वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 91–100

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 91–100

पृष्ठ 91

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४३-४४ ] वेदार्थपारिजातभाष्यसहिता ५५ पूर्वमश्वाभिमन्त्रणं विधत्ते सोऽश्वमिति । मन्त्रं प्रतिपादमनूद्य व्याच — इमे वै द्यावापृथिवी तिरोचत इति रोदस्योर्द्यावापृथिव्योरेष जातो गर्भ इति तात्पर्यम् । परितमांस्यक्तू नित्यस्यार्थमाह-- परितमांस्यक्तून वा एतस्य इति । अक्तून् रात्रिगतानि तमांसि परीत्य अतिरोक्त इति । प्रमातृभ्य इत्यादेरर्थमाह वीर्यं दधाति यजमानः - ओषधयो । मातर इति । ताभ्य एष कनिक्रदत्प्रेति इत्येवमर्थकेन मन्त्रेणाभिमन्त्रणादश्वे अध्यात्मपक्षे - हे अग्ने परमात्मन् त्वं रोदस्योर्द्यावापृथिव्योर्मध्ये गर्भः सन् श्रीरामरूपेण वा जातोऽसि । कीदृशस्त्वम्? चारुः शोभनः परमसौन्दर्यवत्वेन सर्व प्रेमास्पदीभूतो भवसि । ओषधीषु चक्रवर्तिदशरथस्याश्वमेधगत-पुत्रेष्टिलक्षणे यज्ञे दिव्य प्राजापत्यपुरुषदत्तपायसलक्षणास्वोषधीषु विभृतः सम्भृतः चित्रः श्यामगौररामलक्ष्मणभारत-शत्रुघ्नरूपेण विविधरूपः सन् सर्वकारणकारणभूतोऽपि तत्कालोत्पन्नत्वात् शिशुः शिशुरूप:, अक्तुन अक्नू ( रात्र्यु ) -पलक्षितानि सर्वाणि तमांसि तमोरूपाणि रक्षांसि परिहरन् मातृभ्यः कौशल्या कैकेयी सुमित्राभ्यः सकाशात् कनिक्रदद् रोदनशब्दं कुर्वन् प्रगाः प्रकर्षेण सम्राजो दशरथस्याङ्के, अन्यासां मातृणां वाङ्के गतवानसि । दयानन्दस्तु – ' हे अग्ने, यस्त्वं रोदस्योर्जातः प्रसिद्धः चारुः सुन्दरः ओषधीषु सोमादिषु विभृतो विशेषेण भृतो धृतः पोषितो वा चित्रः अद्भुतो गर्भो यो गीर्यले स्वीक्रियते सोऽर्कः, मातृभ्यो मान्यकर्त्रीिभ्यः किरणेभ्यः तमांसि अन्धकारान् अक्तून् रात्री: पर्यंधि कनिक्रदत् सन् परितोऽपसारयन् गाः गच्छति तथाभूतः शिशुः गाः विद्याः प्राप्नुहि ' इति, तदपि यत्किचित् श्रुतिविरोधात् । श्रुतौ तु ' ओषधयो वा एतस्य मातरस्ताभ्य एष कनिक्रदत् प्रति ' ( श ० ६ | ४ | ४ | २ | इति व्याख्यातम् । शिशुरित्यपि पदं चारुरित्यादिभिः समानयोगक्षेमम् । अतः शिशु गा विद्याः प्राप्नुहीति योजनमपि निर्मलमेव ॥ ४३ ॥

स्थि॒िरो भ॑व वी॒ड्व आ॒शुभैव वा॒ज्यर्वन् । पृथुर्भ॑व सबद॒स्त्वन॒ग्नेः वृ॑ष॒वाह॑णः ॥ ४४ ॥

मन्त्रार्थ - हे गमन में कुशल रासभ, तुम स्थिर काय वाले हो, वेगवान् हो, अन्न को पंदा करने वाले हो । हे पुरीष्य अग्नि, तुम पृष्ठ को विस्तीर्ण करते हो, अग्निदेह रूप मृत्तिका में सुख से स्थिति के योग्य हो ॥ ४४ ॥

रासभदेवत्यानुष्टुब् उष्णिग्वेति महीधराचार्यः । इति प्रति पदार्थ गच्छतीत्यर्वा रासभः, तत्सम्बुद्धौ अन् हे अरणवन् गमन कुशल, स्थिरो निश्चलः स्खलनरहितो भव । वीड्वङ्गः वीडूनि दृढानि अङ्गानि यस्य सः, दृढाङ्गश्च भव । आशु वेगवान् सन् वाजी वेजनवान् अन्न हेतुर्भव । पृथुः विस्तीर्णपृष्ठः सन् अग्नेः सुषदः सुखेन सद्यते स्थीयते अस्मिन्निति सुपदः सुखदासनः स्वास्थेयो वा भव । कोदृशस्त्वम्? पुरीषवाहणः पुरीष: पांसुरूपा मृत् तं वहतीति पुरीषवाहणः । अथवा पुरीपं पशव्यं यवसं वहतीति पुरीषवाहणः । ' कव्यपुरीषपुरीष्येषु युटू ' ( पा ० सू ० ३।२६५ ) इति ज्युटि रूपम् । गोमस्य सैकतस्य वा वाहकत्वाद् रासभस्य पुरीषवाहकत्वं प्रसिद्धमिति सायणाचार्यः । तत्र ब्राह्मणम् ' अथ रासभम् । स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन्निति । स्थिरश्च भव वीड्वङ्गश्राशुश्च भव वाजी चार्वन्नित्येतत् पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहण इति पृथुर्भव सुशीमस्त्वमग्नेः पशव्यवाहन इत्येतत् तद्रासभे वीर्यं दधाति ' ( श ० ६ | ४ | ४ | ३ ) । रासभाभि-मन्त्र मन्त्रं विधत्ते -- अथ रासभमिति । मन्त्रव्याख्यानेन स्पष्टार्थं ब्राह्मणम् । अध्यात्मपक्षे - हे अर्वन् क्रियाकुशल साधक, त्वं स्थिरो भव साधननिष्ठो भव । वीवो वीडूनि ढान्यङ्गानि हस्तपादादीनि बाह्यानि शमदमादीन्याभ्यन्तराणि च यस्य सः तादृशो भव । आशुः शीघ्रकारी, अर्थाद् अनलसो भव । वाजी पथ्यान्नवान् भव । पृथुः वस्तुतत्त्वेषु प्रसरणशीलबुद्धियुक्तो भव । त्वमग्नेः

पृष्ठ 92

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ शुक्लयजुर्वेदसंहिता [ अ ० ११ परमेश्वरस्य सुषदः सुखासनो भव । त्वदीयहृदयकमले परमेश्वरस्यासनमस्तु । पुरीषवाहणः पुरीषं भस्म - गोपीचन्दन- व्रज रजःप्रभृति मृदं वहति धारयतीति स तादृशो भव, संस्कारार्थं देहेन्द्रियादिशुद्धयर्थं तद्धारणस्य विहितत्वात् । दयानन्दस्तु – ' हे अन् पुत्र, त्वं विद्याग्रहणाय स्थिरो भव । वाजी प्राप्तनीतिः । वीड्वङ्गः वीडूनि बलिष्टान्यङ्गानि यस्य सः । आशुः शीघ्रकारी भव । त्वमग्नेः पावकस्य सुषदः यः शोभनेषु व्यवहारेषु सीदति सः । पुरीषवाहणः पुरीषाणि पालनादीनि कर्माणि वाहयति प्रापयति सः । पृथुः विस्तृतसुखो भव ' इति, तदपि न युक्तम्, अध्याहार बाहुल्यात्, पुत्रस्य सम्बोध्यत्वे मानाभावाच्च । विद्याग्रहणायेत्यादिकमपि निर्मूलमेव । विज्ञानयुक्तः स किमर्थमध्ययने नियुज्यते? श्रुतिव्याख्यान विरोधस्तु पूर्वोक्तव्याख्यानेन स्पष्ट एव ॥ ४४ ॥

