वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 181–190

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 181–190

पृष्ठ 181

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 181 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २६-२७ ] वेदार्थ पारिजातभाष्यसहिता १४५ सू ० ६।१।११५ ) ६ । ४ । १५४ ) इति तृचो लोपे छान्दस ईलोपे वस्य इति रूपम् । ' प्रकृत्यान्तः लोट पादमव्यपरे । तं यजमानं ' ( प्रतरं पा ० प्रकृष्टतरं वसीयः इति वस्यो अच्छेत्यत्र सन्ध्यभावः । यद्वा तं प्र नयसीति प्राप्ते छान्दसो सुखं च अभिनय सर्वतः प्रापय । स्थानं वस्तृतमं स्थानम् उत्तमं लोकं प्रनय प्रापय । अच्छ आभिमुख्येन लोकमागच्छत्यशोकमहिमं सुम्नं तस्मिन् वसति कीदृशं सुखम्? देवभक्तं देवसेवितं देवयोग्यं सुखं प्रापयेत्यर्थः, ' स शाश्वतीः समाः ' ( बृ ० उ ० ५। १० ) इति श्रुतेः । हे भद्रशोचे भद्रदी अध्यात्मपक्षे - हे श्रीरामरूपाग्ने! इत्यादि पूर्ववदेव व्याख्येया कण्डिका । आहोस्विद् कृणोति देवेभ्य इति शेषः । ज्ञानाग्ने, यस्ते तुभ्यं त्वत्प्राप्त्यर्थम् अद्य अस्मिन् काले घृतवन्तमपूपं पुरोडाशं प्रणय प्रेरय । कीदृशम्? वस्यः, हे यविष्ठ युवतम तं प्रतरं प्रकृष्टतरं सुम्नं ब्रह्मात्मकं सुखम् अच्छाभिप्राप्तुं सम्बन्धः । उत्तमं ब्रह्मात्मकं निवासस्थानं देवैरपि सेवितम् अच्छाभिप्राप्तुं प्रणय प्रेरयेति -बहुघृतं विद्यते यस्मिंस्तम् दयानन्दस्तु – ' हे भद्रशोचे यविष्ठ देवाग्ने विद्वन पूरुष, सेवितम् यस्ते तव अपूपम् घृतवन्तं अच्छ कृणवत् कुर्यात् तं प्रतरं अभिसुम्नं सुखस्वरूपं वस्योऽतिशयितं वसू तद् देवभक्तं विद्वद्भिः प्राप्तत्वात् तद्विधानायोगात् । प्रतरं पाककर्तारं त्वमद्य प्रणय ' इति, ' तदपि तुच्छम् रागास्पदत्वेन तस्य स्वयं ॥ पाककर्तारमित्यपि निर्मूलम् । प्रणयेत्यस्य प्राप्तो भवेति हिन्दीव्याख्यानमप्यसङ्गतम् ॥ २६ आ तं भेज सौश्रवसेष्व॑ग्न उक्थ उक्थ आज शस्यमा॑ने । Cl प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य॒ज्जा॒तेन॑ भि॒नद॒दुज्जनित्वैः ॥ २७ ॥

उपस्थित रहें । प्रत्येक उक्थ मन्त्रार्थ अग्नि का प्रीतिपात्र -- है अग्निदेव, उस यजमान की कीर्ति को बढ़ाने वाले यज्ञकर्म में आप को बढ़ावें, उसे सूर्य का और काण्ड में स्तोत्र, शस्त्र आदि को सविधि सम्पन्न कर उसकी प्रीति बनायें, उसे पुत्र प्रदान कर उसके वंश की वृद्धि करें ॥ २७ ॥

तानि सुश्रवसानि तान्येव सौश्रवसानि हे अग्ने, सौश्रवसेषु श्रव एव श्रवसम, सुष्ठु शोभनं श्रवसं आभजसि येषां । यद: स्थाने तदो वृत्तिः, लट: स्थाने तेषु साधुश्रवणीयेषु यज्ञादिकर्मसु तं यं यजमानम् आभज येषां तानि सुश्रवांसि तान्येव सौश्रवसानि तेष्विति लोटो वृत्तिरर्थसम्बन्धात् । सुष्ठु शोभनं श्रवो यशो च शस्त्रे शस्यमाने यमाभजमि आसेवसे, स वा व्युत्पत्तिः । तेष्वेव कर्मसु उक्थे उक्थे निष्कैवल्ये प्रउगादौ भवति । विभक्तेराकारः प्रकृतेरिकारलोपश्च यजमानः सूर्ये सूर्यस्य प्रियो भवति, अग्ना अग्नेश्च प्रियो उद्भिनत्ति, सम्पादयतीत्यर्थः । जनित्वैः छान्दसः । किञ्च, उज्जातेन औरसपुत्रसङ्घातेन भिनदद् धर्मार्थकामान् अभ्युदयं प्राप्नोति । प्रजा यस्य स्वर्गयायिनी जनिष्यमाणैश्च पौत्रप्रपौत्रसंघैश्च उद्भिनत्ति वेदार्थाननुष्ठाय भवतीत्यभिप्रायः -- इत्युवाचार्यः । , तस्य इमानि हेतुत्वेन सम्बन्धीनि यद्वा हे अग्ने, सौश्रवसेषु सुष्ठु शोभनं श्रवः कीर्तिः निष्कैवल्ये सुश्रवः प्रउगादिरूपे तत्तच्छस्त्रे शस्यमाने यागादिकर्माणि सौश्रवसानि तेषु । उक्थे उक्थे तेष्वेवकर्मसु कुर्वित्यर्थः । आभजेति द्विरुक्तेर्वाक्यद्वयं सति तं देवभक्तं यजमानं आभज सर्वतः सेवस्व निरन्तरं कर्मानुष्ठायिनं । अयं यजमानः सूर्ये । सूर्यस्य प्रियो भवाति भवति । कर्तव्यम् - कर्मसु प्रेरयेत्येकं वाक्यम्, तत्तच्छस्त्रे प्रेरयेत्यपरम् । तथा जातेन उत्पन्नेन औरसपुत्रेण उद्भिनदत् लडर्थे लेट् । अग्नौ अग्नेरपि प्रियो भवति । ङसो हादेशः १ ९

