वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 151–160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 151–160

पृष्ठ 151

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १-२ ] वेदार्थपारिजात भाष्यसहिता ११५ सूर्यः, उर्व्या दयानन्दस्तु - ' हे मनुष्याः, यथा दृशानो दर्शकः, द्यौर्विज्ञानादिभिः प्रकाशमानः रुचानो रोचको , अग्निः रुक्मो दीप्तिमान् महत्या पृथिव्या सह सर्वान् मूर्तान् पदार्थान् व्यद्योत्, तथा यः श्रिये शोभायै, दुर्मषं दुःखेन मर्षितुं जनोऽभवद् भवति यश्च सुरेताः शोभनानि रेतांसि वीर्याणि यस्य सः, अमृतो नाशरहितः सह यमेनं विद्वांसमजनयत्, सोढुं शीलम् आयुः अन्नम्, ' आयुरित्यन्ननामसु ' ( निघ ० २२७ ), वयोभिर्यावज्जीवनैः निर्मूलाध्याहार-तं यूयं सततं सेवध्वम् ' इति, तदपि निरर्थकमेव, तादृशविदुषो जनकं सेवध्वमित्यादिपदानां मनुष्यः सम्भवति । लभ्यत्वेनाप्रामाणिकत्वात्, अन्येषामपि पदानां व्याख्याने गौणार्थाश्रयणाच्च । न चामृतः कश्चन श्रुति सूत्रविरोधस्तु निगदव्याख्यातः ॥ १ ॥

नक्ता॒षासा॒ सम॑नसा॒ विरू॑पे ध॒पा॑ये॑ते॒ शिश॒मेक॑ सम॒ची ।

द्यावा॒क्षमा॑ रु॒मो अ॒न्तविभा॑ति दे॒वा अ॒ग्न धा॑रयन् द्रविणो॒दाः ॥ २ ॥

हुए रात - दिन बालक मन्त्रार्थ - हे उखे, समान मन वाले, शुक्ल कृष्ण के भेद से विलक्षण रूप, परस्पर मिले नीचे भूलोक के मध्य में स्थित रूप अग्नि को सुबह - शाम अग्निहोत्र आदि कर्म से तृप्त करते हैं । ऊपर ने द्युलोक अग्नि को और धारण किया है ॥ २ ॥

रोमान अग्नि को मैं उठाता हूँ । यज्ञ द्वारा धनरूप फल के दाता देवगणों ' परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति ' ( का ० श्र ० १६ | ५ मिण्ड्वाभ्यां । ३ ) । वर्तुलाभ्यामुखा परिगृह्णाति - । धारणसाधनाभ्यामुखां गृह्णीयाद् नक्तोषासेति मन्त्रेणेति सूत्रार्थः । अत्र ब्राह्मणम्- परिगृह्णाति ' अथैन तस्मादेषोऽहोरात्राभ्यां असो वा आदित्य एषोऽग्निरहोरात्रे इण्ड्वे अमुं तदादित्यमहोरात्राभ्यां परिमण्डलो पदार्थविशेषौ । एकस्यैव परिगृहीतः ' ( श ० ६ | ७ | ११२५ ) इण्ड्वे इति तप्तोखाधारणसाधनभूतौ , ' त्रेधात्मानं व्यकुरुत ' ( श ० १०।६।५।३ ) तेजसः क्षित्यादिष्वग्न्याद्यात्मनावस्थानाद् एषोऽग्निरेवासावादित्यः एवेण्ड्वास्थानीये । ' यद्वेवैन मिण्ड्वाभ्यां इति श्रुतेः । परिभ्रमत आदित्यस्य पुरस्तादधस्ताच्चावस्थिते अहोरात्रे अमुं तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति परिगृह्णाति । असो वा आदित्य एषोऽग्निरिमा उ लोकाविण्ड्वे परिमण्डलौ हीमौ लोको मौजे त्रिवृती तस्योक्तो तस्मादेष आभ्यां लोकाभ्यां परिगृहीतः परिमण्डले भवतः इण्ड्वे अहोरात्रात्मना प्रशस्य बन्धुर्मृदादिग्धे तस्यो एवोक्तोऽथो अनतिदाहाय ' ( श ० ६ | ७ | १ | २६ ) । भवत इति । प्रशंसति यद्वेवेति । तयोर्वर्तुलत्वं प्रशंसति -- परिमण्डले पृथिव्याख्यलोकद्वयात्मनापि — तस्योक्तो बन्धुरिति, ' त्रिवृद्ध्यग्निः ’ इण्ड्वयोर्मुञ्जविधृतत्वं त्रिवृत्त्वं च विधाय तदर्थवादयुक्तमतिदिशति विधाय तद्वाक्यशेषमप्यतिदिशति— ( ० ६ । ३ । १ । २७ ) इत्यादिनेत्यर्थः । तयोर्बहिर्दाहपरिहाराय मृद्दिग्धत्वं मृदादिग्धे इत्यादि नक्तोषसौ, अग्निदेवत्या त्रिष्टुप कुत्सदृष्ा । अर्धमुखाग्रहणे विनियुक्तम् । नक्तोषासा नक्तं च । सायंप्रातरग्निहोत्रादि- उषाश्चेति · विभक्तेराकारः संहितायां दीर्घः, रात्रिदिवसो एकमग्निरूपं शिशुं बालं धापयेते पाययेते । शिशुं कर्मभिः तर्पयेते इत्यर्थः । अर्थाद् यजमानकर्तृकमेवाग्निधारणं सम्पादयतः । लुप्तोपमानं द्रष्टव्यम् रूपम् । मातापितराविव । ' धेट् पाने ' इत्यस्य णिचि ' आदेच उपदेशेऽशिति ' ( पा ० सू ० ६ । ११४५ ) इत्यात्वे पुकि । कथम्भूते नक्तोषसौ? समनसा समनसौ । समानं मनो ययोस्ते विभक्तेराकार:, एकमनस्के परस्परमैकमत्ययुक्ते । पुनः कथम्भूते? पुनः कथम्भूते? विरूपे विलक्षणं रात्रिः कृष्णा दिवसः शुक्ल इत्येवं विलक्षणं रूपं ययोस्ते एवंभूते ये नक्ोषसो समीची समोच्यौ सम्यगचत इति समोच्यो, सम्यगञ्चने सम्यगन्विते संश्लिष्टं वा ।