शिवो भव

प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गरः ।

मा द्यावा॑पृथि॒वो अ॒भिशो॑च॒र्मान्तरिक्षं मा वन॒स्पतीन् ॥ ४५ ॥

मन्त्रार्थ - हे अग्निरूप अग्नि के प्रिय शिशु अज, तुम मनुष्य सम्बन्धी प्रजाओं के निमित्त कल्याणकारी हो, शान्त स्वभाव के हो । द्यावापृथिवी को सन्तप्त मत करो, अन्तरिक्ष को सन्तप्त मत करो, वनस्पतियों को सन्तप्त मत करो ॥ ४५ ॥

अजदेवत्या पथ्याबृहती । अजमभिमन्त्रयते - हे अज, त्वं मानुषीभ्यो मनुसम्बन्धिनीभ्यः प्रजाभ्योऽर्थेभ्यः शिवः शान्तो भव । हे अङ्गिरः, अङ्गिरोरूप अज! त्वं द्यावापृथिवी माभिशोचीः मा सन्तापय तथान्तरिक्षं माभिसन्तापयेः । वनस्पतीन् मा अभिशोचीः मा सन्तापय । ' अङ्गिरा वा अग्निराग्नेयोऽज: ' ( श ० ६ | ४ ४ ४ ) इति श्रुत्याजस्याङ्गिरोऽग्निरूपत्वं विज्ञायते । अङ्गिरोभिर्ऋषिभिः पूर्वं सम्पादितत्वाद् अङ्गसौष्ठवाद्वाऽयमग्नि-रङ्गिराः । यद्वा हे अज, त्वं द्यावापृथिव्यौ अभिलक्ष्य मा शोचीः शोकं सन्तापं मा कार्षीः । तथैवान्तरिक्षं वनस्पतींश्चाभिलक्ष्य मा शोची, मा हिंसीरिति वा । तत्र ब्राह्मणम् – ' अथाजम् । शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरइत्यङ्गिरा वा अग्निराग्नेयोऽजः शमयत्येवैनमेतदहि सायं मा द्यावापृथिषी अभिशोची-मन्तरिक्षं मा वनस्पतीनित्येतत्सवं मा हिसीरित्येतत्तदजे वीयं दधाति ' ( श ० ६ | ४ | ४ | ४ ) | अजाभिमन्त्रणं विधत्ते - अथाजमिति । एतद् ब्राह्मणानुसार्येब पूर्वोक्तं व्याख्यानम् । अध्यात्मपक्षे - हे अङ्गिरोऽग्ने रुद्र, त्वं मानुषीभ्यः प्रजाभ्यः शिवो भव । द्यावापृथिवी अन्तरिक्षं वनस्पतीन् माभिशोची: मा सन्तापय, मा हिंसीर्वा । संहारदेवत्वात् सन्तापकत्वं प्राप्तम् तस्य शिवरूपत्वेन अहिंसायं प्रार्थनाया युक्तत्वान् । दयानन्दस्तु – ' हे अङ्गिरः, प्राण इव प्रिय सुसन्तान, त्वं मानुषीभ्यः प्रजाभ्यः शिवो भव । द्यावापृथिवी विद्युद्भूमी अभि अभ्यन्तरे मा शोचीः शोकं मा कुर्याः । तथैव अन्तरिक्षं वनस्पतीन् माभिशोची: ' इति, सदपि यत्किचित् असङ्गतेः । यो मानुषीभ्यः प्रजाभ्यः कल्याणकारी भवति स कथं द्यावापृथिवादिभ्यः शोकमावक्ष्यति? श्रुतिव्याख्यानविरोधस्तु स्पष्ट एव ॥ ४५ ॥

पृष्ठ 93

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४६ ] वेदार्थ पारिजातभाष्यसहिता ५७ पुरा । प्रेतुं वाजी पानि॑िक्रद्नान॑द॒द्राय॑भिः॒ पत्वा॑ । भर॑ना॒ग्न व॑री॒ष्य मा पा॒द्यायु॑षः 195 ७– ॥ ॥ ४६ ॥

वृषा॒ग्निं वृष॑ण॒ भर॑न॒ गर्भं सम॒द्रय॑म् । अग्न॒ आया॑हि वीतये॑ ७ , पतनशील गर्दभ विशाओं को शब्दायमान मन्त्रार्थ --- वेगवान् अश्व अतिलेषित शब्द करता हुआ वेग से गमन करे की अग्नि को धारण करता हुआ यज्ञ कर्म करता हुआ यवस के वहन के निमित्त पीछे चले । यह अश्व पशुसम्बन्धी रहे । सिंचन में समर्थ रासभ आहुति के परिणाम से समाप्ति से पहले विनाश को प्राप्त न हो, कर्म समाप्ति पर्यन्त जीवित को धारण करता विद्युत् रूप से और सागर वडवा के रूप से अग्नि फलदान में समर्थ होकर जल के मध्य मेघों में यहाँ आइये ॥ ४६ ॥

हुआ यहाँ आवे । हे अग्निदेव, आप हवि के भक्षण के निमित्त का ० श्री ० १६ | ३ | १० ) । एषां ' धारयत्येषामुपरि पिण्डमनुपस्पृशन् प्रेतु वाजी वृषाग्निमित्यश्वखरयो प्रैतु वाजीत्यश्वोपरि : ' ( वृषाग्निमिति खरोपरीति । पूर्वोक्तानामश्वरासभाजानामुपरि मृत्पिण्डं धारयति तानस्पृशन् । तृतीयोऽर्धर्चों रासभदेवत्यः । महापङ्क्तिस्त्र्यवसाना । अष्टार्णा षट्पादा महापङ्क्तिः । अर्धर्चाविश्वदेवत्यो अत्यन्तं हृषाशब्दं कुर्वन् । रासभश्च प्रतु वाजी अश्वः प्रैतु प्रकर्षेण गच्छतु । किं कुर्वन्? कनिक्रदन् नादयन् । सोपहास मिदमुच्यते । कनिक्रदन्नान-यसवाहनार्थम् । किं कुर्वन्? नानदद् गर्दभरटितेन सर्वा दिशो पत्लृ गतौ ' इत्यस्मात् ' अन्येभ्योऽपि दृश्यन्ते ' ददुभयमपि यङ्लुगन्तम् । कीदृशो रासभः? पत्वा पतनशीलः । ' रासभोपहासार्थम् ' तदश्वस्य यजुषि ( पा ० सू ० ३।२७५ ) इति क्वनिप्रत्ययः । अश्वमन्त्रे रासभोपादानं अयमश्वः पुरीष्यमग्नि दाहकं भरन् धारयन् रासभं निराह तद्रासभे शुचं दधाति ' ( श ० ६ | ४ | ४ | ७ ) इति श्रुतेः । कर्म विवक्षितम् । यज्ञसम्बन्धेनैवाश्वादीनां आयुषः कर्मणः पुरा पूर्वमा पादि मा विनश्यतु । आयुः शब्देन तन्मूलं कनिक्रदद् अत्यर्थं हेषाशब्दं कुर्वन् । नानदत् स्तुतिः । यद्वा वाजी अन्नवानश्वः प्रेतु आगच्छतु । तं विशिनष्टि - द्रष्टव्यः । पत्वा पतनशीलः । अथ सर्वा दिशो नादयन् । रासभः रासभ इव । अत्रोपमावाचकेवशब्दलोपो शेषः । कीदृशमग्निम्? वृषणं सेक्तारं रासभमन्त्रः – वृषा सेक्ता रासभोऽग्नि भरन् धारयन् सन् प्रत्विति गर्भम्, जलमध्येऽवस्थानात् । मेघस्थानां फलाभिवर्षणसमर्थम् आहुतिपरिणामेनेति । पुनः कीदृशमग्निम्? अपां । यद्वा समुद्रेऽग्निचयने जलानां मध्ये विद्युद्रूपं वा । पुनः कीदृशम्? समुद्रियं समुद्रे वडवाग्निरूपेणोत्पत्रम् साम्नां महदुक्थमृचाम् ' ( श ० ९ | ५ | २ | १२ ) भवः समुद्रियः, तम् । ' त्रयो ह वै समुद्राः । अग्निर्यजुषां महाव्रत गर्भभूतं समुद्रियं समुद्रेऽन्तरिक्षे भवमग्नि इति श्रुतेः । यद्वा वृषणं वर्षकं मृद्रूपमग्नि भरन् अपां गर्भं वृषेतिपदं व्याख्यातम् । तद्रीत्या वृषा मृद्रूपं भरन् वृष सिच । वृषतेर्लोटि रूपम् । ब्राह्मणे कन्प्रत्ययान्तं । तृतीयपादेऽग्निः सम्बोध्यते - हे अग्ने, वीतये रेतसः सेक्ता रासभो वृषणमग्नि भरन् तिष्ठतीत्यध्याहारः ' ( का ० श्र ० १६ | ३ | ११ ) | अध्वर्युः आयाहि । ' अग्न आयाहीत्याहृत्य खराच्छागस्यर्त. सत्यमित्यानिधानात् सत्यमिति मन्त्रेण अजस्योपरि पिण्डं धारयेत् । ' अग्न आयाहि वीतये ' इति मन्त्रेण रासभात् पिण्डमाहृत्य ऋतं इति निधानपर्यन्तमित्यर्थः । एकपदा गायत्री ' परिवृते प्राग्द्वारे पिण्डं निदधाति ' ( का ० श्री ० १६ | ३ | १४ ) मृत्पिण्ड, वीतये तर्पणाय रासभादागच्छ । अग्निदेवत्या । हे अग्ने, वीतये हविर्भक्षणाय आयाहि आगच्छ । यद्वा हे सम्भरति नोपस्पृशति अत्र ब्राह्मणम् -'अथैनमेतेषां पशूनामुपरिष्टात् प्रगृह्णाति । तदेनमेतैः पशव पशुभिः इमे नेदयमग्निरियान् पशून् वज्रो वै पशवो रेत इदं नेदिद रेतो वज्रेण हिनसानीत्यथो अग्निरयं । तद्विधत्ते अथैनमेतेषां हिनस दिति ' ( श ० ६ | ४ | ४ | १६ ) | अनुपस्पृशन् पिण्डं धारयेदित्युक्तमुपरिष्टात् । यतो वज्ररूपाः पशवः, मृत्पिण्डश्च रेतोरूपः, पशूनामिति । उपस्पर्शनाभावं प्रशंसति - वज्रो वै पशव इति ८

