वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 101–110
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 101–110
पृष्ठ 101
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५०-५१ ] वेदार्थ पारिजातभाष्यसहिता ६५ तस्य रूपमिति ' चन्द्रमास्त द्रपमभवत् ' ( श ० ६ | १ | ३ | १६ ) इति श्रुतौ । तादृशस्य अग्निरूपस्योपाप्त्यै पूर्णकषाय-पक्वाः कुर्यादित्यर्थः । ' ता उपसृजति । आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनुक्ता यां यजुः सैव देवता सर्क सो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एक रूप समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति ' ( श ० ६।५।१।२ ) । उदव सेचनं समन्त्रं विधत्ते - ता इति । अब्देवत्यं तृचं गायत्रम् । मन्त्रार्थ उक्त एव । तिस्र ऋचस्तत्प्रतिपाद्यां देवतां च प्रशंसति- यां वै देवतामिति । आपो हि ष्टेत्यादिका ॠग यां देवतामभ्यनूक्ता अनुवदति । कर्तरि क्तप्रत्ययः । यां देवतां यजुर्मंन्त्रोऽपि, अर्थाद् यया ऋचा येन यजुषा च या देवता अन्य-गुणाभिधानपुरःसरं प्रतिपाद्यते, सैव प्रतिपाद्या देवता सा च प्रतिपादिका, ऋग्यजुर्मन्त्रपदैरप्रतीयमाना देवता नोत्तमेत्यर्थः । अतः प्रतिपाद्यप्रतिपादकयोरभेदोपचारेण एता आप एव देवताः, ' एष आपो हि ष्ठा इति तृचः । तत् तस्माद् या अमूः, अदः शब्दो विप्रकृष्टप्रदेशवचनः पूर्वं काण्डादौ अग्निसृष्टेरनन्तरम् अश्वादिपृथिव्यन्तां सृष्टिमुक्त्वा सोऽकामयत । आभ्योऽघोऽधोमां प्रजनयेयमिति ' ( श ० ६ | १ | १ | १२ ) इत्युपक्रम्य तदिदमेकमेव रूपम् ' ( श ० ६।१।१।१२ ) इत्येकरूपं कृतवान् भवति । एवमनुसन्धानार्थमुदकफेनमृत्सिकताशर्कराश्मादिसृष्टिरुक्तेति चयनादौ प्रतिपादितम् । अध्यात्मपक्षे - हे आपः! अब्भावापश्नपरमेश्वररूपाः, यूयं हि यस्माद् मयोभुवः सुखस्य भावयित्र्यः, तस्माद् नोऽस्मान् ऊर्जे भवदीयरसानुभवार्थं दधातन स्थापयत । यथा वयं सर्वस्य भोग्यस्य रसस्य भोक्तारो भवेम, तथाऽस्मान् कुरुतेत्यादिकं पूर्ववद् व्याख्येयम् । आप: अनुपलक्षिता अष्ट प्रकृतयः प्राणमयादिपुरुषा वा अत्र स्तूयन्ते । तासां तेषां च सुखजनकत्वेन मयोभूत्वम् । ऊर्जे अन्नाय रसाय च ता भवन्ति । ता एव महते रमणीया चक्षसे ब्रह्मदर्शनाय भवन्त्यनुकूलिताः । दयानन्दस्तु -- ' है जलवद्वर्तमाना आप इव स्त्रियः, या यूयं मयोभुवः स्थ सुखं भावुकाः, ता ऊर्जे बलयुक्ताय महे महते रणाय संग्रामाय चक्षसे ख्यातुं योग्याय नोऽस्मान् दधातन धरत ' इति, तदपि यत्किञ्चित्, स्त्रीणां तदर्थत्वे मानाभावात् । न च व्याप्तिगुणयोगस्तासु सम्भवति, तासामव्यापकत्वात् । के च ते प्रार्थयितारः? कथं च ताभिर्मह्ते रणाय तेषां धारणमित्यस्पष्टत्वात् श्रुतिविरोधाच्च ॥ ५० ॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयतेह नः । उशतीरिव मातरः ॥ ५१ ॥
मन्त्रार्थ - हे जलदेवता, तुम्हारा शान्त रूप सुख का एकमात्र कारण रस इस कर्म में स्थित है । हमको उस रस का भागी उसी तरह बनाओ, जैसे कि प्रीतियुक्त माता अपने बच्चे को दूध पिलाती है ॥ ५१ ॥
हेआपः, यो वो यश्च युष्माकं शिवतमः शान्ततमो रसः सुखैकहेतुभूतोऽस्ति इह कर्मणि लोके वा स्थितान् नोऽस्मान् तस्य रसस्य भाजयत भागिनः कुरुत, तं रसं प्रापयतेत्यर्थः । रसस्येति कर्मणि षष्ठी । तत्र दृष्टान्तः -- उशतीः, उशत्यः कामयित्र्यो मातर इव । यथा प्रीतियुक्ताः पुत्रस्य कल्याणं कामयमाना मातरः स्वकीयस्तन्यरसं बालं पाययन्ति तैस्तैरर्थैश्च भाजयन्ति तद्वत् । ' वश कान्ती ' इत्यस्य कृतसम्प्रसारणस्य शतृप्रत्ययान्तस्य रूपम् । अध्यात्मपक्षे - हे आपः, पूर्वोक्ता यो वः शिवतमोऽतिशयितो ब्रह्मानन्दसाक्षात्कारलक्षणो रसोऽस्ति, तस्येह मातरः अस्मिन् संसारे साधनभूमिकायां वा नोऽस्मान् भागिनः कुरुत । यथा उशत्यः पुत्रस्य शुभं कामयमाना पुत्रं तैस्तैः कामैर्भाजयन्ति तद्वदित्यर्थः । ९
पृष्ठ 102
पाठ पढ़ें पाठ छिपाएँ
६६ शुक्लयजुर्वेदसंहिता [ अ ० ] ११ दयानन्दस्तु - ' हे स्त्रियः, वो यः शिवतमोऽतिशयेन सुखकारी रस आनन्द इह गृहाश्रमेऽस्ति तस्य मातरो जनन्य उशतीरिव यथा कामयमाना भाजयन्ति तथा सेवयत ' इति, तदपि न सङ्गतम् दृष्टान्तदार्थन्ता- एतेनैव सङ्गतेः । नहि यथा मातरः पुत्रान् रसं भाजयन्ति तथैव स्त्रियो गृहपतीन् रसस्य भागिनः कुर्वन्ति । जायते यन्नात्र सम्बोधनीया इति ॥ ५१ ॥
तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ ५२ ॥
1 मन्त्रार्थ -- हे जलदेवता, तुम्हारे उस रस की प्राप्ति के लिये हम शीघ्र चलना चाहते हैं, जिससे कि तुम सारे जगत् को तृप्त करते हो और हमें भी उत्पन्न करते हो ॥ ५२ ॥