पृष्ठ 152

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११६ शुक्लयजुर्वेदसंहिता 1 अ ० १२ ताभ्यामिण्ड्वारूपाभ्यामुखां गृह्णामीति शेषः । ' हरति द्यावाक्षामेति ' ( का ० श्र ० १६ | ३ | ४ ) । आहवन यो-परिस्थामुखामेव मिण्ड्वाभ्यामादाय द्यावेति पादेनासन्दीं प्रति हरतीति सुत्रार्थः । द्यावाक्षामा द्यौश्च द्युलोकश्च क्षामा च पृथिवी चेति द्यावाक्षामा, दिवो द्यावादेशः, विभक्तेर्लोपः द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे च यो रुक्मो रोचमानोऽग्निर्विभाति प्रकाशते तं हरामीति शेषः । ' आहवनीयत्य पुरस्तादुद्गात्रासन्दीवदासन्यां चतुरश्राङ्गया शिक्यवत्यां निदधाति देवा अग्निमिति ' ( का ० श्र ० १६ ५/५ ) । आहवनीयात् पूर्वस्यां दिशि भूमौ स्थापितायामुद्गात्रासन्दीवत् प्रादेशमात्रपाद्यामोदुम्बर्यामरनिमात्राङ्गयां मुखरज्ज्वा व्यूतायां चतुष्कोणायां शिक्ययुक्तायामुखां निदध्यादिति सूत्रार्थः । आसन्द्या उपरि स्थिते शिक्ये आहृतामुखां स्थापयेदित्यर्थः । देवा अग्निमिति मन्त्रेणेति । ' उद्गातासन्द्यां प्रादेशपाद्यायाम् ' ( का ० श्र ० १३३ २ ) इति सूत्राद् उद्गात्रा-सन्दीप्रकारो लभ्यते । देवा दीव्यन्ति व्यवहरन्तीति देवाः प्राणा यजमानस्य एतमग्नि धारयन् अधारयन् । अडभावश्छान्दसः । कीदृशा देवा:? द्रविणोदाः, यागद्वारेण धनरूपं फलं ददति प्रयच्छन्तीति ते तथोक्ताः । यमग्नि द्रविणोदा देवा धारितवन्तस्तमग्निमुख्य महं धारयामोति शेषः । ' देवा अग्नि धारयन् द्रविणोदा इत्याह प्राणा वै देवा: ' ( तै ० सं ० ५1१1१ 1४ ) इति तैत्तिरीयश्रुतेर्देवशब्देन प्राणा उच्यन्ते । अत्र ब्राह्मणम् -'अथैन मिण्ड्वाभ्यां परिगृह्णाति । नक्तोषासा समनसा विरूपे इत्यहोरात्रे वै नक्तोपासा समनसा विरूपे धापयेते शिशुमेक ११ समीची इति यद्वै किञ्चाहोरात्रयोस्तेनैतमेव समीची धापयेते द्यावाक्षामा रुक्मो अन्तर्विभातीति हरन्नेतद्यजुर्जपतीमे वै द्यावापृथिवी द्यावाक्षामा ते एष यन्त्रन्तरा विभाति तस्मादेतद्धरन् यजुर्जपति देवा अग्नि धारयन् द्रविणोदा इति परिगृह्य निदधाति प्राणा वै देवा द्रविणोदास्त एतमग्र एवमधारयं -स्तंरेवैनमेतद्धारयति ' ( श ० ६ | ७ | २ | ३ ) । अस्याग्नेरिण्ड्वाभ्यां परिग्रहणं विधत्ते - अर्थन मिण्ड्वाभ्यामित्यादिना । अत्र प्रथमभागेन अहोरात्री विवक्षितो इति दर्शयति - अहोरात्रे वै नक्तोषासेति । द्वितीयभागेन अहोरात्रकर्तृकं धापनं स्वनिष्ठकृत्स्नप्राणिद्वारेति दर्शयति-- यद्वै किञ्चेत्यादिना । तृतीयभागस्य विनियोगमाह् -- द्यावाक्षा-मेत्यादि । मन्त्रमेनं व्याचष्टे - इमे वै द्यावापृथिवी इति । अन्तराशब्दप्रयोगात् ते इति ' अन्तरान्तरेण युक्ते ' ( पा ० सू ० २३४ ) इति सूत्रेण द्वितीया । तस्मादुक्तविनियोगानुकूलार्थत्वात् तद्यजुर्हणकाले जपेत् । अथ चतुर्थांशस्य विनियोगं दर्शयति --- देवा अग्निमिति । द्रविणोदगुणविशेषिता देवा अत्र प्राणा विवक्षिताः । ते एतमग्निमग्रे एवमधारयन् । एतन्मन्त्रेण धृते सति तैरेव एनर्माग्न धारयति यजमानः । कृत्स्नाया ऋचः सायणरीत्यायमर्थः - नक्तोषासा उषः शब्देन कृत्स्नमहविवक्ष्यते रात्र्यहनी । समनसा समानमनसी । विरूपे विविधरूपे, शुक्लकृष्णभेदेन द्वैविध्यात् । समीची सम्यगञ्चने । यथा लोके एकं शिशुं धापयेते हिताचरणेनानुगच्छतः एवमेकमसहाय मग्न्याख्यं शिशुं स्वावस्थितैः प्राणिभिरग्निहोत्रादि-कर्मद्वारेणानुगतं शिशुमग्निं परिगृह्णामीति शेषः । किञ्च यौ द्यावाक्षामा द्यावापृथिव्यो, अन्तस्तयोर्मध्ये रुक्मो रोचमानः, अग्निविभाति दीप्यते तमाहरामीति शेषः । यमग्नि द्रविणोदा धनस्य दातारो देवा धारयन् अधारयन् तं धारयामीति शेषः । अध्यात्मपक्षे - हे नक्तोषासा, मायापरमात्मानो समनसौ ऐकमत्ययुक्ती विरूपे विलक्षणस्वभावी समीची-जगतां हितार्थं सम्यग्गतिशीलौ संश्लिष्टौ वा द्यावाक्षामा द्यावापृथिवी पौ भरणपोषणप्रकाशाश्रयरूपी एकमनुपमं ज्ञानरूपं शिशुं धापयेते पोषयतः, ब्रह्मज्ञानरूपे शिशौ मायापरिणाममये ब्रह्मप्रकाशमये तत्रोभयोरप्युपकारकत्वात् । द्यावाक्षामा द्यावापृथिव्योरन्तर्मध्ये यो रुक्मो रोचमानोऽग्निर्ज्ञानाग्निविभाति, हे भगवन् तं ज्ञानाग्नि मह्यं प्रयच्छेति शेषः । द्रविणोदा द्रविणस्य शान्तिदान्त्यादिलक्षणस्य दातारो देवा इन्द्रादय इमं ज्ञानाग्नि धारयन् अधारयन् धारितवन्तः । एवं महान्तो धारितवन्तस्तमग्निमिति तत्प्रशस्तिः ।

पृष्ठ 153

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २-३ ] वेदार्थपारिजातभाष्य सहिता ११७ सन्नन्त-दयानन्दस्तु -- ' हे मनुष्याः, यमग्नि विद्युतं द्रविणोदा देवा धारयन् धारयेयुः, यो रुक्मो रुचिकरः ये सम्यगचत विभाति यं समनसा समानं मनो विज्ञानं ययोस्ते, विरूपे तमः प्रकाशाभ्यां विरुद्धरूपे, समीची द्वे मातरौ धापयेते सर्वान् प्राप्नुतस्ते द्यावाक्षामा प्रकाशभूमी नक्तोषासा नक्तं रात्रिर् उषा दिनं च, ते यथैकं शिशुं दिव्याः प्राणा विद्युतं धापयतस्तथा रक्षतः, तं वर्तमानं भवन्तो विजानन्तु ' इति, तदपि विसङ्गतमेव के स्थानीयत्वमभिप्रेतम्, तच्च नोपपद्यते, तयोः धारयन्तीत्यस्यानिरूपणाद् द्यावापृथिव्योरेव मातृधात्री, नोत वा सर्व-समनसादिविशेषणासङ्गतेः । न च तयोः समानविज्ञानवेद्यत्वम्, न वा तयोरहोरात्ररूपत्वम् प्रायत्वम् । श्रुतिसूत्रविरोधश्च सुस्पष्ट एव ॥ २ ॥

विश्वा॑ रू॒पाणि॒ प्रति॑मुञ्चते क॒विः प्रासा॑वद् भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।

विनाक॑मख्यत् सवि॒ता वरु॑ण्योऽनु॑ प्र॒याश॑मु॒षसो॒ विरा॑जति ॥ ३ ॥

मन्त्रार्थ - श्रेष्ठ विद्वान् जगत् के प्रेरक सविता के प्रभाव से सम्पूर्ण जगत् की वस्तुएँ नाना प्रकार के रूपों को को अपने - अपने धारण करती हैं । सविता देव मनुष्य आदि द्विपदों, गो अश्व आदि चतुष्पदों, सभी प्रकार के प्राणियों । यह सविता देव उषा काल व्यवहार को प्रकाशित कर कल्याण की तरफ प्रेरित करता है, स्वर्ग को प्रकाशित करता है के आगमन के साथ प्रकाशित होता है ॥ ३ ॥

' शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणोति ' ( का ० श्र ० १६।५।६ ) । षडुद्यामं तमासन्दीस्थं उद् ऊर्ध्वं शिक्यपाशं यम्यते नियम्यत यैस्ते उद्यामा रज्जवः, षट् उद्यामा रज्जवः ऊर्ध्वाकर्षणहेतवो यस्य यजमानः कण्ठे बध्नातीति सूत्रार्थः । सवितृदेवत्या जगती श्यावाश्वदृष्टा । विग्भिरासक्ताः ' तस्याप एव प्रतिष्ठा । अप्सु होमे लोकाः प्रतिष्ठिता आदित्य आसञ्जनमादित्ये होमे आप लोका उदकान्येव प्रतिष्ठा स यो हैतदेवं वेदतेनैव रूपेणैतद्रूपं बिभति ' ( श ० ६ | ७ | १ | १७ ) । तस्य उद्यामाधारः शिक्यस्य पाशरचितोऽवयवविशेषो आस्पदम्, लोकसृष्टेः प्रागुदकस्य सृष्टत्वात् । शिक्यस्य अधस्ताद्वर्ती प्रतिष्ठाशब्देनोक्तः । आसज्यते बध्यतेऽस्मिन्नित्यासञ्जनं ग्रामीणभाषायां ' विठयो ' इति । स एवात्र आदित्योऽत्र तत्स्थानीयः । ' यद्वेवन ७ शिक्याधारः काष्ठविशेषः, यद्वा आसज्यत इत्यासखनं शिक्यस्योर्ध्वावयव शक्नोति स्थातुं यच्छति शिक्येन बिर्भात | संवत्सर एषोऽग्निर्ऋतवः शिक्यमृतुर्भिर्हि ( श ० संवत्सरः ६ | ७ | १ | १८ ) । प्रकारान्तरेण प्रशंसति ---तस्माच्छिक्य मृतुभिरेवैनमेतद्विभर्ति षडुद्यामं भवति षड्ढयृतवः ' । शिक्यस्य स्वाश्रिताधारकत्वनियमात् यद्वेवैनं शिक्येन बिभर्तीति । अग्नेः संवत्सररूपत्वं संवत्सरभरणात् . संवत्सरस्याग्निरूपत्वेन ऋतूनां संवत्सराधारत्वात् शिक्यत्वं युक्तम् । विश्वा सर्वाणि रूपाणि यः कविः क्रान्तदर्शी विद्वान् वरेण्यः श्रेष्ठः सविता सर्वस्य प्रसविता सूर्यः,, चतुष्पदे चतुष्पाद्भयः प्रतिमुचते द्रव्येषु समवायेन प्रतिबध्नाति सम्बद्धं करोति यश्च द्विपदे द्विपाद्वयो प्रसोति प्रेरयति मनुष्येभ्यः यश्च नाकं स्वर्गं व्यख्यद् पश्वादिभ्यो भद्रं कल्याणं स्वस्वव्यवहारप्रकाशनरूपं श्रेयः प्रासावीत् पश्चाद् उषःकाले व्यतीते सति विराजति विशेषेग विख्याति प्रकाशयति, उषस उषःकालस्य प्रयाणं गमनमनु सविता शिक्यं प्रतिमुञ्चत्विति शेषः । दीप्यते, उषा सवितुः पुरोगामिनीति सवितुः स्तुतिरेव, ईदृशः

पृष्ठ 154

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८ शुक्लयजुर्वेद संहिता [ अ ० १२ यद्वा कविः क्रान्तप्रज्ञ उख्योऽग्निविश्वा सर्वाणि रूपाणि प्रतिमुञ्चति, शिक्याख्यरूपस्य बहुदामोपेतत्वात् । उव्वाचार्यरीत्या तु यः सर्वाणि रूपाणि प्रतिमुञ्चते प्रतिबध्नाति द्रव्येषु रूपाणि शार्वरं तमोऽपहत्य प्रकाशयति, द्विपदे मनुष्यादिकाय चतुष्पदे गवादिकाय भद्रं भन्दनीयं कल्याणं प्रासावीत् प्रायच्छत् । सविता सर्वस्य प्रेरयिता वरेण्यः सर्वैर्वरणीयः । नाकं कं सुखम्, न विद्यते कं सुखं यत्र तद् अकम् नास्ति अकं दुःखं यस्मिंस्तद् नाकं स्वर्गम् | ' नभ्राण्नपान्नवेदा ' ( पा ० सू ० ६ | ३ | ७५ ) इति निपातनात् सिद्धम् । व्यख्यत् प्रकाशयति, अन्तरिक्षे धृतत्वात् । तादृशोऽग्निः सविता उषसः प्रयाणं प्रगमनमनु पश्चाद् विराजति दीप्यत इत्यर्थः । उख्याग्नेः सवितु-चाभेदं विवक्षित्वा ब्राह्मणेन व्याख्यातम् । तथा च ब्राह्मणम् -'अथ शिक्यपाशं प्रतिमुञ्चते । विश्वा रूपाणि प्रतिमुञ्चते कविरित्यसौ वा आदित्यः कविर्विश्वा रूपा शिक्यं प्रासावीद् भद्रं द्विपदे चतुष्पद इत्युद्यन्वा एष द्विपदे च चतुष्पदे च भद्रं प्रसीति वि नाक-मख्यत् सविता वरेण्य इति स्वर्गो वै लोको नाकस्तमेष उद्यन्नेवानुविपश्यत्यनुप्रयाणमुषसो विराजतीत्युषा वा अग्रे व्युच्छति तस्या एव व्युष्टिं विराजन्ननुदेति ' ( श ० ६ | ७ | २ | ४ ) । उख्याग्नेः सवितृरूपत्वमुच्यते - असो वा आदित्य इति । ऊर्ध्वाधोदिग्भिरुपेताश्चतस्रो दिशः शिक्यमित्यभिप्रायः । कृत्स्नस्य प्राणिनो भद्रप्रसव उषस उदयेन भवतीति प्रसिद्धमिति दर्शयति - उषा वा अग्रे व्युच्छतीति । तस्या एष व्युष्टिं विराजन्ननुदेति विराजन्नेष व्युष्टिमनूदेतीति सम्बन्धः । अध्यात्मपक्षे - कविः क्रान्तोपलक्षितातीतानागतवर्तमान सर्वदर्शनः, वरेण्यः सर्व प्रेमास्पदत्वात् सर्ववरणीयः परमेश्वरः, विश्वा सर्वाणि रूपाणि प्रतिमुखते प्रतिबध्नाति द्रव्याणि रूपसमवेतानि करोति । यश्च द्विपदे चतुष्पदे भद्रं श्रेयः प्रसौति प्रेरयति नाकं मोक्षं व्यख्यत् प्रकाशयति । यश्च उषसोऽभ्युदयनिःश्रेयसलक्षणस्य सुप्रभातस्य प्रयाणं प्रकृष्टमागमनमनुविराजति विशेषेण दीप्यते । भगवतः पुरोगामिनी तादृशी उषा ईदृशः सविता परमेश्वरः स्वरूपप्रकाशेनानुगृह्णात्विति शेषः । दयानन्दस्तु –'हे मनुष्याः, वरेण्यो स्वीकर्तुमर्हः कविः क्रान्तदर्शनः सविता जगत्प्रसविता ईश्वरः सूर्यो वा उषसः प्रभातस्य प्रयाणं प्रकृष्टं प्रापणम्, अनुविराजति अनुप्रकाशते । विश्वा सर्वाणि रूपाणि प्रतिमुञ्चते द्विपदे चतुष्पदे नराद्याय गवाद्याय च नाकं सर्वदुः खरहितं व्यख्यत् प्रकाशयति भद्रं भजनीयं सुखं प्रासावीत् उत्पादयति, तमीदृशमुत्पादकं सूर्यं परमेश्वरं वा विजानीत ' इति, तदपि न युक्तम्, वद्रीत्या सूर्यस्य जडत्वेन ज्ञानवत्त्वाभावेनोत्पादकत्वानुपपत्तेः, प्रतिमुञ्चत इत्यस्य प्रसिद्ध्यर्थत्वानुपपत्तेश्च । श्रुतौ तु शिक्यप्रतिमोके मन्त्रोऽयं विनियुक्तः । _art च ब्राह्मणम् -'अथैन १५ शिक्येन बिर्भात । इमे वै लोका एषोऽग्निर्दिशः शिक्यं दिग्भिर्होमे लोकाः शक्नुवन्ति स्थातुं यच्छक्नुवन्ति तस्माच्छिक्यं दिग्भिरेवैनमेतद्विर्भात षडुद्यामं भवति षड्ढि दिशो मौञ्ज त्रिवृत्तस्योक्तो बन्धुर्मृदा दिग्धं तस्यो एवोक्तोऽयो अनतिदाहाय ' ( श ० ६ | ७ | १ | १६ ) । एनमुख्याग्नि शिक्येन बिर्भात शिक्यवरयामासन्द्या मुखां बिभर्तीत्यर्थः । उक्तमर्थमधिदैवताध्यात्मभेदेन प्रशंसति - इमे वै लोका इति । उख्याग्नेर्लोकत्रयात्मकत्वमुखाद्वारा - ' त्रयो वा इमे लोका इमे लोका उखा इति ' ( श ० ६।५।२।२२ ), उखायाश्च-लोकत्रयात्मकत्वम् -'यो वा एष निधिः प्रथमोऽय स लोक: ' ( श ० ६।५।२।२२ ) इत्यादिना प्रागुक्तम् । तस्या दिशः शिक्यम् । किं तत इत्यत आह - दिग्भिर्होमे लोकाः शक्नुवन्ति स्थातुमिति । तस्माच्छिक्येन भरणं युक्तम् । प्रसङ्गाच्छिक्यनिर्वचनं दर्शयति-- यच्छक्नुवन्ति तस्माच्छिक्यम्, स्वाधिष्ठित वस्तुधारणसमर्थत्वात् । शिक्यरूपकल्पनायाः प्रयोजनं दर्शयति - दिग्भिरेवैनमिति । ऊर्ध्वाधोविवक्षया दिशः षट्त्वम् । उद्गतानि यमानि उद्यामानि तेषां षत्वेनोपेतं कर्तव्यम् । यद्वा उद्यमनसाधनत्वादुद्यामशब्देन शिक्यदामान्युच्यन्ते ।

