वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 131–140
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 131–140
पृष्ठ 131
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७० ] वेदार्थ पारिजातभाष्यसहिता ९ ५ ' अग्नावारूढे त्रयोदशाऽस्यां प्रादेशमात्रीः समिध ह्रादधाति ' ( का ० श्री ० १६ | ४ | ३३ ) | ' घृतोन्नां कार्मुकीं द्रवन इति ' ( का ० श्री ० १६२४/३५ ) । अग्नौ आरूढे वह्नौ जाते सति, उख्येऽग्नो प्रादेशमात्री -स्त्रयोदशसंख्याकाः समिधः प्रक्षिपेत् । ताः क्रमेणाह - घृतोनामिति । तत्र प्रथमं घृतोन्नां घृतक्लिन्नां कृमुकसमिधं द्रवन्न इति मन्त्रेण आदध्यात् । कृमुको धमनः, धनुरुपादानभूतो वृक्षविशेषः । अग्निदेव गायत्री सोमाहुतिदृष्टा । य इत्थंभूतोऽग्निः स कार्मुकीं समिधं भक्षयत्विति शेषः, वाक्यस्य आख्यात-सापेक्षत्वाद् मन्त्रे तदभावाच्च । कथंभूतोऽग्निः? द्रवन्नः, द्रवो वृक्षा एव अन्नमदनीयं यस्य सः । दृशब्दो द्रुमपर्याय:, ' द्रपदमित्याह वनस्पतीच्छो नामैवैतेन यजते ' इति श्रुतेः ' पलाशी द्रुदुमागमा: ' ( अ ० कोट २ ( ४५ ) इति कोशाच्च । यद्वा ' द्रु गती ' द्रवदन्नं यस्य सः । सर्पिरासुतिः सर्पिर्घृतमा सुतिरासवस्थानीयं मादकं यस्य सः । यद्वा सर्पिराहारत्वेन सूयते प्रक्षिप्यते यस्मिन् सः । प्रत्नः पुरातनः । होता देवानामाहाता । वरेण्यः वरणीयः । सहसपुत्रः सहसो बलस्य पुत्रः, मन्थनहेतुना बलेनोत्पद्यमानत्वात् । अद्भुतः आश्चर्यरूपः, अनन्यादृशः । एवंभूत उखायां तिष्ठनग्निः कार्मुकी समिधं भक्षयत्वित्यर्थः । तत्र ब्राह्मणम् -- ' तां यदाग्निः सन्तपति । अथैनामचिरारोहति योषा वा उखा वृषाग्निस्तस्माद्यदा वृषा योषा सन्तपत्यथास्या रेतो दधाति ' ( श ० ६ ६ २८ ) । सन्तपने सत्युखाया या दीप्तिस्तां रेत-आत्मना, सन्तापकर्माग्नि पुरुषात्मना, उखां च योषिदात्मना, सन्तापं च सम्भोगात्मना प्रशंसति- तां यदाग्निः सन्तपत्यादिना । ' सा कार्मुकी स्यात् । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा अग्निमनीकं कृत्वाऽसुरा-नभ्यायंस्तस्याचिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्यां प्रत्यतिष्ठत् स कुमुकोऽभवत्तस्मात् सस्वादू रसो हि तस्मादु लोहितोऽचिहि स एषोऽग्निरेव यत्कुमुकोऽग्निमेवास्मिन्नेतत्सम्भूति दधाति ' ( श ० ६/६/२/११ ) | आधातव्यायाः समिधो वृक्षविशेषसम्बन्धमाह - सा कार्मुकी स्यादिति । धनुरुपादानभूतो वृक्षविशेषः कृमुकः । तद्विकारत्वं समर्थयितुमाख्यायिका माह -- देवाश्चेत्यादिना । स्पर्धमानानां मध्ये ते देवा अग्निमनीकं मुखं कृत्वा असुरानभिगताः । तस्मिन् समयेऽसुराः प्रत्यावृत्त्य अग्नेरचिः प्रगृह्य यावन्मात्रं गृहीतमासीत् तावन्मात्रमचिषोऽग्रं प्रावृश्चन् । वत् छिन्नमग्रमस्यां पृथिव्यां प्रतिष्ठितमभूत् । स च तत्र कृमुकाख्यो वृक्षः सम्पन्नः । कृसुको नाम धनुष उपादानभूतः सारवान् वृक्षविशेषः । उक्तमर्थं प्रत्यक्षबलेन द्रढयति - तस्मात् स स्वादुरिति । यस्मादग्नेः सारांशस्तस्मात् स स्वादू रसो भवति । तत्रैव प्रत्यक्षान्तरं दर्शयति -- तस्मादु लोहितोऽचिर्हीति । अचिषो लोहितवर्णत्वात् तदात्मको वृक्षोऽपि लोहितः । तस्मात् स एष कृमुकोऽग्निरेव, वृक्षरूपेण परिणामात् । एतद् एतेन मुसमिदाधानेन अग्निमेव सम्भूतिं दधाति स्थापितवान् भवति । ' प्रादेशमात्री भवति । प्रादेशमात्रो वै गर्भो विष्णुरात्मसम्मितामेवास्मिन्नेतत् सम्भूति दधाति ' ( श ० ६/६ | २ | १२ ) । समिध इयत्तां विधाय प्रशंसति -- प्रादेशमात्री भवतीति । प्रादेशमात्रो वै गर्भो भवति । गर्भो विष्णुर्यज्ञरूपः प्रादेशमात्रः । गर्भस्य प्रादेशमात्रत्वं लोकसिद्धम् । विष्णुरेव वामनावतारो गर्भरूपः प्रादेशमात्रः । स च विष्णुरात्मसम्मितामेवैतेन भूतिं दधाति । ' वृते न्युत्ता भवति । अग्निर्यस्य योनेरसृज्यत तस्यै घृतमुल्बमासीत् तस्मात्तत्प्रत्युद्दीप्यत आत्मा ह्यस्यैष तस्मात्तस्य न भस्म भवत्यात्मैव तदात्मानमप्येति न वा उल्बं गर्भ हिनस्त्यहि साया उल्बाद्वै जायमानो जायत उल्बाज्जायमानो जायाता इति ' ( श ० ६ ६ २ १३ ) | आधेयायाः समिधः प्रवृञ्जनं विधाय प्रशंसति - घृते न्युक्तेत्यादिना । उख्यलक्षणोऽग्निः पूर्व यस्या योनेरसृज्यत तस्या घृतमेव उत्बमासीत् । तस्मात्तत्प्रति घृतमुद्दीप्यते । तस्मादग्न्यवयवत्वादेव तस्य घृतस्य हुतस्य न भस्म भवति इतरकाष्ठवत् । भस्माभावे कारणमाह- आत्मैव तदात्मानमध्येति । ' सामादधाति ।
पृष्ठ 132
पाठ पढ़ें पाठ छिपाएँ