यस्याहुतिपरिणामभूतस्य क्षयस्य निवासस्य एकदेशेन यूयं जिन्वथ तर्पयथ तस्मै तस्य षष्ठ्यर्थे चतुर्थी, अरम् अलम् अत्यर्थं पर्याप्तं वयं गमाम गच्छेम । रसविषये वैतृष्ण्यमेव पर्याप्तिः, सैवालंबुद्धिः । किश्व हे आपः! यूयं नोऽस्मान् जनयथ तत्र भोक्तृत्वेनोत्पादयत! अलमिति लकारस्य रेफरछान्दसः । यद्वा हे आपः, वो युष्मत्सम्बन्धिनस्तस्मै तस्य रसस्य पूर्वमन्त्रयाचितस्य अलं पर्याप्तिं गमाम गच्छाम । पर्याप्ति नाम रसविषये वैतृष्ण्यम्, सदा तृप्ति वा । ' क्षयो निवासे ' ( पा ० सू ० ६ १२०१ ) इत्याद्युदात्तः । यस्येति सामानाधिकरण्यात् क्षयायेति चतुर्थी षष्ठ्यर्थे । क्षयाय क्षयस्य निवासस्य एकदेशेन जिन्वथ ब्रह्मादिस्तम्बपर्यन्तं जगत् तर्पयथ । पञ्चाग्निविद्या रीत्या पाहुतिक्रमेणेदं ब्रह्मादिस्तम्बपर्यन्तं जगदुत्पद्यते । हे अग्ने, तत्रास्मान् भोक्तृत्वेन जनयथ, तद्रसभोक्तृनस्मान् कुरुत | आजानदेवत्वमत्राशास्यते । ' जनयथा ' इति ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ ३ | १३७ ) इति दैर्घ्यम् । यद्वा यस्य क्षयाय क्षयेण तृतीयार्थे चतुर्थी, निवासेन । यूयं जिन्वथ प्रीता भवत, तस्मै रसाय -तद्रसप्राप्तये वो युष्मानरमत्यर्थं वयं गमामः प्राप्तुमः । किञ्च, हे आपः! यूयं नोऽस्मान् जनयथ प्रजोत्पादन समर्थान् कुरुत । गच्छतेर्लुङि उत्तमबहुवचने अगमामेति रूपम् । अडभाव आर्ष: । ' बहुलं छन्दसि ' ( वा ० सू ० २।४।७३ ) इति शपो लुकि लोटि वा रूपम् | जिन्वतिः प्रीतिकर्मा । यद्वा वो युष्मत्सम्बन्धिने तस्मै रसाय अरं शीघ्रम् अलं पर्याप्तं वा गमाम गच्छेम । यस्य रसस्य क्षयाय अस्मासु निवासार्थं हि स्वयं जिन्वथ प्रीणयथ । जिविः प्रीणनकर्मा । येन रसेन अस्मान् तर्पयथ तं गच्छेम । हे आपः नः अस्मान् जनयथ युष्मदीयभोक्तृत्वेनोत्पादयतेति । तत्र ब्राह्मणम् —'अथ फेनं जनयित्वाऽन्ववदधाति । यदेव तत्फेनो द्वितीय रूपमसृज्यत तदेवैतद्रूपं करोत्यथ यामेव तत्र मृद • संयोति सैव मृद्यत्तत्तृतीय रूपमसृज्य तैतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवन-तज्जनयति ' ( ० ६।५।१।३ ) । पिण्डे फेनासेचनं विधत्ते - अथ फेनं जनयित्वेति । कषायोदकेषु हस्तचालनेन फेनमुत्पाद्य पिण्डे तूष्णीमासिञ्चेत् । यदेव तत्फेन इत्यादेरयमर्थः --- पूर्वं ' सोऽकामयताभ्योऽद्भूयोधीमां प्रजनयेयम् ' इत्युपक्रम्य ' तदिदमेकमेत्र रूपं समदृश्यताप एव ' ( श ० ६ | १ | १ | १२ ) इत्युदकलक्षणं रूपमुक्त्वा ' सोऽकामयत भूय एव स्यात् " " " तेपान: फेनमसृजत ' ( श ० ६ | १ | १ | १३ ) इति द्वितीयं फेनात्मकं रूपमुक्तम् । अत्र पिण्डे फेनस्यासेचनेन पूर्वसृष्टफेनात्मकं द्वितीयं रूपमेव मृद्रूपेऽग्नौ निहितवान् भवति । अथ सिक्तेऽग्नौ उदकेन मृद: सम्मिश्रणं विधत्ते --- अथ यामेव तत्र मृदमिति । तत्र यां मृदं संयोति जलेन सम्मिश्रयति सा मृद् एतदनन्तरं सृष्टं मृदात्मकं तृतीयं रूपम् । तत्र ह्येवमाम्नातम् — ' अथ यो गर्भोऽन्तरासीत् सोऽग्निरसृज्यतेति ' ( ० ६ | १ | १ | ११ ) । एतेभ्यो वा एष इति । एष अग्निः, एतेभ्य उदकफेनमृदादिभ्यः पूर्वं सृष्टः, अतो जल-फेन मृदां सम्मिश्रणेन अबादिरूपेभ्यः पूर्वसृष्टाग्निमेवोत्पादितवान् भवति ।
पृष्ठ 103
पाठ पढ़ें पाठ छिपाएँ
मंन्त्रः ५२-५३ ] पारिजात भाष्यसहिता ६७ अध्यात्मपक्षे- वो युष्मत्सम्बन्धिने तस्मै ब्रह्मसाक्षात्कारलक्षणाय रसाय वयम् अरमलमत्यर्थं गमाम गच्छाम । यस्य अस्मासु क्षयाय निवासाय जिन्वथ प्रीणयत । हे आपः, नोऽस्मान् तद्भोक्तृत्वेन जनयथ वद्रसानुभवयोग्यानस्मान् कुरुत । दयानन्दस्तु - हे आप, जलवद् वर्तमानाः स्त्रियो यूयं नः क्षयाय निवासार्थाय गृहाय जिन्वथ प्रीणयत जनयथ च । ता वो युष्मान् वयम् अरम् अलं गमाम, मस्य प्रतिज्ञातस्य धर्म्यव्यवहारस्य पालिका भवत, तस्यैव वयमपि भवेम ' इति, तदतिमन्दम्, स्त्रोणां सम्बोधने मानाभावात् । सन्तानमुत्पादयत प्रतिज्ञातस्य धर्म्य -व्यवहारस्य पालिका भवतेत्यादिकं तु कल्पनामात्रसारम्, निर्मूलत्वात् ॥ ५२ ॥
मि॒त्रः स॒सृज्य॑ पृथि॒वीं भूमि॑ च॒ ज्योति॑षा स॒ह ।
सुजा॑त॑ जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सं सृ॑जामि प्र॒जाभ्यः॑ ॥। ५३ ॥
मन्त्रार्थ - मित्रदेवता आदित्य द्युलोक और इस पिण्डरूप भूमि को ज्योतीरूप अजलोम के मुझ अध्वर्यु को देते हैं । मैं भी सुन्दर जन्म वाले प्रज्ञासंयुक्त अजलोम नामक अग्नि को प्रजाओं की निमित्त पिण्ड से युक्त करता हूँ ॥ ५३ ॥
