वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 61–70
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 61–70
पृष्ठ 61
पाठ पढ़ें पाठ छिपाएँ
म ० २-३ ] वेदार्थ पारिजात भाष्य सहिता अध्यात्मपक्षे - हे सोम! उमया सहित देव साम्बसदाशिव, नोऽस्मभ्यं मधुमतीर्माधुर्योपेता इषोऽन्नानि स्वाहा कृधि । हे सोम, यद् यस्मात् ते तव अदाभ्यमहिंस्यमप्रधृष्यं सोमेति नाम जागृवि जागरूकं तस्मै ते सोमाय , सर्वेषणा-हविरादिकं दत्तमस्तु । हे सोम, तुभ्यं स्वाहा स्वसर्वस्वं निवेद्य उरु विस्तीर्णमन्तरिक्षमवकाशमन्वेमि विनिर्मुक्तस्तव ब्रह्मात्मकमाकाशमनुगच्छामि । दयानन्दस्तु – ' हे सोम! ऐश्वर्ययुक्त विद्वन् त्वं नोऽस्मभ्यं मधुमतीरिषस्कृधि । तथा हे सोम प्राप्तये शुभकर्मसु तुभ्यं प्रेरक, अहं यद् यस्मात् ते तवादाभ्यमहिंसनीयं जागृवि जागरूकं नामास्ति, तस्मात्ते सोमाय ऐश्वर्यस्य । च स्वाहा सत्यां क्रियां स्वाहा सत्यां वाणीमुर्वन्तरिक्षं चान्वेमि ' इति, तदपि यत्किञ्चित् विचारासहत्वात् तदर्थं तथाहि — परमेश्वरस्तदनुग्रहात् कृषिनिपुणाः कृषीवला वा माधुर्योपेतान्यन्नानि निर्मातुं दातुं वा प्रभवन्तीति यस्य तएव प्रार्थनीयाः । शुभकर्मसु प्रेरकोऽपि परमेश्वर एव तदर्थं गुरुर्खानुसर्तव्यो भवति । कोऽयं विद्वान् अदाभ्यमहिंसनीयं जागरूकं नाम भवति । ऐश्वर्यप्राप्तयेऽपि परमेश्वर एवाश्रयणीयः । सत्यक्रियाकरणाय सत्यवाणीप्राप्तये च स एव प्रार्थनीयो न कश्चिदन्यः । सोमादिशब्दानां तेषु तेषु त्वदुक्तेष्वर्थेषु शक्त्यभावादपि न सङ्गतोऽर्थः । श्रुतिसूत्रविरोधस्तु पूर्वोक्तसिद्धान्तव्याख्यानेन स्पष्ट एव ॥ २ ॥
स्वाङ्कृतोऽसि॒ विश्वे॑भ्य इन्द्रियेभ्यो॑ दि॒व्येभ्यः॒ः पार्थिवेभ्यो॒ मन॑स्त्वाष्टा॒ स्वाहा॑ त्वा सुभव सूर्या॑य दे॒वेभ्य॑स्त्वा मरो॑चि॒पेभ्यो देवा॑नो॒ यस्मै॒ त्वेते॒ तत्स॒त्यम॑ परि॒प्रुतो॑ अ॒ङ्गेन हतोऽसौ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ॥ ३ ॥
W अध्यात्मपक्ष में अर्थ इस प्रकार है - हे उमासहित सदाशिव हमारे लिये अन्न को माधुर्य से परिपूर्ण बना दें । हे साम्बशिव, जो अधर्षणीय ' सोम ' यह नाम सुजागृत है, आपके उस सोमस्वरूप के लिये हविष्य आदि समर्पित हों । हे साम्बशिव, मैं आपके लिये अपना सर्वस्व निवेदित करके विस्तृत अन्तरिक्षावकाश में गमन करता हूँ, अर्थात् समस्त आकांक्षाओं से मुक्त होकर आपके ब्रह्मात्मक आकाश का अनुगमन करता हूं । • स्वामी दयानन्दोक्त अर्थ विचारसंगत न होने के कारण अग्राह्य है । परमेश्वर अथवा उसकी कृपा से निपुण किसान ही माधुर्य से युक्त अन्न के निर्माण में अथवा दान में समर्थ है । शुभ कर्मों में प्रेरक भी ईश्वर ही हैं अथवा इसके लिये गुरु का अनुसरण करना चाहिये । फिर यह विद्वान् कौन है? जिसका अहिंसनीय नाम जागरूक होता है । सोम आदि शब्दों की उन कथित अर्थों में शक्ति न रहने के कारण भी अर्थं संगत नहीं है । श्रुति तथा सूत्र के वचनों का विरोध तो पूर्वोक्त व्याख्या से स्पष्ट ही है ॥ २ ॥
मन्त्रार्थ - हे प्राणरूप उपांशुग्रह । तुम सम्पूर्ण इन्द्रियों के साथ सम्पूर्ण पार्थिव द्विपद, चतुष्पद और दिव्य प्राणियों में स्वयं प्रादुर्भूत हो, मन प्रजापति तुम्हारा नियन्त्रण करते हैं । हे प्रशंसित जन्म वाले! सूर्यरूप प्रजापति की प्रीति के निमित्त तुम्हारी आहुति देता हूँ । यह आहुति सुन्दर रूप से गृहीत हो । हे पात्र! मरीचिपालक देवगण की तृप्ति के लिये तुम्हारा मार्जन करता हूँ । हे वीप्यमान अंशुदेव! जिसके अभिचार की, मारण आदि की कामना के निमित्त तुम्हारी प्रार्थना करता हूँ, वह मेरा अमुक शत्रु सत्य ही अकस्मात् प्राप्त हुई महापीड़ा से निहत होकर विशीर्ण हो जाय । हे उपांशु सवन! व्यान देवता की प्रीति के निमित्त तुमको इस स्थान में स्थापित करता हूँ ॥ ३ ॥
पृष्ठ 62
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेद संहिता [ अ ० ७ ' स जुहोति स्वाङ्कृतोऽसीति ' ( श ० ४ | १ | १ | २२ ) । ' अथ हुत्वोध्वं ग्रहमुन्माष्टि ' ( श ० ४ | १ | १ | २४ ) । तथा कात्यायनोऽपि -- ' स्वाकृत इति हुत्वा पात्रमुन्माष्टि ' ( का ० श्र ० ९ | ४ | ३२ ) । अध्वर्युर्यजमानान्वारब्ध एव यजतिदेशं गत्वा स्वाङ्कृत इति मन्त्रेणोपांशुग्रहं तिष्ठन्नाहवनीये स्वल्पं हुत्वा ग्रहपात्रमूर्ध्वमुन्मार्जयेत् । मन्त्रगते स्वाहाकारे होमः । होमान्तोऽन्वारम्भः । ग्रहदैवतो मन्त्रः । मन्त्रार्थस्तु हे प्राणरूपोपांशुग्रह, त्वं स्वाङ्कृतोऽसि स्वीकृतोऽसि मया स्वीकृतो भवसि । किमर्थम्? दिव्येभ्यो देवजन्मनि स्थितेभ्यः पार्थिवेभ्यो मनुष्यजन्मनि स्थितेभ्यः, सर्वेभ्य इन्द्रियेभ्यः, इन्द्रियेभ्यो हितायेत्यर्थः । मनश्च तेषामिन्द्रियाणामधीशं त्वामष्टु व्याप्नोतु । हे सुभव प्राणरूपोपांशुग्रह, तादृग्रूपं त्वां बहिः प्राणरूपाय सूर्याय स्वाहाकारेण जुहोमि । ' आदित्यो वै बाह्यः प्राणः । उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णाति ' इत्यार्थवणिश्रुतेः । यद्वा हे उपांशुग्रह, त्वं स्वाङ्कृतोऽसि स्वयं कृतोऽसि | स्वयमित्यत्र छान्दसो यकारलोपः सवर्णदीर्घः, स्वयमुत्पन्नोऽसि, प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातस्तस्मादाह, ' स्वाङ्कृतोऽसीति ' ( श ० ४।