पृष्ठ 155

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३-४ ] वेदार्थपारिजातभाष्यसहिता ११ ९ ' तस्याहोरात्रे एव प्रतिष्ठा । अहोरात्रयोर्ह्यय, संवत्सरः प्रतिष्ठितश्चन्द्रमा आसञ्जनं चन्द्रमसि ह्यय-संवत्सर ऋतुभिरासक्तः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपं बिर्भात तस्य ह वा एष संवत्सरभृतो भवति य एवं वेद संवत्सरोपासितो हैव तस्य भवति य एवं न वेदेत्यधिदेवतम् ' ( श ० ६ | ७ | १ | १ ९ ) । चन्द्रहासवृद्धयुपाध्यायत्तत्वात् संवत्सरस्य चन्द्रासञ्जनरूपत्वम् । संवत्सरात्मकत्वप्रयुक्तमर्थवादमाह -- तस्य ह वा एष संवत्सरभृत इति । य एव-मग्नेः संवत्सरात्मकत्वं शिक्यस्य ऋत्वात्मकत्वं च वेद, तस्य एष उख्योऽग्निः संवत्सरभृतः संवत्सरादर्वाचीनकाले धारणेऽपि कृत्स्नं संवत्सरं भृतवान् भवति । उक्तविज्ञानप्रशंसार्थमविज्ञातुरुक्तफलाभावं दर्शयति - संवत्सरो -पासितो हैवेति । संवत्सरमुपासित एव भवति, न तुक्तरूपेण भृतः । उक्तवक्ष्यमाणयोः साङ्कर्यं परिहाराय उक्तस्याधिदेवतपरत्वं व्यवस्थापयति-- इत्यधिदेवतमिति । ' अथाध्यात्मम् । आत्मैवाग्निः प्राणाः शिक्यं प्राणैर्ह्यय-मात्मा शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यं प्राणैरेवैनमेतद्विर्भात षड्द्यामं भवति षड़ढि प्राणा: ' ( श ० ६ | ७ | १ | २० ) । स्पष्टार्थं ब्राह्मणम् । ' तस्य मन एव प्रतिष्ठा । मनसि ह्ययमात्मा प्रतिष्ठितोऽन्नमासञ्जनमन्ने ह्ययमात्मा प्राणैरासक्तः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपं बिर्भात ' ( श ० ६ | ७ | १ | २१ ) | स्पष्टार्थं ब्राह्मणम् । ' अथैनमुखया बिर्भात । इमे वै लोका उखेमे वा एतं लोका यन्तुमर्हन्त्येभिरेतं लौकर्देवा अबिभरुरेभि-रेवैनमेतल्लो कबिर्भात ' ( श ० ६ | ७ | १ | २२ ) । उखयैव धारणं प्रशंसति --- अथैनमुखयेति । शेषं स्पष्टम् । ' सा यदुखा नाम । एतद्वै देवा एतेन कर्मणैतयावृते माँल्लोकानुदखनन् यदुदखनंस्तस्मादुत्खोत्खा ह वै तामुखेत्याचक्षते परोक्षं परोक्षकामा हि देवा: ' ( श ० ६ | ७ | १ | २३ ) । सा स्थाली यदुखा नाम धृतवती तदभिधीयत इति शेषः । तत्प्रकारमभिनीय दर्शयति - एतेन कर्मणेति । एतेन परिदृश्यमानप्रकारेण । तद् विशिनष्टि - एतयावृतेति । आवृत् प्रकारविशेषः । उत्खन्यमानत्वादुखा | खननं निर्माणम् । स्पष्टमन्यत् । ' तद्वा उखेति द्वे अक्षरे । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्विर्भात सा एव कुम्भी सा स्थाली तत् षट् षड़तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावित्यस्य मात्रा तावत्तद् भवति ' ( श ० ६ | ७ १ २४ ) | भरणीयमुखां तद्गताक्षरसंख्यया प्रशंसति तद्वा उखेति द्वे अक्षरे इत्यादिना । उखा, कुम्भी, स्थाली - इति तस्या नाम, मिलित्वा

षडक्षराणि भवन्ति । षड्वा ऋतवः । षडृतवः संवत्सर इति ॥ ३ ॥

सपर्णोऽसि गरुत्माँ स्त्रिवृत्ते शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे प॒क्षौ । स्तोम॑ आ॒त्मा छन्दाएं-स्योनि॒ यज॑षि॒ नाम॑ । साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञिय॒ पुच्छ्रं धिष्ण्या॑ श॒फाः । सुपर्णोऽसि गुरुत्मान् गच्छ स्वः पत ॥ ४ ॥

6 मन्त्रार्थ - हे उखास्थित अग्निदेव, तुम ऊर्ध्वगामी होने में समर्थ हो और महान् हो । इसलिये तुम सुन्दर पंख वाले वेगगामी गरुड़ के समान गतिशील बनो । त्रिवृत् स्तोम तुम्हारा शिर है, गायत्री छन्द तुम्हारे नेत्र हैं, बृहत् और रथन्तर साम तुम्हारे दोनों पंख हैं । पंचदश स्तोम तुम्हारा अन्तःकरण है, गायत्री आदि इक्कीस छन्द तुम्हारे हृदय आदि अंग हैं । ' इषे त्वा ' आदि यजुमंन्त्र तुम्हारे नाम हैं, वामदेव्य नामक साम तुम्हारा शरीर है, यज्ञायज्ञिय नामक साम तुम्हारी पुच्छ है, होत्री आदि धिष्ण्यों में स्थित अग्नि तुम्हारे खुरों के नख हैं । इस प्रकार हे अग्निदेव, तुम वेगवान् गरुड़ के समान पक्षी रूप हो । इस कारण आकाश की ओर गमन करो, स्वर्ग लोक की ओर प्रस्थान करो ॥ ४ ॥

' सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति पिण्डवत् ' ( का ० श्र ० १६।५।७ ) । ऊर्ध्वाभ्यां बाहुभ्यां प्राच्यां दिशि शिक्यसहितमुख्यमग्नि पिण्डवद् धारयेत् सुपर्णोऽसीति मन्त्रेणेति सूत्रार्थः । गरुत्मद्देवत्या विषहन्त्री

