वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 141–150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 141–150

पृष्ठ 141

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 141 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ७८-७९ ] वेदार्थ पारिजातभाष्यसहिता १०५ ' गुप्ताः प्रकाश्चेति द्विविधाचराः । प्रकटा अपि द्विविधाः - अरण्ये मार्गे च प्रहृत्य पलायमानाः प्रकटाः, ततोऽप्यप्रकटाः निर्भयाः । ग्रामेष्वेवागत्य धनापहारिणो मलिम्लुचः । मलं पापाधिक्यमेषामस्तीति मलिना:, तथाविधा भूखा ये म्लोचन्ति जने बने वा अदृश्या भवन्ति ते मलिम्लुचः । दन्तपङ्क्तिमध्ये याभ्यां दन्ताभ्यां क्रमुकादिकं भक्ष्यते, ते दंष्ट्रे राक्षसि । ततः पुरोवर्तिनो बहिर्दृश्यमाना दन्ता जम्भ्या जम्भावृत्तिमुपाश्रिताः । दन्तहीने तु हनू । तथा च दंष्ट्राभ्यां मलिम्लून पीडयित्वा जम्भ्यस्तस्करान् पीडयित्वा हनुभ्यां स्तेनान् पोडयित्वा हे भगवन् ऐश्वर्ययुक्त, तान् सर्वान् सुखादितान् पुनर्जीवन रहिता यथा भवन्ति तथा खाद ' इति काण्व संहिताभाष्ये सायणः । अध्यात्मपक्षे - हे अग्ने परमेश्वर नृसिंह, दंष्ट्राभ्यां मलिम्ल्वादीन् पूर्वोक्तान् दंष्ट्रा - जम्भ्य हनुभिः सुखादितान् खाः । यद्वा मलिम्लवादीन् कामक्रोधादिचोरभेदान् दंष्ट्रादिभिः शमदमादिभिः समूलमुल्मूलय व्यापादय । दयानन्दस्तु - ' हे भगवः राभासेनेश, यथा त्वं जम्भ्यैः जम्भेषु मुखेषु भवः जिह्वादिभिः दंष्ट्राभ्यां तीक्ष्णाग्राभ्यां दन्ताभ्यां यान् मलिम्लून मलिनाचारान् सिंहादीन् तस्करान् चौरान् चौर इव वर्तमानान् हनुभ्यामोष्ठमूलाभ्यां सुखादितान् अन्यायेन परपदार्थानां भोक्तृन् स्तेनान् परपदार्थापहर्तन् खाद विनाशयेः, तान् वयमुतविनाशयेम ' इति, तदपि वेदाक्षरबाह्यमेव तादृशसम्बोधने मानाभावात् । न च सभासेनेशादयो मनुष्य जम्भ्दष्ट्राभ्यां हनुभ्यां मलिम्लून तस्करान् वा विनाशयन्ति । न वा सामान्यजनास्ताननुकुर्वन्ति ॥ ७८ ॥

ये जने॑षु मलिम्ल॑वः स्तेनास॒स्तस्क॑रा॒ वने । ये कक्षैष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ॥ ७ ९ ॥ मन्त्रार्थ - जो ग्रामवर्ती मनुष्यों के आस - पास पूर्वोक्त मलिम्लुच और स्तेन नाम से प्रसिद्ध गुप्त चोर हैं, जो वन में निर्जन प्रदेश में विचरण करते हैं, तस्कर के नाम से प्रसिद्ध चोर हैं, जो नदी - पर्वत आदि गहन स्थानों में पापाभिलाषी लोभ से मनुष्यों के प्राण हरने वाले हैं, हे अग्ने! उन सबको मैं तुम्हारी वाढों के बीच में भक्षण के लिये स्थापित करता हूँ ॥ ७ ९ ॥ ये जनेषु ग्रामवतिषु मलिम्लवो मलिम्लुचः, स्तेनासः स्तेनाः, ' आज्जसेरसुक् ' ( पा ० सू ० ७ | १ | ५० ) इत्यसुगागमः, गुप्तचौरा इत्यर्थः । ये च तस्कराः प्रकटचौराः । ये च वने वनाश्रितास्तस्कराः । तथा क्षे नदीपर्वतकुहरेषु, अघायवः । अघं पापं परस्य हिंसनमिच्छन्तीत्यधायवः तान् तव जम्भयोर्दधामि । छन्दसि परेच्छायामिति वक्तव्यम् ' ( पा ० सू ० ३११ ८ ) इति सूत्रीयं भाष्यवार्तिकम् । ग्रामवर्तिषु जनेषु वने गच्छत्सु सत्सु येऽनेकविधः पूर्वोक्ताश्चौराः सन्ति ये चान्ये व्याघ्रादयः कक्षेषु कुञ्जेषु स्थित्वा अघायवो भवन्ति परेषामघं पापं हिंसनमिच्छन्ति ये तान् सर्वान् तव जम्भयोर्दधामि । अध्यात्मपक्षे - हे नृसिंह, ये जनेषु मलिम्लुचः, ये स्तेनासः, तांस्ते जम्भयोर्दंष्ट्र्योर्दधामि । दयानन्दस्तु - ' हे सभेश, सेनापतिरहं ये जनेषु मलिम्लवो ये मलिनाः सन्तो म्लोचन्ति गच्छन्ति, ते स्तेनासो गुप्ताश्चौरा ये बने तस्कराः प्रसिद्धा, ये च कक्षेषु सामन्तेषु, अघायव आत्मनोऽघेन पापेनायुरिच्छ्वः, ता ते जम्भयोबन्धने मुखमध्ये ग्रासमिव दधामि, इति, तदपि तुच्छम्, सेनाध्यक्षस्य व्यात्ते मुखे मलिम्ल्वादीनां प्रक्षेपासम्भवात् तथा व्यवहारादर्शनाच्च तादृशसम्बोध्यस्याप्रामाणिकत्वाच्च । अधेनायुरिच्छ्व इति व्युत्पत्तिरपि चिन्त्या ॥ ७ ९ ॥ १४

पृष्ठ 142

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 142 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६ यो शुक्लयजुर्वेद संहिता

अस्मभ्य॑मरातोयाद्यश्च॑ नो द्वेष॑ते॒ जन॑ः ।

निन्दाद्यो अस्मान्धिसोच्च सवं तं मस्सा करु ॥ ८० ॥

| अ ० ११ न करे, जो हमसे द्वेष कर हमारे कार्य को मन्त्रार्थ - जो मनुष्य हमसे शत्रुता करे, जो हमारे देश धन को वापस, उन सभी प्रकार के हमारे प्राणों को हरने का प्रयत्न करे नष्ट करे, जो हमारी निन्दा करे, गुण में दोष देखे और जो कर दें ॥ ८० ॥