साथ एकत्र कर रोगनिवृत्ति के ' अजलोमभिः स सृजति मित्रः स सृज्येति ' ( का ० श्र ० १६ । ३ ( १८ ) । पूर्वगृहीतैरजलोमभिः सह पिण्डं मिश्र येद् मित्रः सं सृज्येति मन्त्रेण 1 । मित्रदेवत्योपरिष्टाद्बृहती । यस्यास्त्रयः पादा अष्टार्णाश्चतुर्थो द्वादशार्णः सोपरिष्टादबृहती । अध्वर्युराह-- मित्रः प्राण आदित्यो देवो वा पृथिवीं द्युलोकं भूमि च इमां मृत्पिण्डरूपां ज्योतिषा अजलोमभिः सह संसृज्य एकीकृत्य मह्यं प्रयच्छत्विति शेषः । इह पृथिवीशब्दो द्युलोक-वाची | अजस्याग्नेयत्वात् तल्लोम्नां ज्योतिः शब्देन ग्रहणम् । अहमपि सुजातं शोभनोत्पन्नं जातवेदसं जातप्रज्ञान-मजलोमाख्यमस्ति त्वां संसृजामि मृत्पिण्डेन योजयामि । किमर्थम्? प्रजाभ्यः प्रजानाम्, षठ्यर्थे चतुर्थी, अयक्ष्माय अव्याधिता, प्रजानामारोग्यायेत्यर्थः । लोकत्रयस्यापि पृथिवीभूमिशब्दवाच्यता । ' तिस्रो भूमीर्धारयन् त्रोरुत द्यून् ' ( ऋ ० वे २२२७१८ ) इतिवत् । चकारादत्रापि त्रीनपि लोकान् ज्योतिषा तेजसा आग्नेयस्याजस्य लोमभिः सह सुजातं जातवेदसं सद्रूपमग्नि त्वां प्रजाभ्योऽयक्ष्माय यक्ष्मणोऽभावोऽयक्ष्मं तस्मै रोगरूपपापापनुत्तये संसृजामि सम्मिश्रयाम्यहमध्वर्युरिति शेषः । अत्र ब्राह्मणम् – अथाजलोमै स ७ सृजतीति । स्थेम्ने न्वेव यद्वेवाजलोमैरेतद्वा एनं देवाः पशुभ्योऽधि समभरंस्तथैवैनमयमेतत्पशुभ्योऽधि सम्भरति तद्यदजलोमेरेवाजे हि सर्वेषां पशूना? रूपमथ यल्लोम लोम हि रूपम् ' ( श ० ६।५।१।४ ) । अजलोममिश्रणं विधत्ते - अथाजलोमः संसृजतीति । स्थेम्ने स्थिरत्वाय । अजलोमं प्रशंसति यद्वेवाजलोमैरिति । यथा पूर्वं देवा एनमष्टरूपात्मना गूढमग्नि पुरुषादिपञ्च पशुभ्यः सकाशात् सम्भृत-वन्तः, तथा अयं यष्टा पिण्डेऽजलोम संसर्गेण पशुभ्य एव सम्भृतवान् भवति । ननु केवलेनाजलोमसंसर्गेण सर्वेभ्यः पुरुषादिभ्यः कथमग्नेः सम्पादनमिति चेन्न, अजे सर्वस्य पशुरूपस्यान्तर्भावात् । तथा चोदाहृता श्रुतिः - ' अजे हि सर्वेषां पशूनां रूपम् ' ( श ० ६।५।१४ ) इति, तथैव पुरस्ताद् वायव्यं कपशुप्रस्तावे समाम्नातम् - ' यद्वेवैतं पश्मालभते । एतस्मिन् ह् पशी सर्वेषां पशूनां रूपम् । यत्तूपरो लप्सुदी तत् पुरुषस्य रूपम् ' ( श ० ६।२।२।१५ ) इत्यादिना । प्रकारान्तरेण अजे सर्वपशरूपमाह - अथ यल्लोमेति । लोमानि सर्वेषु पशुषु सन्ति, अतो लोमलक्षणं रूपं सर्व पशु साधारणमित्यर्थं । ' मित्रः स सृज्य । पृथिवीं भूमिं च ज्योतिषा सहेति प्राणो वै मित्रः
पृष्ठ 104
पाठ पढ़ें पाठ छिपाएँ
६८ शुक्लयजुर्वेद संहिता [ अ ० ११ प्राणो वा एतदग्रे कर्माकरोत् सुजातं जातवेदसमयक्ष्माय त्वा स सृजामि प्रजाभ्य इति । यथैव यजुस्तथा बन्धु: ' ( ० ६ ५ । ११५ ) । सुप्रसन्नं ब्राह्मणम् । अध्यात्मपक्षे - मित्रः सर्वभूतसुहृत्परमेश्वरः प्रजाभ्यः प्रजानाम् अयक्ष्माय आरोग्याय पृथिवीं द्युलोकं भूमि चकारादन्तरिक्षलोकं च ज्योतिषा आदित्यात्मकेन सह संसृज्य सम्यङ् निर्माय प्रयच्छति । अहं साधकः सुजातं शोभनैः शमदमादिसाधनैर्जातं हृदि प्रादुर्भूतं जातवेदसं तत्वज्ञानाख्यमग्नि संसृजामि तत्प्रसादाज्जनयामि । दयानन्दस्तु - ' हे पते यस्त्वं सर्वेषां सुहृत् सन् प्रजाभ्यः पालनीयाभ्योऽयक्ष्माय आरोग्याय ज्योतिषा विद्यान्याय सुशिक्षाप्रकाशेन सह पृथिवीमन्तरिक्षं भूमि क्षिति संसृज्य मां सुखयसि तं सुजातं सुप्रसिद्धं जातवेदसम् उत्पन्नवेदविज्ञानं त्वामहमप्येतदर्थं संसृजामि निष्पादयामि, भवताहं सम्बद्धा भवामि ' इत्याह, तदपि वेदस्य लोकायतीकरणमेव, असङ्गतेः । कथं पतिरन्तरिक्षं भूमिं च संसृज्य पत्नीं सुखयतीत्यस्यास्पष्टत्वात् । श्रुतिविरोधस्तु पूर्वव्याख्याने स्पष्ट एव ॥ ५३ ॥
रु॒द्राः स॒सृज्य॑ पृथि॒वीं बृहज्ज्योतः समी॑धिरे ।
तेषां भा॒नु॒रज॑स्य॒ इच्छुक्रो दे॒वेषु॑ रोचते ॥ ५४ ॥
मन्त्रार्थ - जिन रुद्रों ने पार्थिव पिण्डों को बालू, लौह किट्ट और पाषाण चूर्ण से संयुक्त करके प्रौढ़ अग्नि को प्रदीप्त किया, उन रुद्रों को शुद्ध प्रदीप्त ज्योति देवताओं के मध्य में परिपूर्ण होकर भली प्रकार प्रकाशित होती है ॥ ५४ ॥
' शर्करायोरसाश्मचूर्णैश्च रुद्राः स ११ सृज्येति ' ( का ० श्र ० १६ ३ | १ ९ ) । सूक्ष्मसिकता लोहर सपाषाणचूर्णैः पिण्डं मिश्रयति रुद्रा इति मन्त्रेण । अयोरसो लोहरसो यस्ताप्यमानो लोहात् पृथग्भवति । रुद्रदेवत्याऽनुष्टुप् । ये रुद्राः पृथिवीं पार्थिवं पिण्डं संसृज्य शर्करायोरसाश्म चूर्णैः संयोज्य बृहज्ज्योतिः प्रौढमग्नि समीधिरे उखायां सम्यग्दीपितवन्तः, उखास्थमग्नि संवत्सरपर्यन्तं सम्यक् पालितवन्तः तेषां फलमुच्यते - तेषां रुद्राणां भानुर्दीप्तिः, अजस्रः अनुपक्षीण एव । ‘ जसु उपक्षये ' । इच्छब्द एवार्थः । शुक्रः शुद्धो देदीप्यमानः शुक्लवर्णो वा देवेषु देवानां मध्ये रोचते प्रकाशते । तत्र ब्राह्मणम् -- ‘ अथैतत् त्रयं पिष्टं भवति । शर्कराश्मायोरसस्तेन स सृजति स्थेने न्वेव यद्वेव तेनेतावती वा इयमग्रेऽसृज्यत तद्यावतीयमग्रेऽसृज्यत तावतीमेवैनामेतत्करोति ' ( श ० ६ | ५ | १ | ६ ) | शर्कराश्मायो -रसचूर्णैः संसगं विधत्ते - अथैतत् त्रयं पिष्टमिति । पूर्वं शर्करादीनि त्रीणि रूपाणि सृष्टानि । ' शर्करामश्मानमयो हिरण्यमोषधिवनस्पत्य सृजत ' ( श ० ६ | १ | १ | १३ ) इति हि प्रागाम्नातम् । तेन त्रयेण संसर्गे तैरेव त्रिभी रूपैमृदं रूपवतीं कृतवान् भवतीत्यधुनोच्यते । ' रुद्राः स सृज्य पृथिवीं बृहज्ज्योतिः समीधिर इत्यसो वा आदित्य एषो-ऽग्निरेद्वैतद्रुद्राः ससृज्य पृथिवीं बृहज्ज्योतिः समीधिरे । तेषां भानुरजस्र इच्छुक्रो देवेषु रोचत इत्येष वा एषां भानुरजसः शुक्रो देवेषु रोचते ' ( श ० ६।५।१७ ) | ( रुद्रनामका देवा पृथिवीमुखा निष्पादिकां मृदं संसृज्य बृहज्ज्योति: प्रौढमग्नि समीधिरे, तेषां रुद्राणां चायमग्निर्भानुना समानः, अजस्रं निरन्तरं शुक्रो दीप्तियुक्तो देवेषु रोचते शोभते इति काण्वभाष्ये सायणः ।