९ ६ शुक्लयजुर्वेदसंहिता [ अ ० ११ द्रवन्नः सर्पिरासुतिरिति दार्वन्नः सर्पिरशन इत्येतत्प्रत्नो होता वरेण्य इति सनातनो होता वरेण्य इत्येतत् सहसपुत्रो अद्भुत इति बलं वै सहो बलस्य पुत्रोद्भुत इत्येतत्तिष्ठन्नादधाति स्वाहाकारेण तस्योपरि बन्धुः ' ( श ० ६ | ६ | २ | १४ ) | समिदाधाने मन्त्रं विधाय विभज्य व्याचष्टे --- तामादधतीति । द्रवणादूर्ध्वगमनाद् दुः वनस्पतिः, स एवान्नं यस्य सः । सरणात् सर्पिर्घृतम्, तदेव आसुतिर आसव स्थानीयं यस्य सः । प्रथमपादं व्याचष्टे - दार्वन्नः सर्पिरशन इत्येतदिति । द्रवन्न इत्यस्य दार्वन्न इत्यर्थः, अग्नेर्दारुभक्षकत्वस्य प्रसिद्धत्वात् । अशनशब्देनान्नसामान्यवाचिना पानलक्षणान्नविशेष उपलक्ष्यते । द्वितीयपादे प्रत्नशब्द व्याचष्टे - सनातनो होतेति । तृतीयपादं व्याचष्टे - सहसस्पुत्रो अद्भुत इति । सहते अभिभवति शत्रुमिति सहो बलम्, मथनकाले नोत्पद्यमानत्वात् । पूर्वमभूत इव सर्वदा नूतन इत्यर्थः । स्वाहाकारेण मन्त्रान्ते समिदाधानं कर्तव्यम् । तच्च तिष्ठतैवेति विधत्ते - तिष्ठन्नादधाति स्वाहाकारेणेति । तस्यार्थवादरूपो बन्धुरुपरि निर्दिष्ट: ' स्वाहाकारेण रेतो वाइ सिक्तमयमग्निः ' ( श ० ६ । ६ । ३ । १७ ) इत्यादिना प्रदर्श्यत इत्यर्थः । ---" ' तद्वा आत्मैवोखा | योनिर्मुखाः शणा जरायूल्बं घृतं गर्भः समित् ' ( श ० ६. ६ | २ | १५ ) । गर्भरूपायाः समिधः सर्वान्तरत्वं प्रशंसति तद्वा इति । उखा आत्मैव स्त्रीशरीरमेव । इतरस्यामवस्तीर्णानि मुञ्जतॄणान्येव योनिः ततोऽप्यान्तरत्वात् । शणा जरायु घृतमुल्बं समिद् गर्भः । एष्वर्थेषूपपत्ति ब्राह्मणमेव दर्शयति । तथाहि - ' बाह्योखा भवति । अन्तरे मुञ्जा बाह्यो ह्यात्माऽन्तरा योनिर्बाह्ये मुञ्जा भवन्त्यन्तरे शणा बाह्या हि योनिरन्तरं जरायु बाह्ये शगा भवन्त्यन्तरं घृतं बाह्य ९९ हि जरावन्तरमुल्वं बाह्यं घृतं भवत्यन्तरा समिद् बाह्य ह्युल्बमन्तरो गर्भ एतेभ्यो वै जायमानो जायते तेभ्य एवैनमे तज्जनयति ' ( श ० ६ | ६।२।१६ } । आत्मत्वादिकल्पनायाः प्रयोजनमाह-- एतेभ्यो वै जायमान इति । जायमानो गर्भ एतेभ्यः शरीरादिभ्यः सकाशाज्जायते । तथैवोत्पद्यमानस्य अग्नेरप्येतेषामपेक्षणाद् एतद् एतेन उखामुञ्जादीनामुक्तक्रमेण सम्पादनेन तेभ्य एवात्मादिभ्य एनं गर्भरूपमग्नि जनयति । उक्तक्रमेण तेषामनुष्ठानं प्रशस्तमिति विधेयस्तुतिः । अध्यात्मपक्षे — अयं ज्ञानाग्निः, द्रवन्नः, दुः संसारवृक्षः अन्नं भक्षणीयं यस्य सः, ज्ञानस्य संसारतन्मूला-ज्ञानभक्षकत्वेन तदुपपत्तेः । तादृशो ज्ञानाग्निस्तादृशं संसारं भक्षयतु | कोदृशः सः? सर्पिरासुतिः सर्पिर्घत-भगवद्विषय: स्नेह आसुतिर आसवस्थानीयो यस्य सः । ' भक्त्या मामभिजानाति ' ( भ ० गो ० १८।५।५ ), ' भक्तिर्ज्ञानाय कल्पते ' इत्यादिवचनेभ्यः । सोऽग्निः प्रत्नः पुरातनः सर्वस्त्र हृदि सूक्ष्मरूपेण सदैव विद्यमानत्वात्, ' ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ' ( भ ० गी ० १३ | १७ ) इति गीतोक्त: । होता स एव परमात्मन आह्वाता, तत्प्राकट्यहेतुत्वात् । सहसो बलस्य पुरुषकारस्य पुत्रः महापुरुषकारेणोत्पद्यमानत्वात् 1 । अद्भुतः, आश्चर्य रूप ब्रह्मविषयत्वेनाश्चर्यरूपत्वात्, ' आश्चर्यो वक्ता ' ( कठो ० २७ ), ' आश्चर्यवत् पश्यति कश्चिदेनम् ' ( भ ० गी ० २१२ ९ ) इत्यादिवचनेभ्यः । दयानन्दस्तु --- हे पते, द्रवन्नो वृक्षफलान्योषधयोऽन्नं यस्य स ईदृशः, घृतोदरा सुतिः सवनं शोधनं यस्य सः, प्रत्नः सनातनो होता दाता ग्रहीता वरेण्यः स्वीकर्तुमर्हः सहसस्पुत्रो बलवतोऽपत्यम् अद्भुत आश्चर्यगुण-कर्मस्वभावः, त्वं स्वस्तये अस्मिन् यज्ञे गृहे उदिहि उदितो भव ' इति, तदपि यत्किञ्चित् मन्त्रस्य दम्पती -संवादार्थकत्वे मानाभावात् । नहि कश्चिन्मनुष्यो वृक्षभक्षको भवति, द्रुपदस्य फलार्थकत्वे मानाभावाच्च । सर्पिरासुतिर्धृतादिपदार्थंशोधक इत्यपि निर्मूलम्, अप्रासङ्गिकं च । प्रत्नत्वमपि तस्य कुतस्त्यम्? सहस्पदस्य बलवदर्थतापि निर्मूला, गौणार्थप्रसङ्गात् । न वा सर्वस्य पत्युराश्चर्यं गुणस्वभाववत्वं सम्भवति, मनुष्याणा-मतथात्वाच्च ॥ ७० ॥
पृष्ठ 133
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७१-७२ ] वेदार्थ पारिजातभाष्यसहिता
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ २ अ॒भ्यात॑र । यत्राऽहमस्मि॒ि ताँ २ अ॑व ॥ ७१ ॥
९ ७ मन्त्रार्थ हे अग्निदेवता, शत्रुसम्बन्धी संग्राम से हमारे स्वजनों को दुःख से तारने के लिये सामने आओ और जिस स्थान में मैं स्थित हूँ उसकी रक्षा करो ॥ ७१ ॥
