वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 81–90
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ] वेदार्थ पारिजातभाष्यसहिता २७ ' सो एव पुरोधा । तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत सह्येवैतौ सृजेते सुकृतं च दुष्कृतं च नो एव क्षत्रियः सर्वमिव ब्राह्मणं पुरोदधीत स ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च स यत्ततो वरुणः कर्म चक्रे प्रसूतं ब्रह्मणा मित्रेण स हैवास्मै तदानृधे ' ( श ० ४ | १ | ४ | ५ ) । ततो वरुणेन संसृष्टत्वाद् ब्राह्मण-जात्यात्मको मित्रश्च क्षत्रजात्यात्मकस्य वरुणस्य पुरोहितोऽभूत् । अत्र ब्रह्मक्षत्रयोविभागे क्षत्रस्य सामर्थ्याभाव-, मुपन्यस्य पुनस्तदुपगमाय तयोः संसर्गोऽभिहितः । उत्साहश्च सङ्कल्पाभावे न शक्नोति क्रियां निष्पादयितुम् अतोऽनयोस्तत्सादृश्यलाभात्तदात्मक मित्रावरुणयोराधिभौतिकरूपत्वमुपपद्यत इति भावः । यतोऽत्र मित्रोऽनुरूपः पुरोहितोऽभूत्, वरुणश्चानुरूपो राजा, अतो लोकेऽपि पुरोहितेन राज्ञा चानुरूपाभ्यामेव भवितव्यमिति दर्शयति -- स ह्येवैताविति । यस्मादनुरूपावेतो ब्राह्मणक्षत्रियों सुकृतं दुष्कृतं च संसृजेते संसर्जयतः, सृजिरत्रान्तर्भावितण्यर्थः, तस्माद् ब्राह्मणोऽविशेषेण सर्वस्य क्षत्रियस्य पुरोधां पुरोहितत्वं न कामयेत, किन्तु स्वानुरूपं सुकृतिनमेव क्षत्रियं कामयेतेत्यर्थः । पुरोधामिति दधातेः सम्पदादिलक्षणो भावे क्विप् । क्षत्रियोऽप्येव-मनुरूपमेव ब्राह्मणं पुरोदधीत पुरोहितं कुर्यात् । प्रकृतेऽनुरूपपुरोहितस्य मित्रस्य संसर्गेण प्राप्तं फलमाह-स हैवास्मै तदानृधे इति । ततः संसर्गानन्तरं स वरुणो यत्कर्म चक्रे तन्मित्रेण ब्रह्मणोपदिष्टमिति वरुणस्य समृद्धं कर्माभूत् । ' तत्तदवक्लृप्तमेव । यद् ब्राह्मणोऽराजन्यः स्याद्यद्यु राजानं लभेत समृद्धं तदेतद्ध त्वेवानवक्लृप्तं यत् क्षत्रियो ब्राह्मणो भवति यद्ध किञ्च कर्म कुरुतेऽप्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समृद्ध्यते तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः स हैवास्मै तद् ब्रह्मप्रसूतं कर्मर्ध्यते ' ( श ० ४ | १ | ४ | ६ ) । ब्राह्मणस्य स्वाभाविकज्ञानशक्तिसम्भवात् क्षत्रियस्य तदभावात् क्षत्रियेण ब्राह्मणोऽनुसरणीय इत्याह--तत्तदवक्लृप्तमेवेति । यस्माद् ब्राह्मणस्य स्वाभाविज्ञानशक्तिमत्तया अन्यत उपदेशापेक्षा नास्ति, तस्माद् ब्राह्मणो यदि राजन्यो भवेत्, अथवा पुरोहितो भूत्वा राजानं लभेतेति यत् तदवक्लृप्तमेव । तेन कृतं तत्कर्म समृद्धं भवति । क्षत्रियो ब्राह्मणो भवतीत्येतदुक्तम् । ब्राह्मणो यति चि में कुरुते तन्मित्रात्मकेन ब्रह्मणा नोपदिष्टं स्यात्, तथा च तदस्मै न समृद्धं भवति । क्षत्रियस्य पुरोहितकृत्यज्ञानसम्भवेऽपि स्वाभाविकज्ञानाभावात् तत्व न समृद्धं भवति । ब्राह्मणस्य प्रजापतेर्मुखत उत्पन्नत्वादुपदेशकत्वं स्वाभाविकम् | क्षत्रियस्य बाहुभ्यामुत्पन्नत्वात् कर्तृत्वं स्वाभाविकम् । तथा च श्रूयते -- ' स मुखतस्त्रिवृतं निरमिमीत ' इत्यारभ्य ' ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतोऽसृज्यन्त ' ( तै ० सं ० ७ | १ | १ ), ' उरसो बाहुभ्यां पञ्चदशं निरमिमीत ' इत्यारभ्य ' राजन्यो मनुष्याणाम् ' ( तै ० सं ० ७ | १ | १ ) | अन्यत्राप्याम्नायते - ' ब्राह्मणोऽन्य मुखमासीद्वाहू राजन्यः कृतः ' ( वा ० सं ० ३१ | ११ ) । तस्मात् पुरोहितकृत्यविदापि क्षत्रियेण कर्म करिष्यमाणेन ब्राह्मण एवोपसरणीयः । भूले ' यद् ब्राह्मणोऽराजन्यः ' इति पाठोऽस्ति तथैव क्षत्रियोऽब्राह्मण इत्यपि पाठः स्यात्, तदा तु यदि ब्राह्मणोऽराजन्यो राजन्यरहितोऽपि भवेत्, तदा तदवक्लृप्तमेव । यदि ब्राह्मणो राजानं लभेत्तदा समृद्धं तज्जीवनं भवेत्, तथैव यदि क्षत्रियोऽब्राह्मणो भवंति, ब्राह्मणविधुरो भवेत् तदा तदनवक्लप्तमेव । यतो यस्माद् ब्रह्मरहितं क्षत्रं यत्कर्म कुरुते, तद्ब्राह्मणानुपदेशान्न समृद्ध्यते । ' अथातो गृह्णात्येव । अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ममेदिह " मित्रावरुणाभ्यां त्वेति ' ( श ० ४ । १ । ४ । ७ ) । व्याख्यातो मन्त्रः । अध्यात्मपक्षे - हे मित्रावरुणी ब्राह्मणक्षत्रियौ रामपरशुरामी, युवाभ्यामयं दृश्यमानः सोमः सोमोपलक्षितो भोग्योऽन्नभूतो मम स्वात्मा च वां युवाभ्यां सुतो युवयोर्भोग्यत्वेनोपकल्पितः, युवां बहूनामाह्वातॄणां मध्ये ममेन्ममैव । हवमाह्वानं श्रुतं शृणुतम् । हे सोम, त्वमुपयामगृहीतोऽसि प्रेमगृहीतोऽसि मित्रावरुणाभ्यां त्वामुपकल्पयामीति द्वारा किया जाता है । यह याज्ञिक प्रक्रिया कात्यायन श्रौतसूत्र ( ९ / ६ / ८ ) में वर्णित है । शतपथ एवं तैत्तिरीय श्रुतियों के अनुसार याज्ञिक अर्थ उपदिष्ट है । में अर्थ इसप्रकार है -- हे ब्राह्मण एवं क्षत्रिय परशुराम तथा राम! आप दोनों के लिये ही यह
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
२८ शुक्लयजुर्वेदसंहिता [ अ ० ७ दयानन्दस्तु -- ' हे मित्रावरुणा प्राणोदानाविव वर्तमानी ऋतावृधावध्यापकाध्येतारौ वां युवयोरयं सोमो योगैश्वर्यवृन्दः सुतो निष्पादितः । युवामिह मम हवं श्रुतम् । मम विद्यायोगप्रियस्य इद् इव इहास्मिन् योगविद्याग्राहके व्यवहारे हवं स्तुतिसमूहं श्रुतं शृणुतम् । मित्रावरुणाभ्यां सह वर्तमानं त्वां गृह्णामि ' इति, तदपि यत्किञ्चित् पूर्वोक्तश्रुतिसूत्रादिविरोधात् । मित्रावरुणा इति पदेनाध्यापक ाध्येतृग्रहणस्य निर्मूलत्वात् । सोमपदेन योगैश्वर्यंवृन्दग्रहणमपि स्वातन्त्र्यमेव, निर्मूलत्वात् ॥ ९ ॥