पृष्ठ 105
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५४-५५१ ] वेदार्थपारिजात भाष्यसहिता ६ ९ अध्यात्मपक्षे - रुद्राः समष्टीन्द्रियरूपा हिरण्यगर्भात्मानः संसृज्य महदादीनि संयोज्य बृहज्ज्योतिः बृहज्ज्यो-तिर्मयं पृथिवीं ब्रह्माण्डं समीधिरे सम्यक् पालितवन्तः । तेषामेव प्रयत्नेन भानुः सूर्यो देवेषु रोचते । कीदृशो भानुः? शुक्रः शुक्लो भास्वरः । अजस्र इत् अनुपक्षीण एव । दयानन्दस्तु --- ' हे स्त्रीपुरुषाः, रुद्राः प्राणस्वरूपा वायवः संसृज्य सूर्यमुत्पाद्य पृथिवीं भूमि बृहत् महद् ज्योतिः प्रकाशं समीधिरे सम्यग् दीपयन्ति । तेषां सकाशादुत्पन्नः शुक्रो भास्वरो भानुः सूर्यो देवेषु दिव्येषु पृथिव्यादिषु, अजस्रो निरन्तरो बहुः प्रकाशो स विद्यते यस्मिन् स इत् इव विद्यान्यायार्कमुत्पाद्य प्रजाजनान् प्रकाशयत तेभ्यश्च प्रजासु दिव्यानि सुखानि प्रचारयत ' इति, तदपि निर्मूलमध्याहारमूलकमेव, सम्बोधनस्य दाष्टन्तिस्य च तदभ्यूहमात्रत्वेनावेदार्थत्वात् । कथं च वायवः संसर्गेण सूर्यमुत्पादयन्ति ॥ ५४ ॥
सृ॒ष्टा॒ वसु॑भी रु॒द्रेर्षोरै कर्म॒ष्या॑ मृद॑म् । : हस्ता॑भ्यां मुद्दों कृत्वा सिनीवाली कृणोतु॒ ताम् ॥ ५५ ॥
मन्त्रार्थ- चन्द्रकला से युक्त अमावस्या के अभिमानी देवता, बुद्धिमान् वसुगण और रुद्रगण शर्करा आदि से संयोजित मृत्तिका को हाथों से कोमल करके उखा कर्म के योग्य बनावें ॥ ५५ ॥
' स ७ सुष्टामिति संयोति ' ( का ० श्र ० १६ ३ २० ) । उक्तं शर्कराचूर्णादिकमृकत्रयेण मृत्पिण्डे सम्यङ् मिश्रयेत् । द्वे ऋचौ सिनीवालीदैवते तृतीया चादितिदेवत्या । तिस्रोऽनुष्टुभः । सिनीवाली दृष्टेन्दुकलामावास्याभि-मानिनी देवता हस्ताभ्यां मृदं मृत्तिकां कोमलां कृत्वा पुनस्तां मृदं कर्मण्या मुखाकर्मयोग्यां कृणोतु करोतु । कर्म सम्पद्यते यया सा कर्मण्या ताम् । कोदृशीं मृदम्? धोर्बुद्धिमद्भिर्वसुभी रुद्रश्व संसृष्टां सेवितां शर्करादिभिः संयोजिताम् । धीशब्दो बुद्धिवचनः । छान्दसो मत्वर्थीयो रप्रत्ययः । धीर्बुद्धिरस्ति येषां ते धीराः । पूर्वमन्त्रे रुद्रशब्देन वसवोऽप्युपलक्षिताः । यद्वा धीरैर्धारयद्भिर्वसुभिर्देवै रुद्रैश्च संसृष्टा । वसुपदेनात्राजलो मसंसर्गमन्त्रो मित्रः संसृज्य इति विवक्षितः । रुद्रपदेन शर्करादिसंसर्गमन्त्रो रुद्राः संसज्य इति विवक्षितः । तथा च तन्मन्त्रद्वय प्रति-पाद्यैर्वसुभी रुद्रैश्च संयोजितां कर्मण्यां कर्मणे सम्पादितां मृदं मृत्तिकां सिनीवाली दृष्टेन्दुः, तदभिमानिदेवता हस्ताभ्यां मृट्ठी मृदुरूपां कृत्वा तां कर्माह कृणोतु करोत्वित्यर्थः । वसुरुद्राभ्यां मित्रः संसृज्य रुद्राः संसृज्य इति मन्त्री विवक्षितावित्यत्र यन्मित्रेण यद्वसुभिर्यद्रुद्रैरिति ब्राह्मणं प्रमाणमिति शतपथव्याख्यायां सायणाचार्यः । तत्र ब्राह्मणम् -- ' अथ प्रयौति १ ९ सृशं वसुभी रुद्रैरिति छ सृष्टा ह्येषा वसुभिश्च रुद्रैश्च भवति यन्मित्रेण तद्वसुभियं द्रुद्रस्तत्तद्रुद्रेधीरः कर्मण्यां मृदमिति धीरा हि ते कर्मण्यो इयं मृद्धस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु तामिति वाग्वै सिनीवाली सेना हस्ताभ्यां मृद्वीं कृत्वा करोत्वित्येतत् ' ( ० ६ | ५ | ११ ९ ) । मृदः सम्मिश्रणं समन्त्रं विधत्ते अथ प्रयोतीति । तिसृभिर्ऋग्भिः । मृदं प्रकर्षेण योति पिण्डे सम्मिश्रयेत् । यन्मित्रेण मित्रप्रतिपादकमन्त्रेण संसर्गस्तद्वसुभिः यदुद्र रुद्रप्रतिपादकमन्त्रेण संसर्गस्तद्रुद्रधीरैरिति । धीरा हि ते । इयं मृत् कर्मण्या उ एव । कर्मणे सम्पादिता कर्मण्या । अध्यात्मपक्षे - सिनीवाली दृष्टेन्दुकलायुक्तामावास्याधिष्ठात्री महामाया वसुभिर्देवै रुद्रश्च संसृष्टा मृदं मृत्तिका मृदुपलक्षितां शरीरोपादानभूतां पञ्चभूतसंहति मृद्वी कोमलां कृत्वा कर्मण्यां कर्मसम्पादनयोग्यां कृणोतु करोतु । प्रकृतिर्वस्वादिभिर्बुद्धिमद्भिर्विविधोपकरणैः संयोजितां मृदादिसंहति कर्मण्यां कर्मनिर्वर्तनक्षमां करोत्वित्यर्थः । प्राणिनामदृष्टवशाद् महामाया शक्तिर्वस्वादिसहकारिभिर्मृदं मृदादिसंहति मृद्वी कर्मफलसम्पादनानु-गुण्येन नमनशील कर्मण्यां कर्मनिर्वचनयोग्यां करोति, देवमनुष्यादिदेहरूपेण परिणमयतीत्यर्थः ।
पृष्ठ 106
पाठ पढ़ें पाठ छिपाएँ