१।१।२२ ) इति श्रुतेः । स्वयमुत्पन्नोऽसि, विश्वेभ्य इन्द्रियेभ्यः सकाशाद् दिव्येभ्यो देवेभ्यः पार्थिवेभ्यः पृथिव्यां भवेभ्यो द्विपदचतुष्पदेभ्यः सकाशात् स्वयमुत्पन्नो-ऽसीत्यनुवृत्तिः । यस्त्वमेवं स्वतन्त्रोऽकृतकस्तं त्वा मनः प्रजापतिरष्टु व्याप्रोतु, ' प्रजापतिर्वे मन इति प्रजापति -वाश्नुताम् ' ( ० ४। २ । १।२२ ) इति च श्रुतिः । शोभनो भव उत्पत्तिर्यस्य तत्सम्बुद्धौ हे सुभव उत्तमजन्मन् ग्रह, सूर्याय सूर्यार्थं त्वा त्वां स्वाहाकारेण जुहोमि । स्वा कृतशब्देन प्राणरूपग्रहस्य स्वाधीनत्वं दिव्यपार्थिवशब्दाभ्यां च जन्मद्वयमभिप्रेतम् । स्वाङ्कुतोऽसीति प्राणमेव समकृत विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहो -भयेष्वेव देवमनुष्येषु प्राणानुपदधाति ' इति तैत्तिरीयश्रुतेः । ' उत्तानेन पाणिना मध्यमे परिधौ प्रागुपमाष्टि ' ( श ० ४ | १ | १ | २४ ) । प्रथमे परिधावृत्तानं पाणि प्रागुपमष्टि देवेभ्यस्त्वेति ' ( का ० श्र ० ९ | ४ | ३ ३ ) । प्रधानपरिधेर-धस्तादुत्तानं हस्तं प्रवेश्य पश्चादाकर्षयेत् । पश्चिमस्थे परिधौ सोमलिप्तमूर्ध्वाभिमुखं हस्तं कृत्वा प्रागभिमुखं यथा स्यात्तथा मार्जनं कुर्यात् । दैवं ' यजुः | हे लेप, त्वां मरीचिपेभ्यो मरीचिपालकेभ्यो देवेभ्योऽर्थाय परिधौ माज्मि । ' वास उरो बाहुषु श्लिष्टमशुमभिचरन् जुहुयाद्देवा शाविति ' ( कार श्र ० ९ | ४ | ३४ ) | अभिषवं कुर्वतोऽध्वर्यो ग्रावाभिघातवशा-दुत्पत्त्याध्वर्योर्वस्त्रे हृदये बाह्वोर्वा श्लिष्टं सोमांशुं तत आदायाभिचरन् आहवनीये जुहुयात् । आभिचारिक-सोमांशुदैवतं यजुः । हे देव दीप्यमान, हे अंशो सोमांशी, यस्मै शत्रुवधाय त्वामीडे स्तुवे प्रार्थयामि वा, ईडिरध्येषणार्थश्च तद् वधकर्म सत्यमस्त्विति शेषः । उपरिश्रुता, प्रुवतिर्गत्यर्थः, उपर्युपर्यागतेन भङ्गेन अभिषवाभिषवामर्देन वा, असाविति देवदत्तादिनामनिर्देशः । असौ द्वेप्यो हतो निहतः सन् फट् विशीर्णो भवेत् । ' त्रिफला विशरणे ' इति धातोः क्विबन्तस्य फडिति रूपम् । छन्दसि डलयोरभेदः । आभिचारिकस्वाहाकारस्थाने फडिति प्रयुज्यते, ' वषट् वश्ये वडुच्चाटे फट् द्वेष्ये पौष्टिके स्वधा ' इति वचनात् । ' प्राणाय त्वेति पात्रासादनम् ' ( का ० श्र ० ९ | ४ | ३६ ) । उपांशुग्रहपात्रं स्वस्थाने आसादयेत् । हे उपांशुपात्र, प्राणदेवतासन्तोषार्थं त्वा त्वामासादयामीति शेषः । ' उपांशुसवनं पाणिना परिमृज्योदनं व्यानाय त्वेति सस्पृष्टम् ' ( का ० श्री ० ९ ।४।३७ ) । उपांशुसवनाख्ये पाषाणे लग्नमृजीषादिकं हस्तेनाधः पातयित्वा उदङ्मुखमुपांशुपात्रलग्ननेव तं सादयेत् व्यानाय त्वेति । मुखं चास्य येनाभिषवः कृतः । हे उपांशुसवन, व्यानदेवतार्थं त्वामासादयामीति शेषः । शतपथे मन्त्रोऽयमित्थं व्याख्यातः - ' स्वाङ्कृतोऽसीति प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातस्तस्मादाह स्वाङ्कृतोऽसीति विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः सर्वाभ्यो ह्येष प्रजाभ्यः स्वयं जातो भाष्यसार -- कात्यायन श्रौतसूत्र ( ९ ।४।३३ - ३८ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' स्वाङ्कृतोऽसि ' इस
पृष्ठ 63
पाठ पढ़ें पाठ छिपाएँ
म ० ३ ] वेदार्थपारिजातभाष्यसहिता मनस्त्वाष्टष्विति प्रजापतिर्वै मनः प्रजापतिष्ट्वाऽश्नुतामित्येवैतदाह स्वाहा त्वा सुभव सूर्यायेति तदपर स्वाहाकारं प्राणो हिरण्यगर्भः, स च ब्रह्मरूपः, कर्मान्तराभावात् स्वात्मनैव, करोति परां देवताम् ' ( श ० ४। १ । १ । २२ ) । समष्टिः जातमेव दिव्यानि यानि देवाना-कृतः । श्रूयते हि - ' तदात्मानं स्वयमकुरुत ' ( तै ० उ ० २।७ ) । स्वात्मना कृतं स्वयं वाग्देवी जुषाणा सोमस्य तृप्यतु ' मिन्द्रियाणि, पार्थिवानि यानि मनुष्याणामिन्द्रियाणि तेषां तृप्त्यर्थं सोमः - ' हे सोम, मनः प्रजापतिरष्टु ( वा ० सं ० २।३७ ) इति मन्त्रे प्रसिद्धः । अतस्तेषां तृप्त्यर्थं स्वयं जातः सोमस्तं त्वां व्याचष्टे - तदवरमिति । अग्नये तदेवाहैष प्रजापतिष्ट्वाऽश्नुतामित्येवैतदाह - स्वाहा त्वा सुभव इति । सूर्यायेति हेतुः - य एष सूर्यस्तपति सर्वात्मको स्वाहेत्यादिषु प्रथमं देवतापदं चरमं स्वाहापदम् इह तु तद्विपरीतम् । तत्रायं व्यवहर्तव्यः । स्वाहाकारे पुनरुपरि हि सः । अमुष्मिन् सूर्ये एष उपांशुग्रहो हूयते । एष च परार्धतया सर्वस्योपरि करोति देवतां परां परस्तात् करोति । प्रयुज्यमाने स व्यवहारो न स्यादिति । तत् तस्मात् स्वाहाकारमवरं पूर्वं करोत्यथ यदवरां देवतां कुर्यात् ' अमुष्मिन् वा एनमहौषीद् य एष तपति सर्वं वा एष तदेन सर्वस्यैव परार्ध्यं स्वाहाकारं करोति परां देवताम् ' पर स्वाहाकारं स्यात् तदु हैवामुष्मादादित्यात् परं तस्मादवर देवानां च सर्वेन्द्रियतृप्त्यर्थं ( श ० ४।१।१।२३ ) । पूर्वोक्तं स्पष्टयति । इत्थं च हे उपांशु सोमदेव, मनुष्याणां प्रजापतिरपि त्वा त्वामश्नोतु । हे प्राणात्मकतया त्वं स्वात्मनैव निर्मितोऽसि । अतः सर्वेन्द्रिय सहकारी मनोरूपः मेवास्मिन् प्राणं दधात्यथोत्तानेन शोभनजन्मन् सोम, जुहोमि त्वां सूर्यायेति । ' अथ हुत्वोध्वं ग्रहमुन्माष्टि । पराञ्च मरीचिपेभ्यः ' ( श ० ४।१।१।