पृष्ठ 94

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ शुक्लयजुर्वेदसंहिता [ अ ० ११ अतो वज्रेण रेतो विच्छिन्नं न करोमीति बुद्धधा पशून स्पृशेत् । यद्वा अयं मृत्पिण्डो हि अग्निः । अग्निः पशून्मा हिंसीदिति बुद्धधा न स्पृशेत् । हिनसानीति लोटि रूपम् । हिनसदिति लेटि पचमलकारे रूपम् । ' तमश्वस्यो-परिष्टात् प्रगृह्णाति । प्रैतु वाजी कनिक्रददिति प्रेतु वाजी कनिक्रद्यमान इत्येतन्नानदद्रासभः पत्वेति तदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधाति भरन्नग्नि पुरीष्यं मा पाद्यायुषः पुरेति भरन्नग्नि पशव्यं मो अस्मात् कर्मणः पुरा पादीत्येतत्तदेनमश्वेन सम्भरति ' ( श ० ६ | ४ | ४ | ७ ) । अश्वस्योपरिधारणं समन्त्रं विधत्ते -तमश्वस्योपरिष्टादिति । अश्वस्योपरिधारणमन्त्रे रासभः पत्वेति गर्दभवचनस्य प्रयोजनमाह - तदश्वस्य यजुषि रासभं निराहेति । अश्वमन्त्रे रासभवचने तस्माद्रासभादश्वस्यातिशयितत्वोक्तेस्तस्मिन् गर्दभे शोकबलराहित्यमेव निहितं भवतीति । I ' अथ रासभस्य । वृषाग्नि वृषणं भरन्निति वृषा वा अग्निर्वृषा रासभः स वृषा वृषाणं भरत्यपां गर्भ, समुद्रियमित्यपा ह्येष गर्भः समुद्रियस्तदेन १७ • रासभेन सम्भरति ' ( श ० ६ । ४ । ४ । ८ ) । अत्र सूत्रानुसारेण ऋचः पूर्वार्धेन रासभस्योपरि मृत्पिण्डस्य धारणं तृतीयपादेनाजस्योपरि धारणाय रासभाद् मृत्पिण्डहरणं चतुर्थेन अजस्योपरि धारणं चतुर्थेन अनद्धापुरुषेक्षणम् । यथोक्तं सूत्रकारेण - ' प्रैतु वाजी वृषाग्निमित्यश्वख रयोः । अग्न आयाहीत्याहृत्य खराच्छागस्यर्त १ ९ - सत्यमित्यानिधानात् । आयन्त्या वयं पशूनजः पुरस्ताद्रासभो मध्ये | अनद्धापुरुषमोक्षते पूर्ववदग्नि पुरीष्यमिति ' ( का श्री ० १६ | ३ | १० - १३ ) । ततोऽश्वादीन् पशून् प्रदक्षिणावर्तनं प्रत्यङ्मुखान् कृत्वा तैः सह ब्रह्मयजमानाध्वर्यवः परिवृत्तं प्रत्यागच्छेयुः । तत्राजः प्रथमं रासभो मध्ये अश्वः पश्चाद् गच्छेत् । ज्वलत्स्वग्निषु अनद्धापुरुषं पूर्ववदेवेक्षेत । ' अथापादत्ते । अग्न आ याहि वीतय इत्यवितव इत्येतत्तदेनं ब्रह्मणा यजुषेतस्माच्छौद्राद्वर्णादपादत्ते ' ( श ० ६ | ४ | ४ | ९ ) । खराद् मृदाहरणं समन्त्रं विधत्ते -अथापादत्त इति । वीतय इत्यस्यार्थमाह- अवितव इति । तर्पणार्थाद् वेते: क्तिन्, तर्पणायेत्यर्थः । अपादानं प्रशंसति -- तदेनं ब्रह्मणेति । एनं मृत्पिण्डं ब्रह्मणा ब्रह्मरूपेण यजुषा अग्न आयाहीति पादेन । एतस्मात् शौद्राद् वर्णाद् अपादत्तवान् भवति । रासभस्य वैश्यशूद्रजातिसम्बन्धः ' वैश्यं च शूद्रं चानु रासभ: ' ( श ० ६ | ४ | ४ | १२ ) इति कण्डिकायामाम्नातः । अध्यात्मपक्षे --- अयं साधकः, अथवा जीवः, अश्व इव प्रति परमात्मप्राप्तिपथं प्रकर्षेण तीव्रवेगेन गच्छति । किं कुर्वन्? कनिक्रदद् मन्त्रमयं नाममयं वा भृशं शब्दं कुर्वन्, रासभ इव नानदद् उच्चैः स्वरेण भृशं हरिनाम -कीर्तनं कुर्वन् पत्वा गमनशीलः पुरीष्यं पशव्यं जीवरूप पशुहितैषिणम् अग्नि रुद्रं धरन् हृदये धारयन् । आयुष आरब्धादुपासना कर्मणः फलपर्यन्तसमाप्तेः पुरा पूर्वं मा पादि मा विनश्यतु । कीदृशमग्निम्? वृषणं सेक्तारं फलाभि-वर्षणसमर्थम् । अपांगभंम् अन्तर्यामिरूपेण लोकानामन्तरवस्थितं समुद्रियं भवसमुद्रे तदधिष्ठानरूपेण विद्यमानं हे अग्ने वीतये विविधपुरुषार्थप्राप्तये साधक हृदयमासमन्तादागच्छ । दयानन्दस्तु - ' हे अग्ने सुसन्तान, भवान् कनिक्रदद् गच्छन् नानदद् भृशं शब्दं कुर्वन् रासभो दातुं योग्यः पत्वा पतति गच्छति यः स वाजी अश्व इव आयुषो नियतवर्षाद् जीवनात् पुरा पूर्वं मा प्रेतु मा गच्छतु । पुरीष्यं पुरीषेषु पालनेषु साधुम्, अग्नि विद्युतम् भरन् मा पादि मा गच्छ । इतस्ततो मा गच्छ । वृषा बलिष्ठः, अपां जलानां गर्भं समुद्रियं समुद्रे भवं वृषणं वर्षायितारम् अग्नि सूर्य भरन सन् वीतये विविधसुखानां प्राप्तये आयाहि प्राप्नुहि ' इति, तदपि यत्किचित् श्रुतिविरोधात् तत्राश्वरासभाजानां पशूनामेव ग्रहणात् । पुरीष्यमित्यस्य पशव्यमिति तत्र व्याख्यानम् ॥ ४६ ॥

