वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 161–170

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 161–170

पृष्ठ 161

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६ ] वेदार्थपारिजातभाष्य सहिता १२५ १४/६ ) इति कालसामान्ये लङ् । द्यौः शब्देन द्युलोकस्थः पर्जन्य उच्यते । ' स्वनगदी देवशब्दे ' ' चुरादिरदन्तः । क्षामा क्षामां पृथिवीम् । ' सुपां सुलुक् " ( पा ० सू ० ७ / १२३ ९ ) इति विभक्तिलोपः । क्षामेति पृथिवीनामसु । अथवा द्वितीयार्थे प्रथमा । रेरिहत् ' लिह आस्वादने ' इत्यस्य यङ्लुगन्ताच्छ्तृप्रत्ययः, लकारस्य रेफश्छान्दसः । अत्यन्तं लेढीति लेलिहत्, ' नाभ्यस्ताच्छतुः ' ( पा ० सू ० ७ ११७८ ) इति नुमभावः । यथा पर्जन्य उदकभाव-मुपगच्छन्नत्यथं पृथिवीं लेढि आस्वादयति, तद्वदयमग्निः पृथिवीमत्यर्थमास्वादयति । बीरुध ओषधीः स्वकीय-ज्वालासमूहेन समञ्जन् व्याप्नुवन् । अन्यदपि साधर्म्यमुच्यते हि यस्मात् सद्यो जज्ञानो वि हीमिद्धो अख्यत् अर्थाद् यथा पर्जन्यः सद्य एव जायमानोऽरूपेण इद्धः सन् इदं सर्वं धारासहस्रैर व्यख्यद् विख्यापयति, वीत्युपसर्गस्य ख्यातिना सम्बन्धः, अख्यदित्यन्तर्भुतणिजर्थो ज्ञेयः एवमयमग्निः सद्य एव जायमान इद्धो दीप्तः सन् इदं सर्वं रश्मिसहस्रविख्यापयति प्रकाशयति । आरोदसी भानुना भात्यन्तः, यथा पर्जन्यो भानुना विद्यद्रूपेण रोदसी द्यावापृथिव्योरन्तरा स्थित आभाति, एवमयमग्निर्भानुना ज्वालया दीप्त्या द्यावापृथिव्योरन्तर्व्यवस्थित आभाति आसमन्तात् प्रकाशते । ईमिति पादपूरणार्थः । यद्वा अयमग्निरक्रन्दद् अस्मदनिष्टनिवारणार्थं गर्जतु । किमिव? स्तनयन्निव द्यौः । यथा द्युलोकस्थः पर्जन्यो गर्जनेन सस्यशोषणभीति निवारयति, तद्वत् । किं कुर्वन्? क्षामदाहमस्मद्विरुद्धम् आरेरिहत् लेलिहान, वीरुधः समञ्जन् पुष्पलतावदस्मदनुकूलानि सम्यगभिव्यञ्जन् हि यस्माद् जज्ञान उत्पद्यमानः समन्ताद् सद्य इदानीमिव इद्धो दीप्तो व्यख्यद् विविधं जगत् प्रकाशयति । रोदसी द्यावापृथिव्योरन्तर्भानुना रश्मिना स्वयमासमन्ताद् भाति । यद्वा अत्राग्निपर्जन्ययोरौपचारिक उपमानोपमेयभावः । क्षामा अवर्षणेन क्षयकारी पर्जन्यात्मा अग्नी रेरिहन् भृशं लिहन वीरुधो लतागुल्मादीन् समञ्जन् सम्यगाद्रकुर्वन् अक्रन्दद् गर्जति ब्राह्मणानुसारेण वीरुधः समनक्तीति व्याख्येयम् । पर्जन्यात्मा अग्निः सद्यस्तदानीमेव जज्ञानो जायमान । अथवा इद्ध समिद्धः सन् इदं सर्वं विख्यापयति । अन्यत् पूर्ववत् ।: अत्र ब्राह्मणम् -- ' अक्रन्ददग्निः स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्यः स्तनयन् क्षामा रेरिहद्वीरुधः समञ्जन्निति क्षामा वै पर्जन्यो रेरिह्यमाणो वीरुधः समनक्ति सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इस विख्यापयत्या रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुना भाति परोबाहु प्रगृह्णाति परोबाहु हि पर्जन्य: ' ( श ० ६/७ ३ २ ) । प्रथमपादं व्याचष्टे -- पर्जन्योऽग्न्याख्यः स्तनयन् वृष्टिलिङ्गशब्दं कुर्वन् क्रन्दतीव आक्रोशतीव वर्तते । क्षामशब्देनात्र पर्जन्यो विवक्षित इति व्याचष्टे - -क्षामा वै पर्जन्य इति । स्पष्टमन्यत् । परोबाहु प्रगृह्णातीति सार्थवाद उख्याग्निधारणप्रस्तावे ( श ० ६७२२ ९ ) इत्यत्र प्रोक्त एव । अध्यात्मपक्षे -- यथा द्यौर्द्युलोकस्थः पर्जन्यो रामोऽग्निरिव राक्षसादिदाहकोऽरीन् विनाशयन् पर्जन्य-निनादं करोति, पर्जन्यो यथोदकभावमुपगच्छन् क्षामां पृथिवीमत्यर्थं लेढि आस्वादयति, वीरुध व्याप्नुवन् गर्जति, तथैव रामोऽग्निरपि क्षामां जगतीं प्रपञ्चभूमि तत्रत्याच वीरुधो लतागुल्मादिस्थानीयाः ओषधीः समञ्जन् प्रजाः समञ्जन् व्याप्नुवन् आप्याययन् गर्जति । हि यस्मात् पर्जन्यः सद्यस्तदानीमेव जज्ञानो जायमान इद्धो दीप्तः सन् व्यख्यद् आप्याययति यथा तथैवाग्निः सद्यो जज्ञानमिदं सर्वं विविधं प्रपञ्चं प्रकाशयति । पर्जन्यो यथा रोदसी रोदस्योर्द्यावापृथिव्योरन्तर्मध्ये भानुना विद्युद्रूपेण भाति, एवमग्निर्भगवानपि स्वप्रकाशेन चिद्रूपेण प्रतापेन व्यक्तरूपेण भाति । यथा पर्जन्यः क्षामां पृथिवीमास्वादयति, तथैवाग्निः श्रीराम ई चिद्रूपिणीं कामकलां समञ्जन् स्त्ररूपेण तां व्यञ्जन् सम्यक् स्नेहयन् गर्जतीत्यर्थः । सीतां

पृष्ठ 162

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६ शुक्लयजुर्वेद संहिता [ अ ० १२ दयानन्दस्तु - ' हे मनुष्याः यः सभेशः सद्यो जज्ञानः समानेऽह्नि जज्ञानः प्रादुर्भूतः सन् द्यौः सूर्य-प्रकाशोऽग्निविद्युत् स्तनयन्निव यथा दिव्यं शब्दं कुर्वन् अरीन् अक्रन्दत् प्राप्नोति यथा क्षामा पृथिवी वीरुधो वृक्षान्, तथा प्रजाभ्यः सुखानि रेरिहद् भृशं फलानि ददाति यथा सवितेद्धः समञ्जन् सम्यक् प्रकाशयन् रोदसी द्यावापृथिव्यो व्यख्यत् प्रकाशयति, भानुना स्वदीप्त्या अन्तर्मध्ये वर्तमानः सन् आभाति प्रकाशते, तथा यः शुभगुणकर्मस्वभावैः प्रकाशते, तं हि राजकर्मसु प्रयुध्वम् ' इति, तदप्युपेक्ष्यम्, निर्मूलाध्याहारादिपुरस्कारेण व्याख्यातत्वात् । तथाहि -- अक्रन्ददित्यस्य प्राप्नोतीति व्याख्यानं निर्मूलमेव, ' कदि आह्वाने रोदने च ' इति विरोधात्, ' ऋदि वैकल्ये ' इति विरोधाच्च: यत्तु वैदिकनिघण्टौ द्वाविंशशतं गत्यर्था इति यास्करीत्या गत्यर्थता युक्तेति तत्तुच्छम् गत्यन्तराभावे तादृशपक्षस्य ग्रहीतुं योग्यत्वात् । रेरिहदित्यस्य दानार्थतापि निर्मूलैव । रिहन्ति लिहन्ति स्तुवन्ति वर्धयन्ति पूजयन्ति इत्यादिकं त्वार्थव्याख्यानात्तथाभ्युपेयते । न स्वनृषिणा तथा स्वैरं व्याख्यातुं शक्यते । ' ईम् ' इति पदं तु त्यक्तमिति तदप्ययुक्तम् । किश्व दाष्टन्तिस्य मूलमन्त्रेऽभावादेव सर्वा अपि कल्पना: कल्पनामात्रमेव ॥ ६ ॥

