वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 401–410
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 401–410
पृष्ठ 401
पाठ पढ़ें पाठ छिपाएँ
म ० २३-२४ ] वेदार्थ पारिजातभाष्यसहिता ३४७ मोमा हिस्याम् ' इति, तदपि यत्किञ्चित् तादृशतादृशस्वाहा पदार्थानामप्रामाणिकत्वात्, तांस्तान् प्रसिद्धानर्थानुपेक्ष्य स्वाभ्युहितार्थबोधकत्वे मानाभावाच्च ॥ २३ ॥
हसः शेचि॒िषस॑रन्तरिक्षसद्धोता॑ वेदि॒षदतिथिर्दुरोणसत् । अग्न्यादिपदानामपि न॒षद्व॑र॒ सव॑त॒सद् व्यो॑म॒सव॒ब्जा गोजा ऋत॒जा अ॑दि॒जा ऋतं बृहत् ॥ २४ ॥
सप्रपञ्चब्रह्माभिधायिनी सूर्यदेवत्या अतिजगती वामदेवदृष्टा । ' अवरोहति हसः शुचिषदिति ' ( का ० श्र ० १५।६।२५ ) । मन्त्रेणानेन सोपानत्को यजमानो रथादवरोहति । हंसः, हन्ति पृथिवीमिति हंसो । रथः । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् | वसुः स्वस्योपरि यजमानं वासयतीति वसुः -अन्तरिक्षसत् तरुगुल्माद्यवरुद्धेऽन्तरिक्षे सीदतीत्यन्तरिक्षसत् । होता होतृसमानः । कथं होतेत्यपेक्षायामाह वेदिति । वेद्यां सीदतीति वेदिषद् वेदिषत्वसाम्याद्रथस्य होतृत्वम् । अतिथिः अतिथितुल्यः । कुतः? यतो दुरोणसद् दुरोणेषु गृहेषु सीदति यः सः । यो यस्तमारोढुं नयति तस्य गृहे सीदतीति । नृषद् ऋते नृषु मनुष्येषूपकारं कर्तुं सीदतीति नृषद् । वरसद् वरे श्रेष्ठे राजादिगृहे सीदतीति वरसत् । ऋतसद् यज्ञे वाजपेयादौ सीदतीति ऋतसत् । व्योमसत् सूर्यं वोढुं व्योमन्याकाशे सीदतीति व्योमसत् | अब्जाः, अद्भूयो जातैरश्वैरुपेतत्वात्, ' अप्सुयोनिर्वा अश्व: ' ( श ० १३ २ २ १ ९ ) इति श्रुतेः । गोजाः, गोशब्दवाच्या-द्वज्राज्जायत इति गोजाः । रथस्य वज्रजन्यत्वं समाम्नातं तैत्तिरीयश्रुतौ - ' इन्द्रो वृत्राय वज्रमाहरत् । स त्रेधा व्यभवत् । स्फ्यस्तृतीय, रथस्तृतीयं यूपस्तृतीयम् ' ( तै ० सं ० ५२६ २ ) । ऋतजाः पृष्ठवाहिरूपत्वेन ऋतं यज्ञमुद्दिश्य जातत्वादृतजाः । अद्रिजाः पाषाणसदृशेभ्यो दृढकाष्ठेभ्यो जातत्वादद्विजाः । ईदृशो रथो बृहतं प्रौढं राजसूययज्ञं सम्पादयतु । सूर्यपक्षे - हंसः, हन्ति गच्छतीति हंस आदित्यः । शुचिषत् शुचौ निर्मले मण्डले सीदतीति शुचिषद् । वसुः, वसति सर्वमस्मादिति वसुर्निवासहेतु:, सूर्य विनावस्थातुमशक्यत्वात् । अन्तरिक्षसत् प्राणात्मक वायु-रूपेणान्तरिक्षे सीदतीत्यन्तरिक्षसत् । वेदिषद् अग्निरूपेण वेद्यां सीदतीति वेदिषद् | अब्जा अप्सु सूक्ष्मभूतेषु जायत इत्यन्रजाः, सूर्यमण्डलस्य सर्वमूर्तद्रव्यसारत्वात् । गोजाः, गोषु पृथिवीप्रधानेषु स्थूलभूतेषु जायत इति गोजाः । ऋतजाः, ऋते सत्ये मूर्तभूते मण्डले जायत इति ऋतजाः । अद्विजाः, अद्रो पाषाणे मेघे वा उदकरूपेण जायत इत्यद्विजाः । ऋतम् ज्ञानात्मकम् । बृहत् प्रवृद्धं परमानन्दलक्षणम् । तदपि सूर्य एवेति सायणरीत्या
व्याख्यानम् ।
प्रमाण नहीं है ॥ २३ ॥
मन्त्रार्थ -- पवित्र स्थान दीप्ति में आदित्य रूप से स्थित अहंकार को दूर करने वाला आत्मा, वायु रूप से अन्तरिक्ष में स्थित मनुष्यों का प्रवर्तक, अग्नि रूप से वेदि में स्थित होकर देवताओं का आह्वान करने वाला, आहवनीय रूप से यज्ञ स्थित सबका पूजनीय, मनुष्यों में प्राणभाव से स्थित, उत्कृष्ट स्थानों में स्थित, यज्ञ में स्थित, आकाश में मण्डल रूप से स्थित इस प्रकार सर्वत्र स्थित महनीय विभूतियों से हम सबके कल्याण के लिये प्रार्थना करते हैं । मत्स्य आदि के रूप में जल में स्थित, चतुविध भूतग्राम के रूप से पृथ्वी में स्थित, सत्य रूप में स्थित, अग्नि रूप में स्थित, मेघ में जल के रूप में स्थित, सवंगत अपर्यन्त परम ब्रह्म परमात्मा का स्मरण कर मैं रथ से उतरता हूँ ॥ २४ ॥
भाष्यसार ---.- कात्यायन श्रौतसूत्र ( १५ / ६ / २५ ) में उल्लिखित याज्ञिक विनियोग के अनुसार ' हंसः शुचिषद् '
पृष्ठ 402
पाठ पढ़ें पाठ छिपाएँ
३४८ शुक्लयजुर्वेद संहिता [ अ ० १० उव्वमहीधरयो रीत्या तु - हंसो हन्ति गच्छत्यध्वानमिति हंसः हन्त्यहङ्कारं वेति हंस आदित्यः । कीदृशो हंसः? शुचिषत्, शुचौ दीप्तौ सीदति यः सः । तथा वसुः वासयिता । अन्तरिक्षसद् अन्तरिक्षे वायुरूपेण सीदति यः सः । होता आह्वाता देवानाम् । वेदिषद् वेदावग्निरूपेण सीदति यः । अतिथिः, तद्वत् सर्वपूज्यः । दुरोणसत्, दुरोणे यज्ञशालायामाहवनीयादिरूपेण सीदति यः सः । वरसद्वरेषूत्कृष्टस्थानेषु सीदतीति । ऋतसद् ऋते यज्ञे सीदतीति । व्योमसद् व्योम्नि मण्डलरूपेण सीदति यः सः । एवं सर्वत्र स्थितत्वेन स्तुत्वा सर्वत्रोत्पत्तिद्वारेण स्तौति - अब्जा इति । अप्सूदकेषु मत्स्यादिरूपेण जायत इत्यब्जाः । गोजा गवि पृथिव्यां भूतग्रामरूपेण जायत इति गोजाः । ऋतजा ऋते सत्ये जायत इति ऋतजाः । अ पाषाणेऽग्निरूपेण जायत इत्यद्रिजा, अद्रौ मेघे वा जलरूपेण जायत इत्यद्विजाः । ऋतं सर्वगतं ब्रह्म । बृहत् परब्रह्मरूपो यो हंसस्तं प्रति रथादवतरामीति भावः । अत्र ब्राह्मणम् - ' सोऽवतिष्ठति । ह २१ सः