पृष्ठ 182

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 182 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६ शुक्लयजुर्वेदसंहिता [ अ ० १२ । तथा जनित्वैः जनिष्यमाणैश्च उद्भिनदत् । उदमुदयं वृद्धिमाप्नोतु । लोपेऽडागमे च उद्भिनददिति रूपम् । ' कृत्यार्थे तवैकेन् केन्यत्वनः ' ( पा ० सू ० ये जनिष्यन्ते ते जनित्वाः 1 तैः । भविष्यदर्थे औणादिक इत्वप्रत्ययः ३।४।१४ ) इति स्वन्प्रत्यय इति हलायुधः । देवभक्तं यजमानम् अध्यात्मपक्षे --- हे अग्ने श्रीराम, यः सौश्रवसेषु यागादिकर्मसु निष्ठावान् च प्रवृत्तः शस्यमाने तं तत्तच्छस्त्रे तमाभज, आभज अभीष्टप्रदानेन आसेवस्व । उवथे उक्थे निष्कैवल्यप्रगाथादिरूपे शस्त्रादिषु प्रेरितः सूर्ये सूर्यस्य अग्ना कर्मसु शस्त्रेषु च प्रेरय | n वं त्वया सेवितस्त्वदाराधनलक्षणेषु, ' कर्मसु यस्यास्ति भक्तिर्भगवत्य किञ्चना सर्वैर्गुणैस्तत्र अग्नेश्च तदुपलक्षितानां सर्वेषामपि देवानां प्रियो भवति । तथा जातेनोत्पन्नेन ज्ञानादिना तथा समासते सुरा: ' ( भा ० पू ० ५।१८ १२ ) इति श्रीमद्भागवतोक्तेः च उदमभ्युदयं वृद्धि प्राप्नोत्वित्यर्थः । जनित्वेर्जनिष्यमाणैश्च शान्तिदान्त्यादिभिः " उद्भिनदद् ऐहिकमामुष्मिकं श्रवांसि सुश्रवांसि तेषु भवस्तेषु दयानन्दस्तु - ' हे अग्ने विद्वन, त्वं यः सौश्रवसेषु शोभमानानि उक्थे वक्तुं योग्ये योग्ये व्यवहारे प्रियः कान्तः सूर्येषु वर्तमानस्तमाभज सेवस्व । यः शस्यमान उक्थे भवेद् उद्भिनदद् भिन्द्यात् तं त्वमाभज ' स्तोतृष भवे अग्नौ च प्रियः सेवनीयो जातेन जनित्वैः सहोद्भवति शस्यमाने यः इति, तदप्यपेशलम्, असङ्गतेः, शोभनधनादिषु यो वर्तमानस्तमाभजेत्यस्याभिप्रायानिरूपणात् इत्यंशस्य वैयर्थ्यापत्तेः । प्रियपदस्य प्रीतिकरोऽर्थं प्रियः प्रीतिं करोतीत्यनेनैवोपपत्तौ वक्तं योग्ये योग्ये तदतिरिक्तार्थत्वे मानाभावात् । अग्ना इत्यस्य इत्यपि चिन्त्यम्, उक्थपदस्य वैदिकेषु निष्कैवत्यादिषु रूढत्वेन निरर्थकमेव, जातानां जनिष्यमाणानां अग्निविद्यार्थतापि निर्मूलेव । जातेन जनिष्यमाणः सहोद्भवतीत्यपि वर्तमानत्वे सहभावासम्भवात् ॥ २७ ॥

त्वाम॑ग्ने॒ यज॑माना अन न विश्वा वसे दधिरे वार्याणि ।

त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥ २८ ॥

इसे दिन में वरणीय सम्पूर्ण धनधान्य, मन्त्रार्थ - हे अग्निदेवता, यह यजमान आपकी सेवा में लगा हुआ है । यज्ञ - पल द्वारा आपकी सेवा करने की इच्छा से गो- सुवर्ण आदि ऐश्वर्य से आप सम्पन्न करें, यह यजमान आपके साथ ॥ में देवयान मार्ग का सेवन करे ॥ २८ बुद्धिमान् ज्ञानकर्मसमुच्चयकारी मनुष्यों के समान रविमण्डल के मध्य अहन्यहनि विश्वा विश्वानि वसु वसूनि हे अग्ने, त्वां यजमाना अनुद्यून् अन्वहम् । शब्दो? दिनवाची वार्याणि वरणीयानि ॥ कोदृशा यजमानाः? त्वया गोभूहिरण्यादीनि दधिरे धारयन्ति । कीदृशानि तानि सह स्थितास्त्वां भजन्तस्ते व्रजं व्रजन्ति सुकृति -सह द्रविणं यज्ञफलमिच्छमानाः कामयमानाः । कि, त्वया | उशिजो मेधाविनः कर्मोपासन-नोऽनेनेति व्रजस्तं देवयानमार्ग गोमन्तम् आदित्यसम्बन्धिरश्मिसंयुक्तम् मध्येन ज्योतिर्मयं देवयानमा गं कृतवन्त इत्यर्थः । समुच्चयानुष्ठायिनः, विवत्र: विभिदुः । आदित्यमण्डलस्य त्वामनु त्वामेवानु गच्छन्तो वार्याणि वरणीयानि सायणरीत्या तु हे अग्ने, यजमानाः सर्वे द्यून् प्रतिदिनं दधिरे धृतवन्तः । त्वया सहावस्थितास्ते विश्वा विश्वानि सर्वाणि वसु वसूनि धनानि गोभूहिरण्यादीनि कर्माणि कामयमानां गोमन्तं गोभिर्युक्तं द्रविणमधिकं द्रव्यमिच्छमानाः काङ्क्षन्त उशिजो धनसाध्यानि व्रजं गोनिवासस्थानं विवविशेषेण वृतवन्त इत्यर्थः ।

पृष्ठ 183

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 183 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः २८-३० ] वदार्थ पारिजात भाष्य सहिता १४७ अध्यात्मपक्षे - हे अग्ने श्रीकृष्ण, यजमानास्त्वदाराधनपरायणा द्यून् प्रतिदिनं त्वामनु त्वामेवानुगच्छन्त-त्वद्भक्ता वार्याणि वरणीयानि ज्ञानध्यानादीनि विश्वानि बाह्यानि आध्यात्मिकानि च वसूनि धनाद्यानि धनानि त्वदर्चन- दधिरे धृतवन्तः । त्वया भगवता सहावस्थिता द्रविणं सर्वाधिक द्रविणमिच्छमानाः काङ्क्षन्त उशिजो लक्षणानि कर्माणि कामयमाना गोमन्तं गोभिर्युतं व्रजं प्रसिद्धं नन्दव्रजं गोलोकं वा विवव्रुविशेषेण वृतवन्तः । दयानन्दस्तु – ' हे अग्ने विद्वन्, यं त्वामाश्रित्य उशिजो मेधाविनो यजमानास्त्वया सह यान् अनुद्यून् दिनानि विश्वा सर्वाणि वार्याणि स्वीकर्तुमर्हाणि वसूनि द्रव्याणि दधिरे धरेयुः । द्रविणमिच्छमाना गोमन्तं प्रशस्ता गावः किरणा यस्मिंस्तं व्रजं मेघं विवव्रुर्वृणुयुः, तथाभूता वयमपि भवेम ' इति, तदपि यत्किचिन् निरर्थकत्वात्, लौकिकार्थस्य लौकिकमानैरेव वेद्यत्वेन तत्र वेदप्रमाणानुपयोगात् ॥ २८ ॥

अस्ता॑व्य॒ग्निर्नराधि॑ सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गो॒पाः ।