हमारे शत्रुओं को, निन्दक और हमें मार डालने वाले मनुष्यों को आप भस्म द्वेषते द्वेष्टि । तथा यः अस्मान् यो मनुष्यो अस्मभ्यमरातीयाद् अरातिरिवाचरेत् यश्च जनो दभितुमिच्छति नोऽस्मान् । हे अग्ने, सर्वमेतच्छत्रुजातं निन्दात् निन्दयति, तथा धिप्साच्च, दभ्नोतेः सन्यभ्यासलोपः । ' पूर्वं चौरभेदा दर्शिताः । इदानीं शत्रुभेदा मस्मसा कुरु चूर्णीकुरु । चर्वित्वा भक्षयेत्यर्थः । मस्मसेति शब्दोऽनुकरणे । दातव्यत्वेन प्राप्तं धनं यो न ददाति सोऽयमरातिः । उच्यन्ते । ते च त्रिविधाः - अरातयो द्वेषिणो निन्दकाश्च । क्रमेण तदेवोच्यते --कार्यविघातं यो करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः तत्तत्कार्यनाशेन । हन्तुकामश्चतुर्थः बाधते, योऽन्यो निन्दति यो s स्मभ्य मरातीयति अरातित्वमिच्छति यश्च नो द्वेष्टि कुरु, चूर्णेन जनितस्य शब्दस्यानुकरणं यश्चापरोऽस्मान् धिप्सति यश्च दभितुं हिंसितुमिच्छति, तत्सर्वं मस्मसा मस्मसेति, चूर्णीकुर्वित्यर्थः । यश्च अध्यात्मपक्षे -- हे नृसिंह, योऽस्मभ्यमरातीयात् शत्रुवदाचरेत् यश्च नो द्वेष्टि यश्च निन्दति दम्भितुमिच्छति, सर्वमेतमाध्यात्मिकं बाह्यं च शत्रुगणं मस्मसा कुरु चूर्णी कुरु । द्वेषते अप्रीतयति, निन्दाच्च निन्देद् दयानन्दस्तु – ' हे सभासेनेश, त्वं यो जनोऽस्मभ्यमरातीयात्, भस्मेति यश्च भस्मसा कुरु ' इति, तदपि तुच्छम्, यः, योऽस्मान् घिप्साद् दम्भितुमिच्छेत् छलेच्च तं सर्वं मरमसा कृत्स्नं भस्मसेति पाठपरिवर्तनं तस्य कृत्स्नं भस्मेति अप्रामाणिकत्वात् । मस्मसेति पाठो वैदिकसम्मतः । तत्र व्याख्यानमेतत्सर्वमप्यप्रामाणिकमेव । जनेषु मलिम्लवो यो अस्मभ्यमराती-एतेषु ब्राह्मणम् -- ' या: सेना अभीत्वरीः । दष्ट्राभ्यां मलिम्लून्ये कुर्विति ' ( श ० ६ । ६ । ३ । १० ) । अथ नवम्याः याद्यश्च तो द्वेषते जनः । निन्दाद्यो अस्मन्धिप्साच्च सर्वं तं मस्मसा समिध आधानमन्त्रप्रतीकमुपादत्ते ये जनेषु समिध आधानमन्त्र प्रतीकमुपादत्ते - दंष्ट्राभ्यां मलिम्लूनिति । दशम्याः । एतद्वै देवाः । यश्चैनानड यं चाद्विषुस्त-मलिम्लव इति । एकादश्याः समिधो मन्त्रं पठति यो अस्मभ्यमिति देवानां पाप्मानं तथैवैतद्यजमानो यश्चैनं द्वेष्टि मस्मा अन्नं कृत्वाप्यदधु स्तेनैनमप्रीणन्नन्नम है तस्याभवददहदु भवति दहत्यु यजमानस्य पाप्मानम् ' यं च द्वेष्टि तमस्मा अन्नं कृत्वाऽपिदधाति तेनैनं प्रीणात्यन्नमहैतस्य इत्यादिना । एतद् अनेन प्रकारेण पुरा खलु ( श ० ६ | ६ | ३ | ११ ) | मन्त्रप्रशंसार्थयुक्तं पुरावृत्तमाह - च एतद्वै यजमाना देवा अद्विषुः द्वेषमकुर्वंस्तमुभयविधं जनम् अस्मै देवा एतान् यजमानान् यश्चाद्वे द्वेषमकार्षीत् यं । तेन अन्नेन एनमग्निमप्रीणन् । अपि च, उत्पन्नाय शिशुरूपायाग्नये अन्नं कृत्वा अप्यदधुः मुखे स्थापितवन्तः ॥ ८० ॥

पश्चात् सोऽग्निर्देवानां पाप्मानं द्वेष्यम् अदहद् भस्मसादकरोत्

मे ब्रह्मर्शितं वीर्यं बल॑म् ।

-सशितं जिष्णु यस्याहमस्मि पुरोहितः ॥ ८१ ॥

पृष्ठ 143

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 143 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ८१-८२ ] वेदार्थ पारिजात भाष्य सहिता १०७ मन्त्रार्थ हे अग्ने, हे परमात्मन्! आपके प्रसाद से मेरा ब्रह्मतेज तीक्ष्ण हुआ । इन्द्रियों की शक्ति और शरीर को शक्ति अपने अपने कार्य में समर्थ हुई । जिसका मैं पुरोहित हूँ, उस यजमान के जयशील क्षात्र तेज को आपने बढ़ाया ॥ ८१ ॥

' उपोत्तमा क्षत्रियस्येच्छ्न्, उत्तमां पुरोहितस्य ' ( का ० श्र ० १६ ४१४१ - ४२ ) | क्षत्रिययजमानस्य द्वादशी समिधं संशितमित्येतेन मन्त्रेणेच्छ्या दधाति, पुरोहितस्य यजमानस्य अन्यामुदेषामिति मन्त्रेण त्रयोदशीमिच्छ्या दधाति । एकादश समिधो नित्याः 2 सर्वासामृचामन्ते स्वाहाकारश्चेति पूर्वमेवोक्तम् । मे मदीयं स्वरूपभूतं ब्रह्म ब्राह्मण्यं संशितं सम्यक् तीक्ष्णीकृतम्, शास्त्रीय मार्गवर्तिकृतमित्यर्थः । मे ब्रह्मणो वीर्यमिन्द्रियशक्तिः श्रवाध्ययनादिजा, बलं शरीरशक्तिः, तदुभयं संशित ' शो तनूकरणे ' स्वकार्यक्षमं कृतम् । तथा यस्य क्षत्रियस्याहं पुरोहितोऽस्मि भवामि, मदीयं तत्क्षत्रं जिष्णु जयनशीलं यथा भवति तथा संशितं तीव्रं कृतम् । तत्र ब्राह्मणम् -'ता एता एकादशादधाति । अक्षत्रियस्य वाऽपुरोहितस्य वासवं वै तद्यदेकादशासर्वं तद्यदक्षत्रिय वाऽपुरोहितो वा ' ( श ० ६ | ६ | ३ | १२ ) । ' द्वादश क्षत्रियस्य वा पुरोहितस्य वा । सवं वै तद्यद् द्वादश सवं तद्यत् क्षत्रियो वा पुरोहितो वा ' ( श ० ६ | ६ | ३ | १३ ) | या एता एकादशसमिध उक्तास्तासां क्षत्रिय-पुरोहितव्यतिरिक्तविषयतामाह - ता एवा इति । क्षत्रियादन्यस्त्रैवर्णिकः, अक्षत्रियः । तत्रापि अपुरोहितस्य पुरोहितक्षत्रियव्यतिरिक्तो यो यागाधिकारी तस्य एकादश समिध आदध्यात् । अन्येकादशसंख्यायोग्यतामुप-पादयति -- असर्वमिति । क्षत्रियपुरोहितयोः सर्वरक्षाक्षमवीर्यातिशयदर्शनेन सर्वत्वं प्रसिद्धम् । अत एव तदित-रस्यासर्वत्वम् । एकादशसंख्याया विषमरूपत्वादसर्वत्वम्, अतस्तस्य तदुचितमित्यर्थः । तर्हि क्षत्रियपुरोहितयोः कियत्य इत्यत आह- द्वादश क्षत्रियस्येत्यादिना । ' स पुरोहितस्यादधाति । स शितं मे ब्रह्म स शितं वीयं बलं स शितं क्षत्रं जिष्णु अस्याहमस्मि पुरोहित इति तदस्य ब्रह्म च क्षत्रं च स श्यति ' ( श ० ६ ६ | ३ | १४ ) | तहिं पुरोहितक्षत्रिययोः को द्वादशो मन्त्र इत्यपेक्षायां पूर्व पुरोहितस्य द्वादशं मन्त्रमाह - स पुरोहितस्येति । तात्पर्यं दर्शयति-- तदस्य ब्रह्म च क्षत्रं च संश्यतीति । मन्त्रे ब्रह्मक्षत्रयोः संशितत्वप्रतिपादनादस्य पुरोहितयजमानस्य ब्रह्म च क्षत्रं च उभे जाती सम्यक् तीक्ष्णीकरोतीत्यर्थः । अध्यात्मपक्षे - हे अग्ने परमेश्वर, मे मदीयं ब्रह्म ब्राह्मण्यं व्यावहारिकं पारमार्थिकं च ब्रह्मनिष्ठालक्षणं संशितं सम्यक् तीक्ष्णीकृतम् त्वत्प्रसादाद् भवत्विति शेषः । तथैव मम वीर्य विघ्नप्रतीकारसामर्थ्यं बलं श्रुतादिधारणसामथ्यं तथा यस्याहं पुरोहितः, येनाहं साधनमार्गे पुरस्कृतः, तस्य गुरोः क्षत्रं शिष्याणामाध्यात्मिक-मार्गे प्रसरद्विघ्न गणनिवारकं शिष्याणां पालकं च तेजः, जिष्णु जयनशीलं संशितम्, भवत्विति प्रार्थयेऽहमिति शेषः । दयानन्दस्तु - ' अहं यस्य पुरोहितो यं यजमानः पुरः पूर्वं दधाति स अस्मि । तस्य मे मम च संशितं प्रशंसनीयं ब्रह्म वेदविज्ञानं तस्य च संशितं वीर्यं संशितं बलं संशितं जिष्णु जयनशीलं क्षत्रं क्षत्रियकुलं चास्तु ' इति, तदपि यत्किचित् वेदविज्ञानादिसौष्ठवे स्वयमेव प्रशंसा भवति, तदर्थं प्रार्थनावैयर्थ्यात् । नापि च सभासेनेश-प्रार्थनया तत्सम्भवति, तस्य तत्रासामर्थ्यात् अन्यस्य चात्राप्रसक्तेः । किञ्च कर्मणा वर्णव्यवस्थामभ्युपगच्छतस्तव ब्रह्मकुलं क्षत्रकुलं च न सम्भवत्येव । यं यजमानः पुरः पूर्वं दधाति स इत्यस्य प्रथमधारक इति हिन्दीव्याख्यान -मप्यसङ्गतमेव ॥ ८१ ॥