२४ ) । पाणिना मध्यमे परिधी प्रागुपमाष्टि पराचमेवास्मिन्नेतत् प्राणं दधाति देवेभ्यस्त्वा स्थितं ग्रहं मूलत होमानन्तरं कर्तव्यं विधत्ते - अथेति । होमोत्तरकालमथानन्तरमविलम्बमान । तच्च तयोः ऊर्ध्वमुखत्वेन कालव्यवधानेऽपि सम्भवतीति आरभ्याग्रपर्यन्तं मृज्यात् । होममार्जनयोः पौर्वापयं क्त्वाप्रत्ययेनोच्यते । एतदुन्मार्जनमस्मिन् तथा मा भूदित्यव्यवधान बोधनायाथशब्दः । मार्जनस्योन्मुखतां स्तौति - ऊर्ध्वं - अथोत्तानेन ग्रहमिति पाणिना मध्यमे परिधी यजमाने प्राणप्रतिबद्धोर्ध्वसचारं करोति । उन्मार्जनानन्तरं कर्तव्यं विधत्ते दधातीति । उन्मुखस्य प्रागुपमाति । प्रागुपमाष्टि तिर्यङ् मृज्यात् । तदपि स्तौति - पराचमेवास्मिन्नेतत्प्राणं विधत्ते - देवेभ्यस्त्वा मरीचिपेभ्य इति । प्राणस्य बहिः सचारप्रतिबन्धनिरसनमुपमार्जनस्य फलम् । तत्र मन्त्रं मरीचिपास्तानेवैतत् प्रीणाति ' अमुष्मिन् वा एतं मण्डलेऽहौषीद् य एष तपति तस्य मे रश्मयस्ते देवा - य एष आदित्यस्तपत्यमुष्मिन् त एनं देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ' ( श ० ४।१।१।२५ ) । । तत्सम्बन्धिनो व्याचष्टे ये रश्मयो देवास्ते मरीचय मण्डलरूपेण स्थिते एतमुपांशुग्रहमहौषीत् स्वाहा त्वा सुभव सूर्यायेति सोमलेपस्योपमार्जनं तान् देवान् एव सन्तः संकृतिरित्यादियाज्यान् पिबन्तीति मरीचिपा एतन्मध्यपरिधौ नानुवाक्याऽस्ति न याज्या तं प्रीणात्येव । प्रीताश्च ते एनं यजमानं स्वर्गं प्रापयन्ति । तस्य वा एतस्य ग्रहस्य स्याद्वाह्वोर्वोरसि मन्त्रेण जुहोत्येतेनो हास्यैषोऽनुवाक्यवान् भवत्येतेन याज्यवानथ यद्यभिचरेद्योऽस्याशुराश्लिष्टः यथा ह वै हन्यमानाना-वा वाससि वा तं जुहुयाद्देवा शो यस्मै खेडे तत्सत्यमुपरिश्रुता भङ्गेन हतोऽसौ फडिति यस्मा एवं करोति त मपधावेदेवनेषोऽभिषूयमाणाना स्कन्दति तथा ह तस्य नैव धावन्नापधावत् परिशिष्यते स्तौति – तस्य वा सादयति प्राणाय त्वेति प्राणो ह्यस्यैष: ' ( ०४ | १ | १ | २६ ) | स्वाङ् कृत इत्यादिहोममन्त्रमधुना याज्यानुवाक्ये अपेक्षन्ते । एतस्य ग्रहस्येति । शुक्रामन्ध्यादिग्रहहोममन्त्रो हि सः प्रथमः । संकृतिरित्यादयो का हवन कण्डिका के मन्त्रों से उपांशु ग्रह का होम, परिधिमार्जन, सोम कूटने के समय उछल कर लगे हुए सोमलताखण्ड उपदिष्ट है । तथा पात्रासादन आदि कर्म अनुष्ठित किये जाते हैं । शतपथ श्रुति में याज्ञिक विनियोग के अनुकूल मन्त्रार्थं २
पृष्ठ 64
पाठ पढ़ें पाठ छिपाएँ
१० शुक्लयजुर्वेद संहिता [ अ ० ७ स्वाङ्कृत इत्याद्यपांशुग्रह होममन्त्रस्तु याज्यानुवाक्ये अनपेक्ष्य तत्कृत्यमपि स्वयमेव करोतीति प्रशस्तः । अस्य मन्त्रस्य सम्बन्धी एष ग्रह एतेन मन्त्रेणोभयवान् भवति - अनुवाक्यवान्, याज्यवानिति । ' ड्यापोः संज्ञाच्छन्द-सोर्बहुलम् ' ( पा ० सू ० ६ । ३।६३ ) इत्यापो ह्रस्वत्वम् । अभिचरतो बाह्वादिश्लिष्टांशुहोममाह यद्यभिचरेदिति । तत्र होममन्त्रः - ' देवांशो यस्मै त्वेडे ' इत्यादि । हे देवांशी सोमांशो, यस्मै शत्रुवधाय त्वा त्वामोडे स्तुवेऽभ्यर्थये वा, तद्वधकर्म सत्यमस्तु । भङ्गेन अभिषवामर्देन उपरिश्रुता उपरिभावाय वाऽऽगतेन त्वया असौ एतन्नामा शत्रुर्हतः सन् फट् विशीर्यताम् । हन्यमानानां शत्रूणां यथा यः कश्चिदेवोऽपधावेत् पलायेत, तद्वदभिषूयमाणानां सोमांशूनां मध्ये एष बाह्वादिलग्नोंऽशुः स्कन्दत्यपगच्छति यस्मै पुनर्यजमानाय एवमुक्तमन्त्रकं स्कन्नांशुहोमं करोति, अस्य यजमानस्य तथा होमदेवते अभिषुते । सोमे स्थितो वा एवमपधावन् वा कोऽप्यंशुर्न परिश्लिष्यते । तस्य खरे सादनं विधत्ते - तं सादतीति । तत्र मन्त्रः -- प्राणाय त्वेति । प्राणो ह्यस्यैष अस्य सोमयागस्य एष उपांशुग्रहः प्राणी हि प्रागुक्तस्य रसस्य धारणात्, अतस्तत्सादनस्य प्राणनार्थता मन्त्रेणोच्यते । ' दक्षिणार्धे हैके सादयन्ति । एता ह्येष दिशमनुसञ्चरतीति तदु तथा न कुर्यादुत्तरार्ध एवैन ७ सादयेन्नो ह्येतस्या आहुतेः काचन परास्ति त १५ सादयति प्राणाय त्वेति प्राणो ह्यस्यैष: ' ( श ० ४ | १ | १ | २७ ) इति । विहितस्य सादनस्योत्तरार्धं स्थानं विधातुं मतान्तरमनूद्य निरस्य स्वाभिमतं दधाति - दक्षिणार्ध है के सादयन्तीति । एके याज्ञिका होमानन्तरमेतं ग्रहं खरस्य दक्षभागे स्थापयन्ति । तत्रोपपत्ति ते कथयन्ति ग्रहणात् प्राक् खरे पात्रासादनकाले एष ग्रह उपांशुग्रहपात्रमुत्तरादाग्नीध्रमण्डपादासादनाय खरं प्रत्यानीयमानमेतां दक्षिणां दिशमनुसञ्चरति । तथा चापस्तम्बः - ' दक्षिणेंऽश उपांशुपात्रम् ' इति । तत्तु सादनं तथा दक्षिणांशेन कुर्यादिति परमतं निरस्य उत्तरभाग एवैनं ग्रहं सादयेदिति स्वमतविधिः । विहितमुत्तराधं स्तौति - नो ह्येतस्या इति । एतस्या उपांशुसोमाहुतेः परा प्रशस्ता न काचिदाहुतिरस्ति । सवनत्रयात्मिका हि सा । अतस्तदीयपात्रासादनस्योत्तरभागो युक्तः । सोऽपि तर्हि प्रशस्तः, ' तस्मादुत्तरार्धः तेजस्वितर: ' इति श्रुतेः । सादने विहितं मन्त्रं स्तोतुमनुवदति -- तं सादयति प्राणाय वेति । प्राणो ह्यस्यैष अस्य पात्रस्य सम्बन्धी एष सोमः प्राणः । ' अथोपांशुसवनमादत्ते । तं न दशापवित्रेणोपस्पृशति यथा ह्यद्भिः प्रणिक्तमेवं तद्यद शुराश्लिष्टः स्यात् पाणिनैव प्रध्वस्योदचमुपनिपादयेद् व्यानाय त्वेति व्यानो ह्यस्यैष: ' ( श ० ४ | १ | १ | २८ ) । उपांशुसवनादानं विधत्ते - अथोपांशुसवनमादत्त इति । उपांशुग्रहसादनानन्तरमुपांशुस व ग्रावाणमाददीत । सोमलेपापनोदनाय प्रसक्तं दशापवित्रेणोपस्पर्शनं निषेधति -- तं नेति । तत्रानुस्पर्शे कारणमाह - यथा ह्यद्भिः प्रणिक्तमेवमिति । यथा शुद्धयर्थं जलेन क्षालितं वस्तु जलले पापनोदाय न पुनर्जलान्तरेण क्षाल्यते, जललेपस्य शुद्धत्वात्, एवं सोमशेषलिप्तं तद् ग्रावस्वरूपम्, सोमशेषस्यापि पवित्रत्वात् । तद्यदंशुराश्लिष्टः स्यात् पाणिनैव प्रध्वस्य उपर्यन्तर्यामग्रहहोमतदासादनोत्तरकाले सादितयोरुपांश्वन्तय मियोमध्ये उदगग्रं स्थापयेत् । कात्यायनोऽपि तथैवाह ' उपांशुसवनं पाणिना प्रमृज्योदचं व्यानाय त्वेति ' ( का ० श्री ० ९ ।