वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 71–80
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 71–80
पृष्ठ 71
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] दार्थपारिजात भाष्यसहिता १७ दयानन्दस्तु – ' हे मघवन् योगिन् अहं परमेश्वरस्ते तव अन्तः शरीरमध्ये द्यावापृथिवी भूमिसूर्याविव विज्ञानादिपदार्थान् दधामि । उरु बहु अन्तरिक्षमन्तरालाकाशमन्तर्दधामि । सजूमित्र इव देवेभिर्विद्वद्भिरवरैनिकृष्टैः आन्तरे नियमसमूहे, परैरुत्तमैर्व्यवहारैश्च सह अन्तर्यामे, यमानामयं यामः, अन्तश्चासौ यामश्चेत्यन्तर्यामस्तस्मिन् मानाभावात्, मघवन् धनितुल्ययोगिन्, मादयस्व हर्षयस्व ' इति, तदपि यत्किञ्चित्, मघवन्नित्यस्य योग्यर्थकत्वे भूमिसूर्ययोः शरीरमध्ये कथमवस्थानमिति साधयित्वैव तद्दृष्टान्तेन विज्ञानादिपदार्थानामन्तःस्थापनत्वोक्तिः सम्भवति । न च तत्साधितम्, घट इव शरीरेऽपि द्यावापृथिव्योरसम्भवात् । अन्तरालाकाशमात्रस्यान्तः परमेश्वरस्तव स्थापयितव्यत्वे उरु इति विशेषणं व्यर्थमेव स्यात् । देहमध्यवर्त्यन्तरालाकाशस्यैव तत्त्वेऽहं श्रुतम् । तदपहाया-योगिनोऽन्तः स्थापयामीत्युक्तेरपार्थकत्वमेव । देवेभिरित्यस्य विशेषणत्वेनावरैः परैश्चेति निकृष्टव्यवहारस्यान्तर-श्रुतव्यवहारपदमध्याहृत्य तस्य विशेषणत्वेन तयोर्योजनमयुक्तमेव । न च निकृष्टविदुषां ' हर्षयस्व ' इत्यर्थ उक्तः, नियमसमूहे वर्तमाने करणत्वं सम्भवति । पदार्थव्याख्याने ' मादयस्व ' इत्यस्य तु नोक्तम् । भावार्थे तु कर्मनिर्देशस्तु तत्र नास्त्येव । हिन्दीभाष्ये तु ' प्रयत्नं कुरु ' इत्युक्तम्, तत्कथमिति ब्रह्माण्डे यादृशा यावन्तः पदार्थाः दयानन्दः सर्वतो विलक्षणमसम्बद्धं च वक्ति । तथाहि - ' ईश्वर उपदिशति इति । एवंविधो भावो न सन्ति, तादृशास्तावन्तो मम ज्ञाने वर्तन्ते । योगविद्यादिरहितस्तान् द्रष्टुं न शक्नोति ' मन्त्रगतपदैः कथमप्यानेतुं शक्यते ॥ ५ ॥
स्वाङ्कृतोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यः॒ः दि॒व्येभ्यः॒ः पार्थिवेभ्यो॒ मन॑स्त्वाष्टु स्वाहा॑ त्वा सुभव सूर्या॑ दे॒वेभ्य॑स्त्वा मरीच॒भ्य॑ उदा॒नाय॑ त्वा ॥ ६ ॥
आकाश प्रतिविम्बित होता है, भी आप में ही देखता हूँ । जिस प्रकार दर्पण में सूर्य, चन्द्रमा, नक्षत्र मण्डल आदि के सहित समस्त वस्तुएँ प्रतिबिम्बन्याय से उसी प्रकार चिद्रूप परमेश्वर में द्यावापृथिवी, विस्तृत अन्तरिक्ष तथा उनमें स्थित अन्य के साथ समान प्रीतियुक्त होकर, प्रदर्शित होती हैं । हे मघवन् भूमि पर स्थित तथा द्युलोक में अवस्थित देवताओं हृदय में आप मुझे तथा देवताओं को अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य आदि यमों के समूह याम में, अर्थात् यमनिमित्तक मेरे आनन्दित करते हुए प्रहृष्ट रहें । स्वामी दयानन्द द्वारा निरूपित अर्थं ग्राह्य नहीं है, है | अवरैः परैः – ये दोनों पद ' देवेभिः ' शब्द के विशेषण के ' व्यवहार ' शब्द का अध्याहार करके उसके विशेषण के रूप में ' मादयस्व ' पद का अर्थं ' हर्षित करो ' यह बताया गया है । सबसे विलक्षण असम्बद्ध अर्थं कहा गया है । इस प्रकार का सकता ॥ ५ ॥
क्योंकि ' मघवन् ' शब्द का योगी अर्थ करने में कोई प्रमाण नहीं रूप में मन्त्र में स्पष्ट निर्दिष्ट हैं । इसको छोड़ कर अपठित इन दोनों पदों को लगाना अनुचित है । पदार्थव्याख्या में निर्देश तो है ही नहीं । भावार्थ में तो परन्तु वहाँ कर्म का भाव मन्त्र के पदों से तो किसी भी प्रकार नहीं लाया जा चतुष्पद और विध्य प्राणियों सूर्य रूप प्रजापति की प्रीति के मरीचियों का पान करने वाले मन्त्रार्थ - हे प्राणरूप उपांशु ग्रह! सम्पूर्ण इन्द्रियों से, सम्पूर्ण पार्थिव द्विपद, तुम स्वयं प्रादुर्भूत हो । मन प्रजापति तुम्हारा आधिपत्य करें । हे प्रसंशित जन्म वाले! निमित्त तुम्हारी आहुति देता हूँ । हे सुन्दर अन्तर्याम ग्रह! इस स्थान में स्थापित करता हूँ ॥ ६ ॥
देवताओं के लिये और उदान देवता की प्रीति के लिये मैं तुमको सूर्य के लिये, सूर्य की ३
पृष्ठ 72
पाठ पढ़ें पाठ छिपाएँ
१८ शुक्लयजुर्वेदसंहिता [ अ ० ७ स्वाङ्कृत इति मन्त्रेण निःशेषस्यैवान्तर्यामस्थसोमरसस्यैव होमस्तिष्ठतः ' प्रथमे च न्युब्जेन पाणिना प्रत्यगिति ' ( का ० श्र ० ९ ६ ४ ) । प्रथमे परिधावधोमुखेन हस्तेन प्रत्येक संस्थमुपमाष्टि। उदानाय वेत पात्रासादनम् । उदानसन्तोषार्थं त्वां सादयामीति मन्त्रार्थः । व्याख्यानं तु पूर्ववदेव । ' तं गृहीत्वा परिमाष्टि ' ( ० ४।१।२।१७ ) इत्यादिकं तूपांशुग्रहतुल्यमेव । तत्रत्यप्राणपदस्थानेऽत्रोदानपदमित्येव विशेषः । उपांशोरभिचारे सादनविधानं च नान्यत्रेत्युक्तम् । उभयमन्तर्यामेऽपि तथेत्याह -- ' स यद्युपाशुं सादयेदिति ' ( श ० ४।१।२।१८ ) । ' ता उ ह चरवा नानैव मन्त्राभ्यां जुह्वति प्राणोदानौ वा अस्यैतौ नानावीयौं प्राणोदानौ कुर्म इति वदन्तस्तदु तथा न कुर्याद् मोहयन्ति ह ते यजमानस्य प्राणीदानावपीद्वा एनं तूष्णीं जुहुयात् ' ( श ० ४।१ २ ।