वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 191–200

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 191–200

पृष्ठ 191

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 191 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९३६-३७ ] वेदार्थपारिजात भाष्यसहिता १५५ ' ततो द्वाभ्याम् ' ( का ० श्री ० १६।६।२७ ) । ततोऽनन्तरं पठिताभ्यां द्वाभ्यां ' अप्स्वग्ने ' ( १२।३६ ), ' गर्भो असि ' ( १२।३७ ) इत्येताभ्यामृग्भ्यां पत्रपुटेन द्वितीय वारमुख्याग्निभस्म अप्सु प्रास्यति । आग्नेयी गायत्री विरूपदृष्टा । अनन्तरोदितेन मन्त्रेण अप्सु स्थितं भस्म अतिथित्वेन संस्तुत्य अथेदानीं गायत्र्यनुष्टुब्भ्यां द्वाभ्यां मन्त्राभ्यामग्नेः सर्वगतत्वं प्रकाशयन् भस्माभ्यवहरणं निहृते । हे अग्ने अप्सु तव सधिः सह धोयतेऽस्मिन्निति सधिः स्थानम् तव योनिरित्यर्थः । स त्वमोषधीर्यवाद्या अनुरुध्यसे अनुरञ्जसि जाठराग्निरूपेण तत्स्वीकाराय, यद्वा ओषधिपरिणाममनु विपरिणमसे, अरण्योर्गर्भ स्थितः पुनः पुनर्जायसे । सौषधीरिति ' सोऽचि लोपे चेपादपूरणम् ' ( पा ० सू ० ६ १ | १३४ ) इति सुलोपे सन्धौ रूपम् । एवं सर्वत्र व्याप्त इति स्तुतिः । अत्र ब्राह्मणम् – ' अप्स्वग्ने सधिष्वेति । अप्स्वग्ने योनिष्ट वेत्येतत् सौषधीरनुरुध्यस इत्योषधीषोऽनुरुध्यते गर्भ सञ्जायसे पुनरिति गर्भे ह्येष सञ्जायते पुनः ' ( श ० ६ | ८ | २ | ४ ) | द्वितीयं मन्त्रं विधाय प्रशंसति -अप्स्वन इत्यादिना । हे अग्ने तव अप्सु सधिः सह धोयतेऽस्मिन्निति सधिः सहस्थानम्, तव योनिरित्यर्थः । इदानीं भवति, पश्चात्तु ओषधीस्त्वया परिपच्यमाना अनु त्वमपि ताभी रुध्यसे प्रतिबद्ध्यसे, तत्र निरुद्धो भवसोत्यर्थः । पूर्वपादे सधिशब्देन योनिविवक्षित इति व्याचष्टे - अप्स्वग्ने योनिष्टवेत्येतदिति । उपरितनपादद्वयस्य ब्राह्मणं स्पष्टम् । अध्यात्मपक्षे - हे अग्ने परमेश्वर विष्णो, अप्सु तव सधिः स्थानम्, नारायणरूपेण तव तत्र निवासात्, ' आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ ' ( म ० १ | १० ) इति स्मृतेः । स त्वमोषधोः व्रीहियवाद्या अनुरुध्यसे चन्द्ररूपेण पुष्णासि, ' पुष्णामि चोषधीः वृत्तिः सर्वाः । गर्भे सोमो सर्वप्राणि- भूत्वा रसात्मकः ' ( भ ० गी ० १५ १३ ) इति गोतावचनात् । धातूनामनेकार्थत्वाद् रुधेः पोषणे नामन्तः सन्नपि विद्यमानोऽपि रामकृष्णादिरूपेण पुनः पुनर्जायसे । दयानन्दस्तु – ' हे अग्ने अग्निरिव जीव, यस्त्वं सधिः सहनशीलः, अप्सु ओषधीः सोमलताद्या अनुरुध्यसे प्राप्नोषि स त्वं गर्भे स्थितः सन् पुनः पुनर्नायसे । इमावेव क्रमावुभौ स्त इति विजानीहि ' इति, तदपि यत्किचित् अग्निपदस्य जीवार्थत्वे मानाभावात् श्रुतिसूत्रविरोधाच्च ॥ ३६ ॥

गर्भो अस्योष॑धीनां गर्भो वनस्पतीनाम् ।

गर्भो विश्व॑स्थ भूतस्वाग्ने॒ गर्भो अ॒पाम॑सि ॥ ३७ ॥

मन्त्रार्थ -- हे अग्निदेव, आप औषधियों के गर्भ हो, सम्पूर्ण वनस्पतियों और प्राणियों के गर्भ हो । सम्पूर्ण जल आपके ही गर्भ में स्थित हैं ॥ ३७ ॥

तिस्रोऽनुष्टुभोऽग्निदेवत्याः । हे अग्ने, त्वमोषधीनां गर्भोऽसि, भेषजरूपरोषधिविशेषैरुत्पद्यमानत्वात् । वनस्पतीनां तरूणां गर्भोऽसि, अरण्यादिभ्यो जायमानत्वात् । विश्वस्य सर्वस्य भूतस्य प्राणिजातस्य गर्भोऽसि, जठराग्निरूपेण विद्यमानत्वात् । अपां गर्भोऽसि वाडववैद्युतादिरूपत्वात् । अत्र ब्राह्मणम् – ' गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसीति तदेनमस्य सर्वस्य गर्भं करोति ' ( श ० ६८ २०४ ) । तृतीयमन्त्रं विधाय स्पष्टार्थत्वात् संगृह्य तात्पर्यं दर्शयति - गर्भो असीत्यादिना, तनमस्य सर्वस्य गर्भं करोतीत्यन्तेन । मन्त्रार्थस्तुक्त एव ।

पृष्ठ 192

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 192 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५६ शुक्लयजुर्वेद संहिता [ अ ० १२ त्वयैव पोष्य-अध्यात्मपक्षे - हे अग्ने परमेश्वरं त्वमोषधीनां व्रीहियवादीनां गर्भोऽसि फलवन्तो , चन्द्रादिरूपेण ये ते वनस्पतयः स्मृताः ' माणत्वात् । त्वं वनस्पतीनां वटाश्वत्थप्लक्षादीनां न केवलम् ' अपुष्पाः गर्भोऽसि तत्राग्निरूपेण विद्यमानत्वात् । ( म ० ११४७ ) इति परिभाषितानाम्, किन्तु सर्वेषां तरुगुल्मवीरुदादीनां । यद्वा अन्तर्यामिरूपेण त्वमोषध्यादीनां विश्वस्य सर्वस्य भूतस्य प्राणिजातस्य गर्भोऽसि जाठराग्निरूपत्वात् श्रुतेः । समेषां गर्भोऽसि, सर्वान्तरत्वात् ' य आत्मा सर्वान्तर: ' ( बृ ० उ ० ३ | ४ | १ ) इति गिरति विनाशयति स दयानन्दस्तु हे अग्ने तत्तुल्य जीव, यतस्त्वमोषधीनां गर्भोऽसि गर्भो भवति , योऽनर्थान् । ओषधीनां सोमयवादीनां गर्भो गर्भो गुणाः । यदा हि स्त्री गुणान् गृह्णाति गुणाश्चास्या गृह्यन्तेऽथ वा गर्भश्चासि, तस्मात् त्वमजोऽसि ' वनस्पतीनामश्वत्थादीनां गर्भो विश्वस्य सर्वस्य भूतस्य उत्पन्नस्यापा प्राणानां उत्सूत्रत्वात् ॥ ३७ ॥