अ॒द्वेषे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥ २ ९ ॥

मन्त्रार्थ - मनुष्यों को सुन्दर सुख देने वाले, जठराग्नि के रूप में सबके हितकारी, सोमरक्षक अग्निदेवता ऋषियों के द्वारा स्तुति किये जाने पर द्वेषरहित होकर भूमि और द्युलोक के अधिष्ठात्री देवताओं का आह्वान करते हैं । हे देवताओं, हमारे निमित्त वीर पुत्र और सुन्दर ऐश्वयं प्रदान करो ॥ २ ९ ॥ ऋषिभिर्ऋत्विग्यजमानैः " अग्निः वैश्वानरो विश्वानरसम्बन्धी, अथवा विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितो जाठराग्निरूपेण । अस्तावि स्तुतः । कथंभूतोऽग्निः? नरां नराणां नुडागमाभावे गुणे च रूपम् सोमगोपाः । सुशेवः । सुष्ठु शोभनं शेवः सुखं यस्मादसी शोभनं सुखयिता । पुनः कथंभूतः? सोमगोपाः सोमं गोपायतीति तृतीयचतुर्थपादौ लिङ्गोक्तदेवत्यौ । यतोऽग्निः स्तुतः, अतोऽद्वेषे द्वेषरहिते द्यावापृथिवी द्यावापृथिव्यो शोभनपुत्रं हुवेम आह्वयामः, तदाश्रयकर्मप्राप्त्यर्थम् । हे देवा यूयमपि, अस्मे अस्मभ्यं रयिं धनं धत्त दत्त, सुवीरं च धत्त दत्त स्थापयत । अध्यात्मपक्षे - ऋषिभिर्वशिष्ठादिभिः अग्निः परमेश्वरः अस्तावि श्रीरामादिरूपेण स्तुतः । कथंभूतः? नरां नराणां मनुष्याणां सुशेवः सुष्ठु रीत्या सेवितुं योग्यः शोभनं यथा स्यात्तथा सुखयिता वा । वैश्वानरः कर्मणाम् ' विश्वेभ्यो नरेभ्यो हितः सर्वहितकारी । सोमगोपाः सोमरसोपलक्षितकर्मकाण्डादीनां रक्षिता, ' प्रचारज्ञश्च तदभिमानिनौ ( वा ० रा ० सु ० ३५।१२ ) इति वाल्मीकीय रामायणात् । अद्वेषे रागद्वेषादिविहोनी द्यावापृथिवी अस्मभ्यं रयि तद्वत् पूज्यौ वा सीतारामी हुवेम आह्वयामः । हे देवाः परमेश्वरांशभूताः, यूयम् लौकिकं अस्मे वा धनं दत्त । शमादिसम्पत्ति सुवीरम् अज्ञानादिनाशक्षयं ज्ञानरूपं पुत्रं धत्त स्थापयत । शोभनपुत्रोपेतं । दयानन्दस्तु – ' द्यावापृथिवीत्यनेन राजनीतिभूराज्ये गृहोते ' इति, तदपि निःसारम्, गौणार्थाश्रयणात् ॥ २ ९ ॥ • रथि राज्यलक्ष्मी सुवीरं शोभना वीरा यस्यामित्युक्तम्, तदपि यत्किञ्चित्, राज्यश्रियो वीरलभ्यत्वात्

स॒मिधा॒ग्नं॑ि दे॒वस्यत घृ॒तैर्बोष॑य॒ताति॑िथम् । आस्मि॑न् ह॒व्या जुहोतन ॥ ३० ॥

मन्त्रार्थ - हे ऋत्विजों, तुम लोग समिधा से अग्नि का पूजन करो । घृत की आहुति देकर अतिथि के रूप में उपस्थित पजनीय अग्नि को प्रज्वलित करो । इस प्रज्वलित अग्नि में नाना प्रकार की आहुतियां दो ॥ ३० ॥

पृष्ठ 184

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 184 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४८ शुक्लयजुर्वेदसंहिता [ अ ० १२ अथ वनवाहनसंज्ञकं कर्माह - ' प्रागनः कृत्वोख्यस्योत्तरतः समिदाधान समिधाग्निमिति ' ( का ० श्री ० १६।६।१५ ) । उख्याग्नेरुत्तरस्यां दिशि प्रागीषं शकटं संस्थाप्य यजमानस्तत्रस्थे उख्येनो वनीवाहनं समिधमाते समिधाग्निमिति मन्त्रेण । अत्र वनीवाहने सर्व कर्म यजमान एव स्वयं कुर्यात्, नाध्वर्युः । विरूपाक्षदृष्टा आग्नेयी गायत्री तृतीयाध्याये प्रथमकण्डिकारूपेण व्याख्याताऽपि पुनर्व्याख्यायते । हे ऋत्विग्यजमानाः, एनमग्नि समिधा दुवस्यत परिचरत । घृतैरेतस्येष्टेरतिथिमिवैतं बोधयत प्रबुद्धं कुरुत । ततश्चास्मिन् हव्या हव्यानि आ जुहोतन साकल्येन जुहुत । अत्र ब्राह्मणम् -'वनीवाह्येताग्नि विदित्याहुः । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवाश्चक्र-मचरञ्छालमसुरा आसंस्ते देवाश्चक्रेण चरन्त एतत्कर्मापश्यंश्चक्रेण हि वै देवाश्चरन्त एतत्कर्मापश्यंस्तस्मादनस एव पौरोडाशेषु यजू, ष्यनसोऽग्नी ' ( श ० ६ ८ १११ ) । तत्रोख्याग्नेर्गार्हपत्यं प्रत्यनसा प्रापणं विधास्यंस्तदुपोद्घात-माह - वनीवाह्येताग्निमित्यादिना । अग्निचयन प्रदेश प्रापणीयाग्नि बिभ्रद् यजमानो वनोवा ह्येत अनसा तमुख्याग्नि भृशं वाहयेद् इत्याहुः पूर्वमहर्षयः । वहतेर्यङन्तस्य रूपम् | अभ्यासस्य नीमागमश्छान्दसः । तमभिप्रायं पूर्ववृत्तान्तमुखेन दर्शयति-- देवाश्चेति । ते देवाश्चक्रमचरन् चक्रेणाचरन्नित्यर्थः । असुरास्तु शालं चक्रव्यतिरिक्तशालसाधना अभवन्नित्यर्थः । ते देवाश्चक्रेण चरन्त एतद् उख्याग्निप्रणयनलक्षणं कर्मापश्यन् । तस्मात् पौरोडाशेषु कर्मसु अनस एव यजूंषि मन्त्राः सन्ति । तथा अग्नौ अग्निचयनेऽप्यनस एव यजूंषि । ' स यो वनीवाह्यते । देवान् कर्मणेति देव हास्य कर्म कृतं भवत्यथ यो न वनीवाह्यतेऽसुरान् कर्मणैत्य-सुर्य हास्य कर्म कृतं भवति ' ( श ० ६ | ८ | ११२ ) । औपोद्धातिकं दर्शयति । स यो वनीबाह्यत इति । भृशमनसा वाह्येत् तद्वनीवानलक्षणेन कर्मणा देवान् एति देवानामाचरणमनुकरोतीत्यर्थः । अथ यो न वनवाह्यत इत्यादेरयमर्थः -- वनोवाहनमकृत्वा शालायामेवाग्नि निष्पादयेत् तदा तत्कर्म असुरेभ्यो हितं भवति । स यदहः प्रयास्यन् स्यात् । वदहरुत्तरतोऽग्नेः प्रागन उपस्थाप्याथास्मिन् समिधमादधात्येतद्वा एनं देवा एष्यन्तं पुरस्तादनेनाप्रीणनेवया समिधा तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन प्रीणात्येतया समिधा ' ( श ० ६२८/११५ ) | अग्नेगर्हिपत्यचयनदेशं प्रति प्रणयनप्रयोगमाह - स यदहरिति । यस्मिन्नहनि दीक्षां समाप्य चितिप्रदेशं प्रयास्यन् स्यात्, तदोख्याग्नेरुत्तरतः प्राग् अन उपस्थाप्य अस्मिन् उख्याग्नो समिधमादध्यात् । एतद्विषयकं कात्यायन-वचनमुपरिष्टादुद्धृतम् । एतत्प्रशंसति एतद्वा एनामिति । यथा लोके प्रयास्यन्तं भोजयित्वा प्रस्थापयति, तत्स्थानीयमिदं समिदाधानमिति स्तुतिः । ' समिधाग्नि दुवस्यतेति । समिधाग्नि नमस्यतेत्येतद् घृतैर्बोधयता तिथि-मास्मिन हव्या जुहोतनेति घृतैरह बोधयतातिथिमो अस्मिन् हव्यानि जुहुतेत्येत बुद्धवत्येत्यायं ह्येनमेतद्बोधयति ' ( श ० ६ | ८ | ११६ । तत्र दुवस्यतेत्येतद् व्याचष्टे -- समिधारित नमस्यतेत्येतदिति । बोधयतेति यद् बोद्धलिङ्गमस्ति तस्य तात्पर्यमाह -- इत्यायं ह्येनमेतद् बोधयतीति । इत्यायै गमनायेत्यर्थः । अध्यात्मपक्षे - हे भक्ताः, एतं वेदवेदान्तवेद्यर्माग्नि परमात्मानं समिधा समिदुपलक्षितेन पत्रपुष्पफलादिना दुवस्यत परिचरत । अतिथिमिव पूज्यमेनं घृतै रागविशेषैर् एतं बोधयत अनुग्रह बुद्धघुपेतं कुरुत । ततश्चैतस्मिन