पृष्ठ 156

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२० शुक्लयजुर्वेदसंहिता [ अ ० १२ रवाना विकृतिः । हे अग्ने, त्वं सुपर्णः शोभनं पर्णं पतनं यस्य स पक्षिरूपोऽसि पक्ष्याकारेण चीयमानत्वात्, ' वयसां वा एष प्रतिमया चीयते यदग्निः ' ( तै ० सं ० ५ | ५ | ३ | २ ) इति तैत्तिरीयश्रतेः । तत्र दान्तः -- गरुत्मान निति । यथा पक्षिराजो गरुडस्तद्वदित्यर्थः । तस्यावयवा उच्यन्ते - बहिष्पवमानस्तोत्रे योऽयं त्रिवृत्स्तोमः स तव शिरः शिरःस्थानीयः । प्रजापतिमुखजत्वेनोत्तमं गायत्रं गायत्राख्यं साम चक्षुः चक्ष स्थानीयम् । बृहद्रथन्तरे तन्नामके सामनी तव पक्षी पक्षस्थानीये । स्तोम आत्मा पञ्चदश स्तोमस्तवान्तःकरणस्थानीयः । छन्दांसि गायत्र्यादीन्येकविंशतिच्छन्दासि, अङ्गानि तव हृदयाद्यङ्गस्थानीयानि । यजूंषि इषे त्वेत्यादीनि नाम तव नामस्थानीयानि । वामदेव्यं साम ते तनूः शरीरस्थानीयम् । यज्ञायज्ञियं तन्नामधेयं साम तव पृच्छं पृच्छ-स्थानीयम् । धिष्ण्या ये सौमिकवेद्यां होत्रा: शफास्ते खुरस्थानीयाः । हे अग्ने एवंभूतस्त्वं गरुत्मानिव सुपर्णः शोभनः पक्षिरूपोऽसि । अतो दिवं दिव्यमाकाशं प्रति गच्छ । तत्रापि स्वः स्वर्गलोकं पत प्राप्नुहि । यद्वा गरुत्मान् गणवान् अशनवानिति । तत्र ब्राह्मणम् – ' अथैनमतो विकृत्या विकरोति । इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्योनौ रेतः सिक्तं विक्रियते ' ( श ० ६७२५ ) । सुपर्णोऽसीत्ययं मन्त्रो विकृतिरुच्यते, अग्नेः पक्षपच्छादिमत्सुपर्णरूपेण तत्र विकारप्रतिपादनात् । एनम् अग्निम्, अतोऽस्मात् पूर्वावस्थितात् सन्निदेशात् । विकारप्रतिपादकमन्त्रेणाभि-मन्त्रणमेवात्र विकरणम् । तेनेदमेवोखायां सिक्तमग्न्याख्यं रेतो विकारयुक्तं कृतवान् भवति । तमेवार्थमिदानीन्तन-तोविकारप्रसिद्धया द्रढयति - तस्माद्योनाविति । ' सुपर्णोऽसि गरुत्मानिति । वीयं वै सुपर्णो गरुत्मान् वीर्यमेवैन-मेतदभिसंस्करोति त्रिवृत्ते शिर इति त्रिवृतमस्य स्तोम १9 शिरः करोति गायत्रं चक्षुरिति गायत्रं चक्षुः करोति बृहद्रथन्तरे पक्षाविति बृहद्रथन्तरे पक्षी करोति स्तोम आत्मेति स्तोममात्मानं करोति पचवि १७ शं छन्दाथ् -स्यङ्गानीति छन्दा १७ सि वा एतस्याङ्गानि यजुषि नामेति यदेनमग्निरित्याचक्षते तदस्य यजुषि नाम साम तनूर्वादेव्यमित्यात्मा वै तनूरात्मा ते तनूर्वामदेव्यमित्येतद् यज्ञायजियं पच्छमिति यज्ञायज्ञियं पृच्छं करोति धिष्ण्याः शफा इति धिष्ण्यैर्वा एषोऽस्मिल्लोके प्रतिष्ठितः सुपर्णोऽसि गरुत्मान् दिवं गच्छ स्वः पतेति तदेन सुपर्ण गरुत्मन्तं कृत्वाह देवान् गच्छ स्वर्गं लोकं पतेति ' ( श ० ६ ७ २२६ ) । विकार मन्त्रमुक्त्वा विभज्य व्याचष्टे -सुपर्णोऽसीत्यादीना | सायणरीत्या ब्राह्मणव्याख्यातस्य मन्त्रस्यायमर्थः - हे अग्ने, त्वं गरुत्मान् प्रबलपक्षोपेतः सुपर्णाख्यः पक्षी असि । यज्ञ एव पक्ष्यात्मनोच्यते - तथाभूतस्य ते त्रिवृत्स्तोमः शिरो मस्तकम्, आदी स्तुयमान-त्वेन मुख्यत्वात् । गायत्र्या शंसितं ते चक्षुः । बृहद्रथन्तरे सामनी ते पक्षी, सकलया निर्वाहकत्वात् तयोः । महाव्रतस्तोत्र वदस्यापि ( तै ० वा ० १ | ३ | ६ सा ० भा ० ) पञ्चविंशः स्तोम आत्मा । छन्दांसि गायत्र्यादीन तेऽङ्गानि । यजूंषि शुक्लकृष्णाख्यानि प्रश्लिष्टवाक्यानि तत्रत्योऽग्निशब्दस्ते नाम आख्या । वामदेव्यं साम या चित्र भुवदित्यस्यामृच्युत्पन्नं साम तनूः शरीरम् । यज्ञायज्ञियं ' यज्ञायज्ञा वो अग्नये ' इत्यस्यामृच्युत्पन्नं साम ते पुच्छम् अन्त्यत्वसाम्यात् । धिष्ण्यास्तत्तदायतनस्था अग्नयः शफाः प्रतिष्ठासाधनावयवाः । एवंविधः सुपर्णो गरुत्मानसि, अतस्त्वं दिवं गच्छ । तदेव विशिनष्टि - स्वः पतेति । सुपर्णोऽसीति मन्त्रपाठस्य प्रयोजनमाह-वीमेनमिति । सुवर्णात्मना भावनया तस्य वीर्यमेवाभिसंस्कृतवान् भवति । यजुषां कथमग्नेर्नामधेयत्वमित्या-शङ्क्य तद् व्याच यजूंषि नामेति । यः सर्वैरुच्यमानोऽग्निरिति शब्दोऽस्ति तस्यापि यजुरन्त पातित्वाद्यजु-ध्रुवम् । तत् तत एव एकस्यापि नाम्नो बहुषु प्रदेशेष्वाम्नातत्वाद् यजूंषीति बहुवचनम् । दिवमित्यनेन तत्रस्था देवा विवक्षिता इति व्याचष्टे -- देवान् गच्छेति । तदेनं सुपर्णं गरुत्मन्तं कृत्वा आहेति मन्त्रशेषः । किमाह--देवान् गच्छेत्याद्यर्थमाहेति । अथवा मन्त्रोच्चारयिता सुपर्णोऽसीत्यादिना एनमग्नि सुपर्णं गरुत्मन्तं कृत्वा आह ब्रूते । किमिति --- देवान् गच्छेति ।

