रे माग्नीप्रमुद्यच्छति ' ( श ० ५।४।३।६ ) । पश्चिमभागे रथस्याश्व-चतुष्टयोपेतत्वं विधत्ते -- तमिति । दक्षिणापथेन गमनं विधत्ते स जघनेनेति । अध्वर्युः सदोमण्डपस्य प्रतिपद्यते, रथेन सहितः शालामग्रेग प्राग्वंशस्याग्रभागे येन मार्गेण दक्षिणार्थं दीयमाना गावो यन्ति तेन दक्षिणा-प्रविशेदित्यर्थः । ' दक्षिणेन वेदि दक्षिणा उपतिष्ठन्ते ' ( ० ४ | ३ | ४ | १४ ) इति चतुर्थकाण्डे विधत्ते तं जघनेनेति । आग्नीध्र चात्वालयोर्मध्यदेशे रथमुद्यच्छति गमनमुक्तम् । रथसंस्थापनदेशविशेषं यदाहाव्यथायै त्वेति ' ' ' ' ऊर्ध्वमुखं स्थापयेत् । ' तमातिष्ठति । अव्यथायै त्वा स्वधायें त्वेत्यनात्यें त्वेत्येवैतदाह वा एष इन्द्रो भवति यच्च रसाय त्वेत्येवैतदाहारिष्टो अर्जुन इत्यर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नाम द्वयेन रथारोहणं समन्त्रकं विधत्ते क्षत्रियो यदु च यजमानस्तस्मादाहारिष्टो अर्जुन इति ' ( श ० ५ | ४ | ३ | ७ ) | यजमानस्य । स्वधायें अन्नाय । अर्जुन तमातिष्ठतीति । आतिष्ठति, आरोहेदित्यर्थः । अव्यथायै अभयाय त्वामातिष्ठामि व्याचष्टे - अनायै त्वेति । इतीन्द्रस्य प्रियं नाम । इन्द्रात्म कोऽहमातिष्टामीत्यर्थः । मन्त्रं पदशोऽद्य । अस्तु तत्, तेन अर्जुनपदस्येन्द्रवाचकत्वं दर्शयति - अर्जुनो ह वा इति । अर्जुन इतीन्द्रस्य गुह्यं नामधेयम् प्रकृते किमायातमित्याह - द्वयेन वा इति । द्विप्रकारेण यष्टुरिन्द्रात्मकत्वम् | क्षत्रसम्बन्धाद् यष्टृत्वाच्च सुन्वत इन्द्रत्वम् । तस्मादर्जुनपदेन मन्त्रे यजमानाभिधानम् । अवशिष्टं स्पष्टम् । जयति ' अथ दक्षिणायुग्यमुपार्षति । मरुतां प्रसवेन जयेति विशो वै मरुतो विशा वै तत्क्षत्रियो प्राजनं ( प्रेरणं ) जिगीषति तस्मादाह मरुतां प्रसवेन जयेति ' ( श ० ५ | ४ | ३ | ८ ) | दक्षिणभागे युक्तस्याश्वस्य व्याचष्टे - विशो वा इति । समन्त्रकं विधत्ते - उपार्षतीति । ' ऋषी गतौ ', उपार्षति प्राजतीत्यर्थः । मन्त्रं मन्त्रो युक्तः । ' अथ मध्ये यद् राज्ञा जेतव्यमस्ति तद् विशा प्रजया जयति । तस्माद्विरूप मरुत्प्रतिपादको तस्मादाहापाम मनसेति ' गवामुद्यच्छति । आपाम मनसेति मनसा वा इद सर्वमाप्तं तन्मनसैवैतत्सर्वमाप्नोति रथमुद्यच्छति ( श ० ५ | ४ | ३ | ९ ) । रथस्थापनं विधत्ते - अथ मध्य इति । पूर्व स्थापितानां गवां मध्ये तात्पर्यमाह--स्थापयति । मनसा आपाम आप्तवन्तो भवामः । आप्नोतेर्लुङि उत्तमबहुवचने रूपम् । मन्त्रस्य मनसा वा इति । ' अथ धनुराया गामुपस्पृशति । समिन्द्रियेणेतीन्द्रियं वै वीर्यं गाव इन्द्रियमेवैतद्वीर्यमात्मन् धत्ते अथाह जिनामीमा: कुर्व इमा इति ' ( श ० ५ | ४ | ३ | १० ) | स्वानां स्थापितानां गवां मध्ये एकस्या गोर्धनुष्कोटया स्पर्शनं विधत्ते - गामुपस्पृशतीति । इन्द्रियेण बलेन सं सङ्गता भवाम । समिन्द्रियेणेति मन्त्रेण गोरुपस्पर्शने इन्द्रियस्य वीर्यस्यैव धारणं कृतवान् भवतीत्यर्थः । शिष्टानां गवां वशीकरणार्थं जिनामीति ब्रूयात् । इदं ब्राह्मणोक्तं वाक्यं न तु मन्त्रः । इमा गाजिनामि, अपि चेमाः कुर्वे स्वाधीनाः करवा इत्यर्थः । ' ज्या वयोहानी ', ' इन्द्रस्य वज्र ' इस कण्डिका के मन्त्रों से रथ का ग्रहण, अश्यों का योजन तथा शताधिक गायों का स्थापन आदि कार्य
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