इति, तदपि तुच्छम् जीवस्यैकस्य परिच्छिन्नत्वेन सर्वंगतत्वायोगात्, स्वमजोऽसीत्यस्य

प्रसद्य भस्मना योनिमपश्च॑ पृथिवीम॑ग्ने ।

स॒सृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मान् पुन॒रासदः ॥ ३८ ॥

होकर, माता रूप जल के माहात्म्य से मन्त्रार्थ - हे अग्निदेव, आप भस्म के माध्यम से पृथ्वी और जल में व्याप्त तेजस्वी होकर फिर उस उखापात्र में विराजमान होइये ॥ ३८ ॥

' अनामिकया प्रास्तादादत्ते प्रसद्येति ' ( का ० श्री ० १६।६।२ ९ ) । प्रास्तादप्सु क्षिप्ताद् भस्मनः गायत्र्यो सकाशाद् । अनामिकया भस्म गृह्णीयात् प्रसद्येति चतसृभिराग्नेयीभिर्ऋग्भिरिति सूत्रार्थः । द्वे पृथिवीमपश्च अनुष्टुभो द्वे योनिभूताः मन्त्रार्थस्तु —हे भस्मरूप अग्ने, त्वं भस्मना भस्मरूपेण सह योनिं कारणभूतां एकीभूय भृशं ज्योतिष्मान् प्रसद्य प्रपद्य, प्राप्येत्यर्थः । प्रसन्नो भूत्वा वा मातृभिरद्भिः पृथिव्या । च संसृज्य तेजस्वी सम्पन्नः सन् पुनः स्वस्थानमुखाम् आसदः आसीद आगच्छ वा क्रियतेऽनयं वैन-अत्र ब्राह्मणम् -- ' अथापादत्ते । तद्यदत्राग्नेयं तदेतद्भूयोऽधि जनयत्यनयानया वै भेषजं पृथिवीं च भवत मेतत्सम्भरति प्रसद्य भस्मना योनिमपश्च पृथिवीमग्न इति प्रसन्नो होष भस्मना पुनरूर्जा योनिमपश्च सह रय्येत्येतेन मा सर्वेणाभि-स सृज्य मातृभिष्ट्वं ज्योतिष्मान् पुनरासद इत्येतत्पुनरासद्य सदनं विधाय प्रशंसति -- अथापादत्ते तद्यदत्रेति । निवर्तस्वेत्येतत् ' ( श ० ६।८२२६ ) । अद्भयः पुनरीषद्भस्मादातव्यमिति अद्र्य उत्पादितवान् अथ प्रक्षेपानन्तरम् अत्र प्रक्षिप्ते भस्मनि अन्योऽधीति पञ्चम्यर्थानुवादी । आग्नेयमंशम् इत्याह --- अनया वै भेषजं भवति । अनयेत्यपादानसाधना अनामिका निर्दिश्यते । अनयैवेति कोऽयं नियम योनिमय इति सामानाधिकरण्यं क्रियत इति । मन्त्रमाह-- प्रसद्येति । पूर्वार्ध प्रसद्येति पदस्य प्रसन्नार्थतया संगतिरर्थं इति व्याचष्टे - संगत्य विवक्षितमिति व्याचष्टे – प्रसन्नो ह्येष भस्मनेत्यादिना । स सृज्येत्यस्य तात्पर्यमाह - पुनरासद्येति प्रथमः, मातृभिरिति । उत्तरमन्त्रत्रयस्य व्याख्येयार्थत्वाभावात् प्रतीकमादाय संगृह्य मन्त्राः । पुनरूजेति द्वितीयः, सह रम्येति तृतीयः । इमे वा ० सं ० ( १२ । ३ ९ - ४१ ) ' चतुभिरपादत्ते । तद्ये चतुष्पादाः पशवस्तेरेवैनमेतत्सम्भरत्यथोऽन्नं वै पशवोऽन्नेनैवैनमेतत्सम्भरति मात्रा तावत्तद् भवति ' त्रिभिरभ्यवहरति तत्सप्त सप्तचितिकोऽग्निः सप्तर्तवः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य चतुभिरपादत्त इति । भस्मापादान-( श ० ६ | ८ | २ | ७ ) | उत्तरमन्त्रद्वयस्य पृथग्विनियोगशङ्का निराकरणायाह - तत्सप्तैत्यादिना । षट् मन्त्रगतां संख्यामभ्यवहरणमन्त्रगतया संख्यया समुच्चित्य प्रशंसति -- त्रिभिरभ्यवहरति

पृष्ठ 193

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 193 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३८-४० ] वेदार्थपारिजातभाष्यसहिता १५७ चितय इष्टकामय्यः प्रसिद्धाः । सप्तमी तु - विकर्णी च स्वयमातृष्णां चोपदधाति हिरण्यशकलैः प्रोक्षति, अग्निमभ्यादधाति सा सप्तमी चितिः ' ( श ० ८ | १ | ४१ ९ ) इति श्रुतत्वात् सप्त चितयः । सप्तचितिकोऽग्निः । ' अपादाय भस्मनः प्रत्येत्य । उखायामोप्योपतिष्ठत एतद्वा एतदयथायथं करोति यदग्निमपोऽभ्यवहरति तस्मा एवैतनि तेहि सा " ( श ० ६१८२८ ) । भस्मनः सकाशाद् अपादाय पुनरुखायामोप्य उपतिष्ठते । ' प्रास्योखायामुपतिष्ठते बोधा म इति ' ( का ० श्री ० १६ । ६ । ३० ) । उपस्थानमग्नेः कोपशान्तये । तस्य कः प्रसङ्ग इति तं दर्शयति- एतद्वा एतदयथायथं करोतीति । तदेव स्पष्टयति - यदग्निमपोऽभ्यवहरतीति । निह्नवः कृतस्यापराधस्याच्छादनम् । अध्यात्मपक्षे - हे अग्ने श्रीराम, भस्मना ज्ञानेन त्वं पृथिवीं पृथिवीसुतां सीतां योनि सुखस्थानभूताम् अपः प्राप्तरूपान् भ्रातॄंश्च सुखहेतुन प्रसद्य प्रपद्य मातृभिः कौशल्यादिभिः संसृज्य मिलित्वा ज्योतिष्मान् सूर्यवद् भ्राजमानः पुनरयोध्यांमासदः, आसीद आगच्छ वा । दयानन्दस्तु ' हे अग्ने, तद्वत्प्रकाशमान पुरुष सूर्य इव ज्योतिष्मान् त्वं भस्मना दग्धेन पृथिवीं चापश्च योनि प्रसद्य प्रगत्य भ्रातृभिः सह संसर्गीभूत्वा पुनरासदः ' इति, तदपि यत्किञ्चित् भस्मनेत्यस्य दग्धेनेति व्याख्यानासङ्गतेः । न च पुरुषो जीवः सूर्यवज्ज्योतिष्मान् भवति, तस्य नीरूपत्वात्, दयानन्दरीत्या अणुत्वाच्च, मातृभिरिति बहुवचनासङ्गतेश्च ॥ ३८ ॥