१ ९ ) । चरक-शाखिनस्तौ उपांश्वन्तर्यामग्रही भिन्नाभ्यां मन्त्राभ्यां जुह्वति । तथा जुह्वतां तेषामाशयः -- एतौ ग्रहो यजमानस्य प्राणदानौ । निर्गमनकर्मा प्राणः, प्रवेशकर्मा चोदानः । भिन्नव्यापारत्वाद् भिन्नमन्त्रकरणेन एतौ ग्रहो प्राणापाना-त्मको कुर्म इति । तदु तथा न कुर्यादिति तन्मतापाकरणम् । ' नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु विधेयं स्तोतुम् ' इति न्यायेन स्वशाखीयकर्मप्रशंसार्थमेव चरकशाखीयपक्षनिन्दनम् । एकस्यैव सतः प्राणस्य वृत्तिभेदा-नानात्मनोः प्राणदानयोर्नानामन्त्रकरणेन स्वरूपभेदजननाय व्याकुलीकरणं यद् द्वेधाकरणम् । अपि वा एनं तूष्णीं जुहुयात् । न तु भिन्नाभ्यां मन्त्राभ्यां जुहुयात् । न चैवं मन्त्रैकतया होमस्य वैकल्यम्, उपांशोर्मन्त्रवत्त्वेनैवास्यापि तत्सिद्धेः । किञ्च यद्युपांशुमन्त्रान्मन्त्रान्तरेणान्तर्यामः क्रियेत, तथाप्युपांशुमन्त्रेण कृत एव, उभयोरैक्यात् । यदा त्वमन्त्रकः क्रियेत, तदा विरोधिमन्त्रान्तराभावत्वेनैव मन्त्रेण कृत इति किमु वक्तव्यम्? एक एव हि स ग्रहः, प्राणोदानात्मकत्वात् तयोश्च प्राणवृत्तिभेदमात्रात्मकत्वात् । तदेवोच्यते श्रुत्या - स यद्वा उपाशुं मन्त्रेण जुहोति तदेवास्यैषोऽपि मन्त्रेण हुतो भवति किमु तत् तूष्णीं जुहुयात् समान ह्येतदुपाश्वन्तर्यामी प्राणोदानौ हि ' ( ० ४।१।२।२० ) । यदि त्वमन्त्रकत्वानुशयपरिहाराय मन्त्रेणैवायं कर्तव्य इति निर्बन्ध:, तर्हि येनैवोपांशुः क्रियते, तेनैव स्वाङ्कृत इत्यादिमन्त्रेणायमिति । अस्य च यजुष उपांशुग्रहलक्षणस्वार्थेन सह यो बन्धुसम्बन्ध उक्तः, स एव प्राणद्वारा तदात्मकस्यान्तर्यामस्यापीति पृथगनुक्तोऽप्युक्त एवेति मन्तव्यम् । तदेवोक्तम् -- ‘ स येनैवोपाशुं मन्त्रेण जुहुयात् तेनैवैतं मन्त्रेण जुहोति स्वाङ्कृतोऽसि विश्वेभ्य सूर्याये -त्युक्तो यजुषो बन्धुः ' ( श ० ४।१।२।२१ ) | ' अथ हुत्वावाचं ग्रहमवमाष्टि । इदं वा उपा ७७ हुत्वोर्ध्वमुन्माष्टर्घ-थात्रावाश्ञ्चमवमाष्टि प्रत्यचमेवास्मिन्नेतदुदानं दधाति ' ( श ० ४।१।२।२२ ) । ' अथ नीचा पाणिना । मध्यमे परिधौ प्रत्यगुपमाष्टदं वा उपा ७७ हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमायथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमाष्ट प्रत्यचमेवास्मिन्नेतदुदानं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति सोऽसावेव बन्धुः ' ( ० ४।१।२।२३ ) । उपांशोरुन्मार्जनं यथा विहितं तद्वैलक्षण्यमन्तर्यामे सोपपत्तिकं विधत्ते - अथ हुत्वेति । अन्तर्यामं हुत्वाऽवमाष्टि । उपांशौ उन्मार्जनमुक्तम् । उदानस्य प्रत्यग्विधानं ह्यन्तर्यामावमार्जनप्रयोजनम् । मध्यमे परिधौ अवाङ्मुखेन पाणिना प्रत्यगन्तर्याममुपमृज्यात् । यत एतद्विपरीतमुपांशावुपमार्जनम् । अन्तर्यामस्य मन्त्रं विधाय स्तौति - ' तं प्रत्याक्रम्य सादयति । उदानाय त्वेत्युदानो ह्यस्यैष तानि वै स स्पृष्टानि सादयति प्राणोदानानेवैतत् स ७ स्पर्शयति प्राणोदानान् सन्दधाति ' ( श ० ४। १ ।२।२४ ) | यतोऽन्तर्याम उदानोऽतस्तत्सादने भाष्यसार- - ' स्वाङ्कतोऽसि ' इस कण्डिका से अन्तर्याम ग्रह का होम, तदनन्तर पात्रासादन आदि कर्म अनुष्ठित किये जाते हैं । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ९ / ६ / ५ ) में प्रतिपादित
पृष्ठ 73
पाठ पढ़ें पाठ छिपाएँ
म ० ६-७ ] वेदार्थपारिजातभाष्यसहिता १ ९ उदानाय त्वेति मन्त्रः । सादने विशेषं विधाय स्तौति - उपांश्वन्तर्यामोपांशुसवनानि परस्परं यथा सन्ध्यात्म- संस्पृष्टानि भवन्ति तथा सादयेत् । तस्य च प्रयोजनं प्राणोदानव्यानानां सदा संगत्याऽवस्थापनम् । प्राणोदानयोः कतया व्यानोऽपि ताभ्यामेव गृह्यते, ' अथ यः प्राणापानयोः सन्धिः स व्यानः ' ( छा ० उ ० १ ३ ३ ) इति श्रुतेः । ' तानि वा अनियमानानि शेरे सवनः ' ( श ० ४। १ ।२।२६ ) | आसादितानां त्रयाणां तृतीयसवनपर्यन्तमव्यापारं तत्र हेतुमाह -- तानीति । अनि यमानान्यव्याप्रियमाणानि शेरे शेरते । यथा मनुष्याः मध्यभागस्तथा कियन्तं कालं यज्ञस्य सुप्त्वा प्रबुद्धयन्ते, तदा अनलसा व्याप्रियन्ते । पक्षिरूपता यज्ञस्योच्यते - यथा पक्षिणः पक्षौ तिष्ठन्ति । तृतीय-उपांश्वन्तर्यामी पक्षी, उपांशुसवनो मध्यभागः । उपांश्वादीनि तृतीयसवनपर्यन्तं निर्व्यापाराणि । पात्राणि नैकत्रासादितानि सवने च तैः स यज्ञस्तायते । यज्ञस्य विस्तार एव प्रबोधो यज्ञपक्षिणो गमनम् पक्षो विक्षिप्य पक्ष्यन्तर-तिष्ठन्ति, किन्तु तत्र तत्र व्याप्रियन्ते । तदेतद्यज्ञपक्षिणो लौकिकपक्षवतः प्रबोधानन्तरं प्राशस्त्यमाह -सङ्गमवियुक्तं वियति विष्कम्भेण गमनम् । आसादितानामुपांश्वादीनां त्रयाणां लोकत्रयात्मकत्वेनापि उदानो ह्यन्तर्यामोऽमु ' इयं ह वा उपाशुः । प्राणो ह्युपा ७ शुरिया ह्येव प्राणन्नभि प्राणित्यसावेवान्तर्याम ह्येव व्यनन्नभिव्यनिति ' ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपाशुसवनो व्यानो ह्युपाशुसवनोऽन्तरिक्ष । अन्तर्यामो द्युलोका-( श ० ४।१।२।२७ ) । उपांशुर्भूलोकात्मकः । स च प्राणात्मकः, भुवमेवाश्रित्य सर्वे प्राणन्ति जीवनहेतुः । जीवन्तश्च सर्वे त्मकः, स ह्युदानात्मकः । उदानश्चार्वाग्वृत्तितया प्राणोत्क्रमणप्रतिबन्धकत्वेन उदानात्मकः । उपांशु-यागदानादिभिरमुं लोकं साधयाम इत्येव जीवन्ति । अमुं लोकं लक्षयित्वोदनन्तीत्यसौ लोक सवनोऽन्तरिक्षलोकात्मकः । स च प्राणोदानसन्धिरूपो व्यानात्मकः । व्यानव्यापाराणामृक्सामाभिव्याहाराग्नि- निष्पत्तेः । मन्थनाजिसरणदृढधनु रायमनादीनामप्राणताऽनपानता चैवं भ्रियमाणानामन्तरिक्षलोकमाश्रित्यैव ' ( पा ० सू ० अन्तरिक्षलोकोऽपि व्यानात्मकोऽत उपांश्वादित्रयस्य लोकत्रयात्मकतया प्राशस्त्यम् । ' अभिरभागे १।४।९ ४ ) इत्यन्तर्लक्षणे कर्मप्रवचनीयत्वेन तद्योगादमुमन्तरिक्षमित्यादौ द्वितीया ॥ ६ ॥