म ० २१ ] वेदार्थपारिजातभाष्यसहिता ३४१ ' ग्रहिज्या ( पा ० सू ० ६।१।१६ ) इत्यादिना सम्प्रसारणम् । ' तद्यत् स्वस्थ गोषूद्यच्छति । यद्वै पुरुषात् पराग्भवति यशो वा किञ्चिद्वा स्व हैवास्य तत्प्रतमामिवाभ्यपक्रामति तत् स्वादेवैतदिन्द्रियं वीयं पुनरात्मन् सन्धत्ते तस्मात् स्वस्य गोपू द्यच्छति ' ( श ० ५ | ४ | ३ | ११ ) । स्वस्य ज्ञातेः स्थापितासु गोषु रथस्य स्थापनं प्रशंसति--तद्यत् स्वस्येत्यादिना । यद् वस्तु पुरुषात् पराक् पराधीनं बहिर्मुखं नष्टं भवति । किं तद्वस्त्वित्याह-- यशो वेति । तद् यशआदिकं किञ्चिदन्यत् स्वं स्वीयं वस्तु प्रतमां प्रकर्षेण अभ्यपक्रामति गच्छति, तद् अनेन अस्य ज्ञातेर्गेषु स्थापनेन पराङ्मुखं वीर्यं स्यात् ज्ञातेः सकाशात् पुनः स्वाधीनं कृतवान् भवतीत्यर्थः । ' तस्मै तावन्मात्रीभूयसीर्वा प्रतिददाति । न वा एष क्रूरकर्मणे भवति यद्यजमानः क्रूरमिव वा एतत्करोति यदाह जिनामीमाः कुर्व इमा इति तयो हास्यैतदक्रूरं कृतं भवति तस्मात्तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति ' ( ० ५ | ४ | ३ | २२ ) | स्थापितानां गवां स्वामिने स्वाय ज्ञातये भ्रात्रेऽन्यासां तावतीनां ततो भूयसीनां वा गवां प्रतिदानं दर्शयति तस्मै तावन्मात्रीरिति । यावत्संख्या ः पूर्वमाहवनीयस्योत्तरतो गावोऽवस्थापिताः, तावन्मात्रस्तावत्परिमाणं यासां तास्तावन्मात्र्यः । ' प्रमाणे द्वयसज्दघ्न मात्रच: ' ( पा ० सू ० ५।२।२७ ) इति प्रमाणे मात्रच्प्रत्ययः, ‘ टिड्ढाणञ् ( पा ० सू ० ४।१।१५ ) इत्यादिना ङीप् । ताः तावन्मात्रीः । प्रतिदानं प्रशंसति-न वा एष इत्यादिना । तावन्मात्रीणां भूयसीनां वा ज्ञातये प्रतिदानेन एतदक्र रमेव कृतं भवति । तस्माद् गोस्वामिने तावतीर्भूयसीर्वा गा दत्त्वा वेदिमध्ये स्थितानां गवां स्वाधीन करणेन क्रूरं कर्म न कृतं भवतीत्यर्थः । अध्यात्मपक्षे - हे हनुमन् त्वमिन्द्रस्य रामस्य वज्रोऽसि वोपमबाणस्वरूपोऽसि । मित्रावरुणयोः रामलक्ष्मणयोः श्रीरामस्य सर्वात्मत्वात् सर्वमित्रत्वात् मित्ररूपत्वम्, लक्ष्मणस्य च सङ्कर्षणरूपत्वेन सर्वसंहारकत्वाद् वरुणरूपत्वं च सङ्गच्छते । तथा च श्रीमद्भागवते - ' अथो अनन्तस्य मुखानलेन दन्दहामानं स निरीक्ष्य विश्वम् ' ( भा ० पु ० २२ २६ ) इति । प्रशास्त्रोः प्रशिषा प्रशासनेन त्वां युनज्मि आध्यात्मिकाधिदैविकाधिभौतिक-विघ्नरूपराक्षसासुरादिविघाताय संयोजयामि । स त्वमरिष्टोऽनुपहिंसितः, वज्राङ्गत्वात् । अर्जुनः प्रसिद्धकृष्णभक्तः पाण्डवोऽर्जुनइव त्वं श्रीरामप्रेष्ठः । यद्वा अर्जुनः स्वच्छो निर्मलः, सत्स्वभावत्वात्, अध्यात्मं शुद्ध मनोरूप-त्वाच्चार्जुनोऽसि । अव्ययायै अभयाय अप्रचलनाय ब्रह्मनिष्ठाया भक्तिनिष्ठाया वा अप्रकम्पनाय स्वधायै भक्तिज्ञान रसाय अभीष्टान्नादिरसाय वा त्वामाश्रये । हे धुर्य युद्धादौ धुरन्धर, मरुतां देवानां प्रसवेन प्रेरणेन आज्ञया वा त्वं रावणमेघनादादिसदृशान् बाह्यान् आन्तरांश्च शत्रून् जय । त्वत्कृपया वयं सर्वे साधका मनसा मननशीलेनेन्द्रियेण इन्द्रस्य परमात्मनो लिङ्गेन युक्ताः समपाम परमपुरुषार्थलक्षणं पुरुषार्थं भगवन्तं श्रीरामं प्राप्तवन्तः । अष्ठित किये जाते हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुरूप अर्थ उपदिष्ट किया गया है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - हे हनुमन्, आप श्रीराम के वज्र के समान बाणरूप हैं । श्रीराम सर्वात्मा तथा राबके मित्र होने के कारण मित्रस्वरूप हैं तथा संकर्षण लक्ष्मण के सर्वसंहारक