४।३७ ) । ' संस्पृष्टमुपविष्टयो: ' ( का ० श्री ० ९ १५ | १ ) | ग्रावसादने मन्त्रः । ----अध्यात्मपक्षे - हे देव द्योतनस्वभाव जीवात्मन् विश्वेभ्यः सर्वेभ्यो दिव्येभ्यो दिवि भवेभ्यः पार्थिवेभ्यो द्विपदचतुष्पदादौ भवेभ्य इन्द्रियेभ्यो हिताय स्वाङ्कृतोऽसि स्वयं कृतोऽसि स्वयं जातोऽसि । मनः प्रजापतिस्त्वा अध्यात्मपक्ष में यहअर्थ है - हे द्योतनात्मक स्वभाव से युक्त जीवात्मा, समस्त दिव्य द्युलोक में होने वाले तथा पार्थिव मनुष्य, पशु आदि में होने वाले इन्द्रियादि के लिये तुम स्वयं उत्पन्न हो । प्रजापति तुमको व्याप्त करें । हे सुन्दर
पृष्ठ 65
पाठ पढ़ें पाठ छिपाएँ
म ० ३ ] वेदार्थपारिजात भाष्यसहिता ११ त्वां व्याप्नोतु । हे सुभव शोभनजन्मन्, सूर्याय सर्वदेवमयाय आदित्याय तद्रश्मिभूतेभ्यो देवेभ्यो मरीचिवत्पाल-केभ्यः स्वाहाकारेण यज । यस्मै कार्याय अभ्युदयनिःश्रेयसाय त्वा त्वाम् ईडे स्तुवे, तत्सत्यमस्तु । हे अंशो, परमेश्वरस्य अंशवद् अंशो भङ्गेन आमर्देन उपरि प्रुत सर्वोपरि प्रवता समागच्छता त्वयासौ कामाज्ञानादिः शत्रुर्हतः सन् फट् विशीर्ययाम् । प्राणाय प्राणनाय जीवनाय, व्यानाय विविधचेष्टायै त्वां सर्वे वागादयः प्राणाः समाश्रयन्त इति शेषः । जातित्वादेकवचनमेक जीववादाभिप्रायेण वा, ' अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते । अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ॥ ' ( मा ० का ० १।१६ ), ' एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विद: ' ( भ ० गी ० १३ | १ ) इत्यादिस्मृतिभ्यः । यद्वा हे सगुण साकार परमात्मन् विष्णो साम्बसदाशिव श्रीराम श्रीकृष्ण वा, विश्वेभ्यो दिव्येभ्यः पार्थिवेभ्य इन्द्रियेभ्यो देवमनुष्यादिसर्वेन्द्रियेभ्यो हिताय स्वाङ्कृतः स्वयं कृतोऽसि स्वयं जातोऽसि सर्वेषामाप्यायनाय तर्पणाय । ' पराचि खानि व्यतृणद् स्वयम्भू: ' ( कठो ० ४। १ ) इति श्रुत्यनुसारेण स्वयम्भूः खानि खोपलक्षितानि सर्वेन्द्रियाणि परावि बहिर्मुखानि व्यतृणद् विरच्य हिंसितवान् । परमात्मानुभव-वचितत्वमेव तेषां हिंसनम् । तेषां बहुतिथं तपश्चरणात् प्रसन्नो भूत्वा भगवान् दिव्यसौन्दर्यमाधुर्यसौरस्य-सौगन्ध्यादिसुधाजलनिधिसाकारविग्रहवान् भूत्वा तान्याप्याययति तर्पयति च । हे परमेश्वर, मनोबहिर्मुखतां परित्यज्य शुद्धं सत् त्वामष्टु त्वदीय माधुर्यमास्वादयतु । हे सुभव शोभनजन्मन्, सूर्याय स त्वं प्रचण्डमार्तण्डमण्डल- हे देवांशो, देवेभ्यो वदनन्तप्रकाशाय तुभ्यं स्वाहा मदीयं सर्वस्वं सुनिवेदितमस्तु । देवा अंशवो यस्य मरीचिपेभ्यो मरीचिपानवय ऋषिभ्यो हिताय असौ रावणादिः, कंसादिः, अन्धकासुरादिः, मधुकैटभादिः, भङ्गेनामर्देन उपरि सर्वोपरि प्रपता समागच्छता त्वया हतः सन् फट् विशीर्णः । यस्मै कार्याय अभीष्टसाधनाय त्वा त्वमीडे स्तुवे तत्सत्यं सफलमस्तु । हे परमेश्वर, सर्वेऽपि भक्ताः प्राणाय प्राणनाय व्यानाय विविधचेष्टायै कश्चन । बलाय च त्वामेवाश्रयन्ते, प्राणनापाननादिव्यापाराणां त्वदाश्रयत्वात्, ' न प्राणेन नापानेन मर्त्यो जीवति इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ' ( कठो ० ५।५ ) इति श्रुतेः । दयानन्दस्तु शतपथसंकेतं कुर्वन्नपि तद्विपरीतमेव वक्ति । ' हे अंशो सूर्यतुल्यदेव दिव्यात्मन्, यस्त्वं दिव्येभ्यो विश्वेभ्यो इन्द्रियेभ्यः पार्थिवेभ्यो मरीचिपेभ्यो देवेभ्यः स्वाङ्कृतोऽसि स्वयं कृत इवासि तं त्वां के लिये स्वाहाकार जन्मवाले, सर्वदेवमय आदित्य के लिये, उनके किरणरूपी किरणों के समान पालन • करने वाले देवों । परमेश्वर के अंशभूत पूर्वक याग करो । जिस अभ्युदय और निःश्रेयस कार्य के लिये तुम्हारी स्तुति करता हूँ, वह सत्य हो नष्ट हो जायें । जीवन के निष्पीड़न से सर्वोपरि गमन करने वाले तुम्हारे द्वारा ये काम, अज्ञान आदि शत्रु हिंसित होकर लिये, विविध व्यवहार के लिये वाक्, प्राण आदि सभी तुम्हारा आश्रय लेते हैं । समस्त दिव्य पार्थिव अथवा हे सगुण साकार परमात्मन्, हे विष्णु, साम्ब सदाशिव, श्रीराम अथवा श्रीकृष्ण, आप इन्द्रियों के लिये, देवमनुष्य आदि समस्त इन्द्रिययुक्त प्राणियों के हितार्थ स्वयं प्रादुर्भूत हैं । हे परमेश्वर, मन प्रकाशवाले बहिर्मुखता आपके को छोड़कर शुद्ध होकर आपके माधुर्य का आस्वादन करे | है शोभनजन्मवाले, सूर्यबिम्ब की भाँति अनन्त के हित के लिये ये लिये मेरा सर्वस्व निवेदित हो । आप देवरूपी अंशों से युक्त हैं । किरणों का पान करने वाले ऋषियों द्वारा हिंसित होकर नष्ट हो रावण, कंस, अन्धकासुर, मधुकैटभ आदि राक्षस निष्पीडन से सर्वोपरि गमन करने वाले आपके जीवन के लिये, गये । जिस अभीष्ट सिद्धि के लिये मैं आपकी स्तुति करता हूँ, वह सफल हो । हे परमेश्वर, सभी भक्तगण ही आश्रित हैं । विविध क्रियाओं के लिये तथा बल के लिये आपका ही आश्रय लेते हैं, क्योंकि प्राणन आदि व्यापार आपके स्वामी दयानन्द ने शतपथ ब्राह्मण का उल्लेख करते हुये भी उससे विपरीत ही व्याख्यान किया है । अंशु शब्द का