अग्नेऽभ्यानभि मा निव॑त॒स्वाय॒षा वर्च॑सा प्र॒जया॒ धने॑न स॒न्या॑ मे॒धया॑ र॒य्या पोषैण ॥ ७ ॥

मन्त्रार्थ -- हमारे संमुख आने के स्वभाव वाले, गमनागमन में समर्थ हे अग्निदेव परमात्मन्, आप हमें आयु, तेज, कान्ति, सन्तान, इष्टलाभ, धारणावतो बुद्धि और सुवर्ण आदि अलंकार प्रदान कीजिये ॥ ७ ॥

' अवहत्यग्नेऽभ्यावतन्निति ' ( का ० श्र ० १६०५ | १६ | | ऋक्चतुष्टयेन चतुर्वारमुख्याग्निमात्मसमीपं स्तोकं स्तोकं नीचैः कुर्यादिति सूत्रार्थः । अग्निदेवत्योर्ध्वबृहती द्वादशार्णत्रिपादा | हे अग्ने अभ्यावतिन्, अभि आभिमुख्येनावर्तितुं शीलमस्यास्तीत्यभ्यावर्ती तत्सम्बुद्धी, अस्मदभिमुखागमनशील! मामभि मां प्रति आयुषा अपमृत्युरहितेन जीवनेन वर्चसा ब्रह्मतेजसा ब्राह्मबलेन वा प्रजया पुत्रादिरूपया धनेन वसुना सन्या इष्टान मेधया श्रुतार्थधारगशक्तिमत्या बुद्धधा रय्या सौवर्णालङ्कारादिना पोषेण तेषामेवायुरादीनां पुत्र्या निवर्तस्व शीघ्रमागच्छ । यद्वा हे अग्ने, आयुरादिभिः सह मामभिलक्ष्य निवर्तस्व आवर्तस्व । तत्र ब्राह्मणम् -'अथैनमुपावहरति । एत योऽस्मिल्लोके रसो यदुपजीवनं तेनैतत्सहोर्ध्व इमाँल्लोकान् रोहत्यग्निर्वा अस्मिल्लोके रसोऽग्निरुपजीवनं तद्यावत्तावदेव स्यान्न हास्मिल्लोके रसो नोपजीवन, स्यादथ यत्प्रत्यवरोहत्यस्मिन्नेवैतल्लोके रसमुपजीवनं दधाति ' ( श ० ६ ७ ३१३ ) । ऊर्ध्वं धृतस्याग्नेरवरोहणं सार्थवाद दर्शयति- अथैनमुपावहरतीति । योऽस्मिल्लोके रसः सारभूतोंऽशः यच्च सर्वप्राणिनामुपजीवनम् एतत्सर्वम् अग्निः खलु । यद्वा एतदिति वक्ष्यमाणार्थस्य सामान्यतः संगृह्याभिधानम् । तेन स्वभूतेनोपजीवनेन च सह यजमान एतद् एतेनाग्नेरूर्ध्वप्रापणप्रकारेण ऊर्ध्वम् इमाँल्लोकान् आरोहति । यो रसो यदुपजीवनं चोक्तं तद्विशिनष्टि - अग्निर्वा इति । अग्ने रसश्त्रमुपजीवनत्वं च दाहपाकाद्युपकारितया सर्वप्रसिद्धम् । तत् पूर्वोक्तं यद् यदि तावदेव ऊध्वं धृतमेव स्यात्, तर्हि अस्मिल्लोके रसोपजीवने न स्तः । अथ आरोहणानन्तरं यद् यदि प्रत्यव-रोहत्यस्मिन् पृथिव्यां रसमुपजीवनं चोभयं भूलोके पुनः स्थापयति । ' यद्वेव प्रत्यवरोहति । एतद्वा एतदिमाँल्लोका-नित ऊर्ध्वो रोहति स स पराङिव रोह इयमु वै प्रतिष्ठा तद्यत्तावदेव स्यात्प्र हास्माल्लोकाद्यजमानश्च्यवेताथ यत्प्रत्यवरोहतीमामेवैतत् प्रतिष्ठामभिप्रत्यत्यस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति ' ( श ० ६ | ७ | ३ | ४ ) | प्रकारान्तरेण