ऋतं बृहदित्यतामतिच्छन्दसं जपन्नेषा वै सर्वाणि छन्दा सि यदतिच्छन्दास्तथैनं पाप्मा नान्ववतिष्ठति ' ( ० ५ | ४ | ३ | २२ ) । रथादव रोहणं विधत्ते - सोऽवतिष्ठतीति । व्यत्ययेन परस्मैपदम् । मन्त्रार्थस् क्तः । मन्त्रगतं छन्दोविशेषं प्रशंसति - अतिच्छन्दसमिति । अस्य मन्त्रस्यातिजगती-च्छन्दः । सा च गायत्र्यादीनि छन्दांस्यतिक्रम्य वर्तत इति तस्या अतिछन्दस्त्वम् । सर्वासामेव छन्दसां तत्रान्तर्भावात् सर्वछन्दोरूपत्वम् । तस्मात् सर्वछन्दोऽतिक्रमणादेतां जपित्वा अवरोहन्तमेनं यजमानमनु पाप्मा नावतिष्ठति नाव रोहति किन्तु स एव पाप्मानमतिक्रामति । ' तं न संग्रहीताऽन्ववतिष्ठेत् ' ( श ० ५ | ४ | ३ | २३ ) इति श्रुतौ सयन्तृकस्य रथस्य रथवाहनेनसि स्थापनं विधातुं यन्तुरवस्थानं निषिद्धम् । सम्यक् प्रग्रहं गृह्णातीति संग्रहीता सारथिः । स तं यजमानमनु नावतिष्ठेत् नावरोहेत् । तत्र कारणमाह - नेदिति । सुन्वन् यं लोकं प्राप्नोति तं लोकं सारथिरपि न प्राप्नुयादित्येतदर्थं रथस्थापनसाधनेऽनसि सयन्तृकं रथं निदध्यात् ' यदुभौ सहावतिष्ठेताछ, समानं लोकमियाता, सह संग्रहीत्रा रथवाहने रथमादधाति सुवर्गादेवनं लोकादन्तर्दधाति ' ( तै ० १२७१ ९ २६ ) इति श्रुतेः । पश्चाद् यन्ता अवाङ्मुखः सन् अपप्रवते अवरोहति, ‘ प्रुङ् गतौ ' । अध्यात्मपक्षे - परमात्मनः सर्वात्मकत्वबोधनपरोऽयं मन्त्रः । हंसः, एक एवाकाशे हन्तीति हंसः, सूर्यरूपेणापि तस्यैव विवर्तितत्वात् । शुचिषत् शुचौ शुद्धेऽन्तःकरणेऽभिव्यङ्ग्यत्वेन सीदतीति शुचिषत्, निर्वृत्तिकशुद्धान्तःकरणस्यैव तदभिव्यञ्जकत्वात् । वसुः, वसन्ति सर्वाणि भूतानि यस्मिन्नसौ वसुः सर्वस्य सत्तास्फूर्तिप्रदत्वेन वासयति सर्वाणि भूतानीति वसुः, वसति वा सर्वभूतेषु यः स वसुः । अन्तरिक्षसद् अन्तरिक्षे नक्षत्रग्रहादिरूपेण अन्तरिक्षरूपेण च सीदतीत्यन्तरिक्षसत् । होता सर्वेषां भक्तानां स्वस्वरूपे इस ऋचा से यजमान रथ से उतरता है । शतपथ ब्राह्मणोक्त व्याख्यान याज्ञिक प्रक्रिया के अनुकूल है । अध्यात्मपक्ष में परमात्मा की सर्वात्मकता का निरूपण करने वाला यह मन्त्र है । एकाकी ही आकाश में गमन करता है, अतः यह हंस है । सूर्य का रूप भी उसी का विवर्त है । शुद्ध अन्तःकरण में अभिव्यंजित होते हुए निवास करता है, अतः शुचिषद् है । वृत्तिरहित निर्मल अन्तःकरण में उसकी अभिव्यक्ति होती है । समस्त पदार्थ इसमें निवास करते हैं, अथवा सत्ता - स्फूर्ति प्रदान करने के कारण सबको स्थित रखता है, या सम्पूर्ण प्राणियों में निवास करता है, इसलिये यह वसु हैं । अन्तरिक्ष में ग्रह - नक्षत्र आदि के रूप से अथवा अन्तरिक्ष के रूप में रहता है, अतः अन्तरिक्षसद् कहा गया है | सभी भक्तों को स्त्रीय रूप में आहूत करता है, इसलिये इसे होता कहा गया है, क्योंकि उसके निर्देश से ही सबकी उसमें प्रवृत्ति होती है । आहवनीय रूप से यज्ञ - वेदि में अवस्थित रहता है, अतः ' वेदिषद् ' है । अतिथि के
पृष्ठ 403
पाठ पढ़ें पाठ छिपाएँ
म ० २४ ] वेदार्थपारिजातभाष्यसहिता ३४ ९ सीदतीति वेदिषत् आह्वाता, तत्सङ्केतेनैव सर्वेषां तत्र प्रवृत्तेः । इति वेदिषत् स्मरणात् , वेदौ । अतिथिः यज्ञवेद्यामाहवनीयादिरूपेण , अतिथिरूपेणापि तस्यैव पूज्यत्वात् ' ब्रह्माग्नौ ब्रह्मणा हुतम् ' ( भ ० गी ० ४।२४ ) साक्षिरूपेणाधिष्ठानरूपेण सीदतीति दुरोणसत् । दुरोणसद् दुरोणेषु समष्टिव्यष्टिवैराज हैरण्यगर्भाव्याकृतरूपेषु वरसत्, वरेषु श्रेष्ठेषु सीदति तत्तद्विभूतिरूपेणेति नृषत्, नृषु जीवेषु जीवान्तर्यामिरूपेण सीदतीति वा । नृषत् तत्तदेवावगच्छ । त्वं मम तेजोऽशसम्भवम् ॥ ' ( भ ० गी ० वरसत्, ' यद्यद्विभूतिमत् सत्त्वं श्रीमदूजितमेव ऋतसत्, अत्यन्ताबाध्यत्वेन परमात्मन एव १०।४१ ) इति भगवत्स्मरणात् । ऋतसद् ऋते सत्ये सीदतीति सर्वयज्ञसमर्हणीयत्वात्, ' अहं हि सर्वयज्ञानां भोक्ता च ऋतत्वात् । यद्वा ऋते यज्ञे सीदतीति ऋतसत्, तस्यैव व्योम्नि आकाशे मण्डलरूपेण तदधिष्ठानरूपेण वा सीदतीति प्रभुरेव च ' ( भ ० गी ० ९ ।२४ ) इति स्मृतेः । व्योमसद्:, अपो वा जनयतीत्यब्जा: । गोजा गवि पृथिव्यां व्योमसत् । अब्जा अप्सु मत्स्यादिरूपेण जायत इत्यब्जा । ऋतजा ऋतरूपेण सूनृता वाग्रूपेण जायत वीरुदादिरूपेण जायत इति गोजाः, गा जनयतीति वा गोजाः वा उदकरूपेण जायत इत्यद्विजाः । तद् ऋतं सर्वगतं इति ऋतजाः । अद्रिजा अद्रौ पाषाणे अग्निरूपेण, मेघे ब्रह्म बृहद् ब्रह्मरूपमहमस्मीति स्वात्मतादात्म्येन प्रत्येतव्यमिति भावः । सर्वान् पदार्थान् यः शुचिषु दयानन्दस्तु -- ' हे मनुष्याः भवन्तो यः परमेश्वरो हंसो वा । यः अन्तरिक्षेऽवकाशे संहन्ति सीदतीत्यन्तरिक्षसत् । पवित्रेषु पदार्थेषु सीदतीति शुचिषत् । वसुः वस्ता वासयिता । अतिथिः, अविद्यमाना तिथिर्यस्य सः, होता दाता ग्रहीता अत्ता वा । वेद्यां पृथिव्यां सीदतीति । वेदिषत् योऽपो जनयति सोऽब्जाः । 