उदे॑षां बा॒हू अ॑तिर॒मुद्वच॒ अथो॒ बल॑म् ।

क्षिणोसि॒ ब्रह्म॑णा॒ऽमित्रानुन॑यामि॒ स्वाँ २ अ॒हम् ॥ ८२ ॥

पृष्ठ 144

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 144 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०८ शुक्लयजुर्वेदसंहिता [ अ ० ११ मन्त्रार्थ - परमात्मा अग्नि के प्रसाद से हमने अपने इन ब्राह्मण राजाओं के बीच में अपनी भुजा ऊँची की । तब लोग कहते हैं कि इसने अपना हाथ ऊपर किया -सबकी कान्ति को अतिक्रमण किया । हमारे बल ने सामर्थ्य से अपने अमित्रों को नष्ट करता हूँ, अपने ( यह लोकोक्ति प्रसिद्ध है कि जब कोई दूसरे से उत्कृष्ट होता है, इसी लोकोक्ति का प्रस्तुत मन्त्र में निर्देश है । ) हमारे तेज ने शरीर की शक्ति को, सबके बल को अभिभूत किया । मैं मन्त्र के पुत्र - पौत्र आदि को उत्कृष्ट स्थान प्राप्त कराता ॥ ८२ ॥

एषां स्वकीयानां राजब्राह्मणादीनां मध्ये एकैकस्य बाहू भुजौ उदतिरम् उत्कर्षेण वर्धितवानस्मि कृतवानिति ॥ तिरतिवृद्धयर्थः । लोके हि योऽन्यस्मादुत्कृष्टो भवति तं जना एवं वदन्ति यद् अयं स्वहस्तमुपरितनं अमित्रान् शत्रून् वर्चः कान्तिः, तदप्युदतिरम् । अथो अपि बलं शरीरशक्तिमुदतिरम् | ब्रह्मणा मन्त्रसामर्थ्येन सायणः । क्षिणोमि क्षीणान् करोमि । स्वान् स्वकीयान् पुत्रपौत्रादीन् उन्नयामि उत्कर्षं प्रापयामीति वलं क्षिणोमि काण्द माष्ये विनाशयामि, यद्वा एषां विरोधिनां बाहू भुजौ उदतिरम् उद्धरितवानस्मि । अथो अपि च करोमि । स्वान् ब्रह्मणा पुरोहितसंज्ञेन नित्याधीतेन मन्त्रेण वा अमित्रान् विरोधिनः क्षिणोमि हिंसितान् पुत्रादीन् मित्राणि चोन्नयामि । तत्र ब्राह्मणम् -'अथ क्षत्रियस्य । उदेषां बाहू अतिरमुद्वर्चो अथो बलम् । क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि च क्षत्रं स्वाँ २ अहमिति यथैव क्षिणुयादमित्रानुन्नयेत् स्वानेवमेतदाहोभे त्वेवैते आदध्यादयं वा क्षत्रियपक्षे अग्निर्ब्रह्म द्वादश्याः चेममेवैतदग्निमेताभ्यामुभाभ्या समिन्धे ब्रह्मणा क्षत्रेण च ' ( श ० ६ ६ ३ । १५ ) । समिधो मन्त्रमाह - अथ क्षत्रियस्योदेषामिति । उत्तरार्धस्य तात्पर्य माह - यथैव द्वादशैव क्षिणुयादमित्रानुन्नयेत् । तत्राप्युपोत्तमा स्वानेवमेतदाहेति । स्पष्टार्थं ब्राह्मणम् । पुरोहितक्षत्रियव्यतिरिक्तस्यैकादश तयोस्तु अपि सर्वेषामाधातव्ये इति पुरोहितस्य, उत्तमा क्षत्रियस्येति व्यवस्थापितं कात्यायनेन । इदानीमुपोत्तमोत्तमे एवशब्दो भिन्नक्रमः । ये उभे सार्थवादमाह -- उभे त्वेवैते इति । तुशब्दः पूर्वोक्तव्यवस्थापक्षं वारयति वा अग्निर्ब्रह्म च क्षत्रं पुरोहितक्षत्रियविषयत्वेनोक्ते ते सर्वत्रादध्या देव, न परित्यजेत् । तत्रोपपत्तिमाह -- अयं । एतद् एतेन ब्रह्मक्षत्र-चेति । अयमग्निरेव ब्रह्मक्षत्रे, यद् ब्राह्मं क्षात्रं च तेजः, तस्याग्नेयत्वादित्यभिप्रायः अप्यवश्यं मन्त्राभ्यामग्नो समिदाधानेन इममेव उख्यमग्निम् उभाभ्यां समिन्धे दीपितवान् भवति । तस्मादुभे वा 1 तयोस्तु सर्वविषयतयानुष्ठेये इत्यर्थः । एतदुक्तं भवति -- पुरोहितक्षत्रियव्यतिरिक्तानामेकादश वा त्रयोदश द्वादश वा त्रयोदश वेति । ' प्रादेशमात्र्यो भवन्ति । प्रादेशमात्रो वै गर्भो विष्णुरन्नमेतदात्मसम्मितेनैवैनमेतदन्नेन प्रीणाति तदवति यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद् भूयो हिनस्ति तद्यत् कनीयो न सिक्तमयमग्निस्तस्मिन् तिष्ठन्नादधाति बन्धुः, हि तस्योपरि स्वाहाकारेण रेतो वा इद यत्काष्ठान्यस्वाहाकृतान्यभ्यादध्याद्धि स्याद्वैनं ता यत्समिधस्तेन नाहुतयो यदु विधाय स्वाहाकारेण प्रशंसति तेनान्नमन्न -- प्रादेशमाच्यो स्वाहाकारस्तथ हैनं न हिनस्ति ' ( श ० ६ | ६ | ३ | १७ ) । समिधा प्रादेशमात्रत्वं वक्ष्यमाणमतिदिशति - तस्योपरि भवन्तीत्यादिना । तिष्ठतैवोक्तसमिधामाधानं कर्तव्यमिति विधाय तदर्थवादं । अस्थीनि बन्धुरिति । उपरि नवमे काण्डे ( श ० ९ | २ | ३ | ४६ ) इत्यत्रेत्यर्थः । तत्र हि ' तिष्ठन् समिध आदधाति । समिदाधानस्य वे समिध: ' इत्यत्र रुक्मधारणप्रस्तावे ' तिष्ठन् वै वीर्यवत्तरः ' इति बन्धुर्वक्ष्यत इत्यर्थः केवल-स्वाहाकारान्ततां विधाय प्रशंसति -- स्वाहाकारेणेत्यादिना । ता यत्समिधस्तेन नाहुतय इति । समिधां मग्निसमिन्धन साधनत्वेनानाहुतिरूपत्वाद् नाहुतित्वं नान्नत्वं चातो हिंसकाः स्युरित्यर्थः । वहि स्वाहाकारसहितानां