रा॒या व॒य ँ स॑स॒वासो॑ मदेम ह॒व्येन॑ दे॒वा य॑वसेन॒ गाव॑ः । तां धे॒नुं मंत्रावरुणा युवं नौ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीमे॒ष ते॒ योनि॑र्ऋता॒युभ्यां॑ त्वा ॥ १० ॥
' पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति ' ( का ० श्र ० ९ २६ ९ ) । ग्रहणानन्तरमेनं मैत्रावरुणं ग्रहं कुशाभ्यामन्तर्धाय लौकिकेन दुग्धेन मिश्रयेत् । श्रपणं च द्रव्यान्तरसंसर्गः । एवं कुशान्तर्धानं सर्वत्र श्रपणेषु । मित्रावरुणदेवत्या त्रिष्टुप् त्रसदस्युदृष्टा । तामिति तदः श्रवणादिह यदोऽध्याहारः । मन्त्रद्रष्टा कामदुघां प्रार्थयते- -----मित्रावरुण, हव्येन देवा इन्द्रादयो यथा हविषा संभक्ता हृष्यन्ति यथा च यवसेन घासेन गवाह्निकादिना गावो हृष्टा भवन्ति तथा च वयं यया राया येन धेनुरूपेण धनेन ससवांसः संभक्ताः, ' वन षण सम्भक्तौ ' क्वसौ रूपम्, सन्तो मदेम हृष्टा भवाम । युवं युवां तां धेनुं धत्तं नोऽस्मभ्यं धत्तं दत्तं युवामिति, ' प्रथमायाश्च ' ( पा ० सू ० ७७२।८८ ) इत्यात्वं न भवति, भाषायामिति वचनात् । विश्वाहा विश्वानि च तान्यहानि चेति कर्मधारयः, सर्वदेत्यर्थः । कीदृशीं धेनुम्? अनपस्फुरन्तीम्, स्फुरतिर्गत्यर्थः, अपेत्यापेत्य पुरुषान्तरात् पुरुषान्तरं गच्छति सा अपस्फुरन्ती तथा न भवतीत्यनपस्फुरन्ती तामनन्यगामिनीं दत्तमित्यर्थः । विश्वाहेति सततं दानक्रियार्थमिति । गृहीतसोमस्य खरे सादनं विधत्ते - एष ते योनिर्ऋतायुभ्यामिति । ऋतशब्देन मित्रोऽभिधीयते, आयुशब्देन वरुणः, ' ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म यूतं वरुण एवायुः संवत्सरो हि वरुणः संवत्सर आयुः ' ( श ० ४ | १ | ४ | १० ) इति श्रुतेः । ताभ्यामृतायुभ्यां मित्रावरुणाभ्यां त्वां सादयामीति शेषः । यद्वा ऋतं सत्यं यज्ञं वा कामयेते तौ ताभ्यामृतयुभ्याम्, संहितायां दीर्घः । ऋतं यज्ञं वा इच्छ्द्भयां मित्रावरुणाभ्यामित्यर्थः, पदकारेण ऋतयुभ्यामिति पदपाठस्य कृतत्वात् । अत एव ऋतं सत्यमिच्छद्भयां मित्रावरुणाभ्यामिति काण्वसंहिताव्याख्यायां सायणाचार्यः । दृश्यमान सोम आदि तथा मेरी भोग्य स्वात्मा भी आपके सामने नैवेद्य के रूप में प्रस्तुत है । बहुत से पुकारने वालों के बीच आप मेरा ही आह्वान सुनें । हे सोम, तुम प्रेम के द्वारा संगृहीत हो । राम एवं परशुराम रूपी मित्रावरुण के लिये तुमको समर्पित करता हूँ । स्वामी दयानन्द द्वारा निरूपित अर्थं श्रुति एवं सूत्र के वचनों से विरुद्ध होने के कारण अग्राह्य है । मित्र तथा वरुण शब्दों से अध्यापक तथा अध्येता यह अर्थ ग्रहण करना भी अप्रामाणिक है । सोम शब्द से योगैश्वर्यसमूह अर्थ ग्रहण करना भी कोई प्रमाण न होने के कारण स्वेच्छाचारिता ही है ॥ ९ ॥
मन्त्रार्थ -- जिस गौ के घर में होने से हम धन से सम्पन्न होकर प्रसन्न होते हैं, देवगण हवि का पान करके जैसे प्रसन्न होते हैं, गो जैसे घास खाकर प्रसन्न होती है, हे मित्रावरुण देवताओं! आप हमारी उसी प्रसन्नता के लिये कभी भी दूसरे पुरुष के निकट न जाने वाली धेनु को सदा प्रदान करें । हे ग्रह! यह तुम्हारा स्थान है । मित्रावरुण देवता की सन्तुष्टि के लिये तुमको इस स्थान में स्थापित करता हूँ ॥ १० ॥
भाष्यसार --- मैत्रावरुण ग्रह के ग्रहण के बाद दुग्ध से उसका संमिश्रण ' राया वयम् ' इस ऋचा के द्वारा किया
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
म ० १० ] वेदार्थपारिजातभाष्यसहिता २ ९ शतपथे- ' तं पयसा श्रीणाति । तद्यत्पयसा श्रीणाति वृत्रो वै सोम आसीत्तं यत्र देवा अघ्नंस्तं मित्रमब्रुवंस्त्वमपि हि सीति स न चकमे सर्वस्य वा अहं मित्रमस्मि न मित्र सन्नमित्रो भविष्यामीति तं वै त्वा यज्ञादन्तरेष्याम इत्यहमपि हन्मीति होवाच तस्मात् पशवोऽपाक्रामन् मित्र सन्नमित्रोऽभूदिति स पशुभिर्व्यार्घ्यत तमेतद्देवाः पशुभिः समार्धयन् यत् पयसाऽश्रीणस्तथो एवैनमेष एतत्पशुभिः समर्धयति यत्पयसा श्रीणाति ' ( श ० ४ | १ | ४ | ८ ) । गृहीतस्य सोमरसस्य पयसा मिश्रणं विधत्ते - तं पयसेति । श्रीणाति मिश्रयति । श्रीणाति-मिश्रणार्थ:, धातूनामनेकार्थत्वात् । तत्राख्यायिकया हेतुमाह – वृत्रो नामासुरः सोमो बभूव । तं वृत्रं यदा देवा अवधिस्तदा त्वमपि जहीति मित्रमब्रुवन् । एवमुक्तः स तं हन्तुं नाभिललाष । तस्यायमाशयः --अहं सर्वस्य मित्रम् इष्ट एव भवामि । तादृशोऽहमपकारेण शत्रुर्न भविष्यामीति । एवं तर्हि त्वां यज्ञे भागहीनं करिष्याम इति देवैरुक्तः स मित्रो भागलोभादहमपि हन्मीत्यङ्गीचकार । ततोऽस्यामित्रत्वाद् पशुष्वपगतेषु स्वयं पशुविहीनोऽभवत् । ततो देवा एतद्भागं पयसा श्रीत्वा एनं पशुभिः समृद्धमकुर्वन् । अत इदानीमपि पयसा सोमरसस्य मिश्रणेनैव एनं मित्रमेव पशुभिः समद्धतवान् भवति । ' तदाहुः । शश्वद्ध नैव चकमे हन्तुमिति तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य तस्मात् पयसा श्रीगाति ' ( श ० ४ | १ | ४ | ९ ) । प्रकारान्तरेण मिश्रणं समर्थयते - तत् तस्मिन् मित्रविषये याज्ञिका वदन्ति । पुनः पुनर्देवैरुक्तोऽपि मित्रः सर्वथा सोमं हन्तुं नैव चकमे, यतस्तस्मादत्र ग्रहे यत्पयस्तदेव मित्रस्य