' वैकङ्कत परस्या इति ' ( का ० श्री ० १६ | ४ | ३६ ) । विकङ्कतवृक्षसमिधं जुहोति परस्या इति मन्त्रेणेति सूत्रार्थः । आग्नेयी गायत्री विरूपदृष्टा । इममारभ्याध्यायान्तमाग्नेय्यः । संवत् संवन्वते सङ्गच्छन्ते योधा यत्र सा संवत् । संपूर्वस्य वनतेर्गत्यर्थस्य क्विप् । परस्याः शत्रुसम्बन्धिन्याः संवतः संग्रामात् । संवदिति संग्रामनामसु पठितम् ( निघ ० २।१७: ४६ ) । अवरानस्मदीयान् जनान् अभ्यातर आभिमुख्येनागत्य दुःखादुत्तारयेत्यर्थः । यत्र देवेषु मनुष्येषु वा अहमस्मि भवामि तानव पालय तर्पय वा । यद्वा परस्याः संवतोऽप्युत्कृष्टायाः संवननीयाया इष्टेरप्यवरान् निकृष्टान् अस्मान् त्वमभ्यातर आभिमुख्येनागत्य दुःखेभ्यस्तारय । यत्र येषु बन्धुष्वहमस्मि तान् बन्धूनपि अव रक्ष । अत्र ब्राह्मणम् —'अथ वैकङ्कतीमादधाति । प्रजापतिर्यां प्रथमामाहुतिमजुहोत् स हुत्वा यत्र न्यमृष्ट ततो विकङ्कतः समभवत् सैषा प्रथमाहुतिर्यद्विकङ्कतस्तमस्मिन्नेतज्जुहोति तयैनमेतत्प्रीणाति परस्या अधि संवतोऽव २ अभ्यातर । यत्राहमस्मि ताँ २ अवेति यथैव यजुस्तथा बन्धुः ' ( श ० ६ | ६ | ३ | १ ) । द्वितीयायाः समिधो वैकङ्कतत्वं विधाय प्रशंसति - अथ वैकङ्कतीमित्यादिना । अर्थात् पुरा प्रजापतिः प्रजाः सृष्ट्वा यां प्रथमामाहुतिमजुहोत्तां हुत्वा यत्र देशे न्यमृष्ट हुतशेषनिमार्जनं कृतवान् ततो देशाद् विकङ्कतः समभवत् । यत एवं तस्माद् विकङ्कत-साध्या आहुतिः प्रथमाहुतिः । प्रथमाहुतेरंशत्वादस्यापि प्राथम्यम् । अतः प्रथमाहुतिमेव अस्मिन् हुताग्नी हुतवान् भवति । तयाहुत्या चैनमुख्यमग्नि प्रीणाति । अध्यात्मपक्षे - हे ज्ञानाग्ने, परस्याः संवतः अज्ञानाहङ्कारादिशत्रुसम्बन्धिन्याः संग्रामाद् अवरान् पश्चादुत्पन्नत्वान्निर्बलत्वाच्च कनिष्ठानपि शमदमादीन् अभ्यावर अभ्यागत्य संग्रामसङ्कटात्तारय । तामसराजसा असुरा ज्यायांसः, अनादिकालिकत्वाद् बहुसंख्यत्वाद् बद्धमूलत्वेन प्रबलत्वाच्च । सात्त्विकाः शमदमादयो देवा अर्वाचीनत्वादबद्धमूलत्वेनादृढत्वाच्च कनीयांसः तथापि ज्ञानाग्निमाश्रित्य देवा विजयन्ते, निरुपद्रवभूतार्थ-स्वभावत्वेन प्रबलैरपि विपर्ययादिभिरबाध्यत्वात् । यत्र येषु शमदमादिष्वहं भवामि, तानपि अव पालय । शमादिष्वेवात्मनः सत्त्वं भवति, तेषामात्मनः प्राकट्य हेतुत्वात्, अज्ञानादीनां तदावरकत्वात् । दयानन्दस्तु - हे कन्ये, यस्याः परस्या उत्तमायाः कन्यायास्तव अहम् अधि अधिष्ठाता स्वामी भवितु-मिच्छामि सा त्वं संवतो संविभक्तान् अवरान् निकृष्टान् अभ्यातर अभिप्लव मनसा परित्यज । यत्र कुले अहमस्मि तानुत्तममनुष्यान् अव रक्ष ' इति, तदप्यसङ्गतम्, श्रुतिसूत्रादिविरोधात् कन्यायाः सम्बोधने मानाभावाच्च । अधिष्ठाता भवितुमिच्छामीत्यपि निर्मूलमेव । अभिआङ्पूर्वस्य तरतेरुल्लङ्घनार्थत्वमपि निर्मूलमेव ॥ ७१ ॥
परमस्या॑ः परा॒वतो॑ रोहिव॑श्व इ॒हाग॑हि । पुरीष्यः पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥ ७२ ॥
मन्त्रार्थ - हे अग्निदेव, तुम्हारे अश्व का नाम रोहित है, तुम पशुओं के हितकारी हो, सबका कल्याण करते हो । तुम अत्यन्त दूर देश से भी इस यज्ञ कर्म में जाओ और संग्राम में शत्रुओं का विनाश करो ॥ ७२ ॥
१३
पृष्ठ 134
पाठ पढ़ें पाठ छिपाएँ
९ ८ शुक्लयजुर्वेदसंहिता [ अ ० ११ ' औदुम्बरी परमस्या इति ' ( का ० श्र ० १६ | ४ | ३७ ) | उदुम्बरतरुसमिधं तृतीयामादधाति परमस्या इति मन्त्रेणेति । अनुष्टुप् वारुणीदृष्टा । हे अग्ने, परमस्याः परावतः अत्यन्त दूरदेशाद् इह अस्मिन् कर्मणि त्वमागहि आगच्छ । आङ्पूर्वाद्गच्छतेः शपि लुप्ते ' अनुदात्तोपदेशवन तितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ' ( पा ० सू ० ६ | ४ | ३७ ) इति मकारलोपे आगहीति रूपम् । परावत इति दूरनामसु पठितम् ( निघ ० ३।२६।५ ) । परमाशब्दस्य सर्वनामत्वमार्षम् । परमा उत्कृष्टा अतिशयिता या परावत्, अतिदूरमित्यर्थः । तत आगत्य मृधः संग्रामान् तर, अतिक्रम्य रिपून् विनाशयेत्यर्थः । ' तरा ' इत्यत्र ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६ | ३ | १३५ ) इति दीर्घः । कथंभूतस्त्वम्? रोहिदश्वः, रोहित: रोहितसंज्ञका अश्वा यस्य स रोहिदश्व ', ' रोहितोऽग्ने, हति आदित्यस्य ' ( निघ ० १।१५ २ - ३ ) इति निघण्टुवचनात् । लोहितवर्णो वाश्वो यस्य सः । ' रोहितेनाग्निर्देवानां गच्छति ' इति काण्वभाष्ये सायणः । पुरीष्यः पशव्यः । पुरीषमुखाहेतुभूतं पांसुं वहतीति वा पुरीष्यः । अथवा बहुभ्यः पशुभ्य आहितः पुरीष्यः । पुरीषशब्देन बहुपुरीषाः पशव उच्यन्ते । पुरुप्रियः पुरूणां बहूनां जनानां प्रियः । अत आगत्य हे अग्ने, त्वं तर विनाशय । मृधः संग्रामानिति वा शत्रूनतिलङ्घयेति वा । अर्थाद् । हे अग्ने या परमा उत्कृष्टा परावद् दूरदेशः, अर्थात् तव या दूरदेशस्थितिरासीत्, तादृशाद् दूरदेशात् शीघ्रमागच्छ यद्वा अग्ने, त्वं तर मृधः सर्वान् पाप्मन इति । निघण्टौ ( २।१७।२० ) संग्रामनामसु पठितस्यात्र पापमर्थः । तरतिर्निरासार्थकः । ' मृधु उन्दने ' इति भौवादिकात् क्विपि रूपम् । उन्दनं क्लेदनम् । हिंसादिभिर्भयात् चित्तं क्लिद्यते । तस्माद् मृधिहिंसाकर्मा । ततोऽत्र पापमर्थः । तथा च श्रुतिः - तर सर्वान् पाप्मन इत्येतत् ' ( श • ६ ६।