आ वोयो भूष शुचिपा उप॑ नः स॒हस्रं ते नि॒युतो॑ विश्ववार ।
उपा॑ ते॒ अन्ध॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे प॑र्व॒पेयं॑ वा॒यवे॑ त्वा ॥ ७ ॥
‘ ऐन्द्रवायवं गृह्णात्यावायविति ' ( का ० श्र ० ९ २२६ | ६ ) । ऐन्द्रवायवे ग्रहेँ इन्द्रवायुदेवताकं सोमं । हे शुचिपाः धारातो, गृह्णीयात् । वायुदेवत्या त्रिष्टुप् वशिष्ठष्दृष्टा । सायणाचार्यरीत्या हे वायो, त्वमागत्य ग्रहानलङ्कुरु पवित्रस्य सोमस्य पातः, नोऽस्मानुपागच्छ । हे विश्ववार, तव सहस्रं नियुतोऽश्वाः सन्ति । वायोरश्वस्य! नियुत शुचि इति नाम । तवाश्वानां सहस्रमस्ति । यद्वा त्वदीयमश्वसहस्रं नितरां युतम् । यद्वा हे वायो हे शुचिपाः पवित्रं प्रथमं वषट्कृतमप्राप्तमन्यदेवैः सोमं पिबतीति शुचिपाः पवित्रसोमपाने त्वं नोऽस्माकमुप समीपे इति मखे चेत्, आभूष सहस्रं आक्रमस्व, आगच्छेत्यर्थः । ' भूष अलङ्कारे ' इह तु गत्यर्थः, धातूनामनेकार्थत्वात् । केनाहमाक्रम इस मन्त्र का अर्थ पूर्व ( ७ ३ ) में ही उपदिष्ट है । अतः पूर्वोक्त अर्थ की भाँति यहाँ भी व्याख्यान समझना चाहिये || ६ || मन्त्रार्थ हे पवित्र पानकारी वायु देवता! पास भिजवाता हूँ । हे दीप्यमान वायु! जिस सोम के उसी को इस समय मैं तुम्हारे पास उपस्थित करता तुम हमारे पास आओ । तृप्तिदायक सोमलक्षण अन्न मैं तुम्हारे प्रथम वषट्कार लक्षण अन्न का तुम सबसे पहले पान करते हो, 1119 11
पृष्ठ 74
पाठ पढ़ें पाठ छिपाएँ
२० शुक्लयजुर्वेदसंहिता [ अ ० ७ ते नियुतो विश्ववार, विश्वं सर्वं वृणोति व्याप्नोति, विश्वैर्वा व्रियते प्रार्थ्यत इति विश्ववारः, तत्सम्बुद्धौ हे विश्ववार सर्वव्यापक सर्ववरेण्य, ते तव सहस्रं नियुतः सन्ति । ' नियुतो वायो: ' ( निघ ० १ | १५ | १० ) इत्युक्तेनियुच्छब्देन वायुवाहनभूता मृगा उच्यन्ते । तवासंख्याता वाहनभूता मृगाः सन्ति, तैरागच्छेत्यर्थः । निघण्टु ( १११५ ) रीत्या नियुतो वाहनानि वा । किञ्च मद्यं मदनीयं तृष्टिजनक मन्धः सोमलक्षणमन्नं ते तव, उप समीप एव, अयामि गमयामि, सोमं ते समर्पयामीति यावत् । हे देव द्योतमान वायो, यस्य सोमस्य पूर्वपेयं प्रथमवषट्कारलक्षणं पूर्वपानं त्वं दधिषे धारयसि, दधातेलिटि रूपम् । एवं वायुं प्रार्थ्यं सोममाह - हे सोमरस, वायवे वायुदेवतार्थं त्वां गृह्णामीति शेषः । शतपथे विशेषः ' वाग्घ वा अस्यैन्द्रवायवः । एतन्न्वध्यात्ममिन्द्रो ह्यत्र वृत्राय वज्रं प्रजहार सोऽबलीयान् मन्यमानो नास्तृषीतीव बिभ्यन्निलयाञ्चक्रे तदेवापि देवा अपन्यलयन्त ' ( श ० ४। १ । ३ । १ ) । उपांश्वादिप्रयोगानन्तर-मैन्द्रवयवस्य प्रयोगमभिधास्यन् तस्य तदानन्तर्ये कारणमाह - ' वाग्घ वेति । प्राणापानव्यानात्मकं तत् त्रयं व्यानकार्या च वाक्, तत्कार्यंतया तदात्मकश्चैन्द्रवायवो व्यानात्मकोपांशुसवनसृष्ट्यनन्तरमेव सृष्टव, अतो युक्तं तस्य तदानन्तर्यम् । हशब्दः प्रसिद्धौ । वैशब्दस्तां स्मारयति, ' प्राणापानाभ्यामेवोपा ७ श्वन्तर्यामी निरमिमीत व्यानादुपांशुसवनं वाच ऐन्द्रवायवम् ' ( तै ० सं ० १ ९ १४ ) इति श्रुतेः । ननु देहाद्वहिरुपलभ्यमानस्यैन्द्रवायवस्य देहान्तर्वीतिवागिन्द्रियात्मकता कथमिति चेत्तत्राह -- एतन्न्वध्यात्ममिति । द्विविधो ह्येन्द्रवायवः - आधिभौतिकः, आत्म | यो बहिः स आधिभौतिकः, यस्त्वेष वाग्रूपः स आध्यात्मिकः । आत्मनीत्यध्यात्मम् । विधास्यमाने ग्रहे वायोः प्रथमवषट्कारः । तस्य द्विदेवत्यत्वम् । सर्वेषां पात्राणां वायव्य नामेत्यादिव्युत्पादनार्थमाख्यायि-कोच्यते --- इन्द्रो त्रेति । इन्द्रो वृत्रं हन्तुं वज्रं चिक्षेप | ' क्रियार्थोपपदस्य च कर्मणि स्थानिनः ' ( पा ० सू ० २।३।१४ ) इति चतुर्थी । स इन्द्रः कृतप्रहारो न बलवान्, अतो नूनमनेनाहं वृत्रं नास्तृषि न हतवानिति मन्यमान-स्तदागमनाद् भीतः सन् निलीनोऽभूत् । ततस्तस्माद् भयादेव देवा अपन्यलयन्त । न्यलयन्तेति व्यत्ययेन शप् । ' ते ह देवा ऊचुः । न वै हतं वृत्रं विद्मन जीव हन्त न एको वेत्तु यदि हतो वा वृत्रो जीवति वेति ' ( श ० ४।१।३।