1 यो गाः पृथिव्यादीनि तद्वत् पूज्यः । ऋतेषु सत्येषु प्रकृत्यादिषु सीदतीति ऋतसत् ऋतजाः । अद्रि महादिकं जनयतीति अद्विजाः । जनयतीति गोजाः । य ऋतं सत्यविद्यात्मकं वेदं जनयतीति, तन्नातीवासङ्गतम्, तथापि केचिदशा ऋतं सत्यस्वरूपं बृहद् महद् ब्रह्म । शेषं पूर्ववत् । तमेवोपासीरन् ' इति मूलबहिर्भूतत्वात् । अन्तरिक्षे अवकाशे असङ्गता एव । यथा — यः संहन्ति पदार्थान् स हंस इति, समित्यस्य में साक्षित्व से तथा अधिष्ठान रूप से रूप में भी वही पूज्य है । समष्टि, व्यष्टि, वैराज, हैरण्यगर्भ, अव्याकृत रूपों ' है । में अन्तर्यामी रूप रहने के कारण यह ' नृषद् अवस्थित रहने के कारण इसे ' दुरोणसत् ' कहा गया है । जीवों रहने के कारण ' ऋतसद् ' कहा श्रेष्ठ जनों में तत्तद् विभूतियों के रूप में रहने के कारण ' वरसद् ' है सत्य । सत्य है । में अथवा स्थित यज्ञ में अवस्थित रहने के कारण गया है, क्योंकि अत्यन्त अबाधित होने के कारण परमात्मा ही में अथवा उसके अधिष्ठान के रूप में ऋतसद् कहा जाता है, क्योंकि सभी यज्ञों से अर्चनीय वही है । आकाशमण्डल के करण या जल को उत्पन्न करने के रहने के कारण ' व्योमसद् ' है । जल में मत्स्य आदि रूपों में उत्पन्न होने प्रादुर्भूत कारण ' अब्जाः ' कहा गया है । पृथ्वी पर लतौषधि आदि के रूप में उत्पन्न होने के कारण अथवा गायों को: ' कहा गया है । ऋत, अर्थात् सूनृता वाणी के रूप से प्रादुर्भूत होने के कारण ' ऋतजा अथवा मेघों में जल के रूप से विद्यमान होने के कारण ' अद्रिजाः ' है । भाव यह है कि करने के कारण इसे ' गोजाः ' है । पाषाणों में अग्निरूप से उस सर्वव्यापी ब्रह्म का स्वरूप मैं ही हूँ, इस प्रकार तादात्म्य सम्बन्ध ज्ञान करना चाहिये । कुछ अंशों में विसंगति है । स्वामी दयानन्द द्वारा निरूपित व्याख्या यद्यपि पूर्णतः असंगत नहीं है, तथापि है । अन्तरिक्ष में, अर्थात् खाली जैसे – जो पदार्थों का संहरण करता है वह हंस है, यहाँ ' सम् ' उपसर्ग मूल से बहिर्भूत संभव नहीं है । परमात्मा वेद की स्थान में तो देवदत्त आदि प्राणी भी रहते ही हैं, अनवकाश स्थान में तो स्थिति ही से वेद नित्य हैं । परमात्मा का सम्प्रदाय-उत्पत्ति नहीं करता, क्योंकि ' वाचा विरूपनित्यया ' इत्यादि वेदवचनों
पृष्ठ 404
पाठ पढ़ें पाठ छिपाएँ
३५० शुक्ल यजुर्वेदसंहिता [ अ ० १० देवदत्तादयोऽपि तिष्ठन्त्येव, अनवकाशे स्थितेरेवासम्भवात् । परमात्मा च न वेदं जनयति वेदस्य नित्यत्वात्, ' वाचा विरूपनित्यया ' ( ऋ ० सं ० ८२७५२६ ) इति श्रुतेः । परमात्मनस्तु सम्प्रदायप्रवर्तकत्वमेव जनकत्वम्, नित्याया वाचोऽन्यादृशस्योत्सर्गस्यायोगात् निःश्वासवद् बुद्धिप्रयत्नानपेक्षत्वेन परमात्मनः सम्भूतत्वेना-पौरुषेयत्वात् ॥ २४ ॥
इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि युङ्ङेसि॒ वर्चोऽसि॒ वच॒ मयि॑ वे॒ह्य॑ग॒स्यूज॑ मय धेहि । इन्द्र॑स्य॒ वा॑ वी॒र्य॒कृतो॑ बा॒हू अ॑भ्युपाव॑हरामि ॥ २५ ॥
' अनुवर्त्म मौदुम्बरी १ ९. शाखामुपगूहत्युपस्पृशति शतमाना वियदसीति ' ( का ० श्र ० १५।६।२ ९ ) । रथवाहनदक्षिणचक्रवर्त्मसमीपे शतमानौ सौवर्णौ वर्तुलो मणी आबध्नीयात् । रक्तिकाशतेन शतमानः । तत्र बध्वा उपस्पृशेद्वा इयदस्यायुरिति मन्त्रेण, ' उत्तरेणाहवनीयं पूर्वाग्निरुद्वृत्तो भवति । स रथवाहनस्य दक्षिणमन्व-नुष्यन्द ै शतमानौ प्रवृत्तावाबध्नाति ' ( श ० ५ | ४ | ३ | २४ ) इति श्रुतेः । तदर्थस्तु - पूर्वं स्वस्य भ्रातुरर्थाय गोः स्थापनकाले पूर्वाग्निवहनस्याहवनीयस्योत्तरतः - ' रथवाहणस्य दक्षिणेऽन्ते शतमानावासजति वृत्तौ ' ( का ० श्रौ ० १५।६।२८ ) इति स्थापनमुक्तं कात्यायनेन, ' गवा शतमधिकं वा स्वस्यावनीयस्योत्तरतः स्थापयति, पूर्वाग्निवहन च साग्निम् ' ( का ० श्रौ ० १५।६।१३-१४ ) इति । तदिदानीं विधत्ते -- उत्तरेणाहवनीयमिति पूर्वाग्निः शान्तिकपौष्टि-कार्थीयोऽग्निः पूर्वाग्निः, स अनसा उद्वृत्त उद्धृतः स्थापितो भवति । रथवाहनस्य दक्षिणेऽशे शतमानयोरासञ्जनम्, वर्त्मन्यौदुम्बर्याः शाखाया उपगूहनं च विधत्ते - अनुवर्मेति । दक्षिणम् अनुष्यन्दं प्रान्तमनु प्रवृत्ती वर्तुलौ शतमानौ द्वौ रुक्मौ आबध्नाति आसज्जेत । ' औदुम्बरी शाखामुपगूहति । तयोरन्यतरमुपस्पृशतीयदस्यायुरस्यायुर्मयि धेहि युङ्ङसि वर्चोऽसि वर्चो मयि धेहीति तदायुर्वेर्च आत्मन् धत्ते ' ( श ० ५ | ४ | ३ | २५ ) । तयोः शतमानयो-रन्यतरस्योपस्पर्शनं समन्त्रकं विधत्ते - औदुम्बरीमित्यादिना । शतमानदेवत्ये यजुषी । मन्त्रार्थस्तु – हे रुक्म, त्वमियदसि एतावत्परिमाणं शतरक्तिकापरिमितमसि । आयुरसि जीवनमसि । तस्मादायुः शताब्दपरिमितं मयि घेहि । यो हि यदात्मको भवति स तावत्तद्दातुमुत्सहते । यस्मात् शतमानं हिरण्यं त्वमसि, तस्माच्छताब्दपरिमाणमायुर्मयि धेहीत्युव्वाचार्य: । युङ्ङसि युनक्ति यज्ञं सम्भारसंग्रहेण दक्षिणादानं वेति युङ् असि । वर्चस्तेजोऽसि । मयि वर्चस्तेजो धेहि । श्रुतिरेव संगृह्याह- तदायुर्वचं आत्मन् प्रवर्तक होना ही जनकत्व शब्द से संकेतित है, क्योंकि नित्य वेदवाणी को किसी दूसरे प्रकार के प्रवर्तक से सम्बद्धता संगत नहीं होती । निःश्वास की भाँति बुद्धि तथा प्रयत्न से निरपेक्ष होकर परमात्मा से आविष्कृत होने के कारण वेद का अपौरुषेयत्व सिद्ध माना गया है ॥ २४ ॥