पृष्ठ 66
पाठ पढ़ें पाठ छिपाएँ
ST शुक्लयजुर्वेदसंहिता [ अ ० ७ मनः शुद्धं विज्ञानं स्वाहा वेदवाणी चाष्टु प्राप्नोतु । हे सुभव सगुण, यस्मै सूर्याय चराचरात्मने परमेश्वराय त्वामहमीडे तत्सत्यं परेशं गृहाणोपतेव सर्वोत्तममुत्कर्षं प्राप्नुवता येन त्वया भङ्गेन मर्दनेनासावज्ञातशत्रुः फडतस्तं त्वां प्राणायेडे जीवनाय प्रशंसयं व्यानाय वा त्वामीडे विविधसुखप्राप्तये त्वां प्रशंसामि ' इति, तदपि चित्, अंशुपदेन सूर्यतुल्येत्यर्थग्रहणे मानाभावात्, गौणार्थत्वप्रसङ्गाच्च । स्वयंकृत इवेत्यत्र इव इति निर्मूल-मेव । न च तस्य दिव्यात्मन इन्द्रियाद्यर्थं स्वयंकृतत्वस्, चेतनत्वेन तस्य स्वातन्त्र्यात् । ' सङ्घातस्य परार्थत्वात् ' ( सा ० द ० ११६६ ) इति न्यायेनेन्द्रियादीनामेवात्मार्थत्वं युक्तम् । मनः स्वाहा इत्यनयोरपि शब्दयोस्तादृशार्थत्वे मानाभावात् । किञ्च, परमेश्वराय त्वामीड इत्यपि निरर्थकम्, प्राणाय जीवनाय प्रशंसामीत्यपि निर्मूलम् । व्यानमिति पदस्य विविधसुखप्राप्तिरर्थं इत्यपि निर्मूलम् । न च विविधमानयतीति व्युत्पत्तिरेव मूलमिति वाच्यम्, ‘ अन प्राणने ' इति धातोस्त्यागे, आनयतेर्ग्रहणे विनिगमनाभावात् ॥ ३ ॥
"
उपयामगृहीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म् । उ॒रु॒ष्य राय॒ ए॒ष यजस्व ॥ ४ ॥
' प्राणो ह वा अस्योपा ७ शुः । व्यान उपाशुसवन उदान एवान्तर्याम: ' ( श ० ४ | १ | २ | १ ) | ' अथ यस्मादन्तर्यामो नाम । यो वै प्राणः स उदानः स व्यानस्तमेवास्मिन्नेतत्परानं प्राणं दधाति यदुपाशं गृह्णाति तमेवास्मिन्नेतत्प्रत्यञ्चमुदानं दधाति यदन्तर्यामं गृह्णाति सोऽस्यामुदानोऽन्तरात्मन् यतस्तद्यदस्यैषोऽन्तरात्मन् यतो यद्वैनेमाः प्रजा यतास्तस्मादन्तर्यामो नाम ' ( श ० ४।११।२ ) । ' तमन्तः पवित्राद् गृह्णाति । प्रत्यचमेवा -स्मिन्नेतदुदानं दधाति सोऽस्यायमुदानोऽन्तरात्मन् हित एतेनो हास्याप्युपा शुरन्तः पवित्राद् गृहीतो भवति समान ह्येतद्यदुपाश्वन्तर्यामी प्राणोदानी ह्येतेनो हैवास्यैषोऽपीतरेषु ग्रहेष्वनाक्षिवद् भवति ' ( श ० ४ | ११ २ ३ ) । विधास्यमानस्य ग्रहस्यान्तर्यामताव्युत्पादनायोदानतामन्तर्यामसहचारिणोरुपांशुसवनयोः प्राणव्यानात्मकत्वेन समर्थयते - प्राणो ह वा अस्योपांशुरिति । उदानस्य प्राणव्यान साहित्य वदुपांशुपांशुसवनसाहित्यादन्तर्यामस्यो-दानात्मकता प्रतिपत्तव्येत्यर्थः । यस्मात् शब्दप्रवृत्तिनिमित्तादन्तर्याम इति नाम भवति, किं तदिति पृच्छायां तत्समर्थनम् - यो वै प्राणः स उदानः स ध्यान इति । प्राण एक एव सन् प्रवृत्तिभेदात् प्राणीदानव्याननामभिव्र्व्यव-ह्रियते । तत्र पराग्वृत्तिः प्राणदात्मकोपांशु ग्रहग्रहणेन पराङ् प्रतिबद्धसञ्चारो विधीयते । एवं प्रत्यग्वृत्तिरुदान-स्तदात्मकान्तर्यामग्रहग्रहणेन अन्तर्निधीयते, निहितवान्तर्नियम्यते । यतोऽन्तर्नियम्यते, अत उदानस्यान्तर्याम इति नाम । अनेनोदानेनान्तर्वर्तमानेन सता इमाः प्रजा यथा न म्रियन्ते तथा नियमिताः । अतोऽन्तर्नियम्यतेऽनेनेति ' सूर्य तुल्य ' यह अर्थ करने में कोई प्रमाण न रहने के कारण तथा गौणार्थता का दोष प्राप्त होने के कारण यह अग्राह्य है । उस दिव्यात्मा का इन्द्रियादि के लिये स्वयंकृतत्व नहीं है, क्योंकि चेतन होने के कारण वह स्वतन्त्र है । ' संघातपरार्थत्वात् ' इस नियम से इन्द्रिय आदि का ही आत्मा के लिये होना उचित है । व्यान शब्द का ' विविध सुखप्राप्ति ' अर्थ करना भी प्रामाणिक है | वेव व्युत्पत्ति ही प्रमाण है, यह मानना भी उचित नहीं है, क्योंकि प्राणार्थक अन् धातु से ' परित्याग ' तथा ' आनयन ' अर्थ का ग्रहण करने में कोई निश्चित युक्ति नहीं है ३ ॥ मन्त्रार्थ - हे अन्तर्याम ग्रह में स्थित सोमरस! तुम क्षुद्र कलश द्वारा गृहीत हो । हे इन्द्र! तुम इस पात्र में सोमरस को अन्तगृह पात्र में ग्रहण करो, सोमरस को शत्रु आदि से रक्षा करो तथा पशुओं की रक्षा करो और हमें धनधान्य से परिपूर्ण करो ॥ ४ ॥
पृष्ठ 67