पृष्ठ 95

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४७ ] वेदार्थ पारिजात भाष्यसहिता ५ ९ ऋत ँ स॒त्यमृतधु॑ स॒म्म॒ग्नि पु॑रो॒ध्यमङ्गर॒ स्वद्रे॒रामः । ओष॑धयः॒ प्रति॑मोदध्वमग्निमेत शि॒िवमा॒यन्त॑म॒भ्यत्र॑ य॒ष्माः । व्यस्य॒न् विश्वा॒ अति॑रा॒ अमी॑वा नि॒षद॑न्तो॒ अव॑ दुर्म॒तं ज॑हि ॥ ४७ ॥

मन्त्रार्थ - - आदित्य और अग्नि ये दोनों ही व्यष्टिसमष्टि रूप और ऋतसत्य रूप हैं, अजा के द्वारा हम इनकी रक्षा करते हैं, पशुसम्बन्धी अग्नि को अंगिरा ऋषि के समान संग्रह करते हैं । हे सम्पूर्ण औषधियो! तुम शान्त कल्याणकारक हो. तुम्हारे सम्मुख आ रहे इस अग्नि का प्रत्युत्थान आदि के द्वारा स्वागत करो । हे अग्ने, तुम यहाँ विराजमान होकर हमारे सम्पूर्ण दुर्भिक्ष, पीड़ा, ईति, व्याधि आदि को दूर कर हमारी रक्षा करो, हविर्दान से पराङ्मुख हमारी दुर्मति का नाश करो ॥ ४७ ॥

छागस्योपरि मृत्पिण्डं धारयन् जपति - ऋत १७, सत्यमिति । प्राजापत्या गायत्री यजुरग्निदेवत्यम् । ऋतमादित्यं सत्यमग्निम् आदित्याग्निरूपं मृत्पिण्डं अग्निम्, अध्याहरामीति शेषः । ऋतसत्यशब्दाभ्यामादित्याग्नी विवक्षितौ । ऋतं सत्यमिति पुनर्वचनमादरातिशयार्थम् । वक्ष्यमाणश्रुतेर् ऋतमग्निः सत्यमादित्य इत्यपि । ' अनद्धापुरुषमीक्षते पूर्ववदग्नि पुरीष्यमिति ' ( का ० श्री ० १६ | ३ | १३ ) इति देवपितृकार्यविमुखमनद्धापुरुषम्, उच्छृङ्खलमिति यावत् अध्वर्युरीक्षने ज्वलत्स्वग्निष्वाहवनीयान्ते स्थित इति पूर्ववत्पदेन ज्ञेयम् । अयं विषयः षोडशेऽध्याये द्वितीयकण्डिकायां त्रयोदशे सूत्रे प्रतिपादितः । आग्नेयं यजुः साम गायत्री । पशव्यमग्निमङ्गिरसो मुनय इव भरामो हरामः । ' उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे पिण्डं निदधात्यो -षधय इति ' ( का ० श्र ० १६।३१४ ) । उखासम्भरणार्थमुद्धृतस्य आहवनीयस्योत्तरस्यां दिशि पश्चहस्तं परिवृतं गृहं निर्माय तत्र परिवृत आच्छादितप्रदेशे मृत्पिण्डं निदध्याद् ओषधय इति मन्त्रेण । कीदृशे परिवृते प्रदेशे? उद्धते कृतोल्लेखने, अवोक्षिते सिक्ते प्राग्दिशि द्वारं यस्य तादृशे सिकतोपकीर्णे एतादृशे प्रदेशे । आहवनीय-स्योत्तरभागे यस्मिन् देशे मृत्पिण्डो निधीयते, तस्मिन् देशे उच्छिष्टादिशङ्कोपेतस्योपरितन तृणाद्यपेतमृद्भागस्या-पसारणं कर्तव्यम् । तदेतदुद्धननं कृत्वा उदकेनावोक्ष्य सिकतां प्रसार्य तस्य देशस्य परितः प्रावरणं कृत्वा प्राग्द्वारं कुर्यात् । तत्र ओषधय इति मन्त्रेण मृत्पिण्डं निदध्यादिति सायणाचार्यः । हे ओषधयः, यूयमेतमग्नि प्रतिमोदध्वम् अभ्युत्थानादिभिः प्रहर्षयत । यद्वा प्रतिमोदस्य भय राहित्यमर्थः । कीदृशमग्निम्? शिवं शान्तम् । अत्र अस्मिन् देशे स्थितान् युष्मा युष्मान् अभिमुखीकृत्य आयन्तमागच्छन्तम् । एवमर्धर्चेनोषधीरुक्त्वा अग्निमाह ---हे अग्ने, त्वमत्र अस्मिन् प्रदेशे निषीदन् निविशमानः सन्नोऽस्माकं दुर्मति दुर्बुद्धि नास्ति दत्तं नास्ति हुतमित्येव-मात्मिकां नास्तिक्यबुद्धिम् अपजहि अपनय । किं कुर्वन्? विश्वाः सर्वाः, अनिरा इरा इत्यन्ननाम न विद्यते इरा अन्नं यासु ता अतिवृष्टघाद्या ईतीः । अथवा इरेत्युदकनाम । अनिरा अनावृष्टीः । व्यस्यन् विक्षिपन् । अमीवा व्याधींश्च व्यस्यन् नोऽस्माकं दुर्मति प्रमादालस्यादियुक्तां दुर्बुद्धिमपजहि । ' युष्माः ' इत्यत्र शसः सकारस्य ' तस्माच्छसो नः पुंसि ' ( पा ० सू ० ६।१।१०३ ) इत्यनेन नकारः । ' उभयथर्क्ष ' ( पा ० सू ० ८ ३८ ) इति नकारस्य रुत्वं विसर्गः । तत्र ब्राह्मणम् – ' अथाजस्य । ऋत सत्यमृत, सत्यमित्ययं वा अग्निर्ऋतमसावादित्यः सत्यं यदि वाऽ-सावृतमयं सत्यमुभयं वेतदयमग्निस्तस्मादाहर्त ७ सत्यमृत सत्यमिति तदेनमजेन सम्भरति ' ( श ० ६ | ४ | ४ | १० ) । अजस्योपरि धारणमन्त्रं विधत्ते - अथाजस्यर्तमिति । ऋतं सत्यमिति द्विः पठ्यते । तत्र प्रथमर्त सत्यपदयोरर्थमाह -- अयं वा अग्निर्ऋतमिति । यदि वासावृतमय. सत्यमिति द्वितीयर्त सत्यपदयोरर्थं उक्तः । असौ विप्रकृष्ट आदित्य ऋतम् अयमग्निः सत्यम् । उभयरूपोऽयमग्निमृदूपः, तदेनमजेन सम्भरति ।