७० शुक्लयजुर्वेद संहिता [ अ ० ११ दयानन्दस्तु - ' हे पते, भवान् शिल्पी हस्ताभ्यां कर्मण्यां मृदमिव कोमलाङ्गीं धीरैः सुसंयमैर्वसुभिः कृतेन चतुर्विंशतिवर्षं ब्रह्मचर्येण प्राप्तविद्य रुद्रैश्चतुश्चत्वारिंशद्वर्षब्रह्मचर्येण प्राप्तविद्यर्या शिक्षया संसृष्टा सम्यक् सुशिक्षया सम्पादिता तां मृद्वी मृदुगुणस्वभावां कृणोतु, या सिनीवाली, या सिनीः प्रेमबद्धाः कन्या वलयति सा वर्तते तां स्त्रियं कृत्वा सुखयतु... ' इत्यादि, तत्सर्वं प्रमत्तप्रलपितमेव, मन्त्रे पतिपत्नीसंवादसत्त्वे मानाभावात् । वसुरुद्र-पदव्याख्यानमपि निर्मूलमेव, कोमल गुणस्वभावस्यैव विवक्षितत्वे मृदिव कन्या कोमलगुणस्वभावेत्यपेक्षया कमलिनीव कोमलस्वभावेत्यस्यैव वक्तुमुचितत्वात् । सिनी: प्रेमबद्धाः कन्या एव कुतो न पत्नीः कुर्यात्? या प्रेमबद्धाः कन्या वलयति सा किमर्थं पत्नीत्वेन ग्राह्या? कोऽत्राभिप्राय इत्यनुक्तेः । श्रुतिसूत्रविरोधस्तु पूर्वव्याख्यानेन स्फुट एव ॥ ५५ ॥
सिनीवाली संकप॒र्दा संकुरीरा स्वप॒शा ।
सा तुभ्य॑मदिते म॒ह्योखां द॑धातु हस्त॑योः ॥ ५६ ॥
मन्त्रार्थ - हे दीनतारहित पूजित देवमाता, वह सुन्दर केश और अवयव वाली, सुन्दर मस्तकचन्द्रिका वाली, विलास में चतुर अवयव वाली, चन्द्रकला से युक्त अमावस्या की अभिमानिनी देवी तुम्हारे हाथों में पाकपात्र उखा को स्थापित करे ॥ ५६ ॥
' अदितिरदीना देवमाता ' ( नि ० ४।२२ ) इति यास्कः । हे अदिते अखण्डनीये देवमातः, तत्सदृशि हे भूमे हे महि प्रौढे महति सा पूर्वमन्त्रोक्ता सिनीवाली सुकपर्दा सुष्ठु शोभनः कपर्दः स्त्रीणामुचितः केशसंयमन-प्रकारो वेणिर्वा यस्याः सा सुकुरीरा सुष्ठु शोभनं कुरीरं शृङ्गाराथं शिरसि धार्यमाणं कनकाभरणं मुकुटो वा यस्याः सा स्वोपशा उपशेते शयनं कुरुते यंरवयवविशेषैस्ते सर्वेऽप्युपशास्तेषां समूह औपशः, सुष्ठु शोभनः शयनविदग्धो विलासचतुर औपशोऽवयवसमूहो यस्याः सा तुभ्यं तव । षष्ठ्यर्थे चतुर्थी । हस्तयोर् उखामादधातु । यद्वा सिनीवाल्याः स्त्रीत्वात् तदुचिता धर्मा उच्यन्ते । सुकपर्दा सुष्ठु शोभनः कपर्दः केशसंयमनवे णिर्यस्याः सा, सुकुरीरा सुष्ठु शोभनः कुरीरो मुकुटो यस्याः सा स्वौपशा सुष्ठु शोभन औपशो जघनभागो यस्याः सासुजघनेति । तत्र ब्राह्मणम् - ' सिनीवाली सुकपर्दा सुकुरीरा स्वौपशेति । योषा वै सिनोवाल्येतदु योषायं समृद्ध, रूपं यत्सुकपर्दा सुकुरीरा स्त्रीपशा समर्द्धयत्येवैनामेतत् सा तुभ्यमदिते मह्योखां दधातु हस्तयोरितीयं वा अदितिर्मह्यस्यै तदाह ' ( श ० ६ | ५ | १ | १० ) । अत्र ' योषा वा ' इत्यादिना योषात्वसमर्थनम् । अध्यात्मपक्षे - से सिनीवाली योषारूपत्वात् तदुचितैर्धर्मे विशेष्यते सुकपर्देत्यादिना । हे अि अखण्डनीये महि परमपूज्ये, त्वं सुकपर्दा साधुवेणीयुक्ता सुकुरीरा सुमुकुटा स्वोपशा सुजघना, असीति शेषः । तुभ्यं तव हस्तयोर् उखां ज्ञानाग्नेराधारभूतां बुद्धिम्, आदधातु आदधामि धारयामि । व्यत्ययेन पुरुषभेदः । दयानन्दस्तु – हे महि पूज्ये अदिते अखण्डितानन्दे, या सिनीवाली प्रेमास्पदाच्या सुकपर्दा सुकेशी सुकुरीरा शोभनानि कुरीराण्यलङ्कृतान्याभूषणानि कर्माणि वा यस्याः । स्वौपशा उप समीपे श्यति तनूकरोति यया पाकक्रियया सोपशा तस्या इदं कर्म औपशं तच्छोभनं विद्यते यस्याः सा तुभ्यं हस्तयोर् उखां सूपादिसाधिनी स्थालीम् आदधातु सा त्वया संसेव्या ' इति, तदपि मन्दम्, हे अदिते! हे महि, सुकेशी स्वाभूषणा पाचिका तव हस्तयोः सूपादिसाधिनीमादधातु सा त्वया सेव्येत्यादिविषयस्यात्यन्त लौकिकत्वेन वेदार्थत्वायोगात् । नहि कश्चित् स्वपत्नी पूज्यत्वेन हे पूज्ये! इति सम्बोधयति ॥ ५६ ॥
पृष्ठ 107
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५७-५८ ] वेदार्थपारिजातभाष्यसहिता ७१ उ॒षां कृणोतु शक्त्य बाहुभ्यामदितिधिया । माता पत्रं यथोपस्थे साग्नि बिभर्त गर्भ आ । मखस्य शिरोऽसि ॥ ५७ ॥
मन्त्रार्थ - अदिति देवता अपनी सामर्थ्य से बुद्धि द्वारा हाथों से उत्कर्ष विधानपूर्वक पाकपात्र स्थापित करे । यह उखा अपने मध्य में सब प्रकार से अग्नि को उसी प्रकार धारण करे, जैसे जनमी अपनी गोद में पुत्र को धारण करती है । हे मृत्पिण्ड, तुम यज्ञ के मुख्य भाग हो । ५७ ॥ सा अदितिः शक्त्या सामर्थ्येन धिया बुद्धधा बाहुभ्यां च उखां कृणोतु । सा उखा कृता सती गर्भे मध्यभागे आसमन्ताद् अग्नि बिभतुं सर्वतो धारयतु । कथमिव? यथा माता जननो उपस्थे अते पुत्रं बिर्भात तद्वत् । यजमान उखां करोति मृदमादाय मखस्य शिर इति ' ( का ० श्री ० १६/३/२३ ) । भार्याणां प्रथमलब्धया यजमानपत्न्या महिष्या तस्मात् पिण्डान्मृदमादाय द्वादशाङ्गुलायां त्रिस्थानलिखितायामषाढा-संज्ञायामिष्टकायां कृतायां यजमानः पिण्डान्मृदमादाय स्वयमेवोखां करोति । एकपशुपक्षे प्रादेशायामविस्तारो चतुरस्राम, पञ्चपशुपक्षे त्रिभागोनत्रयोविंशत्यङ्गुलायामविस्तारामूर्ध्वा प्रादेशेनैवेति सूत्रार्थः । मृत्पिण्डदैवतं यजुः, यजुर्गायत्री छन्दः । हे मृत्पिण्ड, त्वं यज्ञस्य शिरोऽसि । आहवनीयो यज्ञस्य शिरः । तस्मादेवोद्धरणा-ल्लक्षणयात्रापि शिरः शब्दः । तत्र ब्राह्मणम ' उखां कृणोतु । शक्त्या बाहुभ्यामदितिधियेति शक्त्या करोति बाहुभ्यां च धिया च माता पुत्रं यथोपस्थे साग्नि बिभर्तु गर्भ एति यथा माता पुत्रमुपस्थे बिभृयादेवमग्नि च हि गर्भे बिभवत्येतत् ' ( श ० ६ । ५ । १ । ११ ) । सुप्रसन्नं ब्राह्मणम् । अध्यात्मपक्षे- -सा अदितिः शक्त्या सामर्थ्यन बाहुभ्यां धिया च उखां ज्ञानाग्नेराधारभूतां बुद्धि कृणोतु । सा च कृता बुद्धिरग्नि ज्ञानम् आसमन्तात् तथा बिभर्तु यथा माता पुत्रमुपस्थे बिभर्ति । दयानन्दस्तु -- ' हे गृहस्थ, यतस्त्वं मखस्य यज्ञस्य शिर उत्तमाङ्गवद् वर्तमानोऽसि, तस्माद् भवान् धिया प्रज्ञया कर्मणा वा शक्त्या पाकविद्यया सामर्थ्येन वा बाहुभ्यामुखां पाकस्थाली कृणोतु । यादितिर्जननी वर्ततेसा पत्नी गर्भे कुक्षौ यथा माता उपस्थे स्वाङ्के पुत्रं धरति तथाग्निमाबिभतुं, अग्निमिव वर्तमानं वीर्यम् ' इति, तदेतदप्यपेशलम् या अदितिर्जननी सा पत्नीति परस्परविरोधात् । नहि पाकस्थालीसाधनाय पत्युर्बुद्धिशक्ति-बाहूनां करणत्वं युक्तमु, तस्याः शिल्पिभिर्निर्मीयमाणत्वात् ॥ ५७ ॥
वस॑वस्त्वा कृ॒ण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गर॒स्वद् ध्रुवासि॑ पृथि॒व्य॒सि धारया॒ महि॑ प्र॒जाएं रायस्पोषं गौप॒त्य ँ सुवीर्येभ् सजा॒तान् यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु त्रैष्टुभेन॒ छन्द॑साङ्गिर॒स्वद् ध्रुवास्य॒न्तरि॑क्षमसि धा॒रयो॒ महि॑ प्र॒जा रायस्पोषे॑ प॒त्यम् सु॒वीर्ये ँ सजा॒तान् यज॑-मानायादि॒त्यास्त्वा॑ कृ॒ण्वन्त॒ जग॑तेन॒ छन्द॑साङ्गिर॒स्वद् ध्रुवासि॒ द्यौर॑सि धारया मयि प्रजा रायस्पोषं गौप॒त्य ं सुवीर्यं सजा॒तान् यज॑मानाय॒ विश्वे॑ त्वा दे॒वा वैश्वान॒राः कृष्कत्वानंष्टु-मेन॒ छन्द॑साङ्गिर॒स्वद् ध्रुवासि॒ दिशऽसि धारया॒ महि॑ प्र॒जा रायस्पोषं गौप॒त्य सुवीर्ये सजा॒तान् यज॑मानाय ॥ ५८ ॥
पृष्ठ 108
पाठ पढ़ें पाठ छिपाएँ
७२ शुक्लयजुर्वेदसंहिता [ अ ० ११ मन्त्रार्थ - हे उखे, वसुगण गायत्री छन्द के प्रभाव से अंगिरा के समान तुम्हें स्थापित करें । उनके द्वारा दृढ़ता से स्थापित तुम पृथ्वी रूप होकर, मुझ यजमान के निमित्त सन्तान, धन, पुष्टि, गोपतित्व और सुन्दर पराक्रम दो, सहोदर गण के साथ हमारा यथोचित सोहादं बनाओ । हे उखे, रुद्रगण त्रिष्टुप् छन्द से अंगिरा के समान तुम्हें स्थापित करें । तुम अन्तरिक्ष रूप हो, अतः दृढ़ होकर यजमान के निमित्त ( पूर्ववत् ) । है उसे बारह आदित्य जगती छन् के सामर्थ्य से अंगिरा के समान तुम्हारा निर्माण करते हैं, तुम द्युलोक रूप होने से दृढ़ होकर ( पूर्ववत् ) । हे उखे, सब मनुष्यों से प्राप्त होने योग्य विश्वेदेव देवता अनुष्टुप् छन्द के प्रभाव से अंगिरा ऋषि के समान तुम्हारा निर्माण करते हैं, तुम विशा-स्वरूप होने से दृढ़ होकर मुझ यजमान के निमित्त सन्तान, धन, पुष्टि, गोपतित्व और सुन्दर पराक्रम प्राप्त कराओ, सहोदरगण के साथ हमारा यथोचित सौहार्द स्थापित हो ॥ ५८ ॥
' वसवस्त्वेति प्रथयति ' ( का ० श्र ० १६ । ३ । २६ ) | यजमानो गृहीतां मृदम् उखातल निर्माणाय प्रादेशमात्र विपुलां करोति वसव इति मन्त्रेण । उखादेवत्या ब्राह्मी अनुष्टुप् । हे उखे, वसवो देवविशेषाः सह-कारिणो गायत्रेण छन्दसा कृत्वा अङ्गिरस इव त्वा कृण्वन्तु कुर्वन्तु । यतस्त्वं कृता सती ध्रुवा स्थिरासि पृथिवी चासि । अतस्त्वां वच्मि - हे उखे, यजमानाय यजमाने मयि, सप्तम्यर्थे चतुर्थी, प्रजां पुत्रादिकां धारय स्थापय । रायस्पोषं धनस्य पुष्टि च धारय । गौपत्यं गोपतित्वं च धारय । सुवीर्यं शोभनं वीयं वीरकर्मं मयि धारय । सजातान् समानोदरोत्पन्नान् भ्रातृन् मयि धारय । ' अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रास्त्वेति ' ( का ० श्र ० १६।३।२७ )! प्रथनानन्तरं सर्वासु दिक्षु प्रथितस्य अन्तान् मध्यप्रदेशापेक्षयाऽङ्गुलमात्रमुच्चानूर्ध्वान् कृत्वा प्रथमां पिण्डिकां तत्र योजयेत् । रुद्रास्त्वेति मन्त्रेण धातुप्रक्षेपः । उखादेवत्या आर्षी अनुष्टुप् । हे उखे, रुद्रा त्रैष्टुभेन छन्दसा त्वां कृण्वन्तु । अङ्गिरस्वद् ध्रुवासि । अन्तरिक्षमसि अन्तरिक्षरूपासि । शेषं पूर्ववत् । ' संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति ' ( का ० श्री ० १६ । ३।२७ ) । तामुखां सजलया मृदा लिप्त्वा वारिणा श्लक्ष्णां सचिक्कणां कृत्वा उत्तरं धातुं द्वितीयपिण्डिकां पूर्वोपरि योजयेत् । उखादेवत्या ब्राह्मी अनुष्टुप् । आदित्या देवा जागतेन छन्दसा खां कुर्वन्तु । त्वं द्यौरसि । शेषं पूर्ववत् । ' विश्वे त्वेति समीकरोति का ० श्री ० १६।