भागः, सोमस्तु वरुणस्यैव भागः । अत एनं ग्रहं मित्रार्थं पयसा मिश्रयेत् । स श्रीणाति । राया वय " " " ऋतायुभ्यां त्वेति सादयति स यदाहर्तायुभ्यां स्वेति ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्मो ह्यतं वरुण एवायुः संवत्सरो हि वरुणः संवत्सर आयुस्तस्मादाहैष ते योनिर्ऋतायुभ्यां त्वेति ' ( श ० ४ । १ । ४ । १० ) । मन्त्रो व्याख्यातः । ऋतायुभ्यामित्येतत्पदं श्रुतिर्व्याचष्टे - स यदाहेति । ऋतं सत्यं तदात्मकं ब्रह्म हि प्रसिद्धम् । ब्रह्म च मित्रमिति प्रागुक्तम् । ब्रह्मो ह्युतम् । द्विरुक्तिः शाखान्तरप्रसिद्धया चानुभवप्रसिद्धया चोपपद्यते । वरुण एवायुः, आयुः प्राणिनां जीवनकाल:, तदात्मकः संवत्सरः, वरुणश्र्व संवत्सररूपः । तथा च ऋतायुः शब्दाभ्यां मित्रावरुणावभिधेयौ । तस्मान्मन्त्रे ऋतायुप्रयोगो युज्यते । अध्यात्मपक्षे - हे मित्रावरुणी श्रीरामपरशुरामी, देवा यथा हव्येन हविषा, गावो यथा यवसेन, तथा वयं या राया भक्तिब्रह्मविद्याधनेन ससवांसः सम्पन्ना मदेम, तां धेनुं कामधेनुमेवाभीष्टदोग्ध्री भक्ति ब्रह्मविद्यां नो s स्मभ्यं विश्वाहा सर्वदा धत्तम् । कीदृशीं ताम्? अनवस्फुरन्तीमनन्यगामिनीं स्थिरामित्यर्थः । हे सोम, एष ते योनिः कारणम् । त्वाम् ऋतायुभ्याम् ऋतं सत्यमिच्छयां ताभ्यां मित्रावरुणाभ्यां त्वा त्वामुपकल्पयामि । दयानन्दस्तु – ' हे ससवांसः संविभक्ता देवाः, वयं यवसेन गाव इव, हव्येन ग्रहीतव्येन राया धनेन मदेम हृष्येम | हे मित्रावरुणौ प्राणवत्सखायौ उत्तमो जनो, युवं युवां नोऽस्मभ्यं विश्वाहा विश्वान्यहान्यनपस्फुरन्तीं पर जाता है । कात्यायन श्रौतसूत्र ( ९ / ६ / ९ ) में यह याज्ञिक विनियोग वर्णित है । शतपथ आदि श्रुतियों के आधार सायणाचार्य आदि ने याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ प्रतिपादित किया है । अध्यात्मपक्ष में मन्त्र की अर्थसंगति इस प्रकार है - हे मित्रावरुणात्मक श्रीराम तथा परशुराम, जिस प्रकार देवगण विद्रव्य से तथा गायें घास आदि से तृप्त होती हैं, उसी प्रकार हम लोग जिस भक्ति, ब्रह्मविद्यारूपी धन के द्वारा सम्पन्न सर्वदा होकर आनन्दित हों, उस कामधेनु के समान अभीष्ट फल प्रदान करने वाली भक्ति ( ब्रह्मविद्या ) को हमारे लिये सम्पादित करें, वह अनन्यगामिनी, अर्थात् स्थिर हो । हे सोम, यह तुम्हारा कारण है । तुमको सत्य के अभिलाषी मित्रा-वरुण के लिये प्रस्तुत करता हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ परस्पर असम्बद्ध होने के कारण बलात् संयोजित ही है । संस्कृत में
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
३० शुक्लयजुर्वेदसंहिता [ अ ० ७ विज्ञापयित्रीमिव योगविद्याजन्यां वाचं तां धेनुं धयन्त्यानन्दरसमनयेति धेनुस्तां धत्तम् । हे यजमान, यस्यैष ते विद्याबोधो योनिरस्ति, अत ऋतायुभ्याम् आत्मन ऋतमिच्छयामिव त्वा त्वा वयमाददामहे ' इति, तत्तु धाष्टर्यमेव, विप्रतिषिद्धत्वात् । संस्कृते ससवांसः संविभक्ता इत्युक्तम्, हिन्द्यां तु सदसद्विवेक्तारावित्युक्तम् । ' मित्रावरुणी ' इत्यस्य ' प्राणवत्सखायौ ' इत्यर्थे कि बीजम्? द्विवचनं च किमर्थकम्? नहि मित्रावरुणशब्दयोस्तत्र शक्तिः, प्रमाणाभावात् । उत्तमो जनौ नहि द्वावेव भवतः । युवां सर्वदा सम्यग् ज्ञानदात्री तां वाणीमस्मदर्थं धत्तमिति को वक्त? न जीवः, यतोऽन्ययोस्तथाभूताया वाण्या धारणेन नान्यस्योपकारः । न चेश्वरः, तस्याप्त वामत्वात् । न चेश्वरो यवसेन गाव इव राया माद्यति । यजमानोऽयं कथमागतः, तस्याप्रसक्तत्वात् । ' ऋतायुभ्यां सहितं वयमाददामहे ' अत्र ऋतायुभ्यामित्यनेन सत्यव्यवहारकामयितॄणां ग्रहणं चेत्, तत्र द्विवचनस्य किं स्वारस्यम्? ताभ्यां सहितं त्वां वयं स्वीकुर्म इत्यत्र के स्वीकर्तारः? केन किं कस्य फलमिति न किमपि स्पष्टम् ॥ १० ॥
या वा॒ कश॒ मधु॑म॒त्यश्व॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑िक्षितम् । उपया॒मगृ॑हीतोऽस्य॒-श्विभ्यां स्वेष ते योनिर्माध्वभ्यां त्वा ॥ ११ ॥
' आश्विनं गृह्णात्यन्वारब्धे वा या वामिति ' ( का ० श्र ० ९ २७१७ ) । हविर्धानं प्रविश्य द्रोणकलशात् पूतभृतो वा यजमानेऽन्वारब्धेऽनन्वारब्धे वा परिप्लवया या वां कशेत्याश्विनपात्र आश्विनसंज्ञ ग्रहं सोमरसं गृह्णीयात् । हे अश्विनौ, वां युवयोर्या कशा वाकू, कशेति वाङ्नामसु पठितम्, काशयति प्रकाशयति वाङ्मयमिति कशा वाक् । कीदृशी सा? मधुमती, मधु सर्वमोदहेतुत्वाद् ब्रह्म, तत्प्रतिपादकमधुब्राह्मणो-पनिषत्प्रशंसायुक्ता । पुनः किंभूता? सूनृतावती, शोभना प्रिया ऋतावती सत्यवती च या वाक् सा सूनृतावती प्रियसत्यवचनोपेता, तया वाचाऽस्मदीयं यज्ञं मिमिक्षतं सेतुमिच्छतं वा । ' मिह सेचने ' इत्यस्य सन्नन्तस्य रूपम् । यज्ञं सम्पादयतमित्यर्थः । आश्विनौ हि यज्ञे अध्वर्यू । हे ग्रहगतसोमरस, त्वमुपयामेन दारुपात्रेण गृहीतोऽसि अश्विभ्यामर्थे त्वां गृह्णामीति शेषः । हे ग्रह, एष ते योनिः स्थानम् | माध्वीभ्यां मधुब्राह्मणाध्येतृभ्यामर्थे त्वां सादयामीति शेषः । मधुब्राह्मणमधीयाते तो माध्व्यौ ताभ्याम्, ' दध्यङ् ह वा अभ्यामाथर्वणो मधुनाम ब्राह्मणमुवाच ' ( श ० ४।१।५।१८ ) इति श्रुतेः । शतपथे — ‘ श्रोत्र, ह वा अस्याश्विनस्तस्मात् सर्वतः परिहारं भक्षयति सर्वतो येनेन श्रोत्रेण शृणोति यत्र वै भृगवो वाङ्गिरसो वा स्वर्गं लोक समाश्नुवत तच्च्यवनो वा भार्गवश्च्यवनो वाङ्गिरसस्तदेव जीणिः कृत्यारूपो ' ससवांसः ' का अर्थ ' संविभक्त ' कहा गया है, तो हिन्दी में ' सत् असत् का विवेचक ' बताया गया है । ' मित्रावरुणी ' शब्द का अर्थ ' प्राणवत् सखा ' करने में क्या प्रमाण है? द्विवचन का प्रयोग क्यों किया गया? उत्तम जन दो ही नहीं होते । घास से गायों की भाँति ईश्वर धन की उपलब्धि से हर्षित नहीं होता ॥ १० ॥