पृष्ठ 163

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ७ ] वेदार्थपारिजातभाष्यसहिता १२७ प्रत्यवरोहणं प्रशंसति - यद्वेव प्रत्यवरोहतीति । ऊर्ध्वो रोहति विष्णुक्रमव्याजेन । स पराङ् प्रतिनिवृत्तो रोह आरोहणम् । एवं लोकानां बहुत्वमपेक्ष्य स स इति वोप्याप्रतिरूपे । अथ आरोहणानन्तरं भूलोकं प्रति प्रत्यारोहणा-भावेन प्रच्युतिः स्यात् । ह प्रसिद्धौ । शेषं पूर्वाह्मणव्याख्याने स्पष्टम् । ' यद्वेव प्रत्यवरोहति । एतद्वा एतदिमाँल्लोकानित ऊर्ध्वो जयति स स पराङिव जयो यो वं पराङेव जयत्यन्ये वै तस्य जितमन्ववस्यन्त्यथ य उभयथा जयति तस्य तत्र कामन्त्ररणं भवति तद्यत्प्रत्यवरोहती मानेव-सल्लोकानिवोर्ध्वानमतश्रार्वाचो जयति ' ( श ० ६ ७ ३।५ ) | पुनः प्रकारान्तरेण तदेव प्रशंसति -- यदेवेत्यादिना । अस्तु पराजयस्तस्य को बाध इत्यत आह -- अन्ये वै तस्येत्यादि । अन्ये शत्रवस्तस्य जितं स्थानम्, अन्ववस्यन्ति अनुक्रमेण क्राम्यति । अथोक्तवैपरीत्येन यद्यभयया जयति पराजितं पुनः प्रत्यङ् गमयतीत्यर्थः । तस्य उभयथा जयवतस्तत्र जितप्रदेशे कामचरणं भवति, अन्यैरप्रतिबद्धत्वात् । उभयथा जयप्रकारमाह - तात्प्रत्यवरोहतीति । इतश्च ऊर्ध्वान् अस्माद् भूलोकादुपर्य पर्यवस्थितान् पराङ् प्रापणेन जयति । अमृतश्चार्वाचोऽमुष्माद् द्यलोकाद् अधोवर्तिनो लोकान् प्रत्यकचरणेन जयति । ' अग्नेऽभ्यावर्तिन् । अभि मा निवर्तस्वाग्ने अङ्गिरः पुनरूर्जा सह रय्येत्येतेन मा सर्वेणाभिनिवर्त स्वेत्येतच्चतुष्कृत्वः प्रत्यवरोहति चतुर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्वः प्रत्यव-रोहति तमुपावहृत्योपरिनाभि धारयति तस्योक्तो वन्धु: ' ( श ० ६/७ ३६ ) | आरोहणस्य यथा आरोह्यस्थानभेदेन मन्त्रचतुष्टयं ' विष्णोः क्रमोऽसि ' इत्यादिकमुक्तम् एवमवरोहणीयानामपि दिकसहितानां लोकानांच तुष्टवादेवा-वरोहणस्यापि मन्त्रचतुष्टयस्य प्रतीकमुपादाय संगृहा तात्पर्यमाह- अग्नेऽभ्यावर्तन्नित्यादिना । ' अग्ने अङ्गिरः शतं ते सत्वावृतः ' इति द्वितीय:, ' पुनरूर्जा निवर्तस्व ' इति तृतीय:, ' सह रय्या निवर्तस्व ' इति चतुर्थः । एतेन सर्वेण मन्त्रेण यावन्त आयुर्वर्चः प्रभृतय उक्ताः तेन सर्वेणापि सहितो निवर्तस्वेत्येतत् सर्वमन्त्रेषु प्रतिपादितम्, न ततोऽधिकमित्यर्थः । स्थानभेदेनैव यत्सिद्धं प्रत्यवरोहणम्, तदनुद्य प्रशंसति चतुष्कृत्वः प्रत्यवरोहतीति । तत्रोपपत्तिमाह-- चतुर्हि कृत्व इति । तमुपावहृत्य पूर्वं यस्मिन्नाभिप्रदेशे धृतं तत्रैव धारयेत् । उक्तमुपरिनाभि-धारणार्थवादमतिदिशति - तस्योक्तो बन्धुरिति । रुक्मधारणप्रस्तावे ( श ० ६ ७ ११६-११ ) उक्त इत्यर्थः । अध्यात्मपक्षे -- हे अभ्यावर्तिन् भक्तानामाभिमुख्येनावर्तितुं शीलमस्येत्यभ्यावर्ती, तत्सम्बुद्धौ । यथा वत्सला गौर्वत्साभिमुख्येन धावति, तथैव भगवानपि भक्ताभ्यावर्तनशीलो भवति, भक्तानां वैमुख्येन भगवानपि पराङ् गच्छति, भक्तानां साम्मुख्ये तु तस्याभिनिवर्तनं युक्तमेव । भगवतः परागश्चनमायुरादिप्रक्षय हेतुर्भवति, तदभ्यावर्तनं तु दीर्घायुष्यादिहेतुर्भवति । अत एवाह --- आयुषा वर्चसेत्यादिकम् । एतच्च पूर्ववद् व्याख्येयम् । यद्वा आयुरत्र अबन्ध्यमायुः । तच्च भगवत्परायणत्यादिनैव सम्भवति । वर्षो भगवदाराधनजनितं तेजः, प्रजा भगवद्भक्त-पुत्र शिष्यादिरूपाः तादृशेनैव पुत्रादिना प्रजावत्त्वोपपत्तेः । धनं ज्ञानध्यानादिकम् । सनिर् अभीष्टप्रीतिलाभः । मेधा भगवद्गुणगणधारणक्षमा बुद्धिः । रयिः शमादिसम्पत्तिः । पोषो धनादिपुष्टिः । एतैरायुरादिभिः सह हे भगवन्, मामभिलक्ष्य निवर्तस्व शीघ्रमेवागच्छेत्यर्थः । दयानन्दस्तु - ' हे अभ्यावर्तिन् अग्ने, पुरुषार्थिन् विद्वन्! त्वमायुषा चिरञ्जीवनेन वर्चसा अन्नाध्ययनादिना प्रजया सन्तानेन सन्या सर्वासां विद्यानां संविभागकर्त्या मेधया प्रज्ञया रय्या विद्याश्रिया पोषेण पुष्ट्या सहाभि-निवर्तस्व मां च तैः संयोजय ' इति, तदपि यत्किञ्चित् पुरुषार्थिन् विद्वन्निति कथमभ्यावर्तिपदस्यार्थः? अभि-मुख्येनाभिवर्तनशीलस्याविदुषोऽपि सम्भवात् । अभिनिवर्तस्वेत्युक्तिः पराग्गमनशीलस्य तनिवृत्तिपूर्वकमाभि-मुख्येनागमनाय युज्यते, न च त्वदुरोऽर्थे तत्सम्भवति । मां चैत संयोजयेत्युत्सूत्रमेव ॥ ७ ॥

पृष्ठ 164

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८ शुक्लयजुर्वेद संहिता [ अ ० १२ अग्ने॑ अङ्गिरः श॒तं ते॑ सन्त्वा॒वृत॑ स॒हस्र॑ त उपा॒वृत॑ः । अधा॒ पोष॑स्य॒ पोषैण॒ पुन॑नो॑ न॒ष्ट॒माकृ॑धि॒ पुन॑नो॑ र॒यिमाकृषि ॥ ८ ॥

मन्त्रार्थ - हे श्रेष्ठ अंगवाले अग्निदेवता, आपको गमनागमन शक्ति और निवृत्ति शक्ति सैकड़ों - हजारोंहैं । इसलिये हम प्रार्थना करते हैं कि हमारी शतसंख्यक आवृत्ति शक्तियों को समृद्धि को लाखों गुना बढ़ा दीजिये, हमारे व्यय को फिर ला दीजिये । हमारे पूर्व अर्जित धन की रक्षा कीजिये, अर्थात् आवृति शक्ति के प्रभाव से हमें असंख्य हुए धन धन का अधिकारी बनाइये और उपावृत्ति शक्ति के प्रभाव से नष्ट हुए धन को पुनः प्राप्त कराइये ॥ ८ ॥

आग्नेय महाबृहती । एकः पादो द्वादशार्णः, चत्वारोऽष्टर्णाः । हे अङ्गिरः, अङ्गानां रसभूत अङ्गसौष्ठवोत हे अग्ने, ते तव शतं शतसंख्याकाः, आवृत आवृत्तिशक्तयः सन्तु तथा ते तव सहस्रं सहस्रसंख्याकाः, उपावृत उपावृत्तिशक्तय: सन्तु । स्वस्यैवावर्तनमावृत् । तब समीपवर्तिनां पुरुषाणां द्रव्यविशेषाणां चावर्तनमुपावृत्तिः । अस्मासु स्नेहातिशयेन त्वं पुनः पुनरावर्तस्व । त्वदीयाः पुरुषास्त्वदीयानि चेष्टानि द्रव्याणि पुनः पुनरावर्तन्ताम् । अधेत्यव्ययमथार्थे । ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ) इति संहितायां दीर्घः । अथैवं भूयोभूयः करणेन आवर्तमानः पोषस्य पोषेण अनवच्छिन्नधनागमेन सह पुनर्नोऽस्माकं नष्टं धनम् आकृधि आगमय । पुनर्नो रयि धनं पुनरागमय । करोतिरत्र गतिकर्मा । शतसहस्रसंख्यानामावृत्त्युपावृत्तिशक्तीनां यः पोषः समृद्धिः, तस्यापि पोषस्यान्यः पोषोऽयुतलक्षादिसंख्याकाभिवृद्धिः " तादृशेन पोषेण नोऽस्मदीयं नष्टं धनं पुनर्भूयोऽप्याकृधि आवृत्तं कुरु आगमय । पुनर्भूयोऽपि नोऽस्मदीयं पूर्वमसम्पादितं धनमाकृधि सर्वतः सम्पादितं कुरु । करोतिर्गतिकर्मा | ' श्रृश्शृणुपृकृवृभ्यश्छन्दसि ' ( पा ० सू ० ६ ४ १०२ ) इति हेधिः । व्यत्ययेन शपो लुक् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, अङ्गिरो दिव्याङ्गसौष्ठवयुक्त श्रीराम, ते तव आवृत आवृत्तयः शतमनन्ता उपावृतस्त्वदीयानां भक्तानां पार्षदानां भरत लक्ष्मण- शत्रुघ्न- हनुमदादीनां प्रेमानुरागादिभावानां सहस्रं सहस्रसंख्याका उपावृत्तयोऽपरिमिताः सन्तु भवन्तु । अस्मासु स्नेहानुग्रहातिशयेन पुन: पुनरावर्तस्व त्वदीयाश्च पुनः पुनरावर्तन्तामित्यर्थः । अधा अथापि च शतसहस्रसंख्याकानामावृत्त्युपावृत्तीनां यः पोषस्तेन नोऽस्मदीयं नष्टं ज्ञानध्यानादिकं पुनर्भूयोऽपि आकृधि, पुनर्भूयोऽपि नोऽस्मदीयं पूर्वमसम्पन्नं ज्ञानध्यानादिकं धनमाकृधि आगमय । दयानन्दस्तु - ' हे अग्ने, अङ्गिरो विद्वन्, यस्य पुरुषाथिनस्ते तव अग्नेरिव आवृत्तिरूपाः क्रियाः सहस्रं ते तव उपावृतो ये भागा उपावर्तन्ते ते सन्तु । अथ त्वमेतः पोषस्य पोषकस्य जनस्य पोषेण पालनेन नष्टमप्यदृष्टं विज्ञानमासमन्तात् कृधि कुरु ' इति, तदपि न किश्चित्, तादृशसम्बोधनस्य निर्मूलत्वात् । आवृत्तिरूपाः क्रिया इत्यपि सापेक्षमेव कस्यावृत्तय इत्यनुक्तेः । उपावृत्तिशब्दस्य ये भागा उपावर्तन्त इत्यर्थोऽपि निर्मुल एव । श्रुतिसूत्रविरोधश्च सुस्पष्टः ॥ ८ ॥