२ ) । ' ते वायुमब्रुवन् । अयं वै वायुर्योऽयं पवते वायो त्वमिदं विद्धि यदि हतो वा वृत्रो जीवति वा त्वं वै न आशिष्टोऽसि यदि जीविष्यति त्वमेव क्षिप्रं पुनरागमिष्यसीति ' ( श ० ४ | १ | ३ | ३ ) | ( स होवाच । किं ततः स्यादिति प्रथमवषट्कार एव ते सोमस्य राज्ञ इति तथेत्येयाय वायुरैद्धतं वृत्र स होवाच हतो वृत्रो यद्धते कुर्यात्तत्कुरुतेति ' ( श ० ४ | १ | ३ | ४ ) | वृत्रहननसंशये वृत्रो जीवति न वेति न ज्ञायते । अस्माकमेको गत्वा जानाविति ते देवा ऊचुः । देवैराशुतरत्वेन ज्ञातुं नियुक्तो वायुस्ततो गमनान्मे किं फलं स्यादिति वरं वव्रे । सोमरसात्मकस्य हविषः सम्बन्धिनि यस्मिन्नैन्द्रवायवे ग्रहे प्रथमं वषट्क्रियते स प्रथमवषट्कारः सोमांशस्तव भाग इति । तथेत्युक्त्वा वायुर्देवेभ्यो निरगच्छत् । हतं वृत्रं च प्राप । पुनरागत्य हतो वृत्रः, हते यद्विभजनाय सोमग्रहविभागादिकं कर्तव्यं तत्कुरुतेति तेभ्यो न्यवेदयत् । ' ते देवा अभ्यसृज्यन्त । यथा वित्ति वेत्स्यमाना एव स यमेकोऽलभत स एकदेवत्योऽभवद्यं द्वौ स द्विदेवत्यो यं बहवः स बहुदेवत्यस्तद्यदेनं पात्रैर्व्यगृह्णन् तस्माद् ग्रहा नाम ' ( श ० ४ | १ | ३ | ५ ) । ते देवाः सोममभिलक्ष्य असृज्यन्त अन्तरिक्षं गतवन्तो यथा वित्ति वेत्स्यमानाः । विद्यते लभ्यत इति वित्तः प्राप्तव्योऽर्थः । तं येन प्रकारेण विभजन्ते, एवं हि स सोमग्रहविभागस्तं विभागं वेत्स्यमानास्तत एवं ज्ञातवन्तः । यं ग्रहं महेन्द्रादिरेकोऽलभत स माहेन्द्रादि रेकदेवत्यः । यं द्वौ स आश्विनादि -द्विदेवत्यः । यं बहवः स वैश्वदेवादिबहुदेवत्यः । तदा एनं सोमं यस्मात् कारणात् पात्रैविभज्य देवा अगृह्णन्, भाष्यसार --- ' आ वायो ' इस ऋचा से ऐन्द्रवायव ग्रह का ग्रहण किया जाता है । यह याज्ञिक विनियोग कात्यायन
पृष्ठ 75
पाठ पढ़ें पाठ छिपाएँ
म ० ७ ] तस्मात् तानि पात्राणि ग्रहा इति प्रसिद्धाः । वेदार्थपारिजातभाष्यसहिता २१ आस नालं भक्षाय ' ( श ० ४।१।३।६ ) । ' ते ‘ स एषामपूयत । स एनाञ्छुक्तः पूतिरभिववौ स स नालमाहुत्या होवाच कि मे ततः स्यादिति त्वयैवैतानि पात्राण्या-देवा वायुमब्रुवन् । वायविमं नो विवाहीमं न स्वदयेति ' ( श ० ४ | १ | ३ | ७ ) । एषां सम्बन्धी स गृहीतः सोमः चक्षीरन्निति तथेति होवाच यूयं तु मे सच्युपवातेति प्रत्याजगाम । आहुत्यर्थं हृतशिष्टभक्षणार्थं वा दुर्गन्धत्वेन स पूतिगन्धोऽभवत् । स पर्युषितः पूतिगन्धिरेनान् देवान् सोमं विवाहि विगतदुर्गन्धं कुरु, अस्मभ्यमिमं रोचये-सोमरसो योग्यो नासीत् । ते देवा वायुमब्रुवन्, वायो इमं । तथेत्यङ्गीकृत्य यूयं मे सर्वे सचि सहायकाः त्यूचुः । तेन च वरे वृते तन्नाम्ना पात्राणां व्यवहारं प्रायच्छन् गन्धस्यापजघ्नुस्तं पशुष्वदधुः स एष पशुषु स्थिता वातोपकारिणं व्यापारं कुरुतेत्याह । ' तस्य देवा यावन्मात्रमिव राज्ञो गन्ध: ' ( श ० ४।१२।२।८ ) । ' नो एव निष्ठीवेत । कुणपगन्धस्तस्मात् कुणपगन्धान्नापिगृह्णीत सोमस्य सोमः हैष पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान् प्रत्यवरोहे-तस्माद्यद्यव्यासक्त इव मन्येताभिवातं परीयाच्छ्रीर्वे सोमस्य सम्बन्धिनो गन्धस्य यावन्तं दोषांशं देवा देव ँ हास्माद्यक्ष्मा प्रत्यवरोति ' ( श ० ४ १ ३३ ९ ) । तस्य दृश्यमानः स्वेदादिनिबन्धनो दुर्गन्धः । तत्कि प्रयोग-अपनीतवन्तस्तं पशुषु प्राणिषु स्थापितवन्तः । स एष प्राणिषु चायुक्ता, यतोऽसौ पशुषु क्षिप्तोऽपि क्षेपात् प्राक् सोमस्य मध्ये स्वेदादिनिबन्धने तस्मिन् गन्धे जुगुप्सा कृता, सा | मुखगतस्य परिहाराय निष्ठीवेदिति? नापि राज्ञो गन्धो जातः । तदनाप्राणाय वस्त्रादिना नासिकाऽऽच्छादनीया । यथा तस्माद्दीक्षितेनापिगृह्यष्ठीवितव्यमित्यादावपि गृह्णीतात्, न निष्ठीवेत् । अपिपूर्वको गृह्णातिराच्छादने वर्तते सा चायुक्ता । यतः पशुषु क्षेपात् प्राक् सोमस्य राज्ञो ग्रहणनिष्ठीवनाभ्यां हि तस्मिन् गन्धे जुगुप्सा कृता स्यात् । अतोऽपवित्रेण गन्धेन आसमन्तात् सक्तं व्याप्तमात्मानं गन्धः, अतः पिधाननिष्ठीवनाभ्यां सोम एवावज्ञातः स्यात् । तेन च तमपनीय प्रयुञ्जीत । न पुनस्तमपवित्रगन्धं मन्येत तदा तत्परिहाराय पक्षिण इव प्रवातप्रदेशमासेवेत, अपवित्रगन्धः पुनर्व्याधिरूपः पाप्मा । तथा च सहमानेनैव प्रयोगो निष्पादनीयः । यतः साक्षाच्छ्रीरूपः सोमः स्थितः पापीयान् एवं सोमे राजन्यागच्छति सति प्रशस्ततरे राजादावागच्छति सत्युन्नतं पर्यङ्कप्रासादादिकमारुह्य । तदस्वक्ष्यत्ततोऽलमाहुत्या आसालं भक्षाय प्रवातसेवया प्रत्यवरोपितो भवति स गन्धः । ' अथेतरं वायुर्व्यवात् सोमस्य राज्ञ एतान्यु एतेन तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते सोऽस्यैष स्थितं प्रथमवषट्कारश्च सोमं वायुर्व्यवात् स यथा विशिष्टरस-पात्राण्याचक्षते ' ( श ० ४। १ । ३ । १० ) । अनन्तरमपनीतगन्धादितरं । तेन च सोमं देवानां स्वादुमकरोत् । ततश्च स सोमो गन्धादियुक्तो भवति तथा व्याप्नोत् ' वा गतिगन्धनयो: ' सोमस्य स्वादूकरणेन च होमाय हुतशिष्टभक्षणाय च शक्यो जातः । यत्तेन वृत्रविनाशविषयप्रियवार्ताकथनेन व्यपदेशमर्हन्ति वायोर्दत्तवरतया वायव्यानि लब्धवरद्वयो वायुः, तस्मादेतानि पात्राणि देवतार्थतया तत्तद्देवैश्च वायोरेव जातः । इदानीमपि च याज्ञिकास्तत्त-चोच्यन्ते । स एष इदानीमपि क्रियमाणः प्रथमवषट्कारश्वास्य देवत्यानि च पात्राणि वायव्यानीत्याचक्षते । एनेन ' इन्द्रो ह वा ईक्षाञ्चक्रे । वायुर्वे नोऽस्य यज्ञस्य भूयिष्ठभाग्यस्य प्रथमवषट्कारश्च सोमस्य मा s स्मिन् राज्ञ ग्रहे एतान्यु भजेति कि पात्राण्याचक्षते हन्ताहमस्मिन्नपित्वमिच्छा इति ' ( श ० ४ । २ । ३ । ११ ) । ' स होवाच वायवा प्रक्रिया के अनुकूल अर्थ श्रौतसूत्र ( ९ ।६।६ ) में निरूषित है । शतपथ श्रुति तथा सायण आदि आचार्यों ने याज्ञिक उपदिष्ट किया है ।
पृष्ठ 76
पाठ पढ़ें पाठ छिपाएँ