पृष्ठ 157

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४ ] वेदार्थ पारिजातभाष्यसहिता १२१ ' तं वा एतम् । अत्र पक्षपुच्छवन्तं विकरोति यादृग्वै योनी रेतो विक्रियते तादृग्जायते तद्यदेतत्र पक्षपुच्छवन्तं विकरोति तस्मादेषोऽमुत्र पक्षपुच्छवान् जायते ' ( श ० ६ | ७१२/७ ) । उक्तविकारं पक्षपुच्छाद्यात्मकं भाविनोऽग्निजननस्य उपयोगितया प्रशंसितुमनुवदति - तं वा एतमिति । वक्ष्यमाणोपयोगिनं लोकन्यायं दर्शयति- यादृगिति । यादृग्विधं रेतः सिच्यते तादृग्जायत इति लोकमर्यादा । यद् यस्मात् पक्षपुच्छवन्तं विकरोति, अत्र उखाधारणसमये । तस्मादेषोऽग्निर मूत्राहवनीयदेशे चयनानन्तरं तादृगेव जायते, चयन सुपर्णाकार एव जायत इत्यर्थः । अनेनाभिमन्त्रणचयनयोर्वैसादृश्याभाव उक्तः । ' तमेतया विकृत्या । इत इतऊर्ध्वं ऊर्ध्वः प्राञ्चं प्रगृह्णात्यसौ वा आदित्य एषोऽग्निरमुं तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य प्राङ् धीयते परोबाहु प्रगृह्णाति परोबाह ह्येष इतोऽथैनमुपावहरति तमुपावहत्योपरिनाभि धारयति व्यवधानं तस्योक्तो न बन्धुः ' ( ० ६ | ७ | २ ९ ) । इतोऽस्माद् धृतप्रदेशात् प्राञ्चं प्राङ्मुखं सूर्यस्याग्नेश्च मध्ये यथा आदित्यस्य भवति तथेत्यर्थः । तत्प्रशंसति - असौ वा आदित्य एषोऽग्निरिति । अग्नेरादित्यात्मकत्वमुक्तमेव । - तस्मादसावादित्य इति । प्रग्रहणे प्रकारविशेषमाह - परोबाहु प्रागूर्ध्वगतिप्रसिद्धया उक्तार्थमुपोद्वलयति सर्वेषां प्रगृह्णातीति । बाह्वोः पर ऊर्ध्ववर्ती यथा भवति तथेत्यर्थः । एष आदित्य इतो भूस्थानात् परोबाहु, बाह्वोरूर्ध्वप्रदेशवर्तित्वात् तदभिन्नस्याप्यस्य तथा ग्रहणं युक्तमित्यर्थः । बाह्वोरुपरि धृतस्याग्नेः प्रत्यवरोहणम् तदनन्तरं नाभेरुपरिप्रदेशे धारणं च विधत्ते - अथैनमुपावहरतीति । उपरिनाभिधारणार्थवादो रुवमधारणप्रस्ताव उक्तः । तदेवोक्तं कात्यायनेन - स शिवयं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति पिण्डवद् धारणं । चेति ' ( का ० श्री ० १६।५।७-८ ) । च शब्दोऽवधारणे । उखार्थं मृत्पिण्डधारणं यथा तथैवोख्यमग्नि धारयेदित्यर्थः अध्यात्मपक्षे - हे अग्ने परमात्मन् त्वं चित्याग्निरूपेण यज्ञरूपेण प्रबलपक्षोपेतः सुपर्णपक्षिरूपोऽसि ॥ तथाभूतस्य ते त्रिवृत्स्तोमः शिरो मस्तकम्, सर्वात्मकस्य परमेश्वरस्य चित्याग्नियज्ञादिरूपेण स्तुयमानत्वात् शेषं पूर्ववत् । ' ग्नास्त्वा ' वरूत्रीष्ट्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वच्छ्रपयन्तख इति वरूत्री तामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वच्छपयाञ्चक्रस्ताभिरेवैनामेतच्छ्पयति श तानि ० ६ | ५ ह | ४ | तान्यहोरात्राण्येवा- ६ ) | होरात्राणि वै वरूत्रयोऽहोरात्रैहद १७ सर्वं वृतमहोरात्रैरेवैनामेतच्छ्रपयति ' ( ह वानि छन्दा ११ स्येव देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत् पेचुस्ताभिरेवैनामेतत्पचति तानि ' ( श ० ६।५।४।७ ) | च्छन्दासि वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति छन्दोभिरेवैनामेतत् पचति हैतामग्रेऽच्छित्रपत्रा ' जनयस्त्वाऽच्छिन्नपत्रा देवीः । विश्वदेव्यावतीः पृथिव्या सधस्थे अङ्गिरस्वत्पचन्तुख इति जनयो नक्षत्राणि देवीविश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत्पेचुस्ताभिरेवैनामेतत्पचति तानि ह तानि नक्षत्रैरेवैनामेतत् नक्षत्राण्येव पचति ' वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतीपि द्वाभ्यां पचति तस्माद् द्विः ( शु ० ६ | ५ | ४ | ८ ) । स वै खनत्येकेन । अवदधात्येकेनाभीन्ध एकेन श्रपयत्येकेन मात्रा संवत्सरस्यान्नं पच्यते तानि षट् सम्पद्यन्ते षड् ऋतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य खनत्ये केनेत्यादिना । तावत्तद् भवति ' ( श ० ६ | ५ | ४ | ९ ) | खननादिमन्त्रगतां संख्यामनूद्य प्रशंसति स वै संवत्सरस्येत्यादि । -खननादिक्रिया त्वेकेनैव मन्त्रेण, पाकस्य तु मन्त्रद्वय साध्यत्वम्, तस्यार्थवादः - तस्माद् द्विः संवत्सरोऽग्निः । शाल्यादिपरिपाकः संवत्सरस्य द्विर्भवतीति प्रसिद्धम् । षड् ऋतवो मिलित्वा संवत्सरो भवति चितीनामप्यवयवानां , स प्रजापतिना संवत्सरो प्रियमाणो भवति । तावत्तद् भवतीति नैमित्तिकचित्या सह स्वरूपस्यैकत्वाद् षट्त्वात् सा मन्त्रगता संख्या ऋतुसंख्याद्वारेणाग्नेमत्रिया समा भवति । चित्यात्मकस्याग्नेः १६

पृष्ठ 158

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२ शुक्ल यजुर्वेदसंहिता [ अ ० १२ ऋतु ( षट् ) संख्यावतोऽवयविनः संवत्सरस्याप्येकत्वाच्च सा मन्त्रगता संख्या संवत्सरद्वारेण अग्निर्यावान् तावती भवतीत्यर्थं इति सायणाचार्यः । दयानन्दस्तु -- ' हे विद्वन् यतस्ते तव त्रिवृत श्रीणि कर्मोपासनाज्ञानानि वर्तन्ते यस्मिंस्तत् । शिरः शृणाति हिनस्ति दुःखानि येन तत् । गायत्रं गायत्र्या विहितं विज्ञानं चक्षुर्नेत्रमिव बृहद्रथन्तरे बृहद्धी रथैस्तरन्ति दुःखानि याभ्यां सामभ्यां ते पक्षी पार्श्वाविव । स्तोमः स्तोतुमहं ऋग्वेद आत्मा स्वरूपं छन्दांसि उष्णादीनि अङ्गानि श्रोत्रादीनि । यजूंषि यजुः श्रुतयः नाम आख्या । यज्ञायज्ञियं यज्ञाः सङ्गन्तव्या व्यवहारा अयज्ञास्त्यक्तव्याश्च तान् यदर्हति तत् । वामदेवेन दृष्टं विज्ञपितं वा साम तृतीयो वेदस्ते तव तनुः शरीरम् । तस्मात्त्वं गरुत्मान् गुर्वात्मा वा गरणवान ' गुर्वात्मा महात्मेति वा ' ( नि ० ७।१८ ) । सुपर्णः शोभनानि पर्णानि लक्षणानि यस्य सः । यस्य धिष्ण्या दिधिषति शब्दयन्ति यैस्ते धिषाणः खुरोपरिभागाः, तेषु साधवो धिष्ण्याः शफाः खुराः । दीर्घं पुच्छमस्ति तद् योगः सुपर्णोऽस्यास्ति स इव त्वं दिवं दिव्यं विज्ञानं गच्छ प्राप्नुहि । स्वः सुखं पत गृहाण ' इति, तदपि न किञ्चित्, मनुष्ये विदुषि तेषां विशेषणानामसङ्गतेः, त्रिवृत्पदस्य कर्मादिव्यवहारार्थत्वे मानाभावात त्रयाणां ब्रह्मादीनां ग्रहणसम्भवेन तादृशार्थत्वे विनिगमना-विरहाच्च । शिर इति पदमपि न तथार्थकम् शृणातेरतथार्थत्वात् । गायत्री छन्दोमात्रम्, न केवलेन छन्दसा किचिद्विज्ञानं प्रकाश्यते, एवमेव रथन्तरादिशब्दार्थोऽपि विशेषेण आसमन्ताद् जिघ्रतीति व्याघ्र इति निर्वचनवदुपहासास्पदम् त्रिवृद्रथन्तरादिशब्दानां वैदिकसाहित्ये स्तोम - सामविशेषार्थेषु प्रसिद्धत्वात् । दीर्घं

पुच्छमित्यादिकमसङ्गतमेव । श्रुतिसूत्र विरोधस्तु स्पष्ट एव ॥ ४ ॥

१ विष्णोः क्रमऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ आरोहि॑ पृथि॒वीमनु॒ विक्रमस्व॒ विष्णोः क्रमस्यभिमाति॒हा त्रैष्टभ छन्द॒ आरो॑हान्तरिक्षमन विक्र॑मस्य॒ विष्णोः क्रर्मोऽस्यरातय॒तो ह॒न्ता जग॑तं॒ छन्द॒ आरो॑ह॒ दिव॒मनु॒ विक्रमस्व॒ विष्णोः क्रमऽसि शत्रूय॒तो ह॒न्तान॒ष्टुर्भ छन्द् आरो॑ह॒ दिशोऽन विक्रमस्व ॥ ५ ॥