हव्या हव्यानि समर्पणीयानि नैवेद्यानि जुहोतन समर्पयत ।

दयानन्दस्तु - ' समिधाग्निमिवोपदेशकं सेवध्वम् ' इत्याह तच्च निर्मूलमेव ॥ ३० ॥

उदु॑ त्वा॒ विश्वे॑दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । ५ स नो॑ भव शिवस्त्व सुप्रतको वि॒भाव॑सुः ॥ ३१ ॥

पृष्ठ 185

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 185 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ३१-३२ ] वेदार्थ पारिजात भाष्य सहिता १४ ९ वृत्तियों के द्वारा आपको मन्त्रार्थ - हे अग्निदेवता, आप सम्पूर्ण प्राणरूप देवता हो, उद्यम में प्रवीण बुद्धि वाले को आप हमारे लिये कल्याण-ऊँची धारणाएँ प्राप्त हों । ऊँची धारणा और सुन्दर मुंह वाले, बीप्ति रूप घन कारक बनें ॥ ३१ ॥

' सासन्दीकमुद्यम्योदु त्वेति दक्षिणतोऽनसि करोति ' ( का ० श्री ० १६ । ६ । १६ ) | सूत्रार्थ आसन्दी: सहित । ' स्थाल्यां मुख्याग्निमुद्धृत्य गार्हपत्यं अनसो दक्षिणतोऽवस्थितो यजमानः सासन्दीकमग्निमनसि पूर्वभागे स्थापयेदिति निदध्यादिति च ' उदु त्वेति ' पश्चात् ' ( का ० श्र ० १६ ६ । १७ । गार्हपत्यमग्नि स्थाल्यां निधाय अनसि , विश्वे पश्चाद् सर्वे देवाः प्राणरूपाः, चित्तिभिर् मन्त्रेण । तापसदृष्टा आग्नेयी अनुष्टुप् । मन्त्रार्थस्तु – ' हे अग्ने स उद्धार्यमाणस्त्वं नोऽस्माकं शिवः शान्तो उद्यमन कुशलाभिर्धी वृत्तिभिः, उद् ऊर्ध्वमेव त्वां भरन्तु धारयन्तु सुमुखो । भव । विभावसुः विभायाः प्रभायाः भव । सुप्रतीको भव सुष्ठु शोभनं प्रतीकं मुखं यस्य सः, भृञो भौवादिकस्य रूपम् । उकारः वसुर्वासयिता, विभा दीप्तिरेव वसु धनं यस्य सः, इति वा भव । पादपूरणार्थः । विश्वे वा एतमग्रे अत्र ब्राह्मणम् —'अथैनमुद्यच्छति । उदुत्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति तदा चित्तं भवति देवाश्चित्तिभिरुदभरन्नेतद्धघेषां तदा चित्तमासीत्तथैवैनमयमेतच्चित्तिभिरुद्भरत्येतद्वयस्य बन्धुस्तं दक्षिणत उदवमादधाति तस्योक्तो स नो भव शिवस्त्व १ ९ सुप्रतीको विभावसुरिति तथैव यजुस्तथा पार्श्वतो वा व्रजेत् ' ( श ० ६।८।१।७ ) । बन्धुः स्थाल्यां गार्हपत्य समुप्यापरमादधाति स यदि कामयेतोपाधिरोहेत् । तच्च धारणामासन्दीसहितम्, ' सासन्दीक-अथेन मुच्छतीति । अनस उपरि उख्याग्नि स्थापयितुमूर्ध्वं धारयेत् व्याचष्टे -- एतद्ध्येषामिति । एषां मुद्यम्य ' ( का ० श्रो ० १६ / ६ / १६ ) इति सूत्रात् । चित्तिभिरित्येतद् उद्भरणमेव चित्तं चेत्तव्यमासीत् । तथैव देवानां चित्तिभिर्ज्ञानैरुद्भरणं कुर्वतां तदा उद्धरणकाले एतद् एतद् उद्धरणमेव चित्तं भवति । देववदेव यजमानोऽपि चित्तिभिर् उद्धृतवान् भवति } अस्यापि यजमानस्य , त्वाम् उद् ऊर्ध्वं अध्यात्मपक्षे - हे अग्ने परमेश्वर, विश्वे सर्वे देवास्त्वदंशभूताः, चित्तिभिः चेतोवृत्तिभिः नोऽस्माकं शिवः कल्याणरूपः हृदये ब्रह्मरन्ध्रे वा भरन्तु धारयन्तु । हे अग्ने परमेश्वर प्रभाया , सर्वेरुद्धार्यमाणस्त्वमेव वसुर्वासयिता धारयिता च भव । सुप्रतीकः सुमुखो विभावसुविभायाः स्वस्वरूपभूतायाः -सह उदु भरन्तु स विभावसुः दयानन्दस्तु – ' हे अग्ने विद्वन् 7 यं त्वा विश्वे देवाः, चित्तिभिविज्ञानैः यं विद्वांसं विद्वांसो भरन्ति ज्ञानैः स उपदेशको सुप्रतीकश्च त्वं नः शिव उपदेशको भव । इति, तदपि तुच्छम् उपदेशकार्थकता निर्मूलैव ॥ ३१ ॥

भवत्विति निरर्थकमेव, विदुषि विज्ञानानपेक्षणात् । शिवपदस्य

प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शिवेभिरचिभिष्ट्वम् ।

बहद्भिर्भानुभि॒र्भासन् मा हिंसीस्तन्वा प्रजाः ॥ ३२ ॥

होकर हमारे यहाँ आइये । उज्वल किरणों से मन्त्रार्थ - हे अग्निदेव, आप मंगलयुक्त ज्वालाओं से प्रकाशमान ॥ ३२ ॥

किसी प्रकार की पीड़ा मत दीजिये प्रकाशमान् शरीर वाले आप हमारे प्रजा पुत्र आदि को ) । पूर्वमवस्थापितशकटे ' अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ् यात्वा यथार्थम् ' ( का प्राचीं ० श्री गत्वा ० १६।६।१८ यथार्थं प्रयोजनवन्तं देशं गच्छेदिति गार्हपत्यस्य पश्चिमे भागे तूष्णीं वलीवदौ संयोज्य प्रेदिति मन्त्रेण

पृष्ठ 186

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 186 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० शुक्लयजुर्वेद संहिता [ अ ० १२ सूत्रार्थः । मन्त्रार्थस्तु – हे अग्ने, शिवेभिरचिभिः शान्ताभिज्वलाभिः ज्योतिष्मान् प्रकाशयुक्तस्त्वं प्रयाहि यजमानदेशं प्रयाहि । प्रेद् इत्यत्र इत् पादपूरणार्थः । एवं बृहद्भिः प्रौढ, भानुभी रश्मिभिर्भासन् जगदवभासयन् तन्वा स्वकीयेन दाहकेन शरीरेण प्रजाः पुत्रादिका मा हिंसीर्मा नाशय । अध्यात्मपक्षे - हे अग्ने परमेश्वर श्रीराम, शिवेभिरचिभिः शान्तः सुखमयः प्रकाशज्योतिष्मान् विज्ञानवान् सन् तन्वा सन् भक्तानुद्धतुं प्रेत् प्रयाहि । किञ्च बृहद्भिर्महद्भिः, भानुभिः कान्तिभिः, भासन् दीप्यमानः प्रकाशमयेन शरीरेण प्रजा मा हिंसीः । दयानन्दस्तु --- ' हे अग्ने विद्वन्, त्वं यथा ज्योतिष्मान् सूर्यः शिवेभिरचिभिः पूजितं तन्वेत्यस्य बृहद्रर्महद्भिविद्या- नैरर्थक्यात्, प्रकाशगुणैरिदेव भासन् वर्तते तथा प्रयाहि तन्वा प्रजा मा हिंसी: ' इति, तदपि यत्किञ्चित् यथा सूर्यो भासन् वर्तते तथा प्रयाहीति दृष्टान्तदान्तानुपपत्तेः ॥ ३२ ॥