मन्त्रार्थ - हे अश्विनीकुमारों! आपकी प्रकाश करने वाली ब्रह्मवती वाणी ब्राह्मण और उपनिषद् की प्रशंसा से युक्त है, प्रिय और सत्यता से युक्त है । उस वाणी से इस यज्ञ को सींच कर पूर्ण करो । हे पंचम ग्रह! तुम अश्विनी -कुमारों की प्रीति के लिये इस उपयाम पात्र में रखे गये हो । हे अश्विग्रह! यह तुम्हारा स्थान है, मधुमय मन्त्र-ब्राह्मण पढ़ने वाले अश्विनीकुमारों के निमित्त मैं तुम्हारा ग्रहण करता हूँ ॥ ११ ॥
भाष्यसार - ' या वां कशा ' इस मन्त्र से आश्विन पात्र में आश्विन ग्रह का ग्रहण किया जाता है । यह याज्ञिक
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
म ० ११ ] वेदार्थपारिजातभाष्यसहिता ३१ जहे ' ( श ० ४।१।५।१ ) इत्युपक्रम्याने काभिः कण्डिकाभिराश्विनस्य ग्रहस्य श्रोत्रात्मना स्तुतिरुक्ता । अस्य यज्ञस्य आश्विनः श्रोत्रमिति प्रसिद्धम् । ' श्रोत्रादाश्विनम् ' ( तै ० सं ० १ | ५ | ४ ) । श्रोत्रं सर्वतो ग्राहकत्वात् तदात्मक-माश्विनं सर्वतः परिहृत्य भक्षयेत् । तत्राख्यायिका – पुरा भृगूणामङ्गिरसां वा स्वर्गगमने भार्गव आङ्गिरसो वा जीर्णः कृत्यारूपोऽभिचारदेवतारूपः स्वर्गारोहणसमये च्युतस्तैस्त्यक्तोऽभूत् । तदा स्वकीयप्रजाभिर्भुवं चरतः शर्यातस्तन्नाम्नो राज्ञः शिबिरे निविष्टे तत्कुमारा अनर्थभ्रान्त्या एनं लोष्टः पिपिषुः । ततः क्रुद्धेन तेनोन्मादिताः परस्परमयुध्यन्त । ततः शर्यातिः किमिदं प्राप्तमिति विचार्य गोपालानविपालांश्च अप्राक्षीत् भवतां मध्ये कश्चित् किमपि दृष्टवानिति । तन्मुखात्कुमाराणां वृत्तान्तं श्रुत्वा च्यवन इत्यजानात् । ततः स रथं सज्जीकृत्य सुकन्यामादाय ऋषिसमीपं गत्वा अज्ञानेन त्वामहंसिषम्, नमस्तेऽस्तु अनया कन्यया तवापराधमपनयामि, मदीयो वर्गः पर्यवस्थितो भवत्वित्युक्ते तदनुग्रहात्तथाऽजनिष्ट । ततः प्रभृति शर्यातिरन्यहिंसाविषये भीतस्तदनुकूल-मुद्योगमकरोत् । तदानीमेव भुवं विचरन्ती अश्विनौ इमां कन्यामुपेत्य तस्यां मिथुनं मैथुनभावमीषाते । च्यवनस्तु तन्न विवेद । ताभ्यां पत्यौ अरुचिमुखानुसरणं ब्रुवद्धयामुक्ता नैतं जीवन्तं हातुं युक्तमित्युक्तवती । तत एतज्ज्ञातवता महर्षिणा पृष्टा सर्वमकथयत् । स उवाच यदि तावागत्य पुनरपि ब्रूतं तदैवं ब्रूहि — युवामसम्पूण असमृद्धी, अथापि मदीयं पति निन्दथ । केन कारणेन आवामेवं बभूविवेति पृष्टे मदीयस्य पत्युर्योवने कृते सति वक्ष्यामीति सा तथैवोक्तवती । ततस्तौ तदिष्टप्राप्त्यै कस्मिश्चिद् हदे मज्जनमुपायं प्रदर्श्य पुनरात्मवैकल्यमप्राष्टाम् – तो होचतुः । एत हृदमभ्यवहर स येन वयसा कमिष्यते तेनोदेष्यतीति त हृदमभ्यवजहार स येन वयसा चकमे तेनोदेयाय ' ( श ० ४ | १ | ५ | १२ ) । ताभ्यामात्मवैकल्ये पृष्टे ऋषिरेवोवाच – कुरुक्षेत्रेऽमी देवा यज्ञं तन्वते वां यज्ञभागरहितौ कुर्वन्ति । तेनोक्तं भवतोर्वैकल्यमिति । तौ प्रेयतुः, ततस्ताभ्यां स्तुते बहिष्पवमाने ( श ० ४ | १ | ५ | १३ ) | बहिष्पवमान स्तोत्रानन्तरं देवानगमताम्, आवां भवत्समीपे ह्वयध्वमित्यवोचताम् । भवतोश्चिरं मनुष्येषु सुसंसृष्टत्वाद् भिषक्त्वाच्च नोपह्वयिष्याम इति देवैरुक्ते शिरोहीनेन यज्ञेन यजध्वमित्यूचतुः । कथं विशिरस्त्वमिति तैः पृष्टे तान् उपह्वयध्वं पश्चाद् वक्ष्याव इति ताभ्यामुक्तम् । ततस्ताभ्यां ग्रहमगृह्णन् । तावध्वर्यू भूत्वा यज्ञस्य शिरः प्रत्यदधाताम् । शिरसः प्रतिधान-प्रकारस्तु प्रवर्ग्यमन्त्रब्राह्मणे स्पष्टः । ' ताभ्यामेतमाश्विनं ग्रहमगृहणंस्तावध्वर्यू यज्ञस्याभवतां तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम् ' ' ' ' तस्मादेष स्तुते बहिष्पवमाने ग्रहो गृह्यते स्तुते हि बहिष्पवमाने आगच्छताम् ' ( श ० ४ १।५।१५ ) । - ~ ग्रहस्य कालं विधत्ते -- ' तो होचतुः । मुख्यौ वा आवां यज्ञस्य स्वो यावध्वर्यू इह नाविमं पुरस्ताद् ग्रहं पर्याहरताभि द्विदेवत्यानिति । ताभ्यामेतं पुरस्ताद् ग्रहं पर्याजह्नुरभि द्विदेवत्यांस्तस्मादेष दशमो ग्रहो गृह्यते तृतीय एव वषक्रियतेऽथ यदाश्विनावितीमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनाविमे ही सर्वमाश्नुवाता पुष्करसृजावित्यग्निरेवास्यै पुष्करमादित्योऽमुष्यै ' ( श ० ४ | १ | ५ | १६ ) । तौ होचतुः - अध्वर्युत्वेनावां ग्रहस्य मुख्यौ । आवां द्विदेवत्यानभिलक्ष्यावयोर्ग्रहं पूर्वमेव समर्पयत इत्युक्ते देवास्तथैवान्वतिष्ठन् । द्विदेवत्यानिि बहुवचनं प्रसिद्धयपेक्षया । अतः पश्चाद्दशमो गृह्यमाणोऽपि द्विदेवत्यानां तृतीय एव सन् हूयते । अश्विनो -रश्विनामप्राप्ति दर्शयति - अथेति । अश्विनो इति यन्नाम तत्कथमिति प्रश्ने इमे दृश्यमाने द्यावापृथिव्यो साक्षादश्विनो देवो । द्यावापृथिव्यौ कृत्स्नं जगद् व्याप्नुतोऽतस्तदात्मकयोरश्विनोरपि व्यापकत्वादश्वित्वम् । विनियोग कात्यायन श्रौतसूत्र ( ९ / ७ / ७ ) में प्रतिपादित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थं तथा • आख्यायिका आदि उपदिष्ट हैं ।