३।४ ) । तथाच-- -- ' अमर्धन्ता सोमपेयाय देव: ' ( ऋ ० सं ० ३२५१४ ) इत्यादी मृधिहिंसार्थं इति स्कन्दस्वामी । मृधु हिंसायामिति सायणः । तत्र ब्राह्मणम् -'अथौदुम्बरीमादधाति । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते ह सर्व एव वनस्पतयोऽसुरानभ्युपेयुरुदुम्बरो हैव देवान् न जहौ ते देवा असुराञ्जित्वा तेषां वनस्पतीनवृञ्जत ' ( श ० ६।६।३।२ ) । ' ते होचुः । हन्त येषु वनस्पतिष्य रस उदुम्बरे तं दधाम ते यद्यपक्रामेयुर्यातयामा अपक्रामेयुर्यथा धेनुर्दुग्धा यथाऽनङ्वानहिवानिति तयेषु वनस्पतिषूग्र्यो रस आसीदुदुम्बरे तमधुस्ततदूर्जा सर्वान् वनस्पतीन् प्रति पच्यते तस्मात् स सर्वदाद्रः सर्वदा क्षीरी तदेतत्सर्वमन्नं यदुदुम्बरः सर्वे वनस्पतयः सर्वेणैवैनमेतदनेन प्रीणाति सर्वेर्वनस्पतिभिः समिन्धे ' ( श ० ६ ६ ३ ३ ) । तृतीयसमिधो वृक्षविशेषं विधाय प्रशंसति - अथौदुम्बरीमादधाती-त्यादिना । देवासुरेषु परस्परं स्पर्धमानेषु सर्वेऽपि वनस्पतयोऽसुरानेवाभ्युपेयुः । उदुम्बर एक एव देवान्न जहौ । पश्चाद्देवा असुरान् जित्वा तेषां तेभ्यः सकाशाद् वनस्पतीनवृञ्जत वर्जितानकुर्वन् । पश्चात्ते देवा तेषु वनस्पतिषु विश्वासमकृत्वा वनस्पतिषु य ऊर्फ रसः सारांशस्तमुदुम्बरे स्थापयाम इति परस्परमुक्त्वा उदुम्बर एव स्थापितवन्तः । एवं कुर्वतामभिप्रायमाह ते यदि अपक्रामेयुस्तदा दुग्धधेनुवत् ऊढबलीवर्दवच्च गतसारा एवापक्रमेयुः । तया स्थापितयोर्जा सर्वेषां प्रतिनिधित्वेन पच्यते परिपक्वबहुफलो भवतीत्यर्थः । प्रतेः कर्मप्रवच-नीयत्वात् तद्योगाद् वनस्पतीनित्यत्र द्वितीया । उक्तमथं प्रत्यक्षेण द्रढयति - तस्मात्स सर्ववनस्पतिप्रतिनिधित्वात् सर्वान्नाद्यात्मकः । ' परमस्याः परावत इति । या परमा परावदित्येतद्रोहिदश्व इहागहीति रोहितो हाग्नेरश्वः पुरीष्यः पुरुप्रिय इति पशव्यो बहुप्रिय इत्येतदग्ने त्वं तरा मृध इत्यग्ने त्वं तर सर्वान् पाप्मन इत्येतत् ' ( श ० ६ ६।३।४ ) । तस्याः समिध आधाने मन्त्रं विधाय व्याचष्टे - परमस्याः परावत इति । हे अग्ने, या परमा उत्कृष्टा परावद् दूरनामैतत् । मन्त्रव्याख्यानेन गतार्थं ब्राह्मणम् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, या परमा उत्कृष्टा पराबत् अतिदूरं वसतिरस्ति त्वदीया, ' दूरात्सुदूरे ' ( मु ० ३ | १ | ७ ) इति मुण्डकोपनिषदि, ' तदूरे ' ( ई ० उ ०५ ) इति ईशावास्योपनिषदि च । ततः सकाशान्मम
पृष्ठ 135
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७२-७३ ] वेदार्थपारिजात भाष्यसंहिता ९९ हृदयकमलमागहि आगच्छ । हे रोहिदश्व रोहितो लोहितवर्णो रजोगुण एव अश्व इवाश्वो यस्य पशव्यः स रोहिदश्व- सर्वजीव-स्तत्सम्बुद्धौ । रजोगुणारूढत्वा दौपाधिकं दूरत्वमन्तिकत्वं वा भगवतः । कीदृशस्त्वम्? पुरीष्यः संघर्षान् पाप्मनो रूपपश्वनुगुणः । पुरुप्रियः अनन्तानन्तप्राणिपरप्रेमास्पदीभूतः । हे अग्ने, त्वं मृधः संग्रामान् वा तर निरस्य । दयानन्दस्तु – ‘ हे अग्ने पावक इव तेजस्विन् स्वामिन्, रोहितोऽग्न्यात्मकोऽश्वो वाहनानि यस्य सः, परमस्याः पुरीष्यः पुरीषेषु पालनेपु साधुः, पुरुप्रियः पुरूणां बहूनां जनानां मध्ये प्रियः प्रीतस्त्वमिह परावतो दूरदेशात् ' इति, तदप्य-कन्यायाः कीर्ति श्रुत्वा आगहि । मया प्राप्तया सह मृधः परपदार्थाभिकाङ्क्षिणः शत्रून् तर उल्लङ्घय । परमस्याः शब्देन सङ्गतम्, मुख्यार्थत्यागेन गौणार्थाश्रयणान् । रोहिच्छन्दो नाग्न्यादिबोधकः, तत्र तस्याशक्तेः गृहस्थाश्रमे कन्याया ग्रहणे मानाभावाच्च । अग्नियुक्तवाहनार्थकता तु दूरतो निरस्ता । नहि दूरदेशात् स्वगृहे वा आगमनं भवति । मया प्राप्तया सहेति त्वसम्बद्धमेव । न च स्त्रीभिः सह संग्रामे गमनं भवति, पुरुषाणामभाव एव क्वचित् तासामुपयोगसम्भवात् श्रुतिसूत्र विरोधाच्च, औदुम्बर्याः समिध आधाने मन्त्रस्य विनियोगात् ।
निघण्टौ रोहितोऽग्नेरश्व उक्तः । श्रुती मृधः सर्वान् पाप्मन इत्युक्तम् ॥ ७२ ॥
यद॑ग्ने॒ कर्म॑नि॒ कानि॑ चि॒दा ते दारू॑णि दध्मसिं ।
सवं तद॑स्तु ते घतं तज्जु॑षस्व यविष्य ॥ ७३ ॥
मन्त्रार्थ- युवा पुरुष के समान कान्ति वाले हे अग्निदेव, जो कोई भी काष्ठ तुम्हारे निमित्त अर्पित किया जाय, वह सब तुमको घृत के समान प्रिय हो, उसका प्रीतिपूर्वक सेवन करो ॥ ७३ ॥