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ] वेदार्थपारिजात भाष्यसहिता १३ करणसाधनं वोदानस्यान्तर्याम नाम । उदानात्मकतया च ग्रहस्यान्तर्याम नामेति । तस्य ग्रहणं विधत्ते-तमन्तः पवित्राद् गृह्णातीति । तमन्तर्यामनामकं सोमरसं दशापवित्रस्यान्तः प्रदेशाद् धारारूपेण स्रवन्तं गृह्णीयात् । तत्स्तवनम् - अन्तर्यामसोमस्य यदेतदन्तः पवित्र देशप्रापणमेतदुदानस्य सर्वस्मिन् जने प्रत्यङ्मुखतया स्थापनं भवति । अतोऽयमुदानः सर्वजनस्य शरीरमध्ये निहितो दृश्यते । अन्यथापि तत्स्तुतिः - एतेना-न्तर्यामरसस्यान्तःपवित्रदेश प्रापणेनैवास्य यजमानस्योपांशुरसो बहिः पवित्राद् गृहीतोऽप्यन्तः पवित्राद् गृहीतो भवतीति प्रसिद्धम् । पवित्रेणैव सोमस्य शोधने कारणं जिज्ञासापूर्वकमुच्यते - ' अथ यस्मात् सोमं पवित्रेण पावयति तत्र वै सोमः स्वं पुरोहितं बृहस्पति जिज्यो तस्मै पुनर्ददौ तेन स शशाम तस्मिन् पुनर्ददुष्यासैवातिशिष्टमेनो यदीन्तूनं ब्रह्मज्यानायाभिदध्यौं ' ( श ० ४ | १ | २ | ४ ) । ' तं देवाः पवित्रेणापावयन् । स मेध्यः पूतो देवाना 79 हविरभवत् तथो एवैनमेष एतत्सवित्रेण पावयति स मेध्यः पूतो देवानां हविर्भवति ' ( श ० ४ १ २ ५ ) । यस्मात् कारणात् पवित्रेण पावयति तत्किं कारणमित्याख्यायिकयाह - यत्र यदा सोमश्चन्द्रः स्वं स्वकीयं पुरोहितं बृहस्पति जिज्यो दारापहरणेन मानहीनमकरोत् । ' ज्या वयोहानौ ' इति धातोर्लिटि ' लिट्यभ्यासस्योभयेषाम् ' ( पा ० सू ० ६ | १ | १७ ) इत्यभ्यासस्य सम्प्रसारणम् । वयोहानिवचनोऽपि जिनातिरिह हानिमात्रं लक्षयति । सा च हानिर्मानस्येति प्रकरणाल्लभ्यते । इन्द्रबृहस्पत्यादिदेवानां वचनमनादृत्य युद्धे तान् जित्वापि तैः प्रार्थ्यमानस्तान् दारान् पुनर्बृहस्पतये ददौ । तेन दानेन स बृहस्पतिः संशशाम सम्यगेकान्तहृदयोऽभूत् । ददुषि दत्तवत्यपि तस्मिन् एव । सोमे इत्थं दारा गता इति ब्रह्मज्यानाय ब्राह्मणमानानाय चिन्तितवान् । तदेनः पापमतिशिष्टं स्थितमास बभूव पापिनं चन्द्रं सोमलतारसरूपं विधाय दशापवित्रेण अपावयन् तथा पवित्रश्चन्द्रः पूतः सन् देवानां हविरभूत् । एषाख्यायिका पुराणेषु प्रसिद्धा । तथैव त्वेष यजमान एनमभिषुतं सोमरसं दशापवित्रेण पावयति । स च सोम-रसो देवानां हविश्र्वाय योग्यो भवति । पवित्रेण पावने कारणमुक्तम्, अथ पूतस्योपयामेन ग्रहणे कारणमुच्यते-' तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा अदितिस्तस्या अदः प्रायणीय हविरसावादित्यश्चरुस्तद्वैतत्पुरेव सुत्यायै सायं देवेषु सुत्यायामपि त्वमीषेस्त्वेव मेऽपि प्रसुते भाग इति ' ( श ० ४ | १ | २ | ६ ) । उपयच्छति सोममित्युपयामो दारुपात्रम् । तेन सोमरसो गृह्यते इति यत् तत्रायं वक्ष्यमाणो हेतुः - इयं वा अदितिरिति । उपयामः पृथिवीति वक्ष्यति । सेयमुपयामात्मिका पृथिवी अदितिर्देवता । प्रायणीयेष्टिसम्बन्धिहविरत्मिको यश्चरुरसावादित्योऽदिति-देवताक इति प्रसिद्धम् । अतोऽसावुपयामात्मिका पृथिव्येव भवति । तदेतद्धविः सुत्यादिवसात् प्रागेव दीक्षानन्तरं प्रथमोपसद्दिवसे क्रियते । सेयमदितिः सुत्यादिवसेऽपि देवतानां मध्ये, अपि त्वं चरुरूपाद् भागादन्यं सोमरूपं विसस्त्रे ' भागमीषे इयेष । ईषे इत्यात्मनेपदम् । त्वशब्दोऽकारान्तः सर्वनामस्वन्यपर्यायः, ' उतो त्वस्मै तन्वं ( ऋ ० सं ०८ / २ / २३ ) इति श्रूयते । अदित्या एतद्वाक्यमभिषुते सोमे पूर्वं चरुं स्वीकृतवत्या अपि मम भागो अस्त्वेवेति । ‘ ते ह देवा ऊचुः । व्यादिष्टोऽयं देवताभ्यो यज्ञस्त्वयैव ग्रहा गृह्यन्तां देवताभ्यो हूयन्तामिति तथेति सो s स्या एष प्रसुते भाग: ' ( श ० ४ | १ | २ | ७ ) । ते ह देवा ऊचुरयं यज्ञो देवताभ्यो व्यादिष्टो दत्तः, अतः सर्वेऽपि सोमरसास्त्वयैव गृह्यन्ताम् त्वयैव देवताभ्यो हूयन्तामिति । एतावतैव त्वं सोमे लब्धभागा भविष्यसीति । सा च तथास्त्वित्याह । ' तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा उपयाम इयं वा इदमन्नाद्यमुपयच्छति पशुभ्यो मनुष्येभ्यो वनस्पतिभ्य इतो वा ऊर्ध्वा देवा दिवि हि देवा: ' ( श ० ४ | १ | २ | ८ ) । यदेष तस्या अदित्यै भागो भाष्यसार - ' उपयामगहीतोऽसि ' इस ॠचा के द्वारा सूर्योदय हो जाने पर अन्तर्याम नामक पात्र में सोमरस का
पृष्ठ 68
पाठ पढ़ें पाठ छिपाएँ
१४ शुक्लयजुर्वेदसंहिता [ अ ० ७ नाम पृथिव्याश्च उपयाम इति नाम प्रसिद्धम् । यत इयं पृथिवी पश्वादिभ्यस्तृणादिरूपमन्नं प्रयच्छति । मृण्मयशरावादित्यागेन उपया मनामकोर्ध्वपात्ररूपतयैव पृथिव्या सोमग्रहेऽयं हेतु:, यदित ऊध्वं स्वर्गे देवा वर्तन्ते । ' तद्यदुपयामेन ग्रहा गृह्यन्ते । अनयैव तद् गृहान्तेऽथ यद्योनौ सादयतीयं वा अस्य सर्वस्य योनिरस्यै वा इमाः प्रजाः प्रजाताः ' ( श ० ४।१।२१ ९ ) । ग्रहाणां खरे सादनमभिधातुं स्तौति अथेति । योनौ खरे ग्रहान् सादयति, तत्रायं हेतुः - -- - इयं खरात्मिका भूमिः अस्य सर्वस्य जगत उत्पत्तिस्थानम् । अतः पृथिव्याः सकाशात् प्रजा प्रजाताः । तं वा एत रेतोभूत सोममृत्विजो बिभ्रति यद्वा अयोनो रेतः सिच्यते प्र वै तन्मीयतेऽथ यद्यन सादयत्यस्यामेव तत्सादयति ' ( ० ४ | १ | २ | १० ) । कृत्स्नपृथिव्यात्मकश्चायं खरप्रदेशः । लतासारतया रेतोवद् रेतोभूतमेतं सोममृत्विजो विभ्रति खरात्मिकया भूम्या उद्धृतं कुर्वन्ति । यदि हि खरादन्यत्र सादयेत् तदा अयोनौ रेतः सिक्तम्, रेतोभूतः स सोमः स्वप्रयोजनप्रसवाय समर्थो न भवेत् । खरे सादनं योनावेव सादनम्, तेन नायं दोषः । ' प्राणदान ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरं प्राणोदानयोर्व्याकृत्यै प्राणोदाना-वेवैतद् व्याकरोति तस्मादेतौ समानावेव सन्तौ नानेवाचक्षते प्राण इति चोदान इति च ' ( श ० ४।१।२।