पुर्नरुर्जा निर्वर्तस्व पुर्नरग्न इ॒षायु॑षा । पुन॑र्नः पाह्य हंसः ॥ ९ ॥

मन्त्रार्थ - हे अग्निदेवता, आप हमारे यहाँ क्षीर आदि रसों के साथ पधारिये, अन्न और आमम्यमय जीवन के साथ आप फिर आइये और आकर हमारी सभी पापों से रक्षा कीजिये ॥ ९ ॥

आग्नेय्यो द्वे गायत्र्यो । हे अग्ने, त्वमूर्जा दधिक्षीरादिरसेन सह निवर्तस्व पुनरागच्छ । पुनश्च इषा अनेन सह आयुषा दीर्घजीवनेन च सह पुनरागच्छ । आगतस्त्वं नोऽस्मान् पुनः कृताव्हसः पापात् पाहि हे अग्ने ।,

पृष्ठ 165

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ९ -११ ] आ १७ १२ ९ वेदार्थ पारिजातभाष्यसहिता त्वा॑हाष॑म॒न्तर॑भूर्ध्नुवस्ति॒िष्ठाऽवचाचलिः । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वमूर्जा त्वदीयनैवेद्ययोग्येन दध्याद्युपसेचनेन सह निवर्तस्व । इषा अनेन त्वदाराधनोपयोगिना आयुषा अवन्ध्यजीवनेन च सह आगच्छ । प्रमादकृतादंहसः पापात् पाहि । ऊर्जा दयानन्दस्तु - ' हे अग्ने, त्वं नोऽस्मान् अंहसः पापाद् निवर्तस्व पुनरस्मात् पाहि, स्वातन्त्र्येण पुनरिषा आयुषा विपरिणामेन प्रापय ' इति, तदपि न, मनुष्यमात्रस्य पापाद्रक्षकत्वानुपपत्तेः, सहयोगे तृतीयासम्भवेऽपि वा अन्वयानुपपत्तेः ॥ ९ ॥

स॒ह र॒य्या निव॑त॒स्वाग्ने पिन्व॑स्व॒ धार॑या । वि॒श्वप्न्या॑ वि॒श्वत॒स्परि॑ ॥ १० ॥

जल की मन्त्रार्थ - हे अग्निदेव, आप धूम के साथ स्वर्ग में जाइये और सब प्रकार से उपभोग योग्य वृष्टि रूप ॥ १० ॥

वर्षा से सम्पूर्ण जगत् को --- तृण, धान्य, लता और वृक्षों को आप्यायित कीजिये हे अग्ने, रय्या धनेन सह निवर्तस्व । किच, धारया वृष्टिरूपया जलधारया विश्वतस्परि विश्वप्स्न्या विश्वैः सर्वेषां तृणधान्यलतापादपानामुपरि पिन्वस्व सि । पिन्वतिः सेचनार्थः । कथम्भूतया धारया धनधारया ? सर्वतः परि प्लायते भक्ष्यते पीयत इति विश्वप्स्नी, तया । ' प्सा भक्षणे ' । यद्वा सर्वजनोपभोग्यया सर्वतोऽधिगतैरर्थैः पूर्यमाणया पिन्वस्व मिन अनवच्छिन्नधनदानेन पुनः पुनराप्यायस्व । अध्यात्म हे अग्ने प्रभो, ध्यानज्ञानसम्पत्त्या रम्या सह निवर्तस्व आगच्छ । विश्वप्न्या परि विश्वैः सर्वेषां सायते उपभुज्यत इति विश्वप्स्नी, तया सर्वंविश्वसुखहेतुभूतया धारया कृपावृष्टिधारया विश्वतः भक्तानामुपरि पिन्वस्व सिक्छ । सर्वं भोग्यं वस्तु दयानन्दस्तु – ' हे अग्ने विद्वन् त्वं दुष्टाद् व्यवहाराद् निवर्तस्व सा तया । विश्वप्स्या वाचा रय्या विश्वं धनेन विश्वतः सर्वतः, सायते भक्ष्यते यया तादृश्या धारया, धरति सकला विद्या यया निर्मूलत्वात् । परि धारेति वाङ्नामसु ( निघ ० १११ ), पिन्वस्व सेवस्व ' इति, तदपि न किश्चित् वा , सम्बोधनस्य विद्वत्त्वम्? न च सर्वं दुष्टव्यवहारेषु विदुषः प्रवृत्त्यसम्भवेन तन्निवारणवैयर्थ्यात् । दुव्यवहारवत्त्वे कथं भोग्य वस्तु वाचा भक्ष्यते, गन्धरूपादीनां तदयोगात् ॥ १० ॥

विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु मा त्वाष्ट्रमधिभ्रशत् ॥ ११ ॥

उखा के मध्य में निवास करें, मन्त्रार्थ - हे अग्निदेव, आपको मैं यहाँ ले आया हूँ । अत्यन्त अचल होकर आप इस

कभी न हो ॥। ११ ॥

हमारी सम्पूर्ण प्रजा आपकी इच्छा करे, हमारा राज्य आपसे शून्य । १७ ) । नाभेरुपरि उख्याग्नि ' उपरिनाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते ' ( का ० श्र ० १६ | ५ । हे अग्ने, अहं त्वां द्युलोका धारयंस्तमभिमन्त्रयते आ त्वेति मन्त्रेणेति सूत्रार्थः । आग्नेयी अनुष्टुप् ध्रुवदृष्टा रूपम् । त्वं च अन्तर् देहस्य मध्यदेशं प्रति आहार्षम् आहृतवानस्मि । आङ्पूर्वस्य हरतेर्लङि उत्तमैकवचने । अतो ब्रवीमि त्वं ध्रुवः स्थिरः तिष्ठ । . मध्ये नाभ्या उपरि अभूः । अन्तर् उखामध्ये वा अभूर् अवस्थितोऽसि विचाचलिरविचाचलि:, यङन्तादिन्, अत्यन्तं कीदृशस्त्वम्? अविचाचलिः विचलतीति विचाचलिः, न सर्वाण्यन्नानि त्वामुपतिष्ठन्तु, ' अन्नं वे - चलन रहितः । सर्वा विशः प्रजास्त्वा त्वां वाञ्छन्तु । यद्वा सर्वा विशः मा अधिभ्रशद् मा प्रभ्रश्यतु, अयं विशः ' ( श ० ६ । ७ । ३ । ७ ) इति श्रुतेः । इदं राष्ट्रं त्वत् त्वत्तः सकाशाद्