यज्ञाग्नि के शत्रुघाती क्रम हो, इस कारण अनुग्रह कर गायत्री छन्द को प्रदेश को विशेष रूप से प्राप्त करो । हे द्वितीय पादविन्यास, तुम उखा अनुग्रह कर स्वीकार करो और अन्तरिक्ष स्थान में पहुँच जाओ । हे लिये धन न ले आने वालों के नाशक हो, तुम जगती छन्द के सहारे द्युलोक में हे चतुर्थं पादविन्यास, तुम उखाग्नि के प्रति शत्रुता करने वालों का नाश करते तुम आरोहण करो । हे अग्निदेव, तुम सभी दिशा- विविशाओं में परिव्याप्त मन्त्रार्थ हे प्रथम पादविन्यास, तुम स्वीकार करो, फिर भूदेवता रूप इस भूमि के अग्नि के पापनाशक क्रम हो, त्रिष्टुप् छन्द को तृतीय पादविन्यास, तुम उखाग्नि के जाकर वहाँ उत्तम स्थान प्राप्त करो । हो, अनुष्टुप् छन्द की सहायता हो जाओ ॥ ५ ॥

' विष्णुक्रमान् क्रमते विष्णोरिति प्रतिमन्त्रम्, अग्न्युद्भणं च तस्मिंस्तस्मिन् ' ( का ० श्री ० १६।५।११-१२ ) । विष्णुक्रमसंज्ञकान् पादन्यासान् कुर्यात् । तस्मिंस्तस्मिन् क्रमणे उख्यस्याग्नेरूध्वं ग्रहणं च कुर्यात्, प्रतिविष्णु-क्रमणमुख्यस्याग्नेः सशिक्यस्य सेण्ड्वाभ्यां हस्ताभ्यामूर्श्वीकरणं च स्तोकं स्तोकं कुर्यात् । तत्र प्रथमं दक्षिणपादेन क्रमणं कृत्वा अग्नि स्तोकं नाभिदेशा दूध्वं कुर्यात् । पुनः क्रमणं कृत्वा पुनरपि किश्चिदुद्गृह्णीयात् । एवं तृतीयवारं

पृष्ठ 159

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५ ] वेदार्थपारिजात भाष्य सहिता १२३ कुर्यादिति सूत्रार्थः । चतुर्थवारं तु न क्रमणमिति वक्ष्यति - ' अक्रमश्चतुर्थे ' ( का ० श्री ० १६ | ५ | १३ ) इति सूत्रेण । चत्वारि यजूंष्यग्निदेवत्यानि । ऋग्बृहतीछन्दस्कानि त्रीणि चतुर्थं प्राजापत्या बृहती । हे प्रथमपादविन्यास, त्वं विष्णोर्यज्ञस्याग्नेः क्रमोऽसि । सपत्नहा सपत्नान् शत्रून् हतवानिति, शत्रुघात-कश्च । अतो गायत्रं छन्द आरोह अनुग्राहकत्वेन स्वीकुरु । ततः पृथिवीमनुक्रम विक्रमस्व भूदेवतारूपमिमं प्रदेशं विशेषेण प्राप्नुहि । द्वितीयपादविन्यास, त्वं विष्णोः क्रमोऽसि, अभिमातिहा अभिमातिर्घातकः शत्रुः पाप्मा वा तं हतवानिति । त्रैष्टुभं छन्द आरोह अनुग्राहकत्वेन स्वीकुरु । अन्तरिक्षप्रदेशं व्याप्नुहि । हे तृतीयपादविन्यास तस्य, विष्णोः क्रमोऽसि, अरातीयतो हन्ता रातिर्दानं तदभावोऽरातिः तमात्मन इच्छतीत्यरातीयन्, इन्ता, दानप्रतिबन्धकस्य शत्रोर्घातकोऽसीत्यर्थः । जागतं छन्द आरोह द्युलोकं व्याप्नुहि । हे चतुर्थपादविन्यास, त्वं विष्णोः क्रमोऽसि, शत्रूयतो हन्ता । शत्रुत्वं हन्तृत्वमिच्छतीति शत्रूयति, शत्रूयतीति शत्रूयन्, तस्य । क्यजन्तात् शता । आनुष्टुभं छन्द आरोह । अत्र चतुर्ष्वपि पादविन्यासेषु यजमान आत्मनो विष्णुत्वं भावयन् चतुर्णां प्रक्रमाणां प्रदेशान् पृथिव्यादिलोकरूपत्वेन भावयेत् । ' दिशोऽनुवीक्षते दिशोऽनुविक्रमस्वेति ' ( का ० श्री ० १६।५।१४ । अत्र ) । मन्त्रावृत्त्या सर्वा दिशोऽनुपश्येत् । यजुरुष्णिक । हे अग्ने, त्वं दिशोऽनुविक्रमस्व प्राच्यादिदिशो व्याप्नुहि । सर्वान् यज्ञप्रयोगान् वेवेष्टि व्याप्नोतीति विष्णुरिति व्युत्पत्त्या सर्वयज्ञप्रयोगव्यापकस्य यजमानस्य विष्णुत्वमुक्तम् यद्वा विष्णोर्व्यापकस्य परमेश्वरस्याभेदभावनया यजमानः स्वात्मानं विष्णुं मन्यमान आह - हे पादविन्यास, त्वं विष्णोः क्रमोऽसीति । तत्र ब्राह्मणम् -- ' अथ विष्णुक्रमान् क्रमते । एतद्वै देवा विष्णुर्भूत्वे माँल्लोकानक्रमन्त यद्विष्णुर्भूत्वाऽक्रमन्त विधाय तस्माद्विष्णुक्र मास्तथैवैतद्यजमानो विष्णुर्भूत्वे माँल्लोकान् क्रमते ' ( श ० ६ | ७ | २ | १० ) । अथ विष्णुक्रमणं तन्निर्वचनद्वारेण प्रशंसति - अथ विष्णुक्रमानिति । विष्णुभूतैर्देवैः क्रान्तत्वाद् विष्णुक्रम इति नाम सम्पन्नम् । यथा देवैस्तथैव एतद् एतेन समन्त्रकपादाक्रमणेन इमान् लोकान् विष्णुर्भूत्वा क्रान्तवान् भवति यजमानः । ' स यः स विष्णुर्यज्ञः सः । स यः स यज्ञोऽयमेव स योऽयमग्निरुखायामेतमेव तद्देवा आत्मानं कृत्वेमाँल्लोकानक्रमन्त तथैवैतद्यजमान एतमेवात्मानं कृत्वेमाँल्लोकान् क्रमते ' ( ०६७/२०११ ) । ननु यजमानस्य कथं, अयमग्निरेव विष्णुभावेना- । क्रमणं सङ्गच्छते, इत्याशङ्क्याह-- स यः प्रसिद्धो विष्णुरस्ति स यज्ञः । पुनश्च स यः प्रसिद्धो यज्ञः देवानां दर्शयति-अयमिति कः? य उखायां वर्तते सोऽग्निरेव विष्णुरित्यर्थः । प्रतिपादितस्य विष्णोः स्वरूपप्राप्तिं भवति । एतमेव तद्देवा इति । तथैवैतद्यजमान इत्यादिकं स्पष्टम् । उखाग्नि धृत्वा क्रमणमेव विष्णुक्रमणमित्युक्तं रुदङ् ' उदङ् प्राङ् तिष्ठन् । एतद्वै तत्प्रजापतिर्विष्णक्रमैरुदङ् प्राङ् तिष्ठन् प्रजा असृजत तथैवैतद्यजमानो प्राङित्यादिना । विष्णुक्रमं अत्र लोकत्रय-प्राङ् तिष्ठन् प्रजाः सृजते ' ( श ० ६ ७ २११२ ) । क्रमणं विधाय प्रशंसति - उदङ मन्त्रः । प्रतिनिधित्वेन त्रिवाराक्रमणम्, तस्य त्रयो मन्त्राः । दिशो विक्रमार्थं पादाक्रमणाभावेऽप्येको ' विष्णोः क्रमोऽसीति । विष्णुहि भूत्वा क्रमते सपत्नहेति सपत्नान् हात्र हन्ति गायत्रं छन्द आरोहेति ' थिवीमनु विक्रमस्वेति पृथिवीमनु विक्रमते प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो क्रमोऽसि हि । मनुष्यस्य रोहति ( श ० ६ | ७ | २ | १३ ) । अत्र सायणाचार्यः -- आक्रम्यमाण पादनिधानस्थान, त्वं विष्णोः पृथिवीं भूलोकं सकलं मम कीदृशस्त्वं सपत्नहा सपत्नानां हन्ता तथाविधस्त्वं गायत्रं छन्द आरोह, आरूढः सन् भूत्वेति । अत्र विक्रमस्व आक्रमणं कुरु । विष्णोः क्रमोऽसीत्येतत् प्रसिद्धमेवेति तद् दर्शयति --- विष्णुहि । गायत्रं छन्दः . आक्रमणकाले सपत्नान् शत्रून् हन्ति हिनस्ति खलु, अतः सपत्नहा इति विशेषणं प्रति युक्तम् नयेत् । नीत्वा च पृथिवोमन्विति ब्राह्मणं स्पष्टम् । क्रमणप्रकारमाह - प्रहरति पादमिति । पादं पुरोदेशं ऊर्ध्वो क्रमते पादं प्रक्षिपेत् । तदनन्तरमग्निमूध्वं नाभेरुपरिदेशं प्रति उद्गृयाद् ऊर्ध्वमुखं गृहीयात् । हि यस्माद्