पृष्ठ 96

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० शुक्ल यजुर्वेद संहिता [ अ ० ११ ' त्रिभिः सम्भरति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्सम्भरति त्रिभिः उत्तरत्र पुरस्तादभिमन्त्रयते वक्ष्यते । इदानी -तत्षट् तस्योक्तो बन्धुः ' ( श ० ६ | ४ | ४ | ११ ) | अग्नि पुरीष्यमिति मन्त्रशेषविनियोग । ' प्रेतु वाजी ' इत्येको मन्त्रः, मश्वादीनामुपरि धारणे विनियुक्तमन्त्रगतसंख्यां त्रिवृदात्मना स्तौति - त्रिभिरिति द्वौ मन्त्री । याज्ञिकसमाख्यानस्यैव ' वृषाग्निम् ' इति महाबृहत्यामपरः, रासभाजयोरुपरि धारणे विनियुक्तौ सम्पद्यन्त इत्यविरोध इति सायणः । मन्त्रलक्षणत्वाद् एकस्यामप्यचि विभज्य विनियोगान्मन्त्रा बहवः ब्राह्मगमतिदिशति -- तस्योक्तो अभिमन्त्रणमन्त्रास्त्रयः, धारणमन्त्रास्त्रयः - ते षट् सम्पद्यन्ते ।, षड् तस्य वा ऋतवः स्तावकं ' ( ० ६ । ४ । २ । १० ) इत्यादिरूपेण बन्धुरिति । पिण्डपरिग्रहमन्त्र संख्या प्रस्तावे - ' ताः षट् सम्पद्यन्ते तत्प्रशंसा विहिता । एत्थ ' अथैतान् पशूनावर्तयन्ति । तेषामजः प्रथम एत्यथ रासभोऽथाश्वोऽथेतो यतामश्वः | १२ ) प्रथम । ' तद्यदितो रासभोऽथाजः क्षत्रं वा अन्वश्वो वैश्यं च शूद्रं चानु रासभो ब्राह्मणमज: ' ( श ० ६ | ४ | ४ यदमुत आयतामजः यताम् । अश्वः प्रथम एति तस्मात् क्षत्रियं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यतां नामुतो रासभः प्रथम प्रथम एति तस्माद् ब्राह्मणं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यन्नैवेतो यन्त्यपापवस्यसायाथो एति तस्मान्न कदाचन ब्राह्मण क्षत्रियश्च वैश्यं च शूद्रं च पश्चादन्वितस्तस्मादेवं | ४ | १३ ) । अथैतेषां ब्रह्मणा चैवैतत् क्षत्रेण चतौ वर्णावभितः परिगृहीतेऽनपक्रमिणी कुरुते ' ( श ० ६ | ४ पशूनां क्रमं विधत्ते -पशूनामावर्तनं विधत्ते -- अथैतान् पशूनिति । स्वस्थानावस्थितानामेवावर्तनं तत्रागन्तॄणां अश्वः प्रथमो गतो रासभो मध्ये, तेषामजः प्रथम इति । पूर्वम् इतो मृदाहरणार्थं यतां गन्तॄणां पशूनां । मध्ये गमनागमनयोरुभयोरपि रासभस्य पश्चाद् अजः अधुना अजः प्रथमो रासभो मध्ये पश्चाद् अश्वः रासभो ब्राह्मणमजः ' मध्येऽवस्थानम् । अश्वाजयोरेव पौर्वापर्यम् । ' क्षत्रं वा अन्वश्वो वैश्यं च शूद्रं चानु वैश्यशूद्र ब्राह्मणेभ्यः इत्यादीनामयमर्थः - अश्वादिपशुत्रयस्य क्षत्रियजातिसम्बन्धः, क्षत्रियस्य राज्ञ इतरेभ्यस्त्रिभ्यो स्वव्यतिरिक्त-पुरस्ताद् गमनं लोके दृष्टम् । तत्र यथापूर्वं गमनसमयेऽश्वस्य प्राथम्यम्, तथा ब्राह्मणस्यानूचानस्य पुरस्ताद् गमनं वर्णत्रयात् प्रथमगमनं च दृश्यत इत्यधुना अजस्य प्राथम्यम् । वैश्यशूद्रयोः क्षत्रियाद् ब्राह्मणाद्वा अश्वपूर्वाः नास्तीति मृदाहरणसमये पुनरागमनसमये च रासभस्य न प्राथम्यम् । तस्मात् क्षत्रियेण कारणादेवं च यान्ति एतौ वैश्यशूद्रो प्रथमे, अधुना अपूर्वा आगच्छन्ति । अपापवस्यसाय पापपरिहाराय । ब्राह्मणेन अभितो मध्ये परिगृह्णीते अनपक्रमिणौ अनपक्रान्तौ कुरुते । ' अथानद्धापुरुषमीक्षते । अग्नि | ४ | १४ पुरीष्यमङ्गिरस्वद् ) । तत्र पुरुषं भराम इत्यग्नि पशव्यमग्निवद् भराम इत्येतत्तदेनमनद्धापुरुषेण सम्भरति ' ( श ० ६ | ४ मृदं पञ्चमम्, महाबृहत्याः पञ्चमपादेनेत्यर्थः, अग्नि पुरीष्यमिति तदीक्षणेन तेनाप्यनद्धापुरुषेण पुरुषप्रतिनिधिना सम्भृतवान् भवति । ब्रह्म ' तमजस्योपरिष्टात् प्रगृह्णन्नति । आग्नेयो वा अजः स्वेनैवैनमेतदात्मना स्वया देवतया ऐति सम्भरत्ययो आगच्छेदध्वर्युः । वा अजो ब्रह्मणैर्वनमेतत् सम्भरति ' ( श ० ६ | ४ | ४ | १५ ) | अजस्योपरि मृत्पिण्डं, धारयन्नेव मृदप्यग्निः । अतोऽजस्योपरि-तथाविधं गमनमुभयथा प्रशंसति - आग्नेयो वा अज इति । अजोऽग्निदेवत्यः । ततो ब्राह्मणेनाप्येनं मृत्पिण्डं धारणात् स्वेन रूपेण स्वदेवत्यं सम्भृतवान् भवति । अपि अजो ब्राह्मणजातीयः शिवमायन्तमभ्यत्र युष्मा इत्येतद्ध-सम्भृतवान् भवति । ' अथैनमुपावहरति । ओषधयः प्रतिमोदध्वमग्निमेत एवैनमेतच्छमयति प्रत्येनं मोदध्व तस्मादात ओषधयो बिभ्यति यद्वै नोऽयं न हि स्यादिति ताभ्य अप दुर्गंत जहीति व्यस्यन् शिवो वोऽभ्यैति न वो हि ७ सिष्यतीति व्यस्यन् विश्वा अनिरा अमीवा निषीदन्नो विश्वा अनिराश्वामीवाश्च निषीदन्नोऽप सवं पाप्मानं जहीत्येतत् ' ( श ० ६ | ४ | ४ | १६ ) । अथाजसकाशाद्