मन्त्रार्थ - हे शतमान! तुम सौ रत्ती के बराबर परिमाण वाले हो, तुम जीवन रूप हो । सुवर्ण दान से दीर्घायु प्राप्त होती है । मुझमें तुम प्राण का आधान करो । हे शतमान, तुम रथ में बद्ध और दक्षिणा से युक्त हो, तुम्हारे पहनने से तेज की वृद्धि होती है । तुम मेरे निमित्त तेज का आधान करो । हे उदुम्बरी, तुम अन्न - वृद्धि का कारण हो, गाड़ी में भरकर लाये गये अन्न को तुम मुझे प्रदान करो । पराक्रम से भरी हुई परम ऐश्वयंवान् यजमान की है दोनों भुजाओं, मैं तुम दोनों को मित्रावारुणी पयस्था के निमित्त नींची करता हूँ ॥ २५ ॥
भाष्यसार - ' इयदसि ' इत्यादि कण्डिकागत मन्त्रों से दो शतमान मणियों का बन्धन तथा यजमान की
पृष्ठ 405
पाठ पढ़ें पाठ छिपाएँ
म ० २५ ] वेदार्थपारिजातभाष्यसहिता ३५१ धत्त इति । तत् तेन मन्त्रपाठेन आत्मन्यायुर्वर्चश्च दधाति । ' अथौदुम्बरी. शाखामुपस्पृशति ददाति । ऊर्गस्यूजं ब्रह्मा मयि धेहीति तदूर्जमात्मन् धत्ते तस्यैतस्य कर्मण एतावेव शतमानौं प्रवृत्तौ दक्षिणा तौ ब्रह्मणे उपस्पर्शनं समन्त्रकं हि यज्ञं दक्षिणतोऽभिगोपायति तस्मात्तौ ब्रह्मणे ददाति ' ( श ० ५ | ४ | ३ | २६ ) । शाखाया, यतो ब्रह्मा विधत्ते -- अथौदुम्बरीमिति । तेनोजमात्मनि धत्ते । तस्यैतस्य शतमानौ प्रवृत्तौ तो ब्रह्मणे ददाति ' ( का ० श्रौ ० दक्षिणतो यज्ञं गोपायति तस्मात्तौ ब्रह्मणे ददाति । ' तौ ब्रह्मणे दत्त्वोगंसीति शाखामुपस्पृशति ' १५।६।३० ) इति कात्यायनोऽपि । ' इन्द्रस्य वामित्यवहरते बाहू पयस्यायां व्याघ्रचर्मदेशे पूर्वनिहिताया मैत्रावरुण्याः स्थितायाम् ( का ० श्र ० १५। ६ । ३१ ) । अध्वर्युर्यजमानस्य प्रागूवकृतौ बाहू व्याघ्रचर्मणि यजमानसम्बन्धिनौ पयस्याया मध्येऽवहरति । बाहुदेवत्यम् । वीर्यकृता नीचैः वीर्यवत्कर्मकारिण करोमि । इन्द्रस्यैश्वर्यवद् हे बाहू, अहं वां युवामुपावहरामि मैत्रावरुणीपयस्यां प्रति ' अग्रेण मैत्रावरुणस्य धिष्ण्यम् । मैत्रावरुणी पयस्या निहिता भवति तामस्य बाहू अभ्युपावहरतीन्द्रस्य तद्यन्मैत्रावरुणी ' ' ' ' बाहू अभ्युपावहरामीति पशूनां वा एष रसो यत्पयस्या तत्पशूनामेवास्यैतद्रसं बाहू अभ्युपावहरति पूर्वभागे भवति मित्रावरुणा उहि बाहू तस्मान्मैत्रावरुणी भवति ' ( श ० ५४ | ३ २७ ) | मैत्रावरुणधिष्ण्यस्य व्याघ्रचर्मप्रदेशे मित्रावरुणदेवत्या पयस्या आमिक्षा निहिता भवति । तस्यां यजमानबाह्वोरवहरणं पयस्यामभिलक्ष्य विधत्ते - तामस्य बाहू अभ्युपावहरतीति । अस्य सुन्वतो बाहू तां पयस्यामभिलक्ष्य उपावहरति, तेन स्थापयामीति । बाहुप्रक्षेपं प्रशंसति - पशूनां वा इत्यादिना । पशूनां वा एष भवतीति रसो यत्पयस्या । ' मैत्रावरुण्या पशुसमभिलक्ष्य बाहू स्थापितवान् भवति । मैत्रावरुणत्वं प्रशंसति -- तद्यन्मैत्रावरुणी वा एष जयति यो पयस्यया प्रचरति । तस्या अनिष्ट एव स्विष्टकृद्भवत्यथास्मा आसन्दी माहरन्त्युपरिसद्यं सैषा खादिरी जयत्यन्तरिक्षसद्यं तदेनमुपर्यासीनमधस्ताद् इमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति - पयस्यया प्रचरतीति । वितृणा भवति येयं वर्धव्यूता भरतानाम् ' ( श ० ५ | ४ | ४ | १ ) । पयस्यायाः प्रचारं विधत्ते, ' पयस्यया प्रचरति तस्याः पयस्यायाः स्विष्टकृद् अनिष्टोऽहुतो भवति, प्राक् स्विष्टकृतः पयस्यया प्रचरतीत्यर्थः - अथास्मा इति । आसन्द्या प्राक् स्विष्टकृतः ' ( का ० श्री ० १५।६।३३ ) इति कात्यायनोक्तेः । आसन्द्याहरणं विधत्ते सच्छिद्रा लक्षणं वाजपेय प्रकरण उक्तमेव । आसन्द्याहरणं प्रशंसति -- उपरिसद्यमिति । सैषा खादिरी वितृष्णा, भवेत् । तस्या रज्जुव्यूतत्वं भवति । यजमानविशेषेण रज्जुविशेषं दर्शयति - वर्धव्यूता इति । वर्षाश्चर्मरज्जवः सूत्रितवान्-ताभिता सन्नद्धा भवति भरतानाम् । अन्येषां तु रज्जुमात्रमिति । कात्यायनो । निर्विशेषमेव ' खादिरीमासन्दी रज्जूताम् ' ( का ० श्र ० १५।७।१४ ) । रज्जुसन्नद्धामिति अध्यात्मपक्षे – हे परमेश्वर, त्वमौपाधिकरूपेण इयदसि एतावत्परिमाणः । शतवर्षपरिमाणमाह- । सर्वप्रपञ्चात्मनाविर्भूतत्वात् त्वमेव आयुर्जीवनमसि, अत एतावत्परिमाणं शतवर्षपरिमितमायुर्मयि धेहि श्रौतसूत्र भुजाओं का अवक्षेप आदि कर्म अनुष्ठित किये जाते हैं । याज्ञिक प्रक्रिया के अन्तर्गत यह विनियोग कात्यायन ( १५/६/२८ - ३१ ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल व्याख्यान उपदिष्ट है । परिणाम वाले हैं । अध्यात्मपक्ष में अर्थ योजना इस प्रकार है- हे परमेश्वर, आप औपाधिक रूप से । शतवर्षात्मक परिमाण कहा जाता है । समस्त विश्वप्रपञ्च के रूप में आविर्भूत होने के कारण आप ही जीवनभूत हैं अतः इस शतवर्षात्मक परिमाण की आयु मुझमें निहित करें । आप यज्ञ के द्वारा सभी पुरुषार्थों से संयुक्त करने वाले हैं, बाहुओं! बलरूप हैं, अतः मुझमें बलाधान करें । हे परमैश्वर्यवान् बलप्रदान करने वाले श्रीराम से सम्बद्ध दोनों