होने के कारण वरुणस्वरूप होना युक्त है । अतः श्रीराम तथा लक्ष्मण के प्रशासन के द्वारा मैं आपको आध्यात्मिक, आधिदैविक तथा आधिभौतिक विघ्नरूपी राक्षस असुरों के विनाश के लिये संयोजित करता हूँ । आप वज्राङ्ग होने के कारण अपराजेय हैं, कृष्णभक्त पाण्डव अर्जुन की भाँति आप श्रीराम के अत्यन्त प्रिय हैं । अथवा अर्जुन, स्वच्छ तथा सत्स्वभाव वाले होने के कारण निर्मल हैं, शुद्ध मनोरूप होने के कारण अर्जुन हैं । अभय, ब्रह्मनिष्ठा और भक्तिनिष्ठा के अविचलित रहने के लिये, भक्तिज्ञानरस तथा वांछित अन्न आदि रसों की प्राप्ति के लिये मैं आपका आश्रय ग्रहण करता हूँ । हे युद्ध आदि में धुरन्धर, देवताओं की प्रेरणा अथवा आज्ञा से आप रावण, मेघनाद आदि के समान बाह्य तथा आन्तरिक शत्रुओं को जीतें ।
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
३४२ शुक्लयजुर्वेदसंहिता [ अ ० १० दयानन्दस्तु ' राजप्रजापुरुषोपदेशपरोऽयं मन्त्रः । हे राजन् यस्त्वमरिष्टोऽहंसितः, अर्जुनः प्रशस्तरूपः, इन्द्रस्य परमैश्वर्यस्य वज्रोऽसि विज्ञापकोऽसि । यं त्वा अव्यथायै अविद्यमानपीडाये क्रियायं प्रशास्त्रोः सर्वस्य प्रशासनकर्त्रीः, मित्रावरुणयोः सभासेनेशयोः प्रशिषा प्रशासनेन युनज्मि समादधे, मरुतामृत्विजां प्रसवेन प्रेरणेन स्वधायै स्ववस्तुधारणलक्षणायै राजनीत्यै यं त्वा युनज्मि मनसेन्द्रियेण मननशीलेन इन्द्रियेण जीवेन जुष्टेन प्रीतेन वा वयं समापाम आप्नुयाम, सत्वं जय दुष्टान् जित्वा उत्कर्ष ' इति, तदपि साहसमात्रं धाष्टयं वा, शाब्दमर्यादातिक्रमगात् । तथाहि -- अर्जुनशब्दस्य श्रुत्यैवेन्द्रस्य गुह्यनामत्वमुक्तम्, तदतिक्रम्य प्रशस्तरूप-वद्वस्तुबोधनं धाष्टर्धमेव । इन्द्रपदस्य ऐश्वर्यवानिन्द्र इत्यर्थस्य युक्तत्वेऽप्यैश्वर्यपरत्वकल्पनमपि निर्मूलमेव । वज्रणब्दस्य पदार्थभाष्ये विज्ञापक इत्यर्थं उक्तः । हिन्द्यां तु वज्रतुल्योऽसीत्युक्तम् । एवमसम्बद्धोऽर्थः । एवमेव मरुतामित्यस्य ऋत्विजामित्यर्थ करणेऽपि मूलं वक्तव्यमासीत् । स्वधाशब्दस्य राजनीत्यर्थतापि चिन्त्यैव, प्रसिद्धार्थत्यागेऽप्रसिद्धार्थग्रहणे प्रमाणस्यानुक्तत्वात् । इन्द्रियेण जीवेन जुष्टेन प्रीतेनेत्यत्रापि कथमिन्द्रियशब्दस्य जीवोऽर्थः? तत्रापि मूलमपेक्षितम् ॥ २१ ॥
मा त॑ इन्द्र ते वयं त॑रा॒षाड्र्युक्तासो अब्रह्मता विद॑साम ।
तिष्ठ॒ रथ॒मधि॒ यं व॑ज्ज्रहस्ता र॒श्मीन् दे॑व यमसे॒ स्वश्वा॑न् ॥ २२ ॥
' तावद् भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति ' ( का ० श्री ० १५।६।२२ ) । रथारूढो यजमानो गवां शतमधिकं वा यावत्स्थापितं तावत्ततोऽधिकं वा गोस्वामिने स्वाय ज्ञातये भ्रात्रे प्रत्यर्प्य पूर्वेण यूपं प्रदक्षिणीकृत्यान्तःपात्यदेशे रथं स्थापयेत् । इन्द्रदेवत्या त्रिष्टुप, संवरणस्यार्षम् । वज्रहस्त! हे देव द्योतमान दीव्यमान वा त्वं यं रथमधितिष्ठ अधितिष्ठसि, लड लोट् । ' अधितिष्ठा ' इत्यत्र ‘ द्वयचोऽतस्तिङः ’ ( पा ० सू ० ६ | ३ | १३५ ) इति दैर्घ्यम् । यस्य च रश्मीन् प्रग्रहान् आयमसे आयच्छसि नियच्छसि । कथंभूतान् रश्मीन्? स्वश्वान् शोभना अश्वा नियम्यन्ते यैस्तान् । हे तुराषाट् तुरा तूर्णं सह आपकी कृपा से हम सभी साधक मननशील इन्द्रियों से, परमात्मा के संकेत से युक्त होकर परम पुरुषार्थं रूपी भगवान् श्रीराम को प्राप्त करें । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ शब्द की सीमाओं को तोड़ने के कारण दुस्साहस अथवा धृष्टता ही माना जा सकता है | श्रुति के द्वारा ' अर्जुन ' इन्द्र की ही एक अप्रत्यक्ष संज्ञा मानी गई है । इसको छोड़कर प्रशस्तरूप वाली वस्तु का अर्थ करना अनुचित है । पदार्थ में वज्र शब्द का अर्थ ' विज्ञापक ' कहा गया है, पर हिन्दी अर्थ में ' वज्रतुल्य ' कहा गया है । इस प्रकार विपरीत अर्थ किये गये हैं । मरुतों का अर्थ ऋत्विग्गण करने में भी प्रमाण उल्लिखित करना चाहिये था । स्वधा शब्द का अर्थ राजनीति करना भी शोचनीय है, क्योंकि प्रसिद्ध अर्थ को छोड़ने तथा अप्रसिद्ध अर्थ का ग्रहण करने में कोई प्रमाण नहीं बताया गया । इन्द्रिय शब्द का अर्थ जीव कैसे हैं, इसमें भी मूल प्रमाण को अपेक्षा है ॥ २१ ॥
मन्त्रार्थ शत्रुओं का शीघ्र तिरस्कार करने में कुशल, हाथ में वज्र धारण करने वाले हे ऐश्वर्ययुक्त दीप्यमान राजन् तुम जिस रथ में स्थित होकर अच्छे सुशिक्षित घोड़ों की लगाम थामते हो, उससे हमारा कोई
नुकसान न हो । २२ ॥
भाष्यसार -- ' मा ते ' इस ऋचा से रथ पर आरूढ यजमान शताधिक गायों को प्रत्यर्पित करके यप की प्रदक्षिणा
पृष्ठ 397
पाठ पढ़ें पाठ छिपाएँ
म ० २२ | पारिजात भाष्यसहिता ३४३ शत्रूनभिभवतीति तुराषाट् तत्सम्बुद्धौ हे इन्द्र ऐश्वर्ययुक्त, तस्मिन् रथे ते त्वदीया वयं आयुक्ताः, तस्माद् भिन्नाः सन्तो मा विदसाम मा विविधमुपक्षीणा भवाम, ' दसु उपक्षये ' । तत्र दृष्टान्तः - अब्रह्मता । लुप्तोपमानम् । अब्रह्मतेव ब्रह्म विज्ञानानन्दस्वभावम् अनश्वरम् तस्य भावो ब्रह्मता, न ब्रह्मता अब्रह्मता । यथा ब्रह्मभावा-दन्यद्वस्तु विदस्त, एवं वयं मा विदस्येमहीत्यर्थः । हे वज्रहस्त, यं रथं त्वमधितिष्ठ अधितिष्ठसि हे देव! यस्मिन्नवस्थितस्त्वं स्वश्वान् शोभनाश्वयुक्तान् रश्मीन् प्रग्रहान् आयम से नियच्छसि । हे तुराषाट् तुरा तूर्णमेव शत्रून् सहतेऽभिभवतीति तुराषाट् तत्सम्बुद्धौ हे इन्द्र, तस्मिन् ते तव स्वभूते रथे ते तव स्वभूता वयं अयुक्तासः संयोगरहिता वयं अब्रह्मता अब्रह्मत्वम्, द्वितीयार्थे प्रथमा, विदसाम विदेम । तव रथे अयुक्ता वयं ब्रह्मवर्चसं न लभामहे, किन्तु युक्ताः सन्तो ब्रह्मवर्चसं लभेमहि, विदेर्लेटि सिचि ' लेटो s डाट ' ( पा ० सू ० ३ | ४ | ९ ४ ) इत्यडाटौ । यद्वा हे इन्द्र, ते तव स्वभूतास्त्वदधीनत्वेन प्रसिद्धा वयमयुक्तास्त्वया असंयुक्ता अब्रह्मतापरिवृढं त्वदुद्देश्यकं कर्म तद्रहितत्वाय मा विदसाम विविधमुपक्षीणा न भवामः किन्तु तव यष्टारः । हे देव, रश्मीन् शोभनाश्वबन्धनप्रग्रहान् स्वश्वान् शोभनानिच्छानुसारिणोऽश्वान् यद्यस्मिन् रथेऽश्वान् योजयित्वा रथमातिष्ठ अस्मद्यज्ञ आगमनायेति काण्वसंहिताभाष्ये सायणाचार्यः । अत्र ब्राह्मणम् -'अथ दक्षिणानायच्छति । सोऽग्रेण यूपं दक्षिणेन वेदि येनैव दक्षिणा यन्ति तेन प्रतिपद्यते तं जघनेन सदोऽग्रेण शालामुद्यच्छति ' ( श ० ५ | ४ | ३ | १३ ) । आहवनीयस्योत्तरतः स्थापितानां गवां मध्ये दक्षिणतोऽश्वानां स्थापनं विधत्ते - अथ दक्षिणानिति । यूपस्य पूर्वतो वेदेर्दक्षिणतो दक्षिणान् दक्षिणदिङ्मुखान् अश्वान् आयच्छेत् । अथान्तः पात्यप्रदेशे रथस्य स्थापनं विधातुमुदग्गमनमार्गमाह - सोऽग्रेणेति । मार्गेण रथं प्रदक्षिणमावर्त्य येनैव दक्षिणा यन्ति तेन प्रतिपद्यते । सदसः पश्चिमे शालायाः पूर्वदेशे रथमुद्यच्छति स्थापयेत् । तथैव सूत्रितं कात्यायनेनापि - ' पूर्वेण यूपं परीत्यान्तः पात्यदेशे स्थापयति मा त इति ' ( का ० श्र ० १५।