पृष्ठ 166

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३० शुक्लयजुर्वेदसंहिता [ अ ० १२ जनपदस्त्वत्तः शृभ्यो मा भूत्, अस्मिन् राष्ट्रे स्थित्वा सर्वाः प्रजाः पाहीत्यर्थः । यद्वा श्रीस्त्वत्तो मा भ्रश्यतु, ' श्री राष्ट्रम ' ( श ० ६ | ७ | ३ | ७ ) इति श्रुतेः । ' भ्रंशु अधःपतने ' पुषादित्वात् च्लेरङ्, ' न माङ्योगे ' ( पा ० सू ० ६।४।७४ ) इत्यडभावः । अत्र ब्राहाम - ' अथैनमभिमन्त्रयते । आयर्वा अग्निरापुरेवैतदात्मन धत्त आ त्वाहार्षमित्या १ ९ हरन्त्यन्तरभरित्यायुरेवैतदन्तरात्मन् धत्ते ध्रुवस्तिष्टाऽविश्वाचलिरित्यायुरेवैतद् ध्रुवमन्तरात्मन् धत्ते विशस्त्वा सर्वाञ्छन्नं वै विशोऽन्नं त्वा सर्व वाच्छत्वित्येतत्मा त्वद्रामधिभ्रशदिति श्रीवें राष्ट्र मा त्वच्छ्रीरधि-शदित्येतत् ' ( श ० ६ | ७ | ३ | ७ ) | अभिमन्त्रणं विधत्ते अर्थनमिति । अथ नाभ्युपरिधारणानन्तरम् आयुर्वा अग्निरिति यावन्तं कालं जाठराग्निर्जठरेऽस्ति तावत्पर्यन्तमायुषोऽवस्थानात, आयुषोऽग्निनिमित्तत्वाद् आयुर्वा अग्निरित्युच्यते । तत्र मन्त्रं विधाय व्याचष्टे - आ त्वाहार्षमिति । आ ह्येनं हरन्तीति आ त्वाहार्षमित्यस्य मन्त्रभागस्याभिप्रायः । अन्तरभूरित्येतस्य तात्पर्य कथनम् - आयुरेवैतदन्तरात्मन् धत्त इति । द्वितीयपादेन तस्यायुषो भवत्वप्रार्थनम् । अन्नदातृत्वाद् अनोपजीवित्वाद्वा अन्नं वै विश इत्युक्तम् । अतो विशामन्नरूपत्वात् सर्वा विश इत्यस्य अन्नं सर्वं वाञ्छन्त्वित्येतदेव व्याख्यानम् । राष्ट्रवृद्धिभावाभावस्य श्रियोऽन्वयव्यतिरेकात्तत्वात् श्री राष्ट्रमित्युपचारेणाह । अध्यात्मपक्षे - हे अग्ने भगवन् राक्षसवनकृशानो राम, अहं त्वां साकेतलोकाद् अहार्षं हृदय प्रदेशमाहृत-वानस्मि । त्वमन्तर्देहस्य मध्ये हृदये अभूर् अवस्थितोऽसि । अविचाचलिर् अत्यन्तं निश्चलो ध्रुवः स्थिरो हृदये मदीये तिष्ठ । सर्वा विशः प्रजा भक्ताः सर्वे वा अन्नं भोग्यं वस्तु त्वां वाञ्छन्तुपतिष्ठन्तु । त्वत् त्वत्तः सकाशाद् राष्ट्रं सर्वमनन्तकोटिब्रह्माण्डात्मकं राज्यं मापगच्छतु । ऐश्वर्यं माधुर्यसार सर्वस्वाधिष्टात्री श्रीर्वा माधिभ्रशद् मागच्छतु । दयानन्दस्तु -- ' हे शुभगुणलक्षण सभेश राजन् त्वा राज्यपालनायाहम्, अन्तः सभामध्ये आहार्ष हरेयम् । त्वमन्तः सभामध्ये अभूर् भवेः । अविचाचलिः सर्वथा निश्चलो ध्रुवो न्यायेन राज्यपालने निश्चितस्तिष्ठ स्थिरो भव । सर्वा विशस्त्वा वाञ्छन्तु । त्वत् तव सकाशाद् राष्ट्र राज्यं मा अधिभ्रशद् न नश्यादित्यर्थः ' इति, तदपि चित् श्रुतौ शिव इत्यनेनानं राष्ट्रमित्यनेन श्री रित्युक्तत्वेन तद्विरोधात् राज्ञोऽसम्बोधनाच्च, सूत्रविरोधाच्च, उख्याग्नेः प्रकरणाच्च ॥ ११ ॥

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं विम॑ध्य॒मय॑थाय ।

अर्था वयमदित्य व्रते तवानागसो अदितये स्याम ॥ १२ ॥

मन्त्रार्थ -- हे सकल पाश - ताप - निवारक देव, हमारे उत्तम अंग शिर पर स्थित अपने पाश को हमसे निकाल कर दूर करो और हमारे अधम अंग पावप्रदेश में स्थित पाश को भी बेंच कर दूर करो । इसी तरह से मध्य प्रदेश में स्थित पाश को भी काट डालो । तीनों पाशों को काटने के बाद हे अदितिपुत्र अखंडित शक्तिमान् वरुणदेव, हम सभी प्रकार के अपराधों से मुक्त होकर आपकी आज्ञा में चलते हुए दीनता से रहित होकर अखंडित तत्त्व के योग्य हों ॥ १२ ॥

' पाशा उन्मुच्योदुत्तममिति ' ( का ० श्रौ १६ | ५ | १८ ) । शिक्यपाशं रुक्मपाशं च फलादूर्ध्वमार्गेण निष्का-शयतीति सूत्रार्थः । वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । उत्, अव वि इत्येते उपसर्गाः क्रमेण श्रथयेत्यनेन सम्बद्धधन्ते । हे वरुण, उत्तमम् उत्तमाङ्गे स्थितं शिरसि स्थापितं त्वदीयं पाशम् अस्मद् अस्मत्तः सकाशाद् उत्कृष्य