पृष्ठ 160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४ शुक्लयजुर्वेद संहिता | अ ० १२ भूलोकादुपरिदेशं प्रति रोहति विष्णुक्रमणेन, अतोऽग्नेरप्यूर्ध्वदेशं प्रापणं युक्तमित्यर्थं इति । विष्णोः क्रमोऽसीति । विष्णुहि भूत्वा क्रमते शत्रूयतो हन्तेति शत्रूयतो हात्र हन्त्यानुष्टुभं छन्द आरोहेत्यानुष्टुभं छन्द आरोहति दिशोऽनु विक्रमस्देति सर्वा दिशोऽनुवीक्षते न प्रहरति पादं नेदिमांल्लोकानतिप्रणश्यानीत्यूर्ध्वमेवाग्निमुद्गृह्णाति स ७, ह्यारोहति ' ( श ० ६ | ७/२/१६ ) | दिग्विक्रमणे विशेषमाह - दिशोऽनुविक्रमस्वेति । सर्वा दिशोऽनुवीक्ष्य पादं न प्रहरेत् । पादप्रक्षेपाकरणस्य प्रयोजनमाह- नेदिमानिति । नेद् इति परिभये, एतेषां त्रयाणां लोकानामतिक्रमः परिभयम् । अतस्त्वकर्तव्यमिति तस्याभिप्रायः । पादप्रहारवद् अग्नेरुद्ग्रहणस्यापि निवृत्ति-प्रसक्तावाह – ऊर्ध्वमेवाग्निमिति । एवशब्दो भिन्नक्रमः, उद्गृह्णात्येव । तत्र प्रयोजनं दर्शयति - संह्यारोहतीति । समारोहणसम्भवात् तत्प्रयोज्यमप्युद्ग्रहणं कर्तव्यमेवेत्यर्थः । अध्यात्मपक्षे - हे आत्मन् त्वं विष्णोर्व्यापनशीलस्य परमात्मनः क्रमोऽसि, क्राम्यत्यनेनेति क्रमश्चरणः, चरणाश्रितोऽसि तदाश्रयेण सपत्नान् लौकिकान् शत्रून् हन्तीति तथोक्तः । त्वं गायत्रं छन्दोऽनुग्राहकत्वेन स्वीकुरु । पृथिवीं भूदेवतारूपामिमां विक्रमस्व । पृथिव्युपलक्षितं स्थूलदेहं विक्रान्तं कुरु, तत्रात्मभावं परित्यज्य ब्रह्मात्मभावं गच्छ । विष्णोः क्रमोऽसि, अभिमातिहा पाप्महासि । त्रैष्टुभं छन्द आरोह । अन्तरिक्षं वायुप्रधानं सूक्ष्मदेहं विक्रमस्व विक्रान्तं कुरु, तत्रात्मभावं परित्यज । विष्णोः क्रमोऽसि, अरातीयतः कामादेर्हन्ता, जागतं छन्द आरोह । दिवं द्युलोकोपलक्षितं कारणदेहं विक्रमस्व । विष्णोः क्रमोऽसि शत्रूयतोऽज्ञानाहङ्कारादेर्हन्तासि, आनुष्टुभं छन्द आरोह, दिशः सर्वा दिशः सर्वोपलक्षितं शरीरत्रयकारणमज्ञानं विक्रमस्व । दयानन्दस्तु - ' हे विद्वन्, त्वं विष्णोर्व्यापकस्य परमेश्वरस्य क्रमो व्यवहारः, व्यवहारेण शोधकोऽसि सपत्नहा गायत्रं छन्दो गायत्री निष्पन्नमर्थं स्वच्छं पदार्थमारोह आरूढो भव । पृथिवीं पृथिव्यादिकं व्यवहर पृथिव्यादिपदार्थानुकूलं व्यवहारं कुरु । यस्मात्त्वं विष्णोर्व्यापकस्य कारणस्य क्रमः कार्यरूपोऽस्यभिमानिनां हन्ता, अवस्त्रष्टुभं त्रिभिः सुखः सम्बद्धं छन्दो बलप्रदं वेदार्थमारोह गृहाण आकाशमनुकूलव्यवहारे योजय, यतस्त्वं विष्णोर्व्याप्तिशीलस्य विद्युद्रूपाग्नेः क्रमो ज्ञातासि, अरातीयतो विद्यादिदानविरोधि पुरुषस्य हन्तासि, अतो जागतं जगज्ज्ञानहेतुं छन्दः सृष्टिविद्यां बलप्रदं विज्ञानमारोह प्राप्नुहि । दिवं सूर्यमग्नि वा अनुविक्रमस्व उपयुक्तं कुरु यतस्त्वं विष्णोहिरण्यगर्भस्य वायोः क्रमो ज्ञापकः । शत्रूयतां हन्ता आनुकूल्येन सुखसम्बन्धहेतु-मानन्दकारकं वेदभागम् आरोह उपयोजय दिशामनुकूलं प्रयत्नं कुरु ' इति, तदपि निरर्थकमेव, शब्दमर्यादातिक्रमेण यथेष्टार्थाङ्गीकारात् श्रुतिसूत्रातिक्रमणाच्च ॥ ५ ॥

अक्र॑न्द॒ग्निः स्त॒नय॑न्नव॒ द्यौः क्षामा रेरिहद्वोरुषः सम॒ञ्जन् ।

स॒द्यो ज॑ज्ञा॒नो व होमि॑द्धो अख्या॒दारोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ ६ ॥

मन्त्रार्थ - - हे अग्निदेव, आकाश में मेघ के समान गर्जना करते हुए तुम पृथ्वी का आस्वादन करो । वृक्षों को अंकुरित करता हुआ अग्नि प्रदीप्त होता है । जो भी उसके पास रहता है, उसको विज्ञानसम्पन्न और प्रसिद्ध कर देता है. द्यावापृथिवी के मध्य में रश्मि के द्वारा प्रकाशित होता है ॥ ६ ॥

' पिण्डवत् प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्निरिति ' ( का ० श्र ० १६।५।१५ ) । ऊर्ध्वबाहुः प्रागूर्ध्वमग्निम् अक्रन्दग्निरिति मन्त्रेण गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् वत्सीदृष्टा । अग्निर्देवः द्यौरिव द्युलोकस्थः वर्जन्य इव, स्तनयन् गर्जन् शब्दं कुर्वाणः, अक्रन्दत् क्रन्दति विस्फूर्जति । ' छन्दसि लुङ्लङ्लट: ' ( पा ० सू ०