६।२२ ) इति । ब्राह्मणमपि - ' मा त इन्द्र ते वयं तुराषाट् । अयुक्तासो अब्रह्मता विदसाम तिष्ठा रथमधियं वज्रहस्ता रश्मीन् देव यमसे स्वश्वानित्युद्यच्छत्येवैतयाऽभीशवो वै रश्मयस्तस्मादाहा रश्मीन् देव यमसे स्वश्वानित्यथ रथविमोचनीयानि जुहोति प्रीतो रथो विमुच्याता इति तस्माद्रथविमोचनीयानि जुहोति ' ( श ० ५ | ४ | ३ | १४ ) । रथविमोचनीय होमं विधत्ते रथविमोचनीयानि जुहोतीति । रथो होमेन प्रीतः सन् विमुच्या विमुक्तो भवत्वित्यर्थः । अध्यात्मपक्षे - हे इन्द्र श्रीराम! हे वज्रहस्त वत्रोपमशस्त्रास्त्रादिहस्त, त्वं यं रथमधितिष्ठ अधितिष्ठसि आरूढश्व हे देव शोभनाश्वनियामकान् रश्मीन् प्रग्रहान् नियच्छसि तस्मिन् ते त्वदीये रथे ते तव स्वभूता वयमयुक्तासः सम्बन्धरहिताः सन्तो मा विदस्येमहि मा उपक्षीयेमहि, ' दसु उपक्षये ' इति धातोः कर्मणि करते हुए अन्तःपात्य नामक स्थान में रथ को खड़ा करे । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १५ / ६ / २२ ) में प्रतिपादित है । याज्ञिक प्रक्रिया के विनियोगानुकूल व्याख्यान शतपथ ब्राह्मण में उपदिष्ट है । अध्यात्मपक्ष में अथंयोजना इस प्रकार है- वज्र के आप रथ पर आरोहण करते हैं तथा आरूढ होकर हे देव, ग्रहण करते हैं । आपके उस रथ में आपके उस रथ में विविध सम्बन्धों 1 समान शस्त्रास्त्रों को हाथ में धारण करनेवाले हे श्रीराम, आप सुन्दर अश्वों को नियन्त्रित करने वाली रस्सियों को हम आपके स्वीय होकर सम्बन्धों से मुक्त होते हुए कभी क्षीण न हों । अथवा से संयुक्त होकर विभिन्न प्रकार से क्षीण न हों, क्योंकि भगवान् से सम्बन्ध - राहित्य
पृष्ठ 398
पाठ पढ़ें पाठ छिपाएँ
३४४ शुक्लयजुर्वेद संहिता | अ ० १० लकारे रूपम् । अथवा तस्मिन् ते रथे आयुक्ता आसमन्ताद् युक्ताः सम्बन्धवन्तः, तस्माद्भिन्नाः सन्तो मा विदसाम विविधमुपक्षीणा मा भवामः, भगवत्सम्बन्ध वैधुर्येणोपक्षयसम्भवात् । कथं नोपक्षीयेमहीत्यत्र दृष्टान्त उच्यते - अब्रह्मतेति । लुप्तोपममेतत् । ब्रह्म सत्यज्ञानानन्दादिलक्षणम्, तस्य भावो ब्रह्मता सत्यज्ञानानन्दरूपता, तद्भिन्नता अब्रह्मता । यथा ब्रह्मभावादन्यद् विदस्येत अनृताज्ञानदुःखरूपत्वात् तथा वयं मा विदस्येमहि । यद्वा ' विल लाभे ' इत्यस्य लेटि विदसामेति रूपम् । त्वद्रयसम्बन्ध रहिता ब्रह्मवर्चसं न लभामहे, आयुक्तास्तु ब्रह्मवर्चसं लभामह् इति । दयानन्दस्तु -- हे ' देवेन्द्र राजन् वज्रहस्त, वयं ते तव सम्बन्धेऽयुक्तासोऽधर्मकारिणो न भवामः । ते तवाब्रह्मता वेदेश्वरनिष्ठारहिता मास्तु । वयं तां विदसाम उपक्षयेम । यस्तुराषाट् तुरान् त्वरितान् शत्रून् सहते त्वं यान् रश्मीन् अश्वनियमार्था रज्जुः स्वश्वान् शोभनाश्च ते अश्वाश्च तान् आयमसे यं रथमधितिष्ठसि, तांस्तं च वयमप्यधितिष्ठेम ' इति, तदपि यत्किञ्चित् मा च ते अब्रह्मता इति शान्ताकाङ्क्षस्य अब्रह्मतापदस्य पुनर्विदसामेति पदस्य कर्मत्वेन योजनस्यासङ्गतत्वात्, तामिति पदस्य मूलेऽसत्त्वात् । ' यं रथमश्वांश्च राजाधितिष्ठति, तमन्येऽप्यधितिष्ठन्ति ' नैतदर्थबोधकानि पदानि मन्त्रे सन्ति । नह्येकस्यैव मापदस्य ' अयुक्तासः ' ' अब्रह्मता ' इति पदाभ्यां सम्बन्धो भवितुं युक्तः सकृदुच्चरितस्य शब्दस्य सकृदर्थबोधकत्वात् उभयत्रान्वये आवृत्ति -प्रसङ्गात्, आवृत्तौ च बीजाभावात् ॥ २२ ॥