२२ शुक्लयजुर्वेदसंहिता [ अ ० ७ ततः स्यादिति निरुक्तमेव वाग् वदेदिति निरुक्तं चेद्वाग् वदेदा त्वा भजामीति तत एव ऐन्द्रवायवो ग्रहोऽभवद्वायव्य हैव ततः पुरा ' ( श ० ४। १ । ३ । १२ ) । नन्वेवं वायोः प्रथमवषट्कारवर लाभाद्वायव्योऽस्तु ग्रहः, कुत ऐन्द्रवायव इति चेदत्रोच्यते - वायावेवं दत्तवरे इन्द्र ईक्षाञ्चक्रेऽस्मदीयेष्वस्मासु ज्यायस्सु स्थितेषु यस्य वायोः कनीयसः प्रथमो भागः, अस्मन्नामान्यपनीय पात्राण्यपि वायव्यानीति वायुनाम्ना व्यपदेशश्चेत् तर्हि किंकर्तव्यमिति विचार्य कर्तव्यनिश्चयलाभाद् हृष्ट आह - हन्त यद्यप्यैन्द्राग्नेऽग्निना सह मम भागोऽस्ति, उक्थ्यमरुत्वतीयादौ ममैवासाधारणो भागोऽस्ति, तथापि त्वं तेभ्योऽन्यं भागमस्मिन् प्रथमग्रहेऽप्यहमिच्छे | इच्छतेर्व्यत्ययेन आत्मनेपदे लोडुत्तमैकवचनम् । इत्थमिच्छत्वा हे वायो, अस्मिन् ग्रहे मा मां मम भागं देहीत्युवाच । ततो भाग प्रदानान्मम किं फलं स्यादिति वायुनोक्ते वरमिन्द्रो ददौ निरुक्तमेव वाग्वदेत् । तं च वरं वाचाङ्गीकृतवति तद्वरप्रदानात् पूर्वं वायुदेवत्योऽपि स ग्रह इन्द्रसम्बन्धेनैन्द्रवायवोऽभवत् । निरुक्तं नाम निःशेषमुक्तं विस्पष्टमित्यर्थः । अत एव देवताविशेषरूपस्यार्थस्य प्रत्यायनेनाविस्पष्टाया ऋचः प्राजापत्यत्वमन्यत्र श्रूयते - ' अनिरुक्तया प्राजापत्यया गृह्णाति ' । यद्वा - परा- पश्यन्ती - मध्यमा वैखरीति चतुरवस्था वागवतिष्ठते । तत्र पूर्वस्मिन् वागवस्थाभेदे उत्तरोत्तरस्याभावात् सावशेषत्वम्, वैखर्यं तु परादीनामपि तिसृणां संग्रहेण निःशेषत्वान्निरुक्तत्वम् । ' स इन्द्रोऽब्रवीत् । अर्धं मेऽस्य ग्रहस्येति तुरीयमेव त इति वायुरर्धमेव मे तुरीयमेव त इति वायुः ' ( श ० ४ | १ | ३।१३ ) । ' तौ प्रजापति प्रति प्रश्नमेयतुः । स प्रजापतिर्ग्रह द्वेधा चकार स होवाचेदं वायोरित्यथ पुनरधं द्वेधा चकार स होवाचेदं वायोरितीदं तवेतीन्द्रं तुरीयमेव भाजयाञ्चकार यद् द्वे चतुर्थे तत्तुरीयं तत ऐन्द्रस्तुरीयो ग्रहोऽभवत् ' ( श ० ४।१।३।१४ ) | एवं विवदमाना इन्द्रवायू प्रजापति पृच्छाव इति तत्समीपमगमताम् । स च तं ग्रहं विभज्य इन्द्रं चतुर्थांशेन भागिनमकरोत्, अवशिष्टेन तु वायुमिति । ' तस्य वैतस्य ग्रहस्य | द्वे पुरोरुचौ वायव्यैव पूर्वेन्द्रवायव्युत्तरा द्वे अनुवाक्वे वायव्यैव पूर्वोन्द्रवायव्युत्तरा द्वौ वायव्य एव पूर्व ऐन्द्रवायव उत्तरो द्वे याज्ये वायव्यैव पूर्वेन्द्रवायव्युत्तरैवमेनं तुरीयं तुरीयमेव भाजया-कार ' ( श ० ४।१।३।१५ ) । इन्द्रवाय्वोः स्वकीयग्रहभागानुसारेण ग्रहाङ्गभूतानामपि मन्त्राणां विभागो जातः । पुरोरुचौ वायव्यैव उपयामगृहीतोऽसीत्यस्मात् पूर्वं ग्रहप्रशंशारूपतद्विषयां रुचि देवतायै करोतीति पुरोरुक् । ण्यन्तात् क्विप्, ' क्विप् च ' ( जा ० सू ० ३१२ | ७६ ) इति णिलोपे, ' णेरनिटि ' ( पा ० सू ० ६ | ४ | ५१ ) इत्यनेन संज्ञापूर्वकस्य विधेरनित्यत्वाद् गुणाभावः । यद्वा अन्तर्भावितण्यर्थात् क्विप् । पूर्वा वायव्या उत्तरा ऐन्द्रवायवा इति सर्वत्रेन्द्रस्य चतुर्थांशभाक्त्वम् | अनुवाक्या प्रेषयाज्यास्वप्येवम् । स होवाच । तुरीयं चेन्मामबीभजंस्तुरीयमेव तह वाङ्निरुक्तं वदिष्यतीति तदेतत् तुरीयं वाचोऽनिरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यशवो वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यद्वयांसि वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यदिदं क्षुद्र सरीसृपं वदति ॥ तस्मादेतदृषिणाभ्यनुक्तम् - - ' चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता ने जयन्ति तुरीयं वाचो मनुष्या वदन्तीति ' ( श ० ४ | १ | ३ | १६ - १७ ) । स्वकीय ग्रहादिभागानु-सारेण वाचश्चतुर्थमेव निरुक्तं स्यात्, ग्रहे सर्वचतुर्थभागस्यैव मदीयत्वाद् वागपि चतुर्थमेव भागं विस्पष्टं वदिष्यति, वाचो विस्पष्टिचतुर्थे भागे वैखरीं वदत इत्यर्थः । परा- पश्यन्ती - मध्यमा वैखरीति चतुरवस्था वाग्भवति । परादीनां तिसृणां देवमध्य एवावस्थानेन परश्रोत्रग्रहणयोग्यत्वाभावादविस्पष्टार्थत्वम् । वैखरी पुनः परश्रोत्रैर्गृह्यतेऽतिवाहितार्थप्रत्यये च समर्थेति विस्पष्टेति । यत इन्द्रेण वैखर्यात्मकं वायुमनु जातं तदिदानीं मनुष्यादिभिस्तदेव व्यवह्रियते । मन्त्रोऽपि तथैवाह - इन्द्रो वाचश्चतुर्थभागं विस्पष्टमन्वजानात् । तस्मादृषिणा मन्त्रेणैवमुक्तम् वाचः पदानि परा- पश्यन्ती मध्यमा वैखरीत्यवस्थाभेदाः, चत्वारि परिमिता परिमितानि ।
पृष्ठ 77
पाठ पढ़ें पाठ छिपाएँ