पुन॑रा॒सद्य॒ सव॑नम॒पश्च॑ पृथि॒वीम॑ग्ने ।

शेषे॑ मा॒तुर्यथोपस्ये॒ऽन्तर॑स्य शि॒वत॑मः ॥ ३ ९ ॥

मन्त्रार्थ हे अग्निदेव, अतिकल्याण रूप आप जल और पृथ्वी के स्थान को प्राप्त होकर फिर इस उखा के मध्य में उसी प्रकार शयन कीजिये, जैसे कि माता की गोद में बालक सोता है ॥ ३ ९ ॥ हे अग्ने, पुनरपि अपश्च पृथिवीं च जलभूमिरूपं सदनं स्थानमासाद्य प्राप्य पुनरप्यस्या मुखायामन्तर्मध्ये त्वं शेषे स्वपिषि । मातुरुपस्थ उत्सङ्गे यथा शिशुः शेते तद्वत् । कीदृशस्त्वम्? शिवतमः कल्याणतमः । अध्यात्मपक्षे – हे अग्ने श्रीराम, पुनः पृथिवीं भूमिसुतां प्राणरूपान् भ्रातुंश्च सदनं सुखस्थानभूतान् पुनरासद्य सम्प्राप्य शिवतमः कल्याणतमः सन् शेषे भक्तहृदयेष्विति शेषः । यथा मातुरुपस्थे शिशुः सुखं शेते तद्वत् । दयानन्दस्तु – हे अग्ने, यतस्त्वमपः पृथिवीं व सदनं गर्भस्थानं पुनरासद्यास्यां मातरि अन्तः अभ्यन्तरे शिवतमः सन् यथा बालो मातुरुपस्थे शेते तथा त्वमपि शेषे ' इति, तदपि तुच्छम् अग्निपदस्य तथार्थत्वे मानाभावात्, सदन इत्यस्य गर्भोऽर्थ इत्यत्र मानाभावाच्च ॥ ३ ९ ॥

पुन॑रुर्जा निर्वर्तस्व पुर्नरग्न इ॒षायु॑षा । पुर्वतः पाह्यहंस ॥ ४० ॥

मन्त्रार्थ - हे अग्निदेव, आप हमारे यहाँ क्षीर और रसों के साथ पधारिये, अन्न और आनन्दमय जीवन के साथ आप फिर आइये और आ कर हमारी सभी पापों से रक्षा कीजिये ॥ ४० ॥

पृष्ठ 194

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 194 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५८ शुक्लयजुर्वेदसंहिता [ अ ० १२ अग्ने, त्वम् ऊर्जा क्षीरादिरसेन सह पुनर्निवर्त स्वागच्छ इषान्नेनायुषा सह पुनरागच्छ । नोऽस्मान् कृतादंहसः पाहि पालय । इयमृग अस्मिन्नेवाध्याये नवमकण्डिकास्थले व्याख्याता ॥ ४० ॥

स॒ह र॒थ्या निव॑त॒स्वाग्ने॒ पिन्व॑स्व धारया । वि॒श्वप्न्या॑ वि॒श्वत॒स्परि॑ ॥ ४१ ॥

1 मन्त्रार्थ - हे अग्निदेव, आप धूम के साथ स्वर्ग में जाइये और सब प्रकार के उपभोग योग्य दृष्टि रूप जल की वर्षा से सम्पूर्ण जगत् को, तृणधान्य, लता - वृक्षों को आप्यायित कीजिये ॥ ४१ ॥

हे अग्ने, रय्या धनेन सह निवर्तस्व विश्वप्स्न्या विश्वैः सर्वेः प्सायते भक्ष्यते पीयत इति विश्वप्स्नी, तया तादृश्या धारया विश्वतस्परि सर्वेषामुपरि पिन्वस्व सि । इयमस्मिन्नेवाध्याये दशमकण्डिकायां व्याख्याता ॥ ४१ ॥

बोर्घा मे अ॒स्य वच॑सो यविष्ठ॒ महि॑ष्ठस्य॒ प्रभ॑तस्य स्वधावः ।

पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं॑ वन्दे अ॒ग्ने ॥ ४२ ॥

मन्त्रार्थ - हे धनवान् श्रेष्ठ युवारूप अग्निदेव, मेरी बार बार की गई इस प्रार्थना को सुनकर उसके अभिप्राय को जानिये । कोई आपको निन्दा न करे । स्तुति करना मनुष्य का स्वभाव है, स्तुति करने के स्वभाव वाला मैं आपके इस दिव्य शरीर को प्रणाम करता हूँ ॥ ४२ ॥

' प्रास्योखायामुपतिष्ठते बोधा म इति ' ( का ० श्री ० १६ | ६ | ३० ) । तडागादागत्य अनामिकया गृहीतं भस्म तूष्णीमुखायां प्रास्य बोधा म इति द्वचेनोख्याग्निमुपतिष्ठत इति सूत्रार्थः । दीर्घतमोदृष्टा आग्नेयी त्रिष्टुप् । हे स्वधावः स्वधा प्रशस्तमन्नमस्यास्तीति स्वधावान्, तत्सम्बुद्धी हे स्वधावः हे प्रशस्तान्नवन् । ' मतुवसोरु सम्बुद्धी छन्दसि ' ( पा ० सू ० ८ ३ ० १ ) इति रुत्वम् । ' स्वधेत्यन्ननामसु पठितम् ' ( निघ ० २ ७ १७ ) । हे यविष्ठ युवतम अग्ने, मे मम वचसो बोध बुध्यस्व अभिप्रायमिति शेषः । यद्वा कर्मणि षष्ठी, मद्वचनं जानोहीत्यर्थः । कोदृशस्य वचसः? मंहिष्ठस्य अतिशयेन बहु मंहिष्ठं तस्य भूयिष्ठस्य अतिशयेन अभिवृद्धिहेतोर्वा । पुनः कीदृशस्य? प्रभृतस्य प्रहृतस्य प्रकर्षेण श्रोत्रपथं प्रापितस्य अथवा प्रकृष्टेन आदरेण सम्पादितस्य । त्व एकः कश्चन पामरः । त्वशब्द एकशब्दपर्यायः सर्वादिः । पीयति आक्रोशति । पीयतिराक्रोशतिकर्मा । ' पीयति-हिंसाकर्मा ' इति यास्कः ( नि ० ४।२५ ) | अत्राक्रोशो निन्दैव हिंसा । त्व एकः स्तोता त्वामनुगृणाति स्तौति । कश्चिद् वेदज्ञः स्तोति कश्चिन्मन्दो निन्दतीति लोकस्वभावः । अथवा त्व एकः स्तोता पीयति वृद्धमधिकं वक्ति । ' ओप्यायी वृद्धी ' इति भौवादिकस्य छान्दसं सम्प्रसारणं परस्मैपदं च । उचितोक्तिमुल्लङ्घय निन्दारूपेण प्रशंसारूपेण वा यत्किश्चिदुक्तितः, त्व एकः स्तोता अनुगृणाति + अनुकुलमुचितमेव वक्ति, अतोऽस्मदभिप्रायं बुध्यस्वेत्यग्निः प्रायते । वन्दारुः वन्दनशीलः अभिवादनपरोऽहं तु ते तब तन्वं शरीरं वन्दे स्तौमि नमामि च । ' वदि अभिवादनस्तुत्यो: ' इति भोवादिकस्य ' शृवन्द्योरारुः ' ( पा ० सू ० ३।२।१७३ ) इत्यारुप्रत्यये वन्दारुरूपसिद्धिः । ar हे स्वधावः! बह्वन्न युवतम, अस्य वचस एतदुपस्थान मन्त्ररूपं वचो बोध बुध्यस्व । वच एव विशेष्यते - मंहिष्ठस्येति । मंहिष्ठस्य अत्यन्त महनीयस्य प्रभृतस्य प्रकर्षेण सम्भृतस्य । सर्वत्र कर्मणि षष्ठी । लोके त्व एकः पीयति हिनस्ति तथा त्व एकोऽनुगृणाति