' अपरशुवृक्णां यदग्न इति ' ( का ० श्री ० १६ | ४ | ३८ ) । अकुठारच्छिन्नां वातादिना हस्तादिना वा त्वदर्थे भग्नां यज्ञियवृक्षसमिधं चतुर्थी यदग्न इति मन्त्रेण आदध्यादिति सूत्रार्थः । द्वे अनुष्टुभौ जमदग्नेरार्षम् । हे अग्ने पतितानि , यद् यानि कानि कानिचिद् दारूणि कुठारच्छेदरहितानि वातहस्तादिदारितानि काष्ठानि कानिचिदरण्ये काष्ठान्यानीय दध्मसि धारयामः, तत्सर्वं काष्ठजातं त्वदर्थं घृतं घृतवत्प्रियमस्तु । हे यविष्ठ्य युवतम तद्दारुजातं क्लृप्तौ । जुषस्व सेवस्य यद्वा यच्छन्दो दध्मसीत्यनेन सम्बद्धघते । यद् यदा दध्मसि दमः । चिच्छन्दोऽनव असाकल्यार्थं इत्यर्थः । कानिचिद् दारूणि ते त्वयि आदध्मसि आदध्मः, तत्सर्वं घृतमस्तु घृतवत्प्रियमस्तु । तद् घृत्वेन कल्पितं यत्किचित्काष्ठं जुषस्व सेवस्व । तत्र ब्राह्मणम् -- ‘ अथापर वृक्णमादधाति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत एतद्वेकमन्नं यदपरशुवृवणं तेनैनमेतत्प्रीणाति यदग्ने कानिकानि चिदा ते दारूणि दमसि । सर्वं तदस्तु कृत्वाऽपि ते घृतं -. तज्जुषस्व यविष्ठयेति यथैव यजुस्तथा बन्धुस्तद्यत्किञ्चापरशुवृक्णं तदस्मा एतत्स्वदयति तदस्मा अन्नं दधाति ' ( श ० ६ | ३ | ३ | ५ ) | चतुर्थसमिदाधानं विधाय प्रशंसति --- अथेत्यादिना । परशुना अच्छिन्नस्य वाय्वादिना । भग्नस्य तस्याधाने प्रयोजनमाह - स एष सर्वस्मा इति । कथमस्य अन्नत्वमित्यत आह-- एतद्वेकमन्नमिति अपरशुवृक्णमप्यन्नेषु मध्ये ' एकमन्नम् ' इति । तत्र मन्त्रं विधाय तस्य व्याख्यानानपेक्षत्वमाह - यदग्ने कानिकानि- । चिदित्यादिना । तात्पर्यार्थमाह तद् यत्किञ्च अपरशुवृक्णं तदस्मा एतत्स्वदयति तदस्मा अन्नं कृत्वाऽपिदधातीति । अस्मै शिशुरूपायाग्नये तथा लौकिकशिशोर्नवनावादिकमन्नं कृत्वा आस्येऽपिदधाति, तथा कृतवान् भवतीति
पृष्ठ 136
पाठ पढ़ें पाठ छिपाएँ
१०० शुक्लयजुर्वेद संहिता [ अ ० ११ अध्यात्मपक्षे हे अग्ने परमेश्वर, कानिकानिचिद् दारूणि दारूपलक्षितानि पत्रपुष्पफलादीनि ते तुभ्य-मादध्मसि धारयामः, तत्सर्वं ते तुभ्यं घृतवत्प्रियं भवतु । हे यविष्ठ्य, अतिशयेन युवा यविष्ठः, यविष्ठ एव यविष्ठ्यः, तत्सम्बुद्धौ । तत्सर्वं जुषस्व प्रीतिपूर्वकं सेवस्व, ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ' ( भ ० गी ० ९ १ २६ ) इति गीतोक्तेः । दयानन्दस्तु – ' हे यविष्ठय अग्ने विद्वन् पुरुष स्त्रि वा यथा यानि कानिचिद्वस्तुनि ते सन्ति तद्वद्वयं दारुण्यादध्मसि । यदस्माकं वस्त्वस्ति तत्सर्वं तेऽस्तु । यदस्माकं घृतं तत् त्वं जुषस्व । यत्ते वस्त्वस्ति तत्सर्व- । मस्माकमस्तु । यत्ते घृतादिकं वस्तु तद्वयं गृह्णीमः ' इति, तदपि निरर्थकम्, वस्तूनां काष्ठपात्रधारणप्रयोजनानुक्तेः मूले घृतमित्येव पदमस्ति न बस्तुपदं न वादिपदम् । ' में ' इति पदमपि तत्र नास्ति । तथा च मोघैव श्रुतिसूत्र-विरुद्धकल्पना । किञ्च, मूले ' दारुणि ' इति प्रथमाबहुवचनान्तपाठोऽस्ति न तु सप्तम्येकवचनान्तपाठः । तथा च ‘ दारुणि काष्ठपात्रे ' इति सर्वथाप्ययथार्थमेव व्याख्यानम् । पारम्पर्य प्राप्त एव पाठोऽनुश्रवः । गुरोर्मुखादनुश्रूयत एव परं न केनापि क्रियते । तद्विरुद्ध कल्पनमुच्छृङ्खलतैव । अत एव तदनुगुणानि कानिकानिचिदिति विशेषणानि सङ्गच्छन्ते । सायणादिभिस्तथैव व्याख्यातं च । ' अपरशुवृवणमादधाति ' इति ब्राह्मणं च तदनुगुणमेव । नहि काष्ठपात्रमवदारणीयं भवति ॥ ७३ ॥
यदत्य॑प॒जिह्वा यद्व॒स्रो अ॑ति॒सर्प॑ति ।
सर्व॒ तद॑स्तु॒ ते घृ॒तं तज्जु॑षस्व यविष्ट ॥ ७४ ॥
दीमक जिस काष्ठ को खा जाती है, वल्मीक जिस काष्ठ से पार हो निकलती है, हे तरुण अग्ने, वह समिधा तुमको घृतवत् प्रिय हो, उसका प्रीतिपूर्वक सेवन करो ॥ ७४ ॥
' अधःशयां यदत्तीति ' ( का ० श्र ० १६ | ४ | ३ ९ ) । अधो निम्नप्रदेशे शेते इत्यधः शया भूलग्ना, स्वयमेव भूमौ निपतिता, तां समिधं पश्चमी यदत्तीति मन्त्रेणादधातीति सूत्रार्थः । उपजिह्निका उपदीपिका पिपीलिका-यद्दारुअतिसर्पति अतिव्याप्नोति, तत्सवं सदृशः क्षुद्रजीवो यद्दारु अत्ति भक्षयति, अधःशयत्वादेव, वम्रो वल्मीकश्च ते घृतमस्तु । यद्वा प्रौढा प्रधाना ज्वाला जिह्वा, तत्समीपवर्तिनी शुद्धज्वालोपजिह्विका । अस्माभिरुपनीतेषु दारुषु मध्ये यद्दारु महारण्ये दावाग्नेरुपजिह्विका अत्यल्पज्वाला अत्ति भक्षयति, ईषद्दहति । वाशब्दः पिपीलिका-सदृशं क्षुद्रजीवमाचष्टे । स च यत्काष्ठमतिसर्पति अतिशयेन व्याप्नोति, काष्ठावयवेषु तत्र तत्र सारं भक्षयति, तत्सर्वं ते घृतमस्तु । हे यविष्ठ्य तज्जुषस्व । तत्र ब्राह्मणम् -'अथाधः शयमादधाति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अत्राय जायत एतद्वेकमन्नं यदधःशयं तेनैनमेतत्प्रीणाति यदत्युपजिह्विका यद्वम्रो अतिसर्पतीत्युपजिह्निका वा हि तदत्तिव वाऽतिसर्पति सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठयेति यथैव यजुस्तथा बन्धुस्तद्यत्कि श्वाधः शयं तदस्मा एतत्स्वदयति तदस्मा अन्नं कृत्वाऽपिदधाति ' ( श ० ६ ६ ३ ६ ) पचम्याः समिध आधानं विधाय प्रशंसति - अथाधः-शयामादधतीत्यादिना । अधो भूमेरुपरि स्वयमेव पतितः सन् यः शेते स अधःशयः । उपजिह्निका मित्यादिना उपदीपिका । अत्ति, वम्रो वल्मीको वा यत्काष्ठमुपसर्पति आरोहति । मन्त्रस्य तात्पर्यमाह - तद्यत्किञ्चाधः शय अपरशुवृक्णाधःशययोर्वृक्षविशेषाविधानात् प्रकृतमुदुम्बरत्वमेव तयोरित्यवगन्तव्यम् ।