११ ) । उपवन्तमयोः कालभेदं स्तुवन् विधत्ते - प्राणौदानौ हेति । अस्य सोमयागस्य सम्बन्धिनौ एतौ उपांश्वन्तर्याम-ग्रहो क्रमेण प्राणोदानात्मकौ यतोऽतस्तयोरन्यतरमन्तर्यामं सूर्य उदिते जुहोति, अन्यतरमुपांशुमनुदिते जुहोति । एवं कालभेदात् प्राणोदानावसङ्कीर्णी द्विधा कृतौ भवतः । अनेन हि कालभेदेन तावुभौ विभक्तौ करोति । विभागादेव चतौ समानरूपावपि सन्ता एकं प्राण इति, अपरमुदान इति भेदेन व्यवहरन्ति । ' अहोरात्रे ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरमहोरात्रयोर्व्याकृत्याऽहोरात्रे एवैतद् व्याकरोति ' ( श ० ४ | १ | २ | १२ ) । न केवलं प्राणोदानविभागः, किन्त्वहोरात्र व्याकृतिरपि प्रयोजनमित्यनन्तरमेव विधिमनुद्य स्तौति-' अहं सन्तमुपाशुं त S रात्रौ जुहोत्य हरेवैतद्रात्रौ दधाति तस्मादपि सुतमिस्रायामुपैव किञ्चित् ख्यायते ' ( श ० ४।१।२।१३ ) । एकस्यैव प्राणस्य वृत्तिभेदात् प्राणोदानव्यवहार इत्युक्तम् । सूर्यश्च प्राणात्मकः । अग्निवाय्वा-दित्यान् प्रकृत्य श्रूयते -- ' स एष प्राणस्त्रेधा विहितः ' इति । सूर्यस्योपरि सञ्चारो दिनम् अधःसञ्चारो रात्रिः । अतः सूर्यात्मकप्राणस्यात्यूर्ध्वगमनात्मिका प्रवृत्तिरहः, अधः सचारात्मिका उदानवृत्तिः रात्रिः । एवं स्थिते प्राणवृत्तिरूपतया अहरात्मकस्योपांशोः रात्रिशेषे होमेन अहरेव रात्रौ दत्तं भवति । अह्नो रात्रौ दानादेव निबिडतमस्कायामपि रात्रौ उदभसमीपे कियांश्चित्प्रकाशो भवति । एवमुदानवृत्तिरूपतया रात्र्यात्मकस्यान्तर्या-मस्य अहरुपक्रमे होमेन रात्रिरहनि दत्ता भवति, अतः प्रभाते मध्याह्ने इव नातितापः । तेनाहोरात्रव्यत्यासेनाह-रादावपि शैत्याद्रात्रिशेषेऽपि प्रकाशान्मुख्यव्यवहारसम्मत्या प्रजाः परित्राताः, अत उक्तः कालविभागः प्रशस्तः । ' रात्रि ७ सन्तमन्तर्यामं तमुदिते जुहोति रात्रिमेवैतदहन् दधाति तेनो हासावादित्य उद्यन्नेवेमाः प्रजाः न प्रदहति तेनेमाः प्रजास्त्राताः ' ( श ० ४।१।२।१४ ) । उपवन्तमौ नाम यद् युगलम् एतत् समानमेकं वस्तु हि यत एतौ प्राणोदानौ तौ चैकः प्राण एव तद्वृत्तिभेदत्वात् । एतेन हैवेति । इतरेष्वप्यैन्द्रवायवादिग्रहेष्वपि ग्राह्यस्यास्य सोमरसस्य एतेनैव दशापवित्रेण क्रियमाण एष धारास्रावोऽनाश्रितोऽविछिन्नः कर्तव्यः । तदेवाहापस्तम्बः - - ' सन्तताया आस्रावयितव्याया धाराया अन्तर्यामं गृह्णाति सर्वांश्चातो ग्रहाना वात् ' इति । ' उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति ' ग्रहण किया जाता है । कात्यायन श्रौतसूत्र ( ९ ६ १ ) में यह याज्ञिक विनियोग प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है ।
पृष्ठ 69
पाठ पढ़ें पाठ छिपाएँ
म ० ४-५ ] वेदार्थपारिजातभाष्यसहिता १५ ( का ० श्र ० ९ ।६।१ ) । उदिते सूर्येऽन्तर्यामसंज्ञे पात्रे सोमरसग्रहं गृह्णीयात् । ' इन्द्रो वै मघवान् ' इति श्रुत्यनुसारेणात्र मन्त्रे मघवन्नितीन्द्रः सम्बोध्यते, तस्य यज्ञं प्रति नेतृत्वात् । आत्मनः प्राणने स च सम्बोध्यते । अन्तः पदेनोदानात्मकः सोमो गृह्यते । हे सोम, त्वमुपयामगृहीतोऽसि । उपयामयतीत्युपयामो ग्रहस्तेनोपयामपात्रेण गृहीतोऽसि । हे मघवन् त्वं तादृशं ग्रहपात्रमन्तर्यच्छ शत्रुभ्यो व्यवधानं यथा भवति तथा नियमय, तथा सोमं पालय तथा रायो धनानि उरुष्य रक्ष । उरुष्यती रक्षणकर्मा । यद्वा ' पशवो रायः ' इति श्रुत्यनुसारेण पशून् रक्ष आ इषो यजस्व इषोऽन्नान्यासमन्ताद् देहि । यद्वा इषः प्रजाः, अन्नप्रभवत्वात्, ' प्रजा वा इष: ' इति श्रुतेः, यजस्व याजयस्व । ' अथातो गृह्णात्येव । उपयामगृहीतोऽसीत्युक्त उपयामस्य बन्धुरन्तर्यच्छ मघवन् पाहि सोममिन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्निति पाहि सोममिति गोपाय सोममित्येवैतदाहारुष्य राय एषो यजस्वेति पशवो वै रायो गोपाय पशुनित्येवैतदाहेषो यजस्वेति प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति ' ( श ० ४ | १ | २ | १५ ) । एतेन स्पष्टतया पूर्वोक्तव्याख्यानं समर्थ्यते । अध्यात्मपक्षे हे मघवन्निन्द्र सर्वैश्वर्य पूर्णपरमेश्वर, उपयामैः संयमैः सानुरागैर्गृहीतोऽसि । भक्त्या गृहीतचरणो भगवान् उपयामगृहीत इव संदंशगृहीत इव भक्तपरवशो भवति । अन्तर्यच्छ अन्तर्मनोबुद्धीन्द्रियादीनि यच्छ नियमय । सोमं प्रेमात्मकं सोमं पाहि । राये ज्ञानवैराग्यशमदमादींश्च उरुष्य रक्ष । इषः सर्वा अपि प्रजा आ यजस्व आसमन्ताद् याजयस्व यायजूका: कुरु त्वदनुग्रहेण सर्वाः प्रजास्त्वदर्चनपरायणा भवन्तु, परमेश्वरस्येवान्तर्यामित्वेन सर्वप्रेरकत्वात् । यत्तु - ' हे योगजिज्ञासो, यतस्त्वमुपयामैर्योगनियमैर्गृहीत इवासि, तस्मादन्तर्यच्छ पवनमनइन्द्रियाणि नियमय । हे मघवन् सोमं योगविद्यासिद्धमैश्वर्यं पाहि । केशानुरूष्य अविद्यादिकेशान्नाशय । यतो शय इव ऋद्धिसिद्धिरूपाः सिद्धीरायजस्व सम्यक् प्राप्नुहि ' इति, तदपि न युक्तम्, शतपथेनान्यथा व्याख्यातत्वात् । मघवन्निति यज्ञस्य नेतृत्वादिन्द्र इति तत्र व्याख्यातम् । पूर्वोक्तशतपथश्रुतिविरुद्धत्वात् तद्विरुद्धं त्याज्यमेव ॥४ ॥
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तद॑धाम्य॒ व॑न्तरि॑क्षम् ।
सजा॒र्दे॒वेभि॒रव॑र॒ परे॑श्वान्तय॒मे म॑घवन् मादयस्व ॥ ५ ॥