पृष्ठ 195

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 195 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४२-४३ ] वेदार्थपारिजात भाष्यसहिता १५ ९ स्तौति । तत्राहं वन्दारुः वन्दनशील:, अतो हे अग्ने, ते तन्वं शरीरं वन्दे स्तौमि ' बोधा में ' इति दीर्घ छान्दसः, ' द्वघचोऽतस्तिङः: ' ( पा ० सू ० ६ । ३ । १३५ ) इति सूत्रेणेति यावत् । तत्र ब्राह्मणम् - ' बोधा मे अस्य वचसो यविष्ठेति । बोध मेऽस्य वचसो यविष्ठेत्येतन्म १७ हिष्ठस्य प्रभृतस्य स्वधाव इति भूमिष्ठस्य प्रभृतस्य स्वधाव दृत्येतत् पीयति त्वो अनु त्वो गृणातीति पीयत्येको न्वेको गृणाति arry तन्वं वन्दे अग्न इति वन्दिता तेऽहं तन्वं वन्देऽग्न इत्येतत् स बोधि सूरिमंधवा वसुपते वसुदावन... ' ( श ० ६ ८२१ ९ ) इति । प्रसन्नेयं कण्डिका । अध्यात्मपक्षे - हे अग्ने देवानामग्रणीः, हे स्वधावः बहुप्रशस्तान्न, हे यविष्ठ अतिशयेन युवेति यविष्ठः तत्सम्बुद्धौ । मे मम अस्य स्तुतिलक्षणस्य लौकिकवैदिक मन्त्रस्य मंहिष्टस्य महनीयतमस्य प्रभृतस्य प्रकर्षेण हृतस्य श्रोत्रैर्धृतस्य तात्पर्यं तादृग् वच एव वा बोध अवधारय । त्व एकः कश्चन पामरो नास्तिकः पीयत आक्रोशति । त्व एको भक्त आस्तिकः, अनुगृणाति स्तौति, वन्दारुरहं तु केवलं ते तन्वं सच्चिदानन्दमयं दिव्यशरीरं वन्दे । दयानन्दस्तु - ' हे यविष्ठ प्रशस्त बह्वन श्रोतृजन, त्वं मम प्रभृतस्य धारकस्य पोषकस्य मंहिष्ठस्य अतिशयेन भाषितुं योग्यस्य वचसोऽभिप्रायं बोध बुद्धयस्व । त्वः कश्चिन्निन्दकः पुरुषः पीयति निन्देत् त्वः कश्चिन्निन्दकः, अनु पश्चाद् गृणाति स्तुयात् तस्य ते तद तन्वं शरीरमभिवादनशीलोऽहं वन्दे स्तुवे ' इति, तत्तुच्छम् श्रोतृजनेति सम्बोधनस्य निर्मूलत्वादमङ्गतेश्च उपदेशकः श्रोतृजनस्य शरीरं वन्देतेत्यस्य कथं

सङ्गतिरित्यनुक्तेः । निन्दास्तुत्योश्च सङ्गतिर्वक्तव्या ॥ ४२ ॥

2 स बॊध सुरम॒घवा॒ वसु॑पते॒ वसु॒दावन् । युयोध्यस्मद् द्वेषसि वि॒श्वक॑र्म॑ण॒ AAJ 1 स्वाहा॑ ॥ ४३ ॥

मन्त्रार्थ - हे धनपति, धन के वाता अग्निदेव! आप सबके अभिप्राय को जानने वाले हो, धन से सम्पन्न हो । आप हमारे ऊपर सन्तुष्ट होकर हमारे दुर्भाग्य को दूर करें । आप जगत् की सृष्टि, स्थिति आदि करने वाले हैं । आपके निमित्त अग्नि में दी गई यह आहुति भली प्रकार गृहीत हो ॥ ४३ ॥

सोमाहुतिष्टाग्नेय यजुरन्ता गायत्री । विश्वकर्मणे स्वाहेति यजुः । हे वसुपते धनपते धनरक्षक, हे वसुदावन् वसूनि ददातीति वसुदावा, तत्सम्बुद्धौ हे वसुदावन् धनदातः । ' आतो मनिन्क्वनिप्वनिपश्च ' ( पा ० सू ० ३/२/७४ ) इति क्वनिप् । यस्त्वं सूरिः पण्डितः, मघवा मघं धनमस्यास्तीति मघवा धनवांश्च स बोधि अस्मत्तात्पर्यं बुद्धघस्त्र | बोधतेः शपि लुप्ते लोटि मध्यमैकवचने ' हुझलभ्यो हेधि: ' ( पा ० सू ० . ६ | ४ | १०१ ) इति ध्यादेशे छान्दसे गुणेऽन्त्यलोपे च बोधीति रूपम् । तात्पर्यं बुद्ध्वा सुप्रीतः सन् अस्मतो द्वेषांसि दौर्भाग्यानि शत्रुभिः कृतान् द्वेषान् वा द्वेष्यान् पाप्मनो वा युयोधि पृथक् कुरु । यौतेः शपः श्ली लोटि मध्यमैकवचने ' वा छन्दसि ' ( पा ० सू ० ३।४।८८ ) इति हेरपित्वे ' अङितश्च ' ( पा ० सू ० ६ । ४ । १०३ ) इति ध्यादेशे युयोधीति रूपम् । प्रायश्चित्ति समिधोपहत्याज्यं विश्वकर्मण इति जुहोति ' ( का ० श्र ० १६ | ७ | १ ) । स्रुवस्थानापन्नया समिधा आज्यं गृहीत्वोखयेऽग्नौ जुहुयात् । एतस्य कर्मणः प्रायश्चित्तिरिति संज्ञा । उपपूर्वो हन्तिर्ग्रहणार्थः । विश्वकर्मणे जगत्सृष्टिस्थित्यादिकर्मकर्त्रे स्वाहा सुहुतमस्तु ।

पृष्ठ 196

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 196 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६० शुक्लयजुर्वेद संहिता [ अ ० १२ अत्र ब्राह्मणम् -'स बोधि सूरिमंघवा वसुपते वसुदावन्ं । युयोध्यस्मद् द्वेषा सीति यथैवास्माद् द्वेष यादेवमेतदाह द्वाभ्यामुपतिष्ठते गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः ' ( श ० ६ ८२ ९ ) । संग्रहेण तात्पर्यमाह - यथैवास्माद द्वेषांसि युयाद् एवमेतदाहेति । मन्त्रयोर्यद् गायत्रत्वं त्रिष्टुप्त्वं च नदुभयार्थवाद पूर्वोक्तमतिदिशति - तस्योक्तो बन्धुरिति । उखासन्तपन प्रस्तावे ' प्राणो गायत्र्यात्मा त्रिष्टुप् ' इत्युपक्रम्य ' अथो अग्नि गायत्रीन्द्रस्त्रिष्टुबैन्द्राग्नोऽग्निर्यावानग्निः ' ( श ० ६ | ६ | २ | ७ ) इत्यादिनोक्त इत्यर्थः । अध्यात्मपक्षे - हे अग्ने परमेश्वर श्रीराम, हे वसुदावन् आध्यात्मिकाधिभौतिकधनप्रद वसुपते सर्वधनाधि -पते स त्वं सूरिविद्वान् मघवान् धनवांश्च अस्मद् अस्मत्तः सकाशाद् द्वेषांसि पाप्मनो युयोधि अपगमय । तस्मै विश्वकर्मणे विश्वोत्पत्तिस्थितिलयादिकर्मकत्रे स्वाहा सर्वं सुहुतमस्तु । दयानन्दस्तु - हे वसुपते वसुदावन्, यो मघवा सूरिर्भवान् स त्वं सत्यं बोधि बुद्धयेत । स विश्वकर्मणेऽखिल-शुभकर्मानुष्ठानाय स्वाहा सत्यां वाणीमुपदिशन् संस्त्वम् अस्मद् द्वेषांसि द्वेषमूलानि कर्माणि युयोधि वियोजय ' इति, तदपि न सङ्गतम्, विश्वकर्मणेऽखिलशुभकर्मानुष्ठानायेत्यसङ्गतेः, विश्वकर्मेत्यस्य विश्वकर्मानुष्ठानार्थतानुपपत्तेः । सत्यपदाध्याहारोऽपि निर्मूल एव । स्वाहेत्यस्य सत्यवाणीमुपदिशन्नित्यपि निर्मूलोऽर्थः ॥ ४३ ॥