पृष्ठ 137
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७४-७५ ] वेदार्थपारिजात भाष्य सहिता १०१ अध्यात्मपक्षे - हे अग्ने, उपजिह्विका यत्ति यच्च वम्रोऽतिसर्पति } तादृशमपि वनमालयेयं प्रेम्णा समर्पितं संस्पधिनी काष्ठं पत्रपुष्पादिकं ते तव घृतं घृतवत्प्रियमस्तु । हे यविष्ठ्य तज्जुषस्व । ' पर्युष्ट्या तव विभो भगवती प्रतिपत्निवच्छी: ' ( भा ० ५० ११ । ६ । १२ ) इति श्रीमद्भागवते ब्रह्मादयो देवाः । अर्थाद् अग्राह्यमपि सर्वैरुपेक्ष्यमपि भावनया मन्त्रैश्व समर्पितं वस्तु भगवतेऽमृतं भूत्वोपतिष्ठते । तत एव वैदिकेषु कर्मसु स्वरूप-लक्षणस्य काष्ठविशेषस्य विविधसमिदादीनां होमो भवति । भावनाप्रभावान्मन्त्रप्रभावाच्च तत्सवं घृतायते अमृतायते चेति देवतानिरूपणप्रसङ्गे भूमिकायामुक्तमेव । दयानन्दस्तु - ' हे यविष्ठ्य, त्वम् उपजिह्निका उपगता अनुकूला जिह्वा यस्याः पत्न्याः सा ' यदत्ति इति, भुङ्क्ते । वम्रो उद्गलितोदानः, अतिसर्पति अत्यन्तं चलति, तत्सर्वं तेऽस्तु । यत्ते घृतमस्ति तज्जुषस्व तदपि मन्दम्, अस्पष्टार्थत्वात् । हे युवतम त्वं जितरसना पत्नी च यदत्ति मुखोद्गलितप्राणवायुश्चात्यन्तं चलति, तत्तेऽस्त्वित्यस्य किं तात्पर्यमित्यनुक्तेः । भावार्थस्तु सर्वथा मन्त्राक्षरबहिर्भूत एव ॥ ७४ ॥
अह॑ररहप्रयाव॒ भरन्तोऽश्वायेव तिष्ठ॑ते घासम॑स्मै ।
रायस्पोषे॑ण॒ सम॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥ ७५ ॥
मन्त्रार्थ - हे अग्ने, तुम्हारे आश्रम में रहने वाले हम निरन्तर अप्रमत भाव से पूरी सावधानी के साथ, आपके निमित्त समिधा रूप से हवि देते रहें, जैसे कि वाजिशाला में स्थित घोड़ों को घास दी जाती है । इससे हमारे धन की पुष्टि हो और अन्न की प्राप्ति से होने वाला हषं कभी नष्ट न हो ॥ ७५ ॥
' पालाशोः प्रत्यृचमहर हरिति ' ( का ० श्र ० १६ । ४ । ४० ) । त्रयोदशसंख्यासु समित्यु मध्ये ' द्रवन्नः ' इत्यादिभिर्मन्त्रः कार्मुक्यादीन् पन समिद्विशेषान् सन्धाय इत उत्तरे ' अहरहः ' इत्यादिकैर्मन्त्रः क्रमेण पलाशसम्बन्धिनीः समिध आदध्यादिति सूत्रार्थः । द्वे त्रिष्टुभो नाभानेदिष्ठ । हे अग्ने ते तव प्रतिवेशाः प्रातिवेशिकाः प्रत्यासन्नास्त्वदुपाश्रिता वयं मा रिषाम हिंसनं मा प्राप्नुम । किं कुर्वन्तः? रायस्पोषेण धनपुष्ट्या इषा अन्नेन च मदन्तो हषं कुर्वन्तस्त्वामुत्साहयन्तः । तथा अहरहः प्रतिदिनमप्रयावं प्रमादमकृत्वा एकमपि दिनं प्रमादं वर्जयित्वा अस्मै अग्नये घासं समिद्रूपं भक्ष्यं भरन्तः सम्पादयन्तः । कथमिवेति दृष्टान्तमुच्यते--तिष्ठतेऽश्वाय वाजिशालायां बद्धवा स्थापिताय प्रौढायाश्वाय एकमपि दिनं प्रमादं वर्जयित्वा यथा घासं प्रयच्छन्ति तत्सेवकास्तद्वत् । प्रयवणं प्रयावः । ' यु मिश्रणामिश्रणयोः ' इत्यस्य घञि रूपम् । नास्ति प्रयावः प्रमादो यस्यां क्रियायां तदिति क्रियाविशेषणम् । अत्रोव्वटाचार्यः -- द्वितीयचतुर्थपादयोविरोधः । अश्वायेति तिष्ठते घासमस्मै । अत्र तिष्ठते. । अस्म न च इति द्वे पदे परोक्षपनि ब्रूतः । तथाग्ने माते प्रतिवेशा रिषामेति अग्ने ते इति प्रत्यक्षमग्नि ब्रूतः वाक्यभेदेनार्थभेदः सम्भवति, अतो लक्षणया व्याख्यानम् । अहरहरप्रमत्तं भरन्त आहरन्तः अशनानि । कथमिव? अश्वायेवेति । अश्वस्येव वयं घासं यवसं स्थापयन्तः । अस्मै तव रायस्पोषेण दक्षिणालक्षणेन त्वदाश्रया धनस्य पोषणेन समदन्त उत्साहयन्तः । इषा अन्नेन त्वां हे अग्ने मा रिषाम ते तव प्रतिवेशिका:, इत्यर्थः । अध्याहारेण वा व्याख्यायते अप्रमत्ता आहरन्तोऽशनानीति ।
पृष्ठ 138
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्लयजुर्वेदसंहिता [ अ ० ११ तत्र ब्राह्मणम् - - ' अथैता उत्तराः पालाश्यो भवन्ति । ब्रह्मवै पलाशो ब्रह्मणैवैनमेतत्समिन्धे यद्वेव पालाश्यः सोमो वै पलाश एषो ह परमाहुतिर्यत्सोमाहुतिस्तामस्मिन्नेत ज्जुहोति तयैनमेतत्प्रीणाति ' ( श ० ६ ६ ३.७ ) । इत्थं पञ्चसमिधां विलक्षणतां विधाय उत्तरासामष्टानां समिधां पलाशकद्रव्यतामाह - अथैता उत्तराः पालाश्यो भवन्तीति । पलाशं ब्रह्मत्वेन सोमत्वेन च प्रशंसति - ब्रह्म वै पलाश इत्यादिना । ' देवा वै ब्रह्मन्नवदन्त तत् पर्ण उपाशृणोत् ' ( तै ० सं ० ३।५।७।२ ) इति श्रुतेर्ब्रह्मत्वं पलाशस्य । ' तृतीयस्यामितो दिवि सोम आसीत्, तं गायत्र्याहरत् तस्य पर्णमच्छिद्यत तत्पर्णोऽभवत् ' ( तै ० सं ० ३५.