पृष्ठ 406
पाठ पढ़ें पाठ छिपाएँ
३५२ शुक्लयजुर्वेद संहिता [ अ ० १० युङसि यज्ञेन सर्वपुरुषार्थेन युक्तीति युङ् असि । वर्चोऽसि वर्चस्तेजो मयि धेहि । इन्द्रस्य परमैश्वर्यस्य रामस्य वीर्यंकृतो बलकृतो वा सम्बन्धित है बाहू, वां युत्राम् अभ्यवहरामि आत्मरक्षायै पुरतः स्थापयामि । दयानन्दस्तु - ' हे ब्रह्मन्, त्वमायुरसि इयदसि आयुर्मयि धेहि । यस्त्वं युङ् सर्वेषां समाधातासि, वर्चोऽसि योगजं वर्चो मयि घेहि । त्वमूर्गसि बलवानसि ऊजं बलपराक्रमं मयि धेहि । वां युवयो राजप्रजाजनयोर्वीर्यकृतः , तदपि वीर्यकारिण इन्द्रस्याश्रयेण बाहू बलवीर्ये अहमभ्युपावहरामि युवयोः समीपे स्थापयामि ' इति यत्किञ्चित्, बाहुपदस्य बलवीर्यार्थत्वे मानाभावात् । सम्बोधनमपि मनः कल्पितत्वान्निर्मूलमेव ॥ २५ ॥
स्यो॒नासि॑ सु॒षदसि क्ष॒त्रस्य॒ योनिरस । स्योनामासद सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनिमासीद ॥ २६ ॥
' उत्तरवेदि हृत्वा पयस्यया प्रचरति प्राक् स्विष्टकृतः खादिरीमासन्दी १७ रज्जुतां व्याघ्रचर्मंदेशे निदधाति स्योनासीति ' ( का ० श्र ० १५/६ । ३३, १५/७/१ ) । तां पयस्यामुत्तरवेदि नीत्वा स्विष्टकृद्धमात् प्राग् रज्जुभिर्व्यूतां खादिरीमासन्दीं मचिकां व्याघ्रचर्मप्रदेशे मैत्रावरुणधिष्ण्यस्य कुरो निदधाति स्योनासीत मन्त्रेण । मन्त्रार्थस्तु – हे आसन्दि, त्वं स्योना सुखरूपासि सुखकरी भवसि । सुषदासि सुखेन सीदन्ति यस्यां सा सुषदाऽसि सुखेनोपवेष्टुं शक्यासि | स्योनमिति सुखनाम ' ( निघ ० ३२६ | १५ ) । ' अधीवासमस्यामास्तृणाति महावस्त्रं क्षत्रस्य योनिरिति ' ( का ० श्रौ ० १५७२ ) । क्षत्रस्य योनिरिति मन्त्रेण आसन्द्यां सर्वतश्छादनपर्याप्तं चित्रकम्बलादिकं वा वस्त्रमाच्छादयति । अधीवासदैवतम् । अधीवास आस्तरणं चित्रकम्बलादिकम् । हे अधीवास, त्वं क्षत्रस्य क्षत्रियस्य योनिर्मातृवद्वारकत्वेन कारणमसि, योनिः स्थानं वासि । ' सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति ' ( का ० श्र ० १५। ७१३ ) | आसन्द्यां यजमानं स्थापयेत् । यजमानदेवत्यम् । हे यजमान, स्योनां सुखकरीमासन्दीमासीद आरोह । सुषदां सुखोपवेशनयोग्यामासीद क्षत्रस्य योनिमासीद | ' तामग्रेण । मैत्रावरुणस्य धिष्ण्यं निदधाति स्योनासि सुषदासीति शिवामेवैतच्छग्मां करोति ' ( श ० ५ | ४ | ४ | २ ) | आसन्द्या निधानप्रदेशं विधत्ते - तामग्रेणेति । तदर्थं मन्त्रं विधत्ते - स्योनेति । मन्त्रं विवृणोति — शिवां शग्मां सुखकरीमिति । ' अथाधीवासमास्तृणाति । क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य तुम दोनों को मैं आत्मरक्षा के लिये संमुख स्थापित करता हूँ । स्वामी दयानन्द द्वारा निरूपित अर्थ में बाहु शब्द का बल - वीर्य अर्थ करने में कोई प्रमाण न होने के कारण अनौचित्य है । संबोधन भी स्वकल्पित होने के कारण प्रमाण से रहित है ॥ २५ ॥
मन्त्रार्थ -- है ब्यूता आसन्दी, तुम सुखरूप हो तथा सुख से बैठने योग्य हो । हे अधोवास, तुम क्षात्र धर्म का पालन करने वाले इस यजमान के आधार के लिये उपयुक्त स्थान हो । हे यजमान, आराम देने वाली इस आसन्दी पर सुखपूर्वक बैठो । यह अधिवास और यह आनम्दी तुम्हारे जैसे राजपुरुष के बैठने का उपयुक्त स्थान है, इस पर आराम से बैठो ॥ २६ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( १५/६ / ३३, १५ / ७ / १-३ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' स्योनासि ' इस कण्डिका के मन्त्रों से खदिर के काष्ठ से निर्मित आसन्दी का स्थापन तथा उस पर आच्छादन ( बिछाने ) के
पृष्ठ 407
पाठ पढ़ें पाठ छिपाएँ
म ० २६-२७ ] वेदार्थपारिजात भाष्य सहिता ३५३ योनिस्तामेवैतत्करोति ' ( श ० ५ | ४ | ४ | ३ ) | स्पष्टार्थम् । ' अथैनमासादयति । स्योनामासीद सुषदामासीदेति शिवा " शग्मामासीदेत्येवैतदाह क्षत्रस्य योनिमासीदेति तद्यैव क्षत्रस्य योनिस्तस्यामेवैनमेतद्दधाति ' ( श ० ५।४।४।४ ) । अस्यां सुन्वत उपवेशनं समन्त्रकं विधत्ते - अथैनमिति । अध्यात्मपक्षे - हे ब्रह्मविद्ये भक्ते वा त्वं स्योना सुखरूपासि परमानन्दब्रह्मप्रापकत्वात् सुषदासि सुखेन सीदन्ति ब्रह्मणि यया सा तादृशी असि । क्षत्रस्य पालकराजर्षिकुलस्य योनिः कारणमसि, ब्रह्मविद्यया भक्त्या वा पालनशक्तिसम्पत्तेः, ' इमं राजर्षयो विदुः ' ( भ ० गी ० ४।२ ) इति गीतोक्तः । हे साधक, त्वं स्योनां सुखकरी सुषदां ब्रह्मनिष्ठाहेतुभूतां ब्रह्मविद्यां भक्ति वा आसीद आश्रय । दयानन्दस्तु - ' हे राज्ञि यतस्त्वं स्योनासि सुषदा या शोभनव्यवहारे सीदति सा, क्षत्रस्य राज्यन्यायस्य योनिः गृहे न्यायकर्त्री असि, तस्मात् स्योनां सुखकारिकां सुशिक्षां सुषदां शुभसुखदात्री विद्यां क्षत्रस्य क्षत्रियकुलस्य योनि राजनीतिमासीद सुखकर्यां शिक्षया तत्पराभव । सुखदायां विद्यायाम् आसीद सम्यक् प्राप्नुहि । क्षत्रस्य योनि राजनीतिमासीद ' इति, तथा हिन्दीव्याख्याने - ' सर्वा नारीर्ज्ञापय ' इति, तत्सर्वमपि हेयम्, स्वेच्छामयव्याख्यानत्वात् । शतपथश्रुतावासन्द्याः सम्बोधनीयत्वेन राज्ञ्योऽप्रसक्तेः । आसीदेत्यस्य विविधार्थतापि चिन्त्यैव । सुषदा इत्यस्य सुखदा इति व्याख्यानं तु प्रमादविलसितमेव ॥ २६ ॥