पुनस्त्वादित्या रुद्रा वसवः समि॑न्धतां पुनर्ब्रह्मार्णो वसुनीथ यज्ञैः ।

घतेन त्वं तत्व वर्धयस्व सत्याः संन्त यज॑मानस्य कामः ॥ ४४ ॥

मन्त्रार्थ - हे अग्निदेव, हम धन के निमित्त आपकी स्तुति करते हैं । हे देव आदित्यगण, रुदगण और आपको पुनः प्रदीप्त करें । हे धननेता ऋत्विक् और यजमान यज्ञ करके आपको प्रदीप्त करें । आप घृत के द्वारा वसुगण शरीर को बढ़ावें । आपके वृद्धि को प्राप्त होने से यजमान का मनोरथ सफल हो ॥ ४४ ॥ अपने

' उत्थायादधाति समिधं पुनस्त्वेति ' ( का ० श्री ० १६ | ७ | २ ) । आज्यहोमानन्तरमुत्थाय मुख्येऽग्नावादध्यादिति सूत्रार्थः । आग्नेयो त्रिष्टुप् । आद्यपादश्चतुर्दशार्णः, द्वितीयचतुर्थी एकादशाण तामेव समिध-दशार्णस्तेन द्वधिका । हे अग्ने, त्वा उपशान्तं त्वाम् आदित्या रुद्रा वसवश्च पुनः समिन्धतां, तृतीयो हे वसुनीथ, वसूनां धनानां नीथो नेता वसुनीथस्तत्सम्बुद्धौ । यद्वा वसुप्राप्त्यर्थं नोथा स्तुतिर्यस्यासो दीपयन्तु । वसुनीथस्तत्सम्बुद्धौ । ब्रह्माणो ब्राह्मणा ऋत्विग्यजमाना:, यज्ञैर्निमित्तभूर्तस्वां पुनः समिन्धताम् । त्वं सन् तन्वं तनूं शरीरं वर्धयस्य । ततस्त्वयि तुष्टे सति यजमानस्य कामाः कामना अभिलषणीयवस्तुविषयाः घृतेन तुष्टः सत्याः सफलाः सन्तु । , अध्यात्मपक्षे - हे अग्ने परमेश्वर श्रीराम, निर्गुणस्य निराकारस्य शरीरित्वायोगाद् देवास्त्वां पुनः समिन्धन्तु स्तुत्वा दीपयन्तु उत्साहयन्तु, रावणादिवधायेति शेषः । आदित्यादयो प्रापयितः, ब्रह्माण ऋत्विजो यज्ञः साधनैस्त्वा पुनः समिन्धताम् आप्याययन्तु । त्वं च स्वशरीरं हे वसुनीथ! वसूनां नेतः तदुपलक्षितेनास्मद्दत्तेन हविषा वर्धयस्व स्वकीयं दिव्यं स्वरूपं भक्तानां हृदयेष्वाविर्भावय । तथा ध्यानधिष्ण्यं घृतेन भवदाराधनतत्परस्य कामा ज्ञानवैराग्यमोक्षसम्बन्धिनोऽभिलाषा. सत्या अवितथाः सफलाः सन्तु । सति यजमानस्य दयानन्दस्तु - ' हे वसुनीथ, त्वं वसु वेदादिशास्त्रबोधाख्यं सुवर्णादिधनं च यो नयति तत्सम्बुद्धौ अध्यापक: श्रोता वा यज्ञैरध्ययनाध्यापनादिक्रियामयैर्घतेन सुसंस्कृताज्यादिना जलेन वा तन्वं शरीरं वर्धयस्व । त्वम् ।

पृष्ठ 197

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 197 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४४-४५ ] वेदार्थपारिजातभाष्यसहिता १६१ आदित्याः पूर्णविद्याबलयुक्ता रुद्रा वसवः प्रथमे विद्वांसो ब्रह्माणश्च चतुर्वेदाध्ययनेन ब्रह्मेति संज्ञां प्राप्ताः प्रकाशयन्तु । एवमनुष्ठानाद् यजमानस्य यष्टुं संगन्तुं विदुषः पूजयितुं वा शीलं यस्य तस्य कामाः सत्याः सत्सु साधवः सत्याः सन्तु ' इति, तदपि यत्किञ्चित्, अध्ययनाध्यापनयोः शरीरसंवर्धन साधनत्वासम्भवात् तादृक् सम्बोधनस्य निर्मलत्वात्, आदित्यादिशब्दानां तथोक्तार्थत्वायोगाच्च ॥ ४४ ॥

अपे॑त॒ वीत॒ वि च॑ सर्पतातो ये स्थ पु॑राणा ये च॒ नूत॑नाः । अदीयमोऽवसानं पृथि॒व्या -अक्रत्रिमं पितरौ लोकमंस्मै ॥ ४५ ॥

मन्त्रार्थ - हे यमराज के भृत्यगण, तुम लोगों के यहां जो पुराने और नये स्थान हैं, उनको छोड़कर दूर चले जाओ, बहुत दूर चले जाओ । यम ने पृथ्वी का यह स्थान यजमान के लिये दिया है, पितरों ने इस लोक को हमारे यजमान के निमित्त कल्पित किया है ॥ ४५ ॥