पृष्ठ 167

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १२-१३ ] वेदार्थपारिजातभाष्यसहिता १३१ उच्छथाय उत्कृष्य श्रथय विनाशय । अधमम् अधमाङ्गे पादप्रदेशे स्थापितं पाशमव अवकृष्य श्रथय अस्मत्त विनाशय । मध्यमं मध्यप्रदेशे मध्यमाङ्गे स्थापितं पाशं वि श्रथय ' श्रथ हिंसायाम् ' मित्त्वात् णिचि ह्रस्वः, लोटि मध्यमैकवचने रूपम् । छान्दसो दीर्घः । यद्वा ' श्रन्थ विमोचनप्रतिहर्षयोः ' क्रयादिः । लोटि मध्यमैकवचने ' छन्दसि शायजपि ' ( पा ० सू ० ३ | १ | ८४ ) इति श्नाप्रत्ययस्य शायजादेशे श्रथायेति रूपम् । अथ पाशत्रयविमोकानन्तरं सन्तोऽदितयेऽ-आदित्य, अदितिपुत्र वरुण एतन्नामकदेव! अनागसोऽनपराधा वयं तव व्रते कर्मणि वर्तमानाः दीर्घः । दीनता अखण्डितत्वाय योग्याः स्याम भवेम । अथा इत्यत्र ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १०६ ) इति तत्र ब्राह्मणम् -- ' अथ शिक्यपाशं च रुक्मपाशं चोन्मुख ते । वारुणो वै पाशो वरुणपाशादेव वि तत्प्रमुच्यते मध्यम वारुण्यच स्वेनैव तदात्मना स्वया देवतया वरुणपाशात् प्रमुच्यत उदुत्तमं वरुण पाशमस्मदवाधमं श्रथायेति यथैव यजुस्तथा बन्धुरथा वयमादित्य व्रते तवानागसो अदितये स्थामेतीयं वा अदितिरनागसस्तुभ्यं विस्रंसयेत् । चास्य च स्यामेत्येतत् ' ( श ० ६ | ७ | ३ | ८ ) । अथोपस्थानानन्तरं शिक्यरुक्मयोः कण्ठसम्बद्धं इत्यत्र पाशमूध्वं वंशब्देन द्योत्यते । कृत्स्नस्यापि बन्धन साधनस्य पाशस्य वरुणदेवताकत्वप्रसिद्धिः ' वारुणो वै पाश: ' स्वेनैवात्मनः पाशोन्मोके वरुणदेवताकामृचं विधाय प्रशंसति - वारुण्यचेति । तत् तेन वारुण्यर्चा पाशविमोचकेन पाशस्य वास्तवेन रूपेण स्वया स्वकीयया पाशाभिमानिन्या देवतया वरुणपाशाद्विमुच्यते यजमानः प्रकाशयति , दामृचं दर्शयति- उदुत्तममिति । पूर्वार्धस्य स्पष्टार्थतामाह - यथा यजुस्तथा बन्धुरिति । यजुर्मन्त्रो यादृशमथं उत्तमादिभेदभिन्नस्य बन्धुस्तद्ब्राह्मणमपि तादृगर्थ प्रकाशकमेव, नात्र व्याख्यातव्यो गूढार्थोऽस्तीत्यर्थः? मन्त्रभागे त्रिविधस्य पाशविश्रथनस्य स्पष्टं प्रतिपादनादित्यभिप्रायः । अध्यात्मपक्षे - हे वरुण वरणीय परमेश्वर, ' एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १ ९ ६४ | ४६ अवाचीनं ) इति मन्त्रवर्णात् । मायिकं पाशम् उत्कृष्य श्रथाय श्रथय श्लथीकृत्योध्वं नय । अधमं रागमयं पाशम् । मध्यमं श्रथय । मध्यमं कर्ममयं पाशं श्रथय । उत्तमम् उत्कृष्य विनाशय । अधममवकृष्य अस्मत्तो विनाशय विश्रथय विच्छेदयेत्यर्थः । अथ मायारागकर्ममयबन्धनत्रयविमोकानन्तरं हे आदित्य, अदितेः पुत्र वरुण वरणीय उपेन्द्र, त्वत्स्मरणेन अनागसो निष्पापा वयं तव व्रते त्वदुपासनलक्षणकर्मणि वर्तमाना वयम् अदितये अदोनताय ब्रह्मात्मभावाय योग्याः स्याम भवेम । उत्तमं दयानन्दस्तु - ' हे वरुण आदित्य, त्वमस्मद् अस्माकं सकाशाद् अधमं निकृष्टं मध्यमं मध्यस्थम् पाशं बन्धनम् उदववि श्रथाय विविधप्रकारेण मोचय । अथानन्तरं वयमदितये पृथिवीराज्याय तव सम्बन्धे व्रते रात्यन्यायपालन नियमे, अनागोनपराधिनः स्वाम भवेम ' इति, तदपि यत्किचित् कस्यचिद्राज्ञः तादृशोक्तेरयोगात् ॥ १२ ॥

अग्रे बन्नसा॑म॒र्ध्वो अ॑स्थान्निज॑ग॒न्वान् तम॑सो॒ ज्योति॒षागा॑त् ।

अ॒ग्निर्भानुना रुश॑ता॒ स्वत आ जातो विश्वा सद्मन्यप्राः ॥

१३ ॥

मन्त्रार्थ - अपने प्रभाव के कारण महान् बने अग्निदेव उषाकाल के आगे ऊँचे स्थित हुए, रात्रि रूप शरीर अन्धकार वाले से ये निकले, दिन रूप ज्योति के संग यहाँ प्राप्त हुए हैं । अन्धकार को दूर करते हुए, किरणजाल से पूर्ण सुशोभित कर देते हैं ॥ १३ ॥

अग्निवेष उत्पन्न होने के साथ ही सम्पूर्ण स्थान, अर्थात् सब लोगों को सब प्रकार से अपने तेज से ' पिण्डवत् प्राग्दक्षिणा प्रगृह्णात्य बृहन्निति ' ( का ० श्र ० १६।५।१ ९ ) । पूर्वमन्त्रेण सूत्रार्थः शिक्यपाशं । अग्निदेवत्था रुक्मपाशं चोरमुच्य ऊर्ध्वबाहुराग्नेय दिशं प्रत्युख्याग्निमूध्वं धारयेद् अग्रे बृहन्निति मन्त्रेणेति