निष॑साद घृ॒तव॑तो॒ वरु॑णः प॒स्त्यास्वा । साम्रा॑ज्याय सुक्रतुः ॥ २७ ॥
: ' निषसादेत्युरोऽस्यालभते ' ( का ० श्र ० १५७१४ ) | अध्वर्युर्यजमानहृदयं स्पृशति । वरुणदेवत्या गायत्री शुनःशेपदृष्टा । अधियज्ञं यजमानो वरुणः, निषसाद निषण्णः । कथंभूतोऽसौ? धृतव्रतः, धृतमनुष्ठितं व्रतं कर्म येन सः । कुत्र निषसादेति? पस्त्यासु विक्षु प्रजासु । कीदृशो वरुणः? वारयत्यनिष्टमिति वरुणः । तथा सुक्रतुः शोभनसङ्कलः शोभनप्रज्ञो वा । किमर्थं निषसाद? साम्राज्याय, सम्राजो भावः साम्राज्यम्, तस्मै सम्राड्भावाय राज्याय । यद्वा -- अयं यजमानो धृतव्रतः स्वीकृतयज्ञो नियमितवचनादिव्यापारो वरुणोऽनिष्टनिवारको भूत्वा लिये विस्तृत वस्त्र अथवा कम्बल लेकर बिछाया जाता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है - हे ब्रह्मविद्या अथवा भक्ति! तुम सुखरूपिणी हो, क्योंकि परमानन्द ब्रह्म को प्राप्त कराने वाली हो । जिसके द्वारा ब्रह्म में सुखपूर्वक स्थित रहते हैं, इस प्रकार की हो । पालन करने वाले राजकुल की कारणभूता हो, क्योंकि ब्रह्मविद्या अथवा भक्ति से ही पालन शक्ति की उपलब्धि होती है । हे साधक, तुम सुखकारिणी तथा ब्रह्मनिष्ठा की कारणरूपा ब्रह्मविद्या अथवा भक्ति का आश्रय ग्रहण करो । स्वामी दयानन्द द्वारा प्रणीत संस्कृत तथा हिन्दी व्याख्याओं में स्वेच्छाचारिता से किये गये ' समस्त नारियों को बतलाओ ' इत्यादि अर्थों के कारण अग्राह्यता है । शतपथ श्रुति में आसन्दी को सम्बोधित करने के कारण रानी का यहाँ प्रसंग नहीं है । ' आसीद ' इस पद के विविध अर्थ करना भी चिन्ताजनक ही है । ' सुषदा ' शब्द की ' सुखदा ' के रूप में व्याख्या करना तो प्रमाद के कारण ही है ॥ २६ ॥
यजमान मन्त्रार्थ यज्ञलक्षण व्रत को धारण करने वाले, श्रेष्ठ संकल्प से युक्त, अनिष्ट के निवारण में समर्थ इस ने सम्राट् पद की प्राप्ति के लिये प्रजाओं के अधिपति के रूप में अपनी स्थिति बनाई है ॥ २७ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( १५/७/४ ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' निषसाद ' यह ऋचा ४५
पृष्ठ 408
पाठ पढ़ें पाठ छिपाएँ
३५४ शुक्लयजुर्वेदसंहिता [ अ ० १० अस्यामासन्द्यामुपरिदेशे निषसाद निषण्णः, पस्त्यासु बहुषु वैरिगृहेषु विक्षु प्रजासु चागत्य साम्राज्यं कर्तुं सुक्रतुः शोभनसङ्कल्पो भवतु । तत्र ब्राह्मणम् - ' अथान्तराख सेऽभिमृश्य जपति । निषसाद धृतव्रत इति धृतव्रतो वै राजा न वा एष सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु कुर्यात् तस्मै वा एष च श्रोत्रियश्चंत हवै द्वौ मनुष्येषु धृतव्रतौ तस्मादाह निषसाद धृतव्रत इति वरुणः पस्त्यास्वेति विशो वै पस्त्या विक्ष्वेत्येवैतदाह साम्राज्याय सुक्रतुरिति राज्यायेत्येवैतदाह यदाह साम्राज्याय सुक्रतुरिति ' ( श ० ५ | ४ | ४ | ५ ) । हृदयदेशादि-स्पर्शपूर्वकं जपं विधत्ते अथान्तरांस इति । अंसमध्येऽभिमृश्य जपेत् । प्रतिपादमनूद्य मन्त्रं व्याचष्टे -धृतव्रत इति । धृतव्रतत्वं दर्शयति - न वेति । एष यजमानः सर्वस्मै वदनाय असम्बद्धप्रलापाय, अनुपयुक्तकर्मणे योग्य न भवति । कस्मै योग्य इति तदाह - यदेवेति । तस्मै साधुवदनाय साधुकर्मणे च । एष सुन्वन् राजा श्रोत्रियश्च ब्राह्मण उभा वह भवतः । एतयोनियतव्रतत्वमाह - एतौ ह वा इति । मनुष्येषु मध्ये धृतव्रतौ । श्रोत्रियोऽपि न बहुभाषो न वा असाधुव र्मकारी । स्पष्टमन्यत् । अध्यात्मपक्षे - हे त्रिपुरसुन्दरि, अयं त्वद्भक्तो धृतव्रतः स्वीकृतत्वदाराधनव्रतः, वरुणो वारितक्रोध-कामादिदोषः, सुक्रतुः शुभसङ्कल्पः, साम्राज्याय ब्रह्मभावेन देदीप्यमानो भवितुं पस्त्यासूपासनामण्डपेषु, आससाद सम्यङ निषण्ण मास्थितः । दयानन्दस्तु – ' हे राज्ञि, यथा तव धृतव्रतो धृतानि सत्याचरणब्रह्मचर्यादीनि व्रतानि येन सः, सुक्रतुः शोभना क्रतुः प्रज्ञा क्रिया वा यस्य सः । वरुणः पुरुषोत्तमः पतिः साम्राज्याय संम्राजां भावाय कर्मणे वा पस्त्यासु न्यायगृहेषु, आसमन्ताद् निषसाद नित्यं सीदतु । तथा तत्र त्वमपि न्यायं कुरु ' इत्यादिकम्, तत्सर्वमपि यत्किञ्चित् राज्ञ्या अत्र सम्बोध्यत्वे मानाभावात्, ' तथा त्वमपि न्यायं कुरु ' इत्यादिकं निर्मूलमेव, मन्त्रबाह्यत्वात् ॥ २७ ॥
अ॒भि॒भूर॑स्ये॒तास्ते॒ पञ्च॒ दिश॑ः कल्पन्तो॒ ब्रह्मंस्त्वं ब्रह्मा से सवि॒तासि स॒त्यप्रसवो॒ वरु॑णोऽसि स॒त्यो॑जा॒ इन्द्रो॑ऽसि॒ विशो॑जा रुद्रोऽसि सु॒शेवः॑ः । बह॒कार॒ श्रेयस्कर॒ भूय॑स्क॒रेन्द्र॑स्य॒ वर्त्रोऽसि॒ तेन॑ मे रध्य ॥ २८ ॥