पृष्ठ 145

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 145 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ८२-८३ ] वेदार्थपारिजातभाष्यसंहिता १० ९ स्वाहाकारस्तथ हैनं न हिनस्तीति । कथमहिंसकत्वम्? तत्राह यदु स्वाहाकारेण तेनान्नमन्नं ' ( हि ० ९ | ३ | ३ | १४ ) इति श्रुतेरन्नप्रदानहेतुत्वाद् ' वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते अन्नत्वम् । स्पष्टमन्यत् ॥ वर्चः अध्यात्मपक्षे -- हे अग्ने, एषां विरोधिनां कामादीनां बलवीर्ये अतिरम् परमात्मना त्वत्प्रसादादुद्धारितवान् वा भवता अमित्रान् तेजो बलं च क्षिणोमि नाशयामि । ब्रह्मणा सेवितेन वेदवेदान्तेन गमयामि आराधितेन । उन्नतान् करोमीत्यर्थः । बाधकान् कामादीन् क्षिणोमि । साधकान् शमादीनुन्नयामि ऊर्ध्वं एषां चौरादीनां बाहू बलवोर्ये दयानन्दस्तु -- ' अहं यजमानः पुरोहितो वा ब्रह्मणा वेदेश्वरज्ञानप्रदानेन अमित्रान् शत्रून् क्षिणोमि हिनस्मि । अथो स्वान् उदतिरं सन्तरेयमुल्लङ्घयेयम् । एषां वर्चस्तेजो बलं सामर्थ्यम् यत्किञ्चित् अन्यस्य ईश्वरब्रह्मज्ञानेन अन्यबलवीर्यादि-स्वकीयान् उन्नयामि ऊध्वं बध्नामि ' इति, तदपि तथाभ्युपगमे श्राद्धादिसिद्धान्ताभ्युप-विनाशासम्भवात्, तथैवान्यस्य तादृशब्रह्मणाऽन्येषा मुन्नयनायोगात्, गमापाताच्च ॥ ८२ ॥

अन्नपतेऽन्नंस्य नो देह्यनमीवस्य शुष्मणः । EL प्रदातारं तारिष ऊज नो धेहि द्विपदे चतु॑ष्पदे ॥ ८३ ॥

करें । हे अन्न को देने वाले, हमें मन्त्रार्थ -- हे अन्न के पालक अग्ने, आप हमें व्याधिरहित, बलवर्धक अन्न प्रदान आदि संतति, गो - अश्व आदि पशुधन और आप दिन - प्रतिदिन वृद्धि की ओर बढ़ावें । हमारे सभी सगे - सम्बन्धी पुत्र - पौत्र सभी प्रकार के अन्न से परिपूर्ण हों ॥ ८३ ॥

पय आदी दत्ते ' न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम् ' ( का ० श्र ० १६२६: ८ ) । प्रतिव्रतं अध्वर्युणा समिदाधान व्रते प्राप्त्यर्था । सति यजमानः समिधमभ्यज्य उख्येऽग्नावादध्यादिति सूत्रार्थः । प्रत्ते इति वीप्सा अन्नस्य पालक अग्ने, अनमीवस्य आग्नेयी उपरिक्षवृहती अष्टात्रिपादा | चतुर्थो द्वादशार्ण: । हे अन्नपते! यस्मात्तत् शुष्मि तस्य । रोगनाशकं नास्ति अमीवा रोगो यस्मात् तस्य रोगरहितस्य शुष्मिणः शुष्मं बलं विद्यते शुष्मं बलमस्त्यस्येति शुष्मि तस्य । बलहेत्वन्नं प्रयच्छ । यद्वा नास्ति अमीवा व्याधिर्यस्य तदनमीवं तस्य दातारं यजमानं प्रतारिषः प्रवर्धय प्रकर्षेण रोगरहितस्य बलहेतोरन्नस्य प्राप्तिं धेहि । प्र प्रदातारं प्रकर्षेण हविषो बलमन्नं वा धेहि । पादपूर्त्यर्थमर्था दुरितानि नाशय । नोऽस्माकं द्विपदे मनुष्याय, चतुष्पदे पशवे च ऊर्जं तिशयार्थं वोपसर्गाभ्यासः । अत्र ब्राह्मणम् -'अथ यदास्मं व्रतं प्रयच्छन्ति । अथ व्रते न्यज्य समिधमादधाति ६ ६ ४ न ४ ) व्रते । व्रतप्रदानकाले न्यञ्ज्यादित्यु - हैक आहुराहुति तज्जुहुयादनवक्लृप्तं वै तद्यद्दीक्षित आहुति जुहुयादिति । ' व्रतं ( श तत्साधनं ० पयः । अत्र केषाचित् व्रतपसि समिधं न्यज्याधातव्यमिति विधत्ते - अथ यदास्मै व्रतमिति । न्यञ्जनपक्षे दोषमाह -पक्षमुदाहृत्य तं निराकृत्य स्वपक्षमुपसंहरति -- न व्रते न्यञ्ज्यादित्यु हैक आहुरित्यादिना । असमर्थमित्यर्थः, ' दीक्षितो न आहुति तज्जुहुयादिति । कामं जुहुयात् का बाधेति तत्राह -- अनवक्लृप्तमिति देवो वा अस्यैष आत्मा मानुषोऽय स जुहोति न ददाति न पचति ' इति निषेधात् । ' स वै न्यञ्ज्यादेव । यत्समित्तेन नाहुतिर्यदु यघ्न न्यञ्ज्यान्न हैतं दैवमात्मानं प्रीणीयादथ यन्त्यनक्ति तथो हैतं देवमात्मानं प्रीणाति सा