पृष्ठ 97

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भन्त्रः ४७–४८ ] वेदार्थपारिजातभाष्य सहिता ६१ अनावृष्टघादीन् मृत्पिण्डस्यावरोहणं समन्त्रं विधत्ते - अथाजमिति । इरेत्यन्ननाम । अनिरा मतिम् अन्नप्रतिबन्धहेतून् अपजहीति । प्रतिमोदध्वमिति अमीवा रोगांश्च व्यस्यन् विक्षिपन् निषीदन्नुपाविशन् नो दुर्मति दुष्टुतिमयीं इति । आयतः अग्नेः सकाशाद् ओषधयो यदोषधीः प्रत्युक्तम् तस्याभिप्रायमाह -- एतद्वैतस्मादायत ओषधय । यतोऽग्निः शान्तः, बिभ्यति स्वस्य आत्मानं भक्षयिष्यति किलेति । तत्परिहाराय प्रतिमोदध्वमित्युक्तिः न वो हिंसिष्यतीति तात्पर्यम् । अतो यूयमेनं प्रतिमोदध्वमिति । शिवः सुखकर एव सन् वो युष्मान् अभ्येति उत्तरार्धगतं दुर्मतिपदं व्याचष्टे - सर्वं पाप्मानं जहीति । वाणीं सत्यं समदर्शनम् ऋतमबाधितं अथाध्यात्मम् - हे अग्ने परमात्मन् त्वत्प्रसादाद् वयम् ऋतं धरामः सूनृतां । कीदृशमग्निम्? पुरीष्यम्, पशव्यं सत्यं परमार्थसत्यरूपमग्नि प्रत्यक चैतन्याभिन्नं ब्रह्म भरामो हृदये, यथा अङ्गिरसो मुनयोऽग्नि पशूनां जीवानां हितकरम्, सर्वप्राणिपरप्रेमास्पदत्वात् । कथमिव ओषधिपरिणामाः ? अङ्गिरस्वत् , ' ओषधीभ्योऽन्नम् स वा एष भरन्ति तद्वदित्यर्थः । हे ओषधयः, अन्नमयादयः पुरुषा प्रतिमोदध्वम्, तदागमनेनैव युष्माक • पुरुषोऽन्नरसमय: ' ( तै ० उ ० २।१ ) इति श्रुतेः । यूयमेनमायन्तमग्नि ' नोदतिष्ठत्तदा विराट् ' ( भा ० पु ० ३ । २६ । ६३-६९ ) मुत्थानसम्भवात् । महाविराजि वाय्वादित्याग्न्यादीनां प्रवेशेऽपि क्षेत्रज्ञः प्राविशद्यदा । विराट् तदैव पुरुषः इति तदनुत्यानमुक्तम् । परमेश्वरप्रवेशेनैव - ' चित्तेन हृदयं चैत्यः । अतः प्रत्युत्थानादिभिस्तत्सम्मानं कुरुत । सलिलादुदतिष्ठत ॥ ' ( भा ० पु ० ३ | २६ | ७० ) इति समुत्थानमुक्तम् युष्मानभिलक्ष्य युष्माकमुत्थानाय ऐहिका -कीदृशमग्निम्? शिवं निरुपप्लवसुखरूपम् । पुनः कीदृशम्? अत्र त्वमत्र निषीदन् प्रविशन् नोऽस्माकं दुर्मति मुष्मिक व्यवहारवृत्तिमुद्दिश्यायन्तम् । हे अग्ने, हे भगवन् परमात्मन् । किं कुर्वन्? अनिरा इरा भारती नास्तिक्यबुद्धिम् असम्भावनाविपरीत भावनामयों वा दुर्बुद्धिम् अपजहि । अमीवाः कामक्रोधादिलक्षणान् व्याधींश्च ज्ञानलक्षणा सरस्वती, तद्भिन्ना अनिरा संशयविपर्ययादयः, तान्निरस्यन् निरस्यन् दुर्मतिमपनयेत्यर्थः । सत्यं सत्सु पुरुषेषु दयानन्दस्तु -- ' हे सन्तानाः, यथा वयमृतं यथार्थं सत्यमविनश्वरम् अङ्गिरस्वद् ऋतमव्यभिचारी वायुवद् भरामो धरामः, सत्यं मानं भाषणं कर्म च पुरीष्यं पालनसाधनेषु भवम् अग्नि विद्युतम् यूयमप्यभिमोदध्वं सुखयत । या ओषधयो तथा एतं पूर्वोक्तमायन्तं प्राप्नुवन्तं शिवं मङ्गलकारिणम् अग्नि भृत्वा, त्वं विश्वाः सर्वा अनिरा नितरां दातुमयोग्या यवादयो युष्मा युष्मान् प्रति प्राप्नुवन्ति ता वयं भरामः । हे वैद्य निषीदन् अवस्थितः सन् नोऽस्माकं दुर्मति-अमीवा रोगमयीः व्यस्यन् विविधतया प्रतिक्षिपन् अत्रायुर्वेदविद्यायां सम्बोधने मानाभावात्, ऋतसत्यादि-मपजहि दूरीकुवित्येनं प्रार्थयत ' इति, तदपि यत्किञ्चित् सुसन्तानवैद्ययोः ॥ ४७ ॥

शब्दयोरक्ष्यादित्यपरत्वेन श्रुतिव्याख्यानविरोधात् अग्निसंस्मरणप्रकरणविरोधाच्च ओष॑धयः प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भं ऋ॒त्विय॑ प्र॒त्न ं स॒धस्थ॒मास॑दत् ॥ ४८ ॥

हो, इस अग्नि को स्वीकार करो । मन्त्रार्थ हे सम्पूर्ण औषधियो, तुम फूलों वाली और अच्छे फलों वाली ॥ ४८ ॥

तुम्हारे गर्भरूप ऋतु काल को प्राप्त यह अग्नि पुरातन स्थान में स्थित हो जाय सत्यो गृह्णीत ओषधिदेवत्या प्राजापत्या अनुष्टुप् । हे ओषधयः, एतमग्नि , ' वा प्रतिगृभ्णीत छन्दसि ' ( आदरवत्यः पा ० सू ० ६ | १ | १०६ ) इति स्वीकुरुत । यूयं कीदृश्यः? पुष्पवती: पुष्पवत्यः प्रशस्त पुष्पोपेताः