अव द्वारा यजमान के हृदय के स्पर्श में विनियुक्त की गई है । शतपथ ब्राह्मण में याज्ञिक विभियोग के अनुरूप व्याख्यान उपदिष्ट है । अध्यात्मपक्ष में यह अर्थ है - हे त्रिपुरसुन्दरि! आपका यह भक्त आपकी क्रोध - काम आदि दोषों का निवारण करता हुआ शुभ संकल्प से युक्त ब्रह्मभाव से मण्डपों में सम्यक् रूप से आसीन है । आराधना का व्रत स्वीकार कर, प्रकाशित होने के लिये उपासना-स्वामी दयानन्द द्वारा निरूपित अर्थ कल्पनाप्रसूत है । इस ऋचा में रानी को सम्बोधित करने में कोई प्रमाण न होने के कारण असंगत भी है । ' तुम भी न्याय करो ' यह सब कल्पना मन्त्रगत शब्दों से बहिर्भूत होने के कारण अप्रामाणिक ही हैं ॥। २७ ॥ मन्त्रार्थ - हे यजमान! पूर्व, पश्चिम, उत्तर, दक्षिण और ऊर्ध्व दिशा को जीत कर तुम सारे जगत् को अपने वश में कर लो । हे ब्रह्मन्, तुम ब्रह्मा की महिमा वाले हो । हे यजमान, तुम महान् महिमा वाले हो, तुम्हारी आज्ञा
पृष्ठ 409
पाठ पढ़ें पाठ छिपाएँ
म ० २८ ] वेदार्थपारिजातभाष्यसहिता ३५५ ' अभिभूरित्यस्मै पाक्षान् पाणावाधाय पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नन्ति ' ( का ० श्रौ ० १५।७।५ ) । अस्य यजमानस्य हस्ते द्यूतसाधनभूतान् पश्च अक्षान् सौवर्णकपर्दान् निधाय पश्चाद् यजमानपृष्ठे यजमानं यज्ञियवृक्षदण्डैस्तूष्णीं शनैः शनैः कुट्टयन्त्यध्वर्य्यादयः । अक्षा यजमानो वा देवता । कृत- त्रेता द्वापर-कलयश्चत्वारोऽक्षाः पञ्चमो रमणः । तत्र कलिः सर्वानन्यानभिभवति यः स यजमानः, तत्सम्बन्धेन अभिभूरसि अभिभवितासि । एतास्तव पश्च दिशः कपर्दकोपलक्षिताः कल्पन्तां क्लृप्ता भवन्तु । ब्रह्मन्निति यजमानः प्रथमं ब्रह्माणमामन्त्रयते । त्वं ब्रह्मासि महानसि सवितासि प्रेरकोऽसि सत्यप्रसवोऽसि सत्याभ्यनुज्ञोऽसि । ब्रह्माह-त्वमेव ब्रह्मासि सवितासि सत्याभ्यनुज्ञवासि । द्वितीयं प्रत्याह- त्वं ब्रह्मासि वरुणोऽसि अनिष्टनिवारकोऽसि सत्यौजा अमोघवीर्योऽसि । तृतीयं प्रत्याह- त्वं ब्रह्मासि इन्द्रश्च त्वमसि ऐश्वर्यवानसि विशौजाः, विश् ओजो यस्य स विडौजा इत्येवं प्राप्ते विक्षु प्रजासु ओजो यस्य स विशौजा इति छान्दसः समासः । अत एव पदकारोऽपि नावगृह्णाति । चतुर्थं प्रत्याह - त्वं ब्रह्मासि रुद्रश्च त्वमसि शत्रूणां रोदयितृत्वाद्रुद्ररूपोऽसि, सुशेवः शोभनसुखयिता सुमङ्गलनामानं ध्वनयति, बहुकारो बहु करोतीति तथोक्तः, श्रेयस्करः श्रेयः करोतीति, भूयस्करो भूयः करोतीति । स्पयमस्मै प्रयच्छति इन्द्रस्य वज्रोऽसि । ' इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार ' इत्युपक्रम्य ' तस्य स्पयस्तृतीयम् ' ( श ० १ २ | ४ | १ ) इत्यादिना श्रुतिग्रन्थ उक्तः । अतस्त्वां ब्रवीमि तेन हेतुना मे यजमानं रध्य वशवर्तिनं कुरु, रध्यतिर्वशकर्मा । यद्वा हे अक्ष देव, त्वम् अयानां गत्युपलक्षितसत्कर्मणामभिभूरसि अभितो व्याप्तोऽसि । एताः प्राच्यादयो दिशस्ते त्वदर्थं कल्पन्ताम् त्वत्प्रयोजनसमर्था भवन् । ' वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः, प्रत्याह व्यत्यास सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्मासीत्यादिभिः, आदिनैवान्तम् ' ( का ० श्र ० १५ / ७ / ७ - ९ ) इति कात्यायनः । आसन्यामुपविष्टो यजमानो राजा स्वमेवार्थं भूमा उपविष्टान् अध्वर्युप्रभृतींश्चतुर्ऋत्विजः क्रमेण ब्रह्मन्नित्यनेन सम्बोधनं प्रथमैकवचनान्तरूपेण पदेनामन्त्रयेत् । हे ब्रह्मन् त्वामभिमन्त्रय इति शेषः । पुरुषं सुमङ्गलं प्रियङ्कर-नाम्ना सम्बोधयेत् । एवं पञ्चकृत्वः सम्बोधने सति ऋत्विजो मन्त्रेण प्रत्युत्तरं दद्युः । चतुर्णामपि प्रत्युत्तराणां त्वं ब्रह्मासीत्येवं प्रयोगः । उत्तरभागश्चतुर्णां चतुर्विधः । सवितासि सत्यप्रसव इति प्रथमस्य मन्त्रस्योपरितनो भागः । द्वितीयस्य वरुणोऽसि सत्यौजाः । तृतीयस्येन्द्रोऽसि विशौजा इति । चतुर्थस्य रुद्रोऽसि सुशेव इति । व्यत्यास-मित्यस्यायमर्थः - ब्रह्मन्निति सम्बोधने तेन प्रत्युत्तरे दत्ते पश्चाद् द्वितीयं सम्बोधयेत् एवमुत्तरत्रापि । प्रथमे प्रत्युत्तरमन्त्रः - त्वं ब्रह्मासीति प्रथमभागं पठित्वा सवितासीत्याद्युत्तरभागं पठेत् । हे ब्रह्मन् अध्वर्युरूपब्राह्मण, त्वं ब्रह्मासि । एवं चतुर्णामृत्विजामामन्त्रणरूपो मन्त्रः । प्रथममामन्त्रितस्य ऋत्विज उत्तरं ब्रूते - हे राजन्, त्वमेव ब्रह्मासि ब्राह्मणोऽसि न त्वहम् । कुतः? यतस्त्वमेव सवितासि ब्राह्मणधर्मान् पालयन् अस्माकमनुष्ठानाय अनुज्ञाता प्रेरकोऽसि सत्यप्रसवोऽमोघानुज्ञः, अतो ब्राह्मणादिवर्णाश्रमधर्माणां त्वदधीनत्वात् त्वमेव ब्रह्मासि । का कोई उल्लंघन नहीं कर सकता । प्रजा वर्ग के नियन्ता होने से तुम सविता हो । हे यजमान, तुम अमोघ ati वाले हो, प्रजा वर्ग के अनिष्ट का निवारण करने में समर्थ होने से तुम वरुण हो । हे महिमायुक्त यजमान, तुम ऐश्वर्यसम्पन्न हो, देश की शान्ति की रक्षा करने में समर्थ होने से इन्द्र हो । हे महान् महिमा वाले यजमान, तुम आश्रित जनों को सुख देने वाले तथा शत्रुओं को रुलाने वाले रुद्र हो । हे यजमान, तुम महामहिमाशाली होने से ब्रह्मा हो । तुम सभी कार्यों को कुशलतापूर्वक पूरा करने में निपुण हो । हे स्पय, तुम इन्द्र के वज्र हो । इस कारण मेरे यजमान के वशवर्ती होकर सब कार्य पूरे करो ॥ २८ ॥