७१ ) इति श्रुतेः । पलाशस्य सोमावयवत्वात् ' सोमो वै पलाश ' इत्युक्तम् । ' अहरहर प्रयावं भरन्त इति । अहरहरप्रमत्ता आहरन्त इत्येतदश्वायेव तिष्ठते घासमस्मा इति यथाश्वाय तिष्ठते घासमित्येतद्रायस्पोषेण समिषा मदन्त इति रय्या च पोषेण च समिषा मदन्त इत्येतदग्ने माते प्रतिवेशा रिषामेति यथैवास्य प्रतिवेशो न रिष्येदेवमेतदाह ' ( श ० ६ | ६ | ३८ ) | समिदाधानस्य षष्ठं मन्त्रं विभज्य व्याचष्टे - अहरहर प्रयावमित्यादिना । मिश्रणनिषेधवाचिना अप्रयावशब्देन द्विनाभूतोऽप्रमादलक्षणोऽर्थो विवक्षितः । भरन्त इति शब्दस्य समिदाहरणमर्थ इत्युक्तम् । द्वितीयभागेन दृष्टान्तोऽभिधीयते यथाश्वायेत्यादिना । यथा गृह एव निवसते जात्यश्वाय घासं बालतृणादिकमाहरन्ति तथास्मा अग्नय इत्यर्थः । तृतीयभागे रायस्पोषेणेत्यत्र धनस्य पुष्ट्या इत्येवंरूपोऽर्थो यद्यपि प्रतिभाति, तथापि राय इति निर्देशबलादेव अपुष्टस्य धनस्य सिद्धेः शरीरादिपोषरूपोऽर्थः पृथगेव विवक्षित इत्यभिप्रेत्य रय्या च पोषेण चेति पृथक्ता ब्राह्मणे व्याख्यातम् । न केवलं रय्या पोषेण च, किन्तु इष्टान्नेन च सम्मदन्तो वयं भरिष्याम इत्युत्तरत्रानुषङ्गः । चतुर्थभागस्य तात्पर्यमाह - अग्ने मा ते प्रतिवेशा रिषामेति । प्रतिवेशो नाम स्वगृहेऽलभ्यमानस्य पदार्थस्य आनयनायोचितं स्वगृह निकटवत मित्रादिगृहम् । अत्र तद्वान् विवक्षितः । अथास्याग्नेरभिमतहविः प्रदाता प्रतिवेशो यजमानो न रिष्येद् न हिंस्यात् एवमनुगृहाणेत्येवंरूपमथं मयं मन्त्रभाग आहेत्यर्थः । अध्यात्मपक्षे हे अग्ने, अग्निवद् देदीप्यमान परमेश्वर विश्वनाथ विष्णो वा वयमहरहः प्रतिदिनं सततमप्रयावमप्रमत्ता अस्मै प्रत्यक्षाय प्रत्यक्चैतन्याभिन्नाय तुभ्यं भरन्तो विविधानि हवींषि षट्पञ्चाशद्विधविभक्तं विविधं नैवेद्यं घासमिव हरन्तः सन्तो मा रिषाम मा विनश्येम । विविधैरुपहारैर्भगवतः समर्हणमेवाविनाश-लक्षणस्य क्षेमस्य असाधारणं कारणम् । अत एवाप्रमादेन भगवत्समह्णपरायणतैव युक्ता । कीदृशा वयम्? रायस्पोषेण ऐहिकामुष्मिकधनस्य पुष्ट्या समीचीनेन इषा अभीटेनान्नेन मदन्तो हर्षं कुर्वन्तः, गुणगानादिना भवन्तमुत्साहयन्तः । पुनः कीदृशाः? प्रविवेशाः प्रत्यासन्ना भवतोंऽशत्वेन भवदीयत्वाद् भवदुपाश्रिताः । कथमिवेत्यपेक्षायां दृष्टान्तः - अश्वायेव तिष्ठते । यथा अप्रमादेन प्रतिदिनं स्वगृहे स्थिताय अभीष्टायाश्वाय तत्सेवका घासं हरन्ति तद्वत् । रागानुगायाः प्रीतेर्बोधनाय रागास्पदीभूतोऽश्वो दृष्टान्तेनोपादीयते । जना यथा रागास्पदमश्वमप्रमादेन प्रतिदिनं घासं हरन्ति तथैवाप्रमादेन वयं प्रतिदिनं भवतेऽतिप्रियमुपहारं हराम इत्यर्थः । दयानन्दस्तु - ' हे अग्ने विद्वन् पुरुष, अहरहः प्रतिदिनं यथाश्वाय तिष्ठते वर्तमानाय अस्मै गृहाश्रमाय अप्रयावं प्रयुवत्यन्यायं यस्मिन् स प्रयावः, न विद्यते प्रयावो यस्मिन् गृहाश्रमयोग्ये तम् । घासं भक्ष्यं भरन्तो धरन्तः । रायस्पोषेण धनस्य पुष्ट्या इषा अन्नादिना समदन्तो हर्षन्तः प्रतिवेशाः प्रतीता वेशा धर्मप्रवेशा येषां ते वयं ते ऐश्वयं मारिषाम न हिंस्याम । लिङथें लुङ् ' इति, तदपि यत्किचित्, अग्निपदेन साधारण विद्वत्पुरुष-सम्बोधने मानाभावात् । अप्रयावमिति पदेन यत्किञ्चिदर्थग्रहणं निरर्थकमेव · श्रुत्यान्यथा व्याख्यानात् । तथैव प्रतीता वेशा धर्मप्रवेशा येषां ते प्रतिवेशा इत्यादिव्याख्यानमपि निर्मूलमेव ॥ ७५ ॥
पृष्ठ 139
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७६-७७ ] वेदार्थपारिजात भाष्यसहिता
नाभा पृथि॒व्याः समिधा॒ने अ॒ग्नौ रायस्पोषय बृह॒ते हवामहे ।
इर॒म्म॒दं ब॒हव॑क्षं॒ यज॑त्र॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हम् ॥ ७६ ॥
१०३ मन्त्रार्थ --- पृथ्वी की नाभिस्वरूप उखा के मध्य में दीप्यमान आहवनीय नामक अग्नि के प्रज्ज्वलित होने पर अन्न से तृप्त होने वाले बड़े शस्त्र स्तोत्र वाले, यज्ञ में पूजन के योग्य, संग्रामों को जीतने वाले और शत्रुओं का निरादर करने वाले अग्नि के अधिष्ठात्री देवता का धन और ऐश्वर्य की पुष्टि के निमित्त हम इस यज्ञ में आवाहन करतेहैं ॥ ७६ ॥
पृथिवीरूपाया उखाया नाभा नाभौ, विभक्तेराकारः मध्ये । समिधाने सम्यग् दीप्यमाने, अग्नी आहवनीयाख्ये, अग्नि तदभिमानिनं देवं वयं हवामहे आह्वयामः । किमर्थम्? बृहते रायस्पोषाय महते धन-पोषणाय । कथम्भूतमग्निम्? इरम्मदम् इरया अन्नेन घृतादिना माद्यति तृप्यति तुष्यतीति इरम्मदस्तम्, ' उग्रम्पश्ये रम्मदपाणिन्धमाश्च ' ( पा ० सू ० ३/२/३७ ) इति निपातनात् खश् । बृहदुक्थं बृहन्ति महान्ति उक्थानि प्रशंसनानि शस्त्राणि यस्य तम् । यजत्रं यजनीयम् । पृतनायु संग्रामेषु जेतारं जयशीलम् | सासहिं सहते अभिभवति प्रतिपक्षानिति सासहिस्तम्, सोढारं शत्रूणामभिभवितारम् । तत्र ब्राह्मणम्- ' नाभा पृथिव्याः समिधाने अग्नाविति । एषा ह नाभिः पृथिव्यं यत्रेष एतत्समिध्यते रायस्पोषाय वृहते हवामह इति रथ्ये च पोषाय च बृहते हवामह इत्येतदिरम्मदमितीरया ह्येष