३२ ९ ) न्यून प्रमाणा चेद् धातु ( मृत्पिण्ड ) प्रक्षेपेण पूर्णां कुर्यात् । अधिकप्रमाणा चेत्तदा तदतिरिक्तां छित्वा पूर्वप्रमाणां कुर्यात् । उखादेवत्या ब्राह्मी बृहती । वैश्वानरा विश्वैर्नरैनीयन्ते, विश्वान् नरान् नयन्ति वा विश्वेषां नराणां वा सम्बन्धिनो देवा विश्वेभ्यो नरेभ्यो हिता वा तथाभूता देवा हे उखे, त्वां कुर्वन्तु । आनुष्टुभेन छन्दसा कृत्वा । त्वं च दिनूपासि, शेषं पूर्ववत् । तत्र ब्राह्मणम् – ' अथ मृत्पिण्डमुपादत्ते । यावन्तं निधयेऽलं मन्यते मखस्य शिरोऽसीति यज्ञो वै मखस्तस्यै-तच्छिर आहवनीयो वै यज्ञस्य शिर आहवनीयमु वा एतं चेष्यन् भवति तस्मादाह मखस्य शिरोऽसीति ' ( श ० ६ | ५ | २ | १ ) । अथोखाया अधस्तलपर्याप्तमृत्पिण्डादानं विधत्ते - अथ मृत्पिण्डमिति । निधिर्नाम उखाया अधस्तलम्, तस्यै यावन्तं पर्याप्तं मन्यते यजमानस्तावन्तमाददीत । उखाकरणे यजमानः कर्ता, यजमान उखां करोति मृदमादाय मखस्य शिर इति ' ( का ० श्र ० १६ | ३ | २३ ) इति कात्यायनोक्तेः । आदाने मन्त्र -विधत्ते - मखस्य शिरोऽसीति । हे मृत्पिण्ड, त्वं मखस्य शिरोऽसि । एतद्यजुर्व्याचष्टे - यज्ञो वै मख इति । यथा आहवनीयो यज्ञस्य शिरः अग्न्याधारत्वात् एवं मृत्पिण्डोऽपि वयाधारत्वादाहवनीयस्य चीयमानत्वाच्च लक्षणया यज्ञशिर इत्युच्यते । ' यद्वेवाह मखस्य शिरोऽसीति । जायत एष एतद्यच्चीयते शीर्षतो वै मुखतो जायमानो जायते शीर्षतो मुखतो जायमानो जायाता इति ' ( श ० ६ | ५ | २२ ) । प्रकारान्तरेण स्तोतुमनुवदति--यद्वेवाह मखस्येति । इष्टकाभिश्चीयत इति यत् तद् एषोऽग्निर्जायते । चयनं नाम जन्मेत्यर्थः । लोके ह्युत्पद्यमानः
पृष्ठ 109
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ५८ ] वेदार्थपारिजात भाष्यसहिता ७३ पुरुषः प्रथमं शीर्षतः शिरःप्रभृतिक एव चीयते जायते । एवमग्निः शीर्षतो जायतामित्यभिप्रायेण यज्ञस्य शिरोऽसीत्युक्तम् । ' जायात ' इति जनेः पञ्चमलकारे रूपम् । ' तं प्रथयति । वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसाङ्गिरस्वदित्यय. हैष लोको निधिस्तमेतद्वसवो गायत्रेण छन्दसाऽकुर्वंस्तथैवैनमयमेतद् गायत्रेण छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति पृथिव्यसीति पृथिवी होष निधिर्धारया मयि प्रजाथ रायस्पोषं गौपत्य सुवीर्यं ७, सजातान् यजमानयेत्येतद्वै वसव इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशासत तथैवैतद्यजमान इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशास्ते तां प्रादेशमात्रीं कृत्वाऽथास्यै सर्वतस्तीरमुन्नयति ' ( श ० ६ | ५ | २ | ३ ) । तत्र प्रथनं समन्त्रं विधत्ते - तं प्रथयतीति । उखा नाम लोकत्रयात्मिकेति स्तुता । तत्र निधिर्भलोकः, उत्तरत्र ' द्यौर्ह्येष उद्धिर्धारय ' इति श्रवणात् । उत्तरोत्तरमृत्पिण्डप्रक्षेपो अन्तरिक्षद्युलोकात्मकौ । अतो मन्त्रत्रयेऽपि लोकत्रयवाचकानि पदानि विद्यन्ते । यथा निधिप्रथनमन्त्रे एवमाम्नायते --- ' वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसा ' इत्यादि । तदर्थोऽप्येवम् । वसवो नाम भूलोकरक्षका देवाः, त्वामुखां भूलोकात्मिकां कृण्वन्तु कुर्वन्तु । गायत्रेण छन्दसा सह अङ्गिरस्वत् प्राणवत् । हे उखे, ध्रुवासि स्थिरासि पृथिवी असि भूलोकात्मिकासि । धारया मयीति यजुः शेषेण यजमाने आशिषमाशास्ते । मयीति सप्तमीनिर्देशाद् यजमानायेति सप्तम्यर्थे चतुर्थी । शेषं पूर्ववत् । मन्त्रं व्याचष्टे -- अयं हैष लोको निधिरिति । एष भूलोकः, निधिर् उखाया अधस्तलम् । तदेतद्यथा ' वसवोऽकुर्वन् ' एवं यष्टापि वसव इति पाठेन भूलोकमेव कृतवान् भवति । ध्रुवासीत्यस्य व्याख्यानं स्थिरासीति । तस्यापि व्याख्यानं प्रतिष्ठितासीति । पृथिवीत्यस्य व्याख्यानं पृथिवी ह्येष निधिरिति । धारया मयोत्यादिना यजमानस्य स्वाशीराशासनमिति । ' अथ पूर्वमुद्धिमादधाति । रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वदित्यन्तरिक्ष " हैष उद्धिस्तमेतद्रुद्रास्त्रष्टुभेन छन्दसाऽकुवंस्तथैवैनमयमेतत् त्रैष्टुभेन छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीत्यन्तरिक्षमसीत्यन्तरिक्ष उद्धर्धारया मयि प्रजा रायस्पोषं गौपत्य ११ सुवीर्यं सजातान्यजमानायेत्येतद्वै रुद्रा अन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशासत तथैवैतद्यजमानोऽन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषनाशास्ते ताछ संलिप्य स९९ श्लक्ष्ण्य ' ( श ० ६ | ५ | २-४ ) | अथ तिर्यक् प्रादेशमात्रं विस्तारिताया निधिमृद उपरि मृत्पिण्डप्रक्षेपं समन्त्रं विधत्ते – अथ पूर्वमुद्धिमादधातीति । पूर्वं प्रथमम् । उद्धिशब्दो मृत्पिण्डप्रदेशवाची । कात्यायनस्तु ' प्रथमं धातुमादधाति ' ( का ० श्री ० १६।३।२७ ) इति धातुशब्देन तमर्थमुक्तवान् । धातुशब्द उत्तरोत्तरक्रमेणावस्थानमाह - ' त्रिधा त्वलाबुपात्रम् ' इत्यादिप्रयोगदर्शनात् । रुद्रास्त्वेति मन्त्रः । तदर्थस्तु - हे उखे त्वा त्वां रुद्रा अन्तरिक्षाभिमानिनो देवाः कृण्वन्तु कुर्वन्तु । अत्र मन्त्रे ' त्रष्टुभेन छन्दसा ' इति, ' अन्तरिक्षमसि ' इति च विशेषः । निधेभूलोकात्मकत्वेन तदुपरि निहितपिण्डं संलिप्य सम्मार्ज्यं श्लक्ष्णां स्निग्धां करोति । ' अथोत्तरमुद्धिमादधाति । आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाङ्गिरस्वदिति द्योष उद्धिस्तमेतमादित्या जागतेन छन्दसाऽकुवंस्तथैवैनमयमेतज्जागतेन छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतो प्रतिष्ठितासीति द्यौरसीति द्यौष उद्धिर्धारया मयि प्रजा १ ९ रायस्पोषं गोपत्य " सुवीर्य, सजातान्यज मानायेत्येतद्वा आदित्या दिवं कृत्वा तस्यामेतामाशिषमाशासत तथैवैतद्यजमानो दिवं कृत्वा तस्यामेतामाशिषमाशास्ते ' ( श ० ६।