पृष्ठ 98

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ शुक्लयजुर्वेद संहिता [ अ ० ११ पूर्वसवर्णदीर्घः । पुनः कीदृश्यः? सुपिप्पलाः सुष्ठु शोभनं पिप्पलं फलं यासां ताः, शोभनपुष्पफला भूत्वा प्रति-गृह्णीत । अयं हि वो युष्माकं गर्भं ऋत्विय ऋतव्यः प्राप्तकालः । प्रत्नं पुराणं शाश्वतिकं सधस्थं सहस्थानम् आसदद् आसीदति --- इत्युव्वटः । ऋतुः प्राप्तोऽस्येति ऋत्वियः, ' छन्दसि घस् ' ( पा ० सू ० ५ | १ | १०६ ) इति कालप्राप्तौ घस्प्रत्ययः, ऋतुकालीनः प्राप्तकालोऽयमग्निर्वो युष्माकं गर्भो भूत्वा प्रश्नं पुरातनं सधस्थं सहस्थानं गर्भयोग्य स्थानमासीदति - इति काण्वसंहिताभाष्ये सायणः । तत्र ब्राह्मणम् - ' ओषधयः प्रतिगृभ्णीत । पुष्पवती: सुपिप्पला इत्येतद्वैतासाथ समृद्ध " रूपं यत्पुष्पवत्यः सुपिप्पलाः समृद्धा एनं प्रतिगृभ्णीतेत्येतदयं वो गर्भ ऋत्वियः प्रत्न सधस्थ मासददित्ययं वो गर्भ ऋतव्यः सनातन सधस्थ मासददित्येतत् ' ( श ० ६ | ४ | ४ | १७ ) । द्वितीयं मन्त्रं विधत्ते - ओषधयः प्रतिगृभ्णीतेति । मन्त्रं व्याचष्टे-एतद्वैतासामिति । पुष्पफलवत्त्वमेव समृद्धं रूपमित्यर्थः । ' द्वाभ्यामुपावहरति । द्विपाद्यजमानो यजमानोऽग्नि-र्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपावहरति तं दक्षिणत उदमुपावहरति तस्योक्तो बन्धुरुद्धतमवोक्षितं भवति यमुपावहरत्युद्धते वा अवोक्षितेऽग्निमादधति सिकता उपकीर्णा भवन्ति तासामुपरि बन्धुः ' ( श ० ६ | ४ | ४ | १८ ) । उपावहरणमन्त्रगतसंख्यां प्रशंसति द्वाभ्यामुपावहरतोति । तदिदं विधत्ते -- तं दक्षिणत उदवमित्या-दिना । एतद्ब्राह्मणमूलकमेव कात्यायनसूत्रम् ' उत्तरत आहवनीयस्य ' ( का ० श्र ० १६ | ३ | १४ ) इत्यादि, तत्तु पूर्वमुद्धतमेव । तं पिण्डं दक्षिणतः प्रदेशादुदञ्च मुदङ्मुखम् उपावहरेद् निदध्यात् । दक्षिणत उदगागमनस्य स्तावकं ब्राह्मणमतिदिशति - तस्योक्तो बन्धुरिति, ' दक्षिणतो वा उदग्योनी रेतः सिच्यते ' ( श ० ६ | ४ | २ | १० ) इति । यत्र स्थाने एनं पिण्डं निदध्यात्, तत्स्थानम् उद्धतम् उद्धननसंस्कृतम् अवोचितम् उदकसिक्तं भवेत् । पिण्डस्याग्निरूपत्वात् तत्समानप्रदेशकरणं युक्तमित्याह - उद्धते वा अवोक्षितेऽग्निमिति । गार्हपत्यादिधिष्ण्य-मित्यर्थः । तस्मिन् प्रदेशे सिकता विकीर्णा भवन्ति । तत्स्तावकं ब्राह्मणमुपरिष्टाद् वक्ष्यत इत्याह-तासामुपरि बन्धुरिति । ' परिश्रितं भवति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षा ४ ९ सि नाष्ट्रा न हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरं परिश्रयत्यथो योनिर्वा इय रेत इदं तिर इव वै योनौ रेतः सिच्यते योनि-रूपमेतत्क्रियते तस्मादपि स्वया जायया तिर इवैव चिचरिषति ' ( श ० ६४ | ४ | १ ९ ) । तासां विकीर्णानां सिकतानां परिश्रितमिव परिवृतं भवेत् । परिश्रितकरणं नाम रक्षोभीत्या पुरस्य करणम् । प्रकारान्तरेण स्तौति-अथो योनिर्वा इयमिति । इदं परिश्रितं स्थानं योनिरूपम्, इदं पिण्डरूपं रेतो यतश्च योनौ तिरः अप्रकाश सिच्यते । उक्तमर्थं लोकप्रसिद्धया द्रढयति -- तस्मादिति । तस्मात् सर्वोऽपि जनः स्वया जाययापि तिर वैव चरितुमिच्छति । अध्यात्मपक्षे -- हे ओषधयः, अन्नमयादिपुरुषाः, यूयं पुष्पवत्यः फलवत्यश्च साङ्गोपाङ्गा भूत्वा एनमग्नि-मात्मरूपं प्रतिगृह्णीत सर्वाधिष्ठानतया निश्चिनुत । अयं वो युष्माकं गर्भः सर्वान्तर ऋत्वियः प्राप्तकालः प्रत्नं पुरातनं सधस्थं सहस्थानं प्राप्तवान् परमात्मा अनादिकालादधिष्ठानभूतः सर्वान्तरत्देन स्वस्मिन् कल्पितेः सह स्थानं प्राप्तवानस्तीति । दयानन्दस्तु – ' हे स्त्रियः, यूयं या ओषधयः सोमादयः सन्ति, याभ्योऽयमृत्विय ऋतुः प्राप्तो यस्य सः, गर्भे वो युष्माकं प्रत्नं पुरातनं सधस्थं सहस्थानं गर्भाशयमासदत् प्राप्नुयात्, ताः पुष्पवतीः श्रेष्ठानि पुष्पाणि यासां ताः सुपिप्पलाः शोभनफला ओषधीः प्रतिगृभ्णीत ' इति, तत्तु प्राकृतमेव, लोकप्राप्तत्वात् स्त्रीणां सम्बोधनस्य निर्मूलत्वात्, शिक्षाकालेऽयं वो गर्भ इति निर्देष्टुमशक्यत्वाच्च । नह्यध्ययनकालोऽस्य ऋतुः । तहि कथं ऋत्विय इति? ॥ ४ ९ ॥

पृष्ठ 99

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४ ९ ] वेदार्थपारिजातभाष्यसहिता ६३ वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । स॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒ह ँ स॒हव॑स्य॒ प्रणी॑तौ ॥ ४ ९ ॥ को मन्त्रार्थ - बड़े विस्तार वाले बल से दीप्तिमान् हे अग्ने, तुम शत्रुओं को, राक्षसों को और समस्त व्याधियों के कार्य में मैं नियुक्त है, विशेष रूप से दूर करो । सभी प्रकार के सुखों को बुलाने में समर्थ अग्निदेव को प्रसन्न करने अतः सभी प्रकार के सुख मुझे प्राप्त हों ॥। ४ ९ ॥ ' विपाजसेति प्रमुच्यनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति ' ( का ० श्री ० १६ । ३ । १५ ) | मुञ्जयोक्त्रेण त्रिष्टुप् कृष्णाजिनबद्धमेनं मृत्पिण्डं विस्रंस्य अजस्य रोमाणि गृहीत्वा पशुत्रयमीशानीं दिशं प्रत्युत्सृजेत् । अग्निदेवत्या वीत्युपसर्गे कात्योकीलदृष्टा । हे अग्ने, द्विषः शत्रून् रक्षसः राक्षसान् अमीवाः रोगान् पाप्मन: विबाधस्व । बाधस्वेति क्रियया सम्बद्ध्यते । कीदृशस्त्वम्? पृथुना विततेन पाजसा बलेन, पाज इति बलनाम ( अथेदानीं निघण्टु २।९ ।२ ), शोशुचानो भृशं दीप्यमानः । शोचतेर्यङ्लुगन्ताच्छानचि रूपम् । एवं प्रत्यक्षं याचित्वा शरणे सुखे वा अहं परोक्षीकृत्या शिषमाशास्ते - अग्नेः प्रणीतौ प्रकृष्टनीती अभ्यनुज्ञायां परिचर्यायां वा । शर्माणि? स्यां भवेयम् । आश्रयं सुखं वा प्राप्नुयामित्यर्थः । कीदृशस्याग्नेः? सुशर्मणः साधुशरणस्य । पुनः कीदृशस्य वा । बृहतो महतः । पुनः कीदृशस्य? सुहवस्य सुष्ठु शोभनं हव आह्वानं यस्य स सुहवस्तस्य सुखेनाद्वातुं शक्यस्य तत्र ब्राह्मणम् - -'अथैनं विष्यति । तद्यदेवास्यात्रोपनद्धस्य स शुच्यति तामेवास्मादेतच्छुचं बहिर्धा दधात्यथो एतस्या एवैनमेतद्योने: प्रजनयति ' ( श ० ६ | १ | ४ | ४ | २० ) | विष्यति प्रमुञ्चेत् । पूर्वं मुञ्चेदित्यर्थः कृष्णाजिन- । पुष्करपर्णयोर्मध्ये पिण्डं निधाय अन्तानुद्गृह्य योक्त्रेण बन्धनं कृतम्, तद्योक्त्रम् अन्तोद्ग्रहणं च शुचं तद्विमोन विमोकं स्तौति तद्यदेवास्येति । पूर्वमन्त्रोपनद्धस्य पिण्डस्य शोको जातः । तां बन्धनजातां ४ | ११७ ), अतो बन्धनरूप-बहिर्धा निहितवान् भवति । किच, पुष्करपणं च योनिरूपमित्युक्तं श्रुतो ( श ० ६ इत्यर्थः | । ' विपाजसा पृथुना योक्त्रविमोकाद् योनेरेव पिण्डं मुखाद्यात्मना जायतामित्यभिप्रायेण तद्विमोक इति बाधस्व सर्वान् पाप्मन शोशुचान इति । विपाजसा पृथुना दीप्यमान इत्येतद्वाधस्व द्विषो रक्षसो अमीवा ( श ० ६ । ४ । ४ । २१ ) । एतद्-इत्येतत्सुशर्मणो बृहतः शर्मणि स्यामग्नेरह सुहवस्य प्रणीतावित्या शिषमाशास्ते । ' शोशुचान इत्यस्य दीप्यमान ब्राह्मणानुसारेणैव अमीवा इत्यस्य सर्वान् पाप्मन इति व्याख्यानं कृतम् दिग्यदुदीची इति । ' अथाजलोमान्याच्छिद्य । उदीचः प्राचः पशून् प्रसृजत्येषा होभयेषां देवमनुष्याणां | २२ ) । उदीचः प्राच प्राच्येतस्यां तद्दिशि पशून् दधाति तस्मादुभये देवमनुष्याः पशूनुपजीवन्ति ' ( श ० ६ | ४ | ४ सूत्रं चोक्तमेव । ईशान दिगभिमुखान् प्रसृजति विसृजेत् । तां दिशं प्रशंसति -- एषा होभयेषामिति । एतन्मूलकं अध्यात्मपक्षे -- हे अग्ने परमात्मन, पृथुना विस्तृतेन पाजसा बलेन द्विषः शत्रुभूतान् । रक्षसो परोक्षेणाह- बाह्यान् रावणादीन् आन्तरान् कामादींश्च, अमीवा आन्तरान् बाह्यांश्च पाप्मनो विबाधस्व विनाशय विद्यमानायामहं शर्मणे अग्नेः पापनाशकस्य अप्रधृष्यस्य भगवतः प्रणीती प्रणयनेऽभ्यनुज्ञायां परिचर्यायां सुशर्मणः सुष्ठु सुखे स्यां सुखी स्याम, परमेश्वराज्ञावशवर्तिताया एवं सर्वसुखमूलत्वात् । कीदृशस्याग्नेः? सुखं शोभनम् अविनश्वरं शं गर्भसुखं यस्मात्तस्य शोभनं शरणमाश्रयणं यस्य तस्य वा, मोक्षाख्यमविनश्वरं परमात्माश्रयणेनैव भवति । भगवच्छरणागतिरेव शोभना शरणागतिः, अन्यालम्बनस्य कुशकाशावलम्बन-प्रायत्वात् । पुनः कीदृशस्याग्नेः? बृहतो महतः, तद्भिन्नस्य सर्वस्यैव क्षुद्रत्वात् । पुनः कीदृशस्य? सुहवस्य,