पृष्ठ 146

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 146 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११० शुक्लयजुर्वेद संहिता [ अ ० ११ व्रते न्यक्ता तेनान्नमन्न, हि व्रतम् ' ( श ० ६ ६ | ४ | ५ ) | स्वपक्षे युक्तिमाह-- स वै न्यज्ञ्ज्यादेवेति । अस्य यजमानस्य देवो देवसम्बन्धी आत्मा शरीरम् । एषोऽग्निः, उत्तरत्र वैश्वानररूपेण यजमानस्योत्पत्तेः । अयं पाचभौतिक आत्मा मानुषः । अतो न्यञ्जने अकृते सति देवतासम्बन्धिनं स्वात्मानं न प्रीणीयात् न्यञ्जने तु प्रीणात्येव । ननु अनवक्लृप्तदोषस्य कः परिहार इति तत्राह - सा यत्समित् तेन नाहुतिरिति । तेन व्यक्तायाः समिध आधानेऽपि नाहृतिर्भवति । तेन निषेधातिक्रमणमिति । ननु देवस्यात्मनः कथं व्रताख्यान्नलाभ इति तत्राह -- यदु व्रते न्यक्ता तेनान्नमिति । ननु पय एव कथमन्नमित्याह - अन्नं हि व्रतमिति । व्रतसाधनं य इत्यर्थः । ' सबै समिधमाधायाथ व्रतयति । देवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ मनुष्यास्तस्मात् समिधमाधायाथ व्रतयति ' ( श ० ६ | ६ | ४ | ६ ) । व्रतपरिग्रहस्य समिदाधानानन्तयं प्रशंसति - स वै समिधमाधाये-त्यादिना । ' अन्नपतेऽन्नस्य नो देहीति । अशनपतेऽशनस्य नो देहीत्येतदनमीवस्य शुष्मिण इत्यनशनायस्य शुष्मिण इत्येतत्प्रप्र दातारं तारिष इति यजमानो वै दाता प्र यजमानं तारिष इत्येतदूजं नो घेहि द्विपदे चतुष्पद इत्याशिषमाशास्ते यदु भिन्नायै प्रायश्चित्तिमाहोत्तरस्मिस्तदन्वाख्यान इति ' ( श ० ६ | ६ | ४ | ७ ) । तत्र मन्त्र विधाय विभज्य तात्पर्यमाह - अन्नपतेऽन्नस्येत्यादिना । अमीवशब्दो व्याधिवचनः अत्र तु बुभुक्षाख्यव्याधिपर इति व्याचष्टे --अनशनायस्य शुष्मिण इति । चरमपाद आशीः पर इत्याह - आशिषमाशास्त इति । है अन्नपते अग्ने, अन्नस्य अन्नम् कर्मणि षष्ठी । देहि प्रयच्छ । नः अस्मभ्यं देहीत्यर्थः । शेषं पूर्ववत् । अध्यात्मपक्षे - हे अन्नपते परमेश्वर, तस्यैवान्नदानेन सर्वस्य पोषकत्वात् । नोऽस्मभ्यमन्नस्य अन्नं देहधारणार्थं लौकिकमन्नं श्रुतादिधारणक्षममन्नं च प्र प्र देहि । कीदृशस्यान्नस्य? अनमीवस्य रोगरहितस्य निर्दोषस्य, शुष्मिणो दिव्यबलवतः । सर्वत्र कर्मणि षष्ठी । हे प्रभो, अन्नस्य लौकिकस्य ज्ञानवैराग्यलक्षणस्य चान्नस्य प्रदातारं गुरुं प्रतारिषः प्रवर्धय । नो द्विपदे चतुष्पदे ऊर्जं निष्ठादाढ्यं पराक्रमं च क्रमेण धेहि, परमेश्वर-प्रार्थनयेव तदानुकूल्येन सर्वेष्टसिद्धिसम्भवात् । दयानन्दस्तु --- ' हे अन्नपते यजमान पुरोहित वा त्वं नोऽनमोवस्य रोगरहितस्य सुखकरस्य शुष्मिणो बहु शुष्मं बलं यस्मात्तस्य अन्नस्य प्र प्रदेहि । अस्यान्नस्य दातारं तारिषः सन्तर । नोऽस्माकं द्विपदे चतुष्पदे ऊर्जं पराक्रमं देहि इति, तदपि यत्किञ्चित् यजमानं पुरोहितं वा प्रति तादृशप्रार्थनायोगात् । नहि द्विपदां चतुष्पदां पराक्रमं मनुष्याः सम्पादयितुं शक्नुवन्ति । वैद्या वैज्ञानिकाश्च लौकिकैरुपायैर्यत्कर्तुं पारयन्ति तत्तु द्रव्यादिदानेन कुर्वन्ति । न तत्र प्रार्थनापेक्षिता । तस्माद्विशिष्ाग्न्यादिदेवता प्रार्थनाऽभ्युपेतव्या । इत्यलं वेदानां लौकिकत्वापादनश्रमेण ॥ ८३ ॥

शङ्कापङ्ककलङ्कानां

निःशेषेणापसारणे ।

वेदार्थपारिजातेऽस्मिन् पूर्ण एकादशोऽधुना ॥

इति श्रीमाध्यन्दिनीयायां वाजसनेयिसंहितायामेकादशोऽध्यायः ।

पृष्ठ 147

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 147 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वादशोऽध्यायः । दृशा॒नो र॒श्म उ॒र्स्था व्य॑द् दुर्मर्य॒मायु॑ प्रि॒ये रु॑धा॒नः अग्निरमतौ अभवट्टयौभि॒र्य॒देन॑ द्यौरज॑नयत् स॒रेता॑ः ॥ १ ॥

सुवर्णाभरण बड़ी दीप्ति से मन्त्रार्थ - मनुष्यों को लक्ष्मी प्रदान करने के निमित्त अभिलषित अखण्डित आयु वाला अग्निरूप कर चिरस्थायी हो गया है । सुम्दर प्रकाशित हो रहा है । यह अग्नि अन्न आदि से पुरोडाश को प्राप्त mtaarit देवगणों ने इस अग्नि को प्रकट किया है ॥ १ ॥

उखाधारणादिमन्त्रा उच्यन्ते । पूर्वस्मिन्नध्याये उखासम्भरणादिमन्त्रा उक्ताः । अथैतस्मिन् द्वादशेऽध्याये निष्यतं लोमसु शुक्लकृष्णेषु ' यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमे कवि १७ शतिपिण्डं ० कृष्णाजिन १६ | ५ | १ ) | यजमानः स्वकण्ठे वर्तुलम् शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो स्वम इति ( का ० श्र: स्वरूपावहिनिसृता यस्मिस्तत् । कविंशतिपिण्डम् एकविंशतिः पिण्डा बिन्दवश्चणकदलसदृशा उन्नता तस्मिन् प्रदेशे निष्यूतं त्रिवृत्योतं कृष्णाजिननिष्यूतं कृष्णाजिनखण्डे यस्मिन् प्रदेशे शुक्लानि कृष्णानि च रोमाणि यस्य तत्, ईदृशं रुक्मं सौवर्णमाभरणं त्रिगुणे शणमये सूत्रे ओतं प्रोतं बहिष्पिण्डं बहिरुपरि प्रदेशे पिण्डा बुदबुदा स्वमप्रतिमोचनम् । सर्वमेतद्विस्तरशो ब्राह्मणे फलकाकारं नाभेरुपरि धारयेत् । साग्निचित्ये द्वादशाहादौ सर्वेषां स्पष्टम् । तच्च पश्चादुद्धरिष्यते । उर्व्या महत्या रुक्मदेवत्या त्रिष्टुप वत्स प्रीदृष्टा । आदित्याध्यासेन रुक्मः स्तूयते । रुक्म आभरणविशेषः । कीदृशो रुक्मः ,? दृशानः दीया व्यद्यद् विद्योतते । ' द्युत द्योतने ' व्यत्ययेन शपि लुप्ते वृद्धो यष्टुभ्यः लङि रूपम् श्रियं दातुं दुर्मर्षमनवखण्डित-दृश्यमानः प्रत्यक्षत उपलभ्यमानः । शानचि शपो लुकि रूपम् । श्रिये ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७३ ) मायुर्जीवितं रुचानो वाञ्छन् । रोचते इति रुचानः । रोचतेः शानचि अमरणधर्मा अभवत् । यद्यस्माद् शपो लुकि रूपम् । सोयमग्निर्वयोभिरन्नैः पशुपुरोडाशप्रभृतिभिः । युक्तमेव अमृतः । कीदृशी द्यौः? सुरेताः शोभनं द्यौः द्युलोकवासिनीदेवता एनमजनयत् उदपादयत् तस्मादमृतत्वं रेतोऽग्निरूपं यस्याः सा । ह्येष रुक्म उर्व्या विद्योतते तथैव ब्राह्मणमाह । तथा हि - ' दृशानो रुक्म उर्व्या व्यद्योदिति रोचतेऽग्निरमृतो । दृश्यमानो अभवद्वयोभिरिति सर्वेर्वा दुर्घमायुः श्रिये रुचान इति दुर्मरं वा एतस्यायुः श्रियो एष इति सुरेता ह्येषा यस्या एष रेतः ' • एष वयोभिरमृतोऽभवद्यदेनं द्यौरजनयदिति द्यौर्वा एतमजनयत् सुरेता । आदित्यात्मक एष रुक्मो महद्दोप्या ( श ० ६७२२ ) । मन्त्रं विधाय व्याचष्टे -- दृशानो रुक्म इत्यादिना । यो जगतः श्रिये रोचमानो भवति । विद्योतते । यस्य आयुर्जीवनोपलक्षितः कालः, दुर्मरमविनाश्यम् शेषं स्पष्टम् । : ' ( पा ० सू ० अत्र ' अद्यौत् ' इति प्रयोगे कश्चन प्रत्यवतिष्ठते । स आह-- " अद्योद् द्युतेः ' छन्दसि परस्मैपदम् लुङ्लङ्लट । ' पुगन्तलघूपधस्य ३।४।६ ) इति सामान्यकाले लुङ् । ' द्युद्भ्यां लुङि ' ( पा ० सू ० १ ३ ९ १ ) इति