अक्रन्ददग्निः स्त॒नय॑न्नव॒ द्यौः क्षामा रेरिहद् वी॒रुधः॑ सम॒ज्ञ्जन् । स॒द्यो ज॑ज्ञानो वि हीम॒द्धो अख्य॒दा रोद॑सी भानुना॑ भात्य॒न्तः ॥ ३३ ॥

मन्त्रार्थ - हे अग्निदेव, आकाश में मेघ के समान गर्जना करते हुए आप पृथ्वी का आस्वादन करें । वृक्षों को सम्पन्न और प्रसिद्ध कर देता है । अंकुरित करता हुआ अग्नि प्रदीप्त होता है । जो भी उसके पास रहता है, उसे विज्ञान वह द्यावापृथिवी के मध्य में रश्मि द्वारा प्रकाशित होता है ॥ ३३ ॥

' अक्षे खर्जत्य क्रन्ददग्निरिति जपति ' ( का ० श्र ० १६ / ६ / २० ) । अक्षे शब्दं कुर्वति अक्रन्ददग्निरिति मन्त्रं पुनः जपेत् । इयं कण्डिका ( १२।६ ) स्थले व्याख्याता । अत्र सूत्रकारेण जपार्थमस्याः पुनरुपादानात् । दक्षिणमग्रेऽथ संहितायां सव्यमेवं पाठाद् ब्राह्मणेन व्याख्यानाच्च पुनरुदाह्रियते ब्राह्मणम् । ' अथानड्वाही युनक्ति दिगग्नेः स्वामेव तद्दिशमनु देवत्रेतरथा मानुषे सयां कां च दिशं यास्यन् स्यात् प्राङेवाग्रे प्रयायात् प्राची हि चेद् देवत्रा प्रयाति ' ( श ० ६ | ८ | १ | ८ ) । अनस्यनडुहोर्योजनं तत्क्रमं चाह - अथानड्वाहाविति । यजनदेशस्य एवमुक्तक्रमेण यत्र कुत्रचिद-देवेषूचितं भवति । इतरथा सव्यं प्रथमं युनक्ति चेत्, मानुषे मानुष्ये तद्योग्यमित्यर्थः कां चेति ॥ देवानां दिग्व्यवस्थाकाले वस्थितत्वेऽप्यादी प्राङ्मुखो यायादिति नियमं सार्थवादं विधत्ते - सयां दिगग्निर्देवता ' इति हि अग्निना प्राग्दिक्परिग्रहात् ' प्राची हि दिगग्नेरित्युक्तम् ' ( श ० ६ | ३ | ३ | २ ) । ' प्राची इति श्रुतौ । तस्मादनसः तैत्तिरीयकप्रसिद्धिः ' प्राची दिशां वसन्त ऋतूनामग्निर्देवता ' ( तै ० सं ० ४ | ३ | ३ | १ ) प्राक् प्रवर्तनम् । ' प्रेदग्ने ज्योतिष्मान् याहि । शिवेभिरचिभिष्ट्वमिति प्रेदग्ने त्वं ज्योतिष्मान् याहि शिवेभिचिभिर्दीप्य- हि सीरात्मना. मानैरित्येतद् बृहद्भिर्भानुभिर्भासन् मा हि सीस्तन्वा प्रजा इति बृहद्भिरचिभिर्दीप्यमानैर्मा - प्रदग्न इत्यादिना । प्रजा इत्येतत् ' ( श ० ६ | ८ | १ | ९ ) । मन्त्रे पूर्वार्धस्य तात्पयं दर्शयन् अचिभिरित्येतस्यावयवार्थमाह शिवेभिरचिभिर्दीप्यमानैरिति । ' ऋच् स्तुतौ ' तौदादिकः । धातूनामनेकार्थत्वाद् दीप्तौ वृत्तिः । अस्मात् ' सर्वधातुभ्य इसिः ' इन् ' ( उ ० ४।११७ ) इति इन्प्रत्यये अचिरिति साधुः । अयं सान्तोऽपि - ' अचि शुचि पिच्छादिर्छादिभ्य । हे अग्ने, त्वं ( उ ० २ १० ९ ) इति प्रतिपादितं भवति । ' तन्वा ' इत्यस्य व्याख्यानमात्मनेति, शरीरेणेत्यर्थः ज्योतिष्मान प्रभूतज्योतिष्कः शिवेभिः मङ्गलैः, अचिभिरुपलक्षितः सन् प्रयाहि प्रगच्छ । तथा बुद्धिर्भानुभिः

पृष्ठ 187

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 187 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पारिजातभाष्यसहिता मन्त्रः ३३ - ३४ ] प्र प्रायमग्निर्भरतस्य॑ शृण्वे वि यत्सूर्यो न ----१५१ 1 बृहद्भाः को सुनता है । सूर्य के समान दीप्तिमान् होता मन्त्रार्थ - यह अग्नि हवि को धारण करने वाले यजमान के आह्वान अतिथि हमारा मंगल-का सामना करता है । देहसम्बन्धी हुआ अत्यन्त प्रकाशमान् होता है । यह संग्रामों में राक्षसों कारक यह अग्नि दीप्तिमान् होता है ॥ ३४ ॥