अथ गार्हपत्यचयनमुच्यते । ' पलाशशाखया गार्हपत्यं व्युद्वहत्यपेत वीतेति पुच्छः प्रतिदिशं पुरस्तात् प्रथमम् ' ( का ० श्र ० १७ १ ३ ) | पलाशशाखया गार्हपत्यस्थानव्यूह्नम् ( सम्मार्जनम् ) कुर्याद् अपेत वीतेति ऋचः पुच्छः पद: प्रतिदिशमादौ प्राच्यामपेत वीतेति, दक्षिणस्यां येऽत्रस्थेति प्रतीच्यामदादिति उत्तरस्यामक्रन्नित्यादि --मन्त्रैरिति सूत्रार्थः । अत्र भविष्यवृत्त्या गार्हपत्यशब्देन शालाद्वार्यं उच्यते । तदर्था चितिः कर्तव्या । चितेः स्थानमपि गार्हपत्यशब्देनोच्यते । अहेरत्र प्रेरणार्थे वृत्तिः । तत्र स्थाने पतितस्य तृणादेः स्थानाद्वहिः क्षेपणमेव व्यूहनम् । लिङ्गोक्तबहुदेवत्या त्रिष्टुप् । अर्धर्चेन तत्स्थानसर्पिण उच्यन्ते । पादेन यमः । पादेन पितरः । यमस्य सर्वभूम्यधिपतित्वात् तद्भृत्याः सर्वत्रैव चरन्तीति तान् प्रत्युच्यते - है यमभृत्याः अत्र देवयजन-स्थाने ये पुराणाः पुरातना यूयं स्थ भवथ ये च नूतना इदानीन्तनास्ते सर्वे यूयमतः स्थानाद् अपेत अपगच्छत । वीत अत्यन्तं विदुरं गच्छत । विसर्पत अतः, अतः स्थानाद् अपेत्य सङ्घातं परित्यज्य विविधं गच्छत । कस्मादिति चेत्? यमः पृथिव्या इदमवसानम्, अवस्यति स्थापयत्यस्मिन्नित्यवसानं स्थानम्, अस्मै यजमानाय अदात् । पितरश्चास्मै यजमानाय इमं लोकमक्रन् यजनस्थानं कृतवन्तः । अतोऽपगच्छतेति । करोतेर्लङि शपि लुप्ते अक्रन्निति रूपम् । यद्वा हे यज्ञविरोधिनो जनाः, यूयमपेत अपगच्छत । अपगमनसमयेऽपि वीत विविधं गच्छत, न समूहरूपेणेत्यर्थः । अपगमनविगमनयोः समुचयोऽत्राभिप्रेतः । ये तु प्राणिन उदरेणैव सर्पन्ति गच्छन्ति तान् सरीसृपान् प्रत्युच्यते - हे उदरेणैव सर्पणशीलाः पन्नगाः, अतोऽग्निचयनस्थानाद विसर्पत विविधं गच्छत । ये पुराणा अतीतकाले भवाः सनातना इत्यर्थः । ये च नूतना अधुनातना वर्तमानकाले भवाः, ते सर्वे यूयमपेतेति । पितरः पितृदेवाः, अस्मै यजमानाय अग्निचयनार्थमिमं लोकमक्रन् अकृषत । अत्र ब्राह्मणम् – ' गार्हपत्यं चेष्यन् पलाशशाखया व्युहति । अवस्यति हैतद्यद् गार्हपत्यं चिनोति य उ के चाग्निचितोऽस्यामेव तेऽवसितास्तद्यद् व्युहत्यवसितानेव तद् व्युहति नेदवसितानध्यवस्यानीति ' ( श ० ७ | १ | १ | १ ) । ' अग्नि चिनुते ' ( तै ० सं ० ५।५।२१३ ) इत्यारभ्य विहितस्य अग्निचयनस्य ' अथातोऽग्नि-मग्निष्टोमेनानुयजति ' ( मी ० सू ० २।३।१० इत्यादिवाक्येन सोमयागशेषत्वावगमात् साग्निकस्य सम्बन्धिनां गार्हपत्यादिधिष्ण्यानां सर्वेषामेव चयनं कार्यम्, संस्कार्यत्वात् । तत्र धिष्ण्येषु गार्हपत्याख्यस्य धिष्ण्यस्य प्राथम्यात् तत्र प्रथमं चयनं विधित्सुस्ततः प्राच्यान् भूसंस्कारान् विधास्यन् तत्स्थानस्य समन्त्रकं व्युहनं विधत्ते - गार्हपत्यं चेष्यन्निति । गृहपतिना संयुक्तोऽग्निर्गार्हपत्यः, ' गृहपतिना संयुक्ते व्य: ' ( पा ० सू ० ४ | ४ | १० ) इति २१

पृष्ठ 198

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 198 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६२ शुक्लयजुर्वेदसंहिता [ अ ० १२ संस्कर्तकत्व-पाणिनिस्मृतेः । इह तु तस्याग्नेराधारभृतो गृहप्रदेशो विवक्षितः, आधाराधेययोरभेदोपचारात् संस्कर्तव्यम् | संस्कारश्चात्र प्रतिपत्तये । अर्थाद् यस्मादेतत् स्थानं गार्हपत्यस्याग्नेरधिकरणम्, । अतश्चयनेन इष्यन्नित्यत्र हेतौ शता । ' लक्षणहेत्वोः प्राधान्यवाचिन्या द्वितीयया ' व्रीहीन प्रोक्षति ' इत्यादाविव बोध्यते स्थानं पलाशवृक्षशाखया ' अपेत ' क्रियाया: ' ( पा ० सू ० ३।२।१२६ ) । यतोऽत्र चयनं कर्तव्यमतो हेतोरेतत् इति सायणाचार्यः । ( वा ० सं ० १२२४५ ) इति मन्त्रेण व्युहति 1 तत्र पतितं लोम्टतृणादिकमपसारयतीत्यर्थं संस्कर्तव्यम् एतद् एतेन व्युहन घ्युद्वहनस्य प्रयोजनमाह — अवस्यति हैतदिति । गार्हपत्यस्य यत्स्थानं चयनेन । तथा च ये केचिद् अवस्यति ह निश्चिनोत्येव । यद्वा गार्हपत्यस्य यच्चयनं तदेव देवयजनाध्यवसानम् अवसानं प्राप्तास्तव प्रवर्तन्ते । अग्निचितोऽग्नि चिन्वन्तो यजमानाः तेऽस्यामेव पृथिव्यामेव तत् अवसिता तेन अवसितानेव तत्र स्थितान् प्राक्तनान् तत् तथा सति पलाशशाखया चयनस्थानं व्युदृहतीति यत् - नेदिति । अग्निचयनमनुष्ठाय यजमानान् व्युदूहति विविधं निरस्यति । व्युहनं कुर्वतो यजमानस्याभिप्रायमाह नैव करवाणीत्यनेनाभिप्रायेण तत्रैवावसितान् यजमानानत्रैव नेदध्यवस्यानि, तेषामुपर्यध्यवसानमवस्थानं व्युहन मित्यर्थः । ' अपेत वीत विच सर्पतात इति । अप चैवेत वि चेत त्र्यु च सर्पतात इत्येतद्य उदरसर्पिणस्तानेतदाह ' ( श ० ७ १ १ २ ) । तत्र व्युहने ये s स्थ पुराणा ये च नूतना इति येऽत्र स्थ सनातना ये चाधुनातना - अप इत्येतत् चैवैत वि चेतेति । हे यज्ञविरोधिनो मन्त्रं विधत्ते - अपेति । अपेत वीतेति वाक्यद्वयस्यार्थमाह वीत विविधं गच्छत । अपगमनविगमनयोः जनाः, अस्मात् स्थानाद् अपेत अपगच्छत । अपगमनसमयेऽपि चकारद्वयप्रयोगः । वि च सर्पतात इत्येतदनूद्य व्याचष्टे - व्यु चेति । द्वितीयपादमनूद्य समुच्चयबोधनाय ' पा ० मृ ० ४।३।२३ ) व्याचष्टे - ये ss स्थेति । पुराणाः पुरा अतीतकाले भवाः । ' सायंचिरंप्रागेऽव्ययेभ्यः ) इति निर्देशात् तुडभावः । तथा च सनातना इति पुराशब्दात् प्रत्यः । ' पुराणप्रोक्तेषु ' ( पा ० सू ० ४ | ३ | १०५ एवास्मा अस्यामवसानं ददाति ' इत्यर्थः । ' अदाद्यमोऽवसानं पृथिव्या इति । यमो ह वा अस्या अवसानस्पेस अबस्यत्यस्मिन्नित्यवसानं स्थानं ( श ० ७ । १ । १ । ३ ) । तृतीयपादमनूद्य व्याचष्टे - अदाद्यम इति । अवसानम् वेत्यादि । अस्याः पृथिव्याः सम्बन्धिनः पृथिव्याः सम्बन्धि यत् तद् यमोऽस्मभ्यम् अदाद् दत्तवान् । यमो ह अवसानं स्थानं ददाति । स्थानस्य यमः खलु ईने । अतः स एवास्मै यजमानाय अस्याः पृथिव्या संविदानोऽ-' अक्रमं पितरो लोकमस्मा इति । क्षत्रं वै यमो विशः पितरो यस्मा उ नै क्षत्रियो विशा ददाति ' स्यामवसानं ददाति तत्सुदत्तं तथो हास्मै क्षत्रं यमो विशा पितृभिः संविदानोऽस्यामवसानं व्याचप्रे - अक्रनिति । पितरः पितृदेवताः, अस्मै यजमानाय ( श ० ७ । १ । १ । ४ ) । चतुर्थपादमनूद्य यमः पितरस्तु तस्य विशः अग्निचयनार्थमिमं लोकं स्थानम्, अक्रन् अकृषत । क्षत्रं त्रेत्यादि । क्षत्रियजातिहि श्रुतिः । यस्मा उ वेति । लोके क्षत्रियो प्रजाः । यमः पितृणा, राजा ' ( तै ० सं ० ४ | १ | ८ | ४ ) इति हि पृथिव्यां यस्मै पुरुषाय स्थानं. राजा विशा स्वकीयया प्रजया संविदानः सञ्जानान ऐकमत्यं प्राप्तः सन् अस्यां क्षत्रियो यमोऽपि पितृरूपया ददाति तस्य तत् सुदत्तं भवति । यथायं दृष्टान्तस्तथैव खत्वस्मै यजमानाय क्षत्रं तत् सुदत्तमेव भवति । स्वकीयया प्रजया विशा संविदानः सन् अस्यां पृथिव्यामवसानं स्थानं ददाति मन्त्रेण ब्रह्म वे मन्त्रो ब्रह्मणैव ' पलाशशाखया व्युहति । ब्रह्मवै पलाशो ब्रह्मणैव तदवसितान् व्युहति पलाशशाखायाः करणत्वं यद्विहितं तदवसितान् व्युहति तामुदीचीमुदस्यति ' ( श ० ७ १ १ ५ ) । व्युहने तत्पर्णस्य तदनूद्यस्तौति - पलाश शाखयेति । ब्रह्म ब्राहृणजातिः पलाशः । यद्वा गायत्र्या सोमाहरणात्