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सामा॑य॒ वन॒स्पत॑य॒ स्वाहा॑ स॒रुता॒मोज॑से॒ स्वाहेन्द्र॑स्येन्द्रि॒याय॒ स्वा । पृथिवि मातर्मा मा॑ हिस्सोर्मो अ॒हं त्वाम् ॥ २३ ॥
' अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रम् ' ( का ० श्रौ ० १५।६।२३ ) । अध्वर्युः सकृद्गृहीतैराज्यैः रथविमोचनीयसंज्ञाश्चतस्र आहुतीर्जुहोति । चत्वारि यजूंषि लिङ्गोक्तदेवत्यानि । अग्नये गृहपतये गृहाश्रमपालकाय स्वाहा सुहुतमस्तु । वनस्पतिरूपिणे सोमाय स्वाहा हविर्दत्तमस्तु | इन्द्रस्य होने पर क्षीणता संभव है । किस प्रकार क्षीण न हों, इसमें उदाहरण बतलाया जाता है कि जैसे सत्य, ज्ञान, आनन्दादि स्वरूप ब्रह्म से भिन्न सब कुछ अनृत, अज्ञान, दुःख रूप होने से क्षीण हो जाता है, उसी प्रकार हम परिक्षीण न हों । अथवा आपसे सम्बन्धरहित होने पर ब्रह्मवर्चस् नहीं प्राप्त करते, परन्तु आपसे संयुक्त होकर ब्रह्मवर्चस् प्राप्त करें । स्वामी दयानन्द द्वारा निरूपित अर्थ में ' अब्रह्मता ' शब्द को एक बार अन्वित करने के बाद पुनः ' विदसाम ' इस क्रिया के कर्म के रूप संयुक्त करना असंगत है । ' ताम् ' यह पद भी मूल मन्त्र में नहीं है । इसी प्रकार अन्य भी अनेक पद मूल से उक्त नहीं हैं । एक ही ' मा ' शब्द को दो पदों ' अयुक्तासः ' तथा ' अब्रह्मता ' के साथ संयुक्त करना भी अनुचित है, क्योंकि एक बार पठित शब्द एक ही बार अर्थावबोध कराने में समर्थ होता है । दो स्थानों पर अन्वय करने में आवृत्ति होगी तथा आवृत्ति करने में कोई मूल नहीं है ॥ २२ ॥
मन्त्रार्थ - गृहपालक अग्नि देवता के लिये यह श्रेष्ठ आहुति दी गयी है । वनस्पतिरूपी सोम को प्रीति के लिये यह श्रेष्ठ आहुति है । हम मरुद्गणों के बल के लिये और इन्द्र के वीर्य के निमित्त हवि देते हैं । हे जगत् की निर्मात्री पृथ्वी देवी! तुम हमें किसी प्रकार की हानि मत पहुँचाओ । मैं भी तुम्हें किसी प्रकार का क्लेश न दें ॥ २३ ॥
भाष्यसार - ' अग्नये गृहपतये ' इस कण्डिका के मन्त्रों से रथविमोचनीया नामक आहुतियाँ अग्नि में दी जाती हैं
पृष्ठ 399
पाठ पढ़ें पाठ छिपाएँ
म ० २३ ] वेदार्थपारिजातभाष्यसहिता ३४५ इन्द्रसम्बन्धिने इन्द्रियाय वीर्याय स्वाहा । मरुतां सम्बन्धिने ओजसे बलाय स्वाहा । ' भूमिमवेक्षते पृथिवि मातरिति ' ( का ० श्र ० १५।६।२४ ) | रथारूढो यजमानो भूमि पश्येत् । भूमिदेवत्यम् । हे मातर्जगन्निर्मा पृथिवि भूमे, त्वं मामां मा हिंसीः मा वधिष्ठाः । अहमपि त्वां पृथिवीं मो मा अहिंसिषम् । पृथिव्या मातृत्वम् ' द्यौः पिता पृथिवी माता ' ( ऋ ० सं ० १ १६४।३३ ) इति मन्त्रसिद्धम् । तत्र ब्राह्मणम् -- ' स जुहोति । अग्नये गृहपतये स्वाहेति स यदेवाग्नेय रथस्य तदेवैतेन प्रीणाति वहा वा आग्नेया रथस्य वहानेवैतेन प्रीणाति श्री गार्हपतं यावतो यावत इष्टे तच्छ्रियमेवास्यैतद् गार्हपत राज्यमभिविमुच्यते ' ( श ० ५ | ४ | ३ | १५ ) । रथविमोचनानि जुहोतीति ब्राह्मणेन विहितं होममनूद्य चतुरो मन्त्रान् सार्थवादं पृथग् विधत्ते - स जुहोत्यग्नय इति । रथो होमेन प्रीतः सन् विमुच्यातै विमुक्तो भवत्विति रथोऽत्र तदधिष्ठातृदेवो विवक्ष्यते, जडस्य प्रीतत्वायोगात् । मन्त्रार्थास्तूक्ताः । प्रथममन्त्रं प्रशंसति -- यदेवाग्नेय-मिति । मन्त्रैकदेशेनाग्निपदेन रथस्याग्नेयमङ्गं प्रीणितवान् भवति । रथस्याग्नेयमङ्गं दर्शयति - वहा वा इति । अश्वैरुह्यमानस्य युगस्य प्रान्तप्रदेशा वहा उच्यन्ते । त आग्नेयाः, ' अग्निदग्धमिवैषां वहं भवति ' ( श ० ११११२२ ९ ) इति श्रुतेः । अग्निदग्धत्वसाम्याद् वाहकानामनडुदादीनामिव रथेऽपि वहा आग्नेयाः । प्रथम होममन्त्रे ' अग्नये ' इत्येकदेशपाठेन रथाङ्गप्रीणनं भवति । गृहपतय इति भागं प्रशंसति - श्रीर्वा इति । गार्हपतं गृहपतित्वं नाम श्रीर्यंतः पुरुषो यावतो धनस्य पुरुषस्य वा ईष्टे, तद् एतेन गृहपतय इति मन्त्रभागपाठेन यजमानस्य गार्हपत लक्षणं राज्यमभिलक्ष्य रथो विमुक्तो भवतीति । एवमुत्तरेषु मन्त्रेष्वेकदेशेन रथाङ्गप्रीणनम्, अपरेण यजमानफलार्थं रथविमोक उच्यते । ' सोमाय वनस्पतये स्वाहेति । द्वयानि वै वानस्पत्यानि चक्राणि रथ्यानि चानसानि च तेभ्यो न्वेवैत-दुभयेभ्योऽरिष्ट कुरुते सोमो वै वनस्पतिः स यदेव वानस्पत्य रथस्य तदेवैतेन प्रीणाति दारूणि वै वानस्पत्यानि रथस्य दारूण्येवैतेन प्रीणाति क्षत्रं वै सोमः क्षत्रमेवास्यैतद्राज्यमभिविमुच्यते ' ( श ० ५ | ४ | ३।१६ ) । द्वयानीति वनस्पतिनिर्मितानि चक्राणि द्वयानि द्विप्रकाराणि भवन्ति --- रथ्यानि रथसम्बन्धीनि आनसानि अनःसम्बन्धीनि च । तदेतेन सोमाय वनस्पतय इति मन्त्रपाठेन उभयविधेभ्यो रथ्यानसचक्रभ्यस्तदर्थमरिष्टिम् अहिंसां कृतवान् भवति । सोमस्य वनस्पतित्वाद् ओषधिपोषकत्वाद् वनस्पतिपदेन रथस्य दारुनिर्मितान्यङ्गानि प्रीणयति । सोमस्य क्षत्ररूपत्वाद् राजत्वाद् बलसम्पादकत्वाद्वा । तस्मात् सोमपदेन क्षत्रियसम्बन्धि स्वाराज्य -मभिलक्ष्य रथो विमुक्तो भवति । ' मरुतामोजसे स्वाहेति । स यदेव मारुत रथस्य तदेवैतेन प्रीणाति चत्वारोऽश्वा रथः पञ्चमो द्वौ सव्यष्ट्रसारथी ते सप्त सप्त सप्त वै मारुतो गणः सर्वमेवैतेन रथं प्रीणाति विशो वै मरुतो विशमेवास्यैतद्राज्यमभिविमुच्यते ' ( श ० ५ | ४ | ३ | १७ ) । तृतीये मन्त्रे मरुतामिति पदेन रथस्यैव प्रीणनम् । रथस्य मारुतत्वं सम्पादयति-- चत्वारोऽश्वा इत्यादिना । रथस्याश्वचतुष्टयम् रथः स्वयं पञ्चमः, द्वौ सव्यदक्षिणभागयोरवस्थितो सारथी इति सप्तसंख्यास्ति, मरुतामपि सप्तगणात्मकत्वात् सप्तसंख्या कत्वम्, अतः सप्तसंख्यासाम्याद् मरुतामिति मन्त्रपदेन रथस्यैव प्रीणनं भवतीत्यर्थः । मरुत्पदमेव यजमानस्य फलार्थमपि प्रशंसति - विशो वै मरुत इति । विशमेवास्यैतद्राज्यमिति । ' इन्द्रस्येन्द्रियाय स्वाहेति । स यदेवेन्द्र रथस्य तदेवैतेन प्रीणाति सव्यष्ठा वा ऐन्द्रो रथस्य सव्यष्ठारमेवैतेन प्रीणातीन्द्रियं वै वीर्यमिन्द्र इन्द्रियमेवास्यैतद्वीर्यं राज्यमभिविमुच्यते ' ( श ० ५।४।३।१८ ) । अत्र चतुर्थमन्त्रे इन्द्रपदेन रथस्य सारथिप्रीणनम् । सव्यभागे तिष्ठतीति सव्यष्ठा, तिष्ठतेरोणादिक ऋकारप्रत्ययः तथा यजमान द्वारा भूमि का दर्शन किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( १ ५/६ / २३ - २४ ) में II
पृष्ठ 400
पाठ पढ़ें पाठ छिपाएँ
३४६ शुक्लयजुर्वेद संहिता [ अ ० ] १० किच्च कित्वादाल्लोपः । ' अम्बाम्बगोभूमि ' ( पा ० सू ० ८ ३ ९ ७ ) इति सूत्रे ' स्था - स्थिन- स्थूणाम् ' इति वचनात् षत्वम् । ‘ अथ वाराह्या उपानहा उपमुञ्चते । अग्नौ ह वै देवा घृतकुम्भं प्रवेशयाञ्चक्र स्ततो वराहः सम्बभूव तस्माद्वराहो मेदुरो घृताद्धि सम्भूतस्तस्माद्वरा हे गावः संजानते स्वमेवैतद्रसमभिसंजानते तत्पशूना-मेवैतद्रसे प्रतितिष्ठति तस्माद्वाराह्या उपानहा उपमुञ्चते ' ( श ० ५ | ४ | ३ | १ ९ ) । विधत्ते - अथेति । वाराह्यौ वराहचर्मनिर्मिते उपानही उपमुञ्चते । कात्यायनेन पशूनां रसोऽसीति मन्त्रेण वाराह्योरुपानहोरुपमोको विहितः ( का ० श्रौ ॰ १५।