का ० श्र ० १६ ६ । २१ ) । वासो वसतिः । ' वासेऽवहरत्युद्धतावोक्षित उत्तरतः समिदाधानं प्र प्रेति ' । ततः ( प्र प्रायमित्युखयेऽग्नो समिधमादध्यादिति तत्रोत्तरस्यां दिशि पञ्चभूसंस्कारसंस्कृते देशेऽग्नि शकटादवतारयेत् स्थित एव भवति । यत्र वासस्तत्रैवावहरणं न प्राग्वसतेरिति । सूत्रार्थः । तेन विश्रामाद्यर्थे रथविमोचनेऽग्निरनसि भरतस्तस्य यजमानस्य शृण्वे शृणोतु, वशिष्ठदृष्टा आग्नेयी त्रिष्टुप् । अयमग्निर्भरतस्य भरति इति हविरिति भाः, सूर्यवद् भासमानः सन् बृहद् यथा स्यात्तथा आह्वानमिति शेषः । यद् यः सूर्यो न सूर्य इव । भाः भासत पूरुम्, प्रीणाति येनासौ पुरुपपूर्तिस्तम्, अभितस्थों वि विशेषेण रोचते दीप्यते । योऽग्निः पृतनासु संग्रामेषु दीप्यते, सोऽग्निरस्माकमतिथिर्भवतु । कथम्भूतोऽग्निः? सर्वतः करोति । तथा कृत्वा च स्तुतिभिर्दीदाय अत्यन्तं यो देवेभ्यो हितः । पुनः कथंभूतः? शिवः परममङ्गलरूपः । प्रजापतेर्वचनं शृण्वे शृणोति 1 । कथमेत-यद्वा योऽग्निः प्र प्र महता प्रकर्षेण भरतस्य सर्वभरणशीलस्य यत्सूर्यो न रोचते बृहद्धा इति । यद् यतः दध्यवसोयते प्रजापतेर्वचनं शृणोतीति चेत्, तत्राह श्रुतिः - वि विशेषेण दीप्यते । अथवा वियद् वियति समिदाधानानन्तरमेव सूर्यो न सूर्य इव बृहद्भा महादीप्तिविरोचते दीप्तिर्यस्यासौ महादीप्तिः सन् रोचते रोचमानश्च एतया आकाशे सूर्यो न सूर्य इव अयं बृहद्भा बृहती भा अभि तस्थौ सम्मुखं तिष्ठति, सम्मुखं तिष्ठ॑श्च समिधा आप्यायितः पृतनासु संग्रामेषु पूरुम् असुरराक्षसम् अतिथिः, अतिथिधर्मा नोऽस्माकं शिवो मङ्गलरूपः, दीदाय भृशं दीप्यते । यस्माच्च देव्यो देवसम्बन्धी ० प्रजा मा हिंसीः । यदवतं सत्रकारण ' अक्षे खर्जति ' ( का प्रकाशः, भासन् भासमानः, तत्वा शरीरेण अस्मदीया उत्सर्जेत् । अथैतद्यजुर्जवेदसूर्या वा एषा जाग्याक्षस्य श्री ० १६।६।२० ) इति, तदाह ब्राह्मणम् -'स यदाक्ष । उत्सर्जेद् ' ( श ० ६ ८ १११० ) अक्षध्वनौ प्रायश्चित्तमाह- इस यदेति तामेतच्छमयति तामेतद्देवत्रा करोति । अक्षसम्बन्धिन्या वाचोऽसूर्यत्वं कर्णकठिनत्वाद् वनं कुर्यात् तदा एतद् वक्ष्यमाणम् अक्रन्ददिति यजजपेत् असुर्यात्वं दूरीकृत्य देवत्रा देवेषु करोति । द्रव्यम् । तां वाचमेतेन अक्रन्ददिति पाठेन शमयित्वा सा वाग्भवति तद्यदग्नावाहितेऽक्ष ' यद्रवैतद् यजजपति । यस्मिन वै कस्मिश्चाहितेऽक्ष उत्सर्जति तस्यैव स्तन-उत्सर्जत्यग्नेरेव सा वाग्भवत्यग्निमेव तद्देवा उपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्यपमहयत्यक्रन्ददग्नि पुनः प्रशंसति - यद्वैवैतद्यजुरिति । यस्मिन् कस्मिंश्चित् नव द्यौरिति तस्योक्तो बन्धुः ' ( श ० ६ ८ | १ | ११ ) । सम्बन्धिनी सा वाग्भवति । अथ अग्नावाहि शकटस्योपरि आहिते अक्ष उत्सर्जेद ध्वनिं कुर्यात् तस्यैव आहितस्यैव अन्यदीयत्वपरिहाराय अग्निमेव देवा उपास्तुवन् अग्नेरेव सा स्यात् । यस्मादेवं तस्मात् तत् तेन मन्त्रपाठेन उपमहयति च । अत्र मन्त्रं विधाय तदपेक्षितं ब्राह्मणं उपामहयन् पूजितमकुवंस्तथैवैनमग्निमेतद् एतेन उपस्तौति बन्धुरिति ' क्रन्दतीव हि पर्जन्य: ' ( श ० ६ | ७ | ३३२ ) पूर्वोक्तमेवेत्यतिदिशति - अक्रन्ददग्निरिति । तस्योक्तो इत्यादिना उखाग्रहणप्रस्तावे उक्त इत्यर्थः ॥ ३३ ॥

शि॒वो न॑ः ॥ ३४ ॥

अ॒भि यः पूरुं पृत॑नासु त॒स्थौ दाय॒ दैव्यो॒ अति॑थः

पृष्ठ 188

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 188 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५२ शुक्लयजुर्वेदसंहितां | भ ० १२ तस्माद् प्रजापतेर्वचनं शृणोतीति युक्तमेव । ' प्रसमुपोदः पादपूरणे ' ( पा ० सू ० ८१६ ) इति प्रशब्दस्य द्वित्वम् । दीदायेति ' दोङ् क्षयै ' इत्यस्य लिटि रूपम् । धातूनामनेकार्थत्वाद् दीप्तो वृत्तिः । ' छन्दसि लुङ्लङ्लट ': ' ( पा ० सू ० ३ | ४ | ६ ) इति वर्तमाने लिट् । ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ १७ ) इति दीर्घः । अत्र ब्राह्मणम् - ' स यदि पुरा यसत्यं विमुञ्चेत । अनस्येवाग्निः स्यादथ यदा वसत्यं विमुञ्चे प्रागन उपस्थाप्योत्तरत उद्धत्यावोक्षति यत्रैनमुपावहरति तं दक्षिणत उदमुपावहरति तस्योक्तो बन्धुः ' ( श ० ६ ८ | १ | १२ ) । स यदि पुरा वसत्यं विमुचेतेति । वसत्यं वसत्याः, अग्निचयनस्थानात् पुरा मध्येमार्गं विमुञ्चेत शकटमिति शेषः । तदा सोऽग्निरनस्येवावस्थितः स्यात् । अथ उक्तवैलक्षण्येन । वसतिं यत्रैनमग्नि- प्राप्य विमुञ्चेत तदा प्रागनोऽनसः प्राग्देशे उपस्थाप्य उत्तरतस्तदुत्तरतो भूमिम् उद्धृत्यावोक्षति मुपावहरति अधः स्थापयति तं दक्षिणत उदयम् उपावहरति । तस्योक्तो बन्धुरिति । दक्षिणत उदगर्थंवाद उखार्थे मृत्पिण्डपरिग्रहप्रकरणे ' दक्षिणतो वा उदग्योनौ रेतः सिच्यते ' ( श ० ६ ४ | २ | १० ) इत्युक्त इत्यर्थः । ' अथास्मिन् समिधमादधाति । एतद्वा एनं देवा ईथिवा समुपरिष्टादन्नेनाप्रीणन्नेतया समिधा तथैवैनमयमेत- तस्यान्नत्वेन दीयिवा समुपरिष्टादन्नेन प्रीणात्येतया समिधा ' ( श ० ६ | ८ | १ | १३ ) । यथाग्निप्रणयनकाले ), एवमेव आसन्नस्याप्यन्नत्वेन समाधानं समिदाधानमुक्तम् ( अस्मिन्नेव ब्राह्मणे चतुर्थकण्डिकायाम् चयनदेशं कर्तव्यमित्याह - अथास्मिन् समिधमादधातीति । एतत्प्रशंसति - एतद्वा एनमिति । ईयिवांसं गतवन्तम् । गमनप्राक्कालमपेक्ष्य उपरिष्टादित्युक्तम् । अनेन इत्यस्य व्याख्यानम् - एतया समिधेति ) इति । एतदेव । सूचितं कात्यायनेन - ' वासेऽवहरत्युद्धतावोक्षित उत्तरतः समिदाधानं प्र प्रेति ' ( का ० श्री ० १६ | ६ | २१ ' प्र प्रायमग्निर्भरतस्य शृण्व इ ॥ प्रजापतिर्वै भरतः स ही सर्व बिर्भात वियत्सूर्यो न रोचते बृहद्रा इति वि यत्सूर्य इव रोचते बृहद्भा इत्येतदभि यः पूरुं पृतनासु तस्थाविति पूरुर्ह नामासुररक्षसमास तत्स्थापयति ' तमग्निः पृतनास्वभितष्ठो दीदाय देव्यो अतिथिः शिवो न इत्येतत्स्थितवत्या वसत्यं । ह्येनं अयमग्निर्भरतस्य ( श ० ६ | ८ | १ | १४ ) । समिदाधान मन्त्रं विदधद् विभज्य व्याचष्टे - प्र प्रायमित्यादिना प्रजापतेर्वचनं प्रशृण्वे प्रकर्षेण शृणोति सूर्यो न सूर्य इव बृहद् महद् भा भासमानो विरोचते दीप्यते च । यद्वा भा भासा बृहद् महान् योऽग्निः पूरुं पृतनासु संग्रामेष्वभितष्ठो पराबभूव पराजितवान् प्रजापतिर्वे स भरत दैव्यो देवसम्बन्धी, अतिथिर् अतिथिरूपः नः शिवः सन् दीदाय दीप्यते । भरतशब्दं व्याचष्टे --इति । तदुपपादयति - स हीदमिति । सूर्यो नेत्यत्र नशब्द उपमार्थं इति व्याचष्टे - वियत् सूर्य इव रोचत मन्त्रे इति । तृतीयपादं व्याचष्टे - पूरुह् नामासुररक्षसमासेति । पूरुनामकः सुरविरोधि रक्षोऽभूत् । अस्मिन् ' पृतनासु तस्थौ ' इति स्थितिः श्रूयते । तन्मुखेन मन्त्रं प्रशंसति - स्थितवत्येति । अध्यात्मपक्षे - अयमपरोक्षः प्रत्यक् चैतन्याभिन्नः परमेश्वरः श्रीरामो भरतस्य हविर्धारणवतो भक्तस्य भरताख्यस्य भ्रातुर्वा शृण्वे शृणुते आह्वानमिति शेषः । यद् योऽग्निः सूर्यो न सूर्य इव भा भासमानः सन् बृहद् यथा स्यात्तथा रोचते अत्यन्तं दीप्यते, योऽग्निः पृतनासु रावणादिसंग्रामेषु पूरुं सुरविरोधि राक्षसमभिलक्ष्य तस्थौ सम्मुखे तिष्ठति, देभ्यो देवसम्बन्धी अतिथिः, नोऽस्माकं शिवो मङ्गलरूपः सोऽग्निः श्रीरामः, दीदाय अतिशयेन दीप्यते । दयानन्दस्तु – ' हे राजप्रजाजनाः योऽयमग्निः सेनापतिः सूर्यवदत्यन्तप्रकाशयुक्तोऽतिप्रकर्षेण , अतिथिस्तद्वन्नित्यं सह रोचते, यो नः पृतनासु पूरुं पूर्णबलमुक्तं सेनाध्यक्षस्य समीपे सर्वप्रकारेण तिष्ठति, दैव्यो विदुषां प्रियः भ्राम्यमाणः शिवो मङ्गलदाता दीदाय विद्याधभी प्रकाशयेत् । यस्य भरतस्य सेवनयोग्यस्य राज्यरक्षकस्य