पृष्ठ 148

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 148 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२ शुक्लयजुर्वेद संहिता [ अ ० १२ च ' ( पा ० ० ७ | ३ | ८६ ) इति गुणप्राप्तौ छान्दसी वृद्धिः । वस्तुतस्तु ' अभिगमने ' इत्येतस्माल्लङि ' उतो वृद्धिर्लकि हलि ' ( पा ० सू ० ७ ३८ ९ ) इति वृद्धी सम्यक्तरं स्यात् । यत्तु सायणभाष्ये ऋग्वेदसंहितायाम् ( १११२२/१५ ) सिचि ' वृद्धिः परस्मैपदेषु ' ( पा ० सू ० ७/२/१ ) इति वृद्धिरित्याद्युक्तम्, तत्त्वसाधुः सिचि वृद्धि: ' ( पा ० सू ० ७ २ ।१ ) इति वृद्धेदिगन्तलक्षणत्वात् सर्वथाप्यसम्भवात् । यच्च ( ऋ ० १० १११.२ ) सायणभाष्ये ' चलेक छान्दसः, हलन्तलक्षणा वृद्धिरपि ' इति, तदप्यकिञ्चित्करम् वृद्धेः सिज्निमित्तत्वात् । न चेह सिज्भवति, चलेका तन्निमित्तस्यापहारात् । यदपि सायणभाष्ये ( ऋ ० १ ११३।४ ) ' व्यत्ययेन चलेर्लुक्, गुणे प्राप् वृद्धि छान्दसी ' तत्तु सम्यगेव । महीधरोऽप्यस्यैव मन्त्रस्य व्याख्यान आह --- ' द्युद् द्योतने ' व्यत्ययेन शपि लुप्ते वृद्धो लङि रूपम् ' इति तदसत् वृद्धेरसम्भवात् । गुणस्तु प्राप्तः स केन बाध्यत इति वक्तव्यमासीत् " इति । अत्रेदं वक्तव्यम् - श्रीसायणमहीधरयोरभिप्रायमबुद्ध्वैवायमाक्षेपः । यतो हि - ' उतो वृद्धिर्लुकि हलि ' ( पा ० सू ० ७१३२८ ९ ) इति सूत्रे योगविभागः कर्तव्यः । ' उतो वृद्धिर्लुकि ' इति प्रथमो योगः । अङ्गावयवस्यो-कारस्य वृद्धिः स्याद् लुग्विषये । अत्र अङ्गस्येत्यवयवावयविभावसम्बन्धेनोकारे विशेषणम् । ' सम्भवति सामानाधिकरण्ये क्वचिद् वैयधिकरण्येनाप्यन्वयः ' इति नियमेनेष्टानुरोधादियं व्यवस्था । ततश्च द्वितीयो योगः ' हलि ' इति । अत्र पूर्वयोगः सम्पूर्णोऽनुवर्तते । अत्रोकारोऽप्यङ्गे भेदसम्बन्धेन विशेषणम् । अतो येन विधिस्त-दन्तस्य ' ( पा ० सू ० १।१।७२ ) इति तदन्तविधिः । नाभ्यस्तस्याचि पिति सार्वधातुके ' ( पा ० सू ० ७ ३.८७ ) इत्यतः ' पिति सार्वधातुके ' इति पदद्वयमनुवर्तते । तस्मिन् सार्वधातुके हलि इत्यभेदेन विशेषणम् । अतो यस्मिन् विधिस्तदादावल्ग्रहणे ' इति तदादिविधिः । एवं च हलादिपित्सार्वधातुकाव्यवहित पूर्वत्वविशिष्टं यदुकारान्तमङ्गं तस्यान्त्यालो वृद्धिर्लुग्विषय इति द्वितीययोगस्यार्थः सम्पद्यते । प्रथमेन सामान्ययोगेनैव सिद्धौ द्वितीययोगो व्यर्थ इति चेत्, अत्रोच्यते - द्वितीययोगसामर्थ्येन प्रथमस्य क्वाचित्कत्वं ज्ञाप्यते । योगविभागस्येष्टसिद्ध्यर्थत्वादिष्ट-स्थलीयमेवेदं क्वचित्कत्वं न त्वनित्यस्थलीयम् । एषा सरणिः ' आतो धातो: ' ( पा ० सू ० ६ । ४ । १४० ) इत्यादिसूत्रेषु भाष्यकृद्भिः स्पष्टमुक्ता । न तु नवीना सरणिः । फलत: ' अद्योत् ' इत्यत्र लङ् वा भवेत् लुङ् वा भवेद्, तत्र नास्ति विचारणा । च्लेर्लुक् स्यात् शपो वा लुक् स्यादत्रांशेऽस्ति निमित्तता, यतो हीदमुच्यते -- लुग्विषय इति । कस्यापि प्रत्ययस्य लुकि लुग्विषयता भवत्येव । एवं च प्रथमेन योगेन ' अद्यौत् ' इत्यत्र वृद्धिर्भविष्यति, गुणः प्राप्तोऽनया वृद्धघा बाधितो भविष्यति, वृद्धेविशेषविहितत्वेनापवादत्वात् । नेयम् ' वद- व्रज - हलन्तस्याचः ' इति हलन्तलक्षणा वृद्धिरपि तु लुग्विषया । यदि हलन्तलक्षणा वृद्धिरपीति सायणाचार्यस्य लेखस्तदा तस्यात्रैव तात्पयं न तु वदव्रजेत्यत्र । अतश्च हलन्तपदघटितं लक्षणं यस्या इति न समासः, अपि तु हलन्तेऽङ्गे ( ' द्युत् ' इत्यादिरूपे ) अस्ति लक्षणं स्थानिरूपं कारणं ( उकाररूपम् ) यस्याः सा इति विग्रहेण लुग्विषयायां वृद्धो तात्पर्यम् । एवं सति वृद्धेः सिनिमित्तत्वं स्वीकृत्य मुधैव खण्डनं सायणभाष्यस्य, गुणप्राप्तिं चोद्भाव्य वृथैवाक्षेपो महीधरभाष्ये च । प्रत्युत छान्दसत्वाद् वृद्धिमभ्युपेत्य आक्षेप्ता स्वयमेव पङ्के निमग्नः, अक्लृप्तकल्पना करणात् । भवन्मतेऽपि योगविभागकल्पना अक्लृप्तकल्पनैव भविष्यतीति चेन्न भाष्यकृताऽस्य सूत्रस्या-व्याख्यातत्वेऽपीदृशप्रकारस्य बहुशः प्रदर्शितत्वात्, वृद्धेश्छान्दसत्वकल्पनापेक्षया अस्याः सरणे: क्लृप्तप्रायत्वात् । उक्तं च भगवता सूत्रकारेण ' दृढः स्थूलबलयोः ' ( पा ० सू ० ७/२/२० ) इति । यत्तु - ' द्यु अभिगमने ' इत्येतस्माल्लङि शब्लुकि ' उतो वृद्धिर्लुकि हलि ' ( पा ० सू ० ७ ३८ ९ ) इति वृद्धो ' भद्यत् ' इति सम्यक्तरं स्यात् ' इति, तत्तु अत्यन्तमसाधु । नहि केवलं शास्त्रीयप्रक्रियया शब्दव्युत्पादनमेव