पृष्ठ 100

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेद संहिता [ अ ० ११ शक्यस्य । अन्ये देवा शोभनं हवमाह्वानं यस्य तस्य । परमात्मन आह्वानमपि मङ्गलमयम् । यद्वा सुखेनाह्वातुं । गजेन्द्राह्वानेनातिशीघ्रमेव दुराराध्यास्तेषामाह्वानमतीव दुःशकम् । परमेश्वरस्तु सकृदाह्वानेनाप्यागच्छति । गरुडादीन् शीघ्रगामिवाहमान् परित्यज्यापि शीघ्रमेवागतः शुचिः सन् सदा वर्तेथाः । दयानन्दस्तु -- ' हे पते, त्वं पृथुना विपाजसा बलेन सह शोशुचानो भृशं । तहि बृहतो अमीवा रोग इव प्राणिनां पीडका रक्षसो दुष्टा द्विषः शत्रुभूता व्यभिचारिणीवृषलीर्बाधस्व वा यस्य तस्य ते शर्म॑णि सुखकारके गृहे महतः सुशर्मणः शोभितगृहस्य सुहबस्य शोभनो हवो ग्रहणं दानं निर्मूलम्, मूले पतिपत्नीशब्दयोरभावात् । प्रणीतो प्रकृष्टायां धर्म्यायां नीतो अहं पत्नी स्याम् ' इति, तदपि द्विष इति शब्दस्य व्यभिचारिणीस्त्रीबोधने न च शुद्धौ पृथुबलस्योपयोगः, तदन्तरापि तत्सम्भवात् । न च ॥ ४ ९ ॥ शक्तिरस्ति । अमीवापदस्य गौणार्थता त्वयैव स्पष्टीकृता, इवशब्दप्रयोगेणेति

आपो॒ हि ष्ठा म॑यो॒भुवस्ता ने ऊर्जे बंधातन । महे रणाय चक्षते ॥ ५० ॥

लिये स्नान - पान मन्त्रार्थ - हे जलसमूह, तुम जल को देने वाले हो । सुख की भावना करने वाले व्यक्ति निमित्त के यहाँ स्थापित आदि के द्वारा सुख के उत्पादक हो । हमारे रमणीय दर्शन के निमित्त और रसानुभव के हो जाओ ॥ ५० ॥

' आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे ' ( का ० श्री ० १६ | ३ | १६ ) | अग्निनिधानानन्तरं । तच्च मन्त्रत्रयेण दक्षिणाग्नौ पलाशत्वक्क्वथितमुदकं यदस्ति तस्मादुदकात् फेनमुद्धृत्य पात्रान्तरे, स्थापयेत् आप्यते सर्वं कार्यं प्राणिना-मृत्पिण्डस्योपरि सिञ्चेत् | अब्देवत्यास्तिस्रो गायत्र्यः सिन्धुद्वीपदृष्टाः । हे आपः सुखं भावयन्ति माभिरित्यापः । करणे क्विप् । यूयमेव मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ । एवार्थे मयः हेत्वर्थे प्रसिद्धयर्थे प्रापयन्तीति मयोभुव, स्नानपानादिहेतुत्वेनापां सुखयित्रीत्वं प्रसिद्धमेव । हिशब्द यथा वयं सर्वस्य सौख्यस्य च । तादृश्यो यूयं नोऽस्मान् ऊर्जे अन्नाय रसाय वा दधातन भवदीयरसानुभवाय ( पा ० सू ० ७ | १ | ४५ ) इति रसस्य भोक्तारो भवेम तथा स्थापयत, कुरुतेति वा? ' तप्तनप्तनयनाश्च ' भवथ, लोण्मध्यमपुरुषबहुवचनस्य तनबादेशे रूपम् । यद्वाऽस्मानूर्जे रसायानुभवार्यम् । भवदीयरसानुभावयित्र्यो चास्मान् दधातनेत्यनुवर्तते । अनुभवार्थं दधातन । कि, महे महते रणाय रमणीयाय चक्षसे दर्शनाय सर्वसुखं ददथेति भावः । ब्रह्मात्मदर्शनं महद्रमणीयं तदस्मान् ब्रह्मसाक्षात्कारयोग्यान् कुरुत । ऐहिकामुष्मिकं रणम्, तस्मै रणाय । चष्टे पश्यति मह्यते पूज्यत इति मट्, क्विप्प्रत्ययः " तस्मै महे । रण्यते स्तूयते सर्वैरिति भवति ' ( छा ० उ ० ६।१।३ ) सर्वं येन तच्चक्षः, असुन प्रत्ययः तस्मै चक्षसे ब्रह्मणे, ' येनाश्रुतं श्रुतं इति छान्दोग्यश्रुतेः । पर्णकषायेण सोमो वै अत्र ब्राह्मणम् – ' पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेने न्वेव यद्वेव १ ) | जलानां पर्ण -पर्णश्चन्द्रमा उ वै सोम एतदु वा एकमग्निरूपमेतस्यै वाग्निरूपस्योपाप्स्य ' ( श ० ६ पर्णकषायनिष्पक्वा | ५ | १ | भवेयुः । क्वथितत्वं विधत्ते -- पर्णकषायनिष्पक्वा इति । एता मृत्पिण्डे सिच्यमाना आपः पर्णेति । सोमस्य पर्णत्वं स्थेने स्थिरत्वाय, केवल मृत्तिकयोखादिकरणे विशरणसम्भवात् । तत्प्रशंसति - यद्वेव रुद्रादिनामान्युक्तानि सर्वोषध्यनुप्रवेशात् । सोमो नाम चन्द्रमाः । स हि ' एकमग्निरूपम् ' । पूर्व कुमारस्याग्नेरष्टो नाम, चन्द्रमाश्च ( श ० ६।१।३।११-१२ ) । तेषां चाग्न्युदकौषध्यादीनि रूपाण्युक्तानि । तत्र महादेवेति सप्तमं