पृष्ठ 189

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 189 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

० ३४-३५ ] वेदार्थ पारिजातभाष्यमहिता १५३ विजयो विद्या च शृण्वे श्रूयेत, स लब्धलक्षः कुलीनः सेनाया योधयिताऽधिकत्तव्यो युष्माभि: ' इति तदपि यत्किचित्, अध्याहारबाहुल्यात् श्रुत्यर्थत्वेन श्रुतौ बलादारोपणाच्च । पूरुं पूर्ण बलसेनाध्यक्षमिति च चिन्त्यम्, निर्मूलत्वात् ॥ ३४ ॥

आपों देवः प्रति॑गृभ्णीत भस्मै॒तत् स्योने कृ॑णुध्वं सुरभा उ॑ लो॒के । तस्मै नमन्तां जनयः सपत्नीमतिवं पत्रं विभृताप्स्वनत् ॥ ३५ ॥

मन्त्रार्थ - - हे जलदेवताओ, इस भस्म को आप लोग ग्रहण करें, सुखकारक पुष्प, धूप आदि से सुवासित स्थान में इसको धारण करें । वरुण आपके अधिपति हैं । वृक्ष आदि को उत्पन्न कर उनमें अग्नि को प्रकट करने वाले हैं । उस रूप के मत्त हम नमन करते हैं । हे जलदेवता, उस भस्म को आप उसी प्रकार धारण करें, जैसे माता पुत्र को धारण करती है ॥ ३५ ॥

इतः प्रारभ्य दश कण्डिकाभिर्भस्माभ्यवहरणम् । ' पलाशपुटेनापो देवीरित्येकया ' ( का ० श्र ० १६ | ६।२६ ) । वनी वाहनानन्तरं तडागादिजलस्थानं गत्वा पलाशादिपत्रपुटेन सायंप्रातरुखायाः सकाशादुद्धृतं भस्म एकया आपो देवीरित्येतया ऋचा जले क्षिपेदिति सूत्रार्थः । अब्देवत्या त्रिष्टुप् । हे आपः देवी: देव्यो दीप्यमानाः, यूयं भस्म प्रतिगृभ्णीत स्वागतादिभिः प्रतिगृह्णीत । किव } स्वागतादिभिः स्वीकृत्य एतत् प्रतिगृहीतं भस्म स्योने सुखकरे सुरभी पुष्पधूपादिशोभनगन्धयुक्ते लोके स्थाने शय्यायां कृणुध्वं स्थापयत कुरुत वा । ' कृञ् हिंसायाम् ' स्वादिः । धातूनामनेकार्थत्वात् कृतौ वृत्तिः । उकारः समुच्चयार्थः पादपूरणो वा । सुपत्नीः सुपत्न्यः सुष्ठु शोभनः पतिर्वरुणरूपो यासां ताः रूपलावण्ययोवनालङ्कारवैदग्ध्यसम्पन्नाः । ' आपो वरुणस्य पत्नय आसन् ' ( तै ० ब्रा ० १ | १ | ३ | ८ ) इति तैत्तिरीयश्रुतेः । जनयो जनयन्त्युत्पादयन्ति वृक्षोत्पत्यादि द्वारा अग्निमिति जनयः । अग्नेर्जनन्य आपः । वाडवं वैद्युतरूपमग्नि प्रति अपां जननीत्वम् । ईदृश्यः शोभनपतिकाः सर्वस्योत्पादयित्र्य आपस्तस्मै भस्मरूपायाग्नये नमन्तां प्रीभवन्तु । अथवा जनयो जनयन्त्यस्यामिति जनयो जायारूपाः सुपत्न्य आपो नमन्ता-मग्निमुपतिष्ठन्तु, तमग्नि पालयितुं सावधाना भवन्त्वित्यर्थः । हे आपः, यथा लोके माता पुत्रं पोषयति, तद्वदेनं भस्मरूपमग्निमप्सूदकरूपासु युष्मास्ववस्थाप्य बिभृत पोषयत, पानभोजनवासोभिर्गोपायतेत्यर्थः । ' अथातो भस्मन एवाभ्यवहरणस्य । देवा वा एतदग्रे भस्मोदवपस्तेऽब्रुवन् यदि वा इदमित्थमेव सदात्मान-मभिसंस्करिष्यामहे मर्त्याः कुणपा अनपहतपाप्मानो भविष्यामो यद्यु परावप्स्यामो यदत्राग्नेयं बहिर्धा तदग्नेः करिष्याम उपतज्जानीत यथेदं करवामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाब तदब्रुवंस्तदिच्छत यथेदं करवामेति ' ( श ० ६ | ८ | २1१ ) | यदुक्तं प्राक् स यदहः सन्निवप्स्यत् स्यात् । तदहः प्रातरुदित आदित्ये भव प्रथममुद्वपति ' ( श ० ६ | ७ | ४ | १४ ) इति । तद्विधातुमाख्यायिकां वदन् प्रतिजानीते - अथातो भस्मन एवाभ्यव-हरणस्येति, मीमांसा क्रियत इति शेषः । देवाः खलु अग्रे पूर्व भस्म अग्नेः सकाशाद् उदवपन् ऊर्ध्वमपागमयन् । अनन्तरं ते परस्परमब्रुवन् यदि वा इदमुद्धृतं भस्म इत्थमेवान्यत्र प्रक्षेपमकृत्वा अनुद्धतप्रकारेणैव स्थितमात्मान-मग्नेः शरीरभूतं सन्तं शरीरं कृत्वेत्यर्थः । अभिसंस्करिष्यामहे तदा मर्त्याः कुणपा भस्मनो निर्जीवत्वाद्वयमपि कुणपाः शवसदृशा अनपहतपाप्मानो भस्मनः पापरूपत्वात् तत्संस्कारेणाप्यनपहतपाप्मानो भविष्यामः । यद्य यद्यपि परावप्स्यामो दूरे प्रक्षिपामस्तदा अत्र भस्मनि यद् आग्नेयं तद् अग्नेः सकाशाद् बहिर्घा करिष्यामः । एवं पक्षद्वयेऽपि दोषसम्भवाद् अन्यतरपक्षमनाश्रयमाणा यथेदं करवाम वत्प्रकारमुपजानीतेति तेऽब्रुवन् । एवमुक्त्वा २०