पृष्ठ 199

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 199 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भ ० ४५-४६ ] वेदार्थ पारिजातभाष्यसहिता १६३ पलाशरूपेणोत्पत्तेः पलाशो गायत्र्यात्मकः । तेन गायत्रीमन्त्रात्मकेन ब्रह्मणा पलाशेन तत् तत्र अवसितान् अवसाय स्थितान् जनान् अस्मात् स्थानाद् व्युद्वहति उच्चाटयति । मन्त्रकरणकत्वमनूद्य स्तौति – मन्त्रेणेति । ब्रह्म वेति । यद् ब्रह्म विवक्ति हि मन्त्रः । तथा च मन्त्रेण क्रियमाणं व्युहनं ब्रह्मणैव कृतं भवतीत्यर्थः । तस्याः पलाशशाखाया निरसनं विधत्ते --तामुदी वीमिति । उदीचीमुदगग्राम् उदीचीं दिशं वा प्रति तां पलाशशाखामुदस्यति उत्क्षिपति, परित्यजतीत्यर्थः । अध्यात्मपक्षे ये जपध्यानादिविघ्नकर्तारस्तानपसार्येव ध्यायिनो ध्याने निषीदन्ति । यथा च हे विघ्नकर्तारो भौमान्तरिक्षदिव्याः, यूयम् अपेत अपगच्छत । वीत विविधं गच्छत । ये च सरीसृपाः पन्नगादयस्तेऽपि सर्पतातः, अलोऽस्मात् स्थानात् सर्पत अपसृप्ता भवन्तु । ये पुराणाः पुरातनाः, ये च नूतना अधुनातनाः, सर्वेऽप्यपगच्छत । यमः, यच्छति सर्वं नियमयतीति यमः अन्तर्यामी परमेश्वरः अस्मभ्यं पृथिव्या अवसानम्, अवस्यन्ति निश्चिन्वन्त्यस्मिन् स्थान इत्यवसानं ध्यानस्थानम्, तद् अदात् । पितरश्च पूर्वजाश्च इमं लोकं स्थानमस्मै ध्यायिने कृतवन्तः । . दयानन्दस्तु हे विद्वांसः, येन पृथिव्या मध्ये पुराणा ये च नूतनाः पितरो जनका अध्यापका उपदेशकाः परोक्षका वा स्थ ते अस्मै सत्यसङ्कल्पाय इमं लोकं आषं दर्शनम् अक्रन् कुर्वन्तु यान् युष्मान् यम उपरतः परीक्षकोऽवसानमवकाशमवसरं वा अदाद् दद्यात्, ते यूयमतोऽधर्मादपेत धर्मं वीत विविधतया प्राप्नुत । अत्रैव विसर्पतात गच्छत ' इति, तदपि यत्किञ्चित् पितर इत्यस्याध्यापकाद्यर्थकत्वे मानाभावात्, अस्मै सत्यसङ्कल्पा-येत्यस्य निर्मूलत्वात् । यम इत्यस्य संस्कृते उपरतः परीक्षक इत्यर्थः कृतः, भाषाभाष्ये तु प्राप्तपरीक्षक इति । नहि यमशब्दस्य उपरतार्थता प्राप्तार्थता वा प्रमाणसिद्धा । न चोपरतः प्राप्तो वा अवकाशमधिकारं वा ददाति । अवसानपदस्य अवकाशार्थतापि स्वकपोलकल्पितैव । लोकपदस्य वैदिकज्ञानसिद्धलोकार्थतापि प्रमाणसापेक्षैव ॥ ४५ ॥

संज्ञानमसि कामथरणं मयि ते कामधरणं भूयात् । अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑ष॒मसि॒ चित॑ः स्थ परि॒चितं ऊर्ध्वचित॑ः श्रयध्वम् ॥ ४६ ॥।

मन्त्रार्थ - हे उखास्वरूप देवता, तुम पशुओं के सम्यक् ज्ञान के साधन हो तथा यज्ञ द्वारा सभी मनोरथों को पूरा करने वाले हो । इस कारण हमारी प्रार्थना है कि तुम्हारी मनोरथ सम्पादन को सामर्थ्य हमारे यजमान में आ जाय । हे सिकता, तुम अग्नि की भस्म हो, अग्नि का पूरण करने वाली हो । हे सिकता के कणों, तुम भूमि पर डालने पर सब ओर फैल जाओ । ऊर्ध्व स्थान में स्थापित तुम इस गार्हपत्य स्थान का सेवन करो ॥ ४६ ॥