अयात्मपक्ष में अर्थ योजना इस प्रकार है - हे सर्वैश्वर्यपूर्ण परमेश्वर, आप प्रेमपूर्ण संयम के द्वारा गृहीत हैं । भक्ति से पकड़े गये चरणों वाले भगवान् दोनों ओर से पकड़े गये व्यक्ति की भाँति भक्तों के परवश हो जाते हैं । आप हमारे मन, बुद्धि आदि अन्तःकरणों को नियन्त्रित कीजिये । प्रेमात्मक सोम की और ज्ञान, वैराग्य, शम, दम आदि धन की रक्षा कीजिये । समस्त प्रजाओं को पूर्णतः यज्ञपरायण बनाइये । आपकी कृपा से सभी प्रजाएँ आपकी उपासना में परायण बनें, क्योंकि परमेश्वर ही अन्तर्यामी होने के कारण सबका प्रेरक है । स्वामी दयानन्द का अर्थं उचित नहीं है, क्योंकि शतपथ श्रुति द्वारा मन्त्र का व्याख्यान भिन्न प्रकार से किया गया है । मघवा का अर्थ वहाँ इन्द्र किया गया है । शतपथ श्रुति से विरुद्ध होने के कारण यहाँ प्रदर्शित अर्थ त्याज्य है ॥ ४ ॥
मन्त्रार्थ - हे मघवन्! आपके अनुग्रह से मैं स्वर्ग और पृथ्वी की स्थापना करता हूँ और इन दोनों के बीच में विस्तीर्ण अन्तरिक्ष को स्थापित करता हूँ । हे इन्द्र! पृथ्वी स्थान वाले और आकाशस्थानीय, अर्थात् द्युलोक में निवास करने वाले देवताओं के साथ तुम्हारी समान रूप से प्रीति है, तुम अन्तर्याम ग्रह से सोमरस का ग्रहण कर स्वयं अपने को और इन सबको तृप्त करो ॥ ५ ॥
पृष्ठ 70
पाठ पढ़ें पाठ छिपाएँ
१६ शुक्लयजुर्वेदसंहिता [ अ ० ७ मघवद्दैवत्या त्रिष्टुप्, अन्तर्यामग्रहणे विनियुक्ता । हे मघवन्निन्द्र, ते तवानुग्रहेणं द्यावापृथिवी अन्तर्दधामि व्यवधायिके करोमि । यद्वा यस्य प्राणरूपापन्नस्य तवान्तः शरीरमध्ये द्यावापृथिव्यौ दधामि स्थापयामि । अन्तर्मध्ये द्यावापृथिव्योर्मध्ये उरु विस्तीर्णमन्तरिक्षं च दधामि । हे मघवन् धनवन्, अवरैः पृथिवीस्थानैर्देवेभिर्देवैः परैर्द्युस्थानैः सजूः समानजोषणः समानप्रीतिः सन्नन्तर्यामे ग्रहे मादय स्वात्मानं हर्षयस्वान्यानपि हर्षयस्व, यद्वा तृप्यस्व, तृप्तौ चुरादिरात्मनेपदी । देवेभिरित्यत्र ' बहुलं छन्दसि ' ( पा ० सू ० ७ | १ | १० ) इत्यैसोऽभावे ' बहुवचने झल्येत् ' ( पा ० सू ० ७।३।१०३ ) इत्येकारः । शतपथे तदेवोक्तम् – ' अन्तस्ते द्यावापृथिवी दधामि । अन्तर्दधाम्युर्वन्तरिक्षं सजूर्देवेभिरवरैः परैश्चेति तदेनं वैश्वदेवं करोति तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदानत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवोऽन्तर्यामे मघव-न्मादयस्वेतीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्नित्यथ यदन्तरन्तरिति गृह्णाति गृह्णात्यन्तस्त्वात्मन् दध इत्येवैतदाह ' ( श ० ४ | २ | १ | १६ ) । विहितमन्तर्यामग्रहणमनूद्य तत्र मन्त्रं विनियुज्योपयामगृहीतोऽसीति पञ्चधा विभागेन मन्त्रं संस्काराय व्याचष्टे स्वमेव श्रुतिः । ग्रहणादिख रासादनान्तप्रयोग कथनानन्तरमित्यथ-शब्दार्थः । अन्तस्ते द्यावापृथिवी दधाम्यन्तरिति तदेनं वैश्वदेवं करोतीति तेन मन्त्रपठनेनैनं ग्रहं विश्वेदेवोपकारकं करोति । कथमिति चेत्, लोकत्रयस्य तदन्तर्वर्तिपरापरदेवानां चैतद्ग्रहमध्ये स्मरणात्मके निधानेन ते पराश्वा- | वराश्च सर्वे देवा अव्याहतप्राणोदानवृत्तयो यतोऽन्तरिक्षेण सुखिनश्चरन्ति, अतो विश्वेदेवोपकारकताऽस्य ग्रहस्य मघवन् ' तृतीयार्थे ' ( पा ० सू ० १।४।८५ ) इत्यनुः कर्मप्रवचनीयः, तद्योगादन्तरिक्षमिति द्वितीया । अन्तर्यामे मन्त्रे मादयस्व, इन्द्रो वै मघवानिति तस्य यज्ञं प्रति नेतृत्वादात्मनः प्राणने स सम्बोध्यते । अत्र समस्ते योऽयमन्तरन्त इत्यसकृत्प्रयोग:, तेन हे सोमात्मक उदान, त्वामहमात्मन्यन्तः स्थापयामीत्युच्यते । हे उदानात्मक सोम, त्वमिमं सोममन्तरे नियमय रक्ष च । अस्मिन् यज्ञे प्रवर्ग्यार्थस्य च पयसो दोग्ध्रीर्गाश्च रक्ष । यथा च लोकाः स्थापयामि । हे मघवन्, स्वर्गमर्त्यलोक-सर्वेऽमुना सोमेन यजन्ते तथा कुरु । हे सोम, त्वय्येव लोकत्रयं प्रणिधानेन वर्तिभिर्देवैः सहास्मिन्नन्तर्यामग्रहे स्वमात्मानं तर्पयेति समस्तस्य मन्त्रस्यार्थः । यद्यपि श्रुतिसूत्रसम्मत एव मन्त्रार्थो युक्तस्तथापि ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो ० १ २ १५ ), ' वेदैश्च सर्वैरहमेव वेद्यः ' ( भ ० गी ० १ ९ । १५ ) इति श्रुतिस्मृतिभ्यां ब्रह्मात्मपरत्वं मन्त्राणां सम्भवत्येवेति हे मघवन्निन्द्र परमेश्वर, ते तवान्तर्मध्ये द्यावापृथिव्यौ दधामि चिन्तयामि । उरु विस्तीर्णमन्तरिक्षं च तवान्तर्दधामि चिन्तयामि । यथा दर्पणे सूर्यचन्द्रनक्षत्रमण्डलादिसहितमा काशादिकं प्रतिबिम्बते तथैव चिद्रूपे स्फारे द्यावापृथिव्यौ उर्वन्तरिक्षं तत्स्थानि सर्वाणि वस्तूनि च प्रतिबिम्बन्यायेन विभान्ति । हे मघवन्, अवरैर्भूमिष्ठैः परैर्द्युलोकस्थैश्च देवेभिर्देवैः समानजोषणः समानप्रीतिश्च सन् यमानामहिंसा सत्यास्तेयब्रह्मचर्यापरिग्रहलक्षणानां समूहो यामस्तस्मिन् यामे, अर्थाद् यमनिमित्तमन्तर्मम हृदये मादयस्व मां देवांश्च हर्षयित्वा हृष्टो भव । भाष्यसार - ' अन्तस्ते ' यह ऋचा भी अन्तर्याम ग्रह के ग्रहण में विनियुक्त की गई है । शतपथ श्रुति में याज्ञिक प्रक्रिया के विनियोगानुकूल मन्त्रार्थ उपदिष्ट है । यद्यपि श्रुति तथा सूत्रों से संमत हो मन्त्रार्थ युक्त है, तथापि ' सभी वेद जिसके स्वरूप का वर्णन करते हैं ' तथा ' समस्त वेदों के द्वारा मैं ही ज्ञातव्य हूँ ' इत्यादि श्रुति एवं स्मृति के वचनों से मन्त्रों का ब्रह्मात्मपरक अर्थ होना सुसंभव ही है | अतः यह अर्थ है - हे परमेश्वर, आपके अन्तर्गत मैं द्युलोक तथा पृथिवी को समझता हूँ तथा विस्तीर्ण अन्तरिक्ष को