पृष्ठ 168

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२ शुक्लयजुर्वेद संहिता | अ ० १२ त्रिष्टुप् त्रितदृष्टा । अत्रादित्यात्मना अग्निः स्तूयते । योऽग्निः, उषसां प्रभातानामग्रे मुखे बृहन् प्रभावतो महान् ऊर्ध्वः, अस्थात् स्थितः, यद्वा अग्निहोत्रादौ बोध्यमान उत्तिष्ठति, यश्च तमसो रात्रिलक्षणाद् निर्जगन्वान् निर्गतः, अहर्लक्षणेन ज्योतिषा प्रकाशेन सह अगाद् आगतः सोऽग्निर्जात उत्पन्नमात्र एव विश्वा विश्वानि सर्वाणि सद्मानि स्थानानि सर्वान् लोकान् ' इमे वै लोका विश्वा सद्मानि ' ( श ० ६ | ७ | ३ | १० ) इति श्रुतेः । आप्राः स्वतेजसा पूरितवान् । कथम्भूतोऽग्निः? रुशता रुशतीति रुशन् तेन, तमो हिंसता ' रुश हिंसायाम् ' भानुना रश्मिना स्वङ्गः सुष्ठु शोभनान्यङ्गानि यस्य स तथाभूतो भास्वरेण भानुना शोभनशरीरः । यद्वा अयमग्निः, उषसां प्रभातानामग्रे बृहन् भूत्वा ऊर्ध्वः सन् निर्गतः सन् अस्थात् तिष्ठति । तमसो नैशात् सकाशात् निर्जगन्वान् निर्गतः सन् ज्योतिषा अहर्लक्षणेन सह आगाद् आगच्छति । रुशता प्रकाशमानेन भानुना दीप्तिविशेषेण स्वङ्गः शोभनाङ्गः । हे अग्ने, जातो जातमात्रः सन् विश्वा सद्मानि सर्वान् लोकान् आहवनीयादीनि स्थानानि वा आप्राः सर्वतः पूरितवानसि । ऊर्ध्वो अस्थादित्यत्र ' एङ: पदान्तादति ' ( पा ० सू ० ६ | १ | १० ९ ) इति प्राप्तस्य पूर्वरूपसन्धेः ' प्रकृत्यान्तः पादमव्यपरे ' ( पा ० सू ० ६।१।११५ ) इति प्रकृतिभावः । अत्र ब्राह्मणम्- ' अग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । अग्रे ह्येष बृहन्नुषसामूध्वंस्तिष्ठति निर्जगन्वान् तमसो ज्योतिषाऽगादिति निर्जगन्वान् वा एष रात्र्यं तमसोऽह्ना ज्योतिषैत्यग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्रा इतीमे वै लोका विश्वा सद्मानि तानेष जात आपूरयति परो-बाहु प्रगृह्णाति परोबाहु ह्येष इतोऽथैनमुपावहरती मामेवैतत् प्रतिष्ठामभिप्रत्यत्यस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठति जगत्या जगती हेमाँल्लोकानमुतोऽर्वाचो व्यश्नुते ' ( श ० ६ | ७ | ३ | १० ) । मन्त्रं विधाय व्याचष्टे – अग्रे बृहन्नित्यादिना । मन्त्रस्तु व्याख्यात एव । अध्यात्मपक्षे - योऽग्निर्दनुजवनकृशान् रामः, उषसां प्राणिनामभ्युदय निःश्रेयस प्रभातानामग्रे मुखे बृहन् प्रभावातिशयान्महान् ऊर्ध्वः सर्वकारणत्वात् सर्वव्यापकत्वात् सर्वप्रकाशकत्वाच्चोत्कृष्टः अस्थात् स्वभवन एव स्थितः । यश्च तमसोऽविद्यालक्षणाद् निर्जगन्वान् निर्गतः, प्रचण्डमार्तण्डमण्डले रात्रेरिव तस्मिन्नविद्याया नित्यनिरस्तसत्ताकत्वात् । ' नाहो न रात्रिः सवितुर्यथा भवेद् ज्ञानं तथाऽज्ञानमिदं द्वयं सा मे कथं स्थास्यति शुद्धचि ॥ ' ( अध्यात्मरामायणे ) । यश्च ज्योतिषा चिन्मयेन चिच्छक्त्या सीतया सह अगाद् भक्तानां दृष्टिगोचरतामागतः, सोऽग्निः रुषता तमो हिंसता रोचिष्णुना वा भानुना प्रकाशेन स्वङ्गः शोभनाङ्ग आजात आसमन्तात् प्रादुर्भूतमात्र एव विश्वा सद्मानि सर्वान् लोकान् आप्राः स्वतेजसा पूरितवान् । स्वङ्गशब्दस्यान्यत्र स्वारस्यायोगात् श्रीराम एवात्र स्तूयते, वेदार्थोपबृंहणे रामायणे तथैव तस्य वर्णनात् । दयानन्दस्तु – ' हे राजन्, यस्त्वमग्रे यथाग्निः सूर्यः स्वङ्ग आजातो बृहन् महान् उषसामूर्ध्व उपर्याकाशस्थः, अस्थात् तिष्ठति, रुशता सुरेषेण भानुना दीप्त्या ज्योतिषा प्रकाशेन तमसोऽन्धकाराद् निर्जगन्धान् निर्गतः सन् अगाद् विश्वानि सद्मानि साकाराणि स्थानानि आप्रा व्याप्नोति, तद्वत् प्रजायां भव ' इति, तदप्ययुक्तम्, राज्ञः सम्बोध्यत्वे मानाभावात्, अत्र मूले दान्ताभावाच्च ॥ १३ ॥

ह॒ह्य॑सः श॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑

वेद॒षदति॑थर्दुरोण॒सत् ।

न॒षद॑र॒सद॑त॒सद् व्यो॑म॒सद॒ब्जा ग॒जा ऋत॒जा अ॑दि॒जा ऋ॒तं बृहत् ॥ १४ ॥

मन्त्रार्थ - पवित्र स्थान आविस्य रूप वीप्ति में आविश्य रूप से स्थित अहंकार को दूर करने वाला मात्मा, वायु रूप से अन्तरिक्ष में स्थित मनुष्यों का प्रवर्तक, अग्मि रूप से वेदि में स्थित होकर देवताओं का आह्वान करने

पृष्ठ 169

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १४ ] पारिजात भाष्यसहिता १३३ , उत्कृष्ट स्थानों और क्षेत्रों में वाला, आहवनीय रूप से यज्ञ में स्थित सबका पूजनीय, मनुष्यों में प्राणभाव से स्थित परमात्मा की हम प्रार्थना स्थित, यज्ञ में स्थित, आकाश में मण्डल रूप से स्थित - इस प्रकार सर्वत्र विराजमान रूप से करते हैं । वह सबको उत्पन्न करने वाला है, वह मत्स्य आदि के रूप से जल में और मेघ में चतुविध जल रूप भूतग्राम से स्थित के सर्वगत भूमि में स्थित है । सत्य में प्रकट होने वाले, पाषाण से अग्नि रूप में प्रकट होने वाले, अपर्यंत परब्रह्म परमात्मा का हम स्मरण करते हैं ॥ १४ ॥

' अवहरति हसः शुचिषदिति ' ( का ० श्र ० १६०५ / २० ) | हंस इति मन्त्रेणोख्यमग्निमवतारयतीि तु जगती, अन्ते सूत्रार्थः । जगती अग्निप्रोक्षणे इयंमुक्ता यजुरन्ता, राजसूयप्रकरणे इयमतिजगत्युक्ता, इह ) । बृहदि बृहदिति यजुः । तद्विनियोगमाह कात्यायनः -- ' आसन्द्यां करोति बृहदिति ' ( का ० श्र ० १६।५।२१ व्याख्यातः । यजुषा उख्यमग्निमासन्द्यां स्थापयतीति सूत्रार्थः । मन्त्रस्तु दशमेऽध्याये चतुर्विश्यां कण्डिकायां अत्र ब्राह्मणम् -- ' ह ँसः शुचिषदिति । असो वा आदित्यो हसः शुचिषद्वसुरन्तरिक्षसदिति वायुर्वे वसुरन्तरिक्षसद्धोता वेदिषदित्यग्निर्वे होता वेदिषदतिथिरिति सर्वेषां वा एष भूतानामतिथिर्दुरोणरादिति वरसदिति सर्वेषु विषमसदित्येतन्नृषदिति प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतदाह सन्नोऽब्जा गोजा इत्यब्जाश्च ह्येष वरेषु सन्न ऋतसदिति सत्यसदित्येतद् व्योमसदिति सर्वेषु ह्येष व्योमसु बृहदिति निदधाति ह्येष गोजाश्चर्तजा इति सत्यजा इत्येतदद्रिजा इत्यद्रिजा ह्येष ऋतमिति सत्यमित्येतद् एक बृहद्धयेष तद्यदेष तदेनमेतत् कृत्वा निदधाति ' ( श ० ६ | ७ | ३ | ११ ) | हंस इति पदेन हन्ति गच्छत्याकाश अन्तरिक्षसत् । एवेति व्युत्पत्त्या आदित्यो बोध्यते । स च शुचौ सीदतीति शुचिषद् | वसुर्वायुर्वै वसुः । वायुश्च होता अग्निः वेदिषद् वेद्यां सीदतीति । सोऽग्निर्वे होता आह्वाता देवानाम् प्राणरूपेणायं । सर्वेषां भूतानामेषोऽग्निरतिथि- सीदतीति । ऋतसद् रतिथिवत् पूज्यः । दुरोणसद् दुरोणे विषये सीदतीति । नृषद् नृषु मनुष्येषु, सत्यजा, अद्रिजा ऋतं सत्यं तत्र सीदतीति ऋवसत् । व्योमसत् सर्वेषु व्योमसु सीदतीति । ऋतजा इत्यादिकं स्पष्टम्! अध्यात्मपक्षे - सार्वात्म्यविवक्षया काठकोपनिषदि भगवत्पादैरयं मन्त्रो व्याख्यातः । वसुः दयानन्दस्तु - ' हे प्रजाजनाः, यूयं यो हंसो दुष्टकर्महन्ता शुचिषु पवित्रेषु जानीयात् व्यवहारेषु तं सभाधीशं वर्तमानो राजानं सज्जनेषु निवस्ता तेषु निवासयिता वा ऋतं बृहद् ब्रह्मजीवश्चास्ति यस्तो । सार्वात्म्यविवक्षया परमात्मनो कृत्वा सततमानन्दत ' इति, तदपि न युक्तम्, अध्याहारस्य निर्मूलत्वात् तथापि शुचिषु दुष्ट कर्महन्तृत्वं न विरुद्धयते । यद्यपि सर्वव्यापी पवित्रेषु तदितरेषु च व्यवहारेषु सीदत्येव, धर्मस्थ तदभिव्यक्तिवैशेष्यात् शुचिषत्त्वं युक्तमेव । यो धर्मावकाशे सीदति सोऽन्तरिक्षसदित्यसङ्गतमेव ग्रहीता ग्राहयितेत्यपि न, सावकाशत्वं कथमित्यनुक्तेः । वायुरूपेणान्तरिक्षसत्त्वं तु श्रुत्यैवोक्तम् । होता सत्यस्य, सर्वव्यापकस्य सर्वत्र • निर्विकारस्य कर्तृत्वायोगात् । यो वेद्यां जगत्यां यज्ञशालायां वा सीदतीति, सङ्गतमेव अभ्यागतातिरिक्तस्य सर्वस्यैव सत्त्वोपपत्तेः । अतिथिपदस्य राज्यरक्षणाय यथासमयं भ्रमणकर्तेति त्वसङ्गतम् आकाशे सीदतीति तिथिनंयत्यादतिथिवत् पूज्योऽग्निः परमात्मा वा इत्येवार्थो युक्तः । दुरोणे सर्वषु प्रापके परमेश्वर एव सीदतीति चिन्त्यम्, दुरोणे कोणे त्रिकोणायां प्रकृतौ वा सीदतीति तु युक्तम्, व्योमवद् व्यापके गोजा इत्यप्य साम्प्रतम्, विशेषानुपपत्तेः । तथैव योऽपः प्राणान् जनयति गा इन्द्रियाणि जनयति सोऽब्जा सर्वजनकस्य कतिपयजनयितृत्वे विशेषानुपपत्तेः ॥ १४ ॥