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
३२ शुक्लयजुर्वेदसंहिता [ अ ० ७ पुष्करस्रजी अश्विनौ । अग्निरेवास्यै पृथिव्याः पुष्करमादित्योऽमुष्यं दिवः । ' अथातो गृह्णात्येव । या वां कशा मधुमत्यश्विना सूनृतावती त्वेति सादयति तं वै मधुमत्यर्चा गृह्णाति माध्वीभ्यां वेति सादयति तद्यन्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति ' ( श ० ४ | १ | ५ | १७ ) । अथात इत्यनेन बहिष्पवमानस्तोत्रानन्तयं द्योत्यते । ननु मैत्रावरुणानन्तरपाठात्तदानन्तर्यमेवाथशब्दार्थोऽस्त्विति चेन्न स्तुते बहिष्पवमाने दशमो गृह्यत इति श्रुत्या तथा विहितत्वात् । ननु यथा श्रुतिः क्रमबोधे प्रमाणं तथा पाठोऽपि, ' समिधो यजति ' ( तै ० सं ० २६ | १ | १ ) इत्यादी पाठस्य क्रमबोधप्रमाणत्वेनाङ्गीकारात्, तथा सत्युभयोः प्रमाणयोः समबलत्वात् कदाचिन्मैत्रावरुणग्रहणानन्तरम् कदाचिद् बहिष्पवमान स्तोत्रानन्तरमित्यैच्छिकः क्रमोऽस्तु? इति चेत्तदपि न युक्तम्, पाठस्यान्यथानुपपत्त्या क्रमविधायकत्वे श्रुतिसामर्थ्यादेव विधायकत्वेन प्रत्यक्षत्वेन प्राबल्यात् । मन्त्रार्थस्तुक्त एव । मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयतीति ग्रहणसादन -मन्त्रविधानम् । ग्रहण - सादनयोरुभयोरपि मधुशब्दप्रयोगस्याभिप्रायमाह - दध्यङ् ह वेति । ' दध्यङ् ह वा अभ्यामाथर्वणः । मधुनाम ब्राह्मणमुवाच तदेतयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति तन्मधुमत्यर्चा गृह्णाति माध्वीभ्यामिति सादयति ' ( श ० ४। १ | ५ | १८ ) । तद् मधुब्राह्मणमनयोः प्रियं धाम स्थानम् । तेन मधुशब्दप्रयोगेण तदेव सम्पादितं भवति । तानि वा एतानीति श ० ४।१।५।१ ९ ) द्विदेवत्यपात्राणां लक्षणान्युक्तानि । लक्ष्णानि स्निग्धानि । रास्नावमैन्द्रवायवं पात्रम् । रास्ना रशना, परितः स्रगित्यर्थः । मत्वर्थीयो वकारः । द्विदैवत्यसिद्धये द्वैरूपं कार्यम् । अजकावम्, अजकाशब्देन अजागलस्तनो विवक्षितः, तद्युक्तम् । औष्ठम् ओष्ठाकार-सहितम्, अश्विनोर्मुखत्वात् । अध्यात्मपक्षे - हे अश्विना, तुरीयहिरण्यगर्भरूपत्वाद् व्यापक अश्विनाविव परमसुन्दरी रामलक्ष्मणौ या वां युवयोरेकात्म्याद् मधुमती माधुर्यगुणोपेता सूनृतावती प्रियसत्ययुक्ता कशा वागस्ति, तया ताभ्यां जातावेकवचनम्, उभयोरैकात्म्याद् वा । यज्ञं कर्ममयमुपासनामयं ज्ञानमयं वा मिमिक्षतं निष्पादयतम् । हे सोम, समर्पणीयान्नादिलक्षणनैवेद्य, उपयामेन प्रेम्णा गृहीतोऽसि । अश्विभ्यां श्रीरामलक्ष्मणाभ्यां त्वां गृह्णामि । एष ते योनिः स्थानम् | माध्वीभ्यां त्वां सादयामि । मध्वेव माध्वी प्रज्ञादित्वात् स्वार्थेऽण् । ततो ङीष् । यद्वा मध्वस्यास्तीति मध्वम्, तस्माद् मत्वर्थीय इकारः । यद्वा मध्वेव माध्वी, स्वार्थेऽम् । मधुमद्भ्यामित्यर्थ इति भट्टभास्करः । दयानन्दस्तु - ' हे अश्विना सूर्यचन्द्रवत्प्रकाशमानौ योगाध्येत्रध्यापको, या वां मधुमती सूनृतावती कशा, तया यज्ञम् ईश्वरसङ्गापादनयोगं मिमिक्षतं सेतुमिच्छतम् । हे योगमभीप्सो! त्वमुपयामगृहीतोऽसि तवैव योगो अध्यात्मपक्ष में अर्थ योजना इस प्रकार है - तुरीय हिरण्यगर्भ रूप होने के कारण व्यापक अश्विनियों की भाँति अत्यन्त सुन्दर रामलक्ष्मण! आप दोनों की जो माधुर्यगुण से परिपूर्ण तथा प्रिय सत्य से युक्त वाणी है, उसके द्वारा कर्मात्मक, उपासनामय अथवा ज्ञानमय यज्ञ का सम्पादन कीजिये | हे समर्पणीय अन्नादि रूपी नैवेद्य, तुम प्रेम के द्वारा गृहीत हो । श्रीराम एवं लक्ष्मण के लिये तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है । माधुयंस्वरूप के लिये तुमको रखता हूँ । स्वामी दयानन्द द्वारा निरूपित अर्थ मप्रामाणिक कल्पनाओं से में ही दूसरे स्थान पर ' अश्विनौ ' शब्द से ' द्यावापृथिवी ' अर्थ का ग्रहण परिपूर्ण होने के कारण अग्राह्य है । उस भाष्य किया गया है । उस भर्थ को छोड़कर यहाँ अध्येता
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
म ० ११-१२ ] वेदार्थपारिजातभाष्यसहिता ३३ योनिरस्ति, अतोऽश्विभ्यां प्राणापानाभ्यां वर्तमानं त्वां हे योगाध्यापक! माध्वीभ्यां सुनीतियोग रीतिभ्यां सह वर्तमानं च त्वां वयमुपाश्रयामः ' इति, तत्तु यत्किश्चित् निष्प्रमाणकल्पनामूलत्वात् । त्वयाऽप्यन्यत्र ' अश्विना ' इति पदेन द्यावापृथिवी गृहीते । श्रुत्या च ते एवोच्येते । ते अपहायाध्ये त्रध्यापकग्रहणे मानाभावात् । किाध्येतॄणां बाहुल्यस्यापि सम्भवाद् द्विवचनमपि तत्र निरर्थकमेव । पुनरन्यत्र प्राणापानयोस्तेन शब्देन ग्रहणे बीजमपेक्षितम् । माध्वीभ्यामिति शब्देन सुनीतियोगरीत्योर्ग्रहणमपि निर्मूलमेव ॥ ११ ॥
त॑ प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथ॒मथा॑ज्ये॒ष्ठता॑ति॑ ब॒ह॒षद॑धि॒ स्व॒र्विद॑म् । प्रतीचीनं वृ॒जने॑ बोहसे घुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उपय॒मगृ॑होतोऽसि॒ शण्डय त्वे॒ष ते॑ योनि॑वी॒रता॑ पा॒ह्यप॑सृष्टः शण्ड दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥ १२ ॥