भाष्यसार - ' अभिभूरसि ' इस कण्डिका के मन्त्रों से याज्ञिक प्रक्रिया के अन्तर्गत यजमान के हाथों में पाँच
पृष्ठ 410
पाठ पढ़ें पाठ छिपाएँ
३५६ शुक्लयजुर्वेद संहिता [ अ ० १० द्वितीयमामन्त्रितस्य ऋत्विज उत्तरं मन्त्रस्योत्तरभागं ब्रूते - हे राजन् त्वं वरुणोऽनिष्टनिवारकोऽसि, सत्यौजा अमोघवीर्योऽसि । तृतीयमामन्त्रितस्य ऋत्विज उत्तरं मन्त्रस्योत्तरभागं ब्रूते - हे राजन् त्वमिन्द्रोऽसि परमैश्वर्यवानसि विशौजाः, छान्दसं रूपम् । विक्षु प्रजासु ओजो बलं यस्य स विशौजाः, विश एव वा ओजो यस्य सः । चतुर्थस्योत्तरमुत्तरभागमाह - हे राजन् त्वं रुद्रोऽसि सुशेवः सुष्ठु सुखरूपोऽसि । पुरोहितस्य पञ्चमस्य– हे बहुकार बहु कार्यं करोतीति बहुकारः, श्रेयः करोतीति श्रेयस्करः, भूयो भूयो बहुतरं करोतीति भूयस्कर इति तेषां सम्बोधनानि । हे कल्याणनामन् त्वामाह्वय इति शेषः । स्पयमस्मै प्रयच्छति । पुरोहितोऽध्वर्युर्वा इन्द्रस्य वोऽसीति मन्त्रेण यजमानाय स्पयं प्रयच्छति । हे स्पय, त्वमिन्द्रस्य सम्बन्धी वज्रोऽसि, ' वज्रो वै स्पयः ' ( श ० ५ | ४ | ४ | १२ ) इति श्रुतेः । यस्मादेवं तस्मान्मदथं रध्य परिलेखनरूपं कार्यं साधय । अत्र ब्राह्मणम्- ' अथास्मै पञ्चाक्षान् पाणावावपति । अभिभूरस्येतास्ते पश्च दिशः कल्पन्तामित्येष वा अयानभिभूर्यत् कलिरेष हि सर्वानयानभिभवति तस्मादाहाभिभूरसीत्येतास्ते पञ्च दिश: कल्पन्तामिति पञ्च वै दिशस्तदस्मै सर्वा एव दिशः कल्पयति ' ( श ० ५ | ४ | ४ | ६ ) | यजमानहस्ते पञ्चाक्षावापं विधत्ते - अथास्मा इति । अक्षा नाम कपर्दकाः सौवर्णाः, विभीतकफलानि सौवर्णानि वेत्येके । ते चाक्षा द्यूतस्थाने निवपनीयाः । तेषां चतुर्णामक्षाणां कृतसंज्ञा, पञ्चमस्य कलिसंज्ञा । तथा च शाखान्तरे स्तोमसंख्यायां कृतादिव्यवहारः कृतः - ' ये वै चत्वारः स्तोमाः कृतं तदथ ये पञ्च कलिः सः ' इति । यदा पञ्चाप्यक्षा उत्ताना भवन्ति, तदा देवितुर्जयो भवति, पञ्चसु त्वेकरूपासु जय एव भविष्यतीत्यन्यत्रोक्तम् । अतः कलेः सर्वाभिभावकत्वात् सुन्वतोऽपि जयापेक्षत्वात् पञ्चाक्षनिवापो भवति । तथा च मन्त्रे कलिर्वा तत्सम्बन्धाद्यजमानो वा उच्यते । हे यजमान, त्वमभिभूरितरेषामक्षाणामभिभविता भवसि । तदर्थमेताः पञ्च दिशः कल्पन्तां स्वाधीना भवत्विति । मन्त्रं व्याचष्टे - एष वा अयानिति । अयशब्दोऽक्षवाची | कलिहि सर्वानयानक्षानभिभवति, अधिकसंख्यावत्त्वात् । एषोऽपि यजमानस्तत्सम्बन्धादभिभावको भवति । ' अथैनं पृष्ठतस्तूष्णीमेव दण्डै-न्ति तं दण्डैन्तो दण्डवधमतिनयन्ति तस्माद्राजाऽदण्ड्यो यदेनं दण्डवधमतिनयन्ति ' ( श ० ५।४।४।७ ) । विधत्ते - अथैनमिति । दण्डैर्यज्ञियवृक्षकाष्ठैः, एनं सुन्वन्तं राजानं पृष्ठतः पश्चाद्भागे तूष्णीममन्त्रकं घ्नन्ति हन्युः । अत्र सूत्रकारः समन्त्रकमवहननं विकल्पेन दर्शयामास - ' पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नति, पाप्मानं तेऽपहन्मीति त्वा वधं नयामीति वा ' ( का ० श्र ० १५ ७ ५ - ६ ) । ' अथ वरं वृणीते । य ह वै कं च सुषुवाणो वरं वृणीते सोऽस्मै सर्वः समृद्धयते तस्माद्वरं वृणीते ' ( श ० ५।४।४।८ ) । विधत्ते - वरं वृणीत इति । सुषुवाणी यजमानः । वरवरणं प्रशंसति - सोऽस्मा इत्यादिना । यं वरं वृणीते, सोऽस्मै सर्वः समृद्धयत इति । स ब्रह्मन्नित्येव प्रथममामन्त्रयते । ब्रह्म प्रथममभिव्याहराणि ब्रह्मप्रसूतां वाचं वदानीति तस्माद् ब्रह्मन्नित्येव प्रथममामन्त्रयते त्वं ब्रह्मासीतीतरः प्रत्याह सविताऽसि सत्यप्रसव इति वीर्यमेवास्मिन्नेतद्दधाति सवितारमेव सत्यप्रसवं करोति ' ( श ० ५ | ४ | ४ | ९ ) । वरं वृत्वा ब्रह्मन्नित्या -मन्त्रयते पञ्चकृत्वः । ' प्रत्याह व्यत्यास सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्मासीत्यादिभि: ' ( का ० श्र ० १५।७।७-८ ) । यजमानो राज्यं मेऽस्त्वित्यादिना अभीष्टं वरं प्रार्थयित्वा पञ्चवारं ब्रह्मन्निति मन्त्रेण ब्रह्माण-मामन्त्रयेत । एवमामन्त्रितो ब्रह्मा त्वं ब्रह्माऽसीत्यादिभिः सविताऽसि वरुणोऽसि, इन्द्रोऽसि, रुद्रोऽसि - इत्येतैर्मन्त्र-र्व्यत्यासं यजमानं प्रत्याह । तेन चतुर्णामपि मन्त्राणामादौ त्वं ब्रह्मासीति प्रयोगः । आदौ यजमानो ब्रह्मन्नित्यामन्त्रयते । ततो ब्रह्मा त्वं ब्रह्मासि सवितासि सत्यप्रसव इत्याह । पुनर्यजमानो ब्रह्मनिति ब्रह्माण-स्वर्णमय पासे रखकर यज्ञिय वृक्ष के दण्डों से उसकी पीठ पर धीरे - धीरे ताडन, यजमान द्वारा वर की प्रार्थना,