म ० ७ ] वेदार्थपारिजातभाष्यसहिता २३ यतश्वत्वार्यतः परिच्छिन्नानि । यद्वा वाक्परिमितानि चत्वारि पदानि परिच्छिन्नपराद्यवस्थाभेदरूपचतुष्पदा-त्मिका । पूर्वव्याख्याने ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इत्यादिना षष्ठ्या लुकि वागिति रूपम् । परिमिता इति ' शेश्छन्दसि बहुलम् ' ( पा ० सू ० ६ १७० ) इति जसादेशे शेर्लोपः । ये मनीषिणो विद्वांसस्ते ब्राह्मणास्तानि वाचः पदानि जानन्ति । त्रीणि पदानि पराद्यवस्थाभेदरूपाणि शरीरमध्यरूपायां गुहायां निहितानि नेङ्गयन्ति न चेष्टन्ते, विस्पष्टीभवन्तीति । गुहा इत्यत्रापि सप्तम्या लुक, आकारादेशो वा । चतुर्थमेव रूपं वैखर्यात्मकमिदानीं मनुष्या वदन्ति | मनुष्या इति पश्वादीनामप्युपलक्षणम् । इत्थमाख्यायिकया ग्रहस्य देवतादिकं प्रदर्श्य तस्य समन्त्रकं ग्रहणसंस्कारं विधत्ते – ' अथातो गृह्णात्येव । आ वायो भूष वायवे त्वेति ' ( श ० ४ | १ | ३ | १८ ) । स्पष्टार्थं ब्राह्मणम् । मन्त्रस्तु व्याख्यात एव । अध्यात्मपक्षे - हे वायो, वायुवत् सततगमनशील परिव्राजक, शुचिपाः शुचि गङ्गाजलादिकं पिवतीति शुचिपाः, नोऽस्माकमुप समीपे आश्रये आभूष आगत्यालङ्कुरु । हे विश्ववार! विश्वैः सर्वैव्रियते प्रार्थ्यते त्यागशीलत्वादिति विश्ववारस्तत्सम्बुद्धौ । ते तव सहस्रं नियुतः सहस्रसंख्याकानि वाहनानि सन्ति, तैरागच्छ । त्यागित्वात् सर्वेषामपि वाहनानि तवैव सन्ति । ते तुभ्यं मद्यं तृप्तिकरमन्धोऽन्नादिकम् उप अयामि प्रापयामि । देव द्योतमान! यस्य ते तव पूर्वपेयं पूर्वैः पूर्वजैः पेयं ज्ञानामृतं दधिषे धारयसि, तस्मै वायवे त्वत्प्राप्तये त्वा त्वामहं भक्तः साधक आश्रये । यद्वा हे वायो वायुवेग वायुपुत्र! हे शुचिपाः शुचि जलं पिबतीति शुचिपाः! त्वं नोऽस्माकं हृदयमलङ्कुरु । हे विश्ववार सर्ववरेण्य, ते तव सहस्रं सहस्रसंख्याका नियुतो नितरां युतास्त्वयि स्थिता ज्ञानविज्ञानादयः सहजा गुणाः तैः कृतार्थयेति शेषः । ते तव उप समीपे मद्यं तृप्तिकरमन्धो विविधभोग्यम् अहमयामि मनसा समर्पयामि, यस्य ते तव पूर्वपेयं श्रीरामप्रसादात् पूर्वमेव दधिषे, अतो वायवे वायुरूपाय तुभ्यं हे नैवेद्य त्वामर्पयामि । वायुपदेन समष्टिप्राणात्मको हिरण्यगर्भोऽपि ग्रहीतुं शवयते । ---दयानन्दस्तु – ' हे शुचिपाः! शुचि पवित्रतां पातीति शुचिपा वायो योगिनः सहस्रं नियुतो नियुज्यन्ते ये, तान् निश्चितान् शुभादिगुणान् उप आभूष । हे विश्ववार, सर्वानन्दान् वृणोतीति ते तव सकाशाद् मद्यमन्ध उपो अयामि । हे देव, यस्य तव पूर्वपेयं पूर्वैः पातुं योग्यमिति वाऽस्ति यच्च त्वं दधिषे तद् वायवे त्वा त्वामहं स्वीकरोमि ' इति, तदेतत् सर्वमविचारितरमणीयम् । शुचिपदस्य शुचितेति गौणोऽर्थः । नियुज्यन्ते ये ते कथं नियुतः? ते च शुभगुणादय एव कथम्? कि, ते गुणा ईश्वरस्य चेत्, कथं तैर्योगी अलक्रियते? गुणिनमपहाय गुणानामन्यत्र गमनासम्भवात् । निराकारः कथं मद्यमन्धो योगिनां समीपमुपनयति? पूर्वपेयमित्यस्य अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - हे वायु के समान निरन्तर गमनशील परिव्राजक, पवित्र गंगा आदि नदियों के जल का पान करने वाले आप हमारे समीप आश्रम में आकर उसे अलंकृत करें । त्यागशील होने के कारण सबके द्वारा प्रार्थित आपके हजारों वाहन हैं । उनके द्वारा आप आइये । आपके लिये तृप्तिकारक अन्न आदि मैं निवेदित करता हूँ । है द्योतमान, जो आपके पूर्वाचार्यों के द्वारा संगृहीत ज्ञानामृत आप धारण करते हैं, उनकी प्राप्ति के लिये मैं साधक भक्त आपका आश्रय लेता हूँ । अथवा हे वायुवेग वाले पवनपुत्र, पवित्र रस का पान करने वाले आप हृदय को अलंकृत करें । हे सबके द्वारा काम्य. आपके हजारों निरन्तर संयुक्त ज्ञान - विज्ञान आदि सहज गुण हैं, उनके द्वारा हमें कृतार्थ करें । आपके संमुख तृप्तिकारक विविध भोग्य मैं हृदय से समर्पित करता हूँ, जो श्रीराम के प्रसाद से पूर्व में ही आपने धारण किये हैं । अतः वायुरूपी आपके लिये मैं नैवेद्य अर्पित करता हूँ । वायु शब्द से यहाँ समष्टि प्राणात्मक हिरण्यगर्भ का भी ग्रहण किया जा सकता है । स्वामी दयानन्द द्वारा निरूपित अर्थ अविचारित- रमणीय ही है । शुचि शब्द का शुचिता अर्थ गौण है । निराकार
पृष्ठ 78
पाठ पढ़ें पाठ छिपाएँ
२४ शुक्ल यजुर्वेद संहिता [ अ ० ७ ' पूर्वैर्योगभी रक्षणीयं योगबलं दधिषे ' इत्यपि तथाविधमेव, तादृशेऽर्थे शब्दस्याशक्तत्वात् । नह्यन्यस्य योगबलमन्यो धारयितुं शक्नोति ॥ ७ ॥
इन्द्र॑वायू इ॒मे सुता उप॒ प्रयो॑भि॒राय॑तम् । इन्द॑वो वामशन्ति॒ि हि । उपयागृहीतोऽसि वा॒यव॑ इन्द्रव॒युभ्यां॑ वे॒षं ते॒ योनि॑ः स॒जोषा॒भ्या॑ त्वा ॥ ८ ॥
' अप पुनरिन्द्रवायू इतीति ' ( का ० श्र ० ९ ६ | ७ ) । एकवारमधं गृहीत्वा ततः सन्ततधारातः पात्रं पृथक्कृत्य इन्द्रवायू इति मन्त्रेण तस्या एव धाराया गृह्णीयात् । ऐन्द्रीवायवी गायत्री मधुच्छन्दोदृष्टा । उपयामेति यजुःसहितो मन्त्रः । हे इन्द्रवायू, युष्मदर्थमिमे सोमाः सुता अभिषुताः । वां प्रयोभिरेतैः सोमरसरूपैरन्ननिमित्त-रूपैरुप समीपे युवामागतमागच्छतम् । प्रयुरित्यन्ननाम | यद्वा प्रयोभिः शीघ्रगामिभिरश्वैरागच्छतम् । प्रपूर्वस्य ' इगो ' इत्यस्य शतृप्रत्यये तकारस्य छान्दसः सकारः । हि यस्मादिन्दवः सोमरसाः, वां युवामुशन्ति कामयन्ते । हे सोमरस, त्वमुपयाम ग्रहेण गृहीतोऽसि । वायवे वायुदेवतार्थमिन्द्रवायुभ्यामिन्द्रवायुदेवतार्थं त्वां गृह्णामिति शेषः । हे पात्र, खरस्यैकदेशः स्थानं तव योनिः । अतोऽत्र सजोषोभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यां त्वा सादयामीति शेषः । ' दशापवित्रे परिमृज्यैष ते योनिरिति सादनम् ' इति दशापवित्रे गृहीतं ग्रहं परिमृज्य ग्रहस्य सादनं करोति । द्विदैवत्यग्रहाणां मध्ये ऐन्द्रवायवग्रहस्य प्राथम्यम्, ' वाग्वा एषा यदैन्द्रवायवः ' इत्यादिना तित्तिरिणा बहुधा प्रपचितत्वात् । शतपथे च तदेव