मत्तो बृहदुक्थमिति बृहदुक्थो ह्येष यजत्रमिति यज्ञियमित्येतज्जेतारमग्नि पृतनासु सासहिमिति जेता ह्यग्निः पृतना उसासहिः ' ( श ० ६ | ६ | ३ | ९ ) | अथ तेषु सप्तमसमाधानमन्त्रं विभज्य व्याचछे - नाभा पृथिव्या इत्यादिना । यत्र यस्मिन् देशे एषोऽग्निः, एतद् एतेन प्रकारेण समिध्यते एष प्रदेशः पृथिव्या नाभिरुच्यते । अग्नावित्याहवनीय-विषयोऽग्निशब्दः, जेतार मित्यधिष्ठातृविषयः । अध्यात्मपक्षे -- पृथिव्या जगत्या ब्रह्माण्डलक्षणाया नाभी मध्ये भारतवर्षे समिधाने देदीप्यमानेऽग्नो प्रकाशमयेऽयोध्या वृन्दावनादौ हृदये वा अग्नि भगवन्तमग्निवत्प्रकाशं सगुणं साकारं श्रीरामं श्रीकृष्णं वा हवामहे आह्वयामः । किमर्थम्? रायो धनस्य बृहते प्रौढाय पोषणाय । कीदृशमग्निम्? इरम्मदम् इरया भक्तसमर्पितेन प्रेमपरिप्लुतेन सितानवनीतादिना माद्यति तृप्यतीति इरम्मदस्तम् । बृहदुक्थं बृहन्ति महान्ति उक्थानि स्ववानि यस्य तम् । यजत्रं यजनीयम् । पृतनासु संग्रामेषु जेतारं रावणादिजयशीलम् । सासहि शत्रूणामभिभवितारम् । दयानन्दस्तु -- ' हे गृहिणः, यथा वयं बृहते रायस्पोषाय पृथिव्या नाभौ मध्ये समिधाने सम्यकप्रद पृतनाम सेनासु सासहिम् अतिशयेन सोढारम् इरम्मदं य इरया अन्नेन मायति हृष्यति तं बृहदुक्थं उक्थं प्रशंसनं यस्य तं यजत्रं संगन्तव्यं जेतारं जयशीलं सेनापति हवामहे, तथा यूयमप्याह्वयत ' इति, बृहन्महद् · यत्किचित् अग्नि प्रत्यक्षनिर्दिष्टमपहाय सेनापतेविशेष्यत्वकल्पने मानाभावात् । गृहिण इति सम्बोधनमपि तदपि निर्मूलमेव ॥ ७६ ॥
याः सेन अभीत्वंरीराव्याधिनीरुगंणा उ॒त । ये स्ते॒ना ये च तस्क॑रा॒स्तांस्तै अग्नेऽविंदधाम्यायै च ॥ ७७ ॥
पृष्ठ 140
पाठ पढ़ें पाठ छिपाएँ
१०४ शुक्लयजुर्वेद संहिता [ अ ० ११ मन्त्रार्थ --- जो शत्रु की सेना हमारे सामने आने वाली है, जो सेना हमारा सब प्रकार से ताड़न करने वाली है, जो शस्त्रधारी डाकू हमको लूटने वाले हैं, हे अग्ने! उन सबका नाश करने के लिये तुम्हारे प्रज्ज्वलित सुख में मैं उनकी आहूति देता हूँ ॥ ७७ ॥
इत आरम्भ षट्कण्डिका अनुष्टुभः । याः सेना याः काश्चित् परकीयसेनाः । अभीत्वरी: अभि अभितो यन्ति आगच्छन्तीति अभीत्वर्यः अस्माभिमुख्येनागमनशीलाः । विभक्तिव्यत्ययः । ' इण् गती ' इत्यस्मात् ' इण्नश जिसतिभ्यः क्वरप् ' ( पा ० सू ० ३ ३१ १६३ ) इति क्वरपि ह्रस्वस्य पिति कृति तुक् ' ( पा ० सू ० ६।१।७१ ) इति तुगागमे ' टिड्ढाणञ्द्रयसच ' ( पा ० सू ० ४ | १ | १५ ) इति ङीपि रूपम् । आव्याधिनीर् कासमन्ताद्विध्यन्तीत्या-व्याधिन्यः सर्वतोऽस्मान् पीडयन्त्यः | अत्रापि विभक्तिव्यत्ययः । उतशब्दोऽप्यर्थः । उत अपि च या उगणा उद्गुर्णगणा उत्कृष्टतेजस्विगणोपेता उद्यतायुधगणोपेता इत्यर्थः । एवंविधा याः सेनाः सन्ति । अपि च ये तेना गुप्तचौराः, ये च तस्कराः प्रकटचौराः । ' तस्करः । तत्करोति यत्पापकम् ' ( नि ० ३ | १४ ) इति निरुक्तात् । तान् सर्वान् स्तेनादीन् हे अग्ने, तवास्ये मुखे अपिदधामि प्रक्षिपामि । भक्षणायेति शेषः । अत्रत्यं ब्राह्मणं पश्चादुद्धरिष्यते । अध्यात्मपक्षे - हे अग्ने परमेश्वर नृसिंह! आस्ये प्रक्षिपामि । T शेषं व्याख्यानं मन्त्रव्याख्यानवत् । तान् सर्वास्तव दयानन्दस्तु -- ' हे सभासेनापते, यथाहं या अभीत्वरीर् आभिमुख्यं राजविरोधं कुर्वतौः, आव्याधिनीर् आसमन्ताद्बहुरोगयुक्त! स्ताडयितुं शीला वा, उगणा उद्यतायुधसमूहाः सेनाः सन्ति ताः, उत ये स्तेना ये च तस्कराः सन्ति, तांस्ते अस्याग्नेः पावकस्यास्येऽपिदधामि ' इति, तदपि यत्किञ्चित्, राजविरोध मित्यध्याहारस्य निर्मूल-त्वात् । अग्नेरित्यस्य पावकस्येति व्याख्यानमपि निर्मूलम् ' ते ' इत्यस्य स्थाने ' अस्य ' इति व्यत्ययेऽपि मन्त्रस्य किमपि व्याख्यानं स्यात्तदाऽव्यवस्थैव स्यात् ॥ ७७ ॥
दष्ट्राभ्यां मलिम्लग्जम्भ्य॒स्तस्क॑राँ
उत ।
ह॑न॒भ्या स्ते॒नान् भ॑गव॒स्ताँस्त्वं खद् सुखादितान् ॥ ७८ ॥
^ मन्त्रार्थ -- हे अग्निस्वरूप परम ऐश्वयं सम्पन्न परात्पर परमेश्वर, जो व्यक्ति गाँव में प्रकट भाव से चोरी करते हैं, उनको अपनी दाढ़ों से और जो निर्जन स्थान में वस्युवृत्ति करते हैं, उन तस्करों को आगे के दाँतों से और सामान्य चोरों को अपनी ठोड़ी से पीड़ित कशे । ये सब पूरी तरह से नष्ट करने योग्य हैं, इन सबको निर्जीव बनाकर खा जाओ ॥ ७८ ॥
दंष्ट्राभ्यां दंशनशीलाभ्यां दृढाभ्यां मलिम्लून् मलिम्लुचो गूढाः सन्तः स्तेनतया म्लोचन्ति अदृश्या भवन्तीति मलिम्लुचः, उत अपि तस्करान् परद्रव्यापहरणकारिणः, जम्भ्यैः जम्भनाहैर् उपर्यधोवृत्तिभिः पुरोदन्तैः तैः खाद । हे भगवः! हे भगवन्, षड्गुणैश्वर्य अग्ने, हनुभ्यां हननशीलाभ्यां स्तेनान् सुखादितान् यथा ईषदपि न परिशिष्यते, तथा सुष्ठु खादितान् कृत्वा खादेत्यर्थः ।