' उदीची ७ शाखामुदस्योखां निवपति संज्ञानमिति ' ( का ० श्र ० १७ ११४ ) । यया पलाशशाखया गुदूहनं कृतम् तां शाखामुदगग्रां क्षिप्त्वा गार्हपत्यचितिस्थाने ऊषरप्रदेशस्थान् पांसून निवपेत् संज्ञानमिति मन्त्रेणेति सूत्रार्थः । ऊषाः क्षारमृत्तिकाः । ऊषदेवत्यं यजुः । हे ऊषस्वरूप देव, त्वं संज्ञानमसि पशूनां सम्यग् ज्ञानसाधनमसि । पशवो हि ऊषरप्रदेशमाघ्राणेन ज्ञात्वा लिहन्ति । त्वं कामधरणमसि, कामा मनोरथा यिनेनेति कामधरणम्, यज्ञद्वारा कामानां धारकमसि, ' यदमुष्या यज्ञियमासीत् तदस्यामदधात् । त

पृष्ठ 200

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 200 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६४ शुक्लयजुर्वेद संहिता [ म ० १२ मस्ति, तन्मयि भूयात् । ऊषा अभवन् ' ( तै ० ब्रा ० १ १ ३ २ ) इति श्रुत्यन्तरात् । ते तव यत्कामधरण पशुरूपं सामर्थ्य कामा प्रियन्तेऽनेन गोरूपत्वेन यद्वा ते तव कामधरणं पशवः, मयि भूयाद् नूयासुः । यतस्त्वं कामधरणं कामस्य धरणं प्रतिपाद्यते । यतस्त्वं स्तुतेनोषरूपेणेति व्युत्पत्त्या मन्त्रगतकामधरणशब्देन पशुविषयकस्य मयि भूयात्, ते तब सम्बन्धिनः पशवो मयि कामधरणमसि, अतस्ते तव सम्बन्धि पशु रूपं कामधरणं कामापणं भूयासुरित्यर्थः तथैव श्रुत्या व्याख्यास्यमानत्वात् ॥ अत्रोव्वटाचार्याः -- उल्बसंस्तवः पशुसंस्तवश्च । संज्ञानमसोत्यादीनि समेव त्रीणि जानते यजूंषि ' । ( समित्येकीभावमाचष्टे श ० ७ | १ | ११७ ) इति यत एकं ज्ञानमसि, उल्बसंस्तवात् । ' तस्मादप्येतहिं समानोल्बाः वा ऊषाः पशवः कामधरणम् ' हि तत्र श्रुतिः । कामधरणं च कामान् धारयति सम्पादयति कामधरणम्, ' पशवो । ' मयि ते पशवो भूयासुः ' ( श ० ७ | १ | १ | ८ ) इति श्रुतेः । अतो मयि ते कामधरणं श्रूयात् । उल्बाभिप्रायमेकवचनम् ( श ० ७१११११८ ) इति हि श्रुतिः । ऊषवन्मण्डलमाच्छादयेत् ' सिकताश्चाग्नेर्भस्मेत्यूषवत् ' ( का ० श्र ० १७ | १ | ६ ) । तत्र सिकताश्च प्रक्षिप्य यजुः । हे सिकता समूह, अग्नेर्भस्मासीति यजुषा सिकताभिरिति सूत्रार्थः । अग्नेर्भस्मासीति सिकतादेवत्यं सिकता भस्मेत्युक्ताः । अग्नेर्भस्मासि अग्नेर्भासकमसि । ' भस भर्त्सनदीप्त्योः ' भसितं भस्म । भस्मसादृश्यात् । अग्नेश्च ' न वा अग्निः स्वं भस्मातिदहति ' ( श ० ७ | १ | १ ९ ) इति हि श्रुतिः । भस्माभिप्रायमेकवचनम् ( ४।२७ ) इति ईषन्प्रत्यये, तस्य पुरीषम्, पूरयतीति पुरीषं पूरणमसि । पिपर्त्तेरोणादिके ' शुपृभ्यां इत्युदादेशे किच्च रपरत्वे ' च रूपसिद्धिः, ' अग्ने रेतद्वैश्वान-कित्त्वादगुणाभावे ' उदोष्ठ्यपूर्वस्य ' ( पा ० सू ० ७ | १ | १०२ ) पुरुषं पांसुरूपं पासीति हेतोः पुरीषमसि । रस्य तोयत्सिकताः ' ( श ०७ | १ | १ | १० ) इति श्रुतेः । त्वमग्नेरवस्थानाय १७ १७ ) | एकविंशति संख्याकाभिः ' परिश्रिद्भिः परिश्रयति पूर्ववदेकवि शत्या चितः स्थेति ' ( का ० श्री ० प्रदक्षिणं वेष्टयेत् । तत्र परिश्रिद्भिः पाषाणमयीभिरिष्टकाभिस्त्र्यङ्गुलविस्तृताभिः पूर्ववद् निम्नां ऊर्ध्वाभिर्गार्हपत्यस्थानं कृत्वा चितेरवष्टम्भनार्थं चितिसंलग्ना सकृन्मन्त्रप्रयोगः श्रुतेः । ताश्च मण्डलस्य समन्ततः परिखां चीयन्ते भूमी निक्षिप्यन्त इति चितः निखातव्याः । परिश्रिद्देवत्यं यजुः । हे परिश्रितः शर्कराः, यूयं चितः । ऊर्ध्वचित ऊर्ध्वं चीयन्त इत्यूर्ध्वचितः स्थ भूमौ प्रक्षिप्ता भवथ । परिचितः परितः सर्वतः स्थापिता भवथ गार्हपत्यायतनं सेवध्वम् । सिकतानामूध्वं प्रक्षिप्ता भवथ । ऊर्ध्वं स्थापिताः सत्यो यूयं श्रयध्वम् इदं ऊषा अस्मिस्तल्लोके अत्र ब्राह्मणम् – ' अथोषान्निवपति । अयं वै लोको गार्हपत्यः ' यद्वेवोषान्निवपति पशव । प्रजापतिः प्रजा पशून् दधाति तस्मादिमेऽस्मिल्लोके पशवः ' ( श ० ७ १ १ ६ ) । ताः समानोल्बा ता न ता नानोबा असृजत समजानत सोऽकामयत संजानीरन्निति असृजत समेव जानते देवैः समानोल्बोऽसानीत्यु वै अकरोत्तासामूषानुल्बमकरोत्ताः समजानत तस्मादप्येतर्हि समानोल्बाः ' ( श ० ७ १ १ ७ ) । सम्मार्जनानन्तरमूषाणां यजते यो यजते तद्यदुषान्निवपति देवैरेव तत्समानोल्बी भवति - अयं वै लोक. निवपनं विधत्ते --- अथोषानिति । क्षारमृत्तिका ऊषाः । पृथिव्याः । पशुसमृद्धिहेतुत्वेनैतत्प्रशंसति गार्हपत्यायतने ऊषाणां निवपनेन अस्मिल्लोके इति । ऊषरदेशस्य पशुभिरुपजीव्यत्वाद् ऊषाणां पशुत्वव्यपदेशः पशवोऽस्मिल्लोके स्थापिताः, तस्मादेव कारणाद् पशून् स्थापितवान् भवतीत्यर्थः । यस्मादूषाणां निवपनेन ऊषनिवपनं प्रकारान्तरेण स्तोतुमनुवदति-इदानीमपीमे गवाद्याः पशवोऽस्मिल्लोके समृद्धा उपलभ्यन्ते । - प्रजापतिः प्रजा इति । ता नानोल्या यद्वेवेति । ऊषाणामुल्बरूपत्वमाख्यायिकया प्रतिपादयन् संज्ञानहेतुतामाह ततो भिन्नजातीयत्वात् ताः प्रजाः परस्परं इति नानाविधं परस्परं विभिन्नमुल्ब गर्भवेष्टनं यासां तास्तथोक्ताः ।