' शुक्रं वैल्वेन वा तं प्रत्नथेति ' ( का ० श्र ० ९ ६ । ११ ) । शुक्रसंज्ञके ग्रहे सोमं तस्या एव धाराया विल्ववृक्षनिर्मितेन विकङ्कतवृक्षनिर्मितेन वा पात्रेण गृह्णीयात् । अयं शुक्रसंज्ञको ग्रहः । पूर्वं तु द्रोणकलशस्य सोमस्य शुक्र इति संज्ञा कृतेति ज्ञेयम् । ' अयं वेन इत्येके ' ( का ० श्री ० ९ | ६ | १२ ) । जगती वैश्वदेवी काश्यपावत्सार-दृष्टा द्वादशार्णचतुष्पादा जगती, उपयामेति यजुः । हे इन्द्र! त्वं यासु यज्ञक्रियासु, अनुवर्धसे पुनः पुनः सोमपाने वृद्धि प्राप्नोषि तासु वृजनं बलवद्यज्ञफलं दोहसे । वृजनमिति बलनाम । पूरयसि यजमानायेति शेषः । कथं दोहसे? तत्र दृष्टान्तमाह -- प्रत्नथा प्रत्नानां चिरन्तनानां भृग्वादीनामिव फलं दोहसे । ' प्रत्नपूर्व ' ( पा ० सू ० ५। ३ | १११ ) इत्यादिना उपमार्थीयः थालप्रत्ययः । पूर्वथा पूर्वेषामृषीणामिव, साध्यादीनामिव विश्वथा विश्वेषां सर्वेषामृषि-त्राणामिव इमथा इदानीन्तनानां यजमानानामिवास्य फलं दोहसे, तं त्वां स्तुम इति शेषः । कीदृशं तम्? ज्येष्ठतातिं तननं तातिविस्तारः, ज्येष्ठा उत्कृष्ट तातिविस्तारो यस्य तम् । यद्वा ' वृकज्येष्ठाभ्याम् ' ( पा ० सू ० ५।४।४१ ) इत्यादिना प्रशंसायां तातिप्रत्ययः । प्रशस्तो ज्येष्ठो ज्येष्ठेषु प्रशस्यो वा ज्येष्ठतातिः । तथा बर्हिषदम्, बर्हिषि यज्ञे सीदतीति । स्वविदं स्वर्युलोकं वेत्तीति । तत्र हि तस्य निवासः । प्रतीचीनमात्मनोऽभिसुखम् । धुनि कम्पितार शत्रूणां ' धूञ् कम्पने ', आशुं जयन्तं जेतव्यानि वस्तुनीति महीधरः । तथा अध्यापक अर्थ का ग्रहण करने में कोई प्रमाण नहीं है । फिर अध्येता तो बहुत हो सकते हैं, अतः यहाँ द्विवचन की भी निरर्थकता सिद्ध होती है । ' माध्वी ' शब्द से सुनीति तथा योगरीति का अर्थ ग्रहण करने में भी कोई प्रमाण नहीं है ॥ ११ ॥
जिन यज्ञक्रियाओं में पुनः पुनः सोम रस का पान कर वृद्धि को प्राप्त होते हो, तृप्त सर्वश्रेष्ठ यज्ञ में कुशासन के सेवी स्वर्गवेत्ता शत्रुओं को कम्पित करने वाले जेतम्य बलपूर्वक यजमान को यज्ञ फल देते हो, समस्त यज्ञों के प्राचीन नियम के समान, यजमान को भी समान रूप से यज्ञ का फल देते हो, ऐसे आपकी हम स्तुति मन्त्रार्थ - हे इन्द्र! तुम होते हो, उस उत्कृष्ट विस्तारवान् वस्तुओं को शीघ्र जीतने वाले तुम पूर्व प्रथा के अनुसार, इस समय के करते हैं । है षष्ठ ग्रह शुक्र! तुम उपयाम पात्र में गृहीत हुए हो, शण्ड नामक असुरगुरु के निवास के निमित्त तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है । इस स्थान में बैठ कर तुम यजमान के वीरत्व की रक्षा करो । असुर नेता भगा दिया गया है । हे ग्रह! शुक्र नामक ग्रह में स्थित सोम का पान करने वाले देवता निरापद आहवनीय स्थान में तुम्हें पहुँचायें । हे उत्तरवेदी की श्रेणी! तुम इस ग्रह को किसी प्रकार की हानि मत पहुँचाओ ॥ १२ ॥
भाष्यसार -- कात्यायन श्रौतसूत्र ( ९ ६ ११, ९ ।१०।१ ९ ) में वर्णित याज्ञिक प्रक्रिया के अनुसार ' तं प्रत्नथा ' ५
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
३४ शुक्लयजुर्वेद संहिता [ अ ० ७ सायणरीत्या तु – हे इन्द्र, त्वां प्रत्नथा पुरातना भृग्वादयो यथाऽस्तुवन् पूर्वथा पूर्वे साध्यादयो । कीदृशं यथास्तुवन् विश्वथा विश्वे ऋषय ऋषिपुत्राः, इमथा इदानीन्तना जना यथा, तथा वयं त्वां स्तुमः स्वगं त्वाम्? ज्येष्ठताति स्वार्थे तातिप्रत्ययः । बर्हिषि यागे सन्निहितत्वेन तिष्ठन्तम् । यजमानाय दातव्यं स्वः वेत्ताति स्वर्विदम् । हे इन्द्र, यस्त्वं प्रतीचीनमस्मदनुकूलं प्रतिगमनमस्मत्प्रतिकूलं वृजनं वर्जनीयम् आलस्या-श्रद्धादिकं दोहसे रिक्तीकरोषि विनाशयसि, ' दुह, प्रपूरणे ' । प्रपूरणं रिक्तीकरणमिति क्षीरस्वामीति सम्यगनुष्ठानेन महीधरा-चार्यः । तं त्वां स्तुमः । यासु क्रियासु धुनि त्वदनुग्रहात् शत्रु कम्पयन्तमाशुं क्षिप्रकारिणं जयन्तं यजमानान्तराण्यतिशयानम् एनं यजमानम् अनु सोमपानेन स्तुत्या वर्धय से तासु क्रियासु तं स्तुमः । उव्वाचार्यस्तु हे सोम, तमिन्द्रं ज्येष्ठतातिम् उत्कृष्टतातिम् उत्कृष्टवत्सारम् अथवा ' वृकज्येष्ठाभ्यां बर्हिषदं तिल्तातिलौ च छन्दसि ' ( पा ० सू ० ५ | ४ | ४१ ) इति तद्धितप्रत्ययः प्रशंसायाम् । ज्येष्ठताति ज्येष्ठप्रशस्यं स्वर्विदं स्वःशब्देन द्युलोकोऽभिधीयते । द्युलोकं जानाति । तत्र हि तस्य निवासः । धुनि कम्पयितारम् आशुं जयन्तं शीघ्रं जेतव्यानि वस्तुनि जयन्तं तमेवंगुणविशिष्टमिन्द्रं हे सोम! यासु विक्षु येषु यजमानेषु वर्धसे तर्पयित्वा पुनः पुनः संस्क्रिय से, तासु क्रियासु त्वमवस्थितः, तत्र प्रतीचीनं स्वात्मनोऽभिमुखमिन्द्रमवस्थाप्य स्ववीर्येण । प्रत्नशब्दः पुराण-अस्मै यजमानाय वृजनं बलवच्च यज्ञफलं दोहसे प्रक्षारयसि । कथं दोहसे? था उपमार्थीयः वचनः । चिरन्तनानामिव भृगुप्रभृतीनाम् इमथा इदानीन्तनानामिव यजमानानां दोहसे । सायणोव्वटावनुसृत्यैव महीधरेण व्याख्यानद्वयमुपस्थापितम् । शुक्रग्रह, त्वमुपयामगृहीतोऽसि । शुक्रपुत्राय शण्डनामकाय तन्नामकायासुराय वा त्वां गृह्णामि । एष खरप्रदेशस्तव स्थानमिति सादयति । त्वं यजमानस्य वीरतां पाहि, कर्मशूरत्वं वा पालय । ' शुक्रामन्थिभ्यां का ० श्र ० चरतः ' ( का ० श्र ० ९ | १० | १ ) अध्वर्युप्रतिप्रस्थातारौ ' शुक्रेणाध्वर्युर्मन्थिना प्रतिप्रस्थाता ' ( प्रोक्षिताभ्याम्, अपमार्जनम प्रोक्षिताभ्यामपमृष्टः ९ ।१०।२ ), ' प्रोक्षिताप्रोक्षितौ यूपशकलावादायापिधानं प्रोक्षित-शण्ड इत्यध्वर्युरपमृष्टो मर्क इति प्रतिप्रस्थाता ' ( का ० श्र ० ९ ।