पृष्ठ 149

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 149 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १ ] वेदार्थ पारिजातभाष्यसहिता ११३ साधुत्वपरिचायकमपि तु अर्थविशेषनियन्त्रितं तद् भवति । यथा व्याकरणदृष्ट्या साधुरप्यश्वशब्दोऽस्व-( दरिद्र ) रूपेऽसाधुरेव, भावनारूपेऽर्थे तिङामसाधुतैव एवं प्रकृतेऽपि दीप्तिरूपेऽर्थे तरयासाधुतैव भविष्यति । ननु ' अनेकार्था धातवः ' इति चेत् सम्भावितानेकार्था इत्यत्र तात्पर्याभावात् । अन्यथा गच्छतीत्यस्यार्थे पचतीति प्रयोगः स्यात् । कारकाणां विवक्षाधीनत्वेऽपि नहि भवति प्रयोग: - आकाशं पचतीति, प्रामाणिक विवक्षायां तात्पर्यादिति भावः । मन्त्रार्थं प्रमाणयतीदं ब्राह्मणम् -- ' हशानो रुक्म उर्व्या व्यद्योदिति । दृश्यमानो होष रुक्म उर्व्या विद्योतते दुर्घमायुः श्रिये रुतान इति दुर्मरं वा एतस्यायुः श्रियो एष रोन्तेऽग्निरस्तो अभवद्वयोभिरिति सर्वैर्वा एष वयोभिरमृतोऽभवदेनं द्यौरजनयदिति द्यौर्वा एतमजनयत् सुरेता इति सुरेता होषा यस्या एष रेतः ' ( श ० ६।७।२१२ ) | स्पष्टार्थं ब्राह्मणम् । पूर्वं प्रतिज्ञातं ब्राह्मणमुद्धियते ' रुक्मं प्रतिमुच्य बिभर्ति | सत्य हैतद्यद्रक्मः सत्यं वा एतं यन्तुमर्हति सत्येनैतं देवा अबिभरुः सत्येनैवैनमेतद्विर्भात ' ( श ० ६ | ७ | १ | १ ) | यदुक्तं कात्यायनेन - ' यजमानः स्वकण्ठे ' ( १६/५/१ ) इत्यादिसूत्रेण तदिदं वक्तुमादौ रुक्मप्रतिमोकं विधत्ते - रुक्मं प्रतिमुच्य बिभर्तीति । यजमानो रुक्मं सुवर्णमयमाभरणं कण्ठे बद्ध्वा उखां धारयेत् । विहितं रुक्मप्रतिमोचनपूर्वकं धारणं प्रशंसति - सत्यं ताम इति । अत्यन्ताग्निसंयोगेऽपि नाशादर्शनात् रुक्मस्य सत्वम् । एतमग्नि यन्तुं नियन्तुं सत्यमेवार्हति । देवाः सत्येन सत्यमाश्रयं कृत्वा अबिभरुः भरणमकुर्वन्, उखाभरणं कृतवन्तः । ' तद्यत्तत्सत्यम् । असौ स आदित्यः स हिरण्मयो भवति ज्योतिर्वै हिरण्यं ज्योतिरेषोऽमृत १७ हिरण्यममृत-मेष परिमण्डलो भवति परिमण्डलो ह्येष एकवि शतिनिर्बाध एकवि १ ९ शो ह्येष बहिष्ठान्निर्बाधं बिभत यो वा एतस्य निर्बाधा बाह्यत उ वा एतस्य रश्मयः ' ( श ० ६ ७ ११२ ) । एतदुक्मात्मकं सत्यमादित्यात्मना प्रशंसति --- तद्यत्तत्सत्यमिति । रुक्मस्य सुवर्णमयतां विधाय प्रशंसति त हिरण्मयो भवतीति । हिरण्यस्य भास्वररूपत्वाद ज्योतीरूपत्वम्, तदेव अमृतमविनाशि । एष रुक्मः परिमण्डलो वर्तुलो भवति । तत्रोपपत्तिः -परिमण्डलो ह्येष इति । एष आदित्य | एकविंशतिनिर्बाध इति । बाधा बिलसहिताः पुलका: । धारणसमये निर्बाध यथा बाह्या भवन्ति तथा धारयेत् । निर्बाधस्य बहिर्भावं प्रशंसति - रश्मयो वा एतस्य निर्बाधा इति । एतस्य आदित्यात्मकस्य रुक्मस्य रश्मयः परिमण्डलात्मन आदित्याद्वाह्यत एव भवन्ति तथैव बहिष्ठान् निर्बाधं भिति । ' द्वेव रुक्मं प्रतिमुच्य बिर्भात । असौ वा आदित्य एष रुक्मो नो हैतमग्नि मनुष्यो मनुष्यरूपेण यन्तुमर्हत्येतेनैव रूपेणैतद्रपं बिभर्ति ' ( श ० ६ | ७ | ११३ ) | रुक्मधारणं प्रशंसति यद्वेव रुक्मं प्रतिमुच्येति । मानुषेण रूपेणाग्नेर्धारणस्यानुचितत्वाद् एतेन रुक्माख्येन आदित्येन रूपेण एतद् अग्न्यात्मकं रूपं बिर्भात । ' यद्वेव रुक्मं प्रतिमुच्य बिभर्ति । रेतो वा इद सिक्तमय मग्निस्तेजो वीर्य १ ९ रुक्मोऽस्मिस्तदेतसि तेजो वीयं दधाति ' ( ० ६ | ७ | १ | ४ ) | पुनः प्रकारान्तरेण प्रशंसति --- यद्वेव रुक्मं प्रतिमुच्येति । अस्याग्ने रेतः सेकस्थानीयत्वमुक्तं . प्राक् । रुक्मश्च तेजोरूपं वीर्यम् । अग्ने रुक्मसंयोजनेन रेतस्यग्न्याख्ये तेजो वीर्यमेव स्थापितवान् भवति । ' यद्वेव रुक्मं प्रतिमुच्य बिर्भात । एतद्वै देवा अबिभयुर्यद्वै न इमसिंह रक्षा ७ सि नाष्ट्रा न हन्युरिति तस्मा एतमन्तिकाद् गोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एष रुक्मस्तथैवास्मा अयमेतमन्तिकाद् गोप्तारं करोति ' ( श ० ६ | ७ | ११५ ) । पुनरप्यग्ने रुक्मसंयोग मग्नेर्गोप्तृत्वेन रूपेण प्रशंसति --- यद्वेवेति । पुरा देवा इममग्नि नाष्ट्रा नाशका f न रक्षांसि यद्वै येनैव प्रकारेण न हन्युः, एतद् एतेन विषयभूतेन अबिभयुरिति तस्मै अग्नये एतमादित्य-प्रन्तिकाद् गोतारमकुर्वन् । तर्हि मानुषः कथं गोप्तारं कर्तुं शवयत इति तत्राह- असौ वा आदित्य एष स्वम १५.