पृष्ठ 170

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४ शुक्लयजुर्वेद संहिता

सीद् त्वं मातुर॒स्या उपस्थ॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।

मैना॒ तप॑सा॒ मार्चिषा॒भिशौचीर॒न्तर॒स्याएं शक्रज्यो॑ति॒विभा॑हि ॥ १५ ॥

[ अ ० १२ मन्त्रार्थ - हे अग्निदेवता, सम्पूर्ण ज्ञान के उपायों को जानने वाले आप माता के समान उखापात्र की गोद में बैठो, इसे अपने सन्ताप से दुःखी मत करो, ज्वाला से दीप्त मत करो । इस उखा के मध्य में स्थिर होकर आप निर्मल प्रकाश से विशेष दीप्तिमान् बनो ॥ १५ ॥

' उपतिष्ठते सीद त्वमिति ' ( का ० श्र ० १६।५।२२ ) | आसन्दी निधानानन्तरमुख्याग्निमुपतिष्ठते ऋचां त्रयेणेति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं सीद अवस्थानं कुरु | क्वेत्यपेक्षायामाह --मातुः मातृ-तुल्याया अस्या उखाया उपस्थे उत्सङ्गे । कीदृशस्त्वम्? विशानि सर्वाणि वयुनानि प्रज्ञानानि विद्वान् जानन् सर्वं वस्तुविषयकयाथात्म्यज्ञानवान् । किञ्च एनामुखां तपसा सन्तापेन माभिशोचीर्मा सन्तापय । अर्चिषा ज्वालया च माभिशोचीर् अत्यन्तं मा दीपय । तपः कार्यमचिः कारणम् । कार्येण भूयांस्तापः कारणेन त्वोषत् । तदुभयमपि कार्यकारणकृतं तापं मा कुवित्यर्थः । अस्यामुखायामन्तर्मध्ये शुक्रज्योतिर्निर्मलप्रकाशः सन् विभाहि विशेषेण दौप्यस्वेत्यर्थः, शुक्लकर्मसाधनज्योतीरूपं सद् विविधं दीप्यस्व वा । तत्र ब्राह्मणम् – ' अथैनमुपतिष्ठते । एतद्वा एनमेतल्लघूयतीव यदेनेन सहेति चेति चेमाल्लोकान् क्रमते तस्मा एवैतन्निते सायं ' ( श ० ६ | ७ | ३ | १३ ) । उख्याग्न्युपस्थानं विधत्ते - अथैनमुपतिष्ठत इति । ' सीद त्वं मातुरस्या उपस्थेऽन्तरग्ने रुचा त्व ७ शिवो भूत्वा मह्यमग्ने अथो सौद शिवस्त्वमिति शिवः शिव इति शमयत्येवैनमेतदहि ७ सायं तथो हैष इमाँल्लोकान् शान्तो न हिनस्ति ' ( श ० ६ | ७ | ३ | १५ ' । प्रसन्ना कण्डिका । --अध्यात्मपक्षे - हे अग्ने परमात्मन् ज्ञानाग्ने, त्वमस्या बुद्धेरुपस्थे उत्सङ्गे सीद तिष्ठ स्वरूपेण संस्कारात्मना च स्थिरो भव । किं कुर्वन्? विश्वानि सर्वाणि वयुनानि प्रज्ञानविषयान् विद्वान् जानन् प्रकाशयन् । एनां बुद्धि तपसा श्रमेण अचिषा ज्वालया शोकेन माभिशोचीर माभितापय, ज्ञानेन शोकमोहापगमप्रसिद्धेः । त्वमस्यां बुद्धौ शुक्रज्योतिः शुक्रस्य शुद्धस्य ब्रह्मणो ज्योति: प्रकाशोऽज्ञानापगमो यस्मात् तादृशो भूत्वा विभाि सदा दीप्यस्व | दयानन्दस्तु - ' हे अग्ने, त्वमस्यां मातरि सत्यां विभाहि प्रकाशितो भव । शुक्रज्योतिः शुक्रं शुद्धाचरणं ज्योतिः प्रकाशो यस्य सः । विद्वान् अस्या भूमेरिव मातुरुपस्थे समीपे सीद तिष्ठ । अस्याः सकाशाद् विश्वानि वनानि प्रज्ञानानि प्राप्नुहि । एनामन्तर् अभ्यन्तरे तपसा सन्तापेन अर्चिषा तेजसा माभिशोचीः शोकयुक्तां मा कुर्याः । किन्त्वेतच्छिक्षां प्राप्य विभाहिं ' इति, तदप्यस्पष्टमेव, केयं मातेत्यनुक्तेः । न च लौकिकी मातैव सा, तस्यास्तत्प्रदानाप्रसक्तेः । शिक्षा च तस्या एव चेत्, वहि गुरूपसदनवैयर्थ्यापत्तिः । अध्याहाराश्च निर्मूला एव ॥ १५ ॥

अ॒न्तरि॑ग्ने रु॒वा त्वमु॒खाया॒ः सद॑ने॒ स्वे ।

तस्या॒स्त्वधि॑ हर॑सा॒ तप॒न् जात॑वेदः शिवो भ॑व ॥ १६ ॥

मन्त्रार्थ - हे अग्निदेव, आप अपनी दीप्ति से इस उखापात्र के मध्य में अपने घर के समान ही प्रज्ज्वलित होकर रहिये । हे सबको जानने वाले, आप अपनी ज्योति से तपते हुए उखापात्र के लिये कल्याणकारी बनिये ॥ १६ ॥