१० ३ ) । अध्वर्युप्रतिप्रस्थातारौ एकैकं वा जलेन मपरमप्रोक्षितं चेति द्वौ द्वौ यूपशकलावादाय शुक्राभन्थिनोर्ग्रहयोरादानं कुरुतः । प्राणीतेन लौकिकेन, यूपश कलप्रोक्षणम् । प्रोक्षितमप्रोक्षितं चेत्यत्र जातावेकवचनम् । प्रोक्षिताभ्यां यूपशकलाभ्यां ग्रहयोरपिधानम् अप्रोक्षिताभ्यां यूपशकलाभ्यां ग्रहयोर्मुखादारभ्याधस्तान्मार्जनं कुर्वीयाताम् । ' अधस्तात् पांसूनपध्वंसयत आपः ' ( श ० १२ २२२१४ ) इति वृत्तिकारः । आभिचारिकं यजुः । शण्डनाम कोऽसुरपुरोहितः शुक्रपुत्रोऽपमृष्टोऽपमार्जनीकृतः । ‘ देवास्त्वेति निष्क्रामतो यथालिङ्गमिति ' ( का ० श्र ० ९ / १०१५ ) । अध्वर्युप्रतिप्रस्थातारौ यथाक्रमं शुक्रमन्थीत्येतत्पदद्वयवाचकमन्त्र-लिङ्गमनतिक्रम्य हविर्धानमध्यान्निर्गच्छेताम् । देवस्त्वेति मन्त्रेण शुक्रलिङ्गेनाध्वर्युः प्राङ्मुखो हविर्धाना-, न्निष्क्रामेत् । शुक्रदैव ं शुक्रं नाम ग्रहस्थं सोमं पिबन्ति शुक्रपा देवाः । हे शुक्रग्रह, त्वां प्रणयन्त्विति यजतिस्थानम् ' अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्योनिधत्तोऽविसृजन्तौ दक्षिणस्यामध्वर्युरुत्तरस्यां प्रतिप्रस्थाता-नाधृष्टासीति ' ( का ० श्र ० ९ / १०१५ ) । हविर्धानान्निष्क्रम्योत्तरवेदेः पश्चात् स्थिता अध्वर्युप्रतिप्रस्थातारौ स्वस्य स्वस्य दक्षिणहस्तस्यारत्नी परस्परं संश्लेषयतः । संश्लेषणकाले च हस्तस्थितो ग्रहो यथा न स्कन्दे तथा संश्लेषणं कर्तव्यम् । एवमरत्नी सन्धायाध्वर्युर्दक्षिणस्यां वेदिश्रोणौ स्वहस्तस्थितं शुक्रग्रहं हस्तेनाविमुञ्चन् इस कण्डिका के मन्त्रों से शुक्रसंज्ञक पात्र में शुक्र ग्रह का ग्रहण, ग्रहपात्र का मार्जन, हविर्धान मण्डप से निष्क्रमण, वेदि के
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
म ० १२ ] वेदार्थपारिजातभाष्यसहिता ३५ निदध्यात् । एवं प्रतिप्रस्थाताप्युत्तरस्यां वेदिश्रोण्यां मन्थिग्रहमासादयेत् । वेदिश्रोणिदैवतम् । हे उत्तरवेदिश्रोणे! त्वमनाधृष्टाऽनुपहसितासि । शतपथे तद्विशेषमाह - ' चक्षुषी ह वा अस्य शुक्रामन्थिनौ । तद्वा एष एव शुक्रो य एष तपति तद्यदेष एतत्तपति तेनैष शुक्रश्चन्द्रमा एव मन्थी ' ( श ० ४।२।१।१ ) । आश्विनं ग्रहं विधाय शुक्रामन्थिग्रहौ विधातुं तत्र । चक्षुरात्मना स्तौति - चक्षुषीति । शुक्रश्च मन्थी च शुक्रामन्थिनौ ग्रहौ यज्ञस्यास्य चक्षुषी खलु । तत् । एष दृश्यमानस्तपति । एष एव सूर्यः शुक्रग्रहः । शोचते दीप्यत इति तस्य शुक्रनामधेयम् । मन्थी नोदियातां चन्द्रमाः ' त सक्तुभिः श्रीणाति । तदेनं मन्थं करोति तेनो एष मन्थ्यैतौ ह् वा आसां प्रजानां चक्षुषी स यद्वैतौ न हैवेह स्वौ चन पाणी निर्मानीयुः ' ( श ० ४ । २ । १२ ) । सक्तुभिर्यं वचूर्णे मिश्रितस्य सोमस्यापि सूर्यचन्द्रयो मन्थत्वात् -तद्भागिनोऽस्य मन्थित्वादनयोरनुदये प्रजानां स्वपाण्योरप्यदर्शनात् तदुदये तत्सम्भवात् तयोः चक्षुष्वमिति । तदात्मको शुक्रामन्थिनावपि चक्षूरूपावित्यर्थः । प्रजापतेश्चक्षुषः सकाशादुत्पन्नत्वाच्चानयो- । आद्योऽन्यतरमन्वत्तैव चक्षुष्ट्वम्, ' चक्षुषः शुक्रामन्थिनौ ' ( तै ० सं ० १ ५४ ) इति श्रुतेः । ' तयोरत्तैवान्यतरमनु गृह्येते देवताभ्यो शुक्रमन्वाद्यो मन्थिनमनु तौ वा अन्यस्मै गृह्येते अन्यस्मै हूयेते शण्डामकवित्यसुररक्षसे तयोरन्यतर ताभ्यां अत्ता भोक्ता, हूयेते तद्यत्तथा ' ( श ० ४ | २ || ४ ) । भोक्तृभोग्यात्मना पुनः स्तौति – तयोरत्तैवेति । अन्यतरश्च आद्यो भोग्यः, तयोर्भोक्तृभोग्य रूप सूर्य चन्द्रात्मत्वेन स्तुतत्वात् । यत एवमतो लोकेऽपि भोक्तृवर्गस्तयो- वर्तते । रन्यतरं सूर्यात्मकं शुक्रमनुसृत्य वर्तते, शुक्रेऽन्तर्भूतः । भोग्यवर्गोऽपि चन्द्रात्मकमेव मन्थिनमनुसृत्य । ग्रहयोर्ग्रहणहोमो - तौ वा अन्यस्मै गृह्येते, अन्यस्मै हूयेते । शण्डामर्कावित्यसुररक्षसे सुरविरोधिनौ राक्षसौ । ग्रहणे ' अनसन्तान्नपुंसकाच्छन्दसि ' ( पा ० सू ० ५ | ४ | १०३ ) इत्यादिना टच् । ताभ्यां गृह्येते देवताभ्यो । ग्रहणे हूयेते शण्डामर्कयोः शण्डामर्कयोर्देवतात्वेनोद्दित्वात् ' देवताद्वन्द्वे च ' ( पा ० सू ० ७१३२१ ) इत्यानङादेशः स्वीकारस्य, होमे तत्परित्यागस्य च हेतुं दर्शयत्याख्यायिकया श्रुतिः -- ' यत्र वै देवाः । असुररक्षसान्यपजघ्निरे तदेतावेव न शेकुपहन्तुं यद्ध स्म देवाः किञ्च कर्म कुर्वते तद्ध स्म वै मोहयित्वा क्षिप्रमेव पुनरपद्रवतः, ( ० ४।२।१५ ) । पुरा किल देवा असुररक्षसामपहननसमये शण्डामको हन्तुं न शेकुः । तौ सर्वं देवकृतं कर्म मोहयित्वा तिरस्कृत्यागच्छताम् । ' ते देवा ऊचुः । उपजानीत यथेमावपनामहा इति ते होचुर्ग्रहावेवाभ्यां गृह्णाम तावभ्यैष्यतस्तो स्वीकृत्यापहनिष्यामह इति ताभ्यां ग्रहौ जगृहतुस्तावभ्यैषतां तो स्वीकृत्यापाघ्नत तस्माच्छण्डा-मर्काभ्यामिति गृह्येते देवताभ्यो हूयेते ' ( श ० ४ | २ | १ | ६ ) । ततस्ते देवा एतयोर्हननोपायं विचारयतेत्युक्त्वा ग्रहग्रहणेन तावागमिष्यतः पश्चात्तौ स्वीकृत्य हनिष्याम इति पर्यालोच्य तथैवाचरन् । यत एवमकुर्वन्, अत । इदानीमपि शण्डामर्कावुद्दिश्यैव ग्रहणम् । होमास्तु देवताभ्यः क्रियन्ते । ' अपजघ्निरे ' इति छान्दसमात्मनेपदम् तदेव द्रढयति – ' अपिहोवाच याज्ञवल्क्यः । नो स्विद्देवताभ्य एव गृहियामा ३ विजितरूपमिव हीदमिति द्वै स तन्मीमा सामेव चक्रे नेत्तु चकार ' ( श ० ४। २ । १।