पृष्ठ 150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 150 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४ शुक्लयजुर्वेदसंहिता [ अ ० १२ यज्ञेनैतं देवा अबिभरु-इत्यादि । ' कृष्णाजिने निष्यूतो भवति । यज्ञो वै कृष्णाजिनं यज्ञो वा वा एतं एतं यन्तुमर्हति यन्तुमर्हन्ति छन्दोभिरेतं देवा यज्ञेनैवैतमेतद्विर्भात लोमतश्छन्दा सि वै लोमानि छन्दा ७ सि स्यूतः सम्बद्धो भवति । यथा अबिभरुश्छन्दोभिरेवैनमेतद्विभति ' ( श ० ६ | ७ | ११६ ) । कृष्णाजिने नितरां हविराधारत्वाद् यज्ञ इत्युच्यते । कृष्णाजिनस्योपरि वर्तेत तथा कुर्यात् । यज्ञो वै कृष्णाजिनमिति यज्ञसाधन यज्ञावयवच्छन्दोरूपत्वं युक्तम् निषीवनमपि लोमप्रदेशे कर्तव्यम् । कृष्णाजिनस्य यज्ञत्वविधानात् तल्लोम्नां रूपे ऋक्सामे वा एतं स्पष्टमन्यत् । ' अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति । ऋक्सामयोर्हेते रुक्मपाशस्त्रिवृत्तस्योक्तो बन्धुः ' यन्तुमर्हत ऋक्सामाभ्यामेतं देवा अबिभरुर्ऋक्सामाभ्यामेवैनमेतद्विर्भात शाणो दर्शयति – अभि शुक्लानी-( श ० ६ ७ १७ ) । तत्रापि शुक्लकृष्णलोमरेखयोरुपरि निष्यूतेन भवितव्यमिति इति हशब्दः ' ऋक्सामयोः त्यादिना । उभयविधानां लोम्नामभि उपरि निष्यूतो भवति । ऋक्सामयोर्हेते रूपे शाणः शिल्पे ' ( वा ० सं ० ४।९ ) इत्यादिमन्त्रप्रसिद्धिद्योतनार्थः । शाणो रुक्मपाशस्त्रिवृदिति रुक्मबन्धनरज्जुः वा एषः ' शणतृणनिर्मितः, त्रिवृत् त्रिगुणितः । ' तमुपरिनाभि बिर्भात । असौ वा आदित्य एष । रुक्म एष उपरिनाभ्यु आदित्य उपरिनाभि ( श ० ६ । ७ । १ । ८ ) । रुक्मधारणप्रदेशं विधाय प्रशंसति- तमुपरिनाभीत्यादिना नाभेरुपरि प्रदेशे भवति, तत्र मध्ये ध्येयत्वात्, रक्तवर्णनाभेरुपरि वर्तमानत्वाद्वा, जाठरवयात्मकस्य तस्य नाभेरुपरि वर्तमानत्वाद्वा । ७ ' यद्वेवोपरिनाभि । अवाग्वै नाभे रेतःप्रजातिस्तेजो वीर्य रुक्मो नेन्मे रेतःप्रजाति । रेतसः तेजो वीर्यं प्रजाति -रुक्मः प्रदहादिति ' ( श ० ६ | ७ | ११ ९ ) । उक्तमुपरिनाभित्वं बहुधा प्रशंसति - यद्वेवोपरीत्यादिना नेद् नेष्टम् | ' नेत्येष इदित्यनेन रुत्पत्तिर्नाभिरर्वाक्प्रदेशे खलु । अतो तेजोवीर्यरूपो रुक्मस्तां प्रजाति प्रदहेत् । ततो यदुपरिनाभि पुरीषस हिततरं सम्प्रयुज्यते परिभये ' ( नि ० १ १० ) । ' यद्वेवोपरिनाभि । एतद्वै पशोर्मेध्यतरं हृदयादिकं यदवाङ्नाभेस्तद्यदेव पशोर्मेध्यतरं तेनैनमेतद्विर्भात ' ( श ० ६ | ७ | १ | १० ) । यन्नाभेरुपरिष्टाद्वर्तमानं तन्नाभेरूर्वैः प्राणै-, तन्मेध्यतरमर्वाग्देशे यदङ्गं तदत्यन्तं पुरीषेण संहितम् । ' यद्वेवोपरिनाभि । यद्वै प्राणस्यामृतमूर्ध्वं तेनैनमेतद्विर्भात ' ( श ० रुच्चरत्यथ यन्मयं पराक्तन्नाभिमत्येति तद्यदेव प्राणस्यामृतं तदेनमेतदभि सम्पादयति यद्वै ६ | ७ | १ | ११ ) । यन्नाभेरुपरिधारणं तदमृतस्योपरिधारणतया प्रशंसन् गतिभेदेन नाभेरूर्ध्वप्रदेशे मृतामृतविभागमाह् स ऊर्वैः -प्राणस्येति । प्राणस्य द्वावंशी, अमृतांशी मृतांशश्च । तत्रामृताख्यो योऽशोऽस्ति । विभाग-प्राणैरुच्चरति उद्गच्छति । यो मर्त्योऽशः स नाभेः पराग् अवाङ्मुखः सन् नाभिमत्येति अतिगच्छति एतद् एतेन प्रदर्शनप्रयोजनमाह -- तद्यदेवेति । तत् प्राणस्यामृतमंशमेनमभि आयुष्याग्नेरुपरि सम्पादयति एष । रुक्मस्तिष्ठतीव नाभेरुपरि सम्पादनेन एनमग्नि तेन अमृतेन बिभर्ति । ' तं तिष्ठन् प्रतिमुञ्चते । असौ वा आदित्य । एवं वा असावादित्योऽथ विष्ठन् वै वीर्यवत्तर उदङ् प्राङ् तिष्ठन् ' ( श ० ६ | ७ | २ | १ ) । स्पष्टार्थं ब्राह्मणम् व्याख्यायन्ते । श्रुत्यारूढं सूत्रम् । तस्मान्मुधंव नास्तिकैः सूत्रमतिक्रम्य स्वैरं मन्त्रा अध्यात्मपक्षे - यो ब्रह्मात्मबोधरूपो रुक्मो रुक्माभरणवद् दृशानो दर्शनीयरूपः, उर्व्या महत्या दीप्त्या व्यद्यद् ब्रह्मात्मतत्त्वं विद्योतते प्रकाशयति तदावरणमपाकरोति, यस्य बोधस्य दुर्मर्षमायुर्वेदान्तप्रमाणमूलकत्वेन तस्य निरुपप्लवभूतार्थस्वभावत्वेन विपर्ययादिभिर्बाधितुमशक्यत्वात् । यश्च श्रियो निमित्तं रोचमानः, ' ब्रह्म-, ' ज्ञानाग्निः विदिव वै सोम्य भासि ' ( छा ० उ ० ४।९ ।२ ) इति श्रुतेः । यश्च अज्ञानाहङ्कारकर्मादिदाहकत्वादग्निरिव सर्वकर्माणि भस्मसात् कुरुते तथा ' ( भ ० गी ० ४१३७ ) इति गीतोक्तेः । यश्चामृतः, अमृतत्वहेतुत्वाद् वयोभि-रनेकैर्बात्ययौवनादिभिरनेकजन्मभिरभवत्, ' बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ' ( भ ० गी ० ७।१ ९ ) इति गीतोक्तेः । एवं द्यौः स्वप्रकाशः परमात्मा सुरेताः शोभनानि रेतांसि यस्य सः, भक्तराराधर्कः सन्तुष्टः, अजनयत् ।