स्पष्टीकृतम् - ' अथापगृह्य पुनरानयति । इन्द्रवायू त्वेति यो वैवायुः स इन्द्रो य इन्द्रः स वायुस्तस्मादाह एष ते योनिः सजोषोभ्यां त्वेति ' ( श ० ४। १ । ३ । १ ९ ) । पुनर्ग्रहणं विधत्ते - वायव्य ग्रहणानन्तरमपच्छिद्य पुनरपीन्द्रवायव्यमानयति, गृह्णातीत्यर्थः । तत्र मन्त्रः - इन्द्रवायू इति । इन्द्रवाय्वोरेकस्मिन्नेव ग्रहे हविः स्वीकारादभिन्नत्वमुपचर्यते - यो वै वायुः स इन्द्रो यो वै इन्द्रः स वायुरिति । अध्यात्मपक्षे -- इन्द्रवायू, इन्द्रः परमात्मा रामः, वायुर्लक्ष्मणः, हिरण्यगर्भरूपत्वात् । परापरब्रह्मरूपौ परमेशहिरण्यगर्भो वा । इमे सोमाः सुता अभिषुताः सोमोपलक्षितानि बहूनि निवेदनीयानि नैवेद्यानि प्रस्तुतानि । प्रयोभिरुत्तमवाहनैरुपागतम् उपागच्छतम् । इन्दवः सोमप्रधानानि नैवेद्यानि वां युवामुशन्ति कामयन्ते । हे सोम, तृप्तिकर अन्न को योगियों के समीप कैसे लाया जा सकता है? ॥ ७ ॥
मन्त्रार्थ - हे इन्द्र और वायु देवता! तुम्हारे लिये यह सोम प्रस्तुत है । इस सोमरस रूप अन्न के पान के लिये हमारे समीप आइये । यह सोमरस आपकी प्रसन्नता की इच्छा रखता है । है तृतीय ग्रह के सोमरस! तुम वायु देवता के निमित्त उपयाम पात्र द्वारा ग्रहण किये गये हो । एक साथ विचरण करने वाले इन्द्र और वायु देवता के सन्तोष के लिये तुम्हारा ग्रहण करता हूँ । यह इद्रवायु ग्रह तुम्हारा निवासस्थान है । इन्द्र और वायु देवता की प्रीति के लिये मैं तुम्हें इस स्थान में स्थापित करता हूँ ॥ ८ ॥
भाष्यसार -- ' इन्द्रवायू ' यह ऋचा भी ऐन्द्रवायव ग्रह के ग्रहण में विनियुक्त है । निरन्तर धारा से ग्रहण करते हुए आधे ग्रहण के बाद पात्र को अलग करके पुनः इस ऋचा से उसी धारा से ग्रहण किया जाता है । यह याज्ञिक विनियोग कात्यायन श्रौतसूत्र ( ९ ।६।७ ) में निरूपित है । शतपथ ब्राह्मण आदि में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अयात्मपक्ष में अर्थ इस प्रकार है- हे इन्द्र तथा वायु, अर्थात् परमात्मा राम एवं हिरण्यगर्भात्मक लक्ष्मण, अथवा
पृष्ठ 79
पाठ पढ़ें पाठ छिपाएँ
म ० ८ - ९ ] वेदार्थ पारिजात भाष्यसहिता २५ तदुपलक्षितनैवेद्यसमूह, त्वम् उपयामेन अहिंसादियमसमूहसमीपवृत्तिना प्रेम्णा गृहीतोऽसि । वायवे हनुमते इन्द्रवायुभ्यां श्रीरामलक्ष्मणाभ्यां परमेशहिरण्यगर्भाभ्यां सजोषोभ्यां समानप्रीतिभ्यां त्वां समर्पयामीति शेषः । हे सोम, एष इन्द्रस्ते योनिः कारणम् । तदाराधनमेव तव सदुपयोगः - ' त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ' इति । दयानन्दस्तु - ' हे इन्द्रवायू प्राणसूर्यसदृशौ योगस्योपदेभ्यासिनो, हि यत इमे सुता निष्पन्नाः पदार्था इन्दवः सुखकारका जलादिपदार्थाः, इन्दुरित्युदकनामसु पठितम् ( निघ ० १ | १२ | ८४ ) | वां युवामुशन्ति कामयन्ते । युवामेतैः प्रयोभिः पदार्थः सहैवोपागतम् उपागच्छतम् । हे योगाभीप्सो, वायवे वायुगतिसिद्धये त्वमनेनाध्यापकेन उपयामगृहीतोऽसि योगस्य यमनियमैः सह । हे योगाध्यापक, एष योगस्ते तव योनिर्दुःखनिवारकं गृहमिवास्ति । इन्द्रवायुभ्यां विद्युत्प्राणवायुभ्यां तत्समानाभ्यां योगा कर्षगनिकर्षणाभ्यां जुष्टं प्रीतम्, तथा हे योगाभीप्सो, सजोषोभ्यामुक्तगुणाभ्यां जुष्टं त्वां चाहं वश्मि ' इति । हिन्द्यां तु - आगतमित्यस्य ' अवगतम् अवगच्छतम् ' इत्यर्थः कृतः । तत्सर्वमपि यत्किचित् श्रुतिसूत्रादिविरुद्धत्वात्, गौणार्थाश्रयणगौरवाच्च, प्राणसूर्य सादृश्यस्य योगोपदेष्ट्रभ्यासिनो रनिरूपणात् । कथञ्चित् सादृश्यं तु पतिपत्न्योरप्यस्त्येव । सुता निष्पन्नाः पदार्था इत्यपि निर्मूलमेव । प्रयोभिः कमनीयैरित्यपि चिन्त्यमेव । शिष्योऽध्यापकेन शिष्यत्वेनैव गृह्यते । यमनियमादयः कि शिष्यत्वेन गृह्यन्ते? अन्यथा कथं सहभावः । वायुवद् गत्यादिसिद्धिरपि वायुपदस्य नार्थः, तस्य तत्राशक्तत्वात् । विद्युत्प्राणाभ्यामाकर्षणनिकर्षणयोः कीदृशं सादृश्यमिति नोक्तम् । हिन्द्यां तु समाध्या रोहणावतारणाभ्यामित्युक्तम् । तदर्थमिन्द्रवायुपदप्रयोगस्य कियत् सार्थक्यमिति तु विद्वांसो विदाङ्कुर्वन्तु ॥ ८ ॥
अ॒यं वा॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेद॒ह श्रुत॒ हव॑म् । उपयाम-गृहीतोऽसि मित्रावरुणाभ्यां त्वा ॥ ९ ॥
पर तथा अपर ब्रह्म रूपी परमेश एवं हिरण्यगर्भ, ये सोम आदि अनेक नैवेद्य प्रस्तुत है । आप उत्तम वाहनों के द्वारा आइये । सोम - प्रधान नैवेद्य आपकी कामना करते हैं । हे सोम आदि नैवेद्यसमूह, तुम अहिंसा आदि यमसमूह के समीप रहने वाले प्रेम के द्वारा गृहीत हो । वायुरूप हनुमान् के लिये, समान प्रीति वाले श्रीराम - लक्ष्मण के लिये अथवा परमेश एवं हिरण्यगर्भ के लिये तुमको समर्पित करता हूँ । हे सोम, परमात्मा ही तुम्हारा कारण है । ' स्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ' इस वचन के अनुसार उसकी आराधना ही तुम्हारा सदुपयोग है । स्वामी दयानन्द द्वारा निरूपित संस्कृत एवं हिन्दी दोनों ही अर्थं श्रुति तथा सूत्र के वचनों से विरुद्ध होने के कारण और गौण अर्थों के ग्रहण से सदोष होने के कारण अग्राह्य हैं । प्राणसूर्यसदृशत्व का योगोपदेष्टा तथा योगाभ्यासी के रूप में निरूपण नहीं किया गया है । जैसे - तैसे सादृश्य तो पति एवं पत्नी का भी हो सकता है । सुत का अर्थ निष्पन्न पदार्थं करना अप्रामाणिक है । यम, नियम आदि क्या शिष्य के रूप में माने जाते हैं? वायु शब्द का ' वायु के समान गति आदि की सिद्धि ' अर्थ नहीं हो सकता, क्योंकि इस अर्थ में पद की शक्ति नहीं है । इन्द्रवायू शब्दों की व्याख्या हिन्दी में अध्यारोपण तथा अवतारण की गई है । इसके लिये इन्द्र एवं वायु शब्दों के प्रयोग की कितनी सार्थकता है, यह विद्वान् ही समझें ॥८ ॥