५।२२५ ) । प्रथमोद्धेरुपरि अन्यमृत्पिण्डप्रक्षेपं समन्त्रं विधत्ते - अथोतर-मुद्धिमिति । आदित्या द्युलोकाभिमानिन्यो देवतारत्वामुखां कुर्वन्तु । अत्र मन्त्रे --- ' जागतेन छन्दसा ' इति, ' द्यौरसि ' इति च विशेषः । प्रथमोद्धेरन्तरिक्षात्मकत्वात् तस्योपरि निहितमृत्पिण्डस्य द्युलोकात्मकत्वम् । ' अथैतेन चतुर्थेन यजुषा करोति । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदिति दिशो हैत हजुरेतद्वै १०
पृष्ठ 110
पाठ पढ़ें पाठ छिपाएँ
७४ शुक्लयजुर्वेद संहिता [ अ ० ११ विश्वेदेवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशोऽदधुस्तथैवैतद्यजमान एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो दधात्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति दिशोऽसीति दिशो ह्येतद्यजुर्धारया मयि प्रजा १ ९, रायस्पोषं गोपत्य सुवीर्यं सजातान्यजमानयेत्येतद्वे विश्वे देवा वैश्वानरा दिशः कृत्वा तास्वेतामाशिषमाशासत तथैवैतद्यजमानो दिशः कृत्वा तास्वेतामाशिषमाशास्ते ' ( श ० ६ | ५ | २ | ६ ) | मिधेरुद्विद्वयस्य समीकरणं समन्त्रं विधत्ते - अर्थतेन चतुर्थेनेति । उक्तमन्त्रत्रयापेक्षया एतस्य यजुषश्चतुर्थत्वम् । वैश्वानरा विश्वतरसम्बन्धिनो विश्वेदेवास्त्वामानुष्टुभेन छन्दसा कुर्वन्त्विति । उखाया लोकत्रयात्मकत्वादेतेन यजुषा समीकरणेन तस्यां दिश एव निहितवान् भवति । अत्र मन्त्रे ' आनुष्टुभेन छन्दसा ' इति, ' दिशोऽसि ' इति च विशेषः । ' तेनैतेनान्तरतश्च बाह्यतश्च करोति । तस्मादेषां लोकानामन्तरतश्च बाह्यतश्च दिशोऽपरिमितमेतेन करोत्यपरिमिता हि दिश: ' ( श ० ६ | ५ | २ | ७ ) । पूर्वमथैतेन चतुर्थेन यजुषा करोतीति क्रियासामान्यमुक्तम्, तद्विशिनष्टि - तेनैतेनान्तरतश्च बाह्यतश्चेति । अन्तरत उद्धिद्वयस्य मध्यदेशेऽपरिमितं छिद्रं कुर्यात्, बाह्यतोऽपि निम्नोन्नतत्वपरिहारेण सर्वतः समं कुर्यात् । एतेन यजुषो दिगात्मकत्वाद् उखायाश्च लोकत्रयात्मकत्वाद् अन्तरतो बाह्यतश्च समीकरणेन लोकस्य मध्ये बहिश्च अपरिमिता दिशो निहितवान् भवति । ' तां प्रादेश-मात्रमेवोर्ध्वा करोति । प्रादेशमात्री तिरश्चीं प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोति ' । ( श ० ६।५।२८ ) । उखाया ऊर्ध्वपरिमाणं विधत्ते - तां प्रादेशमात्रीमिति । एवकारेण परिमाणान्तरनिवृत्तिः तत्परिमाणं ऊर्ध्वा यथा प्रादेशमात्री तथा तिरश्चीनापि प्रादेशमात्री । अर्थाद् ऊर्ध्वा तिर्यक च समा कार्या । प्रशंसति - प्रादेशेति योनि गर्भसदृशीं कृतवान् भवति । उखाया योनित्वमग्न्याधारत्वात् । अग्नेश्च गर्भत्वं तन्मध्ये संवत्सरमवस्थानात् । ' सा यदि वर्षीयसी प्रादेशात् स्यात् । एतेन यजुषा हसीयसीं कुर्याद्यदि हसीयस्येतेन वर्षीयसीम् ' ( श ० ६।५।२ ९ ) । सर्वयापि प्रादेशमात्रीमेव कुर्यान्न न्यूनाधिकामित्यर्थः । स यद्येकः पशुः स्यात् । एकप्रदेशां कुर्यादथ यदि पञ्च पशवः स्युः पञ्चप्रादेशां कुर्यादिषुमात्री वा वीर्यं वा इषुर्वीर्यसम्मितैव तद्भवति पञ्चप्रादेशा ह स्म त्वेव परेषुर्भवति ' ( श ० ६ | ५ | २ | १० ) । उखायाः परिमाणं पश्वनुष्ठानापेक्षया विकल्पितम् । पञ्चपशुपक्षे पञ्चप्रादेशपरिमाणा, इषुमात्री वा कर्तव्या । एतत्परिमाणद्वयं तिर्यंगपेक्षया । ऊर्ध्वपरिमाणं त्वत्रापि प्रादेशमात्रमेव । अध्यात्मपक्षे - हे बुद्धे, वसवो देवा गायत्रेण छन्दसा अङ्गिरस इव त्वां कृण्वन्तु संस्कुर्वन्तु । त्वं ध्रुवासि निश्चलासि । पृथिव्यसि विस्तृत विषयासि क्षमाशीलासि । मयि प्रजां ज्ञानविज्ञानलक्षणां रायस्पोषं ज्ञानश्रियः पोषं गौपत्यम् इन्द्रियाधिपत्यं सुवीर्यम् अज्ञानकामक्रोधादिशत्रुजयसामर्थ्यं सजातान् समानसाधकान् सदानुष्ठायिनो धारय । एवं रुद्रास्त्रष्टुभेन त्वां कृण्वन्तु । ध्रुवासि अन्तरिक्षमसि । आदित्या जागतेन छन्दसा त्वां कृण्वन्तु । वैश्वानरा आनुष्टुभेन छन्दसा त्वां कृण्वन्तु । शेषं पूर्ववत् । त्वमेव अन्तरिक्षं द्यौदिशश्चासि, वेदान्तरीत्या सर्वेषामेव बौद्धत्वात्! दयानन्दस्तु – हे ब्रह्मचारिणि कुमारिके या त्वमङ्गिरस्वद् ध्रुवासि धनञ्जयप्राणवायुवन्निश्चलासि पृथिव्यसि पृथुसुखकारिण्यसि तां त्वां गायत्रेण गायत्रीसंज्ञकेन छन्दसा वसवो वसुसंज्ञका विद्वांसो मम स्त्रियं कुर्वन्तु । हे कुमार ब्रह्मचारिन्, यस्त्वमङ्गिरस्वत् प्राणवायुवन्निश्चलोऽसि पृथिव्या तुल्यः क्षमाशीलोऽसि यं त्वां वसवो विद्वांसो गायत्रेण वेदप्रतिपादितेन छन्दसा मम पति कृण्वन्तु स त्वं मयि प्रजां रायस्पोषं राजश्रियः पोषं गौपत्यम् अध्यापकत्वं सुवीयं च धारय । आवां सजातान् सन्तानान् सर्वान् यजमानाय विद्याग्रहणार्थं समर्पयेव ।