पृष्ठ 190

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 190 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५४ शुक्लयजुर्वेद संहिता [ अ ० १२ पुनरेवमब्रुवन् किमिति चेतयध्वमित्यस्य कोऽभिप्राय इत्याकाङ्क्षायां श्रुतिस्तटस्था सती ब्रूते - चितिमिच्छतेति वाव तदब्रुवन् । चितिर्ज्ञानं तदिच्छत इत्येवमब्रुवन् देवाः । पूर्वोदितं ' उप तज्जानीत ' इत्येतदुत्तरेण वाक्येनाभि-गृणाति - तदिच्छत यथेदं करवामेतीति । ' ते चेतयमानाः । एतदपश्यन्नप एवैनदभ्यवहरामापो वा अस्य सर्वस्य प्रतिष्ठा तद्यत्रास्य सर्वस्य प्रतिष्ठा तदेत्प्रतिष्ठाप्य यदत्राग्नेयं तदद्भघोऽधिजनयिष्याम इति तदपोऽभ्यवाहरंस्तथैवै नदयमेतदपोऽभ्यवहरति ' ( श ० ६८२ २ ) । ते चेतयमानाः कर्तव्यविषये बुद्धि व्यापारयन्त एतद् अपश्यन् । एतत् किं तत्राह - अप एवेदिति । अप्सु प्रक्षेपमेवापश्यन्नित्यर्थः । अस्य सर्वस्य जगतोऽदूध उत्पन्नत्वात् तदुपजीवनीयत्वाच्च आपः प्रतिष्ठा । तत् तस्माद् यत्राप्सु अस्य सर्वस्य प्रतिष्ठा तत्र एनद् भस्म प्रतिष्ठाप्य अत्र जलस्थे भस्मनि यद् आग्नेय-मस्ति पुनस्तद् अद्भयः सकाशाद् उत्पादयिष्याम इत्येवमपश्यन् । ' आपो देवी: । प्रतिगृभ्णीत भस्तत्स्योने कृणुध्व १ ९, सुरभा उ लोक इति जग्धं वा एतद्यातयाम भवति तदेतदाह स्रभिष्ठ एनल्लोके कुरुध्वमिति तस्मै मन्तां जनय इत्यापो वै जनयोऽद्भयो हीद सर्वं जायते सुपत्नीरित्यग्निना वा आपः सुपत्न्यो मातेव पुत्रं बिभृतास्वेनदिति यथा माता पुत्रमुपस्थे बिभृयादेवमेन द्विभृतेत्येतत् ' ( श ० ६८ २ ३ ) । इदानीमप्सु भस्मप्रक्षेप-मन्त्रं विधाय व्याचष्टे - आपो देवीरित्यादिना । उत्तरार्धे सुरभी कृणुध्वमित्यभिधानस्य तात्पर्यमाह जग्धं वा एतदिति । उदके निमग्नम् एतद् भस्म जग्धं भवति । एतद् यातयाम गतरसं भवति । तस्मात् प्रकृतमन्त्र-वाक्यमाह - स्रभिष्ठेऽतिशयेन सुरभी लोके कृणुध्वम् । तथा सत्ययातयाम भवति । जनय इति व्याचष्टे - आपो वै जनय इति । तदेव समर्थयते - अद्भुघो होदमिति । सुपत्नीरित्येतद् व्याचष्टे – अग्निना वा आपः सुपत्न्य इति । प्रसन्नमन्यद् ब्राह्मणम् । अध्यात्मपक्षे – हे आपः, व्यापनशीला देवी देव्यः यूयम् एतद् भस्म ज्ञानदीप्तिमत् प्रत्यक्चंतन्यं प्रतिगृभ्णीत प्रतिगृह्णन्तु वात्सल्यबुद्ध्या प्रतिगृह्य स्योने सुखकरे सुरभो घ्राणतर्पणे दिव्यपुष्पपरिमलाद्युपेते लोके स्थाने कृणुध्वं स्थापयत । तस्मै सुपत्नीः सुष्ठु शोभनाश्च ताः पत्न्यश्च सुपल्यः, अत्र सर्वत्र विभक्तिव्यत्ययः, रूपलावण्ययौवनालङ्कारवैदग्ध्यसम्पन्नाः, नमन्तामुपतिष्ठन्तु । यूयं च मातेव पुत्रं पानभोजनवासोभिर्बिभृत पालयत । यद्वा ज्ञानविज्ञानशमदमादिभिरेनत् पोषयत । दयानन्दस्तु - ' हे विद्वांसो मनुष्याः आपः पवित्रजलानीव सकलशुभगुणव्यापिकाः कन्याः देवीः दिव्यरूप-शीलाः स्योने सुसुखकारके सुरभी ऐश्वर्यप्रकाशके लोके द्रष्टव्ये पतीन् सुखिनः कुर्वन्ति ताः प्रतिगृभ्णीत स्वीकुर्वीत एताः सुखिनीः कृणुध्वम् । यदेतद् भस्मप्रदीपकं तेजोऽस्ति तस्मै याः सुपत्नीः शोभनाश्च ताः पत्न्यः सुपत्न्यः, ताः । जनयो विद्यासुशिक्षया प्रादुर्भूता नमन्ति ताः प्रति भवन्तोऽपि नमन्ताम् । उभये मिलित्वा पुत्रं मातेव एनद् अपत्यं बिभृत धारयत ' इति, तदपि यत्किञ्चित् तादृशसम्बोधने आप इत्यस्य कन्यार्थत्वे च मानाभावाद, अध्याहार बाहुल्यात्, गौणार्थाश्रयणाच्च, ' न विधौ परः शब्दार्थः ' इति मीमांसासिद्धान्तविरोधाच्च ॥ ३५ ॥

अ॒प्स्व॒ग्ने॒ सध॒ष्टव सौष॑धीरनं रुध्यसे । गर्भे सन् जा॑यसे॒ पुन॑ः ॥ ३६ ॥

मन्त्रार्थ --- हे भस्मीभूत अग्निदेव, जल में तुम्हारा स्थान है । वही भस्म जल से प्रकट होकर जो आदि के रूप में हमें प्राप्त होती है । है अग्निदेव, आप अरणि के मध्य में बार बार प्रकट होते हो ॥ ३६ ॥