मन्त्रार्थ - हे मित्रावरुण! तुम्हारी प्रीति के निमित्त यह सोमरस प्रस्तुत है । इस यज्ञ में हमारे इस आह्वान का आप अवण करें । हे चतुथं ग्रह के सोमरस! तुम मित्रावरुण संज्ञक उपयाम पात्र में गृहीत हो, मित्रावरुण संज्ञक देवताओं की प्रीति के निमित्त तुम्हें यहाँ स्थापित करता हूँ ॥ ९ ॥
४
पृष्ठ 80
पाठ पढ़ें पाठ छिपाएँ
२६ शुक्लयजुर्वेद संहिता [ अ ० ७ ' मैत्रावरुणमयं वामिति ' ( का ० श्र ० ९ २६।८ ) । तस्या एव सन्ततधाराया मैत्रावरुणपात्रे मैत्रावरुणदेवताकं सोममयं वामिति मन्त्रेण गृह्णीयात् । मित्रावरुणदेवत्या गायत्री गृत्समददृष्टा यजुरन्ता । हे मित्रावरुणौ, विभक्तेराका: । हे ऋतावृधौ, ऋतस्य यज्ञस्य वर्धयितारी, वां युवयोः प्रयोजनाय अयं प्रस्तुतः सोमः सुतोऽ-भिषुतः । तस्मादिह यज्ञे मम इद् एव ममैव बहूनां यजमानानां मध्ये ममैव हवमाह्वानं श्रुतं शृणुतम् । हे सोमरस, त्वमुपयामेन मैत्रावरुणग्रहपात्रेण गृहीतोऽसि । मित्रावरुणाभ्यामर्थे त्वां गृह्णामीति शेषः । शतपथे – ' क्रतुदक्षौ ह वा अस्य मित्रावरुणौ । एतन्न्वध्यात्म. स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृद्धयते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणोऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः ' ( श ० ४ | १ | ४ | १ ) | विधास्यमानग्रहदेवतां प्रशंसन् तस्यैन्द्रवायवानन्तर्ये कारणमाह- क्रतुदक्षौ ह वा इति । मित्रावरुणौ ‘ देवताद्वन्द्वे च ' ( पा ० सू ० ७ २१ ) इति दीर्घः । अस्य यज्ञस्य समस्तस्य लोकस्य वा क्रतुद मित्रावरुणौ, तस्मात् प्रशस्तौ । ' दक्षक्रतुभ्यां मैत्रावरुणम् ' ( तै ० सं ० ११५ ( ४ ) । ऐन्द्रवायवग्रहस्तु वागात्मक इति पूर्वं प्रतिपादितम् । वाक् पुनर्मनोऽधीना, ' मनसा हि वाग्विधृता ' ( तै ० सं ० ६ १७ ) | सङ्कल्पोत्साहौ च मनोऽधीनी । ततो वागात्मकेन्द्रवायवानन्तयं दक्षक्रत्वात्मकमित्रावरुणदेवत्यस्य ग्रहस्येति युक्तमेव । श्रूयते हि तथैव तैत्तिरीयके ' वायव ऐन्द्रवायवं दक्षक्रतुभ्यां मैत्रावरुणम् ' ( तै ० सं ० १।५।४ ) | द्विविधो हि मित्रावरुणौ - आध्यात्मिको, आधिभौतिकौ च । तत्रोक्तावाध्यात्मिको । क्रतुदक्षयोरथं विवृणोति - इदं मे स्यादिति । इदं पुरोवर्ति मे स्यात्, इदं कुर्वीयेति यन्मनसाभिलषति स क्रतुः सङ्कल्पः । तत्सङ्कल्पितमस्मै लोकाय येन समृद्ध्यते स दक्षः, दक्ष वृद्धौ ' । तावेव क्रमेण क्रतुदक्षौ । मित्र एव क्रतुः वरुणो दक्षः । ब्रह्म ब्राह्मणजातिः, सैव मित्रो देवः, क्षत्रियजातिरेव वरुणो देवः । अभिगन्तैव अभिगमनशीलो ज्ञानशक्तियुक्तो ब्रह्म ब्राह्मणः, कर्ता क्रियाशक्तियुक्तः क्षत्रियः । उभयत्रापि ताच्छील्ये तृनुप्रत्ययः । यतो मित्रावरुणौ क्रतुदक्षशब्दाभिधेयज्ञानक्रिया-शक्तिरूपों, ब्रह्मक्षत्रे च ज्ञानक्रियाशक्तिमती, अत आधिभौतिक मित्रावरुण रूपत्वमनयोर्युज्यते । ' ते हैते अग्ने नावासतुः । ब्रह्म च क्षत्रं च ततः शशाकैव ब्रह्म मित्र ऋते क्षत्राद् वरुणात् स्थातुम् ' ( श ० ४ । १।४।२ ) । ' न क्षत्रं वरुणः । ऋते ब्रह्मणो मित्राद्यद्ध किश्च वरुणः कर्म चक्रेऽप्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समानृघे ' ( श ० ४।१।४।३ ) | ब्रह्मक्षत्रयोरुक्तमाधिभौतिकत्वमाख्यायिकया दृढीकुर्वन् ग्रहस्य द्विदेवत्यत्वमाह - ते है इति । अग्रे पूर्व ते एते ब्रह्म च क्षत्रं च विभिन्ने अभूताम् । ततो विभेदानन्तरं मित्रात्मकं ब्रह्म वरुणात्मकेन क्षत्रेण विनापि स्वत एव स्थातुं शक्तमभूत्, तथा वरुणात्मकं क्षत्रं मित्रात्मकेन ब्रह्मणा विना स्वत एव स्थातुं न शक्त-मभूत् । ततो वरुणं क्षत्रं यत् किन कर्म चक्रे तत्सर्वं मित्रेण ब्रह्मणा अप्रसूतमननुज्ञातमनुपदिष्टमेवाकरोत् । तत् कृतं कर्म अस्मै क्षत्राय न समृद्धमभूत्, यस्मात् स्वत एव कृतं न समृद्धमतः स्थातुं न शक्तमभूत् । ' स क्षत्रं वरुणः । ब्रह्म मित्रमामन्त्रयाञ्चक उप मावर्तस्व ससृजाव है पुरस्त्वा करवै त्वत्प्रसूतः कर्म करवा इति तथेति तौ समसृजेतां तत एष मैत्रावरुणो ग्रहोऽभवत् ' ( श ० ४ | १ | ४ | ४ ) । ततो वरुणात्मकं क्षत्रमशक्तं सन्मित्रात्मकं ब्रह्म आमन्त्र-याचक्रे हे ब्रह्मन् त्वं मामनुवर्तस्व आवां संसृष्टौ भवाव संसृजावहै इति व्यत्ययेनात्मनेपदम् । त्वां पुरः करिष्यामि त्वयोपदिष्टमेव कर्म करिष्यामि । तथास्त्विति ब्रह्मण्यङ्गीकुर्वति तौ ब्रह्मक्षत्रात्मकौ मित्रावरुणौ संसृष्टावभूताम् । ततः संसर्गाद्धेतोरेवायं ग्रहो मित्रावरुणार्थं द्विदेवत्योऽभवत् । भाष्यसार - सोमरस की उसी सतत धारा मैत्रावरुण पात्र में मैत्रावरुण ग्रह का ग्रहण ' अयं वाम् ' इस ऋचा के