६ । २३-२४ ) । तत्र मन्त्रे वराहस्य पशुरसत्वमभिधीयते । तदुपपादयति- अग्नौ ह वै देवा इति । पूर्वं देवा घृतकुम्भमग्नौ प्रासुः । तस्माद्वराह उत्पन्नः । अतो घृतोत्पन्नत्वाद् वराहस्य मेदुरत्वं मांसलत्वम् । तस्मिन् वराहे गावः सञ्जानते संवदन्ते, स्वीयरसभूतघृतोत्पन्नत्वात् । तस्माद्वारा ह्योरुपानहो-रुपमोकेन पशुरस एव स्वयं प्रतिष्ठितो भवति । ' अथेमां प्रत्यवेक्षमाणो जपति । पृथिवि मातर्मा मा हि १9 सीर्मो अहं त्वामिति वरुणाद्ध वा अभिषिषिचानात् पृथिवी बिभयाञ्चकार महद्वा अयमभूद्योऽभ्यषेचि यद्वै माड्यं नावणीयादिति वरुण उह पृथिव्यै बिभयाञ्चकार यद्वै मेऽयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत नहि माता पुत्र • हिनस्ति न पुत्रो मातरम् ' ( श ० ५ | ४ | ३ | २० ) | मन्त्रार्थस्तूक्त एव । ब्राह्मणमपि वाजपेये भूम्यवेक्षणप्रसङ्गे व्याख्यातम् ' वरुणसवो वा एष यद्राजसूयम् ( श ० ५ | ४ | ३ | २१ ) इत्यादि गतार्थम् । अध्यात्मपक्षे - अग्नये परमात्मने गृहपतये सर्वावासस्वामिने नमः सर्वस्वार्पणमस्तु । सोमाय साम्ब सदाशिवाय वनस्पतये वनानां पतये वनारण्यादिपालकत्वविशिष्टाय नमः प्रह्वीभावोऽस्तु । मरुतां प्राणानामोजसे बलाय परमात्मने स्वाहा सुहुतमस्तु । सर्वेषामोजः प्राणमूलकम्, मरुतां त्वोजः परमात्ममूलकमेव, परमात्मोपेक्षणे तैरेकस्य तृणस्याप्युत्थापयितुमसमर्थत्वात् । केनोपनिषदि स्पष्टमेवैतत् । इन्द्रस्येति परमात्मन इन्द्रिया वीर्याय नमः प्रह्वीभावोऽस्तु । हे पृथिवि धरित्रि परमात्मनिष्ठधारणशक्ते, त्वं मां साधकं मा हिंसी: धारणाशक्तिप्रदानेन पालय । अहं च त्वां मा हिंस्यां त्वदुपेक्षणं न कुर्याम् । दयानन्दस्तु -- ' हे प्रजाजनाः, यथा राजजना वयम् अग्नये धर्मविज्ञानाढ्याय गृहपतये गृहाश्रमस्वामिने स्वाहा सत्यां नीति सोमाय सोमलताद्योषधिगणाय वनस्पतये वनानां पालकाय स्वाहा वैद्यकशास्त्रबोधजनितां क्रियाम्, मरुतामृत्विजां प्राणानां वा ओजसे बलाय स्वाहा योगशान्तिदां वाचम्, इन्द्रस्य जीवस्य इन्द्रियाय वीर्याय नेत्राद्याय अन्तःकरणाय वा स्वाहा सुशिक्षायुक्तां वाचमुपदिष्टं चरेम, तथा यूयमप्याचरत । हे पृथिवि भूमिवत् पृथुशुभलक्षणे मातः, मान्यकर्त्रि जननि, त्वं मा मां मा हिंसी: कुशिक्षया मा हिस्याः । त्वामहं उल्लिखित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - अग्नि परमात्मा, समस्त गृहों के स्वामी के लिये सर्वस्व का अर्पण हो । साम्ब सदाशिव वन - अरण्य आदि के अधिपति के लिये प्रणाम सर्वस्वार्पण हो । प्राणों के बलस्वरूप परमात्मा के लिये सर्वस्व अर्पित हो । सभी प्राणियों का बल प्राणमूलक है, किन्तु मरुत् प्राणों का बल परमात्ममूलक है । परमात्मा की उपेक्षा होने पर उनके द्वारा एक तृण भी नहीं उठाया जा सकता, यह केनोपनिषद् में स्पष्ट अभिहित है । परमात्मा के बल के लिये प्रणाम, सर्वस्वार्पण हो । हे परमात्मकपरक धारणा शक्ति! तुम मुझ साधक को हिंसित मत करो, अर्थात् धारणा शक्ति प्रदान करते हुए पालित करो तथा मैं भी तुम्हारी उपेक्षा न करूँ । स्वामी दयानन्द द्वारा निरूपित अर्थ में स्वाहा शब्द के उन उन अनेक अर्थों में कोई प्रमाण नहीं है । अग्नि आदि शब्दों के भी उन उन प्रसिद्ध अर्थों की उपेक्षा करके अपनी मनःकल्पना से अर्थबोधन कराने में भी कोई