७ ) । याज्ञवल्क्योऽप्येवमुवाच - अस्मदीयाभ्यो देवताभ्य एव नो गृह्णीयाम उत गृह्णीयाम इति । एतद्देवतोद्देश्येन ग्रहग्रहणम् । एवं सम्प्रधार्यं याज्ञवल्क्यस्तत्र विचारमेव चक्र े न तु चकार । ' इमामु हैके शुक्रस्य पुरोरुचं कुर्वन्ति । अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमान इति । तदेतस्य रूपं कुर्मो य एष तपतीति यदाह ज्योतिर्जरायुरिति ' ( ० ४ | २ | ११८ ) । श्रुतिरेव याज्ञवल्क्यरूपधारिणी प्रस्तुतशाखोक्तविधानं प्रशंसितुं तैत्तिरीयपक्षमुपन्यस्य स्वानभिमतं प्रदर्शयति, ' नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते ' इति न्यायात् । शाखान्तरीया अयं वेन इति मन्त्रं शुक्रस्य ग्रहणे पुरोरुचं कुर्वन्ति । दक्षिण भाग में शुक्र ग्रह का स्थापन इत्यादि विधियाँ अनुष्ठित की जाती हैं । शतपथ ब्राह्मण में याज्ञिक विनियोग के
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
३६ शुक्लयजुर्वेदसहिता ' ज्योतिर्जरायू ' इत्यस्योच्चारणेनोभयतोऽस्य सूर्यस्य रूपं सम्पाद्यते । एवं तैत्तिरीयशाखामतम् । | अ ० ७ ' इमां त्वेव शुक्रस्य पुरोरुचं कुर्यात् । तं प्रत्नथा स्वर्विदं वीरतां पाहीति दक्षिणार्धे सादयत्येता 9 ह्येष दिशमनुसञ्चरति ' ( श ० ४।२।१ ९ ) । स्वाभिमतं सोपपत्तिकं प्राह इमां त्वेव । तं प्रत्नथा इतीमामृचमेव पुरोरुचं कुर्यात्, न पुनः शाखान्तरमत प्राप्तमित्यर्थः । अत्रोपपत्तिः - सूर्यस्य भोक्तृत्वं तदात्मकत्वं च लौकिकभोक्तृ-जातस्येत्युक्तम् - अत्तैव शुक्रः इति । भोक्तृभोग्ययोर्भोक्ता प्राधान्येन ज्येष्ठः, अतोऽत्र ज्येष्ठतातिगतज्येष्ठशब्देन शुक्रात्मकः सूर्यः प्रकाश्यत इति शुक्रग्रहण इयमेव पुरोरुक् कार्येति । शतपथीयसायणभाष्यरीत्या तदर्थस्तु — भोक्ता ' तमा इन्द्राय ' ( वा ० सं ० ७ १५ ) इति निर्देशादस्या इन्द्रो देवता, माहेन्द्रत्वप्रसिद्धं त्वां स्तुम इति शेषः । प्रत्नथेत्यादी थालप्रत्यय उपमार्थीयः । पुरातना भृग्वादय इव पूर्वे पित्रादय इव विश्व इव, समस्ता अवशिष्ट ऋषय इव, इमथा इदानीन्तना यजमाना इव त्वां स्तुमः । कीदृशम्? ज्येष्ठतातिं प्रशस्तज्येष्ठं स्तीर्णे बर्हिषि यज्ञे स्थितं स्वर्गं लब्धवन्तं प्रत्यगात्मभूतं त्वां स्तुमः । त्वं च धुनिम् अस्मान् कम्पयन् वृजनं वर्जनीयं पापं दोहसे क्षारयसि, विनाशयसीत्यर्थः । क्व पुनः स्तोत्रं यासु क्रियासु क्षिप्रमन्यान् यजमानान् जयन्तं यजमानं वर्धय से तासु स्तुमः । हे सोमरस, उपयामगृहीतोऽसि त्वां शण्डाय गृह्णामि । नन्वस्य मन्त्रस्य ' अत्ता हि ज्येष्ठः ' इत्येतद्-ब्राह्मणानुसारेण सूर्यपरत्वमवगम्यते, तत्कथमिन्द्रपरत्वेन व्याख्यानमिति चेत्तत्रोच्यते - इन्द्रोऽपि सूर्यात्मकः, तन्मूर्तिभेदत्वात् ' धाता चार्यमा च अ ७ शव भगव इन्द्रश्च विवस्वांश्चेत्येते ' ( तै ० आ ० ३ | १ | १३ ) इति श्रुतेः । मन्त्रशास्त्रेऽपि ' धाता चार्यममित्रा वरुणांशभगा विवस्वदिन्द्रयुताः । पूषाह्वयपर्जन्य त्वष्टा विष्णु भानवः प्रोक्ताः ॥ ' तस्मादिन्द्रपरत्वव्याख्यानं नानुपपन्नम् । गृहीतस्य सोमस्य समन्त्रकं सादनं विधाय व्याचष्टे -एष ते योनिरिति । भोक्तृवर्ग: सूर्यरूपः शुक्रात्मकः, अत एव समर्थः । तस्मात् प्रजानां सामथ्यं पाहि पालत मन्त्र आह । पात्रं प्रयोगकाले दक्षिणभागे प्रयुज्यत इति तत्रैव सादयेत् । तथैव कात्यायनः -- ' दक्षिणपूर्वार्ध शुक्रामन्थिनोर्दक्षिणं शुक्रस्य ' ( का ० श्र ० ९ / १०१ ९ )? । तथा ' द्वौ प्रोक्षितो यूपशकलौ भवतो द्वावप्रोक्षितौ । प्रोक्षितं चैवाध्वर्युरादत्तेऽप्रोक्षितं चैवमेव प्रतिप्रस्थाता प्रोक्षितं चैवादत्तेऽप्रोक्षितं च शुक्रमेवाध्वर्युरादत्ते मन्थिनं प्रतिप्रस्थाता ' ( श ० ४।२।१।१३ ) | ' सोऽध्वर्युरप्रोक्षितेन यूपशकलेनापमार्थ्यपमृष्टः शण्ड इत्येवमेव प्रतिप्रस्थाताऽपमृष्टो मर्क इति तदाददानावेवासुररक्षसे अपहतो देवास्त्वा शुक्रपाः प्रणयन्त्वित्येाध्वर्युनिष्क्रामति देवास्त्वा मन्थिपाः प्रणयन्त्विति प्रतिप्रस्थाता तदेतौ देवताभ्य एव प्रणयतः ' ( ० ४।२।१।१४ ) | ' तौ जघनेनाहवनीयम रत्नी सन्धत्तः । ता उत्तरवेदौ सादयतो दक्षिणायामेव श्रोणवध्वर्युः सादयत्युत्तरायां प्रतिप्रस्थाताऽननुसृजन्तावेवानाधष्टासीति तद्रक्षोभिरेवैतदुत्तरां वेदिमनाधृष्टां कुरुतो विपर्येष्यन्तौ वा एतावग्नि भवतोऽत्येष्यन्तौ तस्मा एवैतन्निनुवाते तथो हैनौ विपरियन्तावग्निर्न हिनस्ति ' ( श ० ४ | २ | १ | १५ ) । होमार्थमुत्तरवेदेः प्रत्यग्देशात् सकाशादाहवनीयं विपर्येष्यन्तौ विविधं दक्षिणतश्चोत्तरतश्च परितो गमिष्यन्तौ व्यतिक्रमेण चरिष्यमाणौ भवतः । अत एतेन वेदिश्रोण्योर्ग्रहासादनेनातिक्रमणरूपमपराधं तस्मै अग्नये अपस्नुवाते अपनयतः कार्यार्थं गमिष्यावो न तु त्वामतिक्रमिष्याव इत्येतत् सूचयित्वा अग्निरनुसृत भवति । अतः पश्चात्तथा गच्छन्तावपि अग्निर्न हिनस्ति । ' सोऽध्वर्युः पर्येति । सुवीरो वीरान् प्रजनयन् परिहीत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाह सुवीरो वीरान् जनयन् परोहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानाया-शिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति ' ( श ० ४।२।१।१६ ) | अध्वर्युप्रतिप्रस्थात्रोः परितो गच्छतो-र्गमनं समन्त्रकं विदधानो व्याचष्टे – सोऽध्वर